कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
| १०४ | कादम्बरी- | [कथामुखे- |
|---|
यावच्चासौ तस्मात्तरुशिखरान्नावतरति तावदहमवशीर्ण-पर्ण$^१$-सवर्णत्वादस्फुटोपलक्ष्य-माण-मूर्तिः पितरमुपरतमुत्सृज्य नृशंस इव प्राणपरित्यागयोग्येऽपि काले ^२बालतया कालान्तरसुवः स्नेहरसस्यानभिज्ञो जन्मसहभुवा भयेनैव केवलमभिभूयमानः किञ्चिदुपजाताभ्यां पक्षाभ्यामीषत्कृतौ$^३$वष्टम्भो लुठंस्तितस्ततः कृतान्तमुख-कुहरादिव विनिर्गतमात्मानं मन्यमानः नातिदूरवर्त्तिनः, शबरसुन्दरी-कर्णपूर-^४रचनोपयुक्त-पल्लवस्य, सङ्कर्षण-पट-नील$^५$-च्छाययोपहसत इव गदाधर-देहेच्छविम्, अच्छेः कालिन्दी-जल-च्छेदैरिव विरचितच्छदस्य, वन-करिमदोपसिक्त-किसलयस्य, विन्ध्याटवी-केशपाश-श्रियममुद्वहंतः, दिवाप्यन्धकारितशाखा-
यावदिति । यावत् यावता समयेन असौ जीर्णशबरः तस्मात् तरुशिखरात् शाल्मलीवृक्षाग्रात् नावतरति नोत्तरति तावता कालेन अहं वैशम्पायनः तमालविटपिनो मूलदेशमविशमित्यग्रेतनेन सम्बन्धः । अवशीर्णस्य तत्क्षणविगलितस्य अशुष्कस्य सरसः पर्णस्य तरुपत्रस्य सवर्णत्वात् तुल्यहरिद्वर्णत्वात् अस्फुटम् अप्रकटम् उपलक्ष्यमाणा अवलोक्यमाना मूर्तिः स्वरूपं यस्य स तादृशः । नृशंस इव क्रूर इव तत्समये तातपरित्यागादित्याशयः । उपरतं विगतप्राणं पितरं तातम्, उत्सृज्य, परित्यज्य, प्राणपरित्यागे जीवितोत्सर्गे योग्येऽपि उचितेऽपि काले समये तथाविधप्रेमविधाflightतात्परित्यागादित्याशयः । बालतया शिशुत्वेन कालान्तरभुवः बाल्यातिरिक्तावस्थायां जननसामर्थ्यस्य स्नेहरसस्य शयनासनभोजनादिषु प्रेमविषयकरसस्य अनभिज्ञः अज्ञाता जन्मसहभुवा उत्पत्तिकालादारभ्य समुत्पन्नेन त्रासेनेव केवलं समन्ततः अभिभूयमानः स्वाधीनीक्रियमाणः, किञ्चित् ईषत् उपजाताभ्याम् उत्पन्नाभ्यां पक्षाभ्यां पतत्त्वाभ्याम् ईषत्कृतः किञ्चिद्विहितः अवष्टम्भ आधारो यस्य स तादृशः पृथिव्यां स्वल्पं स्वल्पमवलम्बनं विधायेत्यर्थः इतस्ततः पृथिव्यां लुठन् निपतन् । कृतान्तस्य यमस्य मुखमिव मुखं वदनं यस्य तथाभूतात् कुहरात् विवरात् विनिर्गतमिव विनिःसृतमिव आत्मानं निजं मन्यमानः बुध्यमानः । इह विनिर्गतमिवेति क्रियोत्प्रेक्षा ।
नातीतिति । नातिदूरवर्त्तिनः नातिदविष्ठस्थायिनः । शबराणां किरातानां याः सुन्दर्यो रमण्यः तासां कर्णपूराणि कर्णभूषणानि तेषां रचनायां विनिर्मितौ उपयुक्ता उपयोगिनः पल्लवाः किसलया यस्य तस्य तादृशस्य, सङ्कर्षणस्य बलभद्रस्य 'सङ्कर्षणः सीरपाणिः कालिन्दीभेदनो बलः' इत्यमरः, पटवत् वस्त्रवत् नीलच्छायया नीलकान्त्या गदाधरदेहच्छवि श्रीकृष्णशरीरद्युतिम् उपहसत इव उपहासं कुर्वत इव विद्यमानम् । अच्छैः निर्मलैः कालिन्दीच्छेदैः यमुनाजलखण्डैरिव विरचिता विनिर्मिताः छदाः पर्णानि यस्य तस्य तादृशस्य द्वयोरपि नीलरूपत्वादित्यभिप्रायः । वनकरिणाम् अरण्यगजानां मदादानवारीणि तै रुपसिक्तानि कृतसेचनकानि किसलयानि पल्लवानि यस्य तस्य तथोक्तस्य । विन्ध्याटव्या दण्डकारण्यस्य केशपाश-
उस दुष्ट के पेड़ से उतरने के पहिले ही निष्ठुर हृदय के समान मैं मरे हुए पिता को छोड़कर उनकी गोद से निकल पड़ा। मेरा रंग भी उन्हीं सूखे पत्तों के समान ही था, अतः मेरा शरीर उस पर स्पष्ट दिखाई नहीं पड़ रहा था। यद्यपि उस समय मेरा मर जाना ही उचित था, लेकिन मुझ में बचपन के कारण बाद में होनेवाले प्रेम का अनुभव नहीं था, केवल जन्म के साथ ही पैदा होनेवाला भयमात्र था। इसलिए भयभीत होकर कुछ-कुछ निकले हुए पङ्खों के सहारे इधर-उधर लोटता हुआ अपने को यमराज के मुँह के भीतर निकला हुआ समझकर समीप ही के एक बड़े तमाल वृक्ष की जड़ में घुस गया मानो दूसरे पिता की गोद में चला गया। उसकी नयी-नयी कोपलें भीलनियों के कानों के आभूषण बनने योग्य थीं, वह बलराम के वस्त्र की तरह नीली छाया से भगवान कृष्ण के साँवले शरीर की खिल्ली-सी उड़ा रहा था। उसके पत्ते गहरे रंग के लग रहे थे मानों यमुनाजल के टुकड़ों से बने हों और उनसे निकलती हुई गन्ध के कारण वे ऐसे लग रहे थे मानों जंगली हाथियों के मदजल से सिंचे हों। वह पेड़ विन्ध्याटवी के जूड़े के समान प्रतीत हो रहा था और इतना घना था कि सूर्य की किरणें भी उसमें घुस नहीं सकती थीं जिससे उसके नीचे दिन में ही अन्धकार छाया रहता था।
१. '...पत्र । २. बालकतया । ३. ईषत्कृतगमनावष्टम्भः । ४. नीलच्छायम्, नीलदलच्छायया, नील्या छायया । ५. क्वचिद् 'देह' इति पाठो नास्ति । ६. 'मदसलिलैरिवोपसिक्त'..., मदसलिलैरिव संसिक्त'...' । ७. उद्वहन्तः ।
शुकेन स्वावस्थावर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । १०५
न्तरस्य, अप्रविष्ट-सूर्य्य-किरणमतिगहनपरस्येव पितुरुत्सङ्गमतिमहतस्तमालविटपिनो मूलदेशमविशम् ।
अवतीर्य्य च^१ स तेन समयेन क्षितितल-विप्र^२कीर्णान् संहृत्य तान्^३ शुकशिशूननेक-लता-पाश-संयतानाबँद्ध्य^४ पर्णपुटेऽतित्वरित-गमनः सेनापतिगतेनैव वर्त्मना तामेव^५ दिशमर्गच्छत्^६।
मांन्तु लब्ध-जीविताशं प्रत्यग्र-पितृमरण-शोक-शुष्क-हृदयम् अतिदूरापातादाँयासित-शरीरं सन्त्रास-जात-वेपथुं सर्वोङ्गोपतापिनो बलवती पिपासा परवशमकरोत् ।
अनया च काल-कलया सुदूरमतिक्रान्तः स पापकृदिति परिकलय्य किञ्चिदुन्नमित-कन्धरो भयचकितया दृशा दिशोऽवलोक्य^१० तृणेऽपि चलति पुनः प्रतिनिवृत्त इति तमेव पदे
श्रियं नीलवर्णत्वाद् कुन्तलसमूहकान्तिम् उदूहन् धारयतः। दिवाऽपि दिवसेऽपि अन्धकारतानि सूर्य-किरणप्रवेशाभावात् समुत्पन्नान्धकाराणि शाखान्तराणि स्कन्धाभ्यन्तरप्रदेशा यस्य तस्य तथोक्तस्य। अति-महतः अत्यन्तविशालस्य तमालविटपिनः तमालतरोः अपरस्य अन्यस्य पितुः जनकस्य उत्सङ्गमिव क्रोड-मिव भयनिवारकत्वात् पर्याप्तवरणकत्वाच्चेत्याशयः। अप्रविष्टा अन्तरप्राप्ताः सूर्यस्य दिनेशस्य किरणा-रश्मयो यस्मिन् म तं तादृशम्, अतिगहन अतिशयेनापूर्णावकाशम्। मूलदेशं वृक्षमभागम् अविशं प्रविष्ट-वान्। इह सङ्कीर्णादिश्चयन्ते लुप्तोपमाक्रियोत्प्रेक्षयोः अच्छैरियादिशब्दस्यान्ते जाप्युत्प्रेक्षावृत्त्यनुप्रासयो-श्चैकाध्रयानुप्रवेशरूपः सङ्करालङ्कारः। विन्ध्याटव्याः केशपाशश्रियभिव श्रियमिति विम्बप्रतिविम्वयस्वभाव-बोधनान्निदर्शनालङ्कारः। उत्सङ्गमिवेत्यत्र क्रियोत्प्रेक्षा।
अवतीर्येति। अवतीर्य उत्तीर्य च स वृद्धकिरातः तेन समयेन तत्कालेन क्षितितले भूतले विप्रकीर्णान् इतस्ततो विक्षिप्तान् तान् वृक्षपतितान् शुकशिशून् कीरडिम्भान् संहृत्य एकीकृत्य अनेकैः बहुभिः लता-पाशैः वल्लीरूपबन्धनरज्जुभिः संयतान् यद्धान् विधायेति शेषः। पर्णपुटे छदपुटे आबद्धय प्रपूर्य, अति-स्वरितम् अतिशीघ्रं गमनं गतिर्यस्य स तादृशा, सेनापतिगतेनैव सैन्यनायको येन वर्त्मना यया गतस्तेनैव पथा तामेव दिशं सेनापत्याश्रितामेवाशाम् अगच्छद् अगमत्।
मामिति। मां पिपासापरवशमकरोदित्यन्वयः। लब्धां प्राप्ता जीविताशां प्राणधरणसम्भावना येन तादृशम्, तच्चाण्डालस्य गमनादित्याशयः। प्रत्यग्रः अभिनवो यः पितृमरणशोकः तातमृत्युविषादः तेन शुष्कम् अक्लिन्नं सङ्कुचितं वा हृदयं मनो यस्य स तं तादृशम्। अतिदूरापातात् अत्युच्चतप्रान्ततः पतनात् आयासितं परिश्रमितं शरीरं वपुर्यस्य स तादृशः तम्, तथा सन्त्रासेन अतिभयेन जातः समुत्पन्नो वेपथुः कम्पा यस्य स तादृशस्तम्। सर्वाङ्गोपतापिनो समस्तहस्तपादादिग्यथादायिनी बलवती शक्तिशालिनो पिपासा तृट् परवशं पराधीनम् अकरोत् कृतवती।
अनया चेति। अनया अमुया कालकलया घटिकया स पापकृत् वृद्धकिरातः सुदूरं दूरदेशम् अति-क्रान्तः, अतीत इति परिकल्प्य मनसि विचार्य, किञ्चिदुन्नमिता दिगवलोकनायेपढूर्वीकृता कन्धरा ग्रीवा येन स तादृशः। भयेन त्रासेन चकितया चञ्चलया दृशा नेत्रेण दिशोऽवलोक्य आशा निरीक्ष्य सोऽथवा-ऽन्यो वा तथाविध आयाति न चेति ज्ञानार्थमित्याशयः। तृणेऽपि यत्रसेऽपि चलति कम्पमाने सति पुनर्भूयः
थोड़ी ही देर बाद उस पेड़ से उतर कर उस बूढ़े भील ने पृथ्वी पर फैले हुये शुगों के बच्चों को इकट्ठा किया और पत्तों के दोने में रखकर लताओं से बाँध दिया। फिर उन्हें लेकर वह अत्यन्त शीघ्रता से उसी ओर चल पड़ा जिधर सेनापति गया था। यद्यपि अब मुझे जीवित बच जाने की कुछ आशा हो चली थी, किन्तु तत्काल ही मरे हुए पिता के शोक में हृदय सूख रहा था, बहुत ऊपर से गिरने के कारण शरीर भी दुख रहा था, भय के कारण कंपकंपी लगी हुई थी और मारे शरीर को जलाने वाली जोर की प्यास ने मुझे विह्वल बना दिया था। इतनी देर में वह दुष्ट बहुत दूर तक चला गया होगा... ऐसा सोचकर मैंने अपनी गर्दन थोड़ी
१. क्वचित् 'च' इति पाठो नास्ति ।
२. विकीर्णान् ।
३. क्वचित् 'तान्' इति पाठो न विद्यते ।
४. आबध्य ।
५. 'तामेव' इत्यपि पाठः क्वचिन्नास्ति ।
६. अन्वगच्छत् ।
७ पातादायासितशरीरं ।
८. सन्त्रा-सजाता सर्व्वाङ्गोप०... ।
९. आक्रान्तः ।
१०. विलोक्य ।
१४ का० कथा०
| १०६ | कादम्बरी- | कथामुखे- |
|---|
पदे पापकारिणमुत्प्रेक्षमाणो निष्क्रम्य तस्मात्तमालतरु^१मूलात् सलिल-समीपमुपसर्त्तुं^२ प्रयत्नमकरवम् ।
अजातपक्षैतया च नातिस्थिरैतर-चरण-सञ्चारस्य मुहुर्मुहुर्मुखेन^५ पततो मुहुस्तिर्यङ्निपतन्तमात्मानमेकया पक्षपाल्या सन्धायैतः क्षितितलसंर्पण-श्रमातुरस्य अनभ्यासवशादेकमपि दत्त्वा पदमनवरतमुन्मुखस्य, स्थूलस्थूलं^७श्वसतो धूलिधूसरस्य संसर्पतो ममाभून्मनसि-'अतिकष्टासु दशांस्वपि जीवित^११-निरपेक्षा न भवन्ति खलु जगति प्राणिनां वृत्तयैः। नास्ति जीवितादन्यदभिमततरमिह जगति सर्वजन्तूनाम् । एवमुपरतेऽपि सुगृहीतनाम्नि ताते
प्रतिनिवृत्तः तथोक्तदिग्दर्शनात्प्रत्यावृत्तः, तदागमनभयेनेत्याशयः । इति एवं पापकारिणं पापविधायिनं तमेव जीर्णशबरमेव पदे पदे प्रतिपदम् उत्प्रेक्षमाणः भयवशेन प्रतिस्थानम् उत्पश्यन् निष्क्रम्य बहिर्निःसृत्य तस्मात् तमालतरुमूलात् तमालवृक्षाधःस्थलात् सलिलसमीपं जलान्तिकम् उपसर्त्तुं गन्तुं प्रयत्नम् उद्योगम् अकरवम् कृतवान् ।
अजातेति । मम मनसि एवमभूदिति सम्बन्धः। अजातपक्षतया अनुपन्नपक्षतया नातिस्थिरतरः किञ्चिदस्थिर इत्यर्थः, चरणसञ्चारः पादस्थापनसामर्थ्यं यस्य स तादृशः, मुहुर्मुहुः वारंवारं मुखेन वदनेन पततो भूतले लुण्ठनं विदधतः, मुहुः वारंवारं तिर्यक् कुटिलं कञ्चाधोऽवयवयोरित्यर्थः, निपतन्तं भ्रश्यन्तम् आत्मानं स्वम् एकया केवलया 'एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथा' इत्युक्ते, 'एके मुख्यान्यकेवलाः' इत्यमराच्च, पक्षपाल्या पक्षप्रदेशेन 'पालिः कर्णलतायां स्यात् प्रदेशे पङ्किचिह्नयोः' इत्यजयः, सन्धालयतः पतनाद्रक्षां कुर्वतः । क्षितितले भूतले संसर्पणेन गमनेन यः श्रमः खेदः तेन आतुरस्य व्यथितस्य अनभ्यासात् भूयो भूयो विधानाभाववशाद् एकमपि भूतले संसर्पणेन गमनेन यः श्रमः खेदः तेन आतुरस्य मयि तस्य अनभ्यासात् भूयो भूयो विधानाभाववशात् एकमपि एकसंख्याकमपि पदं पदं चरणं दत्त्वा निवेश्य, अनवरतं निरन्तरम् अधिकसमयमिति यावत्, उन्मुखस्य ऊर्ध्वाननस्य 'आननं लपनं मुखम्' इत्यमरः। स्थूलं स्थूलं दीर्घदीर्घं यथा स्यात्तथा श्वसतः श्रमेण श्वासमोक्षणं विदधतः। धूलिभिः, भूयो भूयः पतनात् लग्नैः क्षितितलपांशुभिश्च धूसरस्य धूम्रवर्णस्य । संसर्पतः सलिलान्तिकं व्रजतो मम मनसि हृदये समभूद् आता एवं वृत्तिरिति शेषः ।
तां वृत्तिमेव स्पष्टयति-अतिकष्टास्विति । अतिकष्टास्वपि अत्यन्तकलेशजनिकासु दशासु एवं विधासु अवस्थासु प्राणिनां जन्तूनां वृत्तयः प्रवर्त्तनरूपाः क्रियाः जीवितनिरपेक्षा जीवने गतस्पृहा न भवन्ति न जायन्ते, जन्तवो ह्यनेकमपि क्लेशमनुभवन्ति तथापि स्वप्राणसत्तामभिलषन्त्येवेत्याशयः ।-अत एव इह जगति अस्मिन् संसारे सर्वजन्तूनां सर्वप्रकारशरीरिणां 'प्राणी तु चेतनो जन्मी जन्तुजन्यशरीरिणः' इत्यमरा, जीवितात् जीवनात् अन्यत् इतरत् अभिमततरम् अभिलषिततरं वस्तु विषयो नास्ति न विद्यते । उक्तविषयं संयोजयितुमाह-एवमिति । यत् यस्मात् कारणात् सुगृहीतनाम्नि मम प्रातश्चिन्त-
ऊँची की और डरी हुई निगाहों से इधर-उधर देखने लगा । एक तिनके के खड़कने पर भी मुझे उस पापी के फिर लौट आने का सन्देह हो जाता था। इसलिये पग-पग पर उस पापी की सम्भावना करता हुआ मैं उस वृक्ष की जट से निकल कर जल के पास पहुँचने के लिये प्रयत्न करने लगा।
अभी तक न तो मुझ में पर ही आये थे और न तो पैरों में टिक सकने की शक्ति ही थी इसलिये लड़खड़ा कर बार-बार मुँह के बल गिर पड़ता था, कभी तिरछे होकर उलटते समय करवटों के बल अपने को संभाल भी लेता था। पृथ्वी पर लुढ़कने-लुढ़कने तथा चलने का अभ्यास न होने के कारण में इतना थक गया था कि एक ही पग चलकर चोंच उठा लेता और लम्बी-लम्बी साँसें खींचने लगता था। मेरा सारा शरीर भी धूल में सन उठा था। अपनी इस दशा पर मैं मन ही मन सोचने लगा-अत्यन्त कष्ट की दशा में भी प्राणियों की प्रवृत्तियाँ जीवन की आशा का परित्याग नहीं कर पातीं। सभी प्राणियों के लिये इस संसार में जीवन से अधिक प्रिय अन्य कोई भी वस्तु नहीं है। तभी तो इतने पूज्य पिता के मरने पर भी मैं सुध-बुध के
१. तमालतरुतलमूलात् । २. सत्तुं । ३. अनुजातपक्षतया, अजातपक्षतया । ४. नातिस्थिरचरण••• । ५. अधोमुखेनापततः । ६. श्रमातुरस्य । ७. मुहुर्मुहुः स्थूलस्थूल । ८. निःश्वसतः । ९. मम समभून्मनसि । १०. अवस्थास्वपि । ११. स्वजीवित••• । १२. सर्वप्राणिनां । १३. प्रवृत्तयः । १४. सर्वजन्तूनामेव ।
शुकेन स्वावस्थावर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । १०७
यद्हमविक्लेतेन्द्रियः पुनरेव श्वसिमि । धिगक्रन्दमपणमतिनिष्ठुरमकृतज्ञम् । अहो ! 'सोढ-पितृमरणशोकदारुणं येन मया जीव्यते, उपकृतमपि नापेक्ष्यते । खलं हि खलु मे हृदयम्। अहंहि लोकान्तरमुपगतायामम्बायां नियम्य शोकावेगमप्रसव-दिवसात् परिणतवयसापि सता तातेन तैस्तैरुपायैः संवर्धनक्लेशमतिमहान्तमपि स्नेहवशादगणयता यत् परिपालितः, तत्सर्वमेकपदे विस्मृतम् । अतिकृपणाः खल्वमी प्राणाः, यदुपकारिणमपि तातमद्याति-गच्छन्तं नानुगच्छन्ति । सर्वथा न कश्चिन्न खलीकरोति जीवित-तृष्णा, यदीदृशावस्थं-
नीयसंज्ञके 'स सुगृहीतनामा स्याद् यः प्रातरनुचिन्त्यते' इति त्रिकाण्डशेषः ताते जनके एवम् उक्तविधिना उपरतेऽपि मृतेऽपि चाण्डालस्य किरातस्य प्रक्षेपानन्मृत्युं प्राप्तेऽपीत्यर्थः, अहम् अविकलेन्द्रियः विषयग्रहणे यथास्थितसमर्थेन्द्रियः पुनरेव मन्दन्मपि श्वसिमि जीवनायाभिलषामीत्यर्थः, अतः अकरुणं निर्दयं तथाविधेऽपि समये तातं परित्यज्य स्वप्राणरिरक्षिपया निःसरणादित्याशयः । अतिनिष्ठुरम् अतिक्रूरं निष्करुणत्वादित्याशयः । अकृतज्ञं कृतम अनेन ममैतावद् उपकारे विहिता इति न जानाति यः स तं तादृशम्, तद्विहितोपकाराचिन्तनार्दिति भावः । मां वैशम्पायनं धिक्धिक्कारः 'उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु' इति धिग्योगे मामित्यत्र द्वितीया । अहो आश्चर्यम् । येन मया वैशम्पायनेन, सोढेन असाधारणदुःखमनुभूतेन पितृमरणशोकेन तातमरणविषादेन दारुणं भयङ्करं यथा स्यात्तथा जीव्यते जीवनानि धार्यन्ते, उपकृतमपि तातविहितोपकारोऽपि नापेक्ष्यते स्तुतिपये नानीयते अतश्चापि मां धिगित्यन्वयः ।
अहंहीति । हि निश्चयेन 'हि पादपूरणे हेतौ विशेषेऽप्यवधारणे' इति मेदिनी । मे मम हृदयं मनः खलम् अधमम् उपकाराज्ञानादित्याशयः । 'खलः कक्के भुवि स्थाने क्रूरे कर्णजपेऽधमे' इति हैममेदिस्यौ । हि यस्मात् कारणात् लोकान्तरं परलोकम् उपगतायां प्राप्तायाम् अम्बायां जनन्यां शोकावेगं विषादप्रवाहं नियम्य अन्तर्निरुध्य, अप्रसवदिवसात् मजन्मदिनावधि, परिणतवयसापि वृद्धावस्थेनापि अत एव सम्मन्नकर्मोद्योगेत्यायः, एतोदृशेनापि सता तैस्तैरुपायैः, प्राग्दर्शितैः कीरसुलक्ष्पेयभक्ष्यसंयोजनादिभिः संवर्द्धनक्लेशं मःपरिपालनदुःखम् अगणयता तद्गणनागविद्वद्यता तातेन पित्रा अहं यत्परिपालितः पोषितिनः एकपदे नत्काले 'एकपदं नत्काले नपुंसकं, वर्त्मनि स्त्री स्यात्' इति रामाश्रमी टीका, 'तत्सकैकपदे तुल्ये' इति ह्मायुधश्च, तत्सर्वं विस्मृतं मानसपथाद्विमारितं मयेति शेषः, तस्य प्रतीकाराविधानादनुव्रजनाभावाच्चेत्याशयः ।
अमीति । अमी एते मे प्राणा असवः अतिकृपणाः खलु अत्यन्ततुच्छा एव यत्, यस्माद्धेतोः उपकारिणमपि तावन् उपकृतिविधायिनमपि पितरम् अद्य अस्मिन्नहनि अतिगच्छन्तं मामतिक्रम्य व्रजन्तं नानुगच्छन्ति नानुव्रजन्ति । सर्वथा सर्वप्रकारेण जीविततृष्णा जीवनेच्छा कश्चिद् कमपि जनं न खली करोति नाधमीकरोति इति न, किन्तु सर्वमेव खलीकरोति सर्वमित्यर्थः । नञ्द्वयोपादानेन प्रकृतोऽर्थो दृढी-कृतः । अखलं खलं सम्पद्यमानं करोतीति खलीकरोति अभूततद्भावे च्चिः । यत् यस्मात् कारणात् जलाभि-
साथ अभी तक जी रहा हूँ ! मेरे ऐसे अत्यन्त निर्दय, निष्ठुर और कृतघ्न को धिक्कार है ! पिता की मृत्यु के भयङ्कर शोक को भी पीकर मैं अब भी रहा हूँ । मुझे उनके उपकारों की अब जैसे कोई आवश्यकता भी नहीं रह गयी है ! सचमुच ही मेरा हृदय अत्यन्त दुष्ट है ! माँ के मरने के बाद मारे शोक को पीकर पिता ने वृद्ध होते हुए भी मेरे जन्म के दिन से ही स्नेहवश बड़े-बड़े दुःखों की परवाह न करके अनेक उपायों से मेरा पालन-पोषण किया था। लेकिन आज मैंने वह सब एक साथ ही भुला दिया। सचमुच मेरे प्राण अत्यन्त लोभी हैं जो इतने उपकारी पिता के चले जाने पर भी आज उन्हीं के साथ नहीं चले गये ! जीवन की तृष्णा किसे नहीं तुच्छ बना डालती ! तभी तो ऐसी दुखमयी अवस्था में भी मुझे जल की प्यास लगा रही है ! मैं तो समझता हूँ कि पिता की मृत्यु के असह्य शोक को भी दबा देने वाला मेरी इस तरह जीने की प्रबल इच्छा केवल मेरी निष्ठुरता के
१. 'महदपि विस्मृतमित्यु...' । २. अत्यल्पम् ३. नापेक्ष्यते । ४. मया । ५. 'लोकान्तरगतायाम् । ६. शोकावेगं । ७. 'तातेन' इति क्वचिन्नस्ति । ८. मे प्राणाः, मम प्राणाः । ९. तातं कापि गच्छन्तमद्यापि, मद्य क्वापि गच्छन्तम् । १०. सर्वथा वंचित, न कश्चन । ११. ईदृशावस्थं ।
| १०८ | कादम्बरी- | [ कथामुखे- |
|---|
मपि मामायासयति जलाभिलाषः। मन्ये चागणित-पितृमरण-शोकस्य निर्घृणतैव केवल-मियं मम सलिलपानबुद्धिः। अद्यापि दूरत एव सरस्तीरम्। तथाहि जलदेवतानूपुर-रवानुकारी दूरेऽद्यापि कलहंस-विरुतमेतैत्, अस्फुटानि श्रूयन्ते सारसरुतानि, विप्रकर्षादाशामुख-विसर्पण-विरलः सञ्चरति नलिनी-षण्ढपरिमलः। दिवसस्येयमतिकष्टा दशा वर्त्तते। तथाहि रविरम्बरतलमध्यवर्ती स्फुरन्तमातपमनवरतमनल-धूलि-निकरमिव विकिरति करैः, अधिकामुपजनयति तृषाम्। आतप-सन्तप्त-पांसु-पटल-दुर्गमा भूः, अति-प्रबल-पिपासावसन्नानि गन्तुमल्पमपि मे नालमङ्गानि, अप्रभुरस्यात्मनः सीदति मे हृदयम्,
लाषः जलपानेच्छा, ईदृशावस्थमपि अत्यन्तविषादव्यग्रमपि माम् आयासयति जलपानविधानाय सम्प्रेष्य क्लेशं जनयति। एवञ्च जीवनाभिलाषयैव इयं जलाभिलाषा, सा यदि जीवनाभिलाषा नाभविष्यत्तदा यदा जलतृष्णा सञ्जाता तदैव मृतः सन् तातमन्वव्रजिष्यमिति नूनं जीवनाभिलाषैव सम्प्रति मां दुःखं मुत्पादयतीत्याशयः। इह जीविततृष्णेति विशेषेण आयासासादनसामान्यसमर्थनात् विशेषेण सामान्य समर्थनरूपोऽर्थान्तरन्यासः।
मन्य इति। मन्ये जाने च अगणितपितृमरणशोकस्य अज्ञाततातमरणविषादस्य मम केवलम् इयं सलिलपानबुद्धिः जलाभिलाषा निर्घृणतैव निष्करुणतैव तत्प्रयुक्तैवेत्याशयः, अन्यथा लब्धप्रकरणो निष्प्राणतामनुव्रजेयमिति तात्पर्यम्।
इह निर्घृणताललाभिलाषयोर्हेतुहेतुमतोस्तादात्म्येन प्रतिपादनात् हेत्वलङ्कारः। तथा हि दर्पणे—
'अभेदनाभिधा हेतुर्हेतोर्हेतुमता सह' इति।
अद्यापीति। अद्यापि साम्प्रतमपीत्यर्थः, दूरत एव विप्रकर्षादेव सरस्तीरं सरोवरतटम्। तदेव निरूपयति—तथाहीति। जलदेवतानां जलाधिष्ठात्रीणां देवीनां नूपुराणां पादाङ्गदानां 'पादाङ्गदं तुलाकोटि-र्मञ्जीरो नूपुरे स्त्रियाम्' इत्यमरः, यो रवो ध्वनिः तमकर्तुं शीलं यस्य तत् तादृशम् दूरे विप्रकर्षे अद्यापि इदानीमपि एतत् श्रूयमाणम्, कलहंसानां कादम्बानां विरुतं कूजितम्। अस्फुटानि अव्यक्तानि सारसानां लक्ष्मणानां रसितानि कूजितानि श्रूयन्ते आकर्ण्यन्ते। विप्रकर्षात् दूरात् आशामुखेषु दिगाननेषु नाना-विदित्यर्थः, विसर्पणेन प्रसरणेन विरलः स्वल्पः नलिनीषण्ढानां कमलिनीवनानां परिमलः सौरभम्।
दिवसस्येति। दिवसस्य दिनस्य इयं पुरो दृश्यमाना अतिकष्टा अत्यन्तं क्लेशदायिनी दशा अवस्था वर्त्तते अस्ति मध्याह्नसमय इत्यर्थः। एतदेव दर्शयति-तथाहीत्यादिना। अम्बरतलस्य साकाशस्य मध्यवर्त्ती मध्यगामी रविः सूर्यः, अनवरतम् अविच्छिन्नं स्फुरन्तं देदीप्यमानम् आतपं तेजः अनलधूल्यो वह्विकणिकाः तेषां निकरमिव समूहमिव करैः रश्मिभिः सृजैश्च विकिरति क्षिपति। अत्रोपमालङ्कारः। अधिकाम् अत्यर्थां तृषां पिपासाम् उपजनयति सम्पादयति।
आतपेति। आतपेन रवितेजसा सन्तप्तैः उष्णैः पांसुपटलैः रजःसमूहैः दुर्गमा दुःखेन गन्तुं योग्या भूः मही। अतिप्रबलया अत्यधिकया पिपासया जलपानेच्छया अवसन्नानि भिन्नानि मे मम अङ्गानि शरीरक्षुद्रावयवाः स्वल्पमपि किञ्चिदपि गन्तुं चलितुं नालं न समर्थानि। आत्मनः शरीरस्य अप्रभुः असमर्थः अस्मि भवामि स्वेच्छया लब्धनानासम्पत्तोऽस्मीत्यर्थः। मे मम हृदयं सीदति सखेदं भवति। चक्षुर्नेत्रम् अन्धकारतां तिमिरताम् उपयाति प्राप्नोति। अपिशब्दः प्रश्ने, नामशब्दः सम्भावनायाम्। तथा च—
'अपिः सम्भावनाप्रश्नशङ्कागर्हासमुच्चये। तथा युक्तपदार्थे च कामचारक्रियासु च ॥' इति विश्वः।
अतिरिक्त और कुछ नहीं। सरोवर अभी बहुत दूर है क्योंकि जलदेवता के नूपुरों के समान झंकृत होनेवाली कलहंसों की यह ध्वनि अभी दूर जान पड़ती है, सारसों का कलरव भी अभी स्पष्ट सुनायी नहीं पड़ रहा है और अधिक दूर होने के कारण दिशाओं में फैलकर अत्यन्त हल्की पड़ जानेवाली कमल वनों की गन्ध भी नहीं आ रही है। दिन की हालत अत्यन्त सतानेवाली हो गयी है। आकाश के बीच में पहुँचे हुए सूर्य की किरणों से निकलती हुई धूप ऐसी लगती है मानों आग की चिनगारियाँ बरस रही हों। इससे गला और भी सूखता सा
१. नामायासयति, नामवभासयति, नामभिलाषयति। २. निर्घृणतयैव। ३. दूर एव सरः। ४. नूपुरानुकारि। ५. विरतमेतत्। ६. एतानि चास्फुटानि। ७. कचित् 'अद्यश्च' इति पाठोऽधिकः। ८. इयं कष्टा दशा, अतिकष्टा च दशा। ९. तृषन्। १०. आतपस्पर्शसन्तप्त...। ११. भूमिः। १२. अननप्रभुर...।
हारितवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । १०६
अन्धकारतामुपयाति चक्षुः, अपि नाम खलो विधिरनिच्छतोऽपि मे मरणमद्यैव^१ उप- पादयेत्।”
इत्येवं^२ चिन्तयत्येव मयि तस्मात् सरसोऽदूरवर्तिनि^३ तपोवने जाबालिर्नाम महा- तपा मुनिः प्रतिवसति स्म^४। तत्तनयश्च हारीतनामा मुनिकुमारकः^५ सनत्कुमार इव सर्व- विद्यावदातचेताः समानवयोभिरपरैस्तपोवनकुमारकैरनुगम्यमानस्तेनैव^६ पथा द्वितीय इव^७ भगवान् विभावसुरतितेजस्वितया दुर्निरीक्ष्यमूर्तिः, उद्यतो दिवसकर-मण्डलादिवोत्कीर्णः^८ तडिद्भिरिव विरचितावयवः, तप्त-कनक-द्रवेणेव बहुरुपलिप्त-मूर्तिः, व्यापिशङ्खावदातया^९
'नाम कामे (क्रोधे) ऽभ्युपगमे विस्मये स्मरणेऽपि च । सम्भाव्यक्रूरताप्राकार्यविक्षेपेष्वपि दृश्यते ॥'
इति मेदिनी। खलः खण्डनकरणात् दुर्जनः 'पिशुनो दुर्जनः खलः' इत्यमरः, विधिः विधाता अनिच्छतोऽपि अनभिलषतोऽपि मे मम मरणं मृत्युम् अद्यैव उपपादयेत् विदध्यात्।
इत्येवमिति। इत्येवं पूर्वोक्तविधिना मयि वैशम्पायने चिन्तयत्येव विचारयत्येव सति, तस्मात् पूर्वं- प्रतिपादिताद् सरसः सरोवरात् अदूरवर्तिनि समीपस्थायिनि तपोवने तपस्विजनाधिष्ठितविपिने जाबालि- र्नाम जाबालिसंज्ञकः महत् तपं यस्य एतादृशो मुनिः तपोनिधिः प्रतिवसति स्म निवसति स्म ।
तस्येति । तस्य तपोधिनधेः तनय आत्मजः 'आत्मजस्तनयः सुतुः' इत्यमरः, हारीत इति नाम अभिधेयं यस्य तादृशो मुनिकुमारकः तापसबालकः, 'तदेव कमलसरः स्नानामुरागमत्' इत्यग्रेतनेन सम्बन्धः। तमेव सम्प्रति विशेपयति-सनत्कुमार इत्यादिना । सनतो ब्रह्मणः कुमार इति सनत्कुमारः प्रजापतेः पुत्र इत्यर्थः 'सनत्कुमारो वैधात्रः' यद्वा-सनत् सर्वस्मिन् समये कुमारः कौमारवनावस्थी। तदुक्त पुराणे-'तयोक्तवन्तस्तेवाहं कुमार इति विद्धि माम् । तस्मात् सनत्कुमारोति नामैतन्मे प्रतिष्ठितम् ॥' स इव सर्वविद्यावदातचेताः निखिलविद्यानिर्मलहृदयः, इह पूर्णोपमा । समानवयोभिः समवयौभिः अपरैः तद्व्यतिरिक्तैः तपोवनकुमारकैः तापसबालकैः अनुगम्यमानः अनुव्रज्यमानः तेनैव पथा तेनैव वर्त्मना द्वितीय एतदपरः भगवान् ज्ञानवान् धर्मवान् वा;-'भगं श्रीयोनिवीर्य्यच्छाज्ञानवैराग्यकीर्त्तिषु । माहात्म्यैश्वर्ययत्नेषु धर्मे मोक्षेऽथ ना रवौ' इति मेदिनी । विभावसुरिव अग्निरिव अतितेजस्वितया अनुत्कृष्टदीप्तिमत्तया 'तेजो दीप्तौ प्रभावे च स्यात्पराक्रमरेतसोः इति मेदिनी। दुर्निरीक्ष्या दुःखेन द्रष्टुं योग्या मूर्तिः स्वरूपं यस्य स तथोक्तः । विभावसुरितिविति द्रथ्योत्प्रेक्षा। उद्यतः उद्ययं विदधतः दिवसकरमण्डलात् सूर्य- बिम्बात् उत्कीर्ण इव टङ्केन रचयित्वा उद्धृत इव. तडिद्भिः सौदामिनीभिः विरचिता निर्मिता अवयवा अङ्गानि यस्य स इव, तप्तम् द्रुतं यत् कनकं सुवर्णं तस्य द्रवेण रसेन बहिः मूर्त्तेरेव बहिः उपलिप्ता लिप्ता मूर्ति स्वरूपं यस्य स तथोक्तः। एते त्रयोऽपि क्रियोत्प्रेक्षालङ्काराः।
व्यापिशङ्केति। स्फुरन्त्या देदीप्यमानया, अविग्रहा क्षिप्तिविद्रूढवर्णा चामौ अवदाता धवला चेति
जा रहा हूँ। धूप में तपती हुई धूप के कारण पृथ्वी पर चलना अत्यन्त कठिन हो रहा है, अत्यन्त तीखी प्यास के कारण मेरे सभी अंग सूखे से हो गये हैं जिससे अब थोड़ी दूर चलने की शक्ति नहीं रह गयी है, अब मैं अपने वश में नहीं रह गया हूँ, हृदय बैठा जा रहा है, आँखों में अन्धेरा छा रहा है, क्या ही अच्छा होता कि क्रूर विधाता न चाहते हुए भी मुझे आज मृत्यु ही दे देता।
इस प्रकार से थोड़ी ही दूर पर तपोवन में जाबालि नाम के एक बहुत बड़े तपस्वी मुनि रहते थे। मैं अभी इस प्रकार सोच ही रहा था कि उनके पुत्र कुमार हारीत अपनी ही अवस्थावाले अन्य तपस्वी कुमारों के साथ उसी मार्ग से उसी कमलों से परिपूर्ण सरोवर में स्नान करने के लिये आ रहे थे। सनत्कुमार के समान उनका हृदय सभी विद्याओं से अत्यन्त उज्ज्वल हो गया था, अत्यधिक तेज के कारण उनकी ओर देखना भी कठिन था मानों वह दूतिमान् दूसरे अग्निदेव हों, उसका स्वरूप ऐसा प्रतीत होता था मानों प्रातःकालीन सूर्यमण्डल को गढ़कर बनाया गया हो, उनके अंग प्रत्यंग ऐसे कान्तिमान थे मानों बिजली से बने हों और शरीर का रंग ऐसा चमक रहा था मानों उसपर तपाये हुए सोने का पानी चढ़ा दिया गया हो, वह अपनी दीपती हुई शरीर कान्ति से ऐसे प्रतीत हो रहे थे मानों प्रातःकालीन सूर्य की धूप से प्रकाशित दिन अथवा दावानल से
१. अद्य, अद्यैव । २. इत्थं । ३. नातिदूरवर्त्तिनि । ४. 'स्म' इति क्वचिद् पाठो नास्ति । ५. तापस- कुमारकः ६. समवयोभिः । ७. इतरैः । ८. रवितोऽवतप्तात् । ९. क्षिप्तविद्रुढरुचा ।-
११० | कादम्बरी- | [ कथामुखे-
देह-प्रभया स्फुरन्त्या सबालातपमिव सदावानलमिव वनमुपदर्शयन्, उत्तप्त-लौह-लोहिनीनामनेक-तीर्थाभिषेकपूतानामंसस्थलाव१लम्बिनीनां जटानां निकरेणोपेतः, स्तम्भित-शिखा-कलापः, खाण्डववन-दिग्धक्षया कृत-कपट-बटु२वेश इव भगवान् पावकः, तपोवन-देवतानूपुरानुकारिणा धर्मशासन-कटकेनेव स्फाटिकेनाक्षवलयेन दक्षिणश्रवणावल३म्बिना विराज मानः, सकल-विषयोपभोग-निवृत्त्यर्थ४मुपपाँदितेन ललाटपट्टके५ त्रिसँत्येनेव भस्म-
तया 'अवदातः सितो गौरो बलक्षो धवलोऽर्जुनः' इत्यमरः, देहप्रभया शरीरकान्त्या, दिवसं तत्कळाभि-रित्यर्थः। सबालातपमिव अभिनवसूर्यालोकयुक्तमिव वनं तद्विपिनं सदावानलमिव अरण्याग्निना युक्तमिव उपदर्शयन् प्रकटयन् । इह सबालातपमित्यत्र सदावानलमित्यत्र च गुणोत्प्रेक्षा ।
उत्तप्तेति । उत्तप्तम् उष्णीकृतं यह्लोहम्-अश्मसारः,-'लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी । अश्मसारः' इत्यमरः । तद्वत् लोहिनीनां रक्तवर्णानाम् अनेकानि विविधानि यानि तीर्थानि गङ्गा दीनि तेषु अभिषेकेण स्नानेन पूतानां पवित्रीकृतानाम्, अंसस्थले भुजशिरःस्थाने लवलम्बिनीनाम् अवलम्बमानानां जटानां सटानां 'प्रतितनस्तु जटा सटा' इत्यमरः, निकरेण समूहेन उपेतः सहितः। उत्तप्त-लोहलोहिनीनामित्यत्र लुप्तोपमा ।
स्तम्भितेति । स्तम्भितो बद्धः शिखानां चूडानां कलापः समूहो येन स तथोक्तः-शिखा शास्त्रा बर्हिचूडालाङ्गूलिच्यग्रमात्रके । चूडामात्रे शिफायां च ज्वालायां प्रपदेऽपि च ॥' इति मेदिनी । खाण्डव-वनस्य विविधमहौषधिपूर्णखाण्डवाह्वयविपिनस्य दिधक्षया दग्धुमिच्छया कृतो विहितः कपटेन व्याजेन बटुवेशो द्विज्रूपं येन स तादृशः भगवान् माहात्म्यवान् पावको वह्निरिव दीप्तरूप इत्यर्थः । इहोपमा ।
अत्रायं महाभारतीयेतिहासः—पुरा खलु श्वेतकिसंज्ञको भूपतिः द्वादशसांवत्सरिकं यज्ञमकृत। तत्र निरन्तरहविर्भक्षणेनाग्नेः मन्दोऽग्निरुत्पन्नः, ततश्च तत्प्रतिकर्तुं स कपटराश्या बहुविधमहौषधियुक्तं खाण्डववनं जिघत्सुर्द्विजरूपेण श्रीकृष्णस्य पार्थस्य च साहाय्यमाश्रित्य तद्विपिनं भस्मीचकारेति ।
तपोवनेति । धर्मशासनस्य गुरुकृतविधिनिषेधादिरूपधर्मोपदेशस्य कटकं त्राणाय परिधिरूपेण वर्त्तमानं सैन्यं तेनेव 'कटकस्त्वद्रिनितम्बे बाहुभूषणे सेनायां राजधान्यां च' इति हैमः, भूपतेस्त्राणाय दुर्गाद्बहिः परिधिरूपेण सैन्यं यथा तिष्ठति तथा सव्येतरश्रोत्रे गुरुभिनिँरूपितस्य विधिनिषेधरूपधर्मस्य त्राणाय सैन्येनेव वलयाकारजपमालिकया विद्यमानमित्याशयः । स्फाटिकेन स्फटिकमणिरचितेन दक्षिणाश्रवणावलम्बिना सव्येतरश्रोत्रस्थायिना, अक्षवलयेन दलयाकारजपमालिकया विराज मानः शोभमानः । इह धर्मशासनकटकेनेवेत्यत्र क्षार्थी उपमा, जात्युत्प्रेक्षा च, अनयोहिं अङ्गाङ्गिभावेन साङ्कर्यात् सङ्करालङ्कारः ।
सकलेति । सकलानां समस्तानां विषयाणां स्त्रक्चन्दनर्नाप्रभृतीनां भोग्यवस्तूनाम् उपभोगा-न्निवृत्त्यर्थम् उपभोगोपरमार्थम् उपपादितेन विहितेन, त्रयाणां सत्यानां शपथानां समाहार इति त्रिसत्यं तेनेव, नाहं विषयानुक्तो भविष्यामि, नाहं विषयानुक्तो भविष्यामि, नाहं विषयाबुरक्तो भविष्यामि इति शपथत्रयलक्षणेनेत्यर्थः 'सत्यं कृते च शपथे तथ्ये च त्रिषु तद्वति' इति मेदिनी । ललाटपट्टके भाल-फलके भस्मतिपुण्ड्रकेण विभूतिनित्रितिलकेन भस्मनस्तिर्यग्रेखात्रयेणेत्यर्थः, अलङ्कृतो मण्डितः । इह त्रिसत्येनेवेति गुणोत्प्रेक्षा ।
सुशोभित बन हों । तपाये हुए लोहे के समान चमकीली और अनेक तीर्थों के जल से पवित्र उनकी जटाएँ कंधों पर लटक रही थीं तथा सिर पर चोटियों का जुड़ा बना हुआ था जिससे वे ऐसे प्रतीत हो रहे थे मानों खांडव वन जलाने की अभिलाषा से भगवान् अग्निदेव ने ब्रह्मचारी का कपट वेश बना लिया हो । इनके दाहिने कान में तपोवन की देवी के नूपुरों के समान स्फटिकमणि से बनी हुई रुद्राक्ष की माला ऐसी प्रतीत हो रही थी मानो कानों में पड़े गुरु के धर्मोपदेश की रक्षा के लिए सेना का व्यूह हो । इनके ललाट पर भस्म का त्रिपुण्ड इस प्रकार सुशोभित हो रहा था। मानो सम्पूर्ण विषयोपभोग से छुटकारा पाने के लिए उन्होंने त्रिसत्य (तीन बार किये हुये शपथ) का धारण कर लिया हो । उनके बायें
१. लटावलीनां ।
२. ॰॰॰पडुवेष इव ।
३. ॰॰॰अनुलम्बिना, विलाम्बिना ।
४. निवृत्त्युप ।
५. उत्पादितेन ।
५. ललाटपट्टे ।
७. त्रिसत्यकेन ।
हारीतवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । १११
त्रिपुण्ड्रकेणालङ्कृतः, गगन-गमनोन्मुखबलाकानुकारिणा स्वर्गमार्गमिव दर्शयता सततमुद्ग्रीवेण स्फटिक-मणि-कमण्डलुनाध्यासित-वामकरतलः, स्कन्धदेशावलम्बिना कृष्णाजिनेन नीलपाण्डुभासा तपस्तृष्णानिपीतेनान्तर्निप्पतता धूम-पटलेनेव परीतमूर्त्तिः, अभिनव-बिस-सूत्र-निर्मितेनेव परिलघुतया पवनलोलेन निम्मांस-विरलपार्श्वोस्थिपञ्जरमिव गणयता वामांसावलम्बिना यज्ञोपवीतेनोद्भासमानः, देवतार्चनार्थमागृहीत-वनलता-कुसुम-परिपूर्ण-पर्णपुट-सनाथा-शिखरेणाषाढदण्डेन व्यापृत-सव्येतरपाणिः, विषाण-शिखरोत्खातामुद्वहता स्नानमृदमुपजात-परिचयेन नीवारमुष्टि-संवर्द्धितेन कुश-कुसुम-लतायास्यमान-लोल-दृष्टिना
गगनेति। गगनगमनाय आकाशोड्डयनाय उन्मुखो ऊर्ध्वानना या बलाका बिसकण्टका तामनुकर्त्तुं शीलं यस्य तेन तादृशेन 'बलाका बिसकण्टिकाः' इत्यमरः, स्वर्गमार्गं दिवौकसपन्थानं दर्शयतेव प्रकटयतेव उद्ग्रीवत्वादित्याशयः। सततं निरन्तरम् उद्ग्रीवेण उन्नतकन्धरेण एवंविधेन स्फटिकमणिकमण्डलुना स्फटिकरत्नविरचितकुण्ड्यः 'अस्त्री कमण्डलुः कुण्डी' इत्यमरः, अध्यासितम् अवलम्बितं वामकरतलं सव्यहस्ततलं यस्य स तादृशः। इह गगनगमनोन्मुखबलाकानुकारिणेत्यत्रार्थी' उपमा, दर्शयतेवेति क्रियोत्प्रेक्षा च, अनयोश्वाङ्गाङ्गिभावेन साङ्कर्यात् सङ्करालङ्कारः।
स्कन्धेति। तपस्तृष्णया तपसे वृद्धिं प्राप्नोत्वितीच्छ्या निपीतेन निगीर्णेन, पुनरन्तर्निप्पतता जठरमध्यानिसरता धूमपटलेनेव धूमसमुदायेनेव विद्यमानेन स्कन्धदेशावलम्बिना बाहुमूलभागमाश्रितवता, नीला अश्वेता पाण्डुः श्वेता च भाः कान्तिर्यस्य तेन तादृशेन कृष्णाजिनेन कृष्णसारमृगचर्मणा परीतमूर्त्तिः व्याप्तशरीरः। धूमपटलेनेवेति जात्युत्प्रेक्षा।
अभीति। अभिनवैः प्रत्यग्रैः बिससूत्रैः मृणालतन्तुभिः 'मृणालं बिसमब्जादि' इत्यमरः, निर्मितेनेव कृतेनेव अत्यन्तसूक्ष्मत्वादित्याशयः। परिलघुतया अत्यन्तभारशून्यत्वेन अणुताया पवनेन वायुना लोलेन चञ्चलेन, अतएव निम्मांसप्रायेण व्रतादिवशात् पिशितशून्यम् सुतरां विरलम् असङ्कीर्णं पार्श्वस्थेन दृश्यमानं यत् पार्श्वोस्थिपञ्जरं पार्श्वगतास्थिनिकरः, तद्गणयतेव तत्संख्यां विदधतेव, वामे सव्ये अंसे स्कन्धेऽवलम्बिना अवस्थानशीलेन यज्ञोपवीतेन यज्ञसूत्रेण उद्भासमानः देदीप्यमानः। यह 'अभिनवबिससूत्र-निर्मितेनेव' इत्यत्र 'गणयतेव' इत्यत्र च क्रियोत्प्रेक्षा, तयोश्च परस्परं नैरपेक्ष्येण स्थितत्वात् संसृष्टिरलङ्कार ।
देवतेति। देवतानां परमेश्वराणाम् अर्चनार्थं पूजनार्थम् आगृहीतैः आत्तैः वनलताकुसुमानि अरण्यवल्लीप्रसूनानि तैः परिपूर्णं भृतं यत् पर्णपुटं पत्रपुटं तेन सनाथं युक्तं शिखरम् ऊर्ध्वभागो यस्य स तेन तादृशेन, आषाढदण्डेन पलाशतरुरचितदण्डेन 'पलाशो दण्ड आषाढः' इत्यमरः, व्यापृतो व्यापारयुक्तः। सव्येतरो दक्षिणः पाणिः करो यस्य स तादृशः।
विषाणेति। विषाणशिखरेण शृङ्गाग्रेण उत्खनितां उत्खनितां स्नानमृदं हारीतस्यैवाप्लवनमृत्तिकाम् उद्वहता विषाणशिखरेणैव धारयता, उपजातः समुत्पन्नः परिचयः अहिसंहासनकत्वेन विशेषज्ञानं यस्य तेन
हाथ में बिल्लौरी कमंडलु था जिसकी गरदन उड़ने की तैयारी में आकाश की ओर देखने वाले बगुलों की गरदन के समान ऊपर उठी हुई थी, मानों वह स्वर्ग की ओर देख रहा हो। उनके कन्धों से काले मृग का चर्म लटका हुआ था जिससे वे अपने शरीर से फूटकर फैली हुई धुमैली कान्ति से घिरे हुये थे, मानों अपनी तपस्या सफल होने के लिए उन्होंने वर्षों में जितना धुआँ पिया था वह सभी बाहर निकल पड़ा हो और वे उसी में घिर गये हों। उनके बायें कन्धे से बहुत ही महीन जनेऊ हवा में हिल रहा था मानों वह कमल के कोमल रेशों से बना हो और उनकी मांससहित पसलियों की हड्डियाँ गिन रहा हो। उनके दाहिने हाथ में पलाश का दण्डा सुशोभित हो रहा था, जिसके सिरे पर देवपूजा के लिए जंगली लताओं से चुने हुये फूलों से भरा हुआ दोना बँधा था। उनके पीछे-पीछे तपोवन का पालतू हिरन भी चला आ रहा था जिसको नीवार की मूंठें खिला-खिलाकर मुनियों ने बड़े स्नेह से पाला था, जिसकी सींगों की नोकों पर उनसे सुंठी हुई स्नान मृत्तिका (मुनि लोग स्नान के समय अपने शरीर में मिट्टी लगाते थे, उसे स्नान-मृत्तिका कहते थे) लिपटी हुई थी और रास्ते में कुशों,
१. ॰॰॰नुकारिखर्गमार्गमिव। २. 'मणि' इति क्वचिद पाठो नास्ति। ३. नीलदा। ४. अन्तरपगच्छता, अन्तर्निबसता। ५. पार्श्वपंजरमिव। ६. कुसुमपूर्णं। ७. विषाणोत्खाताम्। ८. ०नास्यमान।
११२ कादम्बरी- [कथामुखे-
तपोवनमृगेणानुगम्यमानः, विटप-इव-कोमल-वल्कैलावृत-शरीरः, गिरिरिव समेखलः, राहु- रिवासकृदास्वादित-सोमः, पद्मनिकर इव दिवसकरै-मरीचिपः, नदी-तट-तरुरिव सतत- जल-क्षालन-विमलजटः, करि-करैभ इव विकच-मुकुद-दल-शकलसित-दशनः, द्रौणिरिव कृपानुगतः, नक्षत्रराशिरिव चित्रमृग-कृत्तिकाँश्लेषोपशोभितः, धर्मकाल-दिवस इव क्षयितँ- दोषः, जलधरसमय इव प्रसमितरजःप्रसरः, वरुण इव कृतोदवासः, हरिरिवापनीत-
तादृशेन, नीवारमुष्टिभिः मुष्टिपरिमितवन्यव्रीहिभिः प्रतिदिनं तदर्थत्यागैरित्यर्थः, संवर्द्धितः वृद्धिं प्रापितः तेन तादृशेन, कुशकुसुमलताभिः पार्श्वद्वयस्थायिनीभिः दर्भपुष्पव्रततीभिः आयास्यमाने संस्पर्शात् खेदं प्राप्यमाणे अतएव लोले चपले दृष्टी लोचने यस्य तेन तादृशेन, तपोवनमृगेण मुन्याश्रमहरिणा अनुगम्य- मानः अनुव्रज्यमानः ।
विटप इति । विटप इव तरुशाखेव, कोमलेन मृदुत्वादेव परिधानयोग्येनेत्याशयः, अपरत्र मूलादि- भागात् कोमलेन वल्कलेन त्वचा चोचेन च आवृतम् आच्छादितं शरीरं वपुर्यस्य स तादृशः । गिरिः अचलः स इव, मेखलया मुञ्जरचितकटिसूत्रेण मध्यदेशेन च सह विद्यत इति समेखलः । राहुः विधुन्तुद इव 'तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः' इत्यमरः, असकृत् अनेकशः आस्वादितः सोमयागसमये पीतः पूर्णिमासु ग्रस्तश्च सोमः सोमरूता रसः इन्दुश्च येन स तादृशः 'सोमस्त्वोषधितद्वत्सेन्दुषु' इति हैमः, एतेनात्यन्तसोम- यागविधायित्वं व्यञ्जितम् । पद्मानां पङ्कजानां निकरः समूह इव, दिवसकरस्य सूर्यस्य मरीचीन् किरणान् पिवति ग्रीष्मर्त्तौ पञ्चाग्निसाधनात् ऊर्ध्ववदनः सन् ग्रसते अपरत्र पूर्णस्फुटनाव् स्पृशतीति मरीचिपः । नद्याः सरितः तटं तीरं तस्मिन् तरुः वृक्षः तद्वत्, सततम् अनवरतं त्रिसन्ध्यं जले सलिले क्षालनम् अवगाहनं तेन विमला निर्मला रजोरहिता इत्यर्थः, जटा सदा यस्य स तादृशः, अन्यत्र सततं निरन्तरं जलक्षालनेन स्रोतःसलिलप्रक्षालनेन विमला मृत्तिकाहीना जटा सटामूलप्रदेशो यस्य सं तादृशः । करिणां गजानां कलभः त्रिंशद्वर्षीयबालः तद्वत्, विकचं विकसितं यत् कुमुदं कैरवं तस्य दलशकलवत् पर्णखण्डवत् सिताः स्वच्छाः दर्शना दन्ता दन्तौ च यस्य स तादृशः । इदं पञ्चद्वयेऽपि तुल्यम् । द्रोणस्य द्रोणाचार्यस्यापत्यं द्रौणिः अश्व- त्थामा तद्वत्, कृपाम् अनुकम्पाम् अनुगतः प्राप्तः सर्वस्य दुःखत्राणे दयायुक्तः इत्यर्थः । 'कृपा दयाऽनुकम्पा स्यात्' इत्यमरः, अन्यत्र कृपः कृपाचार्यः तेन अनुगतः सद्ग्रामादौ सहितः । नक्षत्राणाम् ऋक्षाणां राशिः निकर तद्वत्, चित्रमृगस्य विचित्रहरिणस्य कृष्णसारस्य या कृत्तिका चर्म तस्य आश्लेषेण सम्बन्धेन धार- णेन उपशोभितः शोभां प्राप्तः, अपरत्रचित्रं चित्रासंज्ञकं चतुर्दशं नक्षत्रम्, मृगं मृगशिराख्यं पञ्चमं नक्षत्रम् कृत्तिका नदाख्यं तृतीयं नक्षत्रम्, अश्लेषा एतत्संज्ञकं नवमं नक्षत्रम्, तैरुपशोभितः । घर्मकालस्य ग्रीष्म- समयस्य दिवसो दिनं तद्वत्, क्षयिताः नाशं प्रापिताः दोषाः कामक्रोधादयो यस्य स तादृशः, अपरत्र क्षयिता समुत्पादितह्रासा दोषा रात्रिर्यस्य स तादृशः 'दोषा रात्रिमुखे रात्री' इति विश्वः । जलधाराणां मेघानां
फूलों और लताओं के थपेड़ों से उस बेचारे की आँखें थककर व्याकुल हो गयी थीं। वे वृक्षों की कोमल छाल पहिनाने के कारण वृक्ष, कमर में मूँज की करधनी पहिनने के कारण पहाड़ियों से घिरे पहाड़, यज्ञ में सर्वदा सोमरस का पान करने के कारण चन्द्रामृत पीने वाले राहु और पञ्चाग्निसिाधना (चारों ओर आग जलाकर ग्रीष्म ऋतु के सूर्य की धूप में बैठकर तपस्या करना) के समय सूर्य तेज धूप की सह लेने के कारण सूर्य की किरणों को पीने वाले कमल के समान प्रतीत हो रहे थे। उनकी जटायें नदीतट के वृक्षों की जड़ों के समान निरन्तर जल में घुलने के कारण निर्मल हो गयी थीं । उनके दाँत हाथी के बच्चों के दाँतों के समान उजले थे मानों खिले हुये कुमुद की पंखुड़ियों के टुकड़े हों। वह अश्वत्थामा के समान कृपानुगामी थे (अश्वत्थामा कृपाचार्य के अनुगामी थे, वह कृपा का अनुसरण करने वाले अर्थात् दयालु थे), नक्षत्र मण्डल के समान चित्रमृग-कृत्तिका- श्लेष से सुशोभित थे (नक्षत्र मण्डल चित्रा, मृगशिरा, कृत्तिका और आश्लेषा नक्षत्रों से सुशोभित होता है। वे
१. अनुयात: ? २. वल्कावृत ०००। ३. दिनकर ०००। ४. विरल ००। ५. कलभ । ६. विश्लेषः । ७. क्षपितबहूद्गोषः ।
हारीतवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । ११३
नरकभयः, प्रदोषारम्भ इव सन्ध्या-पिङ्गलैं तारकः प्रभातकाल इव बालातप-कपिलः, रवि-रथ इव दृढनियमिताक्षचक्रः, सुराजेव निगूढ-मन्त्रसाधन-क्षपितै-विग्रहः, जलधिरिव कराल-शङ्खमण्डलावर्त्त-नाभिगैर्त्तः, भगीरथ इवँ दृष्ट-गङ्गावतारः, भ्रमैर इवासकृ-
समयः कालः प्रावृट्काल इत्यर्थः तद्वत् प्रशमितः चित्तवृत्तिनिरोधाम्यासेन निवारितः रजःप्रसरः प्रवर्त्तक गुणव्यापारः कामक्रोधादिर्येन स तादृशः, अपरत्र प्रशमितः वर्षणेन निवारितः रजःप्रसरः पांशुविस्तरो येन यत्र वा स तादृशः । वरुणः प्रचेताः तद्वत् 'प्रचेता वरुणः पाशी' इत्यमरः कृतो विहित उदके सलिले वासो व्रतविशेषः जलदेवताव्रतेनावस्थानञ्च येन स तादृशः 'उदकस्योदः संज्ञायाम्' इति पा० सूत्रेणोदादेशः । हरिर्वासुदेव इव, अपनीतं दूरीकृतं नरकमयं नरकप्राप्तिभीतिः तदाख्यासुरभीतिश्च येन स तादृशः, एकत्र निरन्तरतपोऽर्जनात् अपरत्र तन्नाशादित्याशयः । प्रदोषो रजनीमुखं तस्य आरम्भः प्राक समयः तद्वत्, 'प्रदोषो रजनीमुखम्' इत्यमरः सन्ध्यावत् दिवसरजनितसन्धिवत् पिङ्गले पीतवर्णे तारके कनीनिके यस्य स तादृशः, एतद्धि महापुरुषस्य लक्षणम्, तदुक्तं सामुद्रिकशास्त्रे—'क्षुद्रोऽपि चक्रवर्ती स्यात् पीततारकचक्षुरिध' अपरत्र सन्ध्यया सन्ध्यासमयवर्णेन पिङ्गलाः पीताः तारका उडनि यस्मिन् स तादृशः । प्रभातं प्रत्यूषः तस्य कालः समयः तद्वत्, बालातपवत् अभिनवदिनकरालोकवत् कपिलः पीतरक्तवर्णः, अपरत्र बालातपेन कपिलः । रखेः दिनाधिपस्य यो रथः स्यन्दनः तद्वत्, दृढं यथा स्यात्तथा नियमितं निगृहीतम् अक्षाणाम् इन्द्रियाणां चक्रं समूहो येन स तादृशः, परत्र दृढं नियमितानि नियमितानि अङ्गे मध्यदण्डः स्यन्दनावयवश्च यस्मिन् स तादृशः । सुष्ठु सुन्दरो यो राजा स्वकर्मकुशलो भूपतिः तद्वत्, निगूढम् अतिगुस्रं यन् मन्त्रसाधनम् इष्टदेवतामन्त्राराधनं तेन उपितः अतभ्रमाद्याधिक्याय कृशीकृतः विग्रहो देहो येन स तादृशः, भूपतिपक्षे तु—निगूढेन अतिगुप्तेन मन्त्रसाधनेन रहस्यलोचनेन क्षपितः क्षयं प्रापितः विग्रह-शत्रुजनितक्लेशः संप्रम इत्यर्थः, येन स तादृशः । जलधिः समुद्रः स इव, कराळोदन्तुर उन्नतोन्नतो यः शङ्खः तस्य मण्डलावर्त्तवत् मण्डलसदृशावर्त्तवत् नाभिगर्तो यस्य स तादृशः, समुद्रपक्षे तु—करालशङ्खः महाशङ्खः मण्डलावर्तः मण्डलसदृशेन जलावतँन्न नाभिगर्त इव नाभिश्चश्च इव यस्मिन् स तादृशः 'गर्तावटौ भुवि श्वभ्रे' इत्यमरः । भगीरथः सगरपौत्रः स इव, दृष्टः अवलोकितः गङ्गाया जाह्नव्या अवतारः अवतरणभूमिः सुरालयान्निष्पतनञ्च येन स तादृशः । भ्रमरो मधुकरः स इव, असकृत् बहुशः अनुभूतः
चितकबरे मृग का चर्म धारण करने से सुशोभित थे ), वर्षाकाल के समान उनमें रज का प्रसार शान्त हो चुका था ( वर्षाकाल में पानी पड़ने से धूल का उड़ना मिट जाता है, उनमें योगाभ्यास के द्वारा काम-क्रोधादि रजोगुण मिट गये थे ), वे वरुण के समान उदवासी थे ( वरुणदेव जल में निवास करते हैं, वह जल में स्थित होकर तपस्या करनेवाले थे ), वे हरि के समान नरक के भय को दूर कर चुके थे । ( श्रीकृष्ण ने नरकासुर को मारकर उसके भय को दूर कर दिया था, उन्होंने अपनी योगसाधना से नरक के भय को दूर कर दिया था ), ये सन्ध्याकालीन तारों के समान पीलापन लिए हल्के लाल रंग की पुतलियों के कारण एक ओर प्रदोषकाल के समान प्रतीत होते थे तो दूसरी ओर निकलती टटकी धूप के समान लालिमा लिए श्वेत रंग के शरीर के कारण प्रातःकाल के समान प्रतीत होते थे । सूर्य के रथ के पहिये जैसे आरों से संयमित और दृढ़ होते हैं, उसी प्रकार उनकी सारी इन्द्रियाँ अत्यन्त दृढ़ता के साथ उनके वश में हो गयी थीं, जैसे कुशल राजा अपने मन्त्री आदि गुप्त राज्यसाधनों से युद्ध की सम्भावना क्षीण कर देता है उसी प्रकार उन्होंने गुप्त मन्त्र साधना की क्रियाओं से अपने शरीर को क्षीण कर दिया था । वे कनपटियों के गड्ढों में बनी हुई भौंहों की भौंरी ( यह बहुत बड़े तपस्वी का लक्षण है ) के कारण शंख और भौंरे युक्त समुद्र, गंगावतारतीर्थ ( हरिद्वार ) देखने के कारण भूमि पर उतरती हुई गंगा को देखने वाले भगीरथ और पुष्करतीर्थ में रहकर कई बार तपस्या करने के कारण कमलवनों में निवास करने वाले भौरों के समान प्रतीत होते थे । वे वन में इधर-उधर घूमते हुए भी ब्रह्मसमाधि
१. ॰॰॰दिशङ्क॰॰॰। २. नियमिताक्षचक्रः, दृढसंयमिता॰॰॰। ३. ॰॰॰क्षयित॰॰॰। ४. जलनिधिरिव । ५. ॰॰॰भावर्त्तगर्तः । ६. सस्रदृष्ट॰॰॰। ७. मधुकरः ।
१५ का० कथा०
११४ कादम्बरी- [ कथामुखे-
दनुभूतपुष्कर-वनवासः, वनचरोऽपि कृतमहालयप्रवेशः, असंयतोऽपि मोक्षार्थी, सामप्रयोग- परोऽपि सततावम्बितदण्डः, सुप्तोऽपि प्रबुद्धः सन्निहितनेत्रद्वयोऽपि परित्यक्तवामलोचन- स्तदेव कमलसरः सिस्नासुरूपगामत् ।
प्रायेणाकारण-मित्राण्यतिकरुणाद्राणि च सदा खलु भवन्ति सतां चेतांसि । यतः स मां
तपस्यार्थम् अनुभवविषयीकृतः, तत्संज्ञकतीर्थे वने विपिने च वासः स्थितिः येन स तादृशः, अपरत्र मधुपानायानेकशोऽनुभूतः पुष्करवने पङ्कजवने वासो येन स तादृशः । इह 'विटप इव' इत्यारभ्य 'भ्रमर इव' इत्यन्तं यावत् श्लेषोपमेति केचित् । दर्पणकारोक्तदिशा पूर्णोपमालङ्कार इति विभावनीयम् ।
वनचर इति । वने विपिने चरतीति वनचरः वनवासी एतादृशः सन्नपि कृतो विहितो महालयेषु उच्चैस्तरभवनेषु प्रवेशो येन स तादृश इति विरोधः, कृतः चित्तवृत्तिनिरोधाभ्यासेन सम्पादितो महालये परमात्मनि प्रवेशः प्रत्यग्ज्ञानविषयता येन स तादृश इति तत्परिहारः 'महाल्यो विहारे स्यात् तीर्थं च परमात्मनि' इति मेदिनी ।
असंयत इति । असंयतः धारणाध्यानसमधिरहितोऽपि मोक्षार्थी संसारप्रपञ्चबन्धनासम्बन्धार्थी इति विरोधः, धारणाध्यानसमाधीनामभावे मोक्षासम्भवादित्याशयः । असंयतोऽपि तत्समये संयमविरतोऽपि मोक्षार्थी भविष्यत्काले संयमाश्रययान्मोक्षाभिलाषीत्यर्थः । मोक्षप्रासिद्धिं संयमेनैव भवतीति सिद्धान्तः । तया च पातञ्जलयोगदर्शने- 'देशबन्धश्चित्तस्य धारणा', 'तत्र प्रत्ययैकतानता ध्यानम्', 'तदेवार्थमात्र-निर्भासं स्वरूपशून्यमिव समाधिः', 'त्रयमेकत्र संयमः' इत्युक्तम् ।
सामेति । साम सान्त्वनं तत्प्रयोगपरोऽपि तदनुष्ठानपरायणोऽपि सततं निरन्तरम् अवलम्बितः आश्रितः दण्डः तुरीयोपायो येन स इति विरोध, साम एतत्संज्ञकतृतीयवेदः तत्प्रयोगपरोऽपि सतता-लम्बितयष्टिक इति तत्परिहारः ।
सुप्त इति । सुप्तो निद्रितोऽपि प्रबुद्धः कृतजागरण इति विरोधः सुप्तः शयतावस्थावत् सांसारिक-ज्ञानरहितोऽपि प्रबुद्धः 'सर्वं खल्विदं ब्रह्मे'ति परमात्मविषयकोत्कृष्टतत्त्वालोकक इति तत्परिहारः । अत्र भानुचन्द्रस्तु—सुष्ठु शोभना स्ता=जटा यस्येति विग्रहे परिहारं प्रदर्श्य 'प्ता' इत्यस्य जटायां प्रयोगे प्राचीनपद्यमुदाजहार । तद्यथा शृङ्गारतिलकटीकायाम्-
'राजा राजार्चिताङ्घ्रेरनुपचितकलो यस्य चूडामणित्वं नागा नाङ्गामजार्धं न भसितधवलं यद्वपुर्भूषयन्ति । मा रामारागिणी भून्मतिरिति यमिनां येन वोऽदाहि मारः स स्ताः सप्ताश्वनुन्नारुणकिरणनिभाः पातु विश्वस्त्रिनेत्रः ॥' इति ।
सन्निहितेति । सन्निहितं सम्यग्विधिना वदने स्थापितं नेत्रद्वयं लोचनयुगलं यस्य तथोक्तः सन्नपि, परित्यक्तं दूरीकृतं वामं दक्षिणेतरं लोचनं नयनं येन स इति विरोधः, परित्यक्ता वामलोचना रमणी सत्सम्बन्ध इत्यर्थः, येन स तथोक्तः, ब्रह्मचर्याश्रयणादित्याशयः, इति तत्परिहारः । तदेव पम्पासंज्ञकं कमलसरः पङ्कजम यसरोवरं सिस्नासुः स्नातुमिच्छुः सन् उपागमत् प्राप्तवान्
प्रायेणेति । प्रायेण बाहुल्येन अकारणमित्राणि कारणाभावेन स्नेहकारिणी अतिकरुणाद्राणि अति-शयपरक्लेशदूरीकरणेच्छया क्लिन्नानि, खलु निश्चयेन सदा सर्वस्मिन् समये सतां साधूनां चेतांसि हृदयानि भवन्ति । यतः यस्माद्धेतोः स जाबालितनयो हारीतनामा तदवस्थं विवृतपूर्वक्लेशदशापन्नं मां वैशम्पा-
रूपी महल में निवास करने वाले (ब्रह्मलीन), असंयत (संयमरहित, संसार के बन्धन से रहित) होते हुए भी मोक्ष चाहने वाले, अर्थात् मुक्त साम (साम उपाय, सामवेद) का प्रयोग करते हुए भी दण्डधारी (दंड, उपाय, पलाशदण्ड) सोते हुए (संसार के ज्ञान से रहित अर्थात् इन्द्रियों के बाह्य विषयों से मुक्त) भी जागने वाले (निरन्तर ब्रह्म के चिन्तन में लगे रहने वाले) और दोनों आँखें रखते हुए भी वामलोचन (बाईं आँख) का परित्याग करनेवाले अर्थात् वामलोचनाओं (स्त्रियों) के प्रति उदासीन थे ।
सज्जनों के हृदय प्रायः सभी प्राणियों के प्रति सर्वदा निःस्वार्थ भाव से मैत्री का व्यवहार करने वाले तथा करुणा से अत्यन्त कोमल होते हैं । क्योंकि मुझे ऐसी दशा में देखकर उस ऋषिकुमार को दया आ गयी और
शुकजलपानादिवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । १९५
तदवस्थमालोक्य समुपजातकरुणं^१ समीपवर्त्तिनं^२मृषिकुमारकमन्यतममब्रवीत् 'अयं कथमपि शुक-शिशुरसञ्जात-पक्षपुट एव तरुशिखरादस्मात् परिच्युतः । श्येन-मुख-परिभ्रष्टेन वाऽनेन^३ भवितव्यम् । तथाद्यस्त्यल्पशेषं जीवितम्, अयमामीलित-लोचनो मुहुर्मुहुरुल्बणं श्वसिति^५, मुहुर्मुहुर्मुखेन पतति^६, मुहुर्मुहुश्चञ्चुपुटं विवृणोति^७, न शक्नोति शिरोधरां धारयितुम् । तदेहि यावदेवायमसुभिर्न विप्रमुच्यते^८ तावदेव गृहाणेमम् अवतारय सलिलसमीपम्' इत्यभिधाय तेन मां सरस्तीरमनाययत् ।
उपसृत्य च^९ जल-समीपमेकदेश-निहित-दण्ड-कमण्डलुरादाय स्वयं मां मुक्तप्रयत्नम्^१० उत्तानित^११-मुखम् अङ्गुल्या कतिचिन्न सलिल-बिन्दूनपाययत् । अम्भःक्षोदकृतसेकञ्च समुपाजात^१२-
यनम् आलोक्य दृष्ट्वा समुत्जाता समुत्पन्ना करुणा दया यस्यैतादृशः समीपवर्तिनं निकटस्थायिनम् अन्यतमं बहुषु कमप्येकम् ऋषिकुमारकं मुनितनयम् अब्रवीद् अवोचत् ।
अयमिति । अयं पुरो दृश्यमानः शुकशिशुः कीरशावकः कथमपि महता क्लेशेन असंजातपक्षपुट एव असमुत्पन्नपत्रपुट एव अस्मात् प्रत्यक्षात् तरुशिखरात् वृक्षप्रदेशाद् परिच्युतो निपतितः । वा अथवा अनेकशुकशिशुनाशयेन मुखपरिभ्रष्टेन सिन्नानकवदननिपतितेन भवितव्यम् । तदेवोपपादयति—तथाहीति । अतिदीर्घायः अत्यन्तदूरः तस्य भावस्तया तादृश्या अस्य कीरशावकस्य ल्पशेषं किञ्चिदवशिष्टं जीवितं जीवनम् । अयम् आमीलितलोचनः सङ्कुचितनेत्रः मुहुर्मुहुः अनेकशः अम्युल्बणं नितान्तद्रौपं यथा स्यात्तथा श्वसिति प्राणिति, मुहुर्मुहुः वारंवारं मुखेन वदनेन पतति परिच्यवते, चञ्चुपुटं त्रोटीपुटं विवृणोति व्याददाति, शिरोधरां ग्रीवां धारयितुं साक्ष्येण स्थापयितुं न शक्नोति न समर्थो भवति । तत् तस्मात् कारणात् एहि आगच्छ यावदेव यावति समये अयं शुकशिशुः असुभिः प्राणैः न व्यक्तो भवति तावदेव तावति समये इमं शुकशिशुं गृहाण धारय, सलिलसमीपं जलान्तिकम् अवतारय प्रापय' इति पूर्वोक्तविधिना अभिधाय दत्त्वा तेन मुनिकुमारेकण सरस्तीरं पम्पासरोवरतटम् अनाययत् प्रापयत् ।
उपसृत्य इति । जलसमीपं सलिलान्तिकम् उपसृत्य प्राप्य च, एकस्मिन् देशे भागे निहितौ स्थापितौ दण्डकमण्डलू दण्डकुण्डिके येन स तादृशो हारीतः, स्वयम् आत्मना माम् आदाय गृहीत्वा मुक्तः परित्यक्तः प्रयत्नः सलिलपाने उद्योगः वदनविकासादि व्यापार इत्यर्थः, येन तं तादृशम् अत्यन्तावसन्नमत्वादिप्याशयः । उत्तानितमुखम् उर्ध्वाङ्कृतताननम् अङ्गुल्या कराग्रेण कतिचित् कियन्तः सलिलबिन्दून् जलकणान् अपाययत् पानमकारयत् ।
अम्भ इति । अम्भक्षोदैः सलिलप्रदानसमये कुमारकराच्च्युतैः जलबिन्दुभिः सलिलकणैः कृतो विहितः सेचनं यस्य तं तादृशं च, अत एव समुपाजाता समुत्पन्ना प्रज्ञा प्रकृष्टबोधो यस्य तं तादृशं
उन्होंने अपने पास ही खड़े एक दूसरे मुनिकुमार से कहा—देखो, सुग्गे के बच्चे को अभी पंख भी नहीं आये हैं लेकिन न जाने कैसे यह इस वृक्ष की चोटी से गिर पड़ा है, अथवा यह भी हो सकता है कि किसी बाज पक्षी के मुख से छूटकर गिर पड़ा है। अब इसमें बहुत थोड़ी जीवनशक्ति बच गयी है इसलिए यह आँखें बन्द किये हुए बार-बार लम्बी-लम्बी ठण्डी साँसें खींच रहा है, बार-बार ओंधे मुंह लुढ़क रहा है और बार-बार चोंच खोल रहा है। यह यह अपनी गरदन भी नहीं संभाल पा रहा है, इसलिए इसे मरने के पहिले ही उठाकर जल के पास पहुँचा दो। इस प्रकार कहकर वे मुझे सरोवर के किनारे लिवा ले गये।
उन्होंने जल के किनारे पहुँचकर अपना दण्ड और कमण्डलु एक ओर रख दिया। मैं मरणासन्न होने के कारण अत्यन्त शिथिल हो चुका था; इसलिए उन्होंने स्वयं मुझे उठा लिया और मेरा मुख उठाकर अपनी अंगुली से पानी की कुछ बूँदें पिलायीं। जल पिलाते समय कुछ बूँदें मेरे शरीर पर भी गिरी थीं जिसकी शीतलता से
१. ***ददः ।
२. समीपतरवर्तिनम् ।
३. इह 'प्रायः' इत्यधिकः पाठः ।
४. तदाहि अतिदीर्घादस्यदाप्रयातस्यावशेषजीवितः ।
५. निःश्वसिति ।
६. वमति ।
७. विवृणुते ।
८. पप्तन् ।
९. क्वचिद् 'च' इति नास्ति ।
१०. नलमुक्तप्रयत्नं ।
११. उत्तानितमुखन्, उत्तानितमन्मुखम् ।
१२. द्रवनादनवीन्दमानम् ।
| ११६ | कादम्बरी- | [ कथामुखे- |
|---|
'प्रज्ञाम् उपतट-प्ररूढ-नलिनी-पलाशस्य जलशिशिरायां छायायां निधाय यथासमुचितमकरोत् स्नानविधिम् । अभिषेकावसाने चानेकप्राणायामपूतोऽपि जपन्नघमर्षणानि प्रत्यग्रभग्नैरन्मुखो रक्तारविन्दैनैलिनीपत्र-पुटेन भगवते सवित्रे दत्त्वार्घमुदतिष्ठत् । आगृहीत-धौत-धवल-वल्कलश्च सज्योत्स्नँ इव सन्ध्यात्पः करतल-निर्धूतनं-विशद-सटः प्रत्यग्रस्नानाई-जटेन सकलेन तेन मुनिकुमार-कदम्बकेनानुगम्यमानो मां गृहीत्वा तपोवनाभिमुखं शनैः शनैरगच्छत् ।
अनतिदूरमिव गत्वा दिशि सदासन्निहित-कुसुर्मफलैः ताल-तिलकैतमाल-हिन्ताल-
माम्, उपतटे तीरनिकटे प्ररूढा प्रादुर्भूता या नलिनी कमलिनी तस्याः पलाशस्य पत्रस्य, जलेन सलिल-सेकेन शिशिरा शीतला यस्यां तस्यां तादृश्यां छायायाम् अनातपे निधाय संस्थाप्य यथासमुचितं यथा-योग्यं शरीरपु मृत्तिकालेपनादियुक्तमित्यर्थः स्नानविधिं मज्जनविधिम् अकरोत् कृतवान् ।
अभिषेकेति । अभिषेकस्य स्नानस्य अवसाने अन्ते च, अनेकैः बहुविधैः प्राणायामैः पूरककुम्भकरेच-काख्यैः वायुनिरोधनिरोधरूपयोगाङ्गविशेषैः पूतोऽपि पापरहितोऽपि । अघं दुष्कृतं मृज्यते प्रमाज्यंते एभि-रिति तानि तादृशानि अघमर्षणानि सूक्तानि, एतानि हि 'ऋतञ्च सत्यञ्चाभीद्धात्तपसोऽध्यजायत' इत्या-रभ्य 'दिवञ्च पृथिवीञ्चान्तरिक्षमथो स्वः' इत्यन्तानि वरुणदेवतास्तुतिरूपाणि बोध्यानि । अन्यत्रापि 'सर्वै-नसामपध्वंसि जप्यं त्र्यश्वघमर्षणम्' इति । उन्मुखः उपरिभागकृताननः दिनाधिपाभिमुखः सन्नित्यर्थः, प्रत्यग्रमग्नैः तत्काल्योत्खातैः रक्तारविन्दैः रक्तवर्णकमलैः, नलिनीपत्रपुटेन रक्तकमलारभूतेन कमलदल-पुटकेन भगवते माहात्म्यवते सवित्रे आदित्याय अर्घं पूजां दत्त्वा समर्प्य उदतिष्ठत् ।
आगृहीतेति । आगृहीतं स्नानानन्तरं सम्यक्प्रकारेण परिहितं धौतं क्षालितं धवलं स्वच्छं वल्कलं धृक्षत्वक् येन स तथोक्तः, अत एव ज्योत्स्नया, चन्द्रिकया सहेति सज्योत्स्नः, सन्ध्यात्तपः, सायंसम्बन्धि-सूर्यप्रकाश इव । करतलाभ्यां हस्ततलाभ्यां निर्धूननेन आस्फालनेन ताडनेनेत्यर्थः, विशदा नीरजाः सटा जटा यस्य स तादृशः, प्रत्यग्रेण नूतनेन तत्कालविहितेन स्नानेन मज्जनेन आर्दा स्विन्ना जटा यस्य स तेन तादृशेन, तेन पूर्वोक्तेन मुनिकुमारकदम्बकेन ऋषिपुत्रसमूहेन अनुगम्यमानः अनुव्रज्यमानो हारीतो मां वैशम्पायनं गृहीत्वा आदाय शनैःशनैः मन्दं मन्दं तपोवनाभिमुखं निजाश्रमसन्मुखम् अगच्छत् अव्रजत् ।
अनतिदूरमिति । अनतिदूरं किञ्चिद्वयीयांसं मार्ग गत्वा आश्रमं स्वस्थानम्पश्यदिति सुदूरस्थायिन्या क्रियया सम्बन्धः । इव शब्दोऽत्र वाक्यालङ्कारे । इह तृतीयान्तानि यानि पदानि सन्ति तानि अग्रिमस्य 'काननै'रित्यस्य विशेषणानि बोध्यानि । दिशि दिशि प्रतिदिशम् । सदा सर्वदा सन्निहितानि अवस्थितानि समीपर्त्तीनि कुसुमानि पुष्पाणि फलानि रसोद्भवानि च येषु तैः तादृशैः तालाः स्वनामप्रसिद्धाः तिलकाः श्रीमद्वृक्षविशेषाः, तमालाः तापिच्छाः, हिन्तालाः फलतरुविशेषाः, बकुलाः, केसराश्च बहुला अधिका येषु तैः
मैं होश में आ गया । तब उन्होंने मुझे किनारे पर उगी हुई कमलिनी के पत्ते की जल से ठण्डी छाया में रख दिया, फिर स्वयम् विधिपूर्वक स्नान किया, स्नान के पश्चात् अनेक प्राणायामों से अपने को पवित्र करके भी अघमर्षण (पापों को दूर करने वाला) मन्त्रों का जप किया और भगवान् सूर्य की ओर मुँह उठाकर टटके कमल के लाल फूलों और कमलिनी के जल से भरे पत्ते के दोने से उन्हें अर्घ दिया । इसके पश्चात् उन्होंने उठकर धुली हुई उजली छाल पहन ली। उस समय वह ऐसे प्रतीत होने लगे थे म.नो चाँदनी से युक्त सायङ्काल की धूप हो। फिर उन्होंने अपनी जटाओं को फटकार कर साफ किया और सभी मुनिकुमारों के साथ मुझे लेकर तपोवन की ओर प्रस्थान किया। पीछे पीछे चलने वाले उन सभी मुनिकुमारों की जटायें अभी-अभी स्नान करने के कारण गीली हो थी।
कुछ ही दूर जाने पर मैंने दूसरे ब्रह्मलोक के समान एक रमणीय आश्रम देखा। उसके चारों ओर फूलों-फलों से लदे हुए घने वृक्षों के जंगल स्थित थे। उन जंगलों में ताड़, तमाल, तिलक, हिंताल और मौलसिरी के
१. उपतटप्ररूढस्य यह्ननवनलिनीदलस्य । २. स्वोचितम्, समुचितम् । ३. अभिगताभिषेक । ४. ....पूतो जपन् परिम्लाणघमर्षणानि । ५. अर्घ्यम् । ६. आगृहीतधवल...। ७. सहज्योत्स्न इव । ८. विधुतविशदजटः । ९. कमण्डलुमापूर्यं कमलकिञ्जल्कसुरभिणा शुचिना सरोवारिणा प्रत्यग्रस्नानाईजटेन । १०. कुमारक । ११. क्वचिद् 'शनैः' इत्येकमेव पदमुपलभ्यते । १२. कुसुमपटलैः । १३. ...तिलकतालीतमाल ।
| जाबाल्याश्रमवर्णनम् ] | चन्द्रकला-विद्योतिनीसहिता । | ११७ |
|---|
बकुल-बहुलैः, एलालताकुलित-नारिकेल-कलापैः ओलोल-लोध्र-लवली-लवङ्ग-पल्लवैः, उल्लसत्-चूत-रेणु-पटलैः, अलिकुल-झङ्कार-मुखर-सहकारैः, उन्मद-कोकिल-कुल-केलालाप-कोलाहलिभिः, उत्फुल्ल-केतकी-कुसुम-मञ्जरीरजःपुञ्ज-पिञ्जरैः, पूगीलता-दोलाधिरूढ-वनदेवर्तैः, तारकावर्षमिवोधर्म-विनाश-पिशुनं कुसुम-निकरमनिल-चलितमनवरतमतिधवलमुत्सृजद्भिः, संसक्तपादपः काननै रुपगूढम् , अचकित-प्रचलित-कृष्णसारै-शत-शबलाभिः, उत्फुल्ल-स्थल-कमलिनी-लोहिनीभिः, मारीचँमायामृगावलून-प्ररूढै-वीरुद्दलाभिः, दाशरथि-चाप-कोटि-क्षत-
तादृशै। एलालताभिः चन्द्रवालावल्लीभिः आकुलिता व्याप्ता नारिकेलानां लाङ्गलीनां तरूणां कलापाः समूहा येषु तैस्तादृशैः। आलोलाः पवनवेगेन समन्ताच्चञ्चलाः लोध्राणां गाल्वानां लवलीनां लताविशेषणां लवङ्गानां श्रीसंज्ञकानां पल्लवाः किसलयानि येषु तैः तादृशैः। उल्लसन्ति पवनवेगेन प्रचलन्ति चूतानाम् आम्रपुष्पाणाम् 'आम्रश्चूतो रसालोऽसौ' इत्यमरः, रेणुपटलानि परागसमूहा येषु तैः तादृशैः। अलिकुलस्य भ्रमरगणस्य झङ्कारैः 'झम्' इत्येवंविधशब्दैः मुखरा वाचालाः सहकारा अतिसुगन्धिरसाला येषु तैः तादृशैः 'आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः' इत्यमरः। उन्मदस्य मद्योन्मत्तस्य कोकिलकुलस्य पिकगणस्य कलालापः अव्यक्तमधुरध्वनिरूपः कोलाहलः कलकलः एषामस्तीति तैः तादृशैः। उत्फुल्लानां प्रस्फुटितानां केतकीकुसुमानां मालतीपुष्पाणां या मञ्जर्यः वल्लर्यो 'वल्लरिर्मञ्जरी स्त्रियौ' इत्यमरः, तासां रजःपुञ्जैः परागपटलैः पिञ्जराणि पीतवर्णानि येषु तैः तादृशैः। पूगीनां क्रमुकानां वा लता वल्ल्यो तद्वत् कृशास्तरवः ता एव दोल अधिरोहिण्यः 'दोला प्रेङ्खाः पुमान् प्रेङ्खा, निभ्रणिरधिरोहिणी' इति रत्नकोशः, स्थानविशेषे दोलावदनेकानां कुटिलीभूतत्वादित्याशयः तत्र अधिरूढा आश्रिता वनदेवता अरण्याधिष्ठात्र्यो देवता येषु तैः तादृशैः। अधर्मस्य पापस्य विनाशो ध्वंसः तस्य पिशुनं सूचकं देवार्चनोपयोगित्वादित्याशयः, अनिलचलितं पवनान्दोलितम्, अतिधवलम्, अत्यन्तशुभ्रं कुसुमनिकरं प्रसूनवृन्दम्, तारकावर्षमिव उल्कापातमिव अनवरतं निरन्तरम् उत्सृजद्भिः परित्यजद्भिः। संसक्ता मिथो मिलिताः पादपाः तरवो येषु तैः तथोक्तैः काननैः वनैः उपगूढम् आश्लिष्टम् आच्छादितमित्यर्थः, 'गहनं काननं वनम्' इत्यमरः। 'पूगीलता-दोलाधिरूढ-वनदेवतैः' इत्यत्र वनदेवतानां तथाविधदोलाधिरोहणसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिरलङ्कारः। 'तारकावर्षमिव इत्यत्र पूर्णोपमालङ्कारः।
अचकितेति । अचकितेत्यारभ्य 'गर्तविषे'त्यन्तानि स्त्रीलिङ्गपदानि दण्डकारण्यस्थलीभिरित्यस्य विशेषणानि। अचकितानाम् अभीतानां हिंसाभावादित्याशयः, प्रचलितानां सञ्चरतां कृष्णसाराणां तदाख्यहरिणानां शतेन आधिक्येन समुदायेनेत्यर्थः। शबलाभिर्विचित्राभिः उत्फुल्लाभिः प्रस्फुटिताभिः स्थलकमलिनीभिः स्थलपद्मिनीभिः लोहिन्यो रक्तवर्णाः ताभिः तादृशीभिः। मारीच एतन्नामाऽसुर एव मायामृगः व्याजेन मृगरूपधारी तेन अवलून्रानि पूर्वं प्रासाय छिन्नानि पश्चात् प्ररूढानि समुपजातानि वीरुधां लतानां दलानि पर्णानि यासु ताभिः तादृशीभिः 'पत्रं पलाशं छदनं दलं पर्णं छदः पुमान्' इत्यमरः।
पेड़ों की अधिकता थी। इसके अतिरिक्त कहीं इलायची की लताओं से घिरे हुए नारियल के पेड़ थे, कहीं लोध्र, लवली और लवंग की लताओं के पत्ते हवा के झोंकों से लहरा रहे थे, कहीं आम की मञ्जरियों की धूल छायी थी, कहीं उन पर भौरों की मधुर गुंजार हो रही थी, कहीं मतवालो कोयलें मधुर स्वर से कूक रही थीं, कहीं खिले हुए केवड़ों के फूलों की मंजरियों की धूल से सारा वन पीला-पीला सा हो उठा था, कहीं सुपारी लताओं के फूलों में वनदेवियाँ विराजमान थीं और कहीं वायु के झोंकों से लगातार झड़ने वाले फूलों से सारा वन उजला हो उठा था मानो अधर्म के विनाश की सूचना देने वाली उल्कायें बरस रही हों। उस आश्रम के पिछले भाग में दण्डकारण्य की भूमि थी, जहाँ कहीं-कहीं सैकड़ों हरिण निर्भय होकर छलांगें मार रहे थे, कहीं-कहीं स्थलकमलों के खिलने से सारी भूमि लाल हो उठी थी, कहीं कहीं आज वे लतायें फिर पल्लवों से हरी-भरी हो उठी थीं जिनके पत्तों को मायावी मृग का रूप धारण करने वाले मारीच ने नोच डाला था और कहीं-कहीं की भूमि
१. नालिकेरी...। २. लोल । ३. पुष्पैः। ४. उल्लसित...। ५. कुतुकलाप...। ६. ...केतक-मञ्जीरजः; केतकीरजः...। ७. तारकावृष्टिम् । ८. क्वचित् 'काननैः' इति पाठो नास्ति । ९. सारसारङ्ग । १०. क्वचित् 'स्थल' इति पाठो न विद्यते । ११. मारीचि । १२. रूढ ।
११८ कादम्बरी- [ कथामुखे-
कन्द-गर्तैर्विपमित-तलाभिः दण्डकारण्यस्थलीभिरुपशोभितप्रान्तम्, आगृहीतसमित्कुशकुसुम-मृद्भिः अध्ययन मुखर-शिष्यानुगतैः सर्वतः प्रविशद्भिः मुनिभिरशून्योपकण्ठम्, उत्कण्ठित-शिखण्डिमण्डल-श्रूयमाणजल-कलशपूरणध्वानम्, अनवरताज्यहुतिप्रीतैश्चित्रभानुभिः सशरीरमेव मुनिजनममरलोकं निनीषुभिः, उद्रूयमान-धूम-लेखाच्छलेनाबद्ध्यमान-स्वर्ग-मार्ग-गमन-सोपान-सेतुमिवोपलक्ष्यमाणम्, आसन्नवर्त्तिनीभिस्तपोधन-सम्पर्कादिवापगत-कालुष्याभिः, तरङ्ग-परम्परा-संक्रान्त-रविबिम्ब-पङ्क्तिभिः, तापसदर्शनागतसप्तर्षि-मालावगाह्य-
तथा दाशरथेः रामचन्द्रस्य चापकोटया कार्मुकाग्रेण क्षतानि उत्खातानि यानि कन्दानि वृक्षमूलानि तेषां गर्तैः भूविवरैः विपमितानि उच्चनीचतां प्राप्तानि तलानि ऊर्ध्वदेशा यासां ताभिः तादृशीभिः, दण्डकारण्यस्य दण्डसंज्ञकवनस्य स्थलीभिः भूमिभिः उपशोभितः शोभां लम्भितः प्रान्तः पश्चाद्भाग्रदेशो यस्य स तं तादृशम्।
आगृहीतेति। आगृहीताः पार्थक्येनाग्निहोत्रादिकार्यसाधनाय सम्यग्ग्रात्ताः समिधः एधांसि कुशा दर्भाः, कुसुमानि प्रसूनानि, मृदो मृत्तिकाः यैस्ते तैस्तादृशैः। अध्ययनेन गुरुमुखोच्चारणानन्तरं तथा विधवेदपारायणेन मुखराः शब्दायमाना ये शिष्या अन्तेवासिनः तैरनुगतैः युक्तैः, सर्वतः समन्तात् प्रविशद्भिः प्रवेशं विदधद्भिः मुनिभिः ऋषिभिः अशून्यः अविरहितः परिपूर्णः उपकण्ठो निकटदेशो यस्य तं तादृशम्। उत्कण्ठितेन उत्कण्ठितेति। घटपूरणध्वनौ जलदगर्जनभ्रान्त्या समुत्पन्नोत्कण्ठेन शिखण्डिमण्डलेन मयूरगणेन श्रूयमाणा निशम्यमानः जलैः सलिलैः कलशपूरणस्य घटपूरणस्य ध्वनिः शब्दो यस्मिन् तं तादृशम्।
अनवरतेति। अनवरतं निरन्तरम् आज्यानां सर्पिषां हविपाम् आहुतीभिः हवनैः प्रीताः सन्तुष्टाः तैः तादृशैः चित्रभानुभिः दक्षिणाग्निगार्हपत्यान्वाहार्य्याहवनीयाग्निरूपैः त्रिभिर्वह्निभिः सशरीरमेव सविग्रहमेव मुनिजनम् ऋषिगणम् अमरलोकं देवलोकं निनीषुभिः नेतुमिच्छुभिः, उद्रूयमाना पवनेन सञ्चाव्यमाना या धूमलेखा उपरिगामिनी पारम्पर्येण वह्निकेतनश्रेणिः तस्याः छलेन कपटेन आबद्ध्यमानः विरच्यमानः स्वर्गमार्गमगमनाय देवलोकमार्गगमनार्थ सोपानसेतुमिव सोपानसदृशी लोकद्वयसंयोजकपङ्क्तिमिव उपलक्ष्यमाणम्।
इह धूमलेखां संगोप्य स्वर्गगमनसोपानसेतुत्वोत्प्रेक्षात् सापह्नवोत्प्रेक्षा।
आसन्नेति। आसन्नवर्त्तिनीभिः निकटस्थायिनीभिः, तपोधनानां तापसानां मुनीनां सम्पर्कादिव सम्बन्धादिव अपगतं विलीनं कालुष्यं मालिन्यं तासां ताभिः। तरङ्गपरम्परासु कल्लोलपंक्तिषु सङ्क्रान्ताः प्रतिफलिताः रविबिम्बपंक्तयः सूर्य्यबिम्बराजः यासु नाभिः तादृशीभिः, अत एव तापसानां जाबाल्यादि मुनिजाना दर्शनाय सजातिप्रश्णा साक्षात्काराय आगतया प्राप्तया सप्तर्षिमालया मारीचिप्रभृतिदेवर्षि-
उन गड्डों से आज भी ऊँची-नीची लग रही थी जहाँ राम ने अपने धनुष की नोक से कन्द-मूल खोदा था। उस आश्रम के पास ही एक ओर आ-आकर मुनि लोग इकट्ठे हो रहे थे, उनके पीछे-पीछे उनके शिष्य भी चले आ रहे थे, जो अपने हाथों में कुश, समिधा, फूल और मिट्टी लिये हुये थे तथा उच्च स्वर से वेद का पाठ भी कर रहे थे। कहीं मोरों के झुण्ड कलशों के भरने के कारण जल से उठने वाली ध्वनि को बादलों की गरजन समझ कर उत्सुकता के साथ गरदन उठा-उठाकर सुन रहे थे, कहीं यज्ञकुण्डों से उठने वाली धुयें की रेखायें ऐसी प्रतीत हो रही थीं मानो निरन्तर घी से हवन करने के कारण प्रसन्न होकर अग्निदेव ने मुनियों को सशरीर स्वर्ग पहुँचाने के लिए मार्ग में सीढ़ियों का पुल बना दिया हो। उस आश्रम के समीप ही चारों ओर बावलियाँ बनी हुई थीं जो तपस्वियों के सम्पर्क से मानो अत्यन्त निर्मल हो गयी थीं। उनकी लहरों में पड़ने वाले सूर्य के प्रतिबिम्ब ऐसे प्रतीत होते थे मानो वहाँ के तपस्वियों का दर्शन करने के लिये आये हुए सप्तर्षिगण उनमें स्नान कर रहे हों और उनमें खिले हुए कुमुदों के फूल ऐसे प्रतीत हो रहे थे मानो रात में ऋषियों की सेवा के लिए
१. ०'कन्दर००' । २. मृत्तिकैः। ३. शिष्यागतैः। ४. प्रसरद्भिः। ५. अविशून्य । ६. उत्कण्ठ ०' । ७. ०'मण्डलीमण्डल ०' । ८. तपोवन ०' । ९. क्वचित् 'बिम्ब' इति पाठो नास्ति।
जाबाल्याश्रमवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । ११६
मानाभिरिव, अतिविकच-कुमुदवनमृषिजनमुपासितुमवतीर्णं ग्रहगणमिव निशासूद्वहन्तीभि- र्दीर्घिकाभिः परिवृतम्, अनिलावनमित-शिखराभिः प्रणम्यमानमिव वनलताभिः अनवरत- मुक्त-कुसुमैरभ्यर्च्यमानमिव पादपैः, आबद्ध-पल्लवाञ्जलिभिः उपास्यमानमिव विटपैः, उटजा- जिर-प्रकीर्ण-शुष्यच्छ्यामाकम् ; उपसंगृहीतामलक-लवली-लवङ्ग-कर्कन्धू-कदली-लकुच-चूत- पनस-तालफलम्, अध्ययनमुखर-बटुजनम्, अनवरत-श्रवण-गृहीत-वषट्कार-वाचाल- शुककुलम्, अनेक-सारिकोद्घुष्यमाण सुब्रह्मण्यम्, अरण्य-कुक्कुटोपभुज्यमान-वैश्वदेव-
पङ्क्त्या विगाह्यमानाभिः विलोड्यमानाभिरिव वर्तमानाभिरिव अनेकसर्पिणां रविरप्रतिबिम्बतुल्यत्वं सूचितम् । तथा निशासु भगदासु ऋषिजनं जाबाल्यादिमुनिमण्डलम् उपासितुं सेवितुम् अवतीर्णम् उप-रिष्टात्प्राप्तं ग्रहगणमिव नक्षत्रमण्डलमिव अतिविकचकुमुदवनं पूर्णविकसितकैरवविपिनम् उद्वहन्तीभिः धारयन्तीभिः दीर्घिकाभिः वापीभिः परिवेष्टितम् ।
इह 'तपोधनसम्पर्कादिव' इत्यत्र हेतूत्प्रेक्षा, 'विगाह्यमानाभिः' इत्यत्र क्रियोत्प्रेक्षा, 'ग्रहमिव' इत्यत्र जात्युत्प्रेक्षा ।
अनिलेति । अनिलेन पवनेन अवनमितानि अवनम्रीभूतानि शिखराणि अग्रभागा यासां ताभिः तादृशीभिः वनलताभिः वनप्रततिभिः प्रणम्यमानमिव नमस्क्रियमाणमिव । इह क्रियोत्प्रेक्षा ।
अनवरतेति । अनवरतं निरन्तरं मुक्तानि त्यक्तानि कुसुमानि पुष्पाणि यैस्तैस्तादृशैः पादपैः तरुभिः अभ्यर्च्यमानमिव पूज्यमानमिव ।
अत्र क्रियोत्प्रेक्षालङ्कारः ।
आबद्धेति । आबद्धा विनिर्मिताः पल्लवा एव किसलयान्येव अञ्जलयः यैस्तैस्तादृशैः विटपैः स्कन्धैः उपास्यमानमिव सेव्यमानमिव । इह 'पल्लवा एवाञ्जलयः' इत्यत्र निरङ्गकेवलंरूपकम्, 'उपास्यमानमिव' इत्यत्र क्रियोत्प्रेक्षा चेत्यनयोरङ्गाङ्गिभावेन साङ्कर्यात् सङ्करालङ्कारः ।
उटजेति । उटजानां पर्णशालानां 'पर्णशालोटजोऽस्त्रियाम्' इत्यमरः, अजिरेषु प्राङ्गणेपु प्रकीर्णाः प्रसारिताः, अतएव शुष्यन्तः सूर्यतेजसा शुष्कतां प्राप्नुवन्तः श्यामाका धान्यविशेषा तत्र स तादृशम् ।
उपसंगृहीतेति । उपसंगृहीतानि यत्र तत्रैकत्रीकृतानि, आमलकं धात्री, लवली लताविशेषः, लवङ्गं स्वनामप्रसिद्धम्, कर्कन्धूर्बदरी, कदली रम्भा; लकुचो बहुः, चूत आम्रम्; पनस्रं कण्टकी, तालं तृणराजश्च एतानि फलानि यत्र स तं तादृशम् । भक्षणार्थमेतेषामेकत्रानयनम् ।
अध्ययनेति । अध्ययनेन वेदानां गुरुमुखोच्चारणानूच्चारणेन मुखराः शब्दायमाना वटुजना ब्रह्मचारि-वर्गाः यत्र स तं तादृशम् ।
अनवरतेति । अनवरतश्रवणेन निरन्तराकर्णनेन गृहीताः शिक्षां प्राप्ताः ये वषट्कारा हविःसमर्पण-मन्त्राः तैः तदभ्यासैरित्यर्थः, वाचालं शब्दायमानं शुककुलं कीरगणो यस्मिन् स तं तादृशम् ।
अनेकेति । अनेकाभिः बह्वीभिः सारिकाभिः पीतपदाभिः उद्घुष्यमाणम् उच्चस्वरेणाभ्यस्यमानं सुब्रह्मण्यं वेदो यत्र स तं तादृशम् । तासामपि तदाकर्णनेन शिक्षणादित्याशयः ।
अरण्येति । अरण्यकुक्कुटैः वनचररायुधैः 'कुक्कुटश्चरणायुधः' इत्यमरः, उपभुज्यमाना भक्ष्यमाणा वैश्वदेववलिपिण्डाः पञ्चमयामार्द्धदत्तदेवयज्ञोद्देश्यकहन्तकारा यत्र तम् । एष विधिः नित्यकर्मपद्धत्यादौ स्पष्टः ।
तारे उतर आये हों। कहीं लताओं की चोटियाँ हवा से झुक-झुक जाती थीं मानो सिर झुका-झुकाकर उस आश्रम को प्रणाम कर रही हों, कहीं पेड़ों से फूल बह रहे थे मानो वे फूल चढ़ा-चढ़ाकर उसकी पूजा कर रहे हों और कहीं लटकते हुए कोमल-कोमल पत्ते ऐसे लग रहे थे मानो वे हाथ जोड़कर उसकी उपासना कर रहे हों। उस आश्रम की कुटियों के आँगन सूखने के लिए डाले गये साँवाँ नामक अन्न से भरे थे तथा झोपड़ियों के भीतर आँवला, लवली, लौंग, बेर, केला, लहुच, आम, कटहल और ताड़ के फल इकट्ठे करके रखे हुए थे कहीं ब्राह्मणों के बालक एक स्वर से पाठ का अभ्यास कर रहे थे, कहीं तुन्ने बार-बार सुनने से याद
१. विकच***।
२. ***न्तिभिः ।
३. ***पल्लवाङ्गलिखिः ।
४. 'लवङ्ग' इति पाठः क्वचिन्नास्ति।
५. 'पनस' इत्याद्यादि पाठः क्वचिन्नास्ति ।
| १२० | कादम्बरी- | [ कथामुखे- |
|---|
बलिपिण्डम्; आसन्नवापी-कलहंसपोत-भुज्यमान-नीवारबलिम्; एणी-जिह्वापल्लवोपलिह्य-मानमुनिबालकम्; अग्निकार्यार्द्धदग्धसिमसिमायमान-कुश-समिद्व्रतितम्; उपल-भग्न-नारिकेल-रसस्निग्धशिलातलम्; अचिर-क्षुण्ण-वल्कल-रस-पाटलभूतलम्; रक्तचन्दनोप-लिप्तादित्यमण्डल-निहित-करवीर-कुसुमम्; इतस्ततो विक्षिप्त-भस्मलेखा-लङ्कृत-मुनिजन-भोजन-भूमिभागम्; परिचित-शाखामृग-कराकृष्टयष्टि-निष्काश्यमान-प्रवेश्यमान-जरदन्ध-तापसम्, इन-करभकार्द्धोपभुक्तपतितैः सरस्वती-भुजलता-विगलितैः शङ्खवलयैरिव मृणाल-
गलन्तेति। आसन्नवापीनां निकटवर्त्तिदीर्घिकाणां ये कलहंसपोताः कलहंसशिशवः तैर्भुज्यमाना भक्ष्यमाणा नीवाराणां मुन्यन्नानां बलय उपायनानि यस्मिन् स तं तादृशम्।
एणीति। एणीभिः हरिणीभिः जिह्वापल्लवैः प्रसारिताभिः रसनाभिः उपलिह्यमाना आस्वाद्यमानाः स्पृश्यमाना इत्यर्थः मुनिबालका ऋषिकुमारा यस्मिन् स तं तादृशम्।
अग्नीति। अग्निकार्ये हवने अर्द्धदग्धानि अर्द्धभस्मीभूतानि अत एव सिमसिमायमानानि 'सिम सिम' इत्येवं शब्दं कुर्व्वणानि कुशसमिद्धसुमानि दर्भेधः पुष्पाणि यत्र तं तादृशम्।
उपलेति। उपलैः प्रस्तरैः भग्नानि प्रस्तरान्तरेषु निधाय मर्दितानि यानि नारिकेळानि लाङ्गली-फलानि तेषां रसैः द्रवैः सल्लिलैर्वा स्निग्धानि चिक्कणानि तैलाक्कीकृतानि वा शिलातलानि शय्यामृत-प्रस्तरा यत्र तत्र।
अचिरेति। अचिरक्षुण्णानां तरुभ्यः तत्कालनिःसारितानां वल्कलानां त्वचां रसैः निर्यासैः पाटलं श्वेतरक्तरूपं पृथ्वीतलं यस्मिन् स तं तादृशम्।
रक्तेति। रक्तचन्दनेन पत्राङ्गेन उपलिप्ते आलिम्बिते चादित्यमण्डले रविबिम्बे निहितम् आदित्याय समर्थ्य स्थापितं करवीरकुसुमं हयमारपुष्पं यस्मिन् स तं तादृशम्।
इत इति। इतस्ततः समन्ताद् विक्षिप्ताभिः प्रमृताभिः भस्मनां भूतीनां 'भूतिर्भसितभस्मनि' इत्य-मरः, लेखाभिः पङ्क्तिभिः लङ्वकृताः सीमाविधानात् भूषिताः मुनिजनानाम् ऋषिगणानां भोजनभूमिभागा अशनस्थलदेशा यस्मिन् स तं तादृशम्। पादस्पर्शादिनिवृत्तये भस्मरेखाविहितवमित्याशयः।
परिचितेति। परिचितैः पूर्वत एव समुत्पन्नपरिचयैः शाखामृगैः कपिभिः कराकृष्टयष्ट्या हस्ताकर्षित-लगुडेन निष्काश्यमानाः केचिद्ववनाद्बहिः निःसार्यमाणाः प्रवेश्यमानाः केचिद्वनमध्ये नीयमानाश्च जरन्तः परिणतवयसः अन्धाः नेत्रहीनाः तापसाः तपस्विनो यस्मिन् स तं तादृशम्।
इनेति। इनकरभकैः हस्तिशावकैः अर्द्धोपभुक्तैः अर्द्धचर्व्वितैः पश्चात् पतितैः कथमपि तन्तुश्लेष्या-च्युतैः, सरस्वत्या भारत्या भुजलताया बाहुवल्लयाः सकाशात् विगलितैः स्रस्तैः शङ्खवलयैरिव त्रिरख-कटकैरिव विद्यमानैः मृणालशकलैः बिसखण्डैः कश्मापितं कर्बुरितम्। 'शङ्खवलयैरिव इत्यत्र जात्युत्प्रेक्षा। ततश्च सरस्वत्या अनवरतस्थितत्वं गम्यते, इत्यलङ्कारेण वस्तुध्वनिः।
हो जाने वाले आहुति देने के मन्त्र पढ़ रहे थे, कहीं मैनायें वेद-मन्त्रों का पाठ कर रही थीं, कहीं बहुतों इष्टदेवों के लिए दी गयी बलि खा रहे थे, कहीं पास ही की बावलियों से आये हुए कलहंसों के बच्चे नीवार की बलि खा रहे थे, कहीं हरिणियाँ पल्लवों के समान लाल कोमल जीभों से मुनियों के बच्चों को चाट रही थीं, कहीं हवनकुण्डों की आग में पड़े हुए अधजले गीले कुश, समिधा और फूल 'सिमसिम' शब्द कर रहे थे, कहीं शिलाओं के तल पत्थरों द्वारा तोड़े गए नारियलों के रस से गीले हो रहे थे, कहीं तत्काल ही के निचोड़े गये वल्कलों के रस से भूमि लाल हो उठी थी, कहीं लाल चन्दन से रँगे गये सूर्यमण्डल पर कनेर के फूल चढ़ाए गए थे, कहीं इधर-उधर भस्म की रेखाओं द्वारा मुनियों के भोजन करने की जगहों को घेर दिया गया था, कहीं परचे हुए बन्दर आश्रम के बूढ़े और अन्धे तपस्वियों की छड़ी पकड़ कर उन्हें आश्रम से बाहर ले जाते और फिर भीतर ले आ रहे थे, कहीं हाथियों के बच्चे द्वारा आधे चबाकर छोड़े गये मृणाल के टुकड़ों से आश्रम चित्रित हो रहा था। वे ऐसे लग रहे थे मानो सरस्वती की भुजाओं से गिरे
१. ०-सिमसिमायमान०। ०मिसिमिसायमान, सिमिसिमायमान।
२. ०-समिद्वेषु।
३. नारिकेर ०
४. मण्डलविनिहित ।
५. ०-लेखावत ० भोजनभूमिपरिहारम्।
६. कराकृष्टेनोन्सार्यमान ०।
७. इन्भ०।
८. शङ्खकवालिभिः।
जाबालिवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । १२१
शक्लैः कल्पमाषितम्, ऋषिजनार्थमेणकैर्विषाण-शिखरोत्खन्यमानविविध-कन्दमूलम्, अम्बु-पूर्णपुष्कर-पुटैर्वनकरिभिरापूर्य्यमाण-विटपालवालकम्, ऋषिकुमाराकृष्यमाणवनवराह-दंष्ट्रान्तराल-लग्न-शालूकम् . उपजात-परिचयैः कलापिभिः पक्षपुटपवन-सन्धुक्ष्यमाण मुनि-होम-हुताशनम्, आरब्धामृत-चरु-चारुगन्धम्, अर्द्धपक्व-पुरोडाश-^१पुण्य-परिमलामोदितम्, अविच्छिन्नाज्यधारा-हुति-हुतभूग्हुङ्कार-मुखरितम्, उपचर्य्यमाणातिथिवर्गम्, पूज्यमान-पितृ-दैवतम्, अच्च्यैमान हरि-हर-पितामहम्, उपदिश्यमान-श्राद्धकल्पम्, व्याख्यायमान-
ऋषीति । ऋषिजनार्थं मुनिगणभक्षणार्थम् एणकैः हरिणैः (कर्तृभिः), विषाणशिखरैः शृङ्गप्रान्तैः (करणैः) उत्खन्यमानानि उत्पाट्यमानानि विविधानि अनेकानि विचित्राणीत्यर्थः, कन्दः शालूकानि पंकजादीनां मूलानीत्यर्थः, मूलानि मूलकप्रभृतीनि च यस्मिन् स तं तादृशम् ।
अम्बुपूर्णेति । वनकरिभिः अरण्यहस्तिभिः (कर्तृभिः) अम्बुभिः सलिलैः पूर्णानि भृतानि यानि पुष्करपुटानि शुण्डाग्राणि तैः तादृशैः (करणैः) 'शुण्डाग्रं त्वस्य पुष्करम्' इत्यमरः, आपूर्यमाणानि क्रिय-माणानि विटपानां खण्डयित्वा सामाद्य रोपितानां स्कन्धानाम् आलवालानि आवापस्थानानि तरुमूल-सलिलधारणगर्तानीत्यर्थः, यस्मिन् स तं तादृशम् ।
ऋषीति । ऋषिकुमारकैः मुनिशिशुभिः आकृष्यमाणानि आकर्षणं प्राप्यमाणानि वनवराहाणाम् अरण्यशूकराणां दंष्ट्रान्तराललग्नानि दशनमध्यसंसक्तानि शालूकानि पद्मानां कन्दा मूलानीति तात्पर्यम् यस्मिन् तं तादृशम् । 'शालूकमेषां कन्दः स्यात्' इत्यमरः ।
उपजातेति । उपजातपरिचयैः पूर्वस्मादेव कालात् ऋषीणामहिंस्रस्वभावशायिभिरिति यावत् । कलापिभिः मयूरैः पक्षपुटानां पवनेन वातेन सन्धुक्ष्यमाणाः प्रज्वाल्यमाना ऋषीणां हवनार्थं हुताशना अग्नयो यत्र तं तादृशम् । तत्तद्विशेषणदानैः तपोवनस्यात्यन्तशान्तरूपं व्यञ्जितम् ।
आरब्धेति आरब्धः पचनाय प्रवर्तितः योऽमृतचरुः आज्ययुक्तपयवौदनः तस्य चारुः मनोहरः गन्धः आमोदो यत्र स तं तादृशम् ।
अर्द्धेति । अर्द्धपक्वः अर्द्धविक्लितिमापन्नो यः पुरोडाशः हवनीयद्रव्यविशेषः तस्य पुण्यपरिमलेन सौरभेण लामोदितं हर्षितम् ।
अविच्छिन्नेति । अविच्छिन्ना अनुटिता या आज्यधारा सर्पिःसम्पातः तस्या आहुत्या हवनेन यो हुतभुजः अग्नेः हुङ्कारः 'हुम्' इति शब्दः तेन मुखरितं वाचालितम् । अत्र 'हुतभुग्झङ्कार' इति पाठो न निर्दोषः अग्नेः झङ्कारोत्पादनामावात् ।
उपचर्येति । उपचर्य्यमाणः सत्कारं प्राप्यमाणः अतिथिवर्गः अभ्यागतसमूहो यत्र तं तादृशम् ।
पूज्यमानेति । पूज्यमानानि आभ्युदयिकादिश्राद्धेन षोडशोपचारादिना पञ्चोपचारादिना वा अर्च्य-मानानि पितरः पितृपितामहादयः दैवतानि देवताश्च यत्र तं तादृशम् । षोडशोपचाराणां पञ्चोपचाराणाञ्च साङ्ख्यिकप्रपादो नियमा द्रष्टव्याः ।
अर्च्यमानेति । अर्च्यमानाः पूज्यमानाः, हरिनारायणः, हरो महेश्वरः, पितामहः प्रजापतिश्च एते यस्मिन् स तं तादृशम् ।
उपदिश्येति । उपदिश्यमानः पाठ्यमानः श्राद्धकल्पः आश्वलायनादिनिर्मितः श्राद्धविधियंत्र तं तादृशम् ।
व्याख्यायेति । व्याख्यायमाना अर्थद्वारा प्रतिपाद्यमाना यज्ञविद्या दर्शपौर्णमासादियज्ञविधायकं शास्त्रं यस्मिन् स तं तादृशम् ।
हुए शंख के कंगन हों, कहीं हरिण अपनी सींगों से ऋषियों के लिए कई प्रकार के कन्दमूल उखाड़ रहे थे, कहीं जंगली हाथी अपनी सूड़ों में पानी लेकर आश्रम के वृक्षों को सींच रहे थे, कहीं ऋषियों के बच्चों द्वारा जंगली सूअरों की दाढ़ों के अन्दर लगे हुए कमलों के कन्द खींचे जा रहे थे, कहीं परचे हुए मोर अपने पंखों की हवा से मुनियों के हवन की आग को सुलगा रहे थे, कहीं चरु की मनोहर गन्ध चारों ओर फैल रही थी, कहीं आधे पके हुए पुरोडाश की पवित्र गन्ध से वह आश्रम सुगन्धित हो रहा था, कहीं हवनकुण्डों में लगातार अटूट धारा से घी की आहुति दी जा रही थी जिससे अग्नि में से 'हुं' 'हुं' का शब्द हो रहा था, कहीं
^१. ०००"पुण्यपरिमला, पुरोडाशपरिमला००० । ^२. ०ग्भङ्कार०००, ०ङ्कार००० । ^३. ०अभ्यर्च्यमान००० । ^४.रदिरदन्तान००० ।
२६ का० कथा०
| १२२ | कादम्बरी- | [ कथामुखे- |
|---|
यज्ञविद्यम्, आलोच्यमान¹-धर्म्मशास्त्रम्, पठ्य²म(न-विवध-पुस्तकम्, विचार्य्यमाण-सकल-शास्त्रार्थम्, आरभ्यमाण-पर्णशालम्, उपलिप्यमानाजिरम्, उपमृज्य³मानोटजाभ्यन्तरम्, आबध्यमानध्यानम्, साध्यमान-मन्त्रम्, अभ्यस्यमान-योगम्, उपह्रिय⁴माण-वनदेवतावलिम्, निर्वर्त्त्यमान-मौञ्जी⁵मेखलम्, प्रक्षाल्य⁶मान-वल्कलम्, उपसंगृह्यमाण-समिधम्, संस्क्रिय⁷माण-कृष्णाजिनम्, गृह्यमाण-गवेधुकम्, शोष्य⁸मान-पुष्करम्, प्रथ्यमानाक्षमालम्, गृह्यमाण-
आलोच्येति। आलोच्यमानानि हृदये विचार्यमाणानि धर्मशास्त्राणि मन्वादिप्रणीतसंहिता यस्मिन् स तं तादृशम्।
पठ्येति। पठ्यमानानि अधीीयमानानि विविधानि अनेकप्रकाराणि पुस्तकानि शास्त्राणि यत्र स तं तादृशम्।
विचार्येति। विचार्यमाणा युक्त्या स्थाप्यमानाः सकलशास्त्रार्थाः समस्तवेदादिविषया यस्मिन् स तं तादृशम्।
आरभ्येति। आरभ्यमाणाः विरचितुं प्रवर्त्यमानाः पर्णशालाः उटजा यस्मिन् स तं तादृशम्।
उपलिप्येति। उपलिप्यमानानि गोमयादिना संस्क्रियमाणानि अजिराणि प्राङ्गणानि यत्र स तं तादृशम्। 'अजिरं चत्वरोऽङ्गणम्' इत्यमरः।
उपमृज्येति। उपमृज्यमानानि शोधन्यादिनि परिस्क्रियमाणानि उटजानां पर्णशालानाम् अभ्यन्तराणि मध्यानि यस्मिन् स तं तादृशम्।
आबध्येति। आबध्यमानं विधीयमानं ध्यानम् एकप्रत्ययधारा यत्र स तं तादृशम्।
साध्येति साध्यमानः हवनादिना सिद्धिं लम्भ्यमानः मन्त्रो यस्मिन् स तं तादृशम्।
अभ्यस्येति। अभ्यस्यमानः मुहुर्मुहुः क्रियमाणः योगश्चित्तवृत्तिनिरोधो यस्मिन् स तं तादृशम्।
उपह्रियेति। अपह्रियमाणाः समर्प्यमाणाः वनदेवताभ्यः अरण्याधिष्ठात्रीभ्यो बलयः पूजावस्तूनि यस्मिन् स तं तादृशम्।
निर्वर्त्येति। निर्वर्त्यमाना निष्पाद्यमाना मौञ्जी मुञ्जनिर्मिता मेखला यस्मिन् स तं तादृशम्।
प्रक्षाल्येति। प्रक्षाल्यमानं जलेन निर्मलीक्रियमाणं वल्कलं त्वग् यस्मिन् स तं तादृशम्।
उपेति। उपसंगृह्यमाणा उपादीयमानः समिध एधांसि यस्मिन् स तं तादृशम्।
संस्क्रीति। संस्क्रियमाणं घर्षणादिना विशुद्धीक्रियमाणं कृष्णाजिनं कृष्णसारमृगचर्म यस्मिन् तं तादृशम्।
गृह्णेति। गृह्यमाणा आदीयमाना गवेधुकाः कन्दा धान्यविशेषा यत्र तं तादृशम्।
शोष्येति। शोष्यमाणानि घर्मेण शोषं प्राप्यमाणानि पुष्कराणां कमलानां बीजानि फलानि यस्मिन् तं तादृशम्। जपमालाधिरचनार्थैतदित्यवगन्तव्यम्।
ग्रथ्येति। ग्रथ्यमाना ग्रन्थि प्राप्यमाणा विरच्यमाना अक्षमाला रुद्राक्षमाला यत्र तं तादृशम्।
गृह्यमाणेति। गृह्यमाणं भाले धार्यमाणं त्रिपुण्ड्रकं भस्मना रेखात्रयं यस्मिन् तं तादृशम्।
अतिथियों की सेवा हो रही थी, कहीं पितरों की पूजा हो रही थी, कहीं विष्णु, शंकर और ब्रह्मा की, पूजा हो रही थी, कहीं श्राद्ध के नियमों का उपदेश दिया जा रहा था, कहीं यज्ञविद्या की व्याख्या हो रही थी, कहीं धर्मशास्त्रों की मीमांसा हो रही थी, कहीं तरह-तरह की पुस्तकें पढ़ी जा रही थीं, कहीं शास्त्रों के अर्थों पर विचार किया जा रहा था, कहीं झोपड़ियाँ बनायी जा रही थीं, कहीं आँगन लीपे जा रहे थे, कहीं झोपड़ियों के भीतर सफाई हो रही थी, कहीं इष्टदेवताओं का ध्यान किया जा रहा था, कहीं मन्त्र सिद्ध किये जा रहे थे, कहीं योग का अभ्यास किया जा रहा था, कहीं वनदेवताओं को बलि दी जा रही थी, कहीं मूँज की करधनियाँ बनायी जा रही थीं, कहीं छाल के वस्त्र धोये जा रहे थे, कहीं समिधायें इकट्ठी की जा रही थीं, कहीं काले हरिन के चमड़े सिद्धाये जा रहे थे, कहीं गवेधुक (एक प्रकार का धान जो पकने पर झड़ जाता है) इकट्ठे किये जा रहे थे, कहीं कमलों के पके हुए कमलगट्टे सुखाये जा रहे थे, कहीं रुद्राक्ष की मालायें गूँथी
१. अवलोक्यमान । २. वाच्यमा*** । ३. अपमृज्यमान*** । ४. उपहूयमान*** । ५. मुञ्ज*** । ६. क्षाल्यमान*** । ७. उपसंक्रियमाण*** । ८. निगृह्यमाण*** । ९. पोष्यमान*** ।
जाबालिवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । १२३
त्रिपुण्ड्रकंम्, न्यस्यमान-वेत्रदण्डम्, आपूर्य्य-कमण्डलुम्, अदृष्टपूर्वं कलिकालस्य, अपरिचितमनृतस्य, अश्रुतपूर्वमनङ्गस्य, अब्जयोनिमिव त्रिभुवन-वन्दितम्, असुरारिमिव प्रकटितवराहनरसिंहरूपम्, सांख्यमिव कपिलाधिष्ठितम्, मधुरोपवनमिव बलावलीढ-दर्पित-धेनुकम्, उदयनमिवानन्दितवत्स-कुलम्, किम्पुरुषाधिराज्यमिव मुनिजनगृहीतकलशा-
न्यस्येति । न्यस्यमानः दूरादेत्य पृथिव्यां स्थाप्यमानः वेत्रदण्डः वेतसलगुडो यस्मिन् तं तादृशम् ।
आपूर्येति । आपूर्यमाणः सलिलैः क्रियमाणः कमण्डलुः पूजनार्हं जलधारपात्रविशेषो यत्र तं तादृशम् एतेषु यत्र यथायोग्यं तत्र कर्तृपदं 'कैश्चित्' 'केनचित्' इत्यादिकं निवेशनीयम् ।
अदृष्टेति । कलिकालस्य कलियुगस्य नास्ति दृष्टम् अवलोकनं पूर्वं यस्मिन् तं तादृशम् । एवमपरयोरपि । कलिप्रवेशार्हमित्याशयः, अनेन सर्वथा अधर्माभाव इति प्रतीयते । अनृतस्य असत्यस्य अपरिचितम् अपरिचयः, सततं सत्याचारादित्याशयः । अनङ्गस्य कामदेवस्य, अश्रुतपूर्वम् अनाकर्णितपूर्वम्, कामजनितविकारानुपलम्भादित्याशयः ।
अब्जयोनिमिति । अब्जयोनिमिव प्रजापतिमिव, त्रिभुवनवन्दितं जगत्त्रयपूजितम्, असामान्यधर्मस्थानत्वात् सृष्टिकर्तृत्वाच्चेत्याशयः ।
असुरेति । असुराः राक्षसाः तेषाम् अरिः शत्रुः विष्णुः तमिव, 'रिपौ वैरिसपत्नारि' इत्यमरः, प्रकटितानि प्रकाशितानि वराहाः शूकरः, नरा मनुष्याः, सिंहा मृगेन्द्राः, रूपाणि मृगाश्च येन तं तादृशम्, 'रूपं मृगेऽपि विज्ञेयम्' इति हलायुधः, पक्षे—प्रकटिते व्यक्तीकृते वराहनरसिंहयोः 'शूकरावतार-नृसिंहावतारयो रूपे स्वरुते येन तं तादृशम् ।
सांख्यमिति । सांख्यं कपिलदर्शनम् तद्विव, कपिलया कनकाङ्ग्या गवा, कपिलेन सांख्यशास्त्रनिर्माता ऋषिविशेषेण च अधिष्ठितम् आश्रितम् ।
मधुरेति । मथुराया एतन्नामप्रसिद्धाया नगर्य्याः उपवनमिव द्वादशवनेषु गर्भितम् अरण्यमिव' बलावलीढाः शारीरिकशक्तियुक्ता अत एव दर्पिताः समुत्पन्नगर्वाः धेनवो नवप्रसवा गावो यत्र तं तादृशम् । अत्र 'शेषाद्विभाषा' इत्यनेन वैकल्पिककप्प्रत्ययः । पक्षे तु—बलावलीढः शक्तिमान् दर्पितो गर्वितश्च धेनुक एतन्नामा दैत्यो यस्मिन् तं तादृशम् ।
मथुरायां धेनुकासुरं श्रीकृष्णो निहतवानिति श्रीमद्भागवतीया कथा ।
उदेति । उदयनम् एतत्संज्ञकं पाण्डवकुलोत्पन्नं कौशाम्बीनृपतिमिव, आनन्दितं तृणसलिलदानादिना परितोषितं वत्सकुलं गोवत्सगणो यत्र तं तादृशम्, पक्षे—आनन्दितं सदाचरणादिना सन्तोषिनं वत्सकुलं वत्सप्रान्तीयजनमण्डलं तं तादृशम्, तस्य वत्सप्रान्तनृपत्वात् ।
पुरा किल वत्सदेशाधिपतिरुदयनः स्वाः स्वाः प्रजा नीतिमार्गेण संरक्षन् ताः सन्तोषयामासेति कथा सोमदेवभट्टविरचिते कथासरित्सागरे जिज्ञासुरभिरवलोकनीया ।
किम्पुरुषेति । किम्पुरुषाणां किन्नराणाम् अधिराज्यं प्रभृत्वमिव, मुनिजनैः ऋषिगणैः गृहीताः आत्ताः कलशाः सलिलपूर्णघटाः तैः अभिषिच्यमाना अभिषेकं प्राप्यमाना द्रुमा वृक्षा यत्र तं तादृशम्, पक्षे-मुनिजनगृहीतकशशैः ऋषिगणगृहीतघटैः अभिषिच्यमानः द्रुमो नामाधिपतिः यस्मिन् तत् तादृशम् ।
जा रही थीं, कहीं त्रिपुण्ड धारण किया जा रहा था, कहीं बेंत के डण्डे रखे जा रहे थे और कहीं कमण्डलुओं में जल भरा जा रहा था। उस आश्रम को कलियुग ने कभी देखा भी न था, झूठ ने कभी उधर झाँका भी न था और काम ने उसके विषय में कभी सुना भी न था। वह ब्रह्मा के समान तीनों लोकों द्वारा वन्दनीय था। वह भगवान् विष्णु के समान नृसिंह, वराह रूप प्रकट करने वाला था (भगवान् विष्णु ने नृसिंह और वराह का रूप धारण किया था, उस आश्रम में मनुष्य, सिंह, शूकर और मृग पाये जाते थे), वह सांख्य दर्शन के समान कपिलाधिष्ठित था (कपिल मुनि सांख्य दर्शन के प्रणेता थे, उस आश्रम में अनेक सीधी-सादी सफेद गायें थीं), मथुरा के उपवन के समान शक्तिशाली और अभिमानी धेनुक वाला था (मथुरा के उपवन में अत्यन्त बली और अभिमानी धेनुक नाम का राक्षस रहता था, उस आश्रम में तगड़ी और मरखानी नई ब्याई गायें
१. त्रिपुण्ड्रकूर्ध्वमान । २ विदण्टकम्, सरिक्यमानपरिम्राजकम् । ३. नरहरिवराहरूपम् । ४. मधुरोपवनमिव । ५. जलकल्शा ।