जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
जातकभङ्गाध्यायः ॥ ६ ॥ १६७ भाग्येशेऽन्त्यगते सहादरगतैः पापैर्व्ययेशेऽर्थगे दुर्भोजी परिबन्धनादिसहितो जातोऽन्यजायारतः ॥ सर्वैर्नीचसपत्नभागसहितैः कर्मेतरस्थानगै- र्विद्याबुद्धिकलत्रपुत्ररहितः कोपी सदा भैक्षकृत् ॥ ७ ॥ भाग्येशे = नवमभावेशे अन्त्यगते = द्वादशभावगते, पापैः सहोदरगतैस्तृतीयभावगतैः व्ययेशेऽर्थगे = द्वितीयभावगते जातो दुर्भोजी = गर्हिताशनो भवति, परिबन्धनादिभिः = या- तनादिभिः सहितो भवति, अन्येषां = परेषां जायासु = स्त्रीषु रतो लीनो भवति । अथ सर्वैः ग्रहैर्नीचसपत्नभागसहितैः = कैश्चित्नीचभागसहितैः कैश्चिच्छत्रुभागसहितैश्च कर्मेतरस्थानगैः = कर्म विहाय = दशमभावं विहायेतरेषु स्थानेषु स्थितैर्जातो नरो विद्या, बुद्ध्या, कलत्रेण, पुत्रैश्च रहितो विहीनो भवति, कोपी = क्रोधनो भवति, तथा सदा भैक्षकृद् भवति ॥ ७ ॥ ( १ ) ( २ )
कुण्डली ( १ )
- लग्न (३): मिथुन
- द्वितीय भाव (२): शनि
- तृतीय भाव (१): —
- चतुर्थ भाव (१२): —
- पंचम भाव (११): —
- षष्ठ भाव (१०): —
- सप्तम भाव (९): —
- अष्टम भाव (८): —
- नवम भाव (७): —
- दशम भाव (६): —
- एकादश भाव (५): सूर्य, मंगल, राहु
- द्वादश भाव (४): शुक्र
कुण्डली ( २ )
- लग्न (३): मिथुन
- द्वितीय भाव (२): सूर्य
- तृतीय भाव (१): बुध
- चतुर्थ भाव (१२): —
- पंचम भाव (११): —
- षष्ठ भाव (१०): गुरु
- सप्तम भाव (९): —
- अष्टम भाव (८): चन्द्र
- नवम भाव (७): —
- दशम भाव (६): मंगल
- एकादश भाव (५): —
- द्वादश भाव (४): शुक्र, बुध
नवमेश बारह वें में हो, तृतीय में पाप ग्रह हों, व्ययेश दूसरे में हो तो जातक दुर्भोजी (मांस, लहसुन, पियाज आदि खानेवाला) बन्धनसे युक्त और दूसरे की स्त्री से विलास करनेवाला हो। सभी ग्रह नीचराशिमें शत्रुके नवांशमें हों दशमसे भिन्न स्थानमें स्थित हों तो विद्या, बुद्धि, स्त्री, और पुत्रसे रहित क्रोधी हो और भिक्षा मांगनेवाला हो ॥ ७ ॥ लग्नस्वामिनि रिःफगे तु वियति क्रूरे सचन्द्रे कुजे जातोऽसौ परदेशगः सुखधनत्यागी दरिद्रो भवेत् ॥ होराजन्मपती न शोभनयुतावस्तंगतावन्त्यगे भाग्येशे यदि नष्टदारतनयो जातः कुलध्वंसकः ॥ ८ ॥ लग्नस्वामिनि = जन्मलग्नेशे रिःफगे = लग्नाद्द्वादशभावगते, क्रूरे = पापग्रहे शनिसू- र्ययोरन्यतरे वियति=दशमभावगते तत्र सचन्द्रे कुजे ( चन्द्रभौमौ तत्र संयुक्तौ भवेताम् ) तदाऽसौ जातः परदेशगः, सुखधनत्यागी, दरिद्रश्च भवेत् । होराजन्मपती = लग्नेश-चन्द्रराशीशौ शोभनेन = शुभग्रहेण युतौ न भवेतामस्तंगतौ वा भवेतां, भाग्येशे = नवमभावेशेऽन्त्यगते = द्वादशभावगते यदि जन्म भवेत्तदा जातो नष्टदारतनयः = मृतस्त्रीपुत्रकः कुलध्वंसकश्च भवति । उक्तञ्च सर्वार्थचिन्तामणौ- “होरेश्वरे रिष्फगते तु माने क्रूरान्विते भौमयुते शशाङ्के । जातोऽभिशस्तः परदेशवासी भिक्षाशनी दुःखितदेहभाक्स्यात् ॥ भाग्येश्वरे चान्त्यगते सपापे जन्मोदयेशे रविगे कुलघ्नः । विनष्टपुत्रार्थकलत्रभाक्स्याच्छुभैर्न युक्तौ यदि वीक्षितौ वा” इति ॥ ८ ॥
१६८ सटीकजातकपारिजाते- यदि लग्नेश बारहवें भावमें हो, दशवें भावमें पापग्रह हो उसमें मङ्गल चन्द्रमाके साथ हो तो वह जातक परदेशवासी हो, सुख और धनसे रहित होकर दरिद्र हो । यदि लग्नेश और जन्मराशीश ये दोनों शुभग्रहोंसे युक्त नहीं हों अथवा अस्तङ्गत हों तथा नवमेश १२वें भावमें हो तो जातक स्त्री और पुत्रोंसे रहित होता है, तथा अपने कुलका संहार करनेवाला होता है । (सु० शा० कार) ॥ ८ ॥ सौम्यासौम्ययुतेषु केन्द्रभवनेष्विन्दौ तनुस्वामिना दृष्टे मन्दनवांशके सति कुलध्वंसी विदारात्मजः ॥ कामेबोधनशुक्रयोः सुतगृहे जीवे सुखस्थे शुभे पापे रन्ध्रगते च चन्द्रभवनाज्जाताः कुलध्वंसिनः ॥ ६ ॥ केन्द्रभवनेषु (१।४।७।१०) सौम्यासौम्ययुतेषु, (शुभग्रहाः पापग्रहाश्च केन्द्रगता भवेयुरित्यर्थः) इन्दौ=चन्द्रे यत्र तत्र तनुस्वामिना=जन्मलग्रेशेन दृष्टे मन्दनवांशके=शनि- (१०।११) राशिनवांशे च गते सति जातो नरः कुलध्वंसी = वंशनाशकः, विदारात्मजः= स्त्रीपुत्ररहितश्च भवति । उक्तं सर्वार्थचिन्तामणौ- शुभाशुभैः केन्द्रगतैः शशाङ्कः लग्नेश्वरेणापि निरीक्षितश्चेत् । सौरांशके वा यदि संयुतश्चेज्जातः कुलध्वंसकरो विदारः ॥ इति ॥ बोधनशुक्रयोः कामे = लग्नात्सप्तमे भावे स्थितयोः, सुतगृहे=पञ्चमे भावे जीवे=गुरौ गतवति, अशुभे=कस्मिंश्चित्पापे सुखस्थे=चतुर्थभावगत, तथा च चन्द्रभवनाच्चन्द्राधिष्ठित- राशितो रन्ध्रगते पापग्रहे जाताः = समुत्पन्ना नरः कुलध्वंसिनो भवन्ति ॥ ९ ॥ लग्नसे केन्द्र (१।४।७।१०) स्थानमें शुभ तथा अशुभ ग्रह हों चन्द्रमा लग्नेशसे देखा जाता हो और शनिके नवांशमें हो तो जातक कुलका नाश करनेवाला तथा स्त्री और पुत्रों से रहित हो । यदि ७ वें स्थानमें बुध और शुक्र हों, ५ वें स्थानमें गुरु हो, ४ थेमें पापग्रह हो और चन्द्रमासे भी ८ वें में पापग्रह हो तो जन्मलेनेवाले कुलका संहार करनेवाले होते हैं । (सु० शा० कारः) ॥ ९ ॥ चरावसाने शशिनि स्थिरादौ द्विदेहमध्ये बलवर्जिते च ॥ हीने विलग्रे यदि खेचरैन्द्रैर्विनाशमेति क्षितिपालयोगात् ॥ १० ॥ शशिनि=चन्द्रे चरराशीनां (मेष-कर्क-तुला-मकराणाम्) अवसानेऽन्त्ये (राश्यन्त्ये) स्थिरराशीनां (२।५।८।११) आदौ तथा द्विदेहानां = द्विस्वभावराशीनां (३।६।९।१२) मध्ये गतवति, बलवर्जिते=निर्बले च सति, विलग्रे=जन्मलग्रने खेचरेन्द्रैर्ग्रहैर्हीने = रहितेऽर्था- ल्लग्ने न कोऽपि ग्रहो भवेत्तदा क्षितिपालयोगो राजयोगो नाशमेति = विनश्यतीति । एवं सारावल्याम्-अन्त्याष्टमादिभागे चरराश्यादिषु शशी यदा क्षीणः ।
जातकमङ्गाध्यायः ॥ ६ ॥ १६६ एकेनापि न दृष्टो ग्रहेण भङ्गस्तदा नृपतेः ॥ अस्मिन्योगे राजकुलोद्भूतोऽपि न राज्यं लभत इति तात्पर्यम् ॥ १० ॥ चर राशिके अन्त्य भागमें, स्थिर राशिके आदिमें, द्विस्वभाव राशिके मध्यमें बलहीन चन्द्रमा हो, और कोई भी ग्रह लग्नमें न हो तो राजयोगका विनाश होता है ॥ १० ॥ लग्नराशिनवभावनायका भानुशीतकरदेवपूजिताः ॥ शत्रुभागसहिताः स्वनीचभस्वामिभांशसहिताः परानुगः ॥ ११ ॥ लग्नं = जन्मलग्नम् । राशिर्जन्मकाले चन्द्राधिष्ठितो राशिः। नवभावो जन्मलग्नान्नवमो ( धर्मः ) भाव इत्येषां नायकाः = स्वामिनः ( लग्नेशराशीशनवमेशा इति ) तथा भानुशी- तकरदेवपूजिताः = सूर्येन्दुगुरवः यदि शत्रुभागसहिताः = शत्रुनवांशगता वा स्वनीचभस्वामि- भांशसहिताः = स्वस्वनीचराशिपतिनवांशगता भवेयुस्तदा जातो नरः परानुगोऽन्येषामनुचरो भवति ॥ ११ ॥ जन्मलग्न, जन्मराशि, और ९ वें भावका स्वामी, तथा सूर्य चन्द्रमा और बृहस्पति ये सब अपने शत्रु ग्रहके नवांशमें हों या अपने नीच राशिपति के अंशमें हों तो दूसरेके पीछे चलनेवाला हो ॥ ११ ॥ शशिनि गगनयाते कामगे दानवेज्ये नवमभवनयाते पापखेडे कुलघ्नः ॥ भृगुजशशिजचन्द्राः केन्द्रगा जन्मलग्ने तमसि विहितकर्मध्वंसको नीचतुल्यः ॥ १२॥ शशिनि = चन्द्रे गगनयाते = दशमभावगते, दानवेज्ये = शुक्रे कामगे = सप्तमभावगते पाप- खेटे = सूर्यभौमशनीनामन्यतमे नवमभवनयाते = लग्नान्नवमं भावमुपगते जातो नरः कुलघ्नो वंशच्छेदको भवति । अथ च भृगुजशशिजचन्द्राः = शुक्रबुधचन्द्राः केन्द्रगा भवेयुः, तमसि = राहौ ( तमस्तु राहुः इत्यमरः ) जन्मलग्ने गतवति जातो विहितकर्मध्वंसकः = स्वस्य विहितकर्मणो ध्वंसको भवति, नीचतुल्यः = उच्चकुले समुद्भूतोऽपि स्वकर्मरहितो नीचस- दृशो भवतीति ॥ १२ ॥ ( १ ) ( २ ) यदि चन्द्रमा दशवें भावमें हो, शुक्र सप्तममें हो और पापग्रह नववें स्थान में हो तो जातक कुलका नाश करनेवाला हो । शुक्र, बुध और चन्द्रमा यदि केन्द्रमें हों जन्मलग्नमें राहु हो तो विहित कर्मोंका नाशक और नीचके समान हो ॥ १२ ॥ नीचे भृगौ मन्दनवांशके वा दुःस्थानगे भानुसुतेक्षिते च ॥ कामस्थिते शीतकरे सभानौ मात्रा सह प्रैष्यमुपैति नित्यम् ॥ १३ ॥ भृगौ = शुक्रे नीचे = स्वनीच- ( कन्या ) राशौ मन्दस्य नवांशके वा दुःस्थानगे = षडष्ट- व्ययगे तथा भूते भानुसुतेन = शनिनेक्षितेऽवलोकिते च, वा सभानौ = सूर्यसहिते शीतकरे = १५ जा०
१७० सटीकजातकपारिजाते- चन्द्रेकामस्थिते=सप्तमभावमुपगते शनिदृष्टे च जातो नरो मात्रा सह = जनन्या सहितो नित्यं प्रैष्यं = दास्यमुपैति । परप्रेष्ययोगः सर्वार्थचिन्तामणौ— नीचे भृगौ मन्दनवांशके वा व्ययस्थिते, चन्द्ररवी कलत्रे । निरीक्षितौ भानुसुतेन चात्र जातः परप्रैष्यमुपैति नित्यम् ॥ १३॥ यदि शुक्र नीच राशिमें शनिके नवांश- में हो, दुष्टस्थानमें हो या शनिसे देखा जाता हो अथवा चन्द्रमा और सूर्य सप्तम में हों और शनि दृष्ट हों तो वह बालक अपनी माताके साथ नित्य दूत कर्म करने वाला (सेवक) होता है ॥ १३ ॥ [ चक्र : १ ल. । १२ शुं. । श. । चं. सू. । ६ शु. ५ । मध्ये : मात्रा सह प्रैष्ययोगः ] नीचे गुरौ वासरनायके वा केन्द्रस्थिते पापयुते शिशुघ्नः ॥ केन्द्रे सपापे शुभदृष्टिहीने रन्ध्रे गुरौ गोमृगजातिहन्ता ॥ १४ ॥ गुरौ = बृहस्पतौ, वा वासरनायके = सूर्ये, नीचे = स्वनीचराशौ केन्द्र-(१।४।७।१०) स्थिते, पापयुते = शनिना भौमेन वा युते जातः शिशुघ्नो बालघातको भवति । अथ केन्द्रे (१।४।७।१०) सपापे = पापग्रहयुक्ते तस्मिन् शुभदृष्टिहीने = शुभग्रहाणां दृष्ट्या रहिते, गुरौ = बृहस्पतौ रन्ध्रेऽष्टमे च गते जातो गोमृगजातिहन्ता = आखेटादौ गवां मृगादीनाञ्च विनाशको भवति । अत्र सर्वार्थचिन्तामणौ—'शुभदृष्टियुक्ते रन्ध्रे भृगौ' इति पाठान्तर- मुपलभ्यते ॥ १४ ॥ ( १ ) ( २ ) [ चक्र १ : १ ल. । श. । बृ. के. १० । सू. ७ मं. ] [ चक्र २ : बु. शु. । सू. ल. । ज्ञ. मं. । बृ. ] बृहस्पति वा सूर्य नीच राशिमें होकर केन्द्रमें स्थित हो, पापग्रहसे युक्त हो तो वह जातक बालघाती होता है। केन्द्रमें पापग्रह हो उसपर शुभग्रहकी दृष्टि न हो, गुरु अष्टममें हो तो गौ और मृगोंके मारनेवाला हो ॥ १४ ॥ शशाङ्कसौम्यौ दशमोपयातौ पापेक्षितौ पापसमन्वितौ च । नीचांशगौ सौम्यदृशा विहीनौ जातस्तु नित्यं खलु पक्षिहन्ता ॥ १५ ॥ शशाङ्कसौम्यौ = चन्द्रबुधौ दशमोपयातौ = लग्नदशमभावमुपगतौ पापेक्षितौ = केन- चित्पापग्रहेणावलोकितौ पापसमन्वितौ = केनचित्पापेन युक्तौ च भवेतामपि च नीचांशगौ = स्वनिचराशिनवांशगतौ, सौम्यदृशा = शुभग्रहदृष्ट्या विहीनौ च यदि भवेतां तदा जातस्तु खलु = निश्चयेन नित्यमनवरतं पक्षिहन्ता = विहगघातको भवति ॥ १५ ॥
जातकमङ्गाध्यायः ॥६॥ १७१ चन्द्रमा और बुध दशवममें हों, पापग्रहसे देखे जाते हों और पापग्रहसे युक्त भी हों, नीचनवांशमें हों और शुभग्रहकी दृष्टिसे रहित हों तो वह जातक निश्चय पक्षी मारनेवाला होता है ॥ १५ ॥ चन्द्रात्सुते लग्नपतौ धने वा सौम्येत्तरेष्वष्टमराशिगेषु । मानस्थिते शीतकरे तदानीं जातस्तु जीवत्यतिहेयवृत्त्या ॥ १६ ॥ जन्मकाले चन्द्रात्सुते = पञ्चमे, वा धने = द्वितीये भावे लग्नपतौ = लग्नेशे गते, सौम्ये- तरेषु = पापग्रहेषु चन्द्रादष्टमराशिगेषु, शीतकरे = चन्द्रे मानस्थिते = लग्नाद्दशमभावगते । अत्रेदं फलितम्—चन्द्रो दशमगतो भवेत्तस्मात्सुते वा धने अर्थात्पञ्चमाद्वितीयके वैकादशे लग्नेशो गतो भवेत्तथा चन्द्रादष्टमेऽर्थाल्लग्नात्पञ्चमे पापग्रहा भवेयुस्तदानीं जातस्तु अतिहेय- वृत्त्या = कुत्सितजीविकया जीवति । अत्र सर्वार्थचिन्तामणौ पाठः— चन्द्रात्सुतेऽर्थे यदि लग्ननाथे रन्ध्रस्थितैः सौम्यखगेतरैर्वा । मानस्थिते रात्रिकरे तदानीं जीवत्यतिहेयवृत्त्या ॥ १६ ॥ यदि लग्नेश चन्द्रमासे पञ्चम स्थानमें हो, या दूसरेमें हो, और पापग्रह अष्टमरा- शिमें हो, चन्द्रमा दशममें हो तो वह जातक अत्यन्त नीच जीविका से जीवे ॥ १६ ॥ नीचारिभांशौ भृगुदेवपूज्यौ तदंशके वासरनाथपुत्रे । जातः सुदुःखःसुतदारहीनः कृच्छ्रेण संजीवति भाग्यहीनः ॥ १७ ॥ भृगुदेवपूज्यौ = शुक्रगुरू नीचारिभांशौ = नीचनवांशं शत्रुराशिनवांशं वोपगतौ, वासर- नाथपुत्रे = शनैश्चरे तदंशके = शुक्रस्य गुरोर्वा नवांशे विद्यमाने जातो नरः सुदुःखभाक्, सुतदारहीनः = पुत्रकलत्ररहितश्च भवति तथा भाग्यहीनः सन् कृच्छ्रेणातीव कष्टेन सञ्जीवति । सर्वार्थचिन्तामणावत्र पाठभेदः— नीचारिभांशे यदि देवपूज्ये तदंशके वासरनाथपुत्रे । जातोऽतिदुःखी सुतदारहीनः कृच्छ्रादसौ जीवति भाग्यहीनः ॥ इति ॥१७॥ शुक्र और गुरु नीचराशिके या शत्रु- ग्रहके नवांशमें हों, गुरु या शुक्रके नवांश में शनि हो तो जातक स्त्री पुत्रों से रहित और अभागा बन कर बडे कष्टसे किसी तरह जीता है । (सु० शा० कार ) ॥ १७ ॥
१७२ सटीकजातकपारिजाते- सर्वे पापाः केन्द्रनीचारिसंस्थाः सौम्यैरदृष्टा रिःफरन्ध्रारियातः , निघ्नन्त्येते राजयोगं महेन्द्रा नीचारातिक्रूरषष्ठ्यंशकाश्च ॥ १८ ॥ सर्वे पापाः = सूर्यभौमशनैश्चरक्षीणोन्दुसारपापबुधाः, केन्द्रनीचारिसंस्थाः = केन्द्रे ( १।४।७। १० ) वा स्वनीचे, वा शत्रुराशिगता भवेयुस्तथा रिःफरन्ध्रारियातैः = व्ययाष्टमषष्ठभावगतैः सौम्यैरदृष्टा भवेयुस्तदैते महेन्द्रा ग्रहा राजयोगं निघ्नन्ति = नाशयन्ति । अपि च नीचारातिक्रूर- षष्ठ्यंशकाः = ये ग्रहाः नीचराशिगताः, शत्रुराशिगताः, क्रूरषष्ठ्यंशगता वा भवन्ति ते राजयोगं निहन्ति । ईदृग्योगे राजकुलोद्भूतोऽपि न राजफलं लभत इति भावः । उक्तञ्च सारावल्याम्- सर्वे क्रूराः केन्द्रे नोचारिगता न सौम्ययुतदृष्टाः ।
जातकमङ्गाध्यायः ॥ ६ ॥ १७३ ब्राह्मणको मारनेवाला होवे । बारहवां भाव शुभराशि हो उसमें शुक्र शनिके नवांशमें हो तो जातक दासीपुत्र होवे ॥ २० ॥ अथ रेकायोगाः ॥ लग्नेशे बलवर्जिते परिभवस्थानाधिपेनेक्षिते सूर्योच्छिन्नकरे पुरन्दरगुरौ रेकाख्ययोगो भवेत् । बन्धुस्थानपसंयुतांशकपत्तौ तिग्मांशुसुप्तद्युतौ रिःफेशेन निरीक्षिते सति यदा योगस्तु रेकाह्वयः ॥ २१ ॥ अधुना रेकायोगा उच्यन्ते। लग्नेशे = लग्नस्वामिनि बलवर्जिते = निर्बले परिभवस्थानाधिपे- नाष्टमभावेशेनेक्षितेऽवलोकिते पुरन्दरगुरौ = बृहस्पतौ सूर्योच्छिन्नकरे = सूर्येण सह लुप्तकिरणे (अस्तङ्गते) सति रेकाह्वययोगो भवेत्। ईदृग् योगो रेकानामकौ भवति। बन्धुस्थानपश्च- तुर्थभावेशस्तेन संयुतेऽंशकपत्तौ = नवांशस्वामिनि अर्थात्काले चतुर्थेशो
१७४ सटीकजातकपारिजाते-
कुण्डली रेका ३ एवं रेका ४
+-----------------------------------+-----------------------------------+
| \ ३ / \ / \ १ / \ | \ २ / \ / \ १ / \ चं. १२|
| \ / \ २ / \ / \ | \ / \ ३ / \ रा. / \ |
| \ / \ / \ / १२ \ | \ / \ / \ / ११ \ |
| ४ \ / \ / \ / \| ४ \ / \ / \ / \|
|-----+ +---------+ |-----+ +---------+ |
| | | ११ | | | १० |
| ५ | रेका ३ | |र.श.५| रेका ४ | |
| | | | | | |
|-----+ +---------+ |-----+ +---------+ |
|६श.शु| / \ / \ १० /|शु.बु.६| / \ ७ मं. / \ ८ /|
| / \ ७ / \ ८ / \ / | / \ ६ / \ के. / \ / |
| / \ / \र. बृ./ \ ९/ | / \ / \ / \बृ. ८/ |
+-----------------------------------+-----------------------------------+
चतुर्थेश अष्टमेशसे युक्त होकर षष्ठेशसे देखा जाता हो तो रेका योग होता है ! दशमेश ५ वें भावमें हो और लग्नेश नीचमें हो तो रेकायोग होता है । यदि शुभग्रह ८, ६, १२ भावोंमें हों, पापग्रह केन्द्र और त्रिकोणमें हों और लाभेश निर्बल हो तो भी रेका योग होता है ॥ २२ ॥ होरेशः खलसंयुतः सित गुरू चास्तं गतौ तद्वदेद् बन्धुस्थानपतिः शुभेतरयुतश्चास्तं गतो रेकदः ॥ भाग्यस्थानपतौ विकर्तनकरच्छन्ने विलग्नाधिपे नीचस्थे धनपे च नीचगृहगे रेखाभिधानो भवेत् ॥ २३ ॥ होरेशो=जन्मलग्नेशः खलेन = केनचित्पापग्रहेण संयुतो भवेत्, सितगुरू = शुक्रबृह- स्पती चास्तंगतौ = सूर्ययुतौ भवेतां तदा तद्वदेदर्थात् रेकायोगं ब्रूयादिति ।
कुण्डली रेका ५
+-----------------------------------+
| \र.शु.४बृ./ \ / \ २ / \ |
| \ / \बु. ३ श./ \ / \|
| \ / \ / \ / १ \|
| ५ \ / \ / \ / |
|-----+ +---+ +-----|
| | | |
| ६ | रेका ५ | १२ |
| | | |
|-----+ +---+ +-----|
| | / \ / \ ११ |
| ७ / \ ८ / ९ \ / \ |
| / \ / \ / \१०|
+-----------------------------------+
बन्धुस्थानपतिश्चतुर्थभावेशः शुभेत- रयुतः = पापग्रहसंयुक्तोऽस्तंगतश्च यदि भवेत्तदा रेकदो भवति । ईदृग्योगोऽपि रैफाख्य इति । अथ च भाग्यस्थानपतौ = नवमभा- वेशे = विकर्तनकरच्छन्नेऽर्थात्सूर्येण स- हास्तं गते, विलग्नाधिपे = लग्नेशे नीच- स्थे = स्वनीचराशि गते, धनपे च = द्वितीयभावेशे च नीचगृहगे = स्वनीचराशि गते रेखाभिधानो रेकानामको योगो भवेत् ॥२३॥
कुण्डली रेका ६ एवं रेका ७
+-----------------------------------+-----------------------------------+
| \ ४ / \ / \ २ / \ | \ ४ / \ / \ २ / \ |
| \ / \ ३ / \ / \ | \ / \ ३ / \ / \ |
| \ / \ / \ / १ \ | \ / \ / \ / १ \ |
| ५ \ / \ / \ / \| ५ \ / \ / \ / \|
|-----+ +---------+ |-----+ +---------+ |
| | | | | | |
| ६ | रेका ६ | १२ | ६ | रेका ७ | १२ बु. |
| | | | | | |
|-----+ +---------+ |-----+ +---------+ |
| | / \ / \ ११ /| | / \ / \ ११ /|
| ७ / \ ८ / \ ९ / \ / | ७ / \ ८ / \ ९ र. / \ / |
| / \ / \ /बृ.१०\ / | / \ / \ श. / \१०/ |
| / \ / \ / मं. र.\/ | / \ / ८ के. \ / \/ |
+-----------------------------------+-----------------------------------+
लग्नेश पापग्रहकें साथ हो शुक्र और गुरु अस्त हों तो 'रेका' योग होता है । चतुर्थभावका स्वामी पापग्रहके साथ होकर अस्त होवे तो 'रेका' योग होता है ।
जातकभङ्गाध्यायः ॥ ६ ॥ १७५ भाग्य ( नवमभाव ) पति सूर्यके साथ अस्त हो, लग्नेश नीचमें हो और द्वितीयेश भी नीचमें हो तो 'रेका' योग होता है ॥ २३ ॥ नीचस्था यदि वा दिनेशकिरणच्छन्नास्त्रयो लग्नपे दुष्टस्थानगतेऽथवा गतबले योगस्तु रेकप्रदः ॥ होरावित्तनवास्पदायसुखधीकामानुजस्थाः खला- स्तस्यायुर्नवभागरेकफलदा नीचारिपापेक्षिताः ॥ २४ ॥ केचित् त्रयो ग्रहा यदि नीचस्थाः = स्वस्वनिचराशियाता वा दिनेशस्य=सूर्यस्य किरणै- र्छन्नाः = नष्टद्युतयः ( अस्तंगताः ) भवेयुः, लग्नपे = जन्मलग्नेशे दुष्टस्थानगते = षडष्टव्य- यभावानामन्यतमं गते, अथवा गतबले = निर्बले सति रेकप्रदो योगो भवति । होरा = लग्नम्, वित्तं = द्वितीयः, नव = नवमः, आस्पदं = दशमः, सुखं = चतुर्थः, धीः=पञ्चमः, कामः=सप्तमः, अनुजस्तृतीय एतेषु स्थिताः खलाः=पापग्रहाः, नीचारिपापेक्षि- ताः=नीचराशिस्थाः, शत्रुराशिस्थाः, पापेक्षिता वा स्युस्तदा ते तस्य जातस्यायुषो नवमे भागे रेकफलदा रेकायोगफलकारका भवन्ति । अर्थात् ईदृग्योगो रेकाख्य इति । अत्र नीचारिपापे- क्षिता इत्युक्तेरेव यदि उच्चस्वमित्रशुभैक्षिताः स्युस्तदा न रेकाफलदाः स्युरिति ॥ २४ ॥ कोई भी तीन ग्रह नीचमें हों या अस्त हों और लग्नेश दुष्ट स्थानमें हो अथवा निर्बल हो तो 'रेका' योग होता है । पापग्रह १।२।९।१०।११।४।५।७।३ भावोंमें स्थित हों नीच या शत्रुगृहमें स्थित हों या पापग्रहसे दृष्ट हों तो उस जातककी आयुके ९ वें भागमें 'रेका' योगका फल देते हैं ॥ २४ ॥ एकद्विकत्रिखलद्युचरा नराणां कल्पस्वविक्रमगताः परतस्तथैव । आदौ तु मध्यवयसि क्रमशस्तदन्त्ये रेकप्रदा रिपुखलग्रहनीचदृष्टाः ॥ २५ ॥ एकः, द्विकः, त्रिकः खलद्युचराः=पापग्रहाः क्रमेण कल्पे=लग्ने, स्वे=द्वितीये, विक्रमे= तृतीये गताः स्युरर्थात् लग्ने एकः पापग्रहः, द्वितीये द्वौ पापौ, तृतीये त्रयः पापाः भवेयुः । परतस्तथैव = तेनैव प्रकारेण परतोऽपि = चतुर्थे एकः, पञ्चमे द्वौ, षष्ठे त्रयः। सप्तमे एक :, अष्टमे द्वौ, नवमे त्रयः, एवमेव दशमे एकः, एकादशे द्वौ, द्वादशे त्रयः पापाः स्युस्तदा नराणां=जनिमतां क्रमेणादौ वयसि=वयसः प्रथमे त्र्यंशे, मध्यवयसि=द्वितीयत्र्यंशे, तदन्त्ये= वयसोऽन्त्ये रेकप्रदाः = रेकायोगफलप्रदा भवन्ति । इदमूक्तं भवति । यस्य जन्मकाले १,४, ७,१० भावेषु कस्मिन्नपि यद्येकः पापग्रहो भवेत्तदा तस्य प्रथमे वयसि रेकाफलदो भवेत् । ( २,५,८,११ ) पणफरे एकत्र द्वौ पापौ भवेतां तस्य मध्ये वयसि तथा च आपोक्लिमे ( ३।६।९।१२ ) एकत्र त्रयः पापाः भवेयुस्तदा तस्य चरमे वयसि रेकाफलदा भवेयुः । यदि ते रिपुखलग्रहनीचदृष्टाः = शत्रुना, पापग्रहेण, नीचस्थेन वा दृष्टाः स्युस्तदैवार्थत एव मित्रशुभग्रहोच्चदृष्टा न रेकप्रदा इति । रेकाफलमग्रेतो वक्ष्यति २६।२७ श्लोकाभ्यामिति ॥२५॥ १।४।७।१० भावोंमें १ पापग्रह यदि शत्रुग्रह, पापग्रह, या नीचगत ग्रहसे दृष्ट होवे तो प्रथम वयसमें 'रेका' फल देता है २।५।८।११ भावोंमें २ पापग्रह हों तो मध्यवयसमें, एवं ३।६।९।१२ भावोंमें ३ पापग्रह हों तो अन्त्य अवस्थामें 'रेका' योगका फल देते हैं ॥ २५ ॥ रेकायोगफलम् । निर्विद्यो विधनो दरिद्रसहितो रेकोद्भवः कामुकः क्रोधी दुःखितमानसो रुचिकरः सौभाग्यहीनः पटुः ॥ भिक्षाशी मलिनो विषादनिरतो मात्सर्यरोषान्वितो 13 देवब्राह्मणदूषकः प्रतिदिनं दारात्मजैनिन्दितः ॥ २६ ॥
:
In the image: भवेयुस्तथा सौरः सौम्येतरैः
Look at तथा followed by सौरः:
स with ौ matra: सौ, then र with ः: रः.
Yes! सौरः! Perfect!
* Now let's check line 28:
`यदा जीवारमन्देन्दुजाः = गुरुभौमचन्द्रबुधाः`
Wait, why did the commentator write `गुरुभौमचन्द्रबुधाः` or is it `गुरुभौममन्दबुधाः`?
Look at the word after `गुरुभौम`:
Wait, could it be `सौरबुधाः`? No.
Let's look at `चन्द्र`: `च` has a flat top, loop below. Then `न्द` with `्र`.
Wait, is it `मन्द`?
Look at `म`: in `भौम`, `म` has a loop at bottom-left.
In `...भौममन्दबुधाः`:
Look at that letter after `भौम`:
Is it `म`? No, wait! `म` in Devanagari has a loop.
Wait, look at `मन्देन्दुजाः` in line 24: `म` `न्` `दे` `न्` `द` `ु` `ज` `ा
जातकमङ्गाध्यायः ॥ ६ ॥ १७७ लग्नेश्वरादतिबली, अर्थात्लग्नेशापेक्षया द्वादशेशो बलीयान् स्यात् तथा नीचस्थितो रवि- कराभिहतोऽस्तङ्गतोऽपि भवेत्तदा जातो नरो दरिद्रो भवतीति ॥ ३० ॥ यदि अष्टम, षष्ठ, द्वादश, पञ्चम, और दशम स्थानमें यथासम्भव गुरु, बुध, शुक्र शनि और मङ्गल हों द्वादशेश लग्नेशसे विशेष बली होकर नीच राशिमें हो, सूर्यके किरणसे सम्वस्त हो तो दरिद्र होता है ॥ ३० ॥ शुक्रार्यद्विजराजभूमितनया नीचस्थिता जन्मनि व्योमाये नवमे कलत्रतनये जातो दरिद्रो भवेत् ॥ लग्ने दानवपूजितेऽमरगुरौ पुत्रे धरानन्दने लाभे रात्रिकरे तृतीयभवने नीचं गते भिक्षुकः ॥ ३१ ॥ शुक्रः, आर्यो गुरुः, द्विजराजश्चन्द्रमाः, भूमितनयो भौम एते जन्मनि=जन्मकाले नीच- स्थिताः=स्वस्वनिचरांशगताः, तथा यथासम्भवं व्योमे = दशमे, आये = एकादशे, नवमे, कलत्रे = सप्तमे, तनये = पञ्चमे स्थिताश्च भवेयुस्तदा जातो नरो दरिद्रो निर्धनो भवेत् । अथ च दानवपूजिते=शुके लग्ने, अमरगुरौ=बृहस्पतौ पुत्रे=पञ्चमे, धरानन्दने=भौमे लाभे= एकादशे, रात्रिकरे = चन्द्रे तृतीयभवने गते, नीचङ्गते = स्वस्वनिचराशौ विद्यमाने जातो भिक्षुको भिक्षावृत्तिको भवेत् । एतदुक्तं भवति । उक्ताः सर्वे ग्रहा उक्तेषु भावेषु स्वस्वनिच- राशिगता भवेयुस्तदा भिक्षुको भवति जातक इति ॥ ३१ ॥ [ चक्र १ - दरिद्रः ] तनु/१: १२ ल. | २: १ | ३: २ | ४: ३ | ५: ४ मं. | ६: ५ | ७: शु. ६ | ८: ७ | ९: ८ चं. | १०: ९ | ११: १० वृ. | १२: ११ [ चक्र २ - भिक्षुकः ] तनु/१: ६ ल. शु. | २: ५ | ३: ४ मं. | ४: ३ | ५: २ | ६: १ | ७: १२ | ८: ११ | ९: १० वृ. | १०: ९ | ११: ८ चं. | १२: ७ जन्म समयमें शुक्र, बृहस्पति, चन्द्रमा और मङ्गल ये नीच राशिमें स्थित होकर लग्न, दशम, नवम, सप्तम और पञ्चम भावमें स्थित हों तो जातक दरिद्र हो । शुक्र लग्नमें बृहस्पति पञ्चममें, मङ्गल एकादश में, चन्द्रमा तृतीय भावमें होकर नीच राशिमें हो तो जातक भिक्षुक हो ॥ ३१ ॥ लग्ने चरे चरनवांशगतेऽसितेन दृष्टे च नीचगुरुणा यदि भिक्षुकः स्यात् । जातो विनाऽमरपुरोहितलग्नराशिं जीवे रिपुव्ययगते तु भवेद्दरिद्रः ॥ ३२ ॥ लग्ने=जन्मलग्रने चरे=चरराशौ (मे० क० तु० म० ) चरनवांशगते=चरराशिनवांशे च गते तस्मिन्नसितेन=शनिना, नीचगुरुणा=मकरस्थेन गुरुणा च दृष्टे यदि जन्म स्यात्तदा जातो भिक्षुकः स्यात् । अथ अमरपुरोहितलग्नराशिं = गुरोर्लग्नराशिं (धनुर्मीनौ) विहाय रिपुव्ययगते = षष्ठे द्वादशे वा गते जीवे = गुरौ जातस्तु दरिद्रो भवेत् । अर्थात् धनुः, मीनं वोपगते जीवे रिपुव्ययगतेऽपि दरिद्रो न भवेदिति ॥ ३२ ॥ यदि चरराशि और चरनवांशमें लग्न हो उसे शनि और नीचगत गुरु देखते हों तो जातक भिक्षुक होवे। यदि वृहस्पति अपनी राशि न हो किन्तु छठे या १२ वें भावमें हो तो जातक दरिद्र होवे। यहां इतना विशेष जानना चाहिये कि यदि गुरु स्वगृहीका हो तो दोषावह नहीं होता । (सु० शा० कार ) ॥ ३२ ॥
१७८ सटीकजातकपारिजाते- जातः स्थिरे लग्नगते तु पापाः केन्द्रत्रिकोणोपगताश्च सर्वे । केन्द्राद्वहिःस्थानगतास्तु सौम्या भिक्षाशनः स्यात्परपोषितश्च ॥ ३३ ॥ स्थिरे राशौ (२।५।८।११) लग्नगते तु सर्वे पापाः = पापग्रहाः केन्द्रत्रिकोणोपगताः (१।४।७।१०।५।९ भावगताः) भवेयुस्तथा सौम्याः = सर्वे शुभग्रहाः केन्द्राद्वहिःस्थानगताः पणफरापोक्लिमगता भवेयुः तदा जातस्तु भिक्षाशनो याच्ञावृत्त्याजीविको भवेत्परपोषि- तोऽन्यपालितश्च भवेत् ॥ ३३ ॥ यदि स्थिर लग्नमें जन्म हो, समस्त पापग्रह केन्द्रत्रिकोणमें हों केन्द्रके बाहर शुभग्रह हों तो वह जातक भिक्षा मांगकर भोजन करे और दूसरेसे पाला जाय ॥ ३३ ॥ चरे विलग्ने निशि सौम्यखेटास्त्रिकोणकेन्द्रोपगता नवीर्याः । खलग्रहाः केन्द्रबहिःस्थिताश्चेद् भिक्षाशनं नित्यमुपैति जातः ॥ ३४ ॥ निशि=रात्रिसमये चरे विलग्ने=चरराशौ लग्ने, सौम्यखेटाः=शुभग्रहाः नवीर्याः=निर्बलाः सन्तस्त्रिकोणकेन्द्रोपगताः (५।९।१।४।७।१० भावगताः) भवेयुः, खलग्रहाः=पापाः केन्द्र- बहिःस्थिताः=पणफरे आपोक्लिमे वा गताः स्युश्चेत्तदा जातो नित्यं=सर्वदा भिक्षाशनं उपै- ति । ईदृग्योगे जातो नरः सदैव भैक्ष्यमन्नमश्नातीति ॥ ३४ ॥ रातमें चरराशिका लग्न हो, शुभग्रह निर्बल होकर त्रिकोण या केन्द्रमें हों और पापग्रह केन्द्रमें न हों तो जातक प्रतिदिन भिक्षा मांगकर गुजर करे ॥ ३४ ॥ पापा नीचस्थानगाः पापकर्मा, सौम्या नीचस्थानगा गूढपापः । जीवे नीचस्थानगे कर्मराशौ, नीचे भौमे नन्दनस्थे तथैव ॥ ३५ ॥ यदि जन्मकाले पापाः पापग्रहाः = रविभौमशनिक्षीणचन्द्राः नीचस्थानगा भवेयुस्तदा जातः पापकर्मा भवति । चेत्सौम्याः = शुभग्रहा नीचस्थानगा भवेयुस्तदा जातो गूढपापो रहस्ये पापकृद्भवति । जीवे = गुरौ नीचस्थानगे कर्मराशौ = दशमभावगते ( मेषलग्ने सङ्घ- टतेऽयं योगः ), एवं नीचे भौमे = स्वनिच-( कर्क ) राशिगते भौमे नन्दनस्थे = पञ्चमभावगते ( मीनलग्रने योगोऽयं सङ्गच्छेत ) तथैव फलमर्थात्पापकर्मा भवति जातक इति ॥ ३५ ॥ यदि सभी पापग्रह नीचमें हों तो जातक पापी होवे । यदि शुभग्रह नीचमें हों तो गूढ पापी (छिपकर पाप करनेवाला) हो । यदि गुरु नीच-( मकर) का हो कर १० वें भावमें हो तो, अथवा मङ्गल नीच (कर्क) का होकर ५ वें भावमें हो तो जातक पापी होवे ॥ ३५ ॥ नीचांशगस्तुङ्गगृहोपयाता जातस्य नीचं फलमाशु दद्युः । नीचङ्गतास्तुङ्गनवांशकस्थाः सौम्यं फलं व्योमचराः प्रकुर्युः ॥ ३६ ॥ तुङ्गगृहोपयाताः=स्वस्वोच्चराशिगता व्योमचराः=ग्रहाः (शुभाः पापाश्च) नीचांशगाः= स्वस्वनिचराशिनवांशगताश्च भवेयुरर्थादुच्चराशौ नीचनवांशका भवेयुस्तदा ते ग्रहा जात- स्याशु = शीघ्रमेव नीचं फलमशुभं फलं दद्युः। अथ ते ग्रहा नीचं गताः = स्वस्वनोचराशिग- तास्तुङ्गनवांशकस्थाः, अर्थान्नीचराशावुच्चराशेर्नवांशकमुपगता भवेयुस्तदा ते जातस्य सौम्यं = शुभं फलं प्रकुर्युरिति । तथोक्तमपि सर्वार्थचिन्तामणौ- नीचस्थिता जन्मनि ये ग्रहेन्द्राः स्वोच्चांशगा राजसमानभाग्याः । उच्चस्थिताश्चेदपि नीचभागा ग्रहा न कुर्वन्ति तथैव भाग्यम् ॥ इति ॥ अत्र प्रसङ्गादन्येऽपि दरिद्रयोगा विलिख्यन्ते- सक्रूरो धनपश्चैव धनभं सौम्यसंयुतम् । धनस्वामी चास्तगतो मानो द्रव्यवर्जितः ॥ धनाधिपो यदा षष्ठे मृत्युभेऽप्यथवा व्यये । सक्रूरं धनभं चैव निर्धनः खलु मानवः ॥
जातकभङ्गाध्यायः ॥ ६ ॥ १७५ लग्नाधीशो व्ययस्थो वै सक्रूरो वा विशेषतः । निर्बलोऽस्तं गताः सौम्या निर्द्रव्यो जायते नरः ॥ लग्नस्वामी हीनवीर्यो द्रव्यनाथोऽस्तगो यदा । केन्द्रगाः सबलाः क्रूरा दरिद्रो मानवो भवेत् ॥ सक्रूरं धनभं चैव क्रूरेणैव निरीक्षितम् । धनपो रविसंयुक्तो दरिद्रोऽपहृतो भवेत् ॥ धनभं क्रूरसंयुक्तं क्रूरदृष्टं तथा पुनः । धनस्वामी तृतीये वै दरिद्रो नाम जायते ॥ पापाश्चतुर्थे ˚केन्द्रेषु तथा पापो धने स्थितः । दरिद्रयोगं जानीयात् स्ववंशस्य क्षयं करः ॥ *रविणा सहितो मन्दः शुक्रेण च युतो भवेत् । तदा दरिद्रयोगोऽयं सद्रव्यमपि शोषयेत् ॥ २६ ॥ उच्च राशिस्थ ग्रह नीच नवांशमें हों तो जातकको शीघ्र नीच फल देते हैं। नीच राशिमें होकर उच्च नवांशस्थ हों तो शुभ फल देते हैं ॥ ३६ ॥ अथ दरिद्रयोगफलम् । [L1
१८० सटीकजातकपारिजाते- प्राप्नोति ते प्रेष्ययोगाः । रवौ = सूर्ये माने = दशमे भावे, निशीशे = चन्द्रे मन्मथगे = सप्तमभाव- गते, शनौ गेहे = चतुर्थे, धराजे = मङ्गले सोदरगे = तृतीयभावमुपगते, लग्ने चरे = चरराशौ ( १।४।७।१० राशौ ) देवगुरौ = बृहस्पतौ च धनस्थे निशायां = रात्रौ जन्मनि जातो नरः परकार्यकृत् = अन्यस्य कार्यकर्ता भृत्यो भवति ॥ ३९ ॥ भृगौ = शुक्रे धर्मे = नवमभावे, मृगाङ्के = चन्द्रे कामगते = सप्तमभावगते, वाचस्पतौ = बृह- स्पतौ वित्तविलग्नपे = द्वितीयेशे लग्नेशे- वा ( लग्नेशे वा धनेशे गुरुर्भवेदित्यर्थः ) भूतनये = मङ्गले रन्ध्रस्थिते ऽष्टमभावगते च स्थिरे स्थिरराशौ लग्ने जातः कीर्त्या प्रेष्यभवा भवन्ति, अस्मिन्प्रेष्ययोगे समुद्भूता नराः कीर्त्या = यशसाऽन्विता भवन्तीत्यर्थः । अथात्र 'स्थिरे लग्ने वाचस्पतौ वित्तविलग्नपे वे'त्यत्र यदि वृश्चिकः कुम्भो वा लग्नं स्यात्तदा गुरुर्वित्तेश्रो भवितुमर्हति, परञ्च स्थिरे लग्ने गुरुर्विलग्नपतिर्न जातु भवितुमर्हो गुरोः राशिद्वयस्यैव ( ९।१२ ) द्वन्द्वत्वात्, इति विवेचनीयं विज्ञैरिति ॥ ४० ॥ निशि = रात्रौ जन्मनि चरोदयपतौ = चरराशिलग्नेशे सन्धियाते = ऋक्षसन्धिं कटकालिमी- नभान्तमुपयाते । एतदुक्तं भवति । रात्रौ चरराशिलग्नं स्यात्तदीशश्चर्क्षसन्धिगतो भवेत् । खलद्युचरे पापग्रहे केन्द्रस्थिते जातस्तु प्रेष्यो भवेत् । अथ दिवि = दिने जन्मनि मन्देन्दु- जीवभृगुजाः = शनिचन्द्रगुरुशुक्राः केन्द्रकोणे गताः ( १।४।७।१०।५।९ भावगताः ) सन्धि- स्थिताश्च भवेयुस्तथा स्थिरविलग्नयुते = लग्नं स्थिरराशिः ( २।५।८।११ ) भवेत्तदा जात- स्तथा स्यादर्थात्प्रेष्यः स्यादिति ॥ ४१ ॥ ऐरावतांशेन्द्रगुरौ = बृहस्पतिरैरावतांशे = स्वकीये नवाधिकारे ( १ अ० ४५-४८ श्लो० ) ससन्धौ = सन्धिगतश्च भवेत्, शीतद्युतौ = चन्द्रे चोत्तमवर्गयुक्ते = स्वकीयेऽधिकारत्रिंशे ( १ अ० श्लो ४५ द्रष्टव्यः ) विद्यमाने केन्द्राद्बहिःस्थे केन्द्रतोऽन्यत्रस्थे निशि = रात्रौ कृष्णपक्षे तथा शुक्रे विलग्ने तत्कालीनलग्नगते यस्य जन्म भवति स जातः परकर्मजीवी = परस्य कर्मद्वारा जीवति । अन्यस्य भृत्यो ( प्रेष्यः ) भवतीत्यर्थः ॥ ४२ ॥ चेद्यदि भूपुत्रदेवगुरुवासरनायकाः = मङ्गलबृहस्पतिसूर्याः अरिसुखास्पदसन्धिगाताः = षष्ठचतुर्थदशमभावानां सन्धौ प्राप्ताः स्युरर्थाद्भौमः षष्ठभावसन्धौ, गुरुश्चतुर्थभावसन्धौ, सूर्यो दशमभावसन्धौ स्थितो भवेत् । शशिनि = चन्द्रे शोभनराशियुक्ते शुभराशौ, पापांशके = पाप- नवांशे गतवति, जीवे = गुरौ विलग्नपेन = लग्नेशेन युते = सहिते यत्र तत्र गते जातः परकार्य- कृत् = प्रेष्यः स्यादिति ॥ ४३ ॥ पुरुहूतवन्द्ये = बृहस्पतौ मृगाननस्थे = मकरस्थे (स्वनिचस्थे) तथा सति सपत्नभावाष्ट- मरिःफराशौ = षडष्टव्ययभावे गतवति । एतदुक्तं भवति । षष्ठेऽष्टमे द्वादशे वा भावे मक- रराशिस्तद्गतो गुरुर्भवेदिति । तथा हिमगौ = चन्द्रे विलग्नाज्जन्मलग्नात् रसातलस्थे = चतु- र्थभावगते जातो नरो नित्यमनवरतं परप्रेष्यं = दास्यमुपैति = प्राप्नोतीति ॥ ४४ ॥ यदि सूर्य १० वें, चन्द्रमा ७ वें शनि ४ थे, मङ्गल ३ रे बृहस्पति २ रे भावमें हों और लग्न चरराशि ( १।४।७।१० ) का हो तथा यदि रातमें जन्म हो तो वह जातक दूसरेका नौकर होवे याने इसे प्रेष्य योग कहते हैं ॥ ३९ ॥ यदि शुक्र ९ वें, चन्द्रमा ७ वें, और मङ्गल ८ वें हो बृहस्पति लग्नेश, या धनेश हो और लग्न स्थिर राशि-( २।५।८।११ ) का हो तो यह प्रेष्य योग कहलाता है, इसमें उत्पन्न होने वाला यशस्वी नौकर होता है ॥ ४० ॥ यदि रातमें जन्म हो वहां चर लग्न हो, तथा लग्नेश सन्धिमें गत हो और पापग्रह केन्द्रगत हों तो जातक प्रेष्य ( दूसरे का नौकर ) होवे । यदि दिनमें जन्म हो वहां शनि,
जातकभङ्गाध्यायः ॥६॥ १८१ चन्द्रमा, गुरु और शुक्र केन्द्र या त्रिकोणस्थ होकर सन्धिगत होवें तथा लग्न स्थिर राशिका हो तो जातक प्रेष्य होता है ॥ ४१ ॥ सन्धिस्थ बृहस्पति ऐरावत अंशमें हो, चन्द्रमा उत्तम वर्गमें होकर केन्द्रके बाहर हो, कृष्णपक्षकी रात्रिमें जन्म हो, शुक्र लग्नमें हो तो दूसरेका कार्य करके जीवे ॥ ४२ ॥ मङ्गल, बृहस्पति और सूर्य षष्ठ, चतुर्थ और दशमभावकी सन्धिमें स्थित हों, चन्द्रमा पापांशकमें हो, शुभ राशिमें बृहस्पति लग्नेशसे युक्त हो तो दूसरेका कार्य करनेवाला होवे । बृहस्पति मकरमें होकर शत्रुभाव, अष्टम या द्वादशमें हो, चन्द्रमा लग्नसे चतुर्थमें हो तो वह जातक नित्य दूसरेका कार्य करनेवाला होवे । (सु० शा० कार) ॥ ४४ ॥ अथ प्रेष्ययोगफलम् । पापात्मा कलहप्रियः कठिनवाग् भूदेवतादूषको विद्याभाग्यविहीनदुष्टरसिको मात्सर्यकोपान्वितः । मिथ्यावादविनोदवञ्चनरतः शिश्नोदरे तत्परः कारुण्यास्थिरमानभङ्गिचतुरो योगे परप्रेष्यके ॥ ४५ ॥ इदानीं पूर्वोक्तानां प्रेष्ययोगानां सामान्येन फलमनेन श्लोकेन सरलार्थकेनोच्यते । पापात्मेति ॥ ४५ ॥ प्रेष्ययोगमें उत्पन्न मनुष्य पापात्मा, कलहप्रिय, कटुभाषी, ब्राह्मणनिन्दक, विद्या-भाग्य- हीन, दुष्ट, रसिक, डाह-क्रोधसे युक्त, मिथ्यावादी, ठगौतीमें लीन, पेट भरने और रंडीबाजी करनेमें तत्पर, कारुणीक, चल चित्त और अपमान सहनेमें चतुर होता है ॥ ४५ ॥ अथ अङ्गहीनयोगाः । मेषे वृषे चापधरे विलग्ने विकारदन्तो यदि पापट्टष्टे । मन्दे मदस्थेऽहियुते कुजे वा बलैर्विहीनेऽङ्गविहीननेवान् स्यात् ॥ ४६ ॥ मेषे, वा वृषे, वा चापधरे=धनुषि विलग्ने = जन्मलग्ने, तस्मिन् यदि पापट्टष्टे = पाप- ग्रहेण केनचिदवलोकिते जातो विकारदन्तो विकृतदशनो भवेत् । अथ मन्दे=शनौ, वा अहियुते = राहुसहिते कुजे ( कुजराहू ) मदस्थे = सप्तमभावगते बलैर्विहीने = निर्बले च जातोऽङ्गविहीनवान् स्यात् । एतद्योगे जातस्य कश्चिदङ्गो हीनः स्यादित्यर्थः ॥ ४६ ॥ मेष, वृष वा धनु लग्नमें जन्म हो उसे पापग्रह देखता हो तो जातकके दांतमें विकार हो । शनि सप्तममें हो या मङ्गल राहुके साथ निर्बल होकर ९ वें में हो तो अङ्गहीन होवे॥४६॥ लग्नाद्दशमगश्चन्द्रः सप्तमस्थो धरासुतः । द्वितीयस्थानगो 'भानुरङ्गहीनो भवेन्नरः ॥ ४७ ॥ चन्द्रमा लग्नसे दशवेंमें हो, मङ्गल सप्तममें हो, सूर्य दूसरे भावमें हो तो मनुष्य अङ्ग हीन होवे ॥ ४७ ॥ उ. ४६ श्लो. ( १ ) उ. ४७ श्लो. ( २ )
कुण्डली चक्र (Charts):
चक्र ( १ ) [उ. ४६ श्लो.]:
- लग्न (प्रथम भाव): १ ल.
- सप्तम भाव: श.
- दशम भाव: मं
चक्र ( २ ) [उ. ४७ श्लो.]:
- लग्न (प्रथम भाव): ल.
- द्वितीय भाव: सू.
- सप्तम भाव: मं.
- दशम भाव: चं
१६ जा०
१८२ सटीकजातकपारिजाते- त्रिकोणगे ज्ञे विबलैस्ततोऽपरैर्मुखाङ्घ्रिहस्तैर्द्विगुणैस्तदा भवेत् । अवागवीन्दावशुभैर्भसन्धिगैः शुभेक्षिते चेत् कुरुते गिरं चिरात् ॥ ४८ ॥ इदानीं द्विगुणाङ्गयोगो मूकयोगश्चोच्यते । ज्ञे = बुधे त्रिकोणगे = जन्मलग्नान्नवमे पञ्चमे वा स्थिते, ततोऽपरैर्बुधादितरैः सर्वैर्ग्रहैर्विबलैर्यत्र कुत्रापि निर्बलैर्जातो मुखाङ्घ्रिहस्तैर्द्विगुणै- र्युतो भवेत् । उक्तयोगे यस्य जन्म भवेत्सौ द्विमुखश्चतुर्भुजश्चतुष्पाच्च भवेदित्यर्थः । इन्दौ= चन्द्रे गवि = वृषे गतवति, अशुभैः = पापग्रहैर्भसन्धिगैः = कटकालिमीनानामन्त्यगतैर्जा- तोऽवाक् = मूको भवति । चेद्यद्यस्मिन्योगे चन्द्रः शुभेक्षितः = शुभग्रहेरवलोकितो भवेत्तदा जातस्य चिरादधिककालेन गिरं = वाचं कुरुते । अर्थादेव चन्द्रे पापेक्षिते मूक एव भवेत् । मिश्रग्रहेक्षिते बलवतो ग्रहणमिति । उक्तञ्च गर्गेण— कुलीरालिभषान्तस्थैः पापैश्चन्द्रे वृषोपगैः । मूकः पापेक्षितैः सौम्यैश्चिरेण लभते गिरम् ॥ मिश्रग्रहैर्यथावीर्य फलं बोध्यं मनीषिणा ॥ इति ॥ ४८ ॥ यदि बुध लग्नसे त्रिकोण (५।९) में हो और सब ग्रह जहां कहीं निर्बल हों तो जातक के मुख, पैर, हाथ दोगुने होते हैं, याने दो मुख, ४ पैर और ४ हाथ होते हैं। यदि चन्द्रमा वृष राशिमें हो और पापग्रह सब ऋक्ष सन्धिमें हों तो जातक गूंगा होवे। यदि इस योगमें चन्द्रमा शुभग्रहसे देखा जाता हो तो बहुत दिनोंपर वह जातक बोलता है ॥ ४८ ॥ सौम्यांशे रविजरुधिरौ चेत् सदन्तोऽत्र जातः कुब्जः स्वर्भे शशिनि तनुगे मन्दमाहेयदृष्टे ॥ पङ्गुर्मीने यमशशिकुजैर्वीक्षिते लग्नसंस्थे सन्धौ पापे शशिनि च जडः स्यान्न चेत्सौम्यदृष्टिः ॥ ४६ ॥ इदानीं सदन्तकुब्जपङ्गुजडजन्मयोगा उच्यन्ते । रविजरुधिरौ=शनिभौमौ चेद्यदि सौम्य- क्षांशे = यत्र तत्र बुधस्य राशौ (मिथुने कन्यायां वा) वा बुधस्य नवांशे (मिथुनस्य कन्याया वा नवांशे) स्थितौ भवेतां तदाऽत्र योगे जातः सदन्तो भवति, दन्तसहित एव प्रादुर्भवतीति । कुब्ज इति । शशिनि = चन्द्रे स्वर्क्षे=कर्कराशिस्ये नसति तनुगे=लग्नगते मन्दमाहेयदृष्टे=शनिभौमाभ्यामवलोकिते च जातः कुब्जः (कुबड़ Dwarf) भवति । पङ्गु- रिति । मीने = मीनराशौ लग्नसंस्थे मीनराशिलग्नं भवेदित्यर्थः, तस्मिन् यमशशिकुजैः = शनिचन्द्रमङ्गलैर्वीक्षिते=दृष्टे जातः पङ्गुः=पदविकलो (लङ्गरा Cripple) भवति । पापे= शनिभौमसूर्याणामन्यतमे, शशिनि = चन्द्रे च सन्धावृक्षसन्धौ (कर्कालिमीनान्त्ये) विद्यमाने जातो जडः = श्रोत्रेद्रियहीनो वधिर इति यावत् (Dull) भवति । चेद्यद्यस्मिन्योग- चतुष्टये सौम्यदृष्टिः = शुभग्रहाणां दृष्टिर्न स्यात्तदैवोक्तं फलं पूर्णं परिणमति । शुभदृष्टिसत्त्वे पूर्वोक्तं योगचतुष्टयं व्यर्थमेवेत्युक्तमपि सारावल्याम्— “••••••••व्यर्था भवन्ति योगाः सौम्यग्रहवीक्षिताः सर्वे” इति ॥ ४९ ॥ शनि और मङ्गल किसी भी राशिमें बुधके नवांशमें (३ के या ६ के नवांशमें) हों तो बालक दांतके सहित जन्म लेवे । चन्द्रमा अपनी राशि (४) का होकर लग्नमें हो उसपर शनि और मङ्गलकी दृष्टि हो तो जातक कुबड़ा होवे । यदि मीनराशि जन्मलग्न हो उसपर शनि, चन्द्रमा और मङ्गलकी दृष्टि होवे तो जातक लङ्गड़ा होवे। यदि चन्द्रमा और पापग्रह ऋक्षसन्धिमें हों तथा उसपर शुभग्रहकी दृष्टि नहीं हो तो जातक जड़ (बधिर) होवे ॥४९॥ सौरशशाङ्कदिवाकरदृष्टे वामनको मकरान्त्यविलग्ने । धीनवमोदयगैश्च दृगाणैः पापयुतैरभुजाङ्घ्रिशिराः स्यात् ॥ ५० ॥ लग्नद्रेक्काणगो भौमः सौरसूर्येन्दुवीक्षितः । कुर्याद्विशिरसमन्तद्वन् पञ्चमे बाहुवर्जितम् ॥ ५१ ॥
जातकमङ्गाध्यायः ॥ ६ ॥ १८३ इदानीं वामनहीनाङ्गयोगौ कथ्येते । मकरान्त्यविलग्ने = मकरराशेरन्त्यो नवांशको लग्ने भवेत् तस्मिन् सौरशशाङ्कदिवाकरदृष्टे = शनिश्चन्द्रसूर्यैरवलोकिते जातो वामनको लघूकायो भवति । धीनवमेति । धीः पञ्चमः, नवमः, उदयो लग्नं एतत्त्रयगतैर्द्रेष्काणैः पापयुतैः, सौर- शशाङ्कदिवाकरदृष्टैर्जातोऽभुजाङ्घ्रिशिराः स्यात् । अत्र पञ्चमे भावे यो द्रेष्काणस्तस्मिन्पापे- नाङ्गारकेण युते सूर्यचन्द्रशनिभिर्दृष्टे जातोऽभुजो भुजहीनो भवेत् । नवमे भावे यो द्रेष्का- णस्तस्मिन्नङ्गारकेण युते सूर्यचन्द्रशनिदृष्टे जातोऽङ्घ्रिहीनो विपदो भवेत् । लग्ने यो द्रेष्का- णस्तस्मिन्भौमे गतवति सौरशशाङ्कदिवाकरदृष्टे जातोऽशिराः शिरोरहितो भवेदिति । तथोक्तं भगवता गार्गिणा— “लग्नेद्रेष्काणगो भौमः सौरसूर्येन्दुवीक्षितः । कुर्याद् विशिरसं तद्वत्प्रक्रमे बाहुवर्जितम् । विपदं नवमस्थाने यदि सौम्यैर्न वीक्षितः” इति । अत्रापि शुभदृष्टिसत्त्वे उक्तयोगानां भङ्ग एव भवति ‘यदि सौम्यैर्न वीक्षितः’ इति गार्गि- वचनाद्बोध्यम् । अत्र ५१ श्लोकस्तु ५० श्लोकोक्तधीनवमोदयगैश्च दृगाणैरित्यस्य स्पष्टीक- रणमेवेत्यलं विस्तरेण ॥ ५०-५१ ॥ मकरके अन्त्यका ( ९।२७°-३०° ) लग्न हो उसे शनि, चन्द्र और सूर्य देखते हों तो वामन हो । पञ्चम, नवम और लग्नका द्रेष्काण पापग्रहसे युक्त हो तो जातक क्रमसे बिना हाथ, पैर, शिरका होवे ॥ ५० ॥ लग्नके द्रेष्काणमें मङ्गल हो शनि, सूर्य और चन्द्रमा उसे देखते हों तो बिना शिरवाला हो और यही योग पञ्चममें हो तो हस्तहीन हो । ( सु शा. कार ) ॥ ५१ ॥ रविशशियुते सिंहे लग्ने कुजार्किनिरीक्षिते नयनरहितः सौम्यासौम्यैः सबुद्बुदलोचनः ॥ व्ययगृहगतश्चन्द्रो वामं हिनस्त्यपरं रवि- र्न शुभगदिता योगा याप्या भवन्ति शुभेक्षिताः ॥ ५२ ॥ इदानीं विकलनयनयोगा उच्यन्ते । सिंहे लग्ने रविशशियुते=सूर्यचन्द्रमसौ जन्मलग्न- अन्तर्गतसिंहराशौ भवेतां तस्मिन्, कुजार्किनिरीक्षिते=भौमशनिभ्यामवलोकिते जातो नयन- रहितोऽन्धो भवति । तस्मिन्नेव योगे सौम्यासौम्यैः = शुभग्रहैः पापग्रहैश्च निरीक्षिते जातः सबुद्बुदलोचनः=पुष्पिताक्षः ( Blear eyed ) भवति=अत्रैतदवधेयम् । यदि सिंहलग्ने केवलं सूर्यः कुजार्किनिरीक्षितो भवेत्तदा दक्षिणाक्षिकाणः, मिश्रग्रहैर्निरीक्षितस्तदा दक्षिण- बुद्बुदाक्षो भवति । केवलं चन्द्रः सिंहलग्ने कुजार्किनिरीक्षितो वामाक्षिकाणः, सौम्यासौम्यै- र्निरीक्षितो वाम-बुद्बुदाक्षो भवति । व्ययगृहेति । चन्द्रो लग्नाद् व्ययगृहं गतो द्वादशभा- वगतश्चेद् वामं नेत्रं हिनस्ति । तदानीं जातो वामाक्षिकाणो भवति : रविर्व्ययगृहगतोऽपरं = दक्षिणं नयनं हिनस्ति । न शुभगदितेति । पूर्वोक्ताः सर्वे योगा न शुभगदिताः = अशुभफल- दास्ते चेच्छुभेक्षिताः=शुभग्रहदृष्टा भवेयुस्तदा याप्या भवन्ति । पूर्णं फलं न ददति किन्तु किञ्चिदेव फलं प्रयच्छन्तीत्यर्थः । तथैवाह सारावल्याम्— स्यातां यद्याधाने रविशशिनौ सिंहराशिगौ लग्ने । दृष्टौ कुजसौरिभ्यां जात्यन्धः सम्भवति तत्र ॥ आग्नेयसौम्यदृष्टौ रविशशिनौ बुद्बुदेक्षणं कुरुतः । नयनविनाशोऽपि यथा तथाऽधुना सम्प्रवक्ष्यामि ॥ व्ययभवनगतश्चन्द्रो वामं चक्षुर्विनाशयति हीनः । सूर्यस्तथैव चान्यच्छुभेक्षितौ याप्यतां नयतः ॥ इति ॥
१८४ सटीकजातकपारिजाते- Notes-पूर्वोक्ता एते श्लोका बृहज्जातके सारावल्यां चाधानकालिकविचाराहीः, परञ्च तत्रैव 'जन्मन्वाधाने प्रश्नकाले वे'त्यपि दर्शनाज्जन्मकालेऽपि विचारणीया इति ॥ ५२ ॥ सिंह लग्नमें सूर्य और चन्द्र हों उन्हें मङ्गल और शनि देखते हों तो वह बालक नेत्र- रहित हो । यदि शुभग्रह पापग्रह दोनों देखते हों तो बुद्बुद नेत्र हो । व्ययमें चन्द्रमा हो तो वाम नेत्रकी हानि करे और सूर्य हो तो दक्षिण नेत्रकी हानि करे । अशुभ ग्रहोंके देखने से ये योग होते हैं। यहां शुभ ग्रहके देखनेसे उससे न्यून फल होता है ॥ ५२ ॥ शूरः स्तब्धो मध्यदृष्टिर्विलग्ने मेषे स्वोच्चे रोगदृक् सिंहगेऽर्के । रात्रावन्धस्तौलिगे निर्द्धनी स्यात् कर्किण्यर्के लग्ने बुद्बुदाक्षः ॥ ५३ ॥ इदानीं रखेः स्थितिवशेन नेत्रविकारयोगा उच्यन्ते । अर्के=सूर्ये विलगने जन्मकाले गते सति जातः शूरः=सङ्ग्रामी, स्तब्धश्चिरकार्यकृत्, मध्यदृष्टिस्तर्यङ्नयनश्च भवेत् । एतत्किल सामान्येन लग्नगतसूर्यफलम् । मेष-सिंह-तुला-कर्कलग्नगतेऽर्के फले वैलक्षण्यं तदुच्यते । मेषे स्वोच्चे लग्ने गतेऽर्के रोगदृक्=नेत्ररोगी भवति । सिंहगेऽर्के=सिंहराशिगतलग्ने विलसति सूर्ये जातो रात्रावन्धो निशान्धो भवति । तौलिगे =तुलालग्ने (नीचे) गतेऽर्के जातो निर्धनी=दरिद्रो भवति । अर्के=सूर्ये कर्किणि लग्ने=कर्कराशिलग्ने गतवति जातो बुद्बु- दाक्षः = पुष्पिताक्षो भवति । उक्तमपि बृहज्जातके- "शूरस्तब्धो विफलन्नयनो निर्घृणोऽर्के तनुस्थे, मेषे सखस्तिनिरनयनः, सिंहसंस्थे निशान्धः नीचेऽन्धोऽस्वः, शशिगृहगते बुद्बुदाक्षः पतङ्गे, भूरिद्रव्यो नृपहतधनो वक्त्ररोगी द्वितीये इति"॥ यदि सूर्य जन्मलग्नमें हो तो जातक शूर (संग्रामप्रिय), स्तब्ध (चिरकार्य कर्त्ता) और मध्यनेत्र होवे । सूर्य यदि मेष लग्नका हो तो नेत्रमें रोग हो । सिंह लग्नमें सूर्यके होनेसे रात्र्यन्ध हो । तुला लग्नस्थ सूर्य हो तो दरिद्र हो । कर्क लग्नमें सूर्य हो तो बहुत छोटी आंखें हों ॥ ५३ ॥ व्यये रवीन्दू युगपत् पृथक्स्थौ नेत्रे हरेतामपसव्यसव्ये । पट्छिद्रगाश्चाक्षि हरन्ति पापाः सव्यं रिपौ दक्षिणमष्टमस्थाः ॥ ५४ ॥ रवीन्दू=सूर्याचन्द्रमसौ युगपत्सम्मिलितौ व्यये = लग्नाद् द्वादशगतौ भवेतां तदा जा- तस्य नेत्रे=द्वे चक्षुषी हरेतां = विनाशयेताम् । तावेव सूर्येन्दू व्यये पृथक्स्थौ भवेतां तदा सव्यापसव्ये नेत्रे हरेतामर्थात् सूर्यो हि केवलं व्यये तदा दक्षिणं नेत्रं, चन्द्रः केवलं व्यये स्थितो वामं नेत्रं नाशयतीति । षट्छिद्रगा इति । पापाः=पापग्रहाः षट्छिद्रगाः षष्ठष्टमा- वगताश्चाक्षि=नेत्रं हरन्ति = नाशयन्ति । तत्र रिपौ = षष्ठे स्थिताः पापाः सव्यं = वामनेत्रे हरन्ति, अष्टमस्थाः पापा दक्षिणं नेत्रं हरन्ति । तथोक्तमपि सर्वार्थचिन्तामणौ- दिनेशचन्द्रौ व्ययगौ तदानीमन्धो भवेत्सौम्यदृशा विहीनौ । युक्ते तयोरन्यतरेण रिफे काणो भवेत्सौम्यदृशा विहीने ॥ उक्तयोगे शुभग्रहदृष्टिसत्त्वे न तयोगफलमिति सर्वार्थचिन्तामण्युक्तवचनाद्बोध्यमिति ॥ यदि सूर्य और चन्द्रमा दोनों १२ वें भावमें हों तो दोनों आंखोंसे अन्धा हो । यदि केवल सूर्य १२ वें हो तो दाहिनी आँख और केवल चन्द्रमा १२ वें हो तो बांयी आंख अन्धी हो । या पापग्रह (मं० श० रा० के० सू०) छठे, आठवें भावोंमें हों तो आंखें अन्धी होती हैं। यहां भी छठेमें पापग्रह बांयी आंख और आठवेंमें दाहिनी आंखको नष्ट करते हैं ॥५४॥ विकर्त्तनो लग्नगतोऽस्तगो वा दिनेशपुत्राभियुतेक्षितश्चेत् । तस्येक्षणं दक्षिणमाशु हन्यादहिंक्ष्मासूनुयुतस्तु वामम् ॥ ५५ ॥ विकर्त्तनः=सूर्यो लग्नगतो वा अस्तगतः=सप्तमभावगतो दिनेशपुत्रेण=शनिनाऽभियु- तेक्षितः=सहितोऽवलोकितो वा चेद्भवत्तदा तस्य जातस्य दक्षिणमीक्षणं=चक्षुराशु=शीघ्रमेव
जातकमञ्जर्याध्यायः ॥ ६ ॥ १८४ हन्यान्नाशयते । स एव लग्नगतो वा सप्तमस्थो रविरहिक्षमासूनुभ्यां = राहुभौमाभ्यां चेद्युतो भवेत्तदा तु वामं चक्षुर्हन्यादिति ॥ ५५ ॥ यदि सूर्य लग्न या ७ वें भावमें हो उसे शनि देखता हो या शनि सूर्यके साथ हो तो जातककी दाहिनी आंख नष्ट करता है। यदि लग्नस्थ या ७ मस्थ सूर्य राहु और मङ्गलसे युक्त हो तो बांयीं आंख नष्ट करता है । ( सु० ज्ञा० कार ) ॥ ५५ ॥ दिनेशचन्द्रौ यदि रिष्फयातौ सपत्नरण्ध्रव्ययगास्त्वसौम्याः । हन्यादरिस्थो नयनं हि वामं रन्ध्रस्थितो दक्षिणभागनेत्रम् ॥ ५६ ॥ दिनेशचन्द्राविति । सूर्यचन्द्रमसौ यदि जन्मलग्नात् रिष्फयातौ=द्वादशभावगतौ भवेतां तथैव चासौम्याः=पापग्रहाः सपत्नरन्ध्रव्ययगाः=षष्ठष्टव्ययभावगतास्तु भवेयुः ( तुशब्दोऽत्र पक्षान्तरवाची ) तदा जातस्य नेत्रद्वयं विनश्यति । हन्यादिति । अरिस्थः षष्ठस्थो हि पापग्रहो वामं नेत्रं हन्यात् । तथा रन्ध्रस्थितोऽष्टमभावगतः पापो दक्षिणभागनेत्रं इत्यादीति । श्लोकोऽयं ५४ श्लोकतुल्यार्थ एवेति ॥ ५६ ॥ वा यदि सूर्य और चन्द्र बारहवें हों, षष्ठ, अष्टम और द्वादशभावमें पाप हों तो षष्ठ- स्थानीय ग्रह वाम नेत्रका नाश करे और अष्टमस्थ ग्रह दक्षिण नेत्रका नाश करे ॥ ५६ ॥ कुजे धनेशे निधने रवीन्द्रोः शत्रुव्ययस्थानगतेऽर्कजेऽन्धः । रन्ध्रावसानारिगते शशाङ्के शनौ सभौमे यदि नष्टनेत्रः ॥ ५७ ॥ कुज इति ! धनेशे=द्वितीयभावपतौ कुजे रवीन्द्रोः = सूर्याचन्द्रमसोरेकस्थयोः सकाशा- न्निधनेऽष्टमे गते, अर्कजे = शनैश्चरे शत्रुव्य- यस्थानगे=रवीन्द्रोः षष्ठे वा द्वादशे गते जातो- ऽन्धो भवति । रन्ध्रेति । शशाङ्के=चन्द्रे रन्ध्रा- वसानारिगते=लग्नात् षष्ठष्टव्ययभावगते, शनौ सभौमे=कुजयुते च यदि जन्म भवेत्तदा जातो नष्टनेत्रो गलितनेत्रो (Sightless) भवति । [कुण्डली १: लग्न ७ | २ भाव ८ | ३ भाव ९ | ४ भाव १० | ५ भाव ११ | ६ भाव १२ | ७ भाव १ मं. | ८ भाव २ | ९ भाव ३ | १० भाव ४ | ११ भाव श. ५ मं. | १२ भाव ६ र. चं.] यदि मंगल द्वितीयेश होकर सूर्य और चन्द्रमासे ८ वें भावमें हो और शनि ६ ठे वा १२ वें भावमें हो तो जातक अन्धा हो । यदि चन्द्रमा ८, १२, ६ भावमें हो और शनि मङ्गलके साथ हो तो ( नष्ट नेत्र ) हो । ( सु० ज्ञा० कार ) ॥ ५७ ॥ षष्ठे चन्द्रेऽष्टमे भानौ लग्नादन्त्यगतेऽर्कजे । वित्तस्थानगते भौमे शक्रोऽप्यन्धो भवेद् ध्रुवम् ॥ ५८ ॥ षष्ठ इति । चन्द्रे लग्नात्षष्ठे, भानौ = सूर्ये लग्नादष्टमे, अर्कजे = शनौ लग्नादन्त्यगते, भौमे वित्तस्थानगते=द्वितीयभावगते चात्र योगे जातो नरः शक्रोऽपि=महेन्द्रसमोऽप्य- न्धो ध्रुवं = निश्चयेन भवेदिति । तथा च बृह- ज्जातके- निधनारिधनव्ययस्थिता रविचन्द्रारयमा यथा तथा । बलवद्ग्रहदोषकारणे- र्मनुजानां जनयन्त्यनेत्रताम् ॥ ५८ ॥ [कुण्डली २ (प्रबलान्ध-योगः): मं. (२ भाव) | ल. (१ भाव) | श. (१२ भाव) | मध्य: प्रबलान्ध-योगः | चं. (६ भाव) | सू. (८ भाव)]
१८६ सटीकजातपारिजाते- चन्द्रमा छठे हो, सूर्य आठवें हो, लग्न से १२ वें शनि हो और दूसरे मङ्गल हो तो इस योगमें इन्द्र भी निश्चय अन्धा हो ॥ ५८ ॥ लग्नेश्वरेण सहिते यदि वित्तनाथे दुःस्थेऽक्षिनाशनमथास्फुजिदिन्दुयुक्ते । नेत्रेश्वरे तनुगते यदि नैशिकोऽन्धः स्वोच्चे शुभग्रहयुते न तथा वदन्ति ॥५६॥ लग्नेश्वरेणेति । यदि वित्तनाथे=द्वितीयभावेशे लग्नेश्वरेण=लग्नपतिना सहिते दुःस्थे= षडष्टव्ययगे जन्म भवेत्तदा जातस्याक्षिनाशनं=नेत्रविनाशं ब्रूयात् । अथेति । अथानन्तरं- नेत्रेश्वरे=द्वितीयभावेशे आस्फुजिदिन्दुयुक्ते=शुक्रचन्द्रसहिते तनुगते=लग्नगते यदि जायते तदा नैशिकोऽन्धो रात्र्यन्धो ( Night blind ) भवति । तस्मिन्नेत्रेश्वरे स्वोच्चे स्वकीयोच्चराशिगते शुभग्रहयुते च तथाऽन्धत्वं न वदन्ति विप्रा इति ॥ ५९ ॥ यदि द्वितीयभावेश लग्नेशसे युक्त होकर ६, ८, १२ में हो तो आंखें अन्धी हो। यदि द्वितीयेश शुक्र और चन्द्रमाके साथ होकर लग्नमें हो तो जातक रात्र्यन्ध हो । यदि वह द्वितीयेश उच्चगत ग्रह और शुभग्रहसे दृष्ट हो तो वैसा न हो याने आंखें अच्छी हों