कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
| २१६ | कादम्बरी- | [ कथायाम्- |
|---|
अनवरत-गलन्नाडिका-कलित-काल$^१$कलैः बहिरागृहीतच्छा$^२$यैर्गणकैर्गृहीते लग्ने प्रशस्तायां वेला- यामिरम्मदामिव मेघमालां सकल-लोकहृदयानन्दकारिणं विलासवती सुतमसूत। तस्मिन् जाते सरभसमितस्ततः प्रधावितस्य परिजनस्य चरणशत-संक्षोभ-चलित-क्षितितलो भूपाला- भिमुख-प्रसृतं स्खलद्गति-विकलकञ्चुकिसहस्रो जन-सम्मदैनिष्पिष्यमाण-पतित-कुब्ज-वामन- किरातगणो विस्फार्यमाणान्तःपुर-जनाभरण-झङ्कारमनोहरः पूर्णपात्राहरण$^५$-विलुप्यमान-वस्त्र-
जलस्राविणीभिः नाडिकाभिः समयनिरूपकयन्त्रविशेषैः घटिकाभिरित्यर्थः, कलिता निश्चिता ज्ञाताः कालकला सूक्ष्मकालांशा यैस्तैः तादृशैः। नाडिका हि सार्द्धद्वादशपलपरिमितताम्ररचितः सार्द्धद्वादशपल- परिमितसलिलपूरणीयः पञ्चरक्तिन्कापरिमितसुवर्णरचितशलाकाया लब्धच्छिद्रसंयुत्को यन्त्रविशेषः। तया च शलाकया सलिलबिन्दुपातनात्तत्सलिले च छिद्रविनिपोपगते समयनिरूपणं पूर्वमक्रियत। विष्णुपुराणा- दावेतद्विस्तरप्रकारेऽन्वेषणीयः। तथा वहिः अङ्गादौ आगृहीता पूर्वपश्चिमादिदेशविशेषेण निरूपिता छायाः पादच्छाया अङ्गच्छाया वा यैस्तेस्तादृशैः, पादच्छायाग्रहणेन पूर्वं समयनिरूपणमक्रियत। निरूपितञ्च ज्यौतिषे-
'पदच्छायां द्विगुणीकृत्य चतुर्दशसमन्विताम्। पञ्चग्रहकराङ्गाप्तलव्धं दण्डादिकं भवेत्॥'
गणकैर्ज्योतिर्विद्भिः गृहीते निश्चिते लग्ने नेपादिके प्रशस्तायाम् उच्चस्थैर्ग्रहैर्जातकस्य सुतसौभाग्य- द्योतिकायां, वेलायां लग्नान्तर्वर्तिहोरायां विलासवती मेघमाला कादम्बिनी इग्मदमिव मेघोत्थ- वह्निमिव 'मेवज्योतिरिर्मदः' इत्यमरः। सकललोकहृदयानां समस्तलोकचित्तानाम् आनन्दकारिणं प्रमोदजनकं सुतं पुत्रम् असूत सुषुवे। 'षूङ्-प्राणिप्रसवे' इत्यस्य लङि रूपम्।
तस्मिन्निति। तस्मिन् राजपुत्रे जाते उत्पन्ने राजकुले राज्ञां समुदाये अतिमहान् दिष्टिवृद्धिसम्भ्रमः आनन्दवृद्धिजन्या जनानां त्वरा अभूदित्यनेन सम्बन्धः। इह प्रथमान्तानि पदानि 'सम्भ्रम' इत्यस्य विशेषणानि। सरभसं हर्षेण सवेगम् इतस्ततः समन्तात् प्रधावितस्य उच्चलितस्य परिजनस्य बाह्याभ्य- न्तरसेवकजनस्य चरणशतस्य पादसमूहस्य संक्षोभेण आघातेन चलितं कम्पितं क्षितितलं यत्र स तादृशः। भूपालाभिमुखं नृपसन्मुखं सत् प्रसृतं वार्त्तां कथयितुं प्रस्थितं स्खलद्गति भ्रष्टगमनं विकलं प्रमोदसद्माकुलञ्च कञ्चुकिसहस्रम् अन्तःपुरचरवृद्धब्राह्मणसमूहो यत्र सः तादृशः। कञ्चुिकलक्षणञ्च-
'अन्तःपुरचरो वृद्धो विप्रो गुणगणान्वितः। सर्वकार्यार्थकुशलः कञ्चुकीत्यभिधीयते॥' इति।
जनानां लोकानां सम्मर्द्देन सङ्घर्षेण निष्पिष्यमानः पीड्यमानः अत एव पतितः त्रस्तः, कुब्जाः पृष्ठगुडाः 'गठुः पृष्ठगुडे कुब्जे' इति मेदिनी, वामनाः खर्वाकृतयः 'वामनो नीचि खर्वे च' इति च मेदिनी, किराताः केवलं स्वल्पतनवः 'किरातः स्यादाल्परतनौ भूनिम्बे म्लेच्छभिद्ययोः' इत्यनेकार्थः, तेषाञ्च गणः समूहो यत्र सः तादृशः। विस्फार्यमाणो वृद्धिं प्राप्यमानो यः अन्तःपुरजनानाम् अवरोधस्त्रीणाम् आभ- रणझङ्कारो नूपुरनिनादः तेन मनोहोरो हृदयहारी। उत्सवे मित्रवर्गीयानि हठादाकृष्य नीयन्ते तानि पूर्णपात्राणीत्युच्यन्ते, तथाहि-
'वर्द्धापकं यदानन्दादलङ्कारादिकं पुनः। आहृष्य गृह्यते पूर्णपात्रं पूर्णानकञ्च तत्॥'
इति हारावली। तेषाम् आहरणेन ग्रहणेन विलुप्यमानानि हस्ताहस्तिकरणसम्भ्रमेण लब्धानि
बाद उन सभी वस्तुओंको ही परिपूर्ण कर देता था, जिससे रानी अत्यन्त आनन्दित होती थी। अनन्तर प्रसवकाल उपस्थित होने पर एक शुभदिनमें घड़ीयन्त्रसे निरन्तर जलबिन्दु टपक रहे थे, उसके द्वारा कोई-कोई ज्योतिषी सूक्ष्म समयका निरूपण कर रहे थे, और कोई-कोई ज्योतिषी बाहर ( अँगने आदि) में जाकर अपनी छायाको नापकर लग्नका निरूपण करते थे। इस रूपमें मेघमाला जिस प्रकार नेत्रज्योतिको उत्पन्न करती है, उसी प्रकार विलासवतींने प्रशस्त समयमें सब लोगोंके हृदयको आनन्द देनेवाले पुत्रको उत्पन्न किया?
उस राजपुत्रके उत्पन्न होने पर नगरमें धूम मचानेवाला, उत्सवकी बधाइयोंका बड़ा भारी कोलाहल राज- कुलमें मच गया। परिजनवर्ग आनन्दके साथ वेगसे इधर-उधर दौड़ने लगे, उनके चरणोंके आघातसे धरातल चलाय- मान हो गया। कञ्चुकिगण आनन्दसे व्यग्र होकर राजाके पास संवाद कहनेके लिए गिर-गिरकर दौड़ने लगे। मनुष्योंकी भीड़में कुचल कर कुबड़े, बौने (खर्वादेह, वामन) और ह्रस्वशरीरके मनुष्योंके झुण्ड पृथिवी पर
१. कलेः ...कले । २. जलधरमाला । ३. गतिकञ्चुकि, गतिमृत्स्य... । ४. पूर्णपात्रान्तान्तःपुर...। ५. पूर्ण- पात्रहरण... । ६. विलुप्यमान ।
चन्द्रापीडजन्मवर्ण०-१७ ] चन्द्रकला-विद्योतिनीसहिता । २१७
नभूषणः संक्षोभित-नगरो राजकुले दिग्विदिक्सम्भ्रमोऽतिमहानभूत्। अनन्तरञ्च मन्दरैम- थ्यमानजलनिधि-घोष-गम्भीर-दुन्दुभि-ध्वान-पुरःसरेण प्रहत-मृदु-मृदङ्ग-शङ्ख-काहलानक- निवह-निनाद-निर्भरेण मङ्गल-पटह पटुरवसंवर्द्धितेन अनेक-जनसहस्र-कलकल-बहुलेन त्रिभुवनमापूरयता उत्सवकोलाहलेन ससामन्ताः सान्तःपुराः सप्रकृतयः सराजलोकाः सबे- श्यायुवतयः सबालवृद्धा ननृतुरागोपालमुन्मत्ता इव हर्षनिर्भराः प्रजा प्रतिक्षणम् अवर्द्धत चन्द्रोदयेनेव जलनिधिः कलकलमुखरो राजसूनोर्जन्म-महोत्सवः।
पार्थिवस्तु तनयानन-दर्शन-महोत्सव-हृतहृदयोऽपि दिवसवशेन मौहूर्तिकगणोपदिष्टे प्रशस्ते मुहूर्त्तेनिवारित-निखिलपरिजनः शुकनासद्वितीयः मणिमय-मङ्गलकलस-युगं लाङ्गलेन
वसनानि वस्त्राणि भूषणानि अलङ्काराश्च यत्र न तादृशः, संक्षोभितं क्षोमंप्रापितं नगरं राजधानी येन स तादृशः।
अनन्तरमिति। मन्दरेण तदाख्यपर्वतेन मथ्यमानस्य विलोड्यमानस्य जलनिधेः क्षीरसमुद्रस्य घोषवत् शब्दवद् गम्भीरो दुन्दुभिध्वनिः भेरीनिनादः पुरःसरो यस्य तेन तादृशेन, प्रहता वादिता ये मृदवः कोमलशब्दविधायिनो मृदङ्गा मुरजाः, शङ्खाः कम्बवः, काहला वाद्यविशेषाः, आनकाः दुन्दुभयश्च तेषां निवहस्य समूहस्य निनादेन ध्वनिना निर्भरः पूर्णः अव्ययं वर्द्धित इत्यर्थः, तेन तादृशेन। मङ्गलपटहानां मङ्गलायं वादितढक्कानां (चर्मवाद्यानां) पटुरवैः विपुलशब्दैः संवर्द्धितो वृद्धिं प्रापितः तेन तादृशेन । अनेकेषां जनसहस्राणां लोकसमूहानां कलकलैः कोलाहलैः बहुलः अधिकीभूतस्तेन तादृशेन, त्रिभुवनं त्रिविष्टपम् आपूरयता पूर्णङ्कुर्वता उत्सवकोलाहलेन सहकलकलेन, सामन्तः स्वदेशपार्श्ववर्त्तिभिः नृपतिभिः सहेति ससामन्ताः, अन्तःपुरैः अवरोधस्थजनैः सहेति सान्तःपुराः, प्रकृतिभिः पौरलोकैः सहेति सप्रकृतयः, राजलोकैः नृपसम्बन्धिजनैः सहेति सराजलोकाः, वेश्यायुवतिभिः वाराङ्गनाभिः सहेति सबेश्यायुवतयः, बालैः वृद्धैश्च सहेति सबालवृद्धाः, प्रजाः हर्षनिर्भराः प्रमोदपूर्णाः उन्मत्ता इव क्षीबा इव, गोपालान् बल्लवान् मर्यादीकृत्येति आगोपालं यथा स्यात्तथेति क्रियाविशेषणम्, ननृतुः नृत्यञ्चक्रुः।
प्रतीति। चन्द्रोदयेन कुमुदबान्धवोद्गमेन जलनिधिः समुद्र इव कलकलैः कोलाहलैः मुखरः शब्दायमानः, राजसूनोः नृपात्मजस्य जन्ममहोत्सवः प्रतिक्षणं निरन्तरम् अवर्द्धत वृद्धिं प्राप।
पार्थिव इति। पार्थिवो राजा तारापीडः 'सूतिकागृहम् अपश्यत्' इति दूरस्थया क्रियया सम्बन्धः। तनयाननस्य आत्मजमुखस्य दर्शनम् अवलोकनमेव महोत्सवः तेन हृतहृदयोऽपि गृहीतचित्तोऽपि दिवसवशेन शुभकालानुरोधेन मौहूर्तिकगणो दैवज्ञसमूहस्तेन उपदिष्टे निवेदिते प्रशस्ते उत्कृष्टफलसूचके मुहूर्त्ते, निवारिताः सह गन्तुं निषिद्धाः निखिलाः समस्ताः परिजनाः सेवकजना येन सः तादृशः, शुकनासः प्रधानामात्य एव द्वितीयः सहचरो यस्य सः तादृशः।
मणिमयेति। इत आरभ्य तृतीयान्तानि पदानि अग्रिन 'द्वारदेशेन' इत्यस्य विशेषणानि बोध्यानि।
गिर पड़े, रनिवासकी स्त्रियोंके आभूषणोंकी मनोहर झनझनाहट सुनी जाने लगी, लोगोंके शरीरपर दूसरे लोगोंके बलपूर्वक (जबरदस्ती) वस्त्र तथा आभूषण छीन लिए गये, उससे अनेक वस्त्र और भूषण पृथिवीमें लोटने लगे। इस रूपसे राजधानी एक बार में ही उद्वेलित हो उठी। तदनन्तर तीनों भुवनोंको परिपूर्ण कर वह महोत्सवका कोलाहल होने लगा। मन्दराचलसे मथे गए समुद्रके घोषके समान गम्भीर दुन्दुभिके शब्द, सभी शब्दके आगे-आगे चलने लगे। कोमलशब्दकारी मृदङ्ग, शङ्ख, बड़े ढोल और छोटे नगाड़े आदिके शब्दसे वह कोलाहल वृद्धि पाने लगा। एवं विजय नगाड़ेके विशाल शब्दसे और हजारों मनुष्योंके कोलाहलसे उस उत्सवका कोलाहल अत्यधिक बढ़ गया, उस समय छोटे-छोटे राजा, लोग रनिवासकी सब स्त्रियाँ, नगरके रहनेवाले मनुष्य, राजपुरुषलोग, सब नौजवान वेश्याएँ, एवं बालक और वृद्धगणके साथ ग्वालबालसे लेकर समस्त प्रजावर्ग आनन्दसे परिपूर्ण होकर उन्मत्तके समान नृत्य करने लगे । राजकुमारका वह जन्म-महोत्सव, कोलाहलसे परिपूर्ण होकर चन्द्रोदयसे समुद्रके समान प्रतिदिन वृद्धि पाने लगा।
किन्तु राजा पहले ही पुत्रके मुखदर्शनरूप महोत्सवसे आकृष्टचित्त होनेपर भी उसने शुभसमयके अनुरोधसे ज्योतिषियोंके उपदेशके अनुसार प्रशस्त मुहूर्त्त में अन्यान्य परिजनोंको साथ आनेसे रोककर केवल शुकनासके
१. मन्दराख्यमन्थान०००। २. ०००ल्लादि०००। ३. ०००क्वचिद् 'निनाद' इति पदं नास्ति। ४. सान्तःपुरजनः। ५. आगोपम्। ६. प्रतिदिनम्। ७. जलधिः। ८. जन्मनो०००। ९. दर्शनोत्सव। १०. कनक मय। ११. क्वचिद् 'युगल' इति पदं नास्ति।
१४ का०
| २१८ | कादम्बरी- | [ कथायाम्- |
|---|
आसक्त-बहुपुत्रिकातन्त्रेतेन विविध-नव-पल्लव-निवह-निरन्तर-निचितेन सन्निहित-कनकमय-हल-मुसलयुगेन विरल-प्रथित-सित-कुसुम-मिश्र-दूर्वा-प्रवाल-मालाऽलङ्कृतेन आलम्बिवितावि-कलव्याघ्रचर्मणा वन्दन-माला-^[२]उन्तराल-घटित-घण्टागणेन द्वार^[६]देशेन विराजमानम्, उभ-यतश्च द्वारपक्षयोर्मर्यादानिपुणेन गोमयमयीभिरुत्तान-विनिहित-वराटक-प्रकर^[७]-दन्तुराभिः अन्तरान्तराबद्ध-विविधवर्ण-^[८]राग-रुचिर-कार्पास^[९]कुसुम-लेश-लाञ्छिताभिः कुसुम्भ-केसर-लवा-श्लेष-लोहिताभिर्लेखाभिरालिखित-स्वस्तिक-भक्तिजालमुपरचयता, हारिद्र^[१०]द्रव-विच्छुरण-
मणिमयेन रत्नमयेन मङ्गलकलसयुगलेन शुभसूचककुम्भद्वयेन सून्यः सर्वदा संयुक्तः तेन तादृशेन, आसक्ताभिः सम्मिलिताभिः परस्पराश्लिष्टाभिर्वा बहुपुत्रिकाभिःबहुपुत्रशालिनीभिः नारीभिः सङ्कृ-कृतःशोभितः तेन तादृशेन, विविधानाम् अनेकप्रकाराणां नवानां प्रत्यग्राणां पल्लवानां किसलयानां निवहेन समूहेन निरन्तरं सान्द्रं यथा स्यात्तथा निचतो व्याप्तः तेन तादृशेन, सन्निहितं वृद्धव्यवहाराद् समीपवर्त्तिनं कनकमययोः सुवर्णमययोः हलमुसलयोः सीराग्रयोः युगं यस्मिन् तेन तादृशेन, विरलम् सान्द्रं यथा स्यात्तथा ग्रथितैः अन्तरान्तरा सूत्रेण गुम्फितैः सितकुसुमैः श्वेतपुष्पैः मिश्राः संयुक्ताः ये दूर्वाप्रवालाः बहुप्ररोहपल्लवाः तेषां मालया स्रजा अलङ्कृतो भूषितः तेन तादृशेन, अमङ्गलविनाशार्थनि-र्दंगलङ्करणम् । 'वीणादण्डे प्रवालोंऽस्त्री विद्रुमे नवपल्लवे'इति त्रिकाण्डशेषः । आलम्बितं व्यवहारादेकपाश्वें द्वाराच्छादनार्थमवलम्बितम् अविकलं सम्पूर्ण व्याघ्रचर्म श्वेतपिङ्गलकृत्तिर्यत्र तेन तादृशेन । तथा वन्दन-मालायाः तोरणोपरि स्थापितायाः मङ्गल्यपुष्पमालायाः, अन्तराले मध्ये मध्ये घटितो गुम्फितो घण्टागणो यत्र तेन तादृशेन । 'तोरणार्थे तु मङ्गल्यं दाम वन्दनमालिका' इत्यभिधानचिन्तामणिः । एवंविधेन द्वार-देशेन विराजमानं सूतिकागृहमित्यस्य विशेषणम् ।
उभयत इति । चकारो हि क्रियेऽन्वेत्ये । मर्यादानिपुणेन वंशपरम्परानियमाभिज्ञेन, 'इत आरभ्य तृतीयैकवचनान्तानि पुँल्लिङ्गानि पदानि अग्रिमस्थ-'पुरन्ध्रिवर्गेणे'त्यस्य विशेषणानि बोध्यानि । द्वारपक्ष-योः उभयतः पार्श्वद्वययोः । अग्रेतनस्य 'स्वस्तिकभक्तिजालम्' इत्यस्याधिकरणमिदम् । गोमयमयीभिः गोमयेन विहिताभिः, उत्तानन् ऊर्ध्वमुखं यथा स्यात्तथा विनिहिताः स्थापिता ये वराटकाः कपर्दकाः तेषां प्रकरेण समुदायेन दन्तुराभिः निम्नोन्नताभिः, अन्तरान्तरा मध्ये मध्ये लाबद्वैः नियमितैः विविधवर्णैः नानाप्रकारनीलपीतादिभिः यो रागो रञ्जनं तेन रुचिराणि मनोज्ञानि यानि कार्पासकुसुमानि कार्पासपु-ष्पाणि तेषां लेशैः किञ्चित्किञ्चिद् खण्डैः लाञ्छिताभिः चिह्निताभिः । कुसुम्भानां महारजनपुष्पाणां ये केसरलवाः किञ्जल्ककणाः तेषाम् आश्लेषेण संसर्गेण लोहिताभिः रक्तवर्णाभिः, लेखाभिर्लिपिकैः, लाञ्छि-कितानां चित्रीकृतानां स्वस्तिकभक्तीनां त्रिकोणरचनाविशेषाणां जालं समुदायम् उपरचयता कुर्वता ।
हारिद्रेति । हरिद्राया रजन्या अयमिति हारिद्रो यो द्रवः रसः तेन यद्विच्छुरणं प्रोक्षणं तेन परि-
साथ जाकर सूतिका-गृहको देखा । उस सूतिका-गृहके द्वारके दोनों बगलोंमें मङ्गलके लिए दो मणिमय कलश रक्खे थे और बहुतसी पुतलियाँ खड़ी हुई थीं। मणिमय कलशके ऊपर सद्यःप्रसूते अनेक प्रकारके नए-नए पल्लव रक्खे हुए थे । अधिकपुत्रवाली सुन्दरियाँ उस स्थानमें आकर शोभा बढ़ा रही थीं । सुवर्णमय एक हल और मूसल समीपमें रक्खे हुए थे । दूबकी कोंपलोंके साथ दूर-दूर गुंथे हुए सफेद फूलोंकी मालाएँ उस द्वारको शोभायमान कर रही थीं । अखण्डित व्याघ्र-चर्म एक ओर लटक रहे थे ।और द्वारके ऊपर एक फूलकी माला लम्बा कर लटका दी गयी थी, जिसके बीच-बीचमें छोटी-छोटी घण्टियाँ बँधी रही थीं । इस प्रकारके द्वारसे वह सूतिका-गृह अधिक शोभा पा रहा था। कौलिक आचारको जाननेवाली पति-पुत्रवती सुन्दरियोंके मध्यमें कोई उस द्वारके दोनों बगलमें गोबरके बहुतसे चौक बनाकर उनके ऊपर कितने चित्तकौड़ियों चिपका रही थीं, उससे वे चौक ऊँच-नीच हो गए थे । नानाविध गेहूँ आदिके सुन्दर रङ्ग द्वारा रञ्जित कर मनोहर कार्पासकुसुमके कनों द्वारा उन चौकोंको और चित्रित करती थीं, कुसुम्भ-फूलोंकी केसररेणुके संयोगसे उनको लाल-लाल करती थीं । उसी गोबरके चौकसे ही और चित्रित स्वस्तिक (त्रिको-
१. '···पुत्रिकाप्रतानेन । २. '···वन । ३. युगलेन । ४. आलम्बिताविरल, आलम्बिताविकट !
५. नाला, नालिका । ६. द्वारेण । ७. '···क्वचित् 'प्रकर' इति पदं नास्ति । ८. वर्णं । ९. कुभांस, कर्पास... !
१०. हारिद्रद्राव···. हरिद्रद्रव··· ।
तृतीयोच्छ्वासः-१८ ] चन्द्रकला-विद्योतिनीसहिता । २१६
पिञ्जराम्बर-धारिणीं भगवतीं षष्ठीदेवीं कुर्वता, विकच-पक्षपुट-विकट-शिखण्डि-पृष्ठमं- ण्डला-धिरूढम् आलोल-लोहित-पटघटित-पताकम् उल्लसित-शक्तिदण्ड-प्रचण्डं कार्त्तिकेयं सङ्घटयता विन्यस्तालक्तक-पटल-पाटल-मध्यभागौ सूर्याचन्द्रमसावावभ्रता, कुङ्कुम-पङ्क-पिञ्ज रीकृताम् ऊर्ध्वप्रोत-कनकमय-यव-निकर-कण्टकिताम् अविरल-लग्न-गौर-सिद्धार्थकपकरतया काञ्चनरसखचितामिव मृन्मय-गुटिका-कदम्बमालां विन्यस्यता, चन्दनजलधवलितेषु भित्ति- शिखरभागेषु पञ्चराग-विचित्र-चेल-चीर-कलापचिह्निताम् आपीतपिष्टातक-पङ्काङ्कितां वर्द्धमा- नक-परम्पराम् अन्यानि च सूतिकागृह-मण्डनमङ्गलानि सम्पादयता पुरन्ध्रिवर्गेण समधिति-
पिञ्जरं समन्तात् पिङ्गलवर्णम् अम्बरं वसनं धारयति परिदधाति या सा तादृशी ताम् । षष्ठीदेवीं तन्मूर्ति कुर्वता तण्डुलपिष्टैः रच्यता ।
विकचेति । विकचं प्रस्फुटं विस्तृतं यत् पक्षपुटं पक्षयुगलं तेन विकटं विपुलं यत् शिखण्डिनो मयूरस्य पृष्ठमण्डलं तत्र अधिरूढम् उपविष्टम् । आलोला चपला लोहितपटघटिता रक्तवर्गवस्त्ररचिता पताका वैजयन्ती यस्य तं तादृशम् । तथा उल्लसितेन उत्तोल्याप्तेन शक्तिदण्डेन शक्तिसंज्ञकायुधेन प्रच- ण्डो भीषणः तं तादृशम् , कार्त्तिकेयं कार्त्तिकेयमूर्ति सङ्घटयता पिष्टतण्डुलेनैव विदधता । एतत्प्रतिमा- युगलं हि जातकरक्षार्थं बोध्यम् ।
विन्यस्तेति । विन्यस्तेन दत्तेन अलक्तकपटेन लाक्षारवसमूहेन पाटलौ श्वेतरक्तौ मध्यभागौ कटिप्रदेशौ ययोस्तौ तादृशौ सूर्याचन्द्रमसौ पुष्पवन्तौ तयोः मूर्तियुगलम् आवम्रता पिष्टतण्डुलद्वारा निर्मिमाणेण सूर्याचन्द्रमसावित्यत्र देवताद्वन्द्वत्वात् पूर्वपदस्य दीर्घत्वं बोध्यम् ।
कुङ्कुमेति । कुङ्कुमपङ्केन गाढकाश्मीरजन्मद्रवेण पिञ्जरीकृतां पिङ्गलवर्णीकृताम् । ऊर्ध्वं उपरिप्रदेशे प्रोताः स्यूताः निखाता ये कनकमयाः सुवर्णरचिता यवा धान्यानि तेषां निकरेण समुदायेन कण्टकिता समुत्पन्न- कण्टका तां निम्नोन्नतीकृतामित्यर्थः । अविरलं सान्द्रं यथा स्यात्तथा लग्नः सम्बद्धः गौरसिद्धार्थकानां श्वेतसर्षपाणां प्रकरः समुदायो यत्र तस्य भावः तया कारणेन, काञ्चनरसेन तरलीकृतकनकेन खचितां लिप्तामिव विद्यमानाम् । मृन्मयगुटिकामृत्तिकारचितगुलिका एव कदम्बानि कदम्बपुष्पाणि तेषां मालां पंक्ति विन्यस्यता पृथिव्यां स्थापयता ।
इह 'काञ्चनरसखचितामिव' इत्यत्र क्रियोत्प्रेक्षा, 'मृन्मयगुटिकाकदम्बमालाम्' इत्यत्र च निरङ्गके- वलरूपकम् ।
चन्दनेति । चन्दनजलेन मलयजद्रवेण धवलितेषु श्वेतीकृतेषु, भित्तीनां शिखरभागेषु ऊर्ध्वदेशेषु, पञ्चभिः पञ्चप्रकारैः रज्यते पुभिः इति रागा वर्णाः तैः विचित्राणां नानारूपाणां चेलचीराणां वस्त्रखण्डानां कलापेन समुदायेन चिह्नितान् अङ्कितां तेनाच्छादितामित्यर्थः, तथा आपीतानाम् , ईषत्पीतवर्णानां पिष्टा- तकानां पटवासकानां 'पिष्टातः पटवासकः' इत्यमरः, पङ्केन गाढरसेन अङ्कितां चिह्नितां लिखितामित्यर्थः, वर्द्धमानकपरम्परां शरावपङ्क्तिम् 'शरावो वर्द्धमानकः' इत्यमरः । सूतिकागृहस्य अरिष्टभवनस्य मण्डन-
आकार द्रव्य) निर्माण करती थीं। कोई, भगवती षष्ठी देवीकी प्रतिमा निर्माण कर उसे हल्दीके रससे रंगे पीले कपड़े पहनाती थीं । कोई, फैले हुए पंखसे चौड़ी मोरकी पीठ पर चढ़े हुए, चञ्चल रक्तवर्ण पताका-समन्वित एवं शक्ति अस्त्रको उठाकर रखनेसे भयंकर स्वरूपवाले कार्त्तिकेयकी प्रतिमाका निर्माण करती थीं। कोई बीचका हिस्सा अलक्तक-रससे (लाखेसे) लाल करके चन्द्र और सूर्यकी प्रतिमाका निर्माण करती थीं। कोई-कोई, बहुत मृत्तिकाके गोलियों को सजाकर रखती थीं, वे गोलियाँ कुङ्कुमके जलसे पीली की हुई थीं, उनमें अधिकतर सोनेका जौ गाड़ देनेसे कण्टकीय हो गये थे, एवं समीप समीप सफेद सरसों चिपका देनेसे सुवर्ण खचित-सी प्रतीत हो रही थीं । अन्य कोई चन्दनके जलसे धोई गई दीवारोंके ऊपर भागमें, पञ्चविध रंगसे चित्र काढ़कर, छिनने कपड़ोंके टुकड़े से वेष्टित (लपेट) कर पीतवर्ण अबीरके लेपसे रञ्जित कर कितने शराव (कटोरा) कतारसे सजाकर रक्खे हुए थे । कोई कोई अन्यान्य सीमान्तनादिरूप मङ्गलकार्य करती थीं। ऐसे ही-लौकिक आचारको जाननेवाली पति-
१. 'पिञ्जरिताम्बर' । २. शिखण्डिमण्डले०..., शिखण्डिपृष्ठमण्डलं ०० । ३. संघट्टयता । ४. प्रकारतया । ५. ०० पिष्ट, पिष्टक०००। ६. वर्द्धमान ०००। ७. प्रसवगृह ।
| २२० | कादम्बरी- | [-कथामुखम् |
|---|
तम्, उपद्वार-संयत-विविध-गन्ध-कुसुममालाऽलङ्कृतजरच्छागम्, अखिल-व्रीहि-मध्यावस्थो-र्पितार्यवृद्धाध्यासित-शयनीय-शिरोभागम्, अनवरतदह्यमानाज्यमिश्र-भुजगनिर्मोकमेष-विषाणक्षोदम्, अनल-प्लुष्यमाणारिष्टतरु-पल्लवोल्लसित-रक्षाधूमगन्धम्, अध्ययन-मुखर-द्विजगण-विप्रकीर्यमाण-शान्त्युदकप्लवम्, अभिनव-लिखित-मातृ-पट-पूजा-व्यग्र-धात्रीजनम्, अनेक-वृद्धाङ्गनाऽऽरब्धसूतिकामण्डलगीतिका-मनोहरम्, उपपाद्यमान-स्वस्त्ययनम्, क्रियमाणशिशु-रक्षा-वलि-विधानम्, आवध्यमान-धवल-कुसुम-दामशतम्, अविच्छिन्नपठ्यमान-नारायण-
मङ्गलानि शोभाकारिशुशकार्याणि सम्पादयता कुर्वता पुरन्ध्रिवर्गेण सर्वपुत्रवतीनां स्त्रीणां मण्डलेन समधिष्ठितम् आश्रितम् ।
उपद्वारेति । उपद्वारे द्वारसमीपे संयतो बद्धः, विविधानाम् अनेकविधानां गन्धकुसुमानां सौरभयुक्तपुष्पाणां माल्या स्रजा अलङ्कृतो भूषितो जरच्छागो वृद्धोऽजो यस्य तत्तादृशम् ।
अखिलेति । अखिलानां समस्तविधानां व्रीहीणां सामान्यधान्यानाम् आशुधान्यानां वा मध्ये अवस्थायिता उपवेशिता या आर्यवृद्धा सर्वश्रेष्ठोद्भा जरती नारी तया अध्यासितः तत्सामयिका चारोपदेशार्थमवलम्बितः शयनीयस्य पट्टराज्ञीशय्यायाः शिरोभागः मस्तकप्रदेशो यत्र तत्तादृशम् । 'व्रीहिः सामान्यधान्ये स्यादाशुधान्ये च पुंस्ययम्' इति विश्वः ।
अनवरतेति । अनवरतं निरन्तरं दह्यमानाऽऽप्लुष्यमाणा आज्यमिश्राः घृतसहिताः, भुजगनिर्मोकाणां सर्पकञ्चुकानां मेषविषाणानाम् उरणशृङ्गाणाञ्च क्षोदाः चूर्णानि यत्र तत्तादृशम् ।
अनलेति । अनलेन अग्निना प्लुष्यमाणा दह्यमाना ये अरिष्टतरुपल्लवाः निम्बवृक्षपल्लवाः तेभ्यः उल्लसिता उत्थिता रक्षार्था जातत्राणफलकाः धूमा वह्निकेतना गन्धाः सौरभाश्च यत्र तत्तादृशम् । तत्समयप्रसिद्धस्तद्देशीयव्यवहारोऽयमित्यवधार्यते ।
अध्ययनेति । अध्ययनेन स्वाध्यायपाठेन मुखरो वाचालो यो द्विजगणो विप्रवर्गस्तेन विप्रकीर्यमाणाः सुतजनन्योपरि निक्षिप्यमाणाः शान्त्युदकप्लवाः शान्त्यर्थसलिलपृषतो यत्र तत्तादृशम् ।
अभिनवेति । अभिनवं प्रत्यग्रं लिखितश्चित्रितो यो मातृपटः बालरक्षाकारिणीनां गौर्यादिदेवीनां वस्त्रं तस्य पूजायां तत्काले गौर्यादिचित्रितपटेऽर्चनायामित्यर्थः । व्यग्रा व्यावृता धात्रीजना उपमातरो यत्र तत्तादृशम् ।
अनेकेति । अनेकाभिः वह्वीभिः वृद्धाङ्गनाभिः जरन्नारीभिः आरब्धा या सूतिकामङ्गलगीतिका प्रसूत्याः शुभजनकानं तया मनोहरं सुन्दरम् ।
उपेति । उपपाद्यमानानि क्रियमाणानि स्वस्त्ययनानि अरिष्टनिवृत्यर्थं देवतापूजादीनि यत्र तत्तादृशम् ।
क्रियेति । क्रियमाणं विधीयमानं शिशोर्बालस्य रक्षायै रक्षार्थं वलीनां देवतोपहाराणां विधानं सम्पादनं यत्र तत्तादृशम् ।
आवध्येति । आवध्यमानम् आलम्ब्यमानं धवलकुसुमानां श्वेतपुष्पाणां दामशतं स्रक्समूहो यत्र तत्तादृशम् ।
अवीति । अविच्छिन्नं सन्ततं पठ्यमानं शिशुत्राणार्थमुच्चार्यमाणं नारायणस्य श्रीविष्णोः नाम्नां सहस्रं यत्र तत्तादृशम् ।
पुत्रवती स्त्रियाँ उस सूतिकागृहमध्यमें रहती थीं। भाँति-भाँतिके सुगन्धित फूलोंके हारसे अलंकृत कर द्वारके पास एक बूढ़े बकरेको बाँध रक्खा था। पलंगके सिरहानेके पास नानाविध अन्नके ऊपर सबलोगोंपर एक वृद्ध स्त्री बैठी हुई थी। सर्पकञ्चुकों और मेषशृङ्गका चूर्ण, घृतके साथ निरन्तर (दिन-रात) जला करता था। बालककी रक्षाके लिए अग्निमें जलते हुए नीमके पत्तोंसे धूमकी गन्ध फैलती थी। ब्राह्मणगण मन्त्र पाठ करके-करके शान्तिके लिए जल छिड़कते थे। धाईगण कपड़ों पर तत्काल चित्रित देवियोंके पूजाके आयोजनमें व्यस्त थीं। अनेक वृद्ध स्त्रियाँ प्रसूतिके मङ्गलके लिए गान आरम्भ कर सुन्दर दीख रही थीं। कोई स्वस्त्ययन कर रहा था। कोई बालककी रक्षाके लिए देवताओं को उपहार दे रहा था। कोई सफेद फूलोंकी मालाएँ बाँध रहा था।
१. अवस्थिताय्यै..., आयुर्वेद...। २. शदन...। ३. ...निम्बतरु ।
बालकवर्ण०-१९ ] चन्द्रकला-विद्योतिनीसहिता । २२१
नामसहस्रम्, अमल-हाटक-यष्टि-प्रतिष्ठापितैरन्तःशुभशतानीव निश्चलशिखैर्ध्यायद्भिर्मङ्गल-प्रदीपैरुद्भासितम्, उत्खातासि-लता-सनाथपाणिभिः सर्वतो रक्षापुरुषैः परिवृतम्, सूतिका-गृहसपश्यत् । अम्भः पावकञ्च स्पृष्ट्वा विवेश ।
प्रविश्य च प्रसवपरिक्षाम-पाण्डुर-मूर्तेरुत्सङ्गगतं विलासवत्याः, स्वप्रभासमुदयोपहत-गर्भगृहप्रदीप-प्रभम्, अपरित्यक्तगर्भरागतवादुदयपरिपाटलमण्डलमिव सवितारम्, अपरैस्संध्या-लोहितबिम्बमिव चन्द्रमसम्, अनुपजातकाठिन्यमिव कल्पतरुपल्लवम्, उत्फुल्लललिव रक्तारविन्द-
अमलेति । अमलानि परिष्कृतानि यानि हाटकयष्टीनि सुवर्णदण्डाः तेषु प्रतिष्ठायितैः सम्यक्तया स्थापितैः निश्चलशिखैः वायोरभावाद् निष्कम्पार्चिर्भिः अत एव अन्तर्मनस्तु शुभशतानि प्रसूतिजातकयो-र्विविधमङ्गलानि ध्यायद्भिborder=...? ध्यायद्भिश्चिन्तयद्भिरिव विद्यमानैः, मङ्गलप्रदीपैः शुभप्रदीपैः उद्भासितं द्योतितम् ।
इह 'ध्यायद्भिरिव' इति क्रियोत्प्रेक्षा ।
उत्खातेति । उत्खाता उन्मुच्य निस्सारिता या असिलता वल्लीवल्लम्बमानाः खङ्गाः, ताभिः सनाथाः सहिताः पाणयो हस्ता येषां तैः तादृशैः, रक्षापुरुषैः रक्षार्थं नियुक्तजनैः सर्वतः चतुर्दिक्षु परिवृतं परिवेष्टितं सूतिकागृहम् अरिष्टगृहम् अपश्यत् आदर्शत् ।
अम्भ इति । अम्भः सलिलं पावकम् अग्निञ्च स्पृष्ट्वा तत्स्पर्शं विधाय विवेश प्रधानामात्यशुकना-सेन सह तद्गृहे प्रविष्टवानित्यर्थः । प्रसूतिजातकयोरागाम्यरिक्षशङ्कानिवारणार्थमम्भःपावकस्पर्शन-मिति विज्ञः ।
प्रविश्येति । प्रविश्य प्रवेशं कृत्वा च पार्थिवः 'आत्मजं ददर्श' इत्यनेन सम्बन्धः । इह द्वितीयेक-वचनान्तानि पुंल्लिङ्गपदानि 'आत्मजम्' इत्यस्य विशेषणानि । प्रसवेन सुतोत्पादनेन परिक्षाम अत्यन्त-तन्वी पाण्डुरा च मूर्तिः शरीरं यस्याः तस्या विलासवत्याः उत्सङ्गे क्रोडे गतं स्थितम्, स्वप्रभासमुदयेन स्वकीयदीप्तिजालेन उपहताः दूरे ध्वस्ता गर्भगृहस्य सूतिकाभारस्य प्रदीपानां गृहमणीनां प्रभा कान्ति-र्येन स तं तादृशम् ।
इह प्रदीपकान्तीनामुपहननसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिः ।
अपरित्यक्तेति । अपरित्यक्तः अमुक्तो गर्भरंगः गर्भावस्थानकालीनः रक्तिमा येन स तस्य भावः तस्मात्कारणात् । विरचितावयवमित्युन्तमेवेदं कारणमिति सिद्धान्तवागीशाः । उदये उद्गमकाले परिपाटलं समन्तात् श्वेतरक्तवर्णं मण्डलं विम्बं यस्य तं तादृशं सवितारं सूर्यमिव, अपरसन्ध्या पश्चिमसायं समय-स्तया आलोहितम् ईषद्वक्तं विम्बं यस्य तं तादृशं चन्द्रमसं निशानाथमिव, अनुपजातम् अनुत्पन्नं काठिन्यं जरठता यत्र तादृशं कल्पतरुपल्लवमिव मन्दारकिसलयमिव । इह विशेषलौहित्यव्यञ्जनाय कल्पतरुपदमित्यवधेयम् । उत्फुल्लं प्रस्फुटितं रक्तारविन्दराशिवमिव कोकनदनिवाहमिव, अवनिदर्शनाय पृथिव्या अवलोकनाय अवतीर्णं स्वर्गादवरूढं लोहिताङ्गं रक्तदेहं मङ्गलग्रहमिव ।
इहैकस्योपमेयस्यानेकोपमानप्रदर्शनान्मालोपमालङ्कारः, किन्तु 'लोहिताङ्गमिव' इत्यत्र तु द्रव्यो-त्प्रेक्षेति विभावनीयम् ।
कोई विष्णुसहस्रनामका पाठ निरन्तर कर रहा था । निर्मल सुवर्णमय दण्डके ऊपर रक्खे हुए निश्चल बहुत्तर मङ्गलप्रदीप, मानो हृदयमें प्रसूति और बालकके सैकड़ों कल्याणोंका ध्यान करते-करते उस सूतिकागृहको प्रकाशित करते थे । एवं रक्षार्थ नियुक्त पुरुषगण नंगी तलवार हाथमें लेकर उस नूतिका-गृह के चारों ओर घेर कर घूम रहे थे । बाद राजा ने शुकनासके साथ जल और अग्नि छूकर उस सूतिका-गृहके अन्दर प्रवेश किया ।
शुकनासके साथ प्रवेश कर राजाने असीम आनन्दजनक उस पुत्रको देखा । प्रसव करनेसे अत्यन्त दुबली और फोकी शरीरवाली विलासवतीकी गोदमें रह कर उसने अपने कान्तिसमूहसे सूतिका-गृहस्थित प्रदीपसमूहकी प्रभाको मन्द कर दिया था। उस समय भी गर्भकी रक्तिमा कम न होनेसे उदयकालीन रक्तमण्डलवाले सूर्यके समान, सन्ध्याकालीन रक्तबिम्ब-युक्त चन्द्रमाके समान, कठिनता उत्पन्न होनेके पहले कल्पवृक्षपल्लवके समान, खिले हुए लाल कमलोंके समूहके समान, एवं पृथिवीको देखनेके लिए स्वर्गसे उतरे मङ्गलग्रहके समान वह
१. उद्भासि००० । २. अददर्श । ३. ०००पाण्डु००० । ४. ०००प्रदीपक००० । ५. ०००क्वचिद् 'अपर' इति पदं नास्ति ।
| २२२ | कादम्बरी- | [ कथायाम्- |
|---|
राशिम्, अवनिदर्शनावतीर्णमिव लोहिताङ्गम्, विद्रुमकिसलयदलैरिव बालातपच्छेदैरिव पद्मरागरश्मिभिरिव विरचितावयवम्, अनभिव्यक्तमुखपञ्चकमिव महासेनम्, सुरवनिताकरतल-परिभ्रष्टमिवामरपतिकुमारम्, उत्तप्त-कल्याणकार्त्तस्वरभास्वरया स्वदेहप्रभया पूरयन्तमिव वासभवनम्, उद्भासमानैः सहजभूषणैरिव महापुरुषलक्षणैरुपेतम्, आगामि-कालपालन-प्रहृष्टयेव श्रिया समालिङ्गितम्, आह्लादहेतुमात्मजं ददर्श। विगत-निमेष-निश्चल-पक्ष्मणा च मुहुर्मुहुः प्रमृष्ट-सङ्घटितानन्द-बाष्प-पटलं-प्लुततारकेण दूरं-विस्फारितेन स्निग्धेन चक्षुषा पिच-
विद्रुमेति। विद्रुमाणां हेमकन्दलानां प्रवालानां वा यानि किसलयदलानि विसारिकिरणाः तैः विरचितावयवमिव सृष्टिकर्त्रा निर्मिताङ्गमिव, बालातपस्य नूतनातपस्य छेदैः खण्डैः विरचितावयवमिव पद्मरागरश्मिभिः लोहितमणिकिरणैः विरचितावयवमिव।
इह त्रिष्वपि क्रियोत्प्रेक्षा, तासाञ्च परस्परनैरपेक्ष्येण संसृष्टिः।
अनभीति। अनभिव्यक्तम् अप्रकटितं मुखपञ्चकं यस्य तं तादृशं षण्णां मुखानां मध्ये प्रकटितकेवलैकमुखमित्यर्थः। महासेनं कार्त्तिकेयमिव विद्यमानम् अत्यन्तरमणीयत्वादित्याशयः।
सुरेति। सुरवनिताया रम्भाख्याया देवाङ्गनायाः करतलाद् हस्ततलाद् परिभ्रष्टम् अनवधानतया प्रच्युतम् अमरपतिकुमारं देवाधिपतिवालात्मजं जयन्तमिव तथाविधद्युतिशालित्वादित्याशयः। इह 'जयन्तमिव' इत्यत्र द्रव्योत्प्रेक्षा।
उत्तप्तेति। उत्तप्तम् अग्निना सन्तप्तं यत् कल्याणकार्त्तस्वरम् अत्युत्तमजातीयं स्वर्णं तद्वत् भास्वरया देदीप्यमानया स्वदेहप्रभया स्वशरीरकान्त्या वासभवनं निवासनिकेतनं पूरयन्तमिव परिपूर्णीकुर्वन्तमिव।
इह 'उत्तप्ते'त्यादौ लुप्तोपमा, 'पूरयन्तमिव' इत्यत्र च क्रियोत्प्रेक्षेत्यनयोरङ्गाङ्गिभावेन सङ्करालङ्कारः।
उद्भासेति। सहजभूषणैरिव प्राकृतालङ्कारैरिव, उद्भासमानैः स्फुटं प्रकाशमानैः महापुरुषाणां चक्रवर्त्यादीनां लक्षणैः शङ्खध्वजादिचिह्नः उपेतं सहितम्। 'सहजभूषणैरिव' इत्यत्र जात्युत्प्रेक्षा।
आगामीति। आगामिनि काले भविष्यत्समये तारुण्यादौ यत् पालनं स्वस्य रक्षणं तेन प्रहृष्टया सन्तुष्टया श्रिया लक्ष्म्या समालिङ्गितमिव उपगूहितमिव अत्यन्तरमणीयत्वादित्याशयः। आह्लादहेतुं प्रमोदकारण्म् आत्मजं पुत्रं ददर्श अवलोकयामास।
इह 'समालिङ्गितमिव' इत्यत्र क्रियोत्प्रेक्षा।
विगतेति। विगतेन निमेषेण लवद्वयेन हेतुना 'निमेषस्तु लवद्वयम्' इति शास्त्ररीतिः। निश्चलानि स्थिराणि निष्क्रियाणीत्यर्थः पक्ष्माणि लोमानि यस्य तेन तादृशेन, मुहुर्मुहुः वारम्वारं प्रमृष्टकरणेन प्रोञ्छितमपि पुनः सङ्घटितं प्रादुर्भूतं यत् आनन्दवाष्पपटलं प्रमोदाश्रुसमूहः तेन प्लुता क्लिन्ना तारका कनीनिका यस्य तेन तादृशेन, दूरविस्फारितेन अत्यन्तविस्तारितेन, स्निग्धेन प्रेमप्रकाशकेन चक्षुषा नयनेन, पिबन्निव चुम्बन्निव, इह पानं चुम्बनमेव; आलपन्निव मनोभावं प्रकाशयन्निव, स्पृशन्निव संसज्जनमिव
मालूम होता था। प्रवालमणि (मूँगा) के विस्तृत किरणोंसे किंवा नवीन सूर्यालोकसे अथवा पद्मरागमणिकी किरणोंसे, विधाताने मानो उसके सभी अवयवोंका निर्माण किया था। पाँच मुख प्रकाश होनेके पहले एकमुख कार्त्तिकेयके समान एवं देवस्त्रीके हाथमेंसे गिरे हुए देवराजके शिशुपुत्र (जयन्त) के समान प्रतीत होता था। तपाए हुए स्वच्छ सुवर्णके समान देदीप्यमान स्वकीय शरीर-कान्तिसे वह उस सूतिका-गृहको मानों परिपूर्ण करता था। चमकते हुए स्वाभाविक आभूषणके समान महापुरुषके सभी लक्षण उसमें दिखाई पड़ते थे। 'भविष्यमें यह मेरा प्रतिपालन करेगा' यह मनमें जानकर सन्तुष्ट होकर ही मानो लक्ष्मीने उसका आलिङ्गन किया था। उस समय राजाके नेत्रोंमें निमेष नहीं थे, पलक निश्चल हो गए थे और बार-बार पोछनेपर भी, आनन्दाश्रु, फिर उत्पन्न होकर पुतलियोंको डुवा रहे थे—ऐसे अत्यन्त उत्फुल्ल और स्नेहव्यञ्जक नेत्रोंसे राजा मानो बालकको
१. रचितावयवन्। २. कर...। ३. भ्रष्ट। ४. कुमारकम्। ५. भास्वरतया। ६. आगामि। ७. प्रहृष्टया श्रिया। ८. क्वचित् 'च' इति पदं नास्ति। ९. ...सङ्घट्टितानन्द...। १०. बाष्पबिन्दु...। ११. दूरं।
बालकवर्णना-१९ ] चन्द्रकला-विद्योतिनीसहिता । २२३
न्निव आलपन्निव स्पृशन्निव मनोरथसहस्र प्राप्त-दर्शनं सस्पृहमीक्षमाणः तनयाननं मुमुदे, कृतकृत्यञ्चात्मानं मेने ।
समृद्धमनोरथः शुकनासस्तु शनैः शनैरङ्गप्रत्यङ्गान्यस्य निरूपयन् प्रीतिविस्फारितलोचनः भूमिपालमवादीत्—देव ! पश्य पश्य, अस्य कुमारस्य गर्भसम्पीडनवशादपरस्फुटावयवशोभस्यापि माहात्म्यमाविर्भावयन्ति चक्रवर्तिचिह्नानि । तथाहि, अस्य सन्ध्यांशु-रक्तबालशशिकलाकारे ललाटपट्टे नव-नलिन-नाल-भङ्ग-तन्तु-तन्वीयसूर्णा परिस्फुरति । एतद्विकच-पुण्डरीक-धवलं कर्णान्तायतं मुहुर्मुहुरुन्मिषितैर्धवलयतीव वासभवनमरालपक्ष्म लोचन-
सन्, मनोरथानां वाञ्छितानां सहस्रेण समूहेन प्राप्तं लब्धं दर्शनम् अवलोकनं यस्य तत्तादृशम्, तनयाननं आत्मजमुखं सस्पृहं स्पृहासाहितम् ईक्षमाणः अवलोकमानः मुमुदे सन्तोषमवाप, आत्मानं च कृतकृत्यं कृतार्थं मेने मनसि कृतवान्, बह्वोः कालान्मनोरथपूरणादित्याशयः ।
इह 'पिबन्निव' आलपन्निव, स्पृशन्निव, इति त्रयाणामपि क्रियोत्प्रेक्षालङ्काराणां परस्परं नैरपेक्ष्येण वर्तमानत्वात्संसृष्टिः ।
समृद्धेति । समृद्धः सम्पूर्णः मनोरथोऽभिलाषो यस्य स तादृशः, प्रीत्या स्नेहेन विस्फारिते विस्तारिते लोचने नयने यस्य स तादृशः । शुकनासः प्रधानामात्यस्तु शनैः शनैः मन्दं मन्दम् अस्य कुमारस्य अङ्गानि करचरणादीनि प्रत्यङ्गानि अङ्गुल्यादीनि च तानि तादृशानि, भूमिपालं नृपतिम् अवादीत् अवोचत्—'देव-स्वामिन् !, पश्य पश्य विलोकय विलोकय अस्य पुरोऽवलोकमानस्य कुमारस्य बालकस्य गर्भेण गर्भाशयेन सम्पीडनवशात् ईषदवकाशतया अत्यन्तयातनाविधानाद् अपरिस्फुटा समन्तादव्यक्ता अवयवानाम् अङ्गानां शोभा कान्तिर्यस्य तथोक्तस्यापि विद्यमानस्य, चक्रवर्त्तिचिह्नानि सामुद्रिकशास्त्रोक्तसार्वभौमलक्षणानि, माहात्म्यं भाविमहापुरुषत्वम् आविर्भावयन्ति प्रकटयन्ति व्यञ्जयन्ति ।
चक्रवर्त्तिचिह्नान्येव दर्शयति—तथाहीत्यादिना । अस्य कुमारस्य सन्ध्यांशुभिः सायङ्कालीनरागैः रक्ता लोहिता, बाला अरुणा अर्द्धमात्रा या शशिकला चन्द्रकला तद्वद् आकार आकृतिर्यस्य तादृशे, ललाटपट्टे भालफलके, नवोऽभिनवः लघुष्को यो नलिननालभङ्गः कमलनालखण्डः तस्य तन्तुः सूत्रं तद्वत् तन्वी सूक्ष्मा इयम् अवलोक्यमाना, ऊर्णा भ्रूद्वयान्तरालवर्त्ती लोमावर्त्तः परिस्फुरति परिशोभते । 'ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः' इत्यमरः । इह लुप्तोपमयोः मिथो नैरपेक्ष्येण वर्तमानत्वात्संसृष्टिः । चक्रवर्तिलक्षणम्—
बिसतन्तुवत्सूक्ष्मरूप आवर्त्तश्च शुभायतः ।
यदि भ्रूद्वयमध्ये स्याच्चक्रवर्ती तदोच्यते ॥
एतदिति । विकचं प्रस्फुटितं यत् पुण्डरीकं सिताम्भोजं तद्वत् धवलं शुभ्रं कर्णान्तायतं श्रोत्रनिकटपर्यन्तप्रसारितम् अरालपक्ष्म कुटिलनेत्ररोमकम्, लोचनयुगलं नेत्रद्वन्द्वं कर्तृ, मुहुर्मुहुः वारम्वारम् उन्मिषितैः उन्मीलनैः वासभवनं निवासगृहं धवलयतीव श्वेतीकरोतीव ।
इह 'विकचपुण्डरीकधवलम्' इत्यत्र लुप्तोपमा, 'धवलयतीव' इत्यत्र च क्रियोत्प्रेक्षेत्यनयोः परस्परमहाङ्गिभावेन सङ्करः ।
चुम्बन करता हो, आलाप करता हो और आलिङ्गन करता हो इस प्रकार बहुतेरे मनोरथोंसे प्राप्त उसके मुखकमलको स्पृहासे देखकर बहुत आनन्दित हुआ, और वह अपनेको धन्य समझने लगा।
पूर्णफल हुए मनोरथवाले शुकनास भी प्रीतिके कारण फैले हुए नेत्रोंसे बालकके अङ्ग-प्रत्यङ्गको देखकर राजासे धीरे-धीरे कहने लगा—'देखिए, देखिए, महाराज ! गर्भमें सिकुड़ने के कारण इस कुमारके अवयवोंकी शोभा स्फुट तो नहीं हुई है तथापि चक्रवर्ती राजाके लक्षन, भावी महापुरुषत्वकी सूचना प्रकट करते हैं। देखिए, सन्ध्याकी किरणोंसे लाल हुए अर्धचन्द्रमाके समान ललाटदेशमें कमलमुणालके तत्काल तोड़े हुए तन्तुके समान सूक्ष्म ये रोम शोभायमान हैं। खिले हुए सफेद कमलके समान धवलवर्ण, कानोंके छोर तक फैले, जुड़े हुए
१. निरीक्षमाणः ।
२. दादस्य ।
३. प्रीतिविस्फारिताक्षः, प्रीतिविस्फारितलोचनं प्रीतिविस्फारितलोचनं ।
४. पश्यास्य ।
५. अस्फुटावयव... ।
६ आविर्भावयन्तीव ।
७. सन्ध्यांशुव... ।
८. क्वचित् 'नव' इत्यधिकः पाठो नास्ति ।
२२४ कादम्बरी- [ कथायाम्-
युगलम्, विजृम्भमाण-कमल^१-कोश-परिमल-मनोहरमियमस्य सहजमाननामोदमाजिघ्रतीव दूरायता^२ कनक-लेखेव नासिका। रक्तोत्पल-कलिकाकारमुद्वहतीव चास्याधर-रुचकम्^३। रक्तोत्पल-कलिकाकलित-तलौ भगवतो विष्टरश्रवस इव शङ्खचक्रचिह्नौ प्रशस्तलेखा-लाञ्छितौ करौ। अभिनव-कल्पतरु-पल्लवकोमलं लेखामयोर्ध्वज-रथ-तुरगातपत्र-कमलैरलङ्कृतम् अनेक-नरेन्द्र-सहस्र-चूडामणि-चक्र-चुम्ब्नोचितं चरणयुगलम्। एष च दुन्दुभेरिवातिगम्भीरः स्वरयोगोऽस्य रुदतः श्रूयते।'
नेत्रदीर्घत्व प्रशंसामाह सामुद्रकशास्त्रे—
भुजाक्षियुगलं कुक्षि तथा च नासिकाद्वयम्। कुचयोर्मध्यभागं च पञ्चदीर्घं प्रशस्यते।
विजृम्भमाणेति। कनकलेखेव सुवर्णलेखेव दूरायता अत्यर्थमुच्छ्रिता. इयमस्य नासिका विजृम्भमाणस्य प्रस्फुटतः कमलकोषस्य पङ्कजकुड्मलस्य यत् परिमलं सौरभं तद्वत् मनोहरं रमणीयम्, सहजं स्वाभाविकम् आननामोदं मुखगन्धम् आजिघ्रतीव उपादानं कुर्वतीव।
'कनकलेखेव' इत्यत्रोपमा, परिमलमनोहरम्' इत्यत्र लुप्तोपमा, आजिघ्रतीव, इत्यत्र क्रियोत्प्रेक्षात्यासामङ्गाङ्गिभावेन सङ्करः।
रक्तोत्पलेति। रुचकं बिम्बसदृशमाङ्गलिकद्रव्यम्. अधर एव रुचकम्, अधरो रुचकमिव वेति तदधररुचकं कर्तृ, रक्तोत्पलकलिकायाः कोकनदकुड्मलस्य आकारमाकृतिम् उद्वहतीव धारणं कुर्वतीव। 'रुचकं मङ्गलद्रव्ये बीजपूरे ससैन्धवे' इत्यनेकार्थः।
अधररुचकम्, इत्यत्र रूपकमुपमा वेति सन्देहात्सन्देहसङ्करः, रक्तोत्पलकलिकाकारगम्, इत्यत्र निदर्शनालङ्कारः, उद्वहतीव, इत्यत्र क्रियोत्प्रेक्षा चेत्येतेषामङ्गाङ्गिभावसङ्करः। इह सामुद्रके—
'पाणिपादतलौ शोणावक्षिमध्यनखानि च। तालुर्जिह्वाऽधरश्चैव सप्त रक्तं प्रशस्यते ॥' इति।
रक्तोत्पलेति। रक्तोत्पलं कोकनदं तस्य कलिका कुड्मलं तद्वत् लोहिते रक्तवर्णे तले ययोस्तौ तादृशौ, करौ। विष्टरे अश्लथे श्रयन इति विष्टरश्रवा विष्णुः तस्येव 'वैकुण्ठो विष्टरश्रवाः' इत्यमरः। शङ्खं कम्बु चक्रं प्रसिद्धं तयोः चिह्ने रेखे ययोस्तौ, पक्षे शङ्खचक्र एव चिह्ने ययोस्तौ, प्रशस्ताभिः अङ्कुशादिभिः लेखाभिः रेखासिः लाञ्छितौ अङ्कितौ, उभयत्रापीदं तुल्यम्। इह पूर्णोपमा।
अभिनवेति। अभिनवो नूतनो यः कल्पतरुपल्लवः मन्दारवृक्षकिसलयः तद्वत् कोमलं मृदुलम्, लेखामयैः रेखास्वरूपैः ध्वजः पताका, रथः स्यन्दनः, तुरगोऽश्वः, आतपत्रं छत्रम्, कमलं पङ्कजञ्च तैः तादृशैः अलङ्कृतं भूषितम्; अनेकेषां नरेन्द्रसहस्राणां नृपतिवृन्दानां चूडामणिचक्रैः शिरोमणिवातैः यच्चुम्बनं प्रणामसमये संस्पर्शः तस्य उचितं योग्यम्। …………पल्लवकोमलन्, इत्यत्र लुप्तोपमा।
एष इति। रुदतः क्रन्दतः अस्य कुमारस्य, एष समीपतरवर्ती दुन्दुभेरिव पटहस्येव अतिगम्भीरोऽतिमन्दः स्वरयोगः कण्ठसम्बन्धो ध्वनिः श्रूयते आकर्ण्यते।'
पलकोंवाले नयनयुगल, बार-बार खुल कर मानो मृतिका-सृष्टिको धवलवर्ण कर रहे हैं। कनक-लेखाके समान लम्बी यह नाक, खिलती हुई कमलकी कलीके परिमलके समान मनोहर-स्वाभाविक इसके मुखकी सुगन्धको मानो सूँघती है। एवं इसका नीचेका ओठ मानो लाल कमलकी कलीके आकारको धारण कर रहा है। लाल-कमलकी कलीके समान इसके हथेलियोंमें भगवान् नारायणके समान शङ्ख और चक्रके चिह्न एवं अङ्कुशप्रभृति प्रशस्त रेखाएँ विद्यमान हैं। कल्पवृक्षके नए पत्तोंके समान कोमल एवं ध्वज, रथ, अश्व, छत्र और कमलकी रेखाओंसे अलङ्कृत इसके चरण-युगल हैं। और ये हजारों राजाओंकी चूडामणियोंसे चुम्बन होनेके योग्य हैं। और रोनेके समय इसके ये कण्ठ-स्वर, दुन्दुभिध्वनिके समान अत्यन्त गम्भीर सुने जा रहे हैं।'
१. क्वचित् 'कमल' इति पदं नास्ति। २. दूरादायता। ३. रक्तोत्पलनिकरम्, रक्तोत्पलकलिका-नुरागम्। ४ क्वचित् 'च' शब्दो नास्ति। ५. अधरपुटकम्, अधरकम्। ६. '...कलिकाकारलोहित...'।
शुकानासपुत्रजन्मोत्सववर्ण०-२० ] चन्द्रकला-विद्योतिनीसहिता । २२५
इत्येवं कथयत्येव तस्मिन् ससम्भ्रमापसृतेन राजलोकेन ^१द्वारिस्थितेन दत्तमार्गस्त्वरितगतिरागत्य प्रहर्षोद्गम-पुलकित-तनुः स्फारीभवल्लोचनो मङ्गलक^२नामा प्रहृष्टवदनः^३ पुरुषः पादयोः प्रणम्य राजानं व्यजिज्ञपत्—'देव ! दिष्ट्या वर्द्धसे, प्रतिहतास्ते शत्रवः, चिरं जीव जय चं^४ पृथिवीम् । त्वत्प्रसादादत्रभवतः । शुकनासस्यापि ज्येष्ठायां ब्राह्मण्यां मनोरमाभिधानायां राम इव रेणुकायां तनयो जातः । श्रुत्वा देवः प्रमाणम्' इति ।
अथ नृपतिः अमृतवृष्टिप्रतिममाकर्ण्य तद्वचन प्रीति-विस्फारिताक्षः प्रत्यवदत्—'अहो ! कल्याणपरम्परा । सत्योऽयं लोकप्रवादः यत्, 'विपद्विपदं सम्पत् सम्पदमनुबध्नाति' इति । सर्वथा समानसुखदुःखतां दर्शयता विधिनाऽपि भवतेव वयमनुवर्त्तिताः' इत्यभिधाय प्रीति-
इत्येवमिति । इत्येवं पूर्वोक्तविधिना तस्मिन् शुकनासे कथयत्येव ब्रुवत्येव, ससम्भ्रमं शीघ्रम् अपसृतेन मार्गं परित्यज्य प्राप्तेन द्वारिस्थितेन राजलोकेन राजगणेन दत्तमार्गः दत्ताध्वा त्वरितगतिः शीघ्रगमनः सन् आगत्य एत्य, प्रहर्षोद्गमेन प्रमोदोदयेन पुलकिता रोमाञ्चिता तनुः शरीरं यस्य स तादृशः, स्फारीभवन्ती विस्तीर्णतां प्राप्यमाणे लोचने चक्षुषी यस्य स तादृशः, प्रहृष्टवदनः विकसितमुखः, मङ्गलकनामा पुरुषः, राजानं तारापीडं पादयोः चरणयोः प्रणम्य नमस्कृत्य व्यजिज्ञपत् विज्ञापयामास—
देवेति । देव स्वामिन् ! दिष्ट्या भाग्येन वर्धसे एधसे, ते शत्रवो विपक्षाः प्रतिहताः क्षयं प्राप्ताः सन्त्विति शेषः । चिरं बहुकालं जीव प्राणिहि, पृथिवीं वसुन्धरां जय स्वाधीनां कुरु । त्वत्प्रसादात् भवदनुग्रहात् अत्रभवतो माननीयस्य शुकनासस्य प्रधानामात्यस्यापि ज्येष्ठायां ब्राह्मण्याम् अग्रिमायां स्वपत्न्यां मनोरमाभिधानायां मनोरमेतिसंज्ञिकायां रेणुकायां जमदग्निपत्न्यां रामः परशुराम इव तनयः सुतो जातः उत्पन्नः । श्रुत्वा एतदाकर्ण्य देवो भवान् प्रमाणम्, यदाज्ञापयति देवस्तदेव विधेयमित्याशयः । 'राम इव' इत्युपमा ।
अथेति । अथ एतच्छ्रवणानन्तरम् अमृतस्य पीयूषस्य या वृष्टिर्वर्षणं तत्प्रतिमं तत्सदृशं तद्वचनं मङ्गलकवच आकर्ण्य श्रुत्वा, प्रीत्या स्नेहेन विस्फारिते विकसिते अक्षिणी नयने येन स तादृशो नृपगी राजा प्रत्यवदत् प्रत्यवोचत्—'अहो !' इत्याश्चर्ये । कल्याणपरम्परा श्रेयःसन्ततिः ममेति शेषः । अत एवाह—सत्योऽयमिति । अयं लोकप्रवादः जनानां चिरन्तनो वचनव्यापारः सत्यो यथार्थः, यत् 'विपदं विपत् , सम्पदं सम्पद अनुबध्नाति अनुगच्छति । शुकनासं प्रति प्रथयति—सर्वथेति । सर्वथा सर्वप्रकारेण समाने तुल्यं सुखं दुःखं ययोस्तयोस्तादृशयोनर्भावस्तां दर्शयता बोधयता विधिना देवेनापि भवतेव त्वयैव वयम् अहमित्यर्थः, अनुवर्त्तिताः अनुसरणं कृतः। एवञ्च तनयोत्पत्तेः पूर्वम् आवयोः तदनुत्पत्त्या तुल्यमेव दुःखमासीत् , साम्प्रतमपि च तदुत्पत्त्या तुल्यमेव सुखम् । दुःखानुभवानन्तरं यदि सुखानुभवो भवति तदातीव रमणीयत्वमिति सर्वानुभवसिद्धम् । उक्तञ्च केनापि—
'सुखं हि दुःखान्यनुभूय शोभते घनान्धकारेष्विव दीपदर्शनम्'
यथा चातीव सन्तोषोत्पादनेन भवान् मामनुकराति देवोऽपि सम्प्रति तथैवेत्याशयः । इत्यभिधाय इत्युक्त्वा प्रीतिविकसितमुखः काम्य-
शुकनास इस प्रकार कह रहा था कि इतनेमें ही द्वारके पास खड़े राजा लोगोंने झट-पट सरक कर जिसे रास्ता दिया, एव आनन्दसे रोमाञ्चित शरीर, विस्फारित नेत्र, और प्रफुल्ल-वदन वाला मङ्गलक नामका एक व्यक्ति, जल्दी-जल्दीसे आकर चरणोंमें राजाको प्रणाम कर कहने लगा—'महाराज ! सौभाग्यवश आपकी उन्नति हुई है, आपके शत्रुओंका नाश हो । आप दीर्घायु हों । एवं पृथिवी की विजय करें । आपके अनुग्रहते माननीय मन्त्रिमहान्द शुकनासके भी ज्येष्ठ पत्नी मनोरमाके गर्भमें—रेणुकाके गर्भमें परशुरामके समान—एक पुत्र उत्पन्न हुआ है । इस समाचारको सुनकर जो कर्त्तव्य हों, वह करें ।'
अनन्तर राजा, अमृत-वृष्टिके समान उसके वचन को सुनकर प्रीति-प्रफुल्ल नेत्रसे बोला— क्या आश्चर्य ! आज जो अविच्छिन्न मङ्गल की धाराको देखता हूँ । अतएव यह लोकप्रवाद सत्य है कि—'विपत्ति विपत्तिका और सम्पत्ति सम्पत्तिका अनुसरण करती रहती है ।' सुख और दुःखमें समानता दिखाकर विधाताने भी सभी प्रकारसे तुम्हारे ही समान मेरे साथ बर्ताव किया है' यों कह कर प्रीति-प्रफुल्ल-मुखसे आनन्दके साथ शुकनासको
१. द्वारस्थितेन । २. मङ्गलनामा । ३. प्रहृष्टवदनपुरुषः । ४. क्वचिद् चकारो न विद्यते । ५. पृथिवीं प्रतिपालय । ६. भूपतिः । ७. जनप्रवादः ।
२२६ कादम्बरी- [ कथायाम्-
विकसितमुखः सरभसमालिङ्ग्य विहसन् स्वयमेव शुकनासस्योत्तरीयं पूर्णपात्रं जहार। तस्मै च प्रीतमनाः प्रियवचनानुरूपं पुरुषायापरिमितं पारितोषिकमादिदेश।
उत्थाय च तथैव तेन चरण-विघट्टन-क्वशित-नूपुर-सहस्र-मुखरित-दिगन्तरेण, सरभसो-त्क्षेप-चलित-मणिवलयावली-वाचालित-भुजलतेन, उर्ध्वाकृतैरुत्तानतलैः करपुटैरनिल-लुलिताम् आकाशगङ्गा-कमलिनीमिव दर्शयता, पर्यस्त-मृदित-कर्णपल्लवेन, परस्पराङ्गद-कोटि-सङ्घ-
न्तरस्नेहप्रफुल्लवदनः सरभसं सप्रमोदम् आलिङ्ग्य शुकनासमाश्लिष्य विहसन् स्मितं कुर्वन् स्वयमेव आत्मनैव शुकनासस्य मन्त्रिणः उत्तरीयम् उत्तरीयवस्त्ररूपं पूर्णपात्रं सन्तोषेण समानयनद्रव्यम्, जहार हृतवान्। इह 'भवतेव' इत्यत्रोपमालङ्कारः।
तत्मा इति। तस्मै शुभसन्देशप्रापकाय मङ्गळकाय प्रीतमनाः सन्तुष्टचित्तः प्रियवचनानुरूपम् इष्टवचनयोग्यम् अपरिमितं संख्यातीतं पारितोषिकं सन्तोषप्रयुक्तं दातुं धनाध्यक्षम् आदिदेश आज्ञापयामास।
उत्थायेति। तथैव तेनैव प्रकारेण राजा तस्मात् स्थानात् उत्थाय उत्थानं विधाय तेन अन्तःपुरिकाजनेन राजपरिजनेन प्रवृत्तनृत्येन चारणगणेन चानुगम्यमानः शुकनासभावनं गत्वा द्विगुणतरमुत्सवमकारयदिति दूरेणान्वयः। सम्प्रति अन्तःपुरिकाजनेनेत्यस्य विशेषणानि दर्शयति—चरणयोः पादयोर्विघट्टनेन निक्षेपेण क्वणितानां रणितानां नूपुराणां पादकटकानां सहस्रेण वृन्देन मुखरितानि वाचालितानि दिगन्तराणि दिङ्मध्यानि येन तेन तादृशेन।
सरभसेति। सरभसं वेगसहितम् उत्क्षेपेण नृत्यगीताद्यनुसारादूर्ध्वमुत्थापितेन चलिताभिः चपलीभूताभिः मणिवलयानां रत्नकङ्कणानाम् आवलीभिः पङ्क्तिभिः वाचालिताः मुखरायमाणीकृता भुजलता बाहुवल्ल्यो यस्य तेन तादृशेन।
उर्ध्वाकृतैरिति। उर्ध्वाकृतैः उच्चैर्विहितैः उत्तानतलैः उन्मुखतलैः करपुटैः हस्तपुटैः करणैः, अनिललुलितां पवनेन पातिताम् आकाशगङ्गायाः स्वर्गधुन्धाः कमलिनीं पद्मिनीं दर्शयतेव प्रकटयतेव तथाविधहस्तोर्ध्वकरणादित्याशयः।
पर्यस्तेति। पर्यस्ता प्रथममाकाशसम्भ्रमात् पृथिव्यां पतिताः, मृदिताः, अनन्तरं लोकपादैर्विदलिताः कर्णपल्लवाः श्रवणालङ्कारीभूतकिसलयानि यस्य तेन तथोक्तेन।
परस्परेति। परस्परम् अन्योन्यम् अङ्गदानां बाहुवलयानां केयूराणां कोटिभिरग्रैः सङ्घट्टनेन घर्षणेन पूर्वं दृढानि विद्धानि ततः पाटितानि द्वैधीकृतानि उत्तरीयांशुकाणि यस्य तेन तादृशेन।
आलिङ्गन कर हँसते २ राजाने अपनेसे ही पूर्णपात्रकी जगह उसके उत्तरीयवस्त्र (दुपट्टा) को खींच लिया। एवं सन्तुष्ट चित्तसे मङ्गलकके प्रियसंवाद कहनेके अनुरूप अपरिमित पारितोषिक देनेके लिए धनाध्यक्षको आदेश दिया।
फिर उसी तरह उठ कर राजाने शुकनासके महलमें जाकर (अपनेसे) दूना उत्सव कराया। जानेके समय उसके पीछे-पीछे अन्तःपुर (रनवास) की स्त्रियाँ भी जाती थीं। उनके पादक्षेपके समय झनझनाते हजारों पायलोंने दिगन्तर गूंज उठा। वेगसे भुजलता (हाथ) उछालनेके कारण हिलते मणिकङ्कणोंके शब्दसे भुजलताएँ भी शब्दायमान हो गई। हथेलियाँ ऊपरकी ओर करके ऊँचे किए कर-सम्पुटोंसे वे मानों, वायुके जोरसे चलायमान हुई आकाशगङ्गाके कमलिनीको दिखाने लगीं। लोगोंके संघर्षसे उनके कर्ण-पल्लव गिरकर पददलित होने लगे। परस्पर सङ्घर्षके समय एकके केयूर (बाजूबन्द) के अग्रभागसे दूसरेके उत्तरीयवस्त्र विद्ध होकर फटने लगे। शरीर में लिप्त कुङ्कुमादि, पसीनेसे धुलकर सूक्ष्म वस्त्रोंको रंग देते थे। लोगोंके सङ्घर्षसे तिलक
१. प्रियवचनश्रवणानुरूपम् । २. ॰॰॰विकुट्टन ॰॰, कुट्टन । ३. ॰॰॰अत्रैव क्वचित् 'मणि' पदमधिकं वर्त्तते । ४ चालित ॰॰वलित॰॰ । ५. भुजवल्लेन । ६. ॰॰॰लुष्ठितान् । ७. क्वचित् 'गङ्गा' इति पदं नास्ति ।
शुकनासपुत्रजन्मोत्सव०-२० ] चन्द्रकला-विद्योतिनीसहिता । २२७
दृष्ट-पाटितोत्तरीयांशुकेन, श्रमजल-धौताङ्गराग-रञ्जित-चीनवाससा, किञ्चिदवशिष्ट-तमाल-पत्रेण, विलसद्वारविलासिनीहसितेनेन्दिरे-कैरव-वनानुकारं प्रथयता,;सरभसवल्गन-स्खलल्लोल-हारलतास्फालित-कुचस्थलेन, सिन्दूर-तिलक-लुलितालक-लेखेन, विप्रकीर्णपिष्टातक-पांशु-पुञ्ज-पिञ्जरित-केशपाशेन, प्रनृत्यै-विकल-मूक-कुब्ज-किरात-वामन-बधिर-जड-जन-पुरःसरेण, उत्तरीयांशुक-ग्रीवावयद्भावकृष्ट-विडम्बित-जरत्कञ्चुकि-कदम्बकेन, वीणा-वेणु-मुरज-कांस्यता-ललयानुरतेन, कल-मधुरमुद्गायता, हर्षनिर्भरतया मत्तेनेव उन्मत्तेनेव ग्रहगृहीतेनेव व्यपगत-
श्रमेति । श्रमजलैः धर्मसलिलैः धौताः क्षालिता ये अङ्गरागाः कुङ्कुमादीनि अङ्गविलेपनानि तै रञ्जितानि चीनवासांसि सूक्ष्मवस्त्राणि यस्य तेन तादृशेन । 'चीनो देशांशुकेऽहिभेदे तन्तौ मृगान्तरे' इति मेदिनी ।
विलसिदिति । विलसन्त्यः सविलासं व्रजन्त्यो या वारविलासिन्यो गणिकाः तासां हसितैः हासैः उद्भिदस्य प्रस्फुटितस्य कैरववनस्य कुमुदविपिनस्य अनुकारम् अनुकरणं प्रथयता प्रकटयता 'यशसि धवलता वर्ण्यते हासकीर्त्योः' इति कविसमयख्यातेः हास्यस्य शुभ्रत्वादित्याशयः ।
सरभसेति । सरभसं वेगसहितं यत् वल्गनम् आस्फालनं परस्परमङ्गानामामोटनं तेन स्खलन्तीभिः स्वस्थानात् च्यवन्तीभिः लोलाभिः चञ्चलाभिः हारलताभिः मुक्तालताभिः आस्फालितमाहतं कुचस्थलं स्तनप्रदेशो यस्य तेन तथोक्तेन ।
सिन्दूरेति । सिन्दूरतिलकेषु रागप्रजनितविशेषकेषु लुलिता आकाशसम्भ्रमात् लुण्ठिता अलक-रेखा चूर्णकुन्तलपङ्क्तिर्यस्य तेन तादृशेन ।
विप्रेति । विप्रकीर्णाः विक्षिप्ताः पिष्टातकाः पटवासाः तेषां पांशुपुञ्जैः चूर्णसमूहैः पिञ्जरिताः पीत-रक्तानां प्राप्ताः केशपाशाः कचसमूहा यस्य तेन तादृशेन ।
प्रनृत्यैति । प्रनृत्येन विशेषनर्तनेन विकला व्यग्राः, मूका अस्फुटवाचः, कुब्जाः पूर्वप्रदर्शिताः, किराताः स्वल्पतनवः, वामनाः ह्रस्वदेहाः, बधिरा अकर्णाः, जडा अत्यन्तदुर्बोधाश्च लोकाः पुरस्सरा अग्र-गामिनो यस्य तेन तादृशेन ।
उत्तरीयेति । उत्तरीयांशुकैः तत्तदच्छादनवस्त्रैः ग्रीवासु कन्धरासु प्रथमं बद्धं समीरणप्रेरणया यदृच्छया संयमितम्, ततश्च अवकृष्टं प्रमोद्विह्वलतया तद्रम्रादेन गतिजवाद् आकृष्टम्, अत एव विडम्बितं बलाद्धरणेन पृथिव्यां पातनोपक्रमेण च व्यग्रीकृतं जरतां परिणतवयसां कञ्चुकिनाम् अन्तःपुर-चरदासगणानां कदम्बकं समुदायो येन तादृशेन ।
वीणेति । वीणा वल्लकी, वेणुर्वंशः, मुरजो मृदङ्गः, कांस्यतालं करतालं तेषां लये ध्वनिसाम्यं तदनु-गतेन तदनुसारचलितेन ।
कलेति । कलम् अव्यक्तं मधुरञ्च यथा स्यात्तथा उद्गायता उच्चैःस्वरेण गानं विदधता ।
हर्षेति । हर्षनिर्भरतया प्रमोदातिशयत्या मत्तेनेव सुरापानजनितमत्ततासहितेनेव, उन्मत्तेनेव उन्मादव्याधिग्रस्तेनेव, तथा ग्रहगृहीतेनेव भूताविष्टेन पुरुषेणेव व्यपगतो विनष्टः वाच्यावाच्ययोः प्रति-
अङ्गराग अवशिष्ट थे। वे सविलास-गामिनी वेश्याओंके हास्यसे खिले हुए कमल-वनके अनुकरणको प्रकाश करती थीं। वेगसे आन्दोलन होनेके कारण स्वस्थानच्युत चञ्चल हार-लता द्वारा उनके स्तनमण्डल ताड़ित हो रहे थे। सिन्दूरकी बिन्दीमें उनके बालोंकी लटें चिपक गई थीं। पटवासका चूर्ण उड़ानेसे केशकलाप पीले-नीले हो गये थे। गूँगे, कूबड़े, बहरे, किरात, बौने और मूर्ख उद्धत नृत्यसे विह्वल होकर उनके आगे-आगे जाते थे। किसी-किसी स्त्रीके उत्तरीयवस्त्र (दुपट्टा) किसी-किसी वृद्ध कञ्चुकीके गर्दनमें फँस जानेपर उसके खींचनेपर वे कञ्चुकिगण अत्यन्त विडम्बना पाते थे। वे वीणा, बंशी, मृदङ्ग, काँसा और मजीरोंके लयके अनुसार पाँव फेंक कर जाती थीं। उच्चैःस्वरसे अस्पष्ट (धीमी) और मधुर गान करती थीं। आनन्दमें मग्न होनेसे किसी समय
१. स्वच्छचीन, चीरवाससा। २. दलन् । ३. ॰॰॰लोलितालक॰॰॰। ४. क्वचिद् 'पांशु' इति पदं नास्ति । ५. प्रनृत्यत्क॰॰॰, प्रनृत्यद्विकल...। ६. ॰॰॰विम्बित। ७. कदम्बेन। ८. ॰॰॰अनुपादेन। ९. सगदगदः।
| २२८ | कादम्बरी- | [ कथायाम्- |
|---|
वाच्यावाच्यविवेकेने^१ नृत्य-गीत^२-क्रीडा-प्रसक्तेनान्तःपुरिकाजनेन, प्रचलन्^३-मणिकुण्डलाहत^४-कपोलभित्तिना च विघूर्णमानकर्णोत्पलेनाधोगलित^५-विलोले-शेखरेण दोलायमान-वैकक्षक^६-कुसु-ममालेन निर्दय-प्रहत-भेरी-मृदङ्ग-मर्दल-पटह-निनादानुगत-काहल^७-शङ्ख-रव-जनित-रभसेन चरण-सन्निपातैर्दारयतेव^८ वसुधां^९ राजपरिजनेन, प्रवृत्तनृत्येन^१० च चारणगणेन विविधमुख-वाद्य-^११कृतकोलाहलेन पठता गायता वल्गता^१२ चानुगम्यमानः शुकनासभवनं गत्वा द्विगुण-तरमुत्सवमकारयत् ।
अतिक्रान्ते च षष्ठीजागरे, प्राप्ते दशमेऽहनि, पुण्ये मुहूर्त्ते गाः सुवर्णञ्च कोटिशो
वाच्याप्रतिपाद्ययोः विवेको विवेचनं पृथगात्मता यस्य तेन तादृशेन वाच्यमपि प्रतिपादयता अवाच्यम-श्लीलादिकमपि प्रतिपाद्येतेत्यर्थः । नृत्यं नर्त्तनं गीतं गानं क्रीडा विनोदः तेषु प्रसक्तेन संलग्नेन अन्तः-पुरिकाजनेन अन्तःपुरस्थसुन्दरीवृन्देन ।
प्रचलितेति । अधुना 'राजपरिजनेन' इत्यस्य विशेषणानि प्रतिपादयति—प्रचलितेत्यादिना । प्रचलितैः सञ्चलितैः मणिकुण्डलैः रत्नकर्णाभरणैः आहताः ताडिताः कपोलभित्तयो गण्डस्थलानि यस्य तेन तादृशेन । विघूर्णमानानि आन्दोलितानि कर्णोत्पलानि श्रवणपद्मानि यस्य तेन तादृशेन । अधोगलिताः पृथिव्यां प्रच्युताः विलोलाः चपलाः शेखराः शिरोऽवतंसा यस्य तेन तादृशेन । दोलायमानाः कम्पमानाः वैकक्षकाणां तिर्यग्गलम्बितवक्षःस्थानां कुसुममालाः पुष्पमाला यस्य तेन तादृशेन । निर्दयम् अत्यन्तं यथा स्यात्तथा प्रहताः वादिता ये भेर्यो मृदङ्गा मर्दला वाद्यविशेषाः पटहाः ढक्काश्च तेषां निनादैः शब्दैः अनुगताः तन्मिश्रिता ये काहलानां विस्तृतढक्कानां कम्बूनाञ्च रवाः तैर्जनितो निष्पादितो रभस आनन्दो यस्य तेन तादृशेन । चरणसन्निपातैः पादविक्षेपैः वसुधां पृथिवीं दारयतेव विदीर्णां कुर्वतेव राजपरिजनेन नृपपरिवारेण ।
इह 'चरणविघट्टनकणितनूपुरसहजमुखरितदिगन्तरेण' इत्यत्र दिगन्तराणां मुखरीकरण-सम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिः । 'दर्शयतेव' इत्यत्र क्रियोत्प्रेक्षा । '...कैरववनानुकारम्' इत्यत्रोपमार्थी । 'उत्तरीयांशुक...कञ्चुकिकदम्बकेन' इत्यत्र हि स्वभावोक्तिः । 'मत्तेनेव, उन्मत्तेनेव, ग्रहगृहीतेनेव, इत्येतेषु च मालोपमा, उत्प्रेक्षा वा । 'दारयतेव' इत्यत्र क्रियोत्प्रेक्षा ।
प्रवृत्तेति । प्रवृत्तं जातं नृत्य नर्त्तनं यस्य तेन तादृशेन, विविधैः नानाप्रकारैः मुखवाद्यैः मुखद्वाराऽ-व्यक्तध्वनिनिस्तारणैः कृतो विहितः कोलाहलः कलकलो येन तेन तादृशेन, पठता उच्चैः स्वरेण राजस्तुतिं कुर्वता, गायता गानं विदधता, वल्गता उल्लम्फनं प्रलम्फनञ्च विदधता चारणगणेन च कुशीलववृन्देन च अनुगम्यमानः अनुव्रज्यमानः 'चारणास्तु कुशीलवाः' इत्यमरः । शुकनासभवनं प्रधानामात्यगृहं गत्वा द्विगुणतरं स्वस्मादतिशयेन द्विगुणम् उत्सवम् अकारयत् कारयामास ।
अतिक्रान्त इति । अतिक्रान्ते व्यतीते च षष्ठीजागरे षष्ठीरात्रिकृत्ये, जागरणे, दशमेऽहनि जन्मावधि दशमे दिने प्राप्ते उपगते सति, पुण्ये पवित्रे मुहूर्त्ते वेलायां गाः सुरभीः कोटिशः कोटिसंख्याकाः सुवर्ण
मदमत्तके समान, किसी समय उन्मत्तके समान एवं किसी समय ग्रह-ग्रस्तके समान होकर वाच्यकथा भी बोलती थीं, अवाच्य कथा भी बोलती थीं एव नृत्य, गीत और क्रीडामें व्यापृत होकर चलती थीं ।
राजाके परिजन वर्ग भी उनके पीछे-पीछे चल रहे थे । उन लोगोंके मणिमय कुण्डल हिल-हिल कर सुन्दर गालोंपर टकराते थे; कर्णोत्पल झूल रहे थे; मस्तकके आभूषण खिसक-खिसक कर नीचे ( पृथिवीमें ) गिर जाते थे; जनेऊ की तरह छाती पर पहनी गई फूलोंकी मालाएं दोलायमान हो रही थीं; अत्यन्त ताड़न करने ( बजने ) से भेरी, मृदङ्ग, ढोल और नगाड़ेके शब्दके साथ बड़े-बड़े ढोलों और शङ्खोंके शब्दसे उन लोगोंको आनन्द उत्पन्न हुआ और वे अपने चरण-निक्षेपसे पृथिवीको मानो विदीर्ण करते थे । चारण-गण भी राजाके पीछे-पीछे जाते थे, उन लोगोंके मध्यमें कितने नृत्य करते थे, कितने नानाविध मुखवाद्यसे कोलाहल करते थे, कितने राजस्तुति पाठ करते थे, कितने गान करते थे एवं कितने उल्लङ्घन-प्रलङ्घन करते-करते जाते थे ।
छठी रात्रिके कृत्य हो जानेके बाद दशवें दिन प्राप्त होने पर शुभ मुहूर्त्तमें राजा करोड़ों गाय और सुवर्ण
१. विवेकेनेव ।
२. क्वचिद् 'गीत' इति पदं नास्ति ।
३. प्रचल... ।
४. उद्घट्टित... ।
५. विगलित... ।
६. वैकक्षिक..., दैकक्ष ।
७. काहला... ।
८. विदारयतेव ।
९. वसुन्धराम् ।
१०. नृत्ते प्रवृत्त ।
११. विविधवाद्य ।
१२. गायता चानुगम्यमानः ।
| चन्द्रापीडस्य शिक्षावर्ण०-२१ ] | चन्द्रकला-विद्योतिनीसहिता । | २२६ |
|---|
ब्राह्मणसात्कृत्य 'मातुरस्य मया परिपूर्णमण्डलश्चन्द्रः स्वप्ने मुखकमलमाविशन् दृष्टः' इति स्वप्नानुरूपमेव सूनोः चन्द्रापीड इति नाम चकार ।
अपरेद्युः शुकनासोऽपि कृत्वा ब्राह्मणोचिताः सकलाः क्रिया राजानुमतमात्मजस्य विप्रजनोचितं वैशम्पायन इति नाम चक्रे ।
क्रमेण कृतचूड़ाकरणादि क्रिया-कलापस्य शैशवमतिचक्राम चन्द्रापीडस्य ।
तारापीडः क्रीडाव्यासङ्ग-विघातायै बहिर्नगरादनुशिप्रम् अर्धक्रोशमात्रायतम्, अति-
कनकञ्च ब्राह्मणसाद् ब्राह्मणाधीनं कृत्वा विधाय, मया स्वप्ने स्वमावस्थायां परिपूर्णमण्डलः समस्ताव-यवयुक्तः चन्द्रो निशापतिः अस्य शिशोः मातुर्जनन्या मुखकमलं वदनाम्भोजम् आविशन् प्रविशन् दृष्टो निरीक्षित इति स्वमानुरूपमेव स्वप्नतुल्यमेव राजा भूपतिः स्वसूनोः स्वतनयस्य चन्द्र आपीडः शेखरो यस्य स तादृशः चन्द्रापीड इति नाम संज्ञां चकार कृतवान् । यद्यपि—
'शुध्येद्विप्रो दशाहेन द्वादशाहेन भूमिपः'
इति वचनाद्दशमदिने राज्ञः शुद्ध्यभावेन नामकरणमयुक्तम्, तथापि 'दशम्यामुत्थाप्य पिता नाम कुर्यात्' इत्यादि पारस्करसूत्रादिप्रमाणमभ्युपगम्य तथोक्तिरिति विभावनीयम् ।
अपरेद्युरिति । अपरेद्युः अन्यस्मिन् दिने जननादेकादशदिवसे 'एकादशे द्वादशे वा पिता नाम कुर्यात्' इति श्रुत्या नामकरणे एकादशाहोऽपि विहित इति ज्ञातव्यम् । ब्राह्मणोचिताः आभ्युदयिकश्रा-द्धादिपूर्वकर्णान्तनामोल्लेखनयोग्याः सकलाः समस्ताः क्रियाः कृत्वा विधाय राजानुमतं भूपतिनानु-मोदितं स्वामितया मित्रतया च समस्तकृत्येष्वेव तदनुमतिग्रहणौचित्यादित्याशयः, आत्मजस्य तनयस्य विप्रजनोचितं ब्राह्मणजनयोग्यं शुभसूचकमित्यर्थः । विशं लोकं पाति रक्षतीति विशम्पो विष्णुः 'पृषोदरा-दीनि यथोपदिष्टम्' इत्यनेन साधुः, स एव अयनम् आधारो यस्येति विशम्पायनः ततश्च स्वार्थे प्रज्ञा-दित्वादण्प्रत्यये आद्यचो वृद्धौ सत्यां वैशम्पायन इति । एतच्च नाम मङ्गलसूचकमेव । पूर्वं चन्द्रापीड-नाम्ना त्रिपुरविजयिनो महेश्वरस्य प्रतिपादनात्तस्य बलान्वितत्वं प्रतीयते । तथा चाह मनुः—
'मङ्गल्यं ब्राह्मणस्य स्यात् क्षत्रियस्य बलान्वितम् । वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥'
क्रमेणेति । चूड़ाकरणं चौलकर्म तस्य आदिभूते निष्क्रमणान्नप्राशने च तद्रूपाः क्रियाः तासां कलापः समूहो यस्य स तादृशः, तथा च कृतो विहितः चूड़ाकरणादिक्रियाकलापो यस्य तादृशस्य । शैशवं बाल्यम् अतिचक्राम कौमारं प्राप्तवानित्यर्थः ।
इह शैशवलीलां चन्द्रापीडस्य कथं नावर्णयत् कविरिति विस्मयमापादयति—सहृदयहृदयेष्विति ।
तारापीड इति । तारापीड़ो भूपतिः, चन्द्रापीडस्य क्रीडासु खेलासु व्यासङ्ग आसक्तिः, तस्य विघा-तार्थं निवारणार्थं नगरात् स्वकीयराजधानीतो बहिः, शिप्रां क्षिप्रातटमनु इत्यनुशिप्रं क्षिप्रानदीतटे विद्यामन्दिरं पाठशालाम् 'अकारयत' इत्यन्वयः । तस्य च नपुंसकलङ्गिनां द्वितीयान्तानि पदानि विशेषणानि बोध्यानि । अर्धक्रोशमात्रम् यायामो विस्तारो यस्य तत्तादृशम् । तुहिनगिरेः हिमाचलस्य
ब्राह्मणों को दान देकर—'इस बालककी माताके मुखकमलमें पूर्णमण्डल चन्द्रने प्रवेश किया है, यह मैंने पहले स्वप्न में देखा था'—यह विचार कर राजाने उस स्वप्नके अनुसार पुत्रका नाम 'चन्द्रापीड' रक्खा ।
शुकनासने भी दूसरे दिन ब्राह्मणोचित समस्त कार्य सम्पादन करके राजाकी अनुमतिसे अपने पुत्रका, ब्राह्मण के योग्य 'वैशम्पायन' नाम रक्खा ।
क्रमपूर्वक चन्द्रापीडका निष्क्रमण, अन्नप्राशन और चूड़ाकरणादि समस्त क्रियाएँ सम्पन्न हुई, इस प्रकार बाल्यावस्था बीत गई ।
तदनन्तर तारापीडने, चन्द्रापीडका मन खेलमें लगनेसे रोकनेके लिए, राजधानीके बाहर, शिप्रा-नदीके तट पर, आधकोस लम्बा, एक विद्या-मन्दिर बनवाया । हिमालयके शिखरोंकी मालाके समान बड़ा ऊँचा और उस पर चूनेके लेपसे श्वेतवर्ण प्राचीर (चहार-दिवारी) द्वारा वह विद्यालय परिवेष्टित किया हुआ था । चहारदीवारीके समीपमें बनाई हुई बड़ी परिखा (चौड़ी गोल खाई) द्वारा भी वह वेष्टित था । अत्यन्त दृढ़ कपाटसे उसके सन्धान्य
१. कोटिशो ब्राह्मणेभ्यो दत्त्वा ।
२. स्वसूनोः।
३. ०'दादिक्रिया'०' ।
४. व्यासङ्ग'०' ।
५. अनुक्षिप्रम्, अनुत्तिप्रम् ।
२३० कादम्बरी- [ कथायाम्-
महता तुहिनगिरि-शिखर-मालाऽनुसारिणा सुधौवदलितेन प्राकारमण्डलेन परिवृतम्, अनुप्रा- कारमाहितेन महता परिखावलयेन परिवेष्टितम्, अतिदृढकपाट-सम्पुटम्, उद्घाटितैकद्वार- प्रवेशम्, एकान्तोपरचित-तुरग-वाहाली-विभागम्, अधःकल्पित-व्यायामशालम्, अमरागा- राकारम्, विद्यामन्दिरम् अकारयत् । सर्वविद्याचार्याणाञ्च संग्रहे यत्नमतिमहन्तमन्वतिष्ठत् । तत्रस्थञ्च तं केशरिकिशोरकमिव पञ्जरगतं कृत्वा प्रतिषिद्धनिर्गमम्, आचार्य-कुल-पुत्र-प्राय- परिजनम्, अपनीताशेष-शिशुजनक्रीडनं-व्यासङ्गम्, अनन्यमनसम्, अखिलविद्योपादानार्थ- माचार्येभ्यश्चन्द्रापीडं शोभने दिवसे वैशम्पायनद्वितीयमर्पयाम्बभूव । प्रतिदिनञ्चोत्थायोत्थायै सह विलासवत्या विरलपरिजनस्तत्रैव गत्वैतन्नालोकयामास राजा ।
शिखराणि शृङ्गाणि तेषां या मालाः पङ्क्तयः तदनुकारिणा तत्सदृशेन अतिमहता अत्युच्चेन सुधाचूर्णे- द्रव्यं तया धवलितेन श्वेतीकृतेन प्राकारमण्डलेन वप्रवलयेन परिवृतं परिवेष्टितम् ।
अन्विति । प्राकारस्य वलयस्य समीप इत्यनुप्रकारम् आहितेन स्थापितेन महता विशालेन परिखा- वलयेन दुर्गादिपरितः खातमण्डलेन परिवेष्टितं परिवृतम् ।
अतीति । अतिदृढैः अत्यन्तस्थूलैः कपाटैः सम्पुटं पिधानं यस्य तत् तादृशम् । उद्घाटितेन उन्मु- क्तकपाटेन एकेन द्वारेण प्रवेशोऽन्तर्गमनं यत्र तत्तादृशम् । एकान्ते एकस्मिन् भागे उपरचितो निर्मितः तुरगवाहालीनाम् अश्वशकटपद्धतीनां विभागः अवस्थितभूमिः यत्र तत्तादृशम् । अधःप्रदेशे अधोभागे कल्पिता रचिता व्यायामशाला मल्लकीडाभवनं यत्र तत्तादृशम्, अमरागाराकारं देवभवनसदृशम्, अन्वयस्तूक्त एव पूर्वम् ।
सर्वेति । सर्वा निखिला या विद्या आन्वीक्षिक्यादयः तासां ये आचार्याः अध्यापकाः तेषां संग्रहे आनयने अतिमहन्तम् अत्युत्कृष्टं यत्नम् उद्योगम् अन्वतिष्ठत् अकरोत् ।
तत्रेति । केशरी सिंहः तस्य किशोरकः शिशुः तं तादृशं पञ्जरगतमिव, तं चन्द्रापीडं तत्रस्थं तन्नि- वासिनं कृत्वा विधाय प्रतिषिद्धो निवारितो निर्गमो बहिर्गमनं यस्य तं तादृशम् । आचार्या अध्यापकाः कुलपुत्राः सद्वंशोत्पन्नाः कुमाराश्च प्रायाः अधिकाः परिजनाः परिवारा यस्य तं तादृशम् । अपनीतो निपे- धेन दूरीकृतः अशेषेषु समग्रेषु शिशुजनक्रीडनेषु बालगणलीलासु व्यासङ्ग आसक्तिर्यस्य तं तादृशम् । नास्ति अन्यस्मिन् विषये मनश्चित्तं यस्य तं तयोक्तञ्च कृत्वा, वैशम्पायनो मन्त्रिपुत्र एव द्वितीयोऽपरः सहायो यस्यैवम्भूतं तं चन्द्रापीडम्, अखिलाः समस्ता या विद्याः आन्वीक्षिक्यादयः तासाम् उपादा- नार्थं शिक्षार्थं शोभने प्रशस्ते दिवसे दिने आचार्येभ्यः अध्यापकेभ्यः अर्पयाम्बभूव अर्पितवान् ।
प्रतीति । अनन्तरं प्रतिदिनं प्रत्यहं च राजा उत्थाय उत्थाय प्रातः प्रातः स्वगृहादुत्थानं विधाये- त्यर्थः । विलासवत्या महाराज्ञा सह विरलाः स्वल्पाः परिजनाः परिवारा यस्य स तादृशः, अन्यथा पाठ- शालायां कोलाहलो भवेदित्याशयः । तत्रैव विद्यामन्दिर एव गत्वा एवं चन्द्रापीडम् अवलोकयामास सम्पश्यत् ।
द्वार दृढ़ थे, एकमात्र द्वार खुले रहने से वही केवल प्रवेश करने का मार्ग था। एक तरफ बहुतसे घोड़े-गाड़ियोंको रखनेके लिए स्थान बनाया हुआ था, एवं नीचे की ओर व्यायामके वस्ती वैठारी की हुई थी, इससे वह विद्यालय स्वर्गके देव-भवनके समान सुन्दर लगता था। अनन्तर सभी प्रकारकी विद्याओंके आचार्योंको एकत्रित करनेके लिए राजाने विशेष यत्न किया। एवं पिंजिरेमें रखे गए सिंहके बच्चेकी तरह चन्द्रापीडको उस विद्यालयमें रख कर, उससे बाहर निकलनेका निषेध कर, शिक्षकगण भी सत्कुलोत्पन्न कुमारोंको ही अधिक संख्यामें साथी बनाकर, बालकोंके मनको आकर्षण करनेवाली खेल की सब बातें वहाँसे हटाकर, अनन्य मनसे विद्याप्राप्ति करनेके लिए वैशम्पायनके साथ चन्द्रापीडको शुभ दिनमें आचार्योंके हाथ में सुपुर्द किया। राजा विलासवतीके साथ प्रतिदिन निद्रासे उठ कर, अल्पसंख्यक परिजनोंको लेकर विद्यालयमें चन्द्रापीडको देखने जाया करता था।
१. शिखरानुसारिणा ।
२. सुधाधवलितैन, प्राकारमण्डलेन चन्द्रशालावलयेन . विलिप्तेन प्राकार*** ।
३. तुरङ्ग*** ।
४. विभागगृहम् ।
५. क्वचित् 'इन' इति पदं नास्ति ।
६. क्रीडानामाश्रयम् ।
७. कुत्रापिचेदं 'उत्थाय' इत्येकमेव पदं विद्यते ।
चन्द्रापीडस्य शिक्षा०-२१ ] | चन्द्रकला-विद्योतिनीसहिता । २३१
चन्द्रापीडोऽप्यनन्यहृदयतया तथा नियन्त्रितो राज्ञा अचिरेणैव कालेन यथास्वमात्म- कौशलं प्रकटयद्भिः पात्रवशादुपजातोत्साहैराचार्यैरुपदिश्यमानः सर्वा विद्या जग्राह । मणिदर्पण इवातिनिर्मले तस्मिन् सञ्चक्राम सकलः कलाकलापः । तथा हि पदे, वाक्ये, प्रमाणे, धर्मशास्त्रे, राजनीतिषु, व्यायामविद्यासु, चाप-चक्र-चर्म-कृपाण-शक्ति-तोमर-परशु- गदाप्रभृतिषु सर्ववायुधविशेषेषु रथचर्यासु, गजपृष्ठेषु, तुरङ्गमेषु, वीणा-वेणु-मुरज-कांस्यताल- दर्दुर-पुटप्रभृतिषु वाद्येषु, भरतादिप्रणीतेषु नृत्यशास्त्रेषु, नारदीयप्रभृतिषु गान्धर्ववेदविशेषेषु, हस्तिशिक्षायाम्, तुरगवयोज्ञाने, पुरुषलक्षणेषु, चित्रकर्मणि, यन्त्रच्छेद्ये, पुस्तकव्यापारे, लेख्यकर्मणि, सर्वासु द्यूतकलासु, गन्धशास्त्रेषु, शकुनिरुतज्ञाने, ग्रहगणिते, रत्नपरीक्षासु, दारु-
चन्द्रेति । राज्ञा नरपतिना तारापीडेन तथा नियन्त्रितः तेन प्रकारेण नियमितः, चन्द्रापीडोऽपि अनन्यहृदयतया विद्याध्ययन एवैकाग्रमनस्तया अचिरेणैव कालेन स्वल्पेनैव समयेन, यथास्वं यथार्थम् आत्मकौशलं विद्याग्रहणे स्वकीयचातुर्यं प्रकटयद्भिः स्फुटीकुर्वद्भिः, पात्रवशात् आधारवशात् चन्द्रापीडस्य तीक्ष्णबुद्धिसामर्थ्यादिना उत्कृष्टवशादित्यर्थः । उपजातोत्साहैः समुत्पन्नोत्साहैः आचार्यैः अध्यापकैः उप- दिश्यमानः शिक्षयमाणः सर्वा निखिला विद्या आन्वीक्षिकीत्यादयः जग्राह गृहीतवान् ।
मणीति । सकलः समस्तः कलाकलापः नृत्यगीतादिकलाविद्यासमुदायः, मणिदर्पण इव रत्नदर्श इव अतिनिर्मले अतिस्वच्छे तस्मिन् चन्द्रापीडे सञ्चक्राम अध्यापकैभ्यः सङ्क्रान्तो बभूव । अन्यविद्याभ्यः कलानां मार्दवतया पृथगुपन्यासः ।
प्रतिपादितमेव विषयं विशेषेण निरूपयति—तथाहीत्यादिना । पदं व्याकरणशास्त्रं तस्य हि केवल- पदसाधनार्थत्वात् तत्र । वाक्यं पूर्वोत्तरमीमांसायुगलं श्रुतिवाक्योपजीबित्वात् तत्र । प्रमाणं न्यायवैशेषि- कसांख्यपातञ्जलरूपम् आत्मनात्मनोः प्रमितिकरणत्वात् तत्र । धर्मशास्त्रं धर्मनिरूपणप्रधानं मन्वादि- निर्मितं शास्त्रं तत्र । राजनीतिषु शुक्रकामन्दकीप्रभृतिनिर्मितशास्त्रेषु । व्यायामः श्रमः तदर्थं या विद्या मल्ल्युद्धादिकाः तासु । चापं धनुः, चक्रं रथाङ्गम्, चर्म सन्नाहः, कृपाणः असिः, शक्तिः आयुधविशेषः, तोमरः प्रहरणविशेषः, परशुः कुठारः, गदा, एतत्प्रभृतिषु सर्वेषु निखिलेषु आयुधविशेषेषु अस्त्र- विशेषेषु रथचर्यासु रथारोहणेषु, गजपृष्ठेषु हस्तिनिरोधेषु, तुरङ्गमेषु, अश्वेषु, वीणा वल्लकी, वेणुर्वंशः, मुरजो मृदङ्गः, कांस्यताल तालम्, दर्दुरपुटं मण्डूकशब्दसदृशशब्दप्रामको वाद्यविशेषः एतत्प्रभृतिषु वाद्येषु आतोद्येषु । भरताद्यैस्तत्त्वविद्भिः तैः प्रणीतानि निर्मितानि नृत्यशास्त्राणि ताण्डवविधाननिरूपकग्रन्थाः तेषु । हस्तिशिक्षायां गजशिक्षायाम् । तुरगवयोज्ञाने अश्वावस्थाबोधे, पुरुषाणां लोकानां लक्षणेषु मापत्ति लक्तादिचिह्नेरेवाश्ववलोकननैपुण्यप्रतिबोधकसामुद्रिकशास्त्रेषु । चित्रकर्मणि आलेख्यविद्यायाम् । यन्त्रे दूरवीक्षणादियन्त्रेण छेद्ये परिच्छेत्तुं शक्ये ग्रहनक्षत्रादिनिश्चये इत्यर्थः । पुस्तकव्यापारे ग्रन्थरचनक्रियायाम् लेख्यकर्मणि अक्षरविन्यासे । सर्वासु निखिलासु द्यूतकलासु अक्षक्रीडादिरूपकलाशिक्षासु । गन्धशास्त्रेषु
चन्द्रापीड भी महाराज द्वारा इस प्रकार नियन्त्रित होकर, थोड़े समयके मध्येमें ही सभी विद्याओंको ग्रहण कर लिया, क्योंकि—आचार्यगण, चन्द्रापीड ऐसे सुपात्र शिष्य मिलनेके कारण अत्यन्त उत्साही होकर, अपनी- अपनी निपुणता प्रकट करते हुए शिक्षा दिये थे । मणिमय-दर्पणके समान अत्यन्त निर्मल चन्द्रापीडके हृदयमें नृत्यगीतादि समस्त कला-विद्याएँ भी शिक्षकगणसे संक्रान्त हुई थीं । अर्थात् व्याकरणमें, पूर्वमीमांसा और उत्तरमीमांसा में, न्याय और वैशेषिकादि दर्शनशास्त्रमें, स्मृतिशास्त्रमें, नीतिशास्त्रमें, व्यायामविद्या (मल्ल आदि) में, धनुष, चक्र, चर्म (ढाल), तलवार, शक्ति, तोमर (भाला), परशु (फरसा), और गदा आदि अनेक प्रकारके विशेष-विशेष आयुधोंमें, रथारोहण (रथ पर चढ़ने एवं हाँकने) में, हाथी पर चढ़नेमें, घोड़ेपर चढ़नेमें; वीणा, वंशी, दर्दुर, काँसा, मजीरे, तूरी आदि बाजोंमें, भरत आदिके बनाए हुए नाट्यशास्त्रमें, नारद आदिके बनाए हुए गान्धर्ववेद (गानकला) में, हस्तिशिक्षा में, घोड़ोंकी उम्र जानने में, सामुद्रिक शास्त्रमें, चित्रकर्ममें, दूरवीक्ष आदि यन्त्र द्वारा ग्रहनक्षत्रादि-निर्णय में, ग्रन्थरचनामें, नानाविध अक्षर-विन्यासमें, सब द्यूतकलाओंमें, गन्ध- द्रव्य-निर्माणमें, पक्षियोंका शब्द सुनकर शुभाशुभ निर्णयमें, ज्योतिषशास्त्रमें, रत्न-परीक्षा में, काठ द्वारा नानाविध
१. क्वचिद्रो राजा । २. क्वचिद् 'कालेन' इति न विद्यते । ३. उपदिश्यमानाः । ४. सर्वविद्याः । ५. ...वर्म्म । ६. तुरङ्गेषु । ७. नृत्यशास्त्रेषु । ८. ...ज्ञानेषु । ९. पत्रच्छेद्ये । १०. गन्धर्वशास्त्रेषु । क्वचित् 'सर्वासु द्यूतकलासु शकुनि' इत्येवमेव पाठः ।
| २३२ | कादम्बरी- | [ कथायाम्- |
|---|
कर्मणि, दन्तव्यापारे, वास्तुविद्यासु, आयुर्वेदे, मन्त्रप्रयोगे, विषापहरणे, सुरङ्गोपभेदे, तरणे, लङ्घने, प्लुतिषु, आरोहणे, रतितन्त्रेषु, इन्द्रजाले, कथासु, नाटकेषु, आख्यायिकासु, काव्येषु, महाभारत-पुराणेतिहास-रामायणेषु, सर्वलिपिसु, सर्वदेशभाषासु, सर्वसंज्ञासु, सर्वशिल्पेषु, छन्दःसु, अन्येष्वपि कलाविशेषेषु परं कौशलमवाप ।
सहजा चास्याजस्रम् अभ्यस्यतो वृकोदरस्येव शैशव एव आविर्बभूव सर्वलोक-विस्मयजननी महाप्राणता । यदृच्छया क्रीडताऽप्यनेन करतलालम्बित-कर्णपल्लवावनताङ्गाः सिंहकि-
गन्धद्रव्यरचनाविद्यासु । शकुनिरुतज्ञाने पक्षिशब्दानुसारेणेष्टानिष्टनिश्चायकशास्त्रे वसन्तराजशाकुनप्रभृतौ । ग्रहगणिते ज्योतिषशास्त्रे । रत्नपरीक्षासु मण्युपादानानुपादानकर्मसु । दारुकर्मणि काष्ठद्वारानेकविधवस्तुरचनायाम् दन्तव्यापारे गजदन्तद्वारानेकप्रकारशिल्परचनायाम् । वास्तुविद्यासु भवनोपवनादिप्रकारसूचकशास्त्रेषु । आयुर्वेदे वैद्यकशास्त्रे । मन्त्रप्रयोगे मन्त्रणाकरणे । विषापहरणे विषप्रतीकारे । 'सुरङ्ग' इति प्रसिद्धो गुप्तदीर्घमार्गः तस्य उपभेदे खननपूर्वकद्रचनायाम् । तरणे नद्यादौ सन्तरणे । लङ्घने वप्रादीनाम् । प्लुतिषु व्याघ्रादिभिर्मण्डलखेलायामुल्लम्फनेषु । आरोहणे तर्वाद्यौ । रतितन्त्रेषु वात्स्यायनप्रणीतकामशास्त्रेषु । इन्द्रजाले मायाकूटरचनायाम् कथासु बृहत्कथाकाव्येषु । नाटकेषु अभिनयात्मकेषु । आख्यायिकासु वासवदत्तादिकाव्यविशेषेषु । काव्येषु महाकाव्येषु रघुवंशादिषु । महाभारतम् पञ्चमो वेदः, पुराणानि
'मद्वयं भद्वयञ्चैव त्रद्वयं वचतुष्टयम् ।'
'इत्यादिलक्षिताष्टादशमार्कण्डेयादीनि, इतिहासाः पुरावृत्तानि कथासरित्सागरादीनि । रामायणं वाल्मीकीयमध्यात्मञ्च तेषु । यद्यपि काव्यान्तर्गता एव कथानाटकाख्यायिकादयः, तथेतिहासान्तर्गतेएव महाभारतरामायणे तथापि स्वाभिलषितप्राधान्यबोधनार्थं तेषु तेषां पृथगुपादानं गोवलीवर्द्दन्यायेनेति बोध्यम् । सर्वलिपिसु सर्वप्रकाराक्षरावगमेषु । सर्वसंज्ञासु हस्तनेत्रभङ्ग्यादिना समस्तविधप्रयोजनद्योतनासु । छन्दःसु आम्नायेषु पिङ्गलादिप्रणीतच्छन्दःशास्त्रेषु च । सर्वदेशभाषासु सर्वदेशवचनव्यापारेषु । सर्वशिल्पेषु निखिलविज्ञानेषु । अन्येष्वपि एतद्भन्नेष्वपि कलाविशेषेषु आकरज्ञानादिषु परम् उत्कृष्टं कौशलं दाक्ष्यम् अवाप प्राप्तवान् ।
सहजेति । किञ्चेत्यर्थे चकारः । अजस्रम् अनवरतम् अभ्यस्यतः मुहुर्मुहुरध्ययनेन शिष्टं गृह्णतः अस्य चन्द्रापीडस्य वृकोदरस्येव भीमस्येव, शैशव एव बाल्य एव सहजा स्वाभाविकी सर्वलोकविस्मयजननी समस्तजनाश्चर्यजनिका महाप्राणता अत्यन्तशारीरिकशक्तिः आविर्बभूव प्रकटीबभूव । 'वृकोदरस्येव' इत्यत्रोपमा ।
यदृच्छयेति । यदृच्छया क्रीडताऽपि केलिं विदधताऽपि अनेन चन्द्रापीडेन करतलाभ्यां पाणि-तलाभ्याम् अवलम्बितौ आकृष्य गृहीतौ यौ कर्णपल्लवौ श्रवणकिसलयौ ताभ्याम् अवनतानि नम्राणि अङ्गानि अवयवा येषां ते तथोक्ताः, सिंहकिशोरकेन केसरिशिशुना क्रमाभ्यां चरणाभ्याम् आक्रान्ता इव
वस्तु-निर्माणमें, हाथीके दाँतके द्वारा नानाविध वस्तु-निर्माणमें, वास्तु-विद्यामें, आयुर्वेदमें, मन्त्रणा-करणमें, विष-चिकित्सा (उतारने) में, सुरङ्ग निर्माणमें, तैरनेमें, लाँघनेमें, उछलने-कूदनेमें, चढ़नेमें, रतिशास्त्र (वात्स्यायनादिसूत्र) में, इन्द्रजाल विद्या (जादू) में, कथाओंमें, नाटकोंमें, कहानियोंमें, काव्योंमें, महाभारतमें, पुराणमें, इतिहासमें, रामायणमें, सभी प्रकारके अक्षर परिचयमें, सब देशोंकी भाषाओंके ज्ञानमें, सब पारिभाषिक सङ्केतोंमें, सर्वविध शिल्पकर्ममें, छन्दः शास्त्रोंमें और ऐसी-ऐसी अन्य कितनी ही कलाओंमें चन्द्रापीडने अत्यन्त निपुणता प्राप्त की थी ।
प्रतिदिन व्यायाम करनेसे बाल्यावस्था में ही सब लोगोंको विस्मय उत्पन्न कराती, भीमसेनके समान, प्राकृतिक महावीरता (अत्यन्त दैहिक बल) प्रकट हो गई । चन्द्रापीड अपने इच्छानुसार खेल करते २ जिस समय हाथियोंके बच्चोंके कान हाथसे पकड़ कर आसानीसे उन्हें झुका देता था उस समय वे जैसे सिंहके बच्चेकी झपटमें
१. यन्त्रप्रयोगे । २. क्वचित् 'आरोहणे, रतितन्त्रेषु' इति पाठो न विद्यते । ३. शिल्पेषु । ४. सहजाश्रमम्... अस्य मम । ५. शैशवमेव । ६. क्वचित् 'सर्व' इति पदं नास्ति । ७. '...लम्बित, आकुञ्चित'... ।
चन्द्रापीडयौवनारम्भव०–२२ ] चन्द्रकला-विद्योतिनीसहिता । २३३
शोरेःक्रमाक्रान्ता इव गजकलभाश्चलितुमपि न शेकुः। एकेकेन कृपाणप्रहारेण तालतरून् मृणालदण्डानिव लुलाव। सकल-राजन्य-वंश-वन-दावानलस्य परशुरामस्येवास्य नाराचाः शिखरिशिलातलभिदो बभूवुः। दश-पुरुष-संवाहनयोग्थेन चायोदण्डेन श्रममकरोत् । ऋते च महाप्राणतायाः सर्वाभिरन्याभिर्विद्याभिः अनुचकार तं वैशम्पायनः। चन्द्रापीडस्य तु सकल-कलाकलाप-परिचय-बहुमानेन शुकनास-गौरवेण सहपांशुकीडनया सहसंवृद्धतया च सर्वविस्रम्भस्थानं द्वितीयमिव हृदयं वैशम्पायनः परं मित्रमासीत् । निमेषमपि तेन विना
पीडिता इव सन्तः चलितुमपि इतस्ततो गन्तुमपि न शेकुः न शक्ता बभूवुः किं पुनः प्रहत्तुंमित्याशयः। इह 'आक्रान्ता इव' इति क्रियोत्प्रेक्षा।
एकेकेनेति । कृपाणप्रहारेण खड्गस्याघातेन तालतरून् तालवृक्षान् मृणालदण्डानिव नलिनदण्डा-निव लुलाव चिच्छेद । उपमा ।
सकलेति । सकलाः समस्ताः राजन्यवंशाः क्षत्रियकुलान्येव वंशाः कीचकाः तेषां वनस्य सदृश्य दावानलः अरण्याग्निः तस्य निखिलराजन्यविनाशकारिण इत्यर्थः, परशुरामस्येव जामदग्न्यस्येव यस्य चन्द्रापीडस्य नाराचा अयॊमयवाणाः । शिखरिशिलातलभिदः पर्वतपाषाणविदारिणः बभूवुः अभूवन् ।
इह 'परशुरामस्येव' इत्युपमा सा च 'सकलराजन्यवंशवनदावानलस्य' इत्यत्र प्रतिपादित-श्लिष्ट-परम्परितरूपकेण सङ्कीर्णा ।
दशेति । दशपुरुषैः दशसंख्याकजनैः संवाहनयोग्थेन उत्थापनोचितेन अयोदण्डेन लौहमुद्गरेण श्रमं व्यायामम् अकरोत् कृतवान् ।
ऋत इति । महाप्राणताया अतिशक्तिमत्त्वात् ऋते विना 'अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहि-युक्त' इति सूत्रेण पञ्चमी । अन्याभिः अपराभिः सर्वाभिः समस्ताभिः विद्याभिः आन्वीक्षिक्यादिभिः वैशम्पायनः मन्त्रिसुतः तं कुमारम् अनुचकार । चन्द्रापीडतुल्यो ज्ञानवानभूदित्यर्थः । वैशम्पायनस्य ब्राह्म-णात्मजत्वात् महाप्राणता तत्र नापेक्षितेत्याशयः ।
चन्द्रेति । सकलाः समस्ता याः कला विद्याः तासां कलापः समूहः तत्र परिचयेन विशेषज्ञान-प्राप्त्येन यो बहुमानः सत्कारः तेनः शुकनासगौरवेण शुकनासं प्रति पूज्यत्वभावनया, सहपांशुकीडनया एकत्रस्मिन् स्थले धूलिखेलनया, सह संवृद्धतया एकत्र वृद्धिसुपगततया च निमित्तेन, वैशम्पायनः चन्द्रापीडस्य द्वितीयमपरं हृदयं चित्तमिव सर्वविस्रम्भस्थानं समस्तविश्वासपात्रम् , परमुरुकृष्टं मित्रं सुहृद् आसीत् अभूत् । इह 'द्वितीयं हृदयमिव' इत्यत्र द्रव्योत्प्रेक्षा ।
निमेषमिति । निमेषमपि लवद्वयमपि एकाकी तेन वैशम्पायनेन विना स्थातुं वर्तितुं न शशाक न समर्थो बभूव । वैशम्पायनोऽपि वासरो दिवसः उष्णकरं सूर्यमिव तं चन्द्रापीडम् अनुगच्छन् अनुव्रजन्
आ गये हों उसी तरह मानो थोड़ा सा भी हिल नहीं सकते थे। वह तलवारकी एक-एक चोटसे तालवृक्षों को मृणाल-दण्डके समान काट डालता था। समस्त क्षत्रिय-रूपी बाँसोंके वनकी अग्निरूप-परशुरामके बाणोंके समान उसके लौहमय बाण पर्वतोंकी चट्टानोंको छेद डालते थे। [ राजा कार्त्तवीर्यके एक हजार भुजाएँ थीं। एक बार वह जमदग्निके आश्रममें गया। उस समय जमदग्नि या उसके लड़के नहीं थे इसलिए जमदग्निकी स्त्रीने उसका आतिथ्य सत्कार किया। वहाँ से चलनेके समय राजा ऋषि की गौ साथमें ले गया और अपने भुजाओंके गर्वमें उसने आश्र-मके कतिपय वृक्षोंको तोड़ डाला। कुछ देरके बाद अपने आश्रममें जब जमदग्निपुत्र परशुरामजी आए तो वहाँ की छिन्न-भिन्न दशा देखकर उन्हें बहुत क्रोध आया और उन्होंने कार्त्तवीर्यकी राजधानीमें जाकर उसे मार डाला। उसके बाद कार्त्तवीर्यके पुत्रोंने प्रतिशोधकी दृष्टिसे परशुरामकी अनुपस्थितिमें आश्रम पर आक्रमण किया और उनके पिताको मार डाला। परशुरामको जब समाचार मिला तब उन्होंने प्रतिज्ञा की– 'हम कार्त्तवीर्यके पुत्रोंके साथ क्षत्रिय कुलका सहार करेंगे।' इसीते बादमें परशुरामने इक्कीस बार क्षत्रियोंका संहार किया। [ जिस मुगदरको दश पुरुष मिलकर उठा सकें ऐसे लोहेके मुगदरसे वह व्यायाम करता था। अत्यन्त शारीरिक बलके अतिरिक्त अन्य सभी विद्याओंमें वैशम्पायन उनका अनुकरण करता था। समस्त विद्याओंमें विशेष ज्ञान-प्राप्ति करनेते अपने उस सम्मान से, पिता शुकनासके प्रति गौरवते, एक साथ धूलमें खेल करनेसे एवं एक जगह रहकर वर्धित होनेसे वैशम्पायन, चन्द्रापीडका द्वितीय हृदयके समान सभी प्रकारके विश्वासका पात्र परममित्र था। चन्द्रापीड एक क्षण भी
१. सिंहकिशोर...। २. क्वचित् 'बालु एव' इत्यधिकः पाठो विद्यते। ३. कलाभिः ।
१५ का०
| २३४ | कादम्बरी— | [ कथामुखम् |
|---|
स्थातुमेकाकी न शशाक। वैशम्पायनोऽपि तमुष्णकरमिव वासरोऽनुगच्छन्न¹ क्षणमपि विरह- चाञ्चकार। एवं तस्य सर्वविद्यापरिचयमाचरतश्चन्द्रापीडस्य त्रिभुवनविलोभनीयोऽमृतरस इव सागरस्य, सकल-लोक-हृदय-नयनानन्द²-जननश्चन्द्रोदय इव प्रदोषस्य, बहुविध-राग-विकार-भङ्गुरः सुरधनुःकलाप इव जलधरसमयस्य, मकरध्वजायुधभूतः कुसुमप्रसव इव कल्पपादपस्य, अभिनवाभिव्यज्यमान-रागरमणीयः सूर्योदय इव कमलवनस्य, विविध-लास्य-विलास-योग्यः कलाप इव शिखण्डिनो यौवनारम्भः प्रादुर्भवन् रमणीयस्यापि द्विगुणां रमणीयतां पुपोष। लब्धावसरः सेवक इव³ निकटवर्तीभूवास्य मन्मथः। लक्ष्म्या सह वितस्तार वक्षः-
क्षणमपि त्रिंशत्कळारूपमपि अचिरचन्दनमात्रमपीत्यर्थः। न विरहयाञ्चकार न तत्याज। चौरादिकाद्विहेर्लिटि रूपम्। इह 'उष्णकरमिव' इत्यनेन पूर्णोपमा।
एवमिति। एवं पूर्वोक्तविधिना सर्वविद्यापरिचयं निखिलविद्याभ्यासम् आचरतो विदधतः तस्य चन्द्रापीडस्य सागरस्य समुद्रस्य अमृतरसः सुधार्द्रव इव, त्रिभुवनं त्रिलोकीं विलोभयति विशेषेण मोहयतीति स तादृशः, लद्गिमस्य 'यौवनारम्भस्य' विशेषणमेतत्। एवमग्रेऽपि। प्रदोषस्य रजनीमुखस्य चन्द्रोदयः चन्द्रोद्गम इव, सकललोकानां समस्तजनानां हृदयानन्दजननः स्वान्तप्रमोदोत्पादकः। जलधरसमयस्य वर्षाकालस्य, सुरधनुःकलाप इव शक्रचापसमूह इव बहुविधा अनेकप्रकारा रागविकाराः विषयेच्छाल्परविकाराः नीलपीतादिरञ्जनवर्गसम्मेलनानि च यत्र स तादृशः, तथा भङ्गुरो विनाशशीलः। अनयोश्च कर्मधारयसमासः। कल्पपादपस्य पारिजातस्य कुसुमप्रसव इव पुष्पोद्गम इव मकरध्वजस्य कन्दर्पस्य आयुधभूतः शस्त्ररूपः स्थलद्वयेऽपि मन्मथव्यथोत्पादनादित्याशयः। कमलवनस्य पद्मकाननस्य सूर्योदय इव, अभिनवो नूतनोऽभिव्यज्यमान आविर्भवन् यो रागः सुन्दरीष्वनुरागः लौहित्यञ्च तेन रमणीयो मनोहरः। तथा शिखण्डिनो मयूरस्य कलापः पुच्छभाग इव, विविधानाम् अनेकप्रकाराणां लास्यानां नृत्यानांमिव विलासानां 'धीरा दृष्टिर्गतिश्चित्रा विलासे सस्मितं वचः' इति प्रतिपादितस्वरूपाणां विभ्रमाणां योग्यो जनने समर्थः। यौवनारम्भः बाल्यात्परं वयस उद्गमः प्रादुर्भवन् प्रकाशीभवन् रमणीयस्यापि मनोहरस्यापि द्विगुणां पूर्वतो द्विभागाधिकां रमणीयतां पुपोष बभार। इह मालोपमा पूर्णा।
लब्धेति। मन्मथः कामदेवः सेवक इव पादसंवाहनाधिकारको भृत्य इव लब्धावसरो यौवनारम्भादन्यजन्यजनापसरणाच्च प्राप्तावकाशः सन् अस्य चन्द्रापीडस्य निकटीबभूव समीपवर्त्यभूत्। एतेन चन्द्रापीडस्य कामाधीनत्वं नेति व्यज्यते। इह च पूर्णोपमा।
लक्ष्म्येति। लक्ष्म्या शरीरकान्त्या सह वक्षःस्थलं भुजान्तरस्थलं वितस्तार विशालं बभूव!
वैशम्पायनके बिना अकेला नहीं रह सकता था। एवं दिन जिस प्रकार सूर्यका अनुगमन करता है और क्षणकाल भी उससे पृथक् नहीं होता है, उसी प्रकार वैशम्पायन भी चन्द्रापीडका अनुगमन करता हुआ क्षण भर भी उससे पृथक् नहीं होता था।
जब चन्द्रापीड इस प्रकार समस्त विद्याओं का अभ्यास कर रहा था, तब उसमें यौवनारम्भ दिखाई देने लगा। वह नव यौवन, समुद्रके अमृतरसके समान समस्त संसारका लोभनक, प्रदोषकालके चन्द्रोदयके समान सर्व लोगोंके हृदय और नयनको आनन्द देनेवाला, वर्षाकालके इन्द्रधनुषके समान नानाविध विकार-समन्वित (यौवनारम्भ विषयाभिलाषरूप अनेक भावोंके विकारसे, पक्षान्तरमें नील-पीतादि अनेक प्रकारके रंगोंके विकारसे) अचिरस्थायी, कल्पवृक्षके पुष्पविकासके समान कामदेवका अस्त्रस्वरूप, कमल-वनके सूर्योदयके समान अभिनव प्रकाशमान रागसे (रमणीके प्रति अनुरागसे, पक्षान्तरमें—रक्तत्वसे) रमणीय एवं मयूरके पंखोंके समान नृत्यतुल्य विविध विलासके उपयोगी था। और चन्द्रापीडके स्वभावसे ही सुन्दर होने पर भी नव यौवनसे उसका सौन्दर्य दूना बढ़ गया था। ऐसे समयमें शुश्रूषाकारी सेवकके समान कामदेव, अवसर पाकर उसके समीप आने लगा। और उस समयमें चन्द्रापीडके शरीर-सौन्दर्यके साथ-साथ वक्षःस्थल (छाती) विस्तार पाने लगा। बन्धुजनोंके
१. गच्छन् क्षण...। २. ...हृदयानन्द...। ३. मनुसेवकः दवतोऽकः।
राजाज्ञानिवेदनम्-२३ ] चन्द्रकला-विद्योतिनीसहिता । [ २३५
स्थलम् । बन्धुजनमनोरथैः सहापूर्यतोकूदण्डद्वयम् । अरिजनेन सह तनिमानमभजत मध्य- भागः । त्यागेन सह प्रथिमानमाततान नितम्बभागः । प्रतापेन सहारुरोह रोमराजिः । अहित-कलत्रालक-लताभिः सह प्रलम्बतामुपययौ भुजयुगलम् । चरितेन सह धवलतामभ- जत लोचनयुगलम् । आज्ञया सह गुर्वभवद् भुजशिखरदेशः । स्वरेण सह गम्भीरतामाज- गाम हृदयम् ।
एवञ्च$^२$ क्रमेण समारूढयौवनारम्भं परिसमाप्त-सकैल-कला-विज्ञानमधीताशेषविद्यञ्चा- वगम्यानुमोदितमाचार्यैश्चन्द्रापीडमानेतुं राजा बलाधिकृतं वलाहकनामानमाहूय बहु-तुरग- बल-पदाति-परिवृतमतिप्रशस्तेऽहनि प्राहिणोत् । स गत्वा विद्यागृहं द्वारपैः$^५$ समावेदितः
बन्धुजनानां कुटुम्बलोकानां मनोरथैः 'कदा चन्द्रापीडो युवा भविष्यति' इत्थं वाञ्छितैः सह ऊरुदण्डद्वयं सक्थियुगलम् अपूर्यत पूर्णं बभूव । मध्यभागः कटिप्रदेशः अरिजनेन शत्रुवर्गेण सह तनिमानं कृशत्वम् अभजत आश्रयत् । त्यागेन दानेन सह नितम्बभागः आरोहप्रदेशः प्रथिमानं विशालताम् आततान प्राप । नचात्र नेयार्थत्वप्रसक्तिः धातूनामनेकार्थत्वात् । प्रतापेन कोशदण्डप्रसवतेजसा सह रोमराजिः तनूरुहपङ्क्तिः आरुरोह आरूढा बभूव । अहितकलत्राणां वैरिबनितानाम् अलकलताभिः लतावल्लग्नमान- चूर्णकुन्तलैः सह भुजयुगलं बाहुद्वयं प्रलम्बतां दीर्घतां लम्बितताञ्च ( भाविस्वामिविरलेषेण असंयमनात् ) उपययौ प्राप । चरितेन आचारेण सह लोचनयुगलं नेत्रद्वयं धवलतां बाल्यचापल्यदोषशून्यत्वं स्वच्छ- त्वञ्च अभजत प्राप्तद् । आज्ञया निर्देशेन सह. भुजशिखरदेशः स्कन्धप्रदेशः गुरुः विशालः पक्षे गौरव- -वाहिनी सर्वेषां शिरोधार्येत्यर्थः । स्वरेण शब्देन सह गम्भीरतां मन्द्रत्वं धीरत्वञ्च हृदयं मनः आजगाम अगमत् । इह सर्वत्र सहोक्तिरलङ्कारः ।
एवञ्चेति । एवं पूर्वोक्तविधिना । राजा तारापीडः । समारूढः समुत्पन्नः यौवनारम्भः तारुण्योदयो यस्य तं तादृशम् , परिसमाप्तं सर्वतः सम्पूर्ण सकलानां समस्तानां कलानां नृत्यगीतादीनां विज्ञानम् अध्ययनेन ज्ञानप्राप्तिर्यस्य तं तादृशम्, अधीताः शिक्षिता अशेषाः समग्रा विद्या आन्वीक्षिक्ष्यादयः येन तं तादृशम् , आचार्यैः अध्यापकैः अनुमोदितं गन्तुमनुज्ञातं चन्द्रापीडं निजात्मजम् आनेतुम् आन- यनाय वलाधिकृतं सेनाधिपतिं वलाहकनामानं वलाहकसंज्ञकम् आहूय आह्वानं कृत्वा, बहुभिः अनेकैः तुरगबलैः अश्वारोहिसैनिकैः पदातिभिश्च सैनिकैः परिवृतं परिवेष्टितम् अतिप्रशस्ते अतिशोभने दिवसे दिने प्राहिणोत् प्रेषयामास ।
स इति । स वलाहको विद्यागृहं विद्यामन्दिरं गत्वा प्राप्य द्वारपैः द्वारपालैः समावेदितः स्वनिकटे आगन्तुं राजपुत्रस्यादेशो जात इति निवेदितः सन् प्रविश्य प्रवेशं विधाय, क्षितितले वसुधापीठे विल-
मनोरथोंके साथ साथ जंघाएं पूर्ण होने लगीं । शत्रुओंके साथ-साथ मध्यभाग पतला होने लगा । दान-शक्तिके साथ-साथ नितम्बदेश विस्तृत होने लगा । प्रतापके साथ-साथ रोम-राजि उत्पन्न होने लगी । शत्रुओंकी स्त्रियोंके बालोंकी लटोंके साथ-साथ बाहुयुगल दीर्घता प्राप्त करने ( नीचे को लटकने ) लगे । ( अर्थात् शत्रुओंकी स्त्रियोंने अपने पतियोंके विनाशके डरसे अपनी चोटियाँ गूंथना छोड़ दी थीं, उनकी चोटियाँ नीचे की तरफ लम्बी लटका करतीं थीं ) । चरित्रके साथ-साथ नयनयुगल निर्मल होने लगे । आज्ञाके साथ-साथ स्कन्धदेश ( बाहुका ऊपरी भाग ) विस्तृत होने लगा, एवं कण्ठ-स्वरके साथ-साथ हृदयमें गम्भीरता आने लगी ।
चन्द्रापीडका यौवन-समय उपस्थित है, उसकी समस्त शिल्प-कलाओंकी शिक्षाएँ समाप्त हो गई हैं, एवं अन्य समस्त विद्याओंका अध्ययन करना हो गया है, और विद्यालयसे जानेके लिए, आचार्योंने अपनी-अपनी अनुमति दे दी है, उनसे ऐसा जानकर राजा तारापीडने-चन्द्रापीडको बुलानेके लिए, वलाहक नामक सेनापतिको बुला कर, अधिकतर घुड़सवार और पैदल-सेनाओंके साथ अतिप्रशस्त दिनमें विद्यालय भेजा । वलाहक विद्यालय जाकर उपस्थित हुआ । उसके बाद द्वारपालोंने राजपुत्रके पास जाकर वहाँ से अनुमति मिलनेके बाद लौट कर सूचित किया कि—'राजपुत्रने आपको प्रवेश करनेकी अनुमति दी है'। बाद वलाहकने अन्दर घुस कर मस्तक अवनत
१. शिखरदेशः । २. क्वचिद् चकारो नास्ति । ३. समग्र । ४. वृहद्••• । ५. द्वारस्थैः ।