गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
२१६ | चूडाकरणविधिः । | [ २ प्रपाठके- मन्त्रार्थस्तु-'स्वधिते !' हे(१)ताम्रक्षुर ! त्वम् 'एनं' कुमारं 'मा हिंसीः' न हिंसि- ष्यसि । भविष्यति माङि लुङ् ( पा० ३।३।१७५ ) "न माङ्योगे" ( पा०६।४। ७४ ) इत्यडभावः ॥ १५ ॥ निधाय च— “येन पूषा बृहस्पते”रिति त्रिः प्राञ्चम्प्रोहत्यप्र(वि)च्छिन्दन्त्स- कृद्यजुषा द्विस्तूष्णीम् ॥ १६ ॥ ( मं० ब्रा० १।६।७ ) त्रिः-वारत्रयम् । प्रोहति-प्रेरयति क्षुरम् । अप्रच्छिन्दन्-केशच्छेदमकू- र्वन् । क्वचिदविच्छिन्दन् इतिपाठः । अर्थतस्तौल्यमेव । तत्र प्रकारमाह-सकृदि- ति । यजुषा-“येने”त्युक्तेनैव । द्वि-र्द्विवारं, तूष्णीम्-अमन्त्रकमेव । यजुर्यथा- “येन पूषा बृहस्पतेर्वायोरिन्द्रस्य चावपत् । तेन ते वपामि ब्रह्मणा जीवात्वे जीवनाय दीर्घायुष्याय बलाय वर्चसे”॥७॥ इति । अस्यार्थः । हे कुमार ! 'येन' स्वधितिना 'पूषा' देवः 'बृहस्पतेर्वायो- रिन्द्रस्य च' कपुष्णिकाम् 'अवपत्' भद्रङ्कृतवान्(२) । 'तेन' स्वधितिना 'ते' तव कपुष्णिकाम । 'वपामि' भद्रङ्करोमि । किमर्थम् ? 'जीवातवे' एतदेव- विवृणोति 'जीवनाय' अस्यैवार्थः 'दीर्घायुष्याय बलाये'ति । 'वर्चसे' तेजोवृद्ध्य- र्थम् (३) । इति ॥ १६ ॥ अथायसेन प्रच्छिद्यानुडुहे गोमये निदधाति ॥ १७ ॥ अथेति-पूर्वप्रकृतार्थम् । यः पूर्वप्रकृतक्षुरपाणिर्नापितस्तदीयेनायसेन लौहमयेन क्षुरेण प्रच्छिद्य-प्रकर्षेण पिञ्जलीभिः सहैव दक्षिणां कपुष्णिकां ( जूटिकां ) छित्वा । आनडुहे-गोमये । पूर्वमग्नेरुत्तरतः समासादिते । निद- धाति-स्थापयेत् । मन्त्रानुपदेशादमन्त्रकमेव ॥ १७ ॥ एतयैवाऽऽवृता कपुच्छलम् ॥ १८ ॥ अतिदिशति-एतयैवेति । अनन्तरोक्तयैवाऽऽवृता-परिपाट्या (प्रक्रियया) कपुच्छलम् । “संस्कुर्यादि”ति शेषः । कपुच्छलन्तु शिरः पश्चाद्भागस्थाः केशा उक्त-( २।९।१२ ) वचनात् ॥ ( १ ) यद्यपि स्वधितिशब्दो वज्रपर्याये ( निघं० २।२०।१६ ) पठ्यते । लोके तु "द्वयोः कुठारः स्वधिति"रिति कुठारपर्यायेऽभिधाने ( अमरे ) न तु क्षुरे । तथापि ताम्र- क्षुरस्यैव स्वधिति सञ्ज्ञा शब्दार्णवे "औदुम्बरःक्षुरः प्रोक्तः स्वधितिरि" ॥ ( २ ) केशानच्छिन्दन् "क्षौरन्तु भद्राकरणम्मुण्डनं वपनं त्रिषु" इत्यमरः ॥ ( ३ ) तादर्थ्ये चतुर्थी ( पा० २।३।१३ वा० ) ।
के-शिरशि ( पश्चाद्भागे ) पुच्छवल्लम्बितो यः केशपाशः स कपुच्छल इत्याख्यायते ॥ १८ ॥ पुनरतिदिशति— एतयैवोत्तरां कपुष्णिकाम् ॥ १९ ॥ उत्तरशब्दोवामवचनः । वामामपि कपुष्णिकामेतयैव प्रक्रियया संस्कुर्या- दित्यर्थः ॥ १९ ॥ अत्रापि विशेषमाह— उन्दनप्रभृत्येवाऽभिनिर्वर्त्तयेत् ॥ २० ॥ प्राक्तनं सूत्रद्वयमनेन विशिष्यते । उन्दनप्रभृति-क्लेदनप्रभृत्येवावृतम् । अभि सर्वतोभावेन निर्वर्त्तयेत् । आवर्त्तयेत् । न पुनः सर्वाण्यावृदावर्त्तनीया । तस्मा—“दक्षिणेन पाणिनाऽप आदाय” इत्येवमादिकामावृतमावर्त्तयेन्न ततः पूर्वमपीत्यर्थः । तु शब्दोविशेषणार्थः । कथन्नाम? कपुच्छले संस्क्रियमाणे कुमारमुदङ्मुखं धारयेद्यथा प्राञ्चं प्रोहणादिकं कर्तुं शक्येतेति ॥ २० ॥ उभाभ्यां पाणिभ्यां मूर्द्धानं परिगृह्य जपेत् “त्र्यायुषमद्मग्नेरि-”ति २१ ( मं० ब्रा० १।६।८ ) मूर्द्धानं-मस्तकं, कुमारस्य । “मूर्द्धा ना मस्तकोऽस्त्रियाम्”-त्यमरः ॥ ऋड्वन्त्यत् । मन्त्रस्तु— “त्र्यायुषञ्जमदग्नेः कश्यपस्य त्र्यायुषमगस्त्यस्य त्र्यायुषम् । यद्देवानान्त्र्यायुषन्तत्ते अस्तु त्र्यायुषम्” ॥ ८ ॥ इति । अस्यार्थः-‘जमदग्ने’र्महर्षेर्ऋचीकपुत्रस्य कश्यपस्य ‘अगस्त्यस्य’ ‘देवानाम्’ इन्द्रादीनाञ्च ‘यत्त्र्यायुष्यम्’ त्रीण्यायूंषि समाहृतानीति समाहारद्वन्द्वे “अचतुरे” ( पा० ५।४।७७ ) त्यादिनाऽच्समासान्तः । बाल्ययुवावस्थाविरत्वानि । यद्वा “शतं वै पुरुषस्यायुरि-”ति श्रुतेः शतत्रयवर्षात्मकमायुः । ‘तत्’ त्र्यायुषम् । हेभद्रक ! ( कृतचूड ! ) ‘ते’ तव ‘अस्तु’ भवतु । इत्याशास्यते ॥ ८ ॥ इति ॥ २१ ॥ एतयैवाऽऽवृता स्त्रियास्तूष्णीम् ॥ २२ ॥ एतया-प्रकृतया । आवृता-प्रक्रिययास्त्रियाः कन्यकाया अपिसर्वे- ऽधस्तनोक्ताः संस्कारा भवन्ति । न पुनरानन्तर्याच्चूडाकरणाभिप्रायमेव । एव- कारेण व्याप्त्यवगमात् । “अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः” इति मनु- वचनाच्च । किन्त्वेतावान्विशेषोयदस्यास्तूष्णी(ममन्त्रक)मिति ॥ २२ ॥ अत्र प्रतिप्रसवमाह— मन्त्रेण तु होमः ॥ २३ ॥ तुशब्दः समुच्चये भिन्नक्रमश्च । तेन वृद्धिश्राद्धमपि समन्त्रकमेव भव- ३८ गो० गृ० सू
तीत्यर्थः ॥ २३ ॥ उदगग्नेरुत्सृप्य कुशलीकारयन्ति यथागोत्र-कुल-कल्पम् ॥ २४ ॥ अग्नेः । उदङ्-उत्तरतः । उत्सृप्य-गत्वा । कुशलीकारयन्ति-नापितेन मुण्डयन्ति । "कुमारमिति" शेषः । कर्त्तुरनियमः । कुशलभद्रशब्दयोः पर्या- येपाठात् कुशलीकरणं भद्राकरणमित्यनर्थान्तरम् । तथाचामरः "शौरन्तु भद्रा- करणं मुण्डनं वपनन्त्रिषु" इति । कथमित्यपेक्षायामाह-यथेति । गोत्रे यथा- "वासिष्ठाः पञ्चचूडाः स्युस्त्रिचूडाः कुण्डपायिनः" इत्यादि । कुले यथा-"भद्रा(१)- दित्यानां सूर्यायतनसन्निधौ" इति । कल्पे यथा-"सशिखं कौथुमादीनां वपनं समुदाहृतम्" इत्यादि । एवञ्च कौथुमवारायणादीनां समावर्त्तनात्प्राङ्मुण्डनं सशिखमेवेति । तथाच समावर्त्तनान्ते-"केशश्मश्रुलोमनखान्वापयतिशिखा वर्ज्जम्" ( ३।४।२४ ) इति सूत्रम् ॥ परिशिष्टमपि- "सशिखं वपनं कार्य्यमास्नानाद्ब्रह्मचारिणाम् । आशरीरविमोक्षाय ब्रह्मचर्य्यञ्च चेद्भवेत् ॥" इति भाष्यकृतः । आशरीरेति । नैष्ठिकब्रह्मचारिणां स्नानात्प्रागपि शिखाधर्त्तव्येत्यर्थः ॥ २४ ॥ आनडुहे गोमये केशान्कृत्वाऽरण्यं हृत्वा(२)निखनन्ति ॥२५॥ पूर्वमासादिते आनडुहे गोमये समस्तान्केशान्कृत्वा-निधाय । अरण्यं हृत्वा-नीत्वा तत्रैव निखनन्ति । बहुवचनादनियतः कर्त्ता ॥ २५ ॥ स्तम्बे हैके निदधति ॥ २६ ॥ हेत्यैतिह्यार्थोनिपातः । एके किलाचार्याः । व्रीह्यादिस्तम्बे(३) तान् केशान्निखनन्ति ॥ २६ ॥ यथार्थम् ॥ २७ ॥ तन्त्रसमापनङ्कर्त्तव्यमित्यर्थः । अपरे तु मन्यन्ते-यथार्थमिति-यस्य येनार्थः प्रयोजनं स तं कुर्यात् । इति । कथन्नाम ? त्र्यायुषमित्यादिना मूर्द्ध- परिग्रहे कृते उत्तरतोऽग्नेः कुशलीकारयन्ति । असावपि कर्मशेषं समापयेदिति चन्द्रकान्तः ॥ २६ ॥ गौर्दक्षिणा ॥ २८ ॥ इति श्रीमद्गोभिलीयगृह्यसूत्रे द्वि०प्र०स्य नवमी कण्डिका ॥३॥९॥ॐ॥ ( १ ) भद्रादित्या-मगादयः । भगाः शाकद्वीपिनः । एवमन्येऽपि ॥ ( २ ) अरण्यं ( ण्य ) गत्वा इति पाठान्तरम् ॥ ( ३ ) "अप्रकाण्डे स्तम्बगुल्माविति" ह्यमरः । प्रकाण्डस्त्वरोर्मूलस्कन्धयोरन्तरम् । तथाचामरः "अस्त्री प्रकाण्डं स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः" इति । "स्तम्वागु- च्छस्तृणादिनः" इति च ॥
९ कण्डिका ] गोभिलगृह्यसूत्रे- २१६ चूडाकरणकर्मणः ॥ २८ ॥ अत्र सूत्रकाराऽनुक्तोऽपि कर्णवेधः (पूर्वमकृत(१)श्चेत्) आवश्यक एवेति गार्हस्थ्यधर्मे कुण्डलधारणस्य मन्वाद्युक्तस्यान्यथाऽनुपपत्त्या कल्प्यते । तथाच मनुः- “वैणवीन्धारयेद्यष्टिं सोदकञ्च कमण्डलुम् । यज्ञोपवीतं वेदञ्च शुभे रौक्मे च कुण्डले ॥” इति । वेदम्-कुशमुष्टिम् । तदेतद्दीक्षाकाले। श्रुतिश्च-“दीक्षायां कुण्डली भवती-”ति । परन्तु-न संस्कारान्तर्गतः । तन्मध्येऽस्य(२)पाठाभावात् । क्रमस्तत्र पारस्करोक्त एव । “यन्नाम्नातं स्वशाखायाम्पारक्यमविरोधि चे”ति कातीयपरिभाषणात् ॥ अत्र यथोचितकालाकृता नामकरणादिसंस्कारा व्याहृतिहोमानन्तरंक्रमा- विरोधेनोपनयनात् पूर्वमनुष्ठेयाः । इति द्रष्टव्यम् । तथाच महाव्याहृतिहोमानां सर्वप्रायश्चित्तत्वमुक्त्वा-कात्यायनः- “संस्कारा अतिपद्येरन्स्वकालाच्चेत्कथञ्चन । हुत्वैतदेव कर्त्तव्या ये तूपनयनादधः ॥” इति । अत्रोपनयनादध इत्युक्तचोपनयनकालातिक्रमे नेदम्प्रायश्चित्तमपि तु व्रात्य- स्तोमादीत्यनुपदं व्यक्तीभविष्यति ॥ २८ ॥ इतिश्रीमद्गोभिलीयगृह्यसूत्रव्याख्यायां“मृदुला”ख्यायां मुकुन्दशर्म्मसङ्कलितायां द्वितीय-पाठकस्य नवमी कण्डिका ॥ २ ॥ ९ ॥* ॥ ( १ ) मुण्डनाख्योऽपि कर्मविशेषश्चूड़ाकर्मेण एवानुरूपः ( शिखाधारणाय ) कुमाराणाम्कुमारीणां वाधुनातनैः कुलीनैराजानिकाचारसिद्धतया क्रियते । तत्र कर्णवे- धोऽपि यथाविहितकालमनुष्ठ्येति । सचेदकृतइत्यर्थः ॥ ( २ ) तत्र ( संस्कारेषु ) गौतमेनचत्वारिशदभिहितास्तत्रमुख्या ( एका ) दश । “गर्भाधानं-पुंसुवने-सीमन्तोन्नयनं-जातकर्म-नामकरण-निष्क्रमणा-न्नप्राशन-चौलो- पनयनं (चत्वारिवेदव्रतानि स्नानं) सहधर्मचारिणीसंयोगः” । इति । सहधर्म्मचारिणी- संयोगोविवाहः । सुमन्तुना च “ब्राह्मणक्षत्रियांविशां वृत्तिः-“गर्भाधान-पुंसवन-सीम- न्तोन्नयन-जातकर्म-नामकरण-निष्क्रमणा-न्नप्राशन-चौलो-पनयन-व्रतचर्या-ऽध्ययन-स- मावर्त्तन-विवाह-सोष्यन्ती-यज्ञदानानी-”ति षोडशोक्ताः। वृत्तिः-संस्क्रिया । सोष्य- न्ती-सुखप्रसवार्थङ्कर्म । कैश्चित्त्वन्यथैव स्मर्यते । यथा- “गर्भाधानमतश्च पुंसवनकं सीमन्तजाताभिधे नामाख्यं सह निष्क्रमेण च तथान्नप्रा- शनंकर्म्म च । चूड़ाख्यं व्रतबन्धकोऽप्यथ चतुर्वेद्वतानां पुरः केशान्तः सविसर्गकःपरिणयः स्यात्षोडशी कर्मेणाम् ॥” इति । अङ्गिरसा च पञ्चविंशतिरुक्ताः। तदत्र गौतमोक्तेषु- चत्वारिवेदव्रतानि स्नानञ्चेत्यंशः पूर्वेरेवाऽशक्यतया परिहृतः । शेषा दश पूर्वैरेव परिसं.
४. चतुर्थ प्रपाठक: समावर्तन, नित्य-श्राद्ध, पार्वण-श्राद्ध, वास्तु-कर्म एवं उपसंहार
( अथोपन(१)यनम् - ) अथ दशमीकण्डिका- अत ऊर्ध्वमुपनयनलिङ्गा मन्त्रा ब्राह्मणे श्रूयन्ते तेषां विनियोगविवक्षुरिद- माह— गर्भाष्टमेषु ब्राह्मणमुपनयेत् ॥ १ ॥ ख्याता। यथा— “गर्भाधानं-पुंसवनं-सीमन्तोन्नयनन्तथा । जातकर्म-नामकर्म-निष्क्रमोऽन्नाशनं परम् ॥ चौलकर्मोपनयनं-विवाहोदशमः स्मृतः। संस्काराश्च दशैवैते प्राक्कागृह्येषु कर्मणाम्” ॥ इति। अत्रापिचत्वारोमुख्या इति मुरारिमिश्रादिमतमुपक्रम एव दर्शितन्तत्र द्रष्टव्यम्॥ ( १ ) अथोपनयनपूर्वे प्रतिषिद्धाप्रतिषिद्धानि प्रसङ्गादुपन्यस्यन्ते-तत्रमनुः(कुमार- मधिकृत्य)— “नाभिव्याहारयेद्ब्रह्म स्वधानिनयनादृते । शूद्रेण हि समस्तावद्यावद्वेदे न जायते ॥” इति। स्वधानिनयनात् श्राद्धमन्त्रात् ऋते-विना। वेदे-वेदोदितकर्मणि। निमित्ते- सप्तमी। यद्योग्योयावद्भवतीत्यर्थः। गौतमः-“प्रागुपनयनात्कामचार-भक्ष-काम वादः। नास्याचमनकल्पोविधीयते” इति। कामेति त्रिषु सम्बध्यते। यथेष्टगमन-भक्षण-भाषणः स्यादित्यर्थः । अनेन-वृथायानाश्लीलभाषण-पर्युषितान्नभक्षणादीनि न निषिद्धानि । इति प्रतिपादितम्। यानि पुनरत्यन्तपतनीयानि सुरापानादीनि तानि निषिद्धान्येव । प्रायश्चित्तोपदेशात्। कल्पग्रहणादाचमनमात्रमस्तीति गम्यते। गौतमः। “मद्यं नित्यं ब्राह्मणोवर्जयेत्” इति। अत्र ब्राह्मणशब्दोजातिवचनः । जातिस्तु-जन्मनैवेतिस्थितम्। तथाच भगवता महाभाष्यकारेणस्मृतम्— “तपः श्रुतञ्च योनिश्चेत्येतद्ब्राह्मणकारकम् । तपःश्रुताभ्यांयोहीनो जातिब्राह्मणएवसः” ॥ वामनोऽपि “जननेन याप्राप्यते सा जातिरिति । तथा पतञ्जलिरपि-स्मरति-“सति मूले तद्विपाकोजात्यायुर्भोगाः” । इति । मूले-पूर्वजन्मानुष्ठितकर्मशेषे प्रारब्धापरनाम- के-इत्यर्थः। वसिष्ठः “न ह्यस्य विद्यते कर्म किञ्चिदाऽऽमौञ्जीबन्धनात्। अन्यत्रोदक- कर्म-स्वधा-पितृसम्बन्धेभ्यः” इति। उदककर्म-पितृतर्पणम्। स्वधा श्राद्धम्। पितृ- सम्बन्धं भूमिच्छत्रादिदानम्। दक्षः— “जातमात्रःशिशुस्तावद्यावदष्टौ समा वयः। स हि गर्भसमो ज्ञेयोव्यक्तिमात्रप्रदर्शकः ॥” इति। समा वर्षाणि। व्यक्तिमात्रेण नतु कर्माधिकारित्वेन। ब्रह्मपुराणे “माता- पित्रोरथोच्छिष्टं बालोभुञ्जीतशुची”-ति। एतेनान्यदीयोच्छिष्टभोजने दोष एव। दक्षः— “उपनीतस्य दोषोऽस्ति क्रियमाणैर्विगर्हितैः। अप्राप्तव्यवहारोऽसौ बालः षोडशवार्षिकः ॥” इति। एतेन धनप्रयोगेऽस्वातन्त्र्यमस्य दर्शितम्। न तु प्रायश्चित्ताभावः।
१७ कण्डिका ] गोभिलगृह्यसूत्रे- २२१ गर्भाष्टमेषु-गर्भत आरभ्य गणनया येऽष्टमा वर्षा(१)स्तेषु। बहुवचनव्य- क्तिभेदाभिप्रायेण। यदोद्गय(२)नादीनां समुच्चयस्तदैव। ब्राह्मणमुपनयेत्। उपनयनकर्म्मणा योजयेत्। उपनयनन्नामाध्ययनार्थमाचार्यसमीपे येन कर्म्मणा नीयते-(३)तदुच्यते। तथाचाहुः— “गृहोक्तकर्म्मणा येन समीपं नीयते गुरोः। बालो वेदाय तद्योगाद्वालस्योपनयं विदुः॥” इति। गर्भाष्टम इत्युपलक्षणम्। तथाच याज्ञवल्क्यः— “गर्भाष्टमेऽष्टमे वाऽब्दे ब्राह्मणस्योपनायनम्॥” राज्ञामेकादशे सैके विशामेके यथाकुलम्॥ इति। गर्भाष्टम इत्याधानकालापेक्षया। अष्टम इतिजननापेक्षया। पृथगु- पादानात्। अत्रेच्छया विकल्पमाहुः। उपनयनमेवोपनायनम्। स्वार्थे णिच्। सैके इत्येकादश इत्यनुषक्तेनान्वितम्। विशान्द्वादश इत्यर्थः। अत्रोभयत्रापि समस्तगुणभूतोऽपि गर्भशब्दोऽनुवर्त्तनीयः। गोभिलसंवादात्। यथाकुलम्। कुलस्थित्या(४) केचिदुपनयनमिच्छन्ति। विशेषकालमाह आपस्तम्बः “वसन्ते ब्राह्मणमुपनयीत। ग्रीष्मे राजन्यम्। शरदि वैश्यम्।” इति। वसन्त इत्या- द्यधिकफलार्थम्। मनुरूपनयनमुपक्रम्य— “ब्रह्मवर्चसकामस्य कार्योविप्रस्य पञ्चमे। राज्ञोबलार्थिनः षष्ठे वैश्यस्येहार्थिनोऽष्टमे॥” इति। ब्रह्मवर्चसं वृत्त-स्वाध्याययोः सम्पत्तिः। इहार्थिनः। ऐहिकार्थका- मुकस्य। एवमापस्तम्बः—“सप्तमे ब्रह्मवर्चसकामं, नवमे तेजस्कामं, दशमे- ऽन्नाद्यकामं, मेकादश इन्द्रियकामं, द्वादशे पशुकामम्”इति। गौतमः “उपन- यनं ब्राह्मणस्याष्टमे, नवमे पञ्चमे वा काम्यम्” इति। अत्राष्टमे नित्यमित्य- र्थतः। अत्र विशेषः शुभकर्म्मनिर्णये—यथाह पौलस्त्यः। “पञ्चमे षष्ठवर्षे तु सगर्भे सप्तमेऽपि वा। गुरुशुक्रशशाङ्कानां विशुद्ध्याऽऽरम्भयेद्व्रतम्॥
(१) “वर्षोऽस्त्री भारतादौ च जम्बूद्वीपाब्दवृष्टिषु। प्रावृट् काले स्त्रियाम्भूम्नी”—ति मेदिनी॥ “वत्सरे वर्षमस्त्रियाम्” इत्यमरश्च॥ (२) तथाचाश्वलायनः-“उदगयन आपूर्यमाणपक्षे चौलकर्म्मोपनयनविवाहाः। सा- र्वकालिकमेके विवाहम्” इति। व्याख्यातमेतदधस्तात् (२।२।१)॥ (३) येन कर्म्मणाऽध्ययनार्होभवति। तदुपनयनम्। अत्र देवलः-प्रथमं मातापितृ- भ्याङ्गर्भाधानादिभिः संस्कृतोगर्भाष्टमे वर्षे तूपनयनार्होभवति। तत्रोपाध्यायः पिता। गायत्री माता। एवमुपनीतोद्विपितृको द्विजातिरि”ति। द्विपितृकः-द्विमातापितृकः। एकशेषादुपक्रमेद्वयकीर्त्तनात्॥ (४) स्थितिर्म्मर्यादा। मर्यादा धारणा स्थितिर्”—त्यमरः।
[२२२ | उपनयनविधिः । [ २ प्रपाठके]
यदात्वभीष्टमे वर्षे शुद्धिर्नास्ति बृहस्पतेः । अष्टमे वा, तथाप्येवं व्रततन्त्र न कारयेत् ॥” इत्येवं गोचरशुद्ध्यादिकमत्रोपयुक्तं बहुपपादितमेवमहामहो०हर्षनाथशर्म्म- कृते संस्कारदीपकेऽपीति ततएवावगन्तव्यं, ग्रन्थविस्तरभिया च नेहोपन्य- स्तम् ॥ १ ॥ गर्भेकादशेषु क्षत्रियम् ॥ २ ॥ उपनयेदित्यनुवर्त्तते ऽन्यदुक्तमधस्तात् ॥ २ ॥ एवम्— गर्भद्वादशेषु वैश्यम् ॥ ३ ॥ स्पष्टम् ॥ ३ ॥ यथोक्तकालेषूपनयनासम्भवे त्वाह— आषोडशाद्वर्षाद्ब्राह्मणस्यानतीतः कालोभवत्याद्वाविंशात् क्षत्रियस्याचतुर्विंशाद्वैश्यस्य ॥ ४ ॥ अत्राभिविधावाङ् न मर्यादायाम् ॥ “तेन(१) विना मर्यादा तेन सहेत्य- ( १ ) तच्छब्देनात्रावधिरुच्यते । तेन मर्यादार्थकत्वे पञ्चदशवर्षान्तादिरेवगौणका- लोऽवगम्येत । न चेतदिष्टम् । यच्च यमवचनम्— “पतिता यस्य सावित्री दशवर्षाणि पञ्च च । ब्राह्मणस्य विशेषेण तथा राजन्यवैश्ययोः ॥ प्रायश्चित्तम्भवेदेषां प्रोवाच वदताम्वरः । विवस्वतः सुतःश्रीमान्यमोधर्म्मार्थतत्त्ववित् ॥ सशिखं वपनङ्कृत्वा व्रतङ्कुर्य्यात् समाहितः । हविष्यं भक्षयेदह्नं ब्राह्मणान्पञ्च सप्त वा ॥ एकविंशतिरात्रन्तु पिवेत्प्रसृतियावकम् । अतोयाचकशुद्धस्य तस्योपनयनं स्मृतम् ॥” इति । तत्पतितसावित्रीकत्वाभावेऽपि पञ्चदशवर्षोपरि प्रायश्चित्तविशेषोपदेशार्थम् । न पुनः पञ्च दशवर्षोपरि पतितसावित्रीकत्वमस्यार्थः । तथाविधवचनव्यक्तेरभावात् । लघुनः प्रायश्चित्तस्योपदेशाच्च । पतितसावित्रीकाणां हि व्रात्यस्तोमः क्रतुःप्रायश्चित्तम्म- न्वादिभिरुक्तम् । राजन्यवैश्ययोश्चाविशेषात् । अत्रापि तथैवेत्याह—तथाराजन्यवैश्ययो- रिति । तस्मात्पतिता यस्य सावित्रीत्यस्य यस्य सावित्रीग्रहणन्न सम्पन्नमित्यर्थः । अत्र सपादधेनुप्रदानं, व्रात्यस्तोमे तु सपादनवधेनूनामिति विवेचितमन्यत्र । अत्र विशे- षश्चन्द्रकान्तभाष्ये द्रष्टव्यः ॥ स्वतन्त्रास्त्वेवाचक्षते-ब्राह्मणादीनामष्टमादिवर्षोपरि ( गौ- णकाले ) महाव्याहृतिहोमरूप एव प्रायश्चित्तन्तथाच छन्दोगपरिशिष्टे कात्यायनः— “गौणेषु तेषु कालेषु कर्म्मचोदितमाचरेत् । प्रायश्चित्तप्रकरणप्रोक्तान्निष्कृतिमाचरेत् ॥” इति । प्रायश्चित्तञ्च व्यस्तैः समस्तैश्च महाव्याहृतिभिर्होम एव प्रायश्चित्तप्रकरणे एवं
भिविधि” रिति परिभाषणादिह षोडशादिवर्षान्तः कालो गौणः । तथाच “औपनायनिकः कालः परः षोडशवार्षिकः । द्वाविंशतिः परोऽन्यस्य स्याच्चतुर्विंशतिः परः ॥” इति । “विप्रस्य षोडशाद्वर्षाद्राज्ञो द्वाविंशतेः परम् । वैश्यस्याष्टत्रिकाद्वत्त्सावित्रीपतनं भवेत् ॥” इति । “षोडशाब्देहि विप्रस्य राजन्यस्य द्विविंशतिः । विंशतिः स चतुर्थीच वैश्यस्य परिकीर्त्तिता ॥ इति चैवमादि ॥ ४ ॥ अतऊर्ध्वं पतितसावित्रीका भवन्ति ॥ ५ ॥ अतएतस्मात्कालादूर्ध्वन्त्रयोऽप्येते पतितसावित्रीका भवन्ति । स्वकाले सावित्र्या-( गायत्र्या- ) मनूच्यमानायां ये पतन्ति-प्रायश्चित्तविशेषभागिनो भवन्ति ते पतितसावित्रीका व्रात्याश्च भण्यन्ते ॥ ५
र्धम् । तथाच स्मरणम्— “व्रात्याचार्यस्य भुक्तान्नं कृच्छ्रपादेन शुद्धयति । यश्चोपनयते व्रात्यान् त्रिभिः कृच्छ्रैः स शुद्ध्यति ॥” इति । एवमुत्तरत्रापि बोद्धव्यम् । न याजयेयुरित्यविशेषात्पाकयज्ञैरपि । नैभिः सह विवहेयु-र्विवाह( सम्बन्धं )कुर्युः । विवाहयेयुरिति पाठे एभिः सह विवाहसम्बन्धं न कारयेयुरिति व्याख्येयम् । एष्वपि कालेष्वनुपनीता एते त्रयो- प्यकृतप्रायश्चित्ता उपनयनाद्यनर्हा भवन्तीति(१) परमार्थः । उपनयनप्रतिषेधादेव सर्वत्र प्रतिषेधे सिद्धे यद्येकेन चिल्लोभादज्ञानाद्वोपनीताः स्युस्तथापि नोत्तराणि कर्म्माणि पतितसावित्रीकाणाङ्कुर्य्यादिति सर्वेषाम्पाठः क्रियते ॥ ६ ॥ यदहरुपेष्यन्माणवको भवति प्राग एवैनन्तदहर्भोजयन्ति कुशलीकारयन्त्याप्लावयन्त्यलङ्कुर्वन्त्यहतेन वाससाऽच्छादयन्ति ॥७॥ यदहर्यस्मिन्नहनि । अत्यन्तसंयोगे(२) द्वितीया ( पा० २।३।५ ) उपैष्यन्- उपनयनं कारयिष्यन् । माणवको माणवोऽनधीतवेदः । स्वार्थेकन् । तथा च कात्यायनः— “अनुचोमाणवो ज्ञेय एणः कृष्णमृगः स्मृतः । रुरुर्गौरमृगः प्रोक्तस्तमुनिः शण उच्यते ॥”
( १ ) तथाच श्रुतिः “स्वकालेऽनुच्यमानया सावित्र्या ये पतन्ति प्रायश्चित्तिनो भवन्ती”ति । स्मृतिः “पतितसावित्रीकेषूपपातकम्” इति । याज्ञवल्क्यः— “आषोडशादाविंशाच्चतुर्विंशाच्च वत्सरात् । ब्रह्मक्षत्रविशाङ्काल औपनायनिकः स्मृतः ॥ अत ऊर्ध्वम्पतन्त्येते सर्वधर्म्मबहिष्कृताः । सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते क्रतोः ॥” इति । मनुः— “नैतैरपूतैर्विधिवदापद्यपि हि कर्हिचित् । ब्राह्मान्यौनांश्च सम्बन्धान्नाचरेद्ब्राह्मणः सह” ॥ इति । विधिवद्यथाशास्त्रम्पूतैरकृतप्रायश्चित्तैः । ब्राह्मान्वेदाध्यापनकृतान् । यौनान् । विवाहादीन् । एवञ्च व्रात्यस्तोमनामके यागे कृते उपनयनाद्यधिकारो नतूपनयनस्थान एवात्र व्रात्यस्तोम इति युक्तम् । तस्य प्रायश्चित्तरूपस्य संस्कारकत्वेमानाभावादिति । आपस्तम्बः “अशूद्राणामदुष्टकर्मणामुपनयनम्” इति । अदुष्टकर्मणां पतनीयकर्मभिर- दूषितानाम् । ( २ ) कालाध्वनोरत्यन्तसंयोगे द्वितीया विधीयते । तत्र च गुणक्रियाद्रव्यैरभावेन चेति सूत्रशेषो भाष्यादौ । तेषु गुणेन-मासङ्कल्याणी, क्रियया-मासमधीते, द्रव्येण-मास
इति । अनृचो वेदशून्यः । प्रग एव प्रातरेव । “सायं साये प्रगे प्रातरि”- त्यमरः । एनं-माणवकं, भोजयन्ति-इत्युक्त्याऽत्र शङ्का न कार्येत्युपदिशति । भोजनञ्चात्र गोदुग्धादेरेव । तथा च श्रुतिः “पयोव्रतो ब्राह्मणो भवति यवागू- व्रतो राजन्य आमिक्षाव्रतोवैश्य.” इति । व्रतमाहारः । तथा च गृह्यान्तरम्- “पयोयवाग्वामिक्षाहाराः क्रमशोद्विजातीनाम्” इति । यवागूक्ता ( १-७-२०) आमिक्षा शृतोष्णे क्षीरे दधियोगेन कठिनं द्रव्यम् । तथा च श्रुतिः “तप्ते पय- सि दध्यानयति सा वैश्वदेव्यामिक्षा भवति वाजिभ्योवाजिनम्” इति । अभि- धानञ्च “आमिक्षा सा शृतोष्णे या क्षीरे स्याद्दधियोगतः” इति ( अमरः ) वाजिनमतिरिच्यमानं तत्पय उच्यते ॥ कुशलीकारयन्ति मुण्डयन्ति “क्षौरन्तु भद्राकरणम्मुण्डन वपनन्त्रिषु” इत्यमरः । भद्राकरणं कुशलीकरणमित्यनर्था- न्तरम् । अत्र शिखा न धार्या- “एते लूनशिखास्तस्थु कोमलैर्दन्तकुड्मलैः । कुशकाशा विराजन्ते वटवः सामगा इव ॥” इति विष्णुपुराणपर्यालोचनात् । समावर्त्तने “शिखाववर्ज्जमि”ति विशेषोप- देशाच्च । आप्लावयन्ति-स्नापयन्ति । आप्लावनञ्चेदं घटत्रयाम्बुना । तथा च गृह्यासङ्ग्रहः “स्नानञ्चतुर्भिः कलशैः प्लावनन्तु त्रिभिर्घटैरि”ति । अलङ्कु- र्वन्तिकेयूरकटककुण्डलादिभिर्यथालाभम् । अहतेनेति । अत्र गृह्यासङ्ग्रहः- “सकृद्धौतं नवं श्वेतं सदशं यन्न धारितम् । अहन्तन्तद्विजानीयाद्दैवे पैत्रे च पावनम्” ॥ इति । वाससेत्येकवचनादिदमधरीयमिति द्रष्टव्यम् । उत्तरीयन्तु उपरि- ष्टाद्यदजिनं सूत्रयिष्यति तदेव स्यात् । सर्वत्र बहुवचननिर्देशात्कर्त्तुरनियमः । अत्र भाष्यकृतः-“अग्निहोत्रञ्जुहोति यवागूंम्पचती”ति वत् अत्राप्यार्थक्र- मेण शाब्दक्रमोल्लङ्घनमिति प्रथमं वपनमनन्तरं स्नानमथभोजनमिति क्रमः । ज्योतिषे भोजनानन्तरं वपननिषेधात् । तथाहि- “न स्नानमात्रगमनोन्मुखभूषितानामभ्यक्तभुक्तरणकालविवासनानाम् । सन्ध्या निशाकुजदिने च तिथौ च रिक्ते क्षौरं हितं न नवमेऽह्नि न चापि षष्ठ्या- म्” इत्याहुस्तन्न-अदृष्टार्थक्रमस्य ज्योतिश्शास्त्रविरोधेनानपवादात् । दृष्टान्ते त्वन्यथाऽनुपपत्त्या तथा कल्प्यते । प्रकृते निषेधस्यान्यक्षौरविषयत्वेनाप्युपपत्ते- रन्यथा रोहिण्यादौ नववस्त्रधारणनिषेधात्तत्र विवाहविधेरानर्थक्यं स्यान्न स्या- च्च रविवारादौ उपनयनन्तत्र क्षौरनिषेधात् । अत एव “ब्राह्मणान् भोजयेत्तं च पर्युप्तशिरसमलङ्कृतमानयन्ती”ति पारस्करेऽपि भोजनानन्तरमेव मुण्डनन्द- र्शितमिति । धीरपद्धतिस्वरसोऽप्येवमेवेति महामहो० मुरारिमिश्राः प्राहुः ॥७॥ २६ गो० गृ०सू०
: म - रो - मृ - गाः Look at the characters: म (ma) रो (ro) मृ (mṛ) - 'म' with 'ऋ' matra! गाः (gāḥ) - 'ग' with 'आ' matra and visarga! Yes, "मरोमृगाः" (maromṛgāḥ)! Amarakosha says: "रोहिताश्चमरो मृगाः" ! So in L31: "रोहिताश्चमरोमृगाः" इति । Not 'ष्ट्राः'! It is definitely "रोहिताश्चमरोमृगाः" इति ।!
Now check L31 continued: तत्र एणश्चारुनेत्र इत्येवं जातिभेदख्यापकन्तद्व्याख्यानञ्चा- मरविवेके महेश्वरेण कृतम् ॥ Wait, let's read carefully: "तत्र एणश्चारुनेत्र इत्येवं जातिभेदख्यापकन्तद्व्याख्यानञ्चा-" मरविवेके महेश्वरेण कृतम् ॥ Wait: जातिभेदख्यापकन्तद्व्याख्यानञ्चा- मरविवेके महेश्वरेण कृतम् ॥ Let's check every character: त (ta) त्र (tra) ए (e) ण (ṇa) श्चा (ścā) रु (ru) ने (ne) त्र (tra) इ (i) त्ये (tye) वं (va
इति । विकल्पः शक्त्यपेक्षया कुलकल्पापेक्षया वा ॥ ९ ॥ मुञ्ज-काश-तामुन्योरशनाः ॥ १० ॥ तमुनिः शणः । रशना मेखला । “रशना मेखला काञ्ची”त्यमरः । अन्यत्पूर्ववत् । मनुः— “मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला । क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ॥ मुञ्जालाभे तु कर्त्तव्या कुशाश्मन्तकबल्वजैः । त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा ॥” इति । त्रिवृत् नवगुणीकृता त्रिवृतेति प्रथमान्तम् “आपश्चैव हलन्ता- नाम्” इति टाप् । एकेन ग्रन्थिनेत्यादीच्छया विकल्पः । उपलक्षणे तृतीया ( पा० २।३।२१ ) अत्र श्लक्ष्णा-मसृणस्पर्शा। मूर्वा-वल्लीविशेष. “दुग्ध (ध) मरुरि”ति प्रसिद्धा । तेन निर्मिता मौर्वी ज्या । [धनुर्गुणः ] तस्यैव सतो मेख- लायां विनियोगः । मुञ्जालाभे-मुञ्जाद्यभावे । अश्मन्तकः कुशसदृशतृणविशे- षः । बल्वजाः “शावय” इति प्रसिद्धाः । ग्रन्थौ प्रवरसाम्येन व्यवस्थितोविकल्प इति सुरारिमिश्राः (१) प्राहुः ॥ १० ॥ पार्ण-बैल्वा-ऽऽश्वत्था दण्डाः ॥ ११ ॥ पार्णः पालाशः “पलाशे किंशुकः पर्णोवातपोत” इत्यमरः । बिल्वाश्वत्थौ प्रसिद्धौ । पालाशादयः क्रमेण ब्राह्मणादीनान्दण्डाः प्रशस्ता इत्यर्थः । तथा च पारस्करः “पालाशो ब्राह्मणस्य दण्डो बैल्वो राजन्यस्यौदुम्बरो वैश्यस्य सर्वे वा सर्वेषाम्” । इति । एषामभावे सर्वेषां सर्वे यज्ञियाः । औदुम्बर इति कुल- कल्पभेदेन । स्मृतिः— “धारयेद्वैल्वपालाशौ दण्डौ केशान्तिकौ द्विजः । यज्ञार्हवृक्षजं वाऽथ सौम्यमव्रणमेव च ॥” इति । मनुः— “केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः । ललाटसम्मितो राज्ञः स्यान्नासासम्मितो विशः ॥” इति । केशस्य ललाटोर्ध्वकेशजन्मस्थानस्यान्तः केशान्तः। एवञ्चोर्ध्वस्थित- स्य पुरुषस्य भूमितस्तत्पर्यन्तपरिमाणंतो ब्राह्मणस्य दण्डः कार्यः । भ्रमध्य सम्मितो राज्ञः । नासाग्रसम्मितो वैश्यस्येत्यर्थः । यत्तु-केशान्तिकः कर्णसमीप- ( १ ) अत्र कुल्लूकभट्टः । अत्र च वाशब्दनिर्देशाद्ग्रन्थीनां न विप्रादिभिः क्रमेण सम्बन्धः । किन्तु सर्वत्र यथाकुलाचारं विकल्पः । ग्रन्थिभेदश्चायं मुख्यामुख्यापेक्षासम्भ- वाद्गृहीतव्यः ॥ इति ॥
केशमूलपर्यन्त इति कस्यचिद्व्याख्यानन्तन्न तथासति ब्राह्मणक्षत्रिययोस्तस्य तुल्यपरिमाणत्वेन पृथगुपदेशानर्थक्यापत्तेरिति बोध्यम् । तथा— “ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः । अनुद्वेगकरा नॄणां सत्वचानाग्निदूषिताः ॥” इति । ऋजव इति—अम्रादन्यत्र । “यूपवक्रा” इति गौतमेन नताग्रत्वस्य विधानात् । अव्रणा अच्छिद्राः । सौम्यदर्शनाः । अतिस्थौल्यादिनाऽभयानकाः । अनुद्वेगकारा स्वरूपेणाभीषणा इति मुरारिः । अदुःखदाः परेषामघातुकाना- मिति वयम् ॥ ११ ॥ इदानीमुक्तानां वसनानां व्यवस्थामुपदिशति— क्षौमंꣳशाणं वा वसनं ब्राह्मणस्य, कार्पाशं क्षत्रियस्याऽऽविकं वैश्यस्य ॥ १२ ॥ ऋज्वर्थं सूत्रम् ॥ १२ ॥ एतेनैवेतराणि द्रव्याणि व्याख्यातानि ॥ १३ ॥ एतेनैवानुसारेण । इतराणि अजिन-वसन-दण्डाख्यानि । व्याख्यातानि त्रयाणां यथाक्रमेणोक्तानि ॥ तथाच-ऐणेयमजिनं, मौञ्जी रशना, पार्णोदण्डश्च ब्राह्मणस्य, रौरवमजिनं, काशी रशना, वैल्वोदण्डश्च क्षत्रियस्य, आजमजिनं, शाणी रशना, आश्वत्थोदण्डश्च वैश्यस्येति सिद्धम् ॥ १३ ॥ अलाभे वा सर्वाणि सर्वेषाम् ॥ १४ ॥ अलाभे—स्वस्वजात्युक्तवसनादीनामसम्पत्तौ । सर्वाणि क्षौमादीनि वस- नादीनि सर्वेषां भवन्ति यथालाभम् । अत एव वसिष्ठः “सर्वेषान्तान्तवमर- क्तम्” इति । अरक्तं विकृतरक्तरहितं, कौशुम्भन्तुप्रशस्तं, तथाच गौतमः “स- र्वेषां कार्पासमविकृतं, काषायमप्येके” इति ॥ १४ ॥ पुरस्ताच्छालाया उपलिप्तेऽग्निरुपसमाहितोभवति ॥ १५ ॥ निगद्व्याख्यातमेतत् ॥ १५ ॥ “अग्ने व्रतपत” इति हुत्वा पश्चादग्नेरुदगग्रेषु दर्भेषु प्राङाचार्योऽवतिष्ठते ॥ १६ ॥ ( मं० ब्रा० १।६।९—१३ ) “यथा पाणिग्रहणे तथा चूडाकरणे चोपनयने” (१।९।२८) इत्यतिदेशा- दुपनयनकर्म्मणः पुरस्ताच्चोपरिष्टाच्च महाव्याहृतिभिश्चतस्र आहुतयो भवन्ति, तदाहुतिचतुष्टयं कृत्वा “अग्ने व्रतपत” इत्येवमादिभिः पञ्चभिर्म्मन्त्रैः [ अ- नादेशादाज्येन ] पञ्चाहुतीश्च हुत्वा आचार्यः पश्चादग्नेरुदगग्रेषु दर्भेषु प्राङ्
प्राङ्मुखः अवतिष्ठते-ऊर्ध्वस्थितोभवेत् । “हुत्वाऽऽचार्योऽवतिष्ठते”इति क्त्वा श्रवणात् कर्तृन्तरानुपदेशाच्च होमोऽयमाचार्यकर्तृक एव । मन्त्रास्तु माणव- कपठनीया “व्रतञ्चरिष्यामी”ति मन्त्रलिङ्गात् । नचेदानीं वेदपाठे तस्यानधि- कारः । उपनयनकर्मणः पूर्वमेव तथा स्यान्न तूपनयनकर्म्मण्यपि । मेखलामन्त्रे तत्कर्तृकपाठस्य सर्वसम्मतत्वात् । अन्यपठितमन्त्रेणान्यकर्तृकक्रियायाश्चाश्मा- रोहादौ बहुत्र दर्शनान्न किञ्चिदेतत् । कौमुदी—नारायण—शूलपाणि—हार- लताप्रभृतयोऽप्येवम् [१] ॥ १६ ॥ अन्तरेणाग्न्याचार्यौ माणवकोऽञ्जलिकृतोऽभिमुख आचार्यमुदगग्रेषु दर्भेषु ॥ १७ ॥ अत्रावतिष्ठत इत्यनुषञ्जनीयम् । अन्तरेणेति मध्यार्थेऽव्ययम् । तथाचा- मरः
: there is a 'ज', is there a dot? No dot. It's printed as "अनुषजनार्थश्चकारः" or "अनुषञ्जनार्थश्चकारः").
Let's check line 16: "मङ्गल्ये दक्षिणाभिमुखेन क्रियापत्तेरिति भाष्यकृतः । अवस्था य । ऊर्ध्वःस्थित्वा ।" Wait, "क्रियापत्तेरिति" or "क्रियाप्रवृत्तेरिति"? Look at L16: "मङ्गल्ये दक्षिणाभिमुखेन क्रियापत्तेरिति" -> क्री (kri) या (yā) प (pa) त्ते (tte) रि (ri) ति (ti) Yes, "क्रियापत्तेरिति" (kriyā-āpatteḥ iti = because the action would fall/occur facing south, which is inauspicious). "मङ्गल्ये दक्षिणाभिमुखेन क्रियापत्तेरिति भाष्यकृतः" - brilliant Sanskrit logic! Facing south in an auspicious rite would be an āpatti (undesirable occurrence).
Line 16-17: "अवस्था य । ऊर्ध्वःस्थित्वा । मन्त्रवान्-अध्ययनयुक्तः ।" Wait, "ऊर्ध्वःस्थित्वा" or "ऊर्ध्वं स्थित्वा"? Look at L16: "ऊर्ध्वःस्थित्वा" -> "ऊ र्ध्वः स्थि त्वा" (there
(द् + ग) or द् with virama? Look at: आ ङ् प ू र् व ा द् ग म े स ् Wait, it has a horizontal-ish stroke below द्, which in some fonts is just virama! But does it look like 'दू'? In many Nirnaya Sagar / Chowkhamba fonts, virama under द curves down-right like a little tail, often transcribed as द् or दू. But grammatically it is आङ्पूर्वाद् गमेः (ablative of आङ्पूर्व + गम्). It's clearly a virama on द! Wait, look at: आङ्पूर्वाद्गमेस्ताच्छीलिकस्तृन्प्रत्ययः Let's write आङ्पूर्वाद्गमेस्ताच्छीलिकस्तृन्प्रत्ययः (or if it's printed as दू, wait, is there an actual standalone ू? No, it's attached to द: द्). It is definitely द्गमेस्! Wait, look at Note 2: अत्राङ्पूर्वाद्गमेलिङर्थे Same ligature द्ग!
Let's check L2: न्त्रा' आगमनशीलेन(१) ब्रह्मचारिणा । वयं 'समगन्महि' सङ्गच्छेमहि(२) । Wait, look at the beginning of L2: न्त्रा' आगमनशीलेन(१) Before न्त्रा, is there something? It starts with: न्त्रा' आगमनशीलेन(१)
२३२ उपनयनविधिः । २ प्रपाठके- पृच्छति । अत्र क इति नामविषयकः प्रश्नः । नामेति प्रसिद्धार्थकम् अव्ययम् । तथा च प्रसिद्धं नाम पृच्छति । कोऽसीति सूत्रार्थः ॥ २२ ॥ किं कृत्वा— अभिवादनीयं नामधेयङ्कल्पयित्वा ॥ २३ ॥ अभिवादनं-पादोपसङ्ग्रहणम् । सम्भाषणं वेति चन्द्रकान्तः । “समे तु पादग्रहणमभिवादनमित्युभे” इत्यमरः । तदर्थमभिवादनीयम् । नामधेयत्वेन ( पा० १।१।७५ वा० ) वृद्धत्वाच्छः ( पा० ४।२।११४ ) तस्यानीयर् ( पा० ४।४।२ ) कल्पयित्वेति वचनात्तदानीमेवाचार्येण तत्कल्पनमायाति । अभिवा- दनीयमितिकरणात्सर्वत्रैवाभिवादने ब्रह्मचारिणाऽऽचार्यकल्पितेनैव नाम्ना व्यवहरणीयमिति बोधयति ॥ २३ ॥ अभिवादनीयनाम विशिनष्टि— देवताश्रयं वा नक्षत्राश्रयं वा ॥ २४ ॥ आद्यं यथा—“विष्णुशर्म्मनामा(१)सी”ति । द्वितीयं यथा—“फाल्गुनश(२)- र्म्मनामासीः'ति ॥ २४ ॥ गोत्राश्रयमप्येके ॥ २५ ॥ तद्यथा “कौशिकशर्म्मनामासी-”ति ॥ २५ ॥ ततो माणव(३)केन “ॐ अमुकनामाऽस्मी—”त्याचार्यकल्पिते नाम्नि कथिते— उत्सृज्यापामञ्जलिमाचार्योदक्षिणेन पाणिना दक्षिणं पाणिं साङ्गुष्ठं गृह्णाति—“देवस्यते सवितुः प्रसवेऽश्विनोर्बा- हुभ्याम्पूष्णोहस्ताभ्याꣳहस्तं गृह्णाम्यसा(४)- वि”—ति ॥ २६ ॥ ( मं० ब्रा० १।६।१८ )
( १ ) अत्र नामधेये “शर्म्मान्तं ब्राह्मणस्ये”ति मानवं वचनं मानं, विशेषविचारस्तु- नामद्वैतप्रकरणे द्वैतनिर्णये द्रष्टव्यः । ( २ ) नक्षत्रपदेन यन्मास्युपनयनन्तत्समाख्यापकमेवेति केचिदाचक्षते ॥ केचित्तु शतपदचक्रानुसारिजन्मनक्षत्राश्रयन्नामाहुस्तत्तुच्छं तस्यगुह्यत्वस्यागमेऽप्यभिधानात् । तथाचशारदातिलकटोकायां राघवभट्टोद्धृतम् “जन्मनक्षत्रयोन्या नौ मारणानि यथातथम् । कृतानि न चिरेणैव सिद्धिदानि महेश्वरी” तिवचनम् ॥ ( ३ ) अत्र “कोनामासि”? “असौनामास्मी”त्येवं ब्राह्मणे सहैव द्वयं पठ्यते । विनियोगोऽपि पृथगेव बौद्धेश्वरादिपद्धतिषु पठ्यते । “ॐ विष्णुशर्म्मनामास्मी”त्येवं वाक्याभिलापश्च । सूत्रकृता तूत्तरवाक्यस्यानभिधाने कारणं मृग्यम् ॥ ( ४ ) अस्य ह्रस्य अश्छान्दसः ( पा० ८।२।३३ वा० ) ॥
An exact, line-by-line transcription of the provided page:
पाणिं "माणवकस्ये"ति शेषः । ग्रहणमन्त्रमाह "देवस्यत" इति । अत्रा- साविति स्थाने माणवकस्य स्वकल्पितन्नाम सम्बोधनान्तं प्रयोक्तव्यम् । एवमग्रेऽपि । नारायणवीरेश्वरादयोऽप्येवम् । अत्र माणवकस्यापि जलाञ्जल्युत्सर्ग आचा- र्यस्यैवावगन्तव्योऽविशेषेणोपदेशात् । मन्त्रार्थस्तु—हे 'असौ ! विष्णुशर्म्मन् ! 'तव' हस्तं 'सवितुर्देवस्य' 'प्रसवे' अभ्यनुज्ञाने (१)सति । "अश्विनो"र्देवभि- षजोः । 'बाहुभ्यां' 'पूष्णः' पूषापिष्टाद(२)इत्येवं ख्यातस्य देवविशेषस्य 'हस्ता- भ्याम्' अहम् आचार्यस्तव 'हस्तं' करं 'प्रतिगृह्णामि' । अत्र सर्वत्र स्वत्वं ३()- षष्ठ्यर्थस्तत्प्रत्ताभ्यामित्यर्थः ॥ १८ ॥ इति ॥ अत्र मन्त्रपाठानन्तरं हस्तग्रहणं बोद्धव्यमिति (४)भा
२३४ उपनयनविधिः। [ २ प्रपाठके णावकस्य नाम गृह्णीयात् । एवमग्रेऽपि (३२सू०) असावित्यत्र प्रथमान्तमिति विशेषः । मन्त्रोयथा— “प्राणानाङ्ग्रन्थिरसि माविस्रसोऽन्तक इदन्ते परिददा- म्यमुम्” इति ॥ २० ॥ अस्यार्थः । हेनाभे ! अस्य ब्रह्मचारिणस्त्वं ‘मा विस्रसः’(१) मा विस्रंसिष्यसि । स्व- स्थानान्न चलिष्यसि । यस्त्वं ‘प्राणानां’ देहधारकवायूनां ‘ग्रन्थिः’ प्रतिबन्धः । ‘असि’ भवसि । तथा हे ‘अन्तक !’ यम ! ‘इदम्’ अस्य ब्रह्मचारिणः शरीरम् ‘अमुम्’ ब्रह्मचारिणञ्च ‘ते’ तुभ्यं ‘परिददामि’ समर्पयामि । त्वयि समर्पित एष रोगजरामरणादिकन्नानुप्राप्नुयादिति ॥ २० ॥ २८ ॥ उत्सृप्य नाभिदेश-‘‘महुर’’ इति ॥ २९ ॥ ( मं० ब्रा० १।६।२१ ) उत्सृप्य—नाभेरूर्ध्वङ्करन्नीत्वा नाभिदेशं-तत्समीपदेशम्(२) । जठरमिति तदर्थः । मन्त्रलिङ्गात् । अहुरशब्दस्य जठराग्निवाचकत्वाम्नानात्तमभिमृशेदित्य- नुवर्त्तते । एवमग्रेऽपि । मन्त्रस्तु— ‘‘अहुर इदन्ते परिददाम्यमुम्’’ ॥ २१ ॥ इति । अस्यार्थः । हे ‘अहुर’ जठराग्ने ! इदमित्यादिपूर्ववत् । गुणविष्णुस्तु-अहुरिर्नाम वायुः । तस्यामन्त्रणे हे अहुरे ! इत्येवं व्याख्यातं(३) ॥ २१ ॥ २९ ॥ उत्सृप्य हृदयदेशं ‘‘कृशन’’ इति ॥ ३० ॥ ( मं० ब्रा० १।६।२२ ) कृशनोहृच्छयः पुरुषः । तथाच श्रुतिः । ‘‘स चापर आत्मा हृदी-”ति । मन्त्रस्तु-‘‘कृशन इदन्ते परिददाम्यमुम्” इति ॥ २२ ॥ अर्थः पूर्ववत् ॥३०॥ दक्षिणेन पाणिना दक्षिणमंसमन्वालभ्य “प्रजापतये त्वा परिददाम्यसावि”-ति ॥ ३१ ॥ ( मं० ब्रा० १।६।२३ ) असाविति-सम्बोधनान्तनामग्रहणम् । एवमग्रेऽपि । मन्त्रार्थः स्पष्ट एव ३१ सव्येन सव्यं “देवाय त्वा सावित्रे परिदाम्यसावि-”ति ॥ ३२ ॥ ( मं० ब्रा० १।६।२४ ) ( १ ) ‘‘स्रंसुअधः पतने” ( भ्वा०आ० ) द्युतादिः । ‘‘माकि लुङ्-” ( पा० ३।३। १७५ ) सर्वलकारापवादः । ‘‘द्युभ्यो लुङि” ( पा० १ । ३ । ९३ ) इति परस्मैपदे द्युतादि- त्वात् ( पा० ३।१।५५ ) चलेरङि नलोपः ( पा० ६।४।२४ ) । ( २ ) सामीप्यलक्षणया ‘‘वटे गावः सुशेरत” इति वत्प्रयोगोऽयम् । तेन नाभ्युपरि- देश उक्तो भवति मध्यमपदलोपिसमासात् । ( ३ ) अत्र षष्ठ्यादेशे यलोपः । ( पा० ८।३।१९ ) ।
सव्यमित्यत्रांसमित्यनुषज्यते । स्पष्टमन्यत् ॥ मन्त्रार्थोऽपि स्पष्ट एव ॥३२॥ अथैनँ सम्प्रेष्यति-“ब्रह्मचार्यस्यसावि-”ति ॥ ३३ ॥ ( मं० ब्रा० १।७।२५ ) अथेति पूर्वप्रकृतार्थम् । अथ पूर्वकृतमंसयोर्गृहीतमेवैनं माणवकं सम्प्रेष्यति समादिशत्याचार्यः । कि ? “ब्रह्मचार्यस्यसावि”ति । अस्यार्थः हे असौ ! माणवक ! इतः प्रभृति त्वं 'ब्रह्मचारी' तन्नामानुरूपकर्मा(१) ‘असि’ भवसि । अतोब्रह्मचर्यनियमं मधुमांसवर्जनादिकं त्वया आ ब्रह्मचर्यपरिसमाप्तेः पाल- नीयमिति ॥ ३३ ॥ अथापरमतिदिशति— समिधमाधेह्य-पोऽशान-कर्म्मकुरु-मा दिवा स्वाप्सीरिति ॥ ३४ ॥ ( मं० ब्रा० १।६।२६ ) यत्तु वक्ष्यति अस्तमिते समिधमादधातीति । तां समिधं सायं प्रातराधेहि। अग्नयेऽर्पय । यच्च श्रुतावभिहितं “तस्माद्वा-एतदन्नमशिष्यन्पुरस्ताच्चोपरिष्टा- च्चाद्भिः परिदधा(२)ति” इति । तदिदमादिशति “अपोऽशाने”ति । अप- उदकम् । अशान-भक्षय । भोजनात्पुरस्तादुपरिष्टाच्चेत्यर्थः । मन्त्रौ तु-शाखा- न्तरादुपादेयौ “अमृतोपस्तरणमसि स्वाहे”ति पुरस्तात् । “अमृताऽपिधान- मसि स्वाहे” त्युपरिष्टात् । अन्यच्च-यत्किञ्चिद्विदितं गुरुशुश्रूषादि कर्म्मत्त- त्कुरु । इत्यपर आदेशः । दिवा-दिवसे । मा स्वाप्सीः । शयनम्मा कार्षीरिति । गुरुणा ह्येवमादिष्टो ब्रह्मचारी सर्वत्रैव “बाढमि”ति “ओमि”ति वा ब्रूयात् । एवञ्चादेशमनुपालयेदाब्रह्मचर्य्यम् । तदाहकर्म्मप्रदीपः— “ब्रह्मचारी समादिष्टोगुरुणा वृतकर्म्मणि । बाढमोमिति वा ब्रूयात्तत्तथैवानुपालयेत् ॥” इति ॥ ३४ ॥ उदगग्नेरुत्सृप्य प्राङाचार्य उपविशत्युदगग्रेषु दर्भेषु ॥३५॥ उदक्-उत्तरस्यान्दिशि । प्राङ्-प्राङ्मुखः । एवमग्रेऽपि ॥ ३५॥ प्रत्यङ् माणवकोदक्षिणजान्वक्तोऽभिमुख आचार्य्यमुदगग्रे- ष्वेव दर्भेषु ॥ ३६ ॥ माणवकस्तु-दक्षिणजान्वक्तः । दक्षिणं जानु अक्तं भूमिगतं यस्य स तथाभूतः । “अञ्जूव्यक्तिम्रक्षणकान्तिगतिषु” ( रु० प० ) गत्यर्थत्वात्क्त- ( १ ) ब्रह्मवेदस्तदध्ययनार्थं व्रतमपि लक्षणया ब्रह्मोच्यते । तच्चरत्यनुतिष्ठतीति ब्रह्मचारी । ताच्छील्यार्थे ( पा०३।२।७८ ) णिनिप्रत्ययः । उपधावृद्धिः ( पा०७।२।११६ ) सततकरणञ्च ताच्छील्यम् । ( २ ) परिधानमिहोपस्तरणमावरणञ्च मन्त्रलिङ्गादेव ।