भारतकोश
संग्रह पर लौटें

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

शुकनासपुत्रजन्मोत्सव०-२० ] चन्द्रकला-विद्योतिनीसहिता । २२७

दृष्ट-पाटितोत्तरीयांशुकेन, श्रमजल-धौताङ्गराग-रञ्जित-चीनवाससा, किञ्चिदवशिष्ट-तमाल-पत्रेण, विलसद्वारविलासिनीहसितेनेन्दिरे-कैरव-वनानुकारं प्रथयता,;सरभसवल्गन-स्खलल्लोल-हारलतास्फालित-कुचस्थलेन, सिन्दूर-तिलक-लुलितालक-लेखेन, विप्रकीर्णपिष्टातक-पांशु-पुञ्ज-पिञ्जरित-केशपाशेन, प्रनृत्यै-विकल-मूक-कुब्ज-किरात-वामन-बधिर-जड-जन-पुरःसरेण, उत्तरीयांशुक-ग्रीवावयद्भावकृष्ट-विडम्बित-जरत्कञ्चुकि-कदम्बकेन, वीणा-वेणु-मुरज-कांस्यता-ललयानुरतेन, कल-मधुरमुद्गायता, हर्षनिर्भरतया मत्तेनेव उन्मत्तेनेव ग्रहगृहीतेनेव व्यपगत-

श्रमेति । श्रमजलैः धर्मसलिलैः धौताः क्षालिता ये अङ्गरागाः कुङ्कुमादीनि अङ्गविलेपनानि तै रञ्जितानि चीनवासांसि सूक्ष्मवस्त्राणि यस्य तेन तादृशेन । 'चीनो देशांशुकेऽहिभेदे तन्तौ मृगान्तरे' इति मेदिनी ।

विलसिदिति । विलसन्त्यः सविलासं व्रजन्त्यो या वारविलासिन्यो गणिकाः तासां हसितैः हासैः उद्भिदस्य प्रस्फुटितस्य कैरववनस्य कुमुदविपिनस्य अनुकारम् अनुकरणं प्रथयता प्रकटयता 'यशसि धवलता वर्ण्यते हासकीर्त्योः' इति कविसमयख्यातेः हास्यस्य शुभ्रत्वादित्याशयः ।

सरभसेति । सरभसं वेगसहितं यत् वल्गनम् आस्फालनं परस्परमङ्गानामामोटनं तेन स्खलन्तीभिः स्वस्थानात् च्यवन्तीभिः लोलाभिः चञ्चलाभिः हारलताभिः मुक्तालताभिः आस्फालितमाहतं कुचस्थलं स्तनप्रदेशो यस्य तेन तथोक्तेन ।

सिन्दूरेति । सिन्दूरतिलकेषु रागप्रजनितविशेषकेषु लुलिता आकाशसम्भ्रमात् लुण्ठिता अलक-रेखा चूर्णकुन्तलपङ्क्तिर्यस्य तेन तादृशेन ।

विप्रेति । विप्रकीर्णाः विक्षिप्ताः पिष्टातकाः पटवासाः तेषां पांशुपुञ्जैः चूर्णसमूहैः पिञ्जरिताः पीत-रक्तानां प्राप्ताः केशपाशाः कचसमूहा यस्य तेन तादृशेन ।

प्रनृत्यैति । प्रनृत्येन विशेषनर्तनेन विकला व्यग्राः, मूका अस्फुटवाचः, कुब्जाः पूर्वप्रदर्शिताः, किराताः स्वल्पतनवः, वामनाः ह्रस्वदेहाः, बधिरा अकर्णाः, जडा अत्यन्तदुर्बोधाश्च लोकाः पुरस्सरा अग्र-गामिनो यस्य तेन तादृशेन ।

उत्तरीयेति । उत्तरीयांशुकैः तत्तदच्छादनवस्त्रैः ग्रीवासु कन्धरासु प्रथमं बद्धं समीरणप्रेरणया यदृच्छया संयमितम्, ततश्च अवकृष्टं प्रमोद्विह्वलतया तद्रम्रादेन गतिजवाद् आकृष्टम्, अत एव विडम्बितं बलाद्धरणेन पृथिव्यां पातनोपक्रमेण च व्यग्रीकृतं जरतां परिणतवयसां कञ्चुकिनाम् अन्तःपुर-चरदासगणानां कदम्बकं समुदायो येन तादृशेन ।

वीणेति । वीणा वल्लकी, वेणुर्वंशः, मुरजो मृदङ्गः, कांस्यतालं करतालं तेषां लये ध्वनिसाम्यं तदनु-गतेन तदनुसारचलितेन ।

कलेति । कलम् अव्यक्तं मधुरञ्च यथा स्यात्तथा उद्गायता उच्चैःस्वरेण गानं विदधता ।

हर्षेति । हर्षनिर्भरतया प्रमोदातिशयत्या मत्तेनेव सुरापानजनितमत्ततासहितेनेव, उन्मत्तेनेव उन्मादव्याधिग्रस्तेनेव, तथा ग्रहगृहीतेनेव भूताविष्टेन पुरुषेणेव व्यपगतो विनष्टः वाच्यावाच्ययोः प्रति-


अङ्गराग अवशिष्ट थे। वे सविलास-गामिनी वेश्याओंके हास्यसे खिले हुए कमल-वनके अनुकरणको प्रकाश करती थीं। वेगसे आन्दोलन होनेके कारण स्वस्थानच्युत चञ्चल हार-लता द्वारा उनके स्तनमण्डल ताड़ित हो रहे थे। सिन्दूरकी बिन्दीमें उनके बालोंकी लटें चिपक गई थीं। पटवासका चूर्ण उड़ानेसे केशकलाप पीले-नीले हो गये थे। गूँगे, कूबड़े, बहरे, किरात, बौने और मूर्ख उद्धत नृत्यसे विह्वल होकर उनके आगे-आगे जाते थे। किसी-किसी स्त्रीके उत्तरीयवस्त्र (दुपट्टा) किसी-किसी वृद्ध कञ्चुकीके गर्दनमें फँस जानेपर उसके खींचनेपर वे कञ्चुकिगण अत्यन्त विडम्बना पाते थे। वे वीणा, बंशी, मृदङ्ग, काँसा और मजीरोंके लयके अनुसार पाँव फेंक कर जाती थीं। उच्चैःस्वरसे अस्पष्ट (धीमी) और मधुर गान करती थीं। आनन्दमें मग्न होनेसे किसी समय


१. स्वच्छचीन, चीरवाससा। २. दलन् । ३. ॰॰॰लोलितालक॰॰॰। ४. क्वचिद् 'पांशु' इति पदं नास्ति । ५. प्रनृत्यत्क॰॰॰, प्रनृत्यद्विकल...। ६. ॰॰॰विम्बित। ७. कदम्बेन। ८. ॰॰॰अनुपादेन। ९. सगदगदः।

२२८कादम्बरी-[ कथायाम्-

वाच्यावाच्यविवेकेने^१ नृत्य-गीत^२-क्रीडा-प्रसक्तेनान्तःपुरिकाजनेन, प्रचलन्^३-मणिकुण्डलाहत^४-कपोलभित्तिना च विघूर्णमानकर्णोत्पलेनाधोगलित^५-विलोले-शेखरेण दोलायमान-वैकक्षक^६-कुसु-ममालेन निर्दय-प्रहत-भेरी-मृदङ्ग-मर्दल-पटह-निनादानुगत-काहल^७-शङ्ख-रव-जनित-रभसेन चरण-सन्निपातैर्दारयतेव^८ वसुधां^९ राजपरिजनेन, प्रवृत्तनृत्येन^१० च चारणगणेन विविधमुख-वाद्य-^११कृतकोलाहलेन पठता गायता वल्गता^१२ चानुगम्यमानः शुकनासभवनं गत्वा द्विगुण-तरमुत्सवमकारयत् ।

अतिक्रान्ते च षष्ठीजागरे, प्राप्ते दशमेऽहनि, पुण्ये मुहूर्त्ते गाः सुवर्णञ्च कोटिशो

वाच्याप्रतिपाद्ययोः विवेको विवेचनं पृथगात्मता यस्य तेन तादृशेन वाच्यमपि प्रतिपादयता अवाच्यम-श्लीलादिकमपि प्रतिपाद्येतेत्यर्थः । नृत्यं नर्त्तनं गीतं गानं क्रीडा विनोदः तेषु प्रसक्तेन संलग्नेन अन्तः-पुरिकाजनेन अन्तःपुरस्थसुन्दरीवृन्देन ।

प्रचलितेति । अधुना 'राजपरिजनेन' इत्यस्य विशेषणानि प्रतिपादयति—प्रचलितेत्यादिना । प्रचलितैः सञ्चलितैः मणिकुण्डलैः रत्नकर्णाभरणैः आहताः ताडिताः कपोलभित्तयो गण्डस्थलानि यस्य तेन तादृशेन । विघूर्णमानानि आन्दोलितानि कर्णोत्पलानि श्रवणपद्मानि यस्य तेन तादृशेन । अधोगलिताः पृथिव्यां प्रच्युताः विलोलाः चपलाः शेखराः शिरोऽवतंसा यस्य तेन तादृशेन । दोलायमानाः कम्पमानाः वैकक्षकाणां तिर्यग्गलम्बितवक्षःस्थानां कुसुममालाः पुष्पमाला यस्य तेन तादृशेन । निर्दयम् अत्यन्तं यथा स्यात्तथा प्रहताः वादिता ये भेर्यो मृदङ्गा मर्दला वाद्यविशेषाः पटहाः ढक्काश्च तेषां निनादैः शब्दैः अनुगताः तन्मिश्रिता ये काहलानां विस्तृतढक्कानां कम्बूनाञ्च रवाः तैर्जनितो निष्पादितो रभस आनन्दो यस्य तेन तादृशेन । चरणसन्निपातैः पादविक्षेपैः वसुधां पृथिवीं दारयतेव विदीर्णां कुर्वतेव राजपरिजनेन नृपपरिवारेण ।

इह 'चरणविघट्टनकणितनूपुरसहजमुखरितदिगन्तरेण' इत्यत्र दिगन्तराणां मुखरीकरण-सम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिः । 'दर्शयतेव' इत्यत्र क्रियोत्प्रेक्षा । '...कैरववनानुकारम्' इत्यत्रोपमार्थी । 'उत्तरीयांशुक...कञ्चुकिकदम्बकेन' इत्यत्र हि स्वभावोक्तिः । 'मत्तेनेव, उन्मत्तेनेव, ग्रहगृहीतेनेव, इत्येतेषु च मालोपमा, उत्प्रेक्षा वा । 'दारयतेव' इत्यत्र क्रियोत्प्रेक्षा ।

प्रवृत्तेति । प्रवृत्तं जातं नृत्य नर्त्तनं यस्य तेन तादृशेन, विविधैः नानाप्रकारैः मुखवाद्यैः मुखद्वाराऽ-व्यक्तध्वनिनिस्तारणैः कृतो विहितः कोलाहलः कलकलो येन तेन तादृशेन, पठता उच्चैः स्वरेण राजस्तुतिं कुर्वता, गायता गानं विदधता, वल्गता उल्लम्फनं प्रलम्फनञ्च विदधता चारणगणेन च कुशीलववृन्देन च अनुगम्यमानः अनुव्रज्यमानः 'चारणास्तु कुशीलवाः' इत्यमरः । शुकनासभवनं प्रधानामात्यगृहं गत्वा द्विगुणतरं स्वस्मादतिशयेन द्विगुणम् उत्सवम् अकारयत् कारयामास ।

अतिक्रान्त इति । अतिक्रान्ते व्यतीते च षष्ठीजागरे षष्ठीरात्रिकृत्ये, जागरणे, दशमेऽहनि जन्मावधि दशमे दिने प्राप्ते उपगते सति, पुण्ये पवित्रे मुहूर्त्ते वेलायां गाः सुरभीः कोटिशः कोटिसंख्याकाः सुवर्ण


मदमत्तके समान, किसी समय उन्मत्तके समान एवं किसी समय ग्रह-ग्रस्तके समान होकर वाच्यकथा भी बोलती थीं, अवाच्य कथा भी बोलती थीं एव नृत्य, गीत और क्रीडामें व्यापृत होकर चलती थीं ।

राजाके परिजन वर्ग भी उनके पीछे-पीछे चल रहे थे । उन लोगोंके मणिमय कुण्डल हिल-हिल कर सुन्दर गालोंपर टकराते थे; कर्णोत्पल झूल रहे थे; मस्तकके आभूषण खिसक-खिसक कर नीचे ( पृथिवीमें ) गिर जाते थे; जनेऊ की तरह छाती पर पहनी गई फूलोंकी मालाएं दोलायमान हो रही थीं; अत्यन्त ताड़न करने ( बजने ) से भेरी, मृदङ्ग, ढोल और नगाड़ेके शब्दके साथ बड़े-बड़े ढोलों और शङ्खोंके शब्दसे उन लोगोंको आनन्द उत्पन्न हुआ और वे अपने चरण-निक्षेपसे पृथिवीको मानो विदीर्ण करते थे । चारण-गण भी राजाके पीछे-पीछे जाते थे, उन लोगोंके मध्यमें कितने नृत्य करते थे, कितने नानाविध मुखवाद्यसे कोलाहल करते थे, कितने राजस्तुति पाठ करते थे, कितने गान करते थे एवं कितने उल्लङ्घन-प्रलङ्घन करते-करते जाते थे ।

छठी रात्रिके कृत्य हो जानेके बाद दशवें दिन प्राप्त होने पर शुभ मुहूर्त्तमें राजा करोड़ों गाय और सुवर्ण


१. विवेकेनेव ।
२. क्वचिद् 'गीत' इति पदं नास्ति ।
३. प्रचल... ।
४. उद्घट्टित... ।
५. विगलित... ।
६. वैकक्षिक..., दैकक्ष ।
७. काहला... ।
८. विदारयतेव ।
९. वसुन्धराम् ।
१०. नृत्ते प्रवृत्त ।
११. विविधवाद्य ।
१२. गायता चानुगम्यमानः ।

चन्द्रापीडस्य शिक्षावर्ण०-२१ ]चन्द्रकला-विद्योतिनीसहिता ।२२६

ब्राह्मणसात्कृत्य 'मातुरस्य मया परिपूर्णमण्डलश्चन्द्रः स्वप्ने मुखकमलमाविशन् दृष्टः' इति स्वप्नानुरूपमेव सूनोः चन्द्रापीड इति नाम चकार ।

अपरेद्युः शुकनासोऽपि कृत्वा ब्राह्मणोचिताः सकलाः क्रिया राजानुमतमात्मजस्य विप्रजनोचितं वैशम्पायन इति नाम चक्रे ।

क्रमेण कृतचूड़ाकरणादि क्रिया-कलापस्य शैशवमतिचक्राम चन्द्रापीडस्य ।

तारापीडः क्रीडाव्यासङ्ग-विघातायै बहिर्नगरादनुशिप्रम् अर्धक्रोशमात्रायतम्, अति-

कनकञ्च ब्राह्मणसाद् ब्राह्मणाधीनं कृत्वा विधाय, मया स्वप्ने स्वमावस्थायां परिपूर्णमण्डलः समस्ताव-यवयुक्तः चन्द्रो निशापतिः अस्य शिशोः मातुर्जनन्या मुखकमलं वदनाम्भोजम् आविशन् प्रविशन् दृष्टो निरीक्षित इति स्वमानुरूपमेव स्वप्नतुल्यमेव राजा भूपतिः स्वसूनोः स्वतनयस्य चन्द्र आपीडः शेखरो यस्य स तादृशः चन्द्रापीड इति नाम संज्ञां चकार कृतवान् । यद्यपि—

'शुध्येद्विप्रो दशाहेन द्वादशाहेन भूमिपः'

इति वचनाद्दशमदिने राज्ञः शुद्ध्यभावेन नामकरणमयुक्तम्, तथापि 'दशम्यामुत्थाप्य पिता नाम कुर्यात्' इत्यादि पारस्करसूत्रादिप्रमाणमभ्युपगम्य तथोक्तिरिति विभावनीयम् ।

अपरेद्युरिति । अपरेद्युः अन्यस्मिन् दिने जननादेकादशदिवसे 'एकादशे द्वादशे वा पिता नाम कुर्यात्' इति श्रुत्या नामकरणे एकादशाहोऽपि विहित इति ज्ञातव्यम् । ब्राह्मणोचिताः आभ्युदयिकश्रा-द्धादिपूर्वकर्णान्तनामोल्लेखनयोग्याः सकलाः समस्ताः क्रियाः कृत्वा विधाय राजानुमतं भूपतिनानु-मोदितं स्वामितया मित्रतया च समस्तकृत्येष्वेव तदनुमतिग्रहणौचित्यादित्याशयः, आत्मजस्य तनयस्य विप्रजनोचितं ब्राह्मणजनयोग्यं शुभसूचकमित्यर्थः । विशं लोकं पाति रक्षतीति विशम्पो विष्णुः 'पृषोदरा-दीनि यथोपदिष्टम्' इत्यनेन साधुः, स एव अयनम् आधारो यस्येति विशम्पायनः ततश्च स्वार्थे प्रज्ञा-दित्वादण्प्रत्यये आद्यचो वृद्धौ सत्यां वैशम्पायन इति । एतच्च नाम मङ्गलसूचकमेव । पूर्वं चन्द्रापीड-नाम्ना त्रिपुरविजयिनो महेश्वरस्य प्रतिपादनात्तस्य बलान्वितत्वं प्रतीयते । तथा चाह मनुः—

'मङ्गल्यं ब्राह्मणस्य स्यात् क्षत्रियस्य बलान्वितम् । वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥'

क्रमेणेति । चूड़ाकरणं चौलकर्म तस्य आदिभूते निष्क्रमणान्नप्राशने च तद्रूपाः क्रियाः तासां कलापः समूहो यस्य स तादृशः, तथा च कृतो विहितः चूड़ाकरणादिक्रियाकलापो यस्य तादृशस्य । शैशवं बाल्यम् अतिचक्राम कौमारं प्राप्तवानित्यर्थः ।

इह शैशवलीलां चन्द्रापीडस्य कथं नावर्णयत् कविरिति विस्मयमापादयति—सहृदयहृदयेष्विति ।

तारापीड इति । तारापीड़ो भूपतिः, चन्द्रापीडस्य क्रीडासु खेलासु व्यासङ्ग आसक्तिः, तस्य विघा-तार्थं निवारणार्थं नगरात् स्वकीयराजधानीतो बहिः, शिप्रां क्षिप्रातटमनु इत्यनुशिप्रं क्षिप्रानदीतटे विद्यामन्दिरं पाठशालाम् 'अकारयत' इत्यन्वयः । तस्य च नपुंसकलङ्गिनां द्वितीयान्तानि पदानि विशेषणानि बोध्यानि । अर्धक्रोशमात्रम् यायामो विस्तारो यस्य तत्तादृशम् । तुहिनगिरेः हिमाचलस्य


ब्राह्मणों को दान देकर—'इस बालककी माताके मुखकमलमें पूर्णमण्डल चन्द्रने प्रवेश किया है, यह मैंने पहले स्वप्न में देखा था'—यह विचार कर राजाने उस स्वप्नके अनुसार पुत्रका नाम 'चन्द्रापीड' रक्खा ।

शुकनासने भी दूसरे दिन ब्राह्मणोचित समस्त कार्य सम्पादन करके राजाकी अनुमतिसे अपने पुत्रका, ब्राह्मण के योग्य 'वैशम्पायन' नाम रक्खा ।

क्रमपूर्वक चन्द्रापीडका निष्क्रमण, अन्नप्राशन और चूड़ाकरणादि समस्त क्रियाएँ सम्पन्न हुई, इस प्रकार बाल्यावस्था बीत गई ।

तदनन्तर तारापीडने, चन्द्रापीडका मन खेलमें लगनेसे रोकनेके लिए, राजधानीके बाहर, शिप्रा-नदीके तट पर, आधकोस लम्बा, एक विद्या-मन्दिर बनवाया । हिमालयके शिखरोंकी मालाके समान बड़ा ऊँचा और उस पर चूनेके लेपसे श्वेतवर्ण प्राचीर (चहार-दिवारी) द्वारा वह विद्यालय परिवेष्टित किया हुआ था । चहारदीवारीके समीपमें बनाई हुई बड़ी परिखा (चौड़ी गोल खाई) द्वारा भी वह वेष्टित था । अत्यन्त दृढ़ कपाटसे उसके सन्धान्य


१. कोटिशो ब्राह्मणेभ्यो दत्त्वा ।
२. स्वसूनोः।
३. ०'दादिक्रिया'०' ।
४. व्यासङ्ग'०' ।
५. अनुक्षिप्रम्, अनुत्तिप्रम् ।

२३० कादम्बरी- [ कथायाम्-

महता तुहिनगिरि-शिखर-मालाऽनुसारिणा सुधौवदलितेन प्राकारमण्डलेन परिवृतम्, अनुप्रा- कारमाहितेन महता परिखावलयेन परिवेष्टितम्, अतिदृढकपाट-सम्पुटम्, उद्घाटितैकद्वार- प्रवेशम्, एकान्तोपरचित-तुरग-वाहाली-विभागम्, अधःकल्पित-व्यायामशालम्, अमरागा- राकारम्, विद्यामन्दिरम् अकारयत् । सर्वविद्याचार्याणाञ्च संग्रहे यत्नमतिमहन्तमन्वतिष्ठत् । तत्रस्थञ्च तं केशरिकिशोरकमिव पञ्जरगतं कृत्वा प्रतिषिद्धनिर्गमम्, आचार्य-कुल-पुत्र-प्राय- परिजनम्, अपनीताशेष-शिशुजनक्रीडनं-व्यासङ्गम्, अनन्यमनसम्, अखिलविद्योपादानार्थ- माचार्येभ्यश्चन्द्रापीडं शोभने दिवसे वैशम्पायनद्वितीयमर्पयाम्बभूव । प्रतिदिनञ्चोत्थायोत्थायै सह विलासवत्या विरलपरिजनस्तत्रैव गत्वैतन्नालोकयामास राजा ।

शिखराणि शृङ्गाणि तेषां या मालाः पङ्क्तयः तदनुकारिणा तत्सदृशेन अतिमहता अत्युच्चेन सुधाचूर्णे- द्रव्यं तया धवलितेन श्वेतीकृतेन प्राकारमण्डलेन वप्रवलयेन परिवृतं परिवेष्टितम् ।

अन्विति । प्राकारस्य वलयस्य समीप इत्यनुप्रकारम् आहितेन स्थापितेन महता विशालेन परिखा- वलयेन दुर्गादिपरितः खातमण्डलेन परिवेष्टितं परिवृतम् ।

अतीति । अतिदृढैः अत्यन्तस्थूलैः कपाटैः सम्पुटं पिधानं यस्य तत् तादृशम् । उद्घाटितेन उन्मु- क्तकपाटेन एकेन द्वारेण प्रवेशोऽन्तर्गमनं यत्र तत्तादृशम् । एकान्ते एकस्मिन् भागे उपरचितो निर्मितः तुरगवाहालीनाम् अश्वशकटपद्धतीनां विभागः अवस्थितभूमिः यत्र तत्तादृशम् । अधःप्रदेशे अधोभागे कल्पिता रचिता व्यायामशाला मल्लकीडाभवनं यत्र तत्तादृशम्, अमरागाराकारं देवभवनसदृशम्, अन्वयस्तूक्त एव पूर्वम् ।

सर्वेति । सर्वा निखिला या विद्या आन्वीक्षिक्यादयः तासां ये आचार्याः अध्यापकाः तेषां संग्रहे आनयने अतिमहन्तम् अत्युत्कृष्टं यत्नम् उद्योगम् अन्वतिष्ठत् अकरोत् ।

तत्रेति । केशरी सिंहः तस्य किशोरकः शिशुः तं तादृशं पञ्जरगतमिव, तं चन्द्रापीडं तत्रस्थं तन्नि- वासिनं कृत्वा विधाय प्रतिषिद्धो निवारितो निर्गमो बहिर्गमनं यस्य तं तादृशम् । आचार्या अध्यापकाः कुलपुत्राः सद्वंशोत्पन्नाः कुमाराश्च प्रायाः अधिकाः परिजनाः परिवारा यस्य तं तादृशम् । अपनीतो निपे- धेन दूरीकृतः अशेषेषु समग्रेषु शिशुजनक्रीडनेषु बालगणलीलासु व्यासङ्ग आसक्तिर्यस्य तं तादृशम् । नास्ति अन्यस्मिन् विषये मनश्चित्तं यस्य तं तयोक्तञ्च कृत्वा, वैशम्पायनो मन्त्रिपुत्र एव द्वितीयोऽपरः सहायो यस्यैवम्भूतं तं चन्द्रापीडम्, अखिलाः समस्ता या विद्याः आन्वीक्षिक्यादयः तासाम् उपादा- नार्थं शिक्षार्थं शोभने प्रशस्ते दिवसे दिने आचार्येभ्यः अध्यापकेभ्यः अर्पयाम्बभूव अर्पितवान् ।

प्रतीति । अनन्तरं प्रतिदिनं प्रत्यहं च राजा उत्थाय उत्थाय प्रातः प्रातः स्वगृहादुत्थानं विधाये- त्यर्थः । विलासवत्या महाराज्ञा सह विरलाः स्वल्पाः परिजनाः परिवारा यस्य स तादृशः, अन्यथा पाठ- शालायां कोलाहलो भवेदित्याशयः । तत्रैव विद्यामन्दिर एव गत्वा एवं चन्द्रापीडम् अवलोकयामास सम्पश्यत् ।

द्वार दृढ़ थे, एकमात्र द्वार खुले रहने से वही केवल प्रवेश करने का मार्ग था। एक तरफ बहुतसे घोड़े-गाड़ियोंको रखनेके लिए स्थान बनाया हुआ था, एवं नीचे की ओर व्यायामके वस्ती वैठारी की हुई थी, इससे वह विद्यालय स्वर्गके देव-भवनके समान सुन्दर लगता था। अनन्तर सभी प्रकारकी विद्याओंके आचार्योंको एकत्रित करनेके लिए राजाने विशेष यत्न किया। एवं पिंजिरेमें रखे गए सिंहके बच्चेकी तरह चन्द्रापीडको उस विद्यालयमें रख कर, उससे बाहर निकलनेका निषेध कर, शिक्षकगण भी सत्कुलोत्पन्न कुमारोंको ही अधिक संख्यामें साथी बनाकर, बालकोंके मनको आकर्षण करनेवाली खेल की सब बातें वहाँसे हटाकर, अनन्य मनसे विद्याप्राप्ति करनेके लिए वैशम्पायनके साथ चन्द्रापीडको शुभ दिनमें आचार्योंके हाथ में सुपुर्द किया। राजा विलासवतीके साथ प्रतिदिन निद्रासे उठ कर, अल्पसंख्यक परिजनोंको लेकर विद्यालयमें चन्द्रापीडको देखने जाया करता था।


१. शिखरानुसारिणा ।
२. सुधाधवलितैन, प्राकारमण्डलेन चन्द्रशालावलयेन . विलिप्तेन प्राकार*** ।
३. तुरङ्ग*** ।
४. विभागगृहम् ।
५. क्वचित् 'इन' इति पदं नास्ति ।
६. क्रीडानामाश्रयम् ।
७. कुत्रापिचेदं 'उत्थाय' इत्येकमेव पदं विद्यते ।

चन्द्रापीडस्य शिक्षा०-२१ ] | चन्द्रकला-विद्योतिनीसहिता । २३१


चन्द्रापीडोऽप्यनन्यहृदयतया तथा नियन्त्रितो राज्ञा अचिरेणैव कालेन यथास्वमात्म- कौशलं प्रकटयद्भिः पात्रवशादुपजातोत्साहैराचार्यैरुपदिश्यमानः सर्वा विद्या जग्राह । मणिदर्पण इवातिनिर्मले तस्मिन् सञ्चक्राम सकलः कलाकलापः । तथा हि पदे, वाक्ये, प्रमाणे, धर्मशास्त्रे, राजनीतिषु, व्यायामविद्यासु, चाप-चक्र-चर्म-कृपाण-शक्ति-तोमर-परशु- गदाप्रभृतिषु सर्ववायुधविशेषेषु रथचर्यासु, गजपृष्ठेषु, तुरङ्गमेषु, वीणा-वेणु-मुरज-कांस्यताल- दर्दुर-पुटप्रभृतिषु वाद्येषु, भरतादिप्रणीतेषु नृत्यशास्त्रेषु, नारदीयप्रभृतिषु गान्धर्ववेदविशेषेषु, हस्तिशिक्षायाम्, तुरगवयोज्ञाने, पुरुषलक्षणेषु, चित्रकर्मणि, यन्त्रच्छेद्ये, पुस्तकव्यापारे, लेख्यकर्मणि, सर्वासु द्यूतकलासु, गन्धशास्त्रेषु, शकुनिरुतज्ञाने, ग्रहगणिते, रत्नपरीक्षासु, दारु-

चन्द्रेति । राज्ञा नरपतिना तारापीडेन तथा नियन्त्रितः तेन प्रकारेण नियमितः, चन्द्रापीडोऽपि अनन्यहृदयतया विद्याध्ययन एवैकाग्रमनस्तया अचिरेणैव कालेन स्वल्पेनैव समयेन, यथास्वं यथार्थम् आत्मकौशलं विद्याग्रहणे स्वकीयचातुर्यं प्रकटयद्भिः स्फुटीकुर्वद्भिः, पात्रवशात् आधारवशात् चन्द्रापीडस्य तीक्ष्णबुद्धिसामर्थ्यादिना उत्कृष्टवशादित्यर्थः । उपजातोत्साहैः समुत्पन्नोत्साहैः आचार्यैः अध्यापकैः उप- दिश्यमानः शिक्षयमाणः सर्वा निखिला विद्या आन्वीक्षिकीत्यादयः जग्राह गृहीतवान् ।

मणीति । सकलः समस्तः कलाकलापः नृत्यगीतादिकलाविद्यासमुदायः, मणिदर्पण इव रत्नदर्श इव अतिनिर्मले अतिस्वच्छे तस्मिन् चन्द्रापीडे सञ्चक्राम अध्यापकैभ्यः सङ्क्रान्तो बभूव । अन्यविद्याभ्यः कलानां मार्दवतया पृथगुपन्यासः ।

प्रतिपादितमेव विषयं विशेषेण निरूपयति—तथाहीत्यादिना । पदं व्याकरणशास्त्रं तस्य हि केवल- पदसाधनार्थत्वात् तत्र । वाक्यं पूर्वोत्तरमीमांसायुगलं श्रुतिवाक्योपजीबित्वात् तत्र । प्रमाणं न्यायवैशेषि- कसांख्यपातञ्जलरूपम् आत्मनात्मनोः प्रमितिकरणत्वात् तत्र । धर्मशास्त्रं धर्मनिरूपणप्रधानं मन्वादि- निर्मितं शास्त्रं तत्र । राजनीतिषु शुक्रकामन्दकीप्रभृतिनिर्मितशास्त्रेषु । व्यायामः श्रमः तदर्थं या विद्या मल्ल्युद्धादिकाः तासु । चापं धनुः, चक्रं रथाङ्गम्, चर्म सन्नाहः, कृपाणः असिः, शक्तिः आयुधविशेषः, तोमरः प्रहरणविशेषः, परशुः कुठारः, गदा, एतत्प्रभृतिषु सर्वेषु निखिलेषु आयुधविशेषेषु अस्त्र- विशेषेषु रथचर्यासु रथारोहणेषु, गजपृष्ठेषु हस्तिनिरोधेषु, तुरङ्गमेषु, अश्वेषु, वीणा वल्लकी, वेणुर्वंशः, मुरजो मृदङ्गः, कांस्यताल तालम्, दर्दुरपुटं मण्डूकशब्दसदृशशब्दप्रामको वाद्यविशेषः एतत्प्रभृतिषु वाद्येषु आतोद्येषु । भरताद्यैस्तत्त्वविद्भिः तैः प्रणीतानि निर्मितानि नृत्यशास्त्राणि ताण्डवविधाननिरूपकग्रन्थाः तेषु । हस्तिशिक्षायां गजशिक्षायाम् । तुरगवयोज्ञाने अश्वावस्थाबोधे, पुरुषाणां लोकानां लक्षणेषु मापत्ति लक्तादिचिह्नेरेवाश्ववलोकननैपुण्यप्रतिबोधकसामुद्रिकशास्त्रेषु । चित्रकर्मणि आलेख्यविद्यायाम् । यन्त्रे दूरवीक्षणादियन्त्रेण छेद्ये परिच्छेत्तुं शक्ये ग्रहनक्षत्रादिनिश्चये इत्यर्थः । पुस्तकव्यापारे ग्रन्थरचनक्रियायाम् लेख्यकर्मणि अक्षरविन्यासे । सर्वासु निखिलासु द्यूतकलासु अक्षक्रीडादिरूपकलाशिक्षासु । गन्धशास्त्रेषु

चन्द्रापीड भी महाराज द्वारा इस प्रकार नियन्त्रित होकर, थोड़े समयके मध्येमें ही सभी विद्याओंको ग्रहण कर लिया, क्योंकि—आचार्यगण, चन्द्रापीड ऐसे सुपात्र शिष्य मिलनेके कारण अत्यन्त उत्साही होकर, अपनी- अपनी निपुणता प्रकट करते हुए शिक्षा दिये थे । मणिमय-दर्पणके समान अत्यन्त निर्मल चन्द्रापीडके हृदयमें नृत्यगीतादि समस्त कला-विद्याएँ भी शिक्षकगणसे संक्रान्त हुई थीं । अर्थात् व्याकरणमें, पूर्वमीमांसा और उत्तरमीमांसा में, न्याय और वैशेषिकादि दर्शनशास्त्रमें, स्मृतिशास्त्रमें, नीतिशास्त्रमें, व्यायामविद्या (मल्ल आदि) में, धनुष, चक्र, चर्म (ढाल), तलवार, शक्ति, तोमर (भाला), परशु (फरसा), और गदा आदि अनेक प्रकारके विशेष-विशेष आयुधोंमें, रथारोहण (रथ पर चढ़ने एवं हाँकने) में, हाथी पर चढ़नेमें, घोड़ेपर चढ़नेमें; वीणा, वंशी, दर्दुर, काँसा, मजीरे, तूरी आदि बाजोंमें, भरत आदिके बनाए हुए नाट्यशास्त्रमें, नारद आदिके बनाए हुए गान्धर्ववेद (गानकला) में, हस्तिशिक्षा में, घोड़ोंकी उम्र जानने में, सामुद्रिक शास्त्रमें, चित्रकर्ममें, दूरवीक्ष आदि यन्त्र द्वारा ग्रहनक्षत्रादि-निर्णय में, ग्रन्थरचनामें, नानाविध अक्षर-विन्यासमें, सब द्यूतकलाओंमें, गन्ध- द्रव्य-निर्माणमें, पक्षियोंका शब्द सुनकर शुभाशुभ निर्णयमें, ज्योतिषशास्त्रमें, रत्न-परीक्षा में, काठ द्वारा नानाविध


१. क्वचिद्रो राजा । २. क्वचिद् 'कालेन' इति न विद्यते । ३. उपदिश्यमानाः । ४. सर्वविद्याः । ५. ...वर्म्म । ६. तुरङ्गेषु । ७. नृत्यशास्त्रेषु । ८. ...ज्ञानेषु । ९. पत्रच्छेद्ये । १०. गन्धर्वशास्त्रेषु । क्वचित् 'सर्वासु द्यूतकलासु शकुनि' इत्येवमेव पाठः ।

२३२कादम्बरी-[ कथायाम्-

कर्मणि, दन्तव्यापारे, वास्तुविद्यासु, आयुर्वेदे, मन्त्रप्रयोगे, विषापहरणे, सुरङ्गोपभेदे, तरणे, लङ्घने, प्लुतिषु, आरोहणे, रतितन्त्रेषु, इन्द्रजाले, कथासु, नाटकेषु, आख्यायिकासु, काव्येषु, महाभारत-पुराणेतिहास-रामायणेषु, सर्वलिपिसु, सर्वदेशभाषासु, सर्वसंज्ञासु, सर्वशिल्पेषु, छन्दःसु, अन्येष्वपि कलाविशेषेषु परं कौशलमवाप ।

सहजा चास्याजस्रम् अभ्यस्यतो वृकोदरस्येव शैशव एव आविर्बभूव सर्वलोक-विस्मयजननी महाप्राणता । यदृच्छया क्रीडताऽप्यनेन करतलालम्बित-कर्णपल्लवावनताङ्गाः सिंहकि-

गन्धद्रव्यरचनाविद्यासु । शकुनिरुतज्ञाने पक्षिशब्दानुसारेणेष्टानिष्टनिश्चायकशास्त्रे वसन्तराजशाकुनप्रभृतौ । ग्रहगणिते ज्योतिषशास्त्रे । रत्नपरीक्षासु मण्युपादानानुपादानकर्मसु । दारुकर्मणि काष्ठद्वारानेकविधवस्तुरचनायाम् दन्तव्यापारे गजदन्तद्वारानेकप्रकारशिल्परचनायाम् । वास्तुविद्यासु भवनोपवनादिप्रकारसूचकशास्त्रेषु । आयुर्वेदे वैद्यकशास्त्रे । मन्त्रप्रयोगे मन्त्रणाकरणे । विषापहरणे विषप्रतीकारे । 'सुरङ्ग' इति प्रसिद्धो गुप्तदीर्घमार्गः तस्य उपभेदे खननपूर्वकद्रचनायाम् । तरणे नद्यादौ सन्तरणे । लङ्घने वप्रादीनाम् । प्लुतिषु व्याघ्रादिभिर्मण्डलखेलायामुल्लम्फनेषु । आरोहणे तर्वाद्यौ । रतितन्त्रेषु वात्स्यायनप्रणीतकामशास्त्रेषु । इन्द्रजाले मायाकूटरचनायाम् कथासु बृहत्कथाकाव्येषु । नाटकेषु अभिनयात्मकेषु । आख्यायिकासु वासवदत्तादिकाव्यविशेषेषु । काव्येषु महाकाव्येषु रघुवंशादिषु । महाभारतम् पञ्चमो वेदः, पुराणानि

'मद्वयं भद्वयञ्चैव त्रद्वयं वचतुष्टयम् ।'

'इत्यादिलक्षिताष्टादशमार्कण्डेयादीनि, इतिहासाः पुरावृत्तानि कथासरित्सागरादीनि । रामायणं वाल्मीकीयमध्यात्मञ्च तेषु । यद्यपि काव्यान्तर्गता एव कथानाटकाख्यायिकादयः, तथेतिहासान्तर्गतेएव महाभारतरामायणे तथापि स्वाभिलषितप्राधान्यबोधनार्थं तेषु तेषां पृथगुपादानं गोवलीवर्द्दन्यायेनेति बोध्यम् । सर्वलिपिसु सर्वप्रकाराक्षरावगमेषु । सर्वसंज्ञासु हस्तनेत्रभङ्ग्यादिना समस्तविधप्रयोजनद्योतनासु । छन्दःसु आम्नायेषु पिङ्गलादिप्रणीतच्छन्दःशास्त्रेषु च । सर्वदेशभाषासु सर्वदेशवचनव्यापारेषु । सर्वशिल्पेषु निखिलविज्ञानेषु । अन्येष्वपि एतद्भन्नेष्वपि कलाविशेषेषु आकरज्ञानादिषु परम् उत्कृष्टं कौशलं दाक्ष्यम् अवाप प्राप्तवान् ।

सहजेति । किञ्चेत्यर्थे चकारः । अजस्रम् अनवरतम् अभ्यस्यतः मुहुर्मुहुरध्ययनेन शिष्टं गृह्णतः अस्य चन्द्रापीडस्य वृकोदरस्येव भीमस्येव, शैशव एव बाल्य एव सहजा स्वाभाविकी सर्वलोकविस्मयजननी समस्तजनाश्चर्यजनिका महाप्राणता अत्यन्तशारीरिकशक्तिः आविर्बभूव प्रकटीबभूव । 'वृकोदरस्येव' इत्यत्रोपमा ।

यदृच्छयेति । यदृच्छया क्रीडताऽपि केलिं विदधताऽपि अनेन चन्द्रापीडेन करतलाभ्यां पाणि-तलाभ्याम् अवलम्बितौ आकृष्य गृहीतौ यौ कर्णपल्लवौ श्रवणकिसलयौ ताभ्याम् अवनतानि नम्राणि अङ्गानि अवयवा येषां ते तथोक्ताः, सिंहकिशोरकेन केसरिशिशुना क्रमाभ्यां चरणाभ्याम् आक्रान्ता इव

वस्तु-निर्माणमें, हाथीके दाँतके द्वारा नानाविध वस्तु-निर्माणमें, वास्तु-विद्यामें, आयुर्वेदमें, मन्त्रणा-करणमें, विष-चिकित्सा (उतारने) में, सुरङ्ग निर्माणमें, तैरनेमें, लाँघनेमें, उछलने-कूदनेमें, चढ़नेमें, रतिशास्त्र (वात्स्यायनादिसूत्र) में, इन्द्रजाल विद्या (जादू) में, कथाओंमें, नाटकोंमें, कहानियोंमें, काव्योंमें, महाभारतमें, पुराणमें, इतिहासमें, रामायणमें, सभी प्रकारके अक्षर परिचयमें, सब देशोंकी भाषाओंके ज्ञानमें, सब पारिभाषिक सङ्केतोंमें, सर्वविध शिल्पकर्ममें, छन्दः शास्त्रोंमें और ऐसी-ऐसी अन्य कितनी ही कलाओंमें चन्द्रापीडने अत्यन्त निपुणता प्राप्त की थी ।

प्रतिदिन व्यायाम करनेसे बाल्यावस्था में ही सब लोगोंको विस्मय उत्पन्न कराती, भीमसेनके समान, प्राकृतिक महावीरता (अत्यन्त दैहिक बल) प्रकट हो गई । चन्द्रापीड अपने इच्छानुसार खेल करते २ जिस समय हाथियोंके बच्चोंके कान हाथसे पकड़ कर आसानीसे उन्हें झुका देता था उस समय वे जैसे सिंहके बच्चेकी झपटमें


१. यन्त्रप्रयोगे । २. क्वचित् 'आरोहणे, रतितन्त्रेषु' इति पाठो न विद्यते । ३. शिल्पेषु । ४. सहजाश्रमम्... अस्य मम । ५. शैशवमेव । ६. क्वचित् 'सर्व' इति पदं नास्ति । ७. '...लम्बित, आकुञ्चित'... ।

चन्द्रापीडयौवनारम्भव०–२२ ] चन्द्रकला-विद्योतिनीसहिता । २३३

शोरेःक्रमाक्रान्ता इव गजकलभाश्चलितुमपि न शेकुः। एकेकेन कृपाणप्रहारेण तालतरून् मृणालदण्डानिव लुलाव। सकल-राजन्य-वंश-वन-दावानलस्य परशुरामस्येवास्य नाराचाः शिखरिशिलातलभिदो बभूवुः। दश-पुरुष-संवाहनयोग्थेन चायोदण्डेन श्रममकरोत् । ऋते च महाप्राणतायाः सर्वाभिरन्याभिर्विद्याभिः अनुचकार तं वैशम्पायनः। चन्द्रापीडस्य तु सकल-कलाकलाप-परिचय-बहुमानेन शुकनास-गौरवेण सहपांशुकीडनया सहसंवृद्धतया च सर्वविस्रम्भस्थानं द्वितीयमिव हृदयं वैशम्पायनः परं मित्रमासीत् । निमेषमपि तेन विना

पीडिता इव सन्तः चलितुमपि इतस्ततो गन्तुमपि न शेकुः न शक्ता बभूवुः किं पुनः प्रहत्तुंमित्याशयः। इह 'आक्रान्ता इव' इति क्रियोत्प्रेक्षा।

एकेकेनेति । कृपाणप्रहारेण खड्गस्याघातेन तालतरून् तालवृक्षान् मृणालदण्डानिव नलिनदण्डा-निव लुलाव चिच्छेद । उपमा ।

सकलेति । सकलाः समस्ताः राजन्यवंशाः क्षत्रियकुलान्येव वंशाः कीचकाः तेषां वनस्य सदृश्य दावानलः अरण्याग्निः तस्य निखिलराजन्यविनाशकारिण इत्यर्थः, परशुरामस्येव जामदग्न्यस्येव यस्य चन्द्रापीडस्य नाराचा अयॊमयवाणाः । शिखरिशिलातलभिदः पर्वतपाषाणविदारिणः बभूवुः अभूवन् ।

इह 'परशुरामस्येव' इत्युपमा सा च 'सकलराजन्यवंशवनदावानलस्य' इत्यत्र प्रतिपादित-श्लिष्ट-परम्परितरूपकेण सङ्कीर्णा ।

दशेति । दशपुरुषैः दशसंख्याकजनैः संवाहनयोग्थेन उत्थापनोचितेन अयोदण्डेन लौहमुद्गरेण श्रमं व्यायामम् अकरोत् कृतवान् ।

ऋत इति । महाप्राणताया अतिशक्तिमत्त्वात् ऋते विना 'अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहि-युक्त' इति सूत्रेण पञ्चमी । अन्याभिः अपराभिः सर्वाभिः समस्ताभिः विद्याभिः आन्वीक्षिक्यादिभिः वैशम्पायनः मन्त्रिसुतः तं कुमारम् अनुचकार । चन्द्रापीडतुल्यो ज्ञानवानभूदित्यर्थः । वैशम्पायनस्य ब्राह्म-णात्मजत्वात् महाप्राणता तत्र नापेक्षितेत्याशयः ।

चन्द्रेति । सकलाः समस्ता याः कला विद्याः तासां कलापः समूहः तत्र परिचयेन विशेषज्ञान-प्राप्त्येन यो बहुमानः सत्कारः तेनः शुकनासगौरवेण शुकनासं प्रति पूज्यत्वभावनया, सहपांशुकीडनया एकत्रस्मिन् स्थले धूलिखेलनया, सह संवृद्धतया एकत्र वृद्धिसुपगततया च निमित्तेन, वैशम्पायनः चन्द्रापीडस्य द्वितीयमपरं हृदयं चित्तमिव सर्वविस्रम्भस्थानं समस्तविश्वासपात्रम् , परमुरुकृष्टं मित्रं सुहृद् आसीत् अभूत् । इह 'द्वितीयं हृदयमिव' इत्यत्र द्रव्योत्प्रेक्षा ।

निमेषमिति । निमेषमपि लवद्वयमपि एकाकी तेन वैशम्पायनेन विना स्थातुं वर्तितुं न शशाक न समर्थो बभूव । वैशम्पायनोऽपि वासरो दिवसः उष्णकरं सूर्यमिव तं चन्द्रापीडम् अनुगच्छन् अनुव्रजन्

आ गये हों उसी तरह मानो थोड़ा सा भी हिल नहीं सकते थे। वह तलवारकी एक-एक चोटसे तालवृक्षों को मृणाल-दण्डके समान काट डालता था। समस्त क्षत्रिय-रूपी बाँसोंके वनकी अग्निरूप-परशुरामके बाणोंके समान उसके लौहमय बाण पर्वतोंकी चट्टानोंको छेद डालते थे। [ राजा कार्त्तवीर्यके एक हजार भुजाएँ थीं। एक बार वह जमदग्निके आश्रममें गया। उस समय जमदग्नि या उसके लड़के नहीं थे इसलिए जमदग्निकी स्त्रीने उसका आतिथ्य सत्कार किया। वहाँ से चलनेके समय राजा ऋषि की गौ साथमें ले गया और अपने भुजाओंके गर्वमें उसने आश्र-मके कतिपय वृक्षोंको तोड़ डाला। कुछ देरके बाद अपने आश्रममें जब जमदग्निपुत्र परशुरामजी आए तो वहाँ की छिन्न-भिन्न दशा देखकर उन्हें बहुत क्रोध आया और उन्होंने कार्त्तवीर्यकी राजधानीमें जाकर उसे मार डाला। उसके बाद कार्त्तवीर्यके पुत्रोंने प्रतिशोधकी दृष्टिसे परशुरामकी अनुपस्थितिमें आश्रम पर आक्रमण किया और उनके पिताको मार डाला। परशुरामको जब समाचार मिला तब उन्होंने प्रतिज्ञा की– 'हम कार्त्तवीर्यके पुत्रोंके साथ क्षत्रिय कुलका सहार करेंगे।' इसीते बादमें परशुरामने इक्कीस बार क्षत्रियोंका संहार किया। [ जिस मुगदरको दश पुरुष मिलकर उठा सकें ऐसे लोहेके मुगदरसे वह व्यायाम करता था। अत्यन्त शारीरिक बलके अतिरिक्त अन्य सभी विद्याओंमें वैशम्पायन उनका अनुकरण करता था। समस्त विद्याओंमें विशेष ज्ञान-प्राप्ति करनेते अपने उस सम्मान से, पिता शुकनासके प्रति गौरवते, एक साथ धूलमें खेल करनेसे एवं एक जगह रहकर वर्धित होनेसे वैशम्पायन, चन्द्रापीडका द्वितीय हृदयके समान सभी प्रकारके विश्वासका पात्र परममित्र था। चन्द्रापीड एक क्षण भी


१. सिंहकिशोर...। २. क्वचित् 'बालु एव' इत्यधिकः पाठो विद्यते। ३. कलाभिः ।

१५ का०

२३४कादम्बरी—[ कथामुखम्

स्थातुमेकाकी न शशाक। वैशम्पायनोऽपि तमुष्णकरमिव वासरोऽनुगच्छन्न¹ क्षणमपि विरह- चाञ्चकार। एवं तस्य सर्वविद्यापरिचयमाचरतश्चन्द्रापीडस्य त्रिभुवनविलोभनीयोऽमृतरस इव सागरस्य, सकल-लोक-हृदय-नयनानन्द²-जननश्चन्द्रोदय इव प्रदोषस्य, बहुविध-राग-विकार-भङ्गुरः सुरधनुःकलाप इव जलधरसमयस्य, मकरध्वजायुधभूतः कुसुमप्रसव इव कल्पपादपस्य, अभिनवाभिव्यज्यमान-रागरमणीयः सूर्योदय इव कमलवनस्य, विविध-लास्य-विलास-योग्यः कलाप इव शिखण्डिनो यौवनारम्भः प्रादुर्भवन् रमणीयस्यापि द्विगुणां रमणीयतां पुपोष। लब्धावसरः सेवक इव³ निकटवर्तीभूवास्य मन्मथः। लक्ष्म्या सह वितस्तार वक्षः-

क्षणमपि त्रिंशत्कळारूपमपि अचिरचन्दनमात्रमपीत्यर्थः। न विरहयाञ्चकार न तत्याज। चौरादिकाद्विहेर्लिटि रूपम्। इह 'उष्णकरमिव' इत्यनेन पूर्णोपमा।

एवमिति। एवं पूर्वोक्तविधिना सर्वविद्यापरिचयं निखिलविद्याभ्यासम् आचरतो विदधतः तस्य चन्द्रापीडस्य सागरस्य समुद्रस्य अमृतरसः सुधार्द्रव इव, त्रिभुवनं त्रिलोकीं विलोभयति विशेषेण मोहयतीति स तादृशः, लद्गिमस्य 'यौवनारम्भस्य' विशेषणमेतत्। एवमग्रेऽपि। प्रदोषस्य रजनीमुखस्य चन्द्रोदयः चन्द्रोद्गम इव, सकललोकानां समस्तजनानां हृदयानन्दजननः स्वान्तप्रमोदोत्पादकः। जलधरसमयस्य वर्षाकालस्य, सुरधनुःकलाप इव शक्रचापसमूह इव बहुविधा अनेकप्रकारा रागविकाराः विषयेच्छाल्परविकाराः नीलपीतादिरञ्जनवर्गसम्मेलनानि च यत्र स तादृशः, तथा भङ्गुरो विनाशशीलः। अनयोश्च कर्मधारयसमासः। कल्पपादपस्य पारिजातस्य कुसुमप्रसव इव पुष्पोद्गम इव मकरध्वजस्य कन्दर्पस्य आयुधभूतः शस्त्ररूपः स्थलद्वयेऽपि मन्मथव्यथोत्पादनादित्याशयः। कमलवनस्य पद्मकाननस्य सूर्योदय इव, अभिनवो नूतनोऽभिव्यज्यमान आविर्भवन् यो रागः सुन्दरीष्वनुरागः लौहित्यञ्च तेन रमणीयो मनोहरः। तथा शिखण्डिनो मयूरस्य कलापः पुच्छभाग इव, विविधानाम् अनेकप्रकाराणां लास्यानां नृत्यानांमिव विलासानां 'धीरा दृष्टिर्गतिश्चित्रा विलासे सस्मितं वचः' इति प्रतिपादितस्वरूपाणां विभ्रमाणां योग्यो जनने समर्थः। यौवनारम्भः बाल्यात्परं वयस उद्गमः प्रादुर्भवन् प्रकाशीभवन् रमणीयस्यापि मनोहरस्यापि द्विगुणां पूर्वतो द्विभागाधिकां रमणीयतां पुपोष बभार। इह मालोपमा पूर्णा।

लब्धेति। मन्मथः कामदेवः सेवक इव पादसंवाहनाधिकारको भृत्य इव लब्धावसरो यौवनारम्भादन्यजन्यजनापसरणाच्च प्राप्तावकाशः सन् अस्य चन्द्रापीडस्य निकटीबभूव समीपवर्त्यभूत्। एतेन चन्द्रापीडस्य कामाधीनत्वं नेति व्यज्यते। इह च पूर्णोपमा।

लक्ष्म्येति। लक्ष्म्या शरीरकान्त्या सह वक्षःस्थलं भुजान्तरस्थलं वितस्तार विशालं बभूव!


वैशम्पायनके बिना अकेला नहीं रह सकता था। एवं दिन जिस प्रकार सूर्यका अनुगमन करता है और क्षणकाल भी उससे पृथक् नहीं होता है, उसी प्रकार वैशम्पायन भी चन्द्रापीडका अनुगमन करता हुआ क्षण भर भी उससे पृथक् नहीं होता था।

जब चन्द्रापीड इस प्रकार समस्त विद्याओं का अभ्यास कर रहा था, तब उसमें यौवनारम्भ दिखाई देने लगा। वह नव यौवन, समुद्रके अमृतरसके समान समस्त संसारका लोभनक, प्रदोषकालके चन्द्रोदयके समान सर्व लोगोंके हृदय और नयनको आनन्द देनेवाला, वर्षाकालके इन्द्रधनुषके समान नानाविध विकार-समन्वित (यौवनारम्भ विषयाभिलाषरूप अनेक भावोंके विकारसे, पक्षान्तरमें नील-पीतादि अनेक प्रकारके रंगोंके विकारसे) अचिरस्थायी, कल्पवृक्षके पुष्पविकासके समान कामदेवका अस्त्रस्वरूप, कमल-वनके सूर्योदयके समान अभिनव प्रकाशमान रागसे (रमणीके प्रति अनुरागसे, पक्षान्तरमें—रक्तत्वसे) रमणीय एवं मयूरके पंखोंके समान नृत्यतुल्य विविध विलासके उपयोगी था। और चन्द्रापीडके स्वभावसे ही सुन्दर होने पर भी नव यौवनसे उसका सौन्दर्य दूना बढ़ गया था। ऐसे समयमें शुश्रूषाकारी सेवकके समान कामदेव, अवसर पाकर उसके समीप आने लगा। और उस समयमें चन्द्रापीडके शरीर-सौन्दर्यके साथ-साथ वक्षःस्थल (छाती) विस्तार पाने लगा। बन्धुजनोंके


१. गच्छन् क्षण...। २. ...हृदयानन्द...। ३. मनुसेवकः दवतोऽकः।

राजाज्ञानिवेदनम्-२३ ] चन्द्रकला-विद्योतिनीसहिता । [ २३५

स्थलम् । बन्धुजनमनोरथैः सहापूर्यतोकूदण्डद्वयम् । अरिजनेन सह तनिमानमभजत मध्य- भागः । त्यागेन सह प्रथिमानमाततान नितम्बभागः । प्रतापेन सहारुरोह रोमराजिः । अहित-कलत्रालक-लताभिः सह प्रलम्बतामुपययौ भुजयुगलम् । चरितेन सह धवलतामभ- जत लोचनयुगलम् । आज्ञया सह गुर्वभवद् भुजशिखरदेशः । स्वरेण सह गम्भीरतामाज- गाम हृदयम् ।

एवञ्च$^२$ क्रमेण समारूढयौवनारम्भं परिसमाप्त-सकैल-कला-विज्ञानमधीताशेषविद्यञ्चा- वगम्यानुमोदितमाचार्यैश्चन्द्रापीडमानेतुं राजा बलाधिकृतं वलाहकनामानमाहूय बहु-तुरग- बल-पदाति-परिवृतमतिप्रशस्तेऽहनि प्राहिणोत् । स गत्वा विद्यागृहं द्वारपैः$^५$ समावेदितः

बन्धुजनानां कुटुम्बलोकानां मनोरथैः 'कदा चन्द्रापीडो युवा भविष्यति' इत्थं वाञ्छितैः सह ऊरुदण्डद्वयं सक्थियुगलम् अपूर्यत पूर्णं बभूव । मध्यभागः कटिप्रदेशः अरिजनेन शत्रुवर्गेण सह तनिमानं कृशत्वम् अभजत आश्रयत् । त्यागेन दानेन सह नितम्बभागः आरोहप्रदेशः प्रथिमानं विशालताम् आततान प्राप । नचात्र नेयार्थत्वप्रसक्तिः धातूनामनेकार्थत्वात् । प्रतापेन कोशदण्डप्रसवतेजसा सह रोमराजिः तनूरुहपङ्क्तिः आरुरोह आरूढा बभूव । अहितकलत्राणां वैरिबनितानाम् अलकलताभिः लतावल्लग्नमान- चूर्णकुन्तलैः सह भुजयुगलं बाहुद्वयं प्रलम्बतां दीर्घतां लम्बितताञ्च ( भाविस्वामिविरलेषेण असंयमनात् ) उपययौ प्राप । चरितेन आचारेण सह लोचनयुगलं नेत्रद्वयं धवलतां बाल्यचापल्यदोषशून्यत्वं स्वच्छ- त्वञ्च अभजत प्राप्तद् । आज्ञया निर्देशेन सह. भुजशिखरदेशः स्कन्धप्रदेशः गुरुः विशालः पक्षे गौरव- -वाहिनी सर्वेषां शिरोधार्येत्यर्थः । स्वरेण शब्देन सह गम्भीरतां मन्द्रत्वं धीरत्वञ्च हृदयं मनः आजगाम अगमत् । इह सर्वत्र सहोक्तिरलङ्कारः ।

एवञ्चेति । एवं पूर्वोक्तविधिना । राजा तारापीडः । समारूढः समुत्पन्नः यौवनारम्भः तारुण्योदयो यस्य तं तादृशम् , परिसमाप्तं सर्वतः सम्पूर्ण सकलानां समस्तानां कलानां नृत्यगीतादीनां विज्ञानम् अध्ययनेन ज्ञानप्राप्तिर्यस्य तं तादृशम्, अधीताः शिक्षिता अशेषाः समग्रा विद्या आन्वीक्षिक्ष्यादयः येन तं तादृशम् , आचार्यैः अध्यापकैः अनुमोदितं गन्तुमनुज्ञातं चन्द्रापीडं निजात्मजम् आनेतुम् आन- यनाय वलाधिकृतं सेनाधिपतिं वलाहकनामानं वलाहकसंज्ञकम् आहूय आह्वानं कृत्वा, बहुभिः अनेकैः तुरगबलैः अश्वारोहिसैनिकैः पदातिभिश्च सैनिकैः परिवृतं परिवेष्टितम् अतिप्रशस्ते अतिशोभने दिवसे दिने प्राहिणोत् प्रेषयामास ।

स इति । स वलाहको विद्यागृहं विद्यामन्दिरं गत्वा प्राप्य द्वारपैः द्वारपालैः समावेदितः स्वनिकटे आगन्तुं राजपुत्रस्यादेशो जात इति निवेदितः सन् प्रविश्य प्रवेशं विधाय, क्षितितले वसुधापीठे विल-


मनोरथोंके साथ साथ जंघाएं पूर्ण होने लगीं । शत्रुओंके साथ-साथ मध्यभाग पतला होने लगा । दान-शक्तिके साथ-साथ नितम्बदेश विस्तृत होने लगा । प्रतापके साथ-साथ रोम-राजि उत्पन्न होने लगी । शत्रुओंकी स्त्रियोंके बालोंकी लटोंके साथ-साथ बाहुयुगल दीर्घता प्राप्त करने ( नीचे को लटकने ) लगे । ( अर्थात् शत्रुओंकी स्त्रियोंने अपने पतियोंके विनाशके डरसे अपनी चोटियाँ गूंथना छोड़ दी थीं, उनकी चोटियाँ नीचे की तरफ लम्बी लटका करतीं थीं ) । चरित्रके साथ-साथ नयनयुगल निर्मल होने लगे । आज्ञाके साथ-साथ स्कन्धदेश ( बाहुका ऊपरी भाग ) विस्तृत होने लगा, एवं कण्ठ-स्वरके साथ-साथ हृदयमें गम्भीरता आने लगी ।

चन्द्रापीडका यौवन-समय उपस्थित है, उसकी समस्त शिल्प-कलाओंकी शिक्षाएँ समाप्त हो गई हैं, एवं अन्य समस्त विद्याओंका अध्ययन करना हो गया है, और विद्यालयसे जानेके लिए, आचार्योंने अपनी-अपनी अनुमति दे दी है, उनसे ऐसा जानकर राजा तारापीडने-चन्द्रापीडको बुलानेके लिए, वलाहक नामक सेनापतिको बुला कर, अधिकतर घुड़सवार और पैदल-सेनाओंके साथ अतिप्रशस्त दिनमें विद्यालय भेजा । वलाहक विद्यालय जाकर उपस्थित हुआ । उसके बाद द्वारपालोंने राजपुत्रके पास जाकर वहाँ से अनुमति मिलनेके बाद लौट कर सूचित किया कि—'राजपुत्रने आपको प्रवेश करनेकी अनुमति दी है'। बाद वलाहकने अन्दर घुस कर मस्तक अवनत


१. शिखरदेशः । २. क्वचिद् चकारो नास्ति । ३. समग्र । ४. वृहद्••• । ५. द्वारस्थैः ।

२३६कादम्बरी-[ कथाभाग-

प्राविशच्च^१ क्षितितल-विलम्बिते^२-चूडामणिना शिरसा प्रणम्य स्वभूमिसमुचिते राजसमीप इव सविनयमासने राजपुत्रानुमतो न्यषीदत् । स्थित्वा च मुहूर्त्तमात्रं बलाहकश्चन्द्रापीडमुपसृत्य व्यजिज्ञपत्^३-कुमार ! महाराजः समाज्ञापयति-पूर्णा नो मनोरथाः, अधीतानि शास्त्राणि, शिक्षिताः सकलाः कलाः, गतोऽसि^४ सर्वायुधविद्यासु^५ परां प्रतिष्ठाम्, अनुमतोऽसि निर्ग-माय^६ विद्यागृहात् सर्व्वाचार्यैः । उपगृहीतशिक्षं गन्धगजकुमारकमिव वारिविनिर्गतम्^७ अधि-गत^८-सकल-कला-कलापं^९ पौर्णमासीशशिनमिव नवोद्गतं^१० पश्यतु त्वां जनः । व्रजन्तु सफलताम-तिचिर-दर्शनोत्कण्ठितानि लोकलोचनानि । दर्शनं प्रति ते समुत्सुकान्यतीव सर्व्वाभ्यन्तः-

न्वितः संयुक्तः चूडामणिः शिरोरत्नं यस्य तथोक्तेन शिरसा मूर्ध्ना प्रणम्य नमस्कृत्य, स्वभूमौ स्वोपयुक्त-स्थले राजपुत्रस्य वामभाग इत्यर्थः । समुचिते योग्ये राजपुत्रासनात् किञ्चिन्निम्न इत्याशयः । आसने विष्टरे राजपुत्रेण नृपात्मजेन अनुमतोऽनुज्ञातो राजसमीप इव नृपनिकट इव सविनयं यथा स्यात्तथा न्यषीदत् उपविष्टवान् । इह 'राजसमीप इव' इत्युपमा ।

स्थितेति । मुहूर्त्तमात्रं क्षणमात्रं स्थित्वा लब्धस्थानं विधाय बलाहकः चन्द्रापीडम् उपसृत्य निकटे प्राप्य दर्शितः प्रकटीकृतो विनयः सेवकार्थो येन स तादृशो व्यजिज्ञपत् विज्ञापनां कृतवान्— कुमार राजपुत्र ! महाराजः तारापीडः समाज्ञापयति सादेशं ददाति—नोऽस्माकं मनोरथा वाञ्छिताः पूर्णाः सम्पन्नाः । कथमिति जिज्ञासायामाह—अधीतानीत्यादि । अधीतानि शिक्षितानि शास्त्राणि वेदा-दीनि, सकलाः समस्ताः कला नृत्यगीतादयः शिक्षिताः पठिताः, सर्वासु निखिलासु आयुधविद्यासु शस्त्रविद्यासु पराम् उत्तमां प्रतिष्ठां शिक्षाजनितगौरवं गतः प्राप्तोऽसि । विद्यागृहात् विद्यामन्दिरात् सर्व्वाचार्यैः निखिलाध्यापकैः निर्गमाय निःसरणाय अनुमतोऽसि अनुज्ञातोऽसि ।

उपेति । उपगृहीताः आचार्यसकाशादात्ताः शिक्षाः शास्त्राभ्यासादिरूपा येन तादृशं त्वां वारेः गजबन्धनस्थानात् विनिर्गतं बहिरागतम् । 'वारिर्बन्ध्यां सरस्वत्यां गजबन्धनमुख्ययो' इति रामाश्रमी । गन्धगजकुमारकमिव गन्धहस्तिबालकमिव, अधिगतः प्राप्तः सकलानां समस्तानां कलाविद्यानां षोडशां-शानाञ्च कलापः समूहो येन तं तादृशम्, नवोद्गतं नूतनोदितं पौर्णमासीशशिनमिव राकांचन्द्रमिव जनो लोकः पश्यतु अवलोकयतु ।

इह 'गन्धगजकुमारकमिव' इत्युपमा, 'पौर्णमासीशशिनमिव' इति पूर्णोपमा चेत्यनयोः नियों नैर-पेक्ष्येण विद्यमानत्वासंसृष्टिरलङ्कारः ।

व्रजन्त्विति । अतिचिरेण सुबहुकालेन यद्दर्शनम् अवलोकनं तत्रोत्कण्ठितानि सोत्कलिकाानि 'उत्क-ण्ठोत्कलिके तस्मिन्' इति शब्दार्णवः । लोकलोचनानि जननयनानि सफलतां साफल्यं व्रजन्तु गच्छन्तु ।

दर्शनमिति । ते तव दर्शनम् अवलोकनं प्रति सर्वाणि निखिलाानि अन्तःपुराणि अन्तःपुरस्था नार्यः अतीव समुत्सुकानि अत्यन्तोत्कण्ठितानि सन्तीति शेषः ।


(झुका) कर राजपुत्रको प्रणाम किया। उस समय उसका चूडामणि भूतलमें सट गया था। इसके बाद वह महा-राज तारापीडके समीपमें जिस प्रकार बैठा करता था, उसी प्रकार राजपुत्रकी अनुमति के अनुसार अपने पदके योग्य आसन पर विनयपूर्वक बैठ गया। फिर थोड़ी देर ठहर कर वह चन्द्रापीडके समीपमें आकर विनयपूर्वक कहने लगा—'कुमार ! महाराज आदेश देते हैं कि—'हमारी सब अभिलाषाएँ पूर्ण हुई हैं, क्योंकि-तुम समस्त शास्त्रोंका अध्ययन कर चुके हो, समस्त शिल्प-कलाओंकी शिक्षा पा चुके हो, समस्त अस्त्रविद्याओंमें भी अत्यन्त प्रतिष्ठा प्राप्त कर चुके हो, और आचार्योंने भी विद्यालयसे जानेकी अनुमति दे दी है, अतः एव शिक्षा ग्रहण करके बन्धन स्थानमें से बाहर निकले गन्धगजकुमारके समान एवं सकल-कला-परिपूर्ण नवोदित चन्द्रमाके समान इस समय तुम्हें सब लोग देखें (इस समय वहाँ से तुम बाहर निकल कर आओ)। तुम्हारे दर्शनके लिए उत्कण्ठित साधारण मनुष्योंके नेत्र इस समय सफलता प्राप्त करें। तुम्हें देखनेके लिए अन्तःपुरस्थ समस्त सुन्दरीयाँ


१. प्रदेशितः।
२. ...लम्बन्दित, चुम्बित...।
३. व्यज्ञापयद् !
४. गतः।
५. सर्वाः।
६. विनिर्गमाय ।
७. वारिबन्धनाद्विनिर्गतम् ।
८. क्वचित् 'अधिगत' इति पदं नास्ति ।
९. ...कलापकम् ।
१०. उद्गतम् ।

राज्ञाऽऽनिवेदनम् ०-२३ ] 'चन्द्रकला-विद्योतिनीसहिता । २३७

पुराणि । अयमत्रभवतो दशमो वत्सरः^२ विद्यागृहमधिवसतः, प्रविष्टोऽसि षष्ठमनुभवन् वर्षम् , एवं सम्पिण्डितेनाधुना^३ षोडशेन प्रवर्द्धसे, तदद्यप्रभृति निर्गत्य दर्शनोत्सुकाभ्यो दत्त्वा दर्शनमखिलाभ्यो मातृभ्यः^४, अभिवाद्य च गुरून्^५, अपगतनियन्त्रणो यथासुखमनुभव राज्यसुखानि नवयौवनललितानि च, सम्मानय राजलोकम्, पूजय द्विजातीन्, परिपालय प्रजाः, आनन्दय बन्धुवर्गम्' । अयञ्च ते^६ त्रिभुवनैकरत्नमनिलगरुड-सम-जव इन्द्रायुधनामा तुरङ्गमः प्रेषितो महाराजेन द्वारि तिष्ठति । एष खलु देवस्य पारसीकाधिपतिना त्रिभुवनाश्चर्यमिति कृत्वा 'जलनिधि^७जलादुत्थितमयौनिजमिदमश्वरत्नमासादितं मया महाराजाधिरोहणयोग्यम्' इति सन्दिश्य प्रहितः^८। दृष्ट्वा^९ च निवेदितं लक्षणविद्भिः—'यान्युच्चैःश्रवसः श्रूयन्ते लक्षणानि

अयमेवेति । अत्रभवतः अत्यन्तशिक्षिततया सर्वपूज्यस्य 'त्रिषु तत्रभवान् पूज्यस्तत्रैवात्रभवानपि' इति हैमः । विद्यामन्दिरम् अधिवसतः अधितिष्ठतः अयं दशमः संवत्सरो दशमो वर्षः 'अस्ति' इति शेषः । अयं च षष्ठं वर्षं संवत्सरम् अनुभवन् प्रविष्टोऽन्तर्गतोऽसि । एवम् अनेन प्रकारेण सम्पिण्डितेन संयोजनेन षोडशेन षडधिकदशवर्षेण त्वं प्रवर्द्धसे वृद्धिं प्राप्तोऽसि, तत्तस्मात्कारणाद् कृतकृत्यत्वादित्याशयः । अद्य-प्रभृति अद्यारभ्य निर्गत्य निःसृत्य दर्शनोत्सुकाभ्यो विलोकनोत्कण्ठिताभ्योऽखिलमातृभ्यः समस्तजननीभ्यो दर्शनं स्वसाक्षात्कारं दत्त्वा, अभिवाद्य प्रणम्य च गुरून् शिक्षकान्, अपगतनियन्त्रणो दूरीभूतपूर्ववरोधो यस्य स तादृशः, यथासुखं सुखमनतिक्रम्य राज्यसुखानि नवयौवनस्य अभिनवतारुण्यस्य ललितानि विलासव्यापारांश्च अनुभव साक्षात्कुरु ।

सम्मानयेति । राजलोकं स्वायत्तभिन्नराजवर्गम्, सम्मानय सम्मानदानेन प्रसन्नीकुर्वित्यर्थः । द्विजातीन् विप्रान् 'दन्तविप्राण्डजा द्विजाः' इत्यमरः । पूजय वस्त्रादिदानेन सत्कुरु । प्रजाः प्रकृतीः परिपालय सर्वतो रक्ष । बन्धुवर्गं स्वजनमण्डलम् आनन्दय प्रहर्षय ।

अयञ्चेति । अयं पुरो दृश्यमानः त्रिभुवने लोकत्रये एकम् अद्वितीयं रत्नम्, अश्वजातिषु सर्वोत्कृष्ट इत्यर्थः । 'वेदाः प्रमाणम्' इतिवन्नपुंसकत्वम् । अनिलगरुडयोः वायुतार्क्ष्ययोः समस्तुल्यो जवो वेगो यस्य स तादृशः । इन्द्रायुध इति नाम यस्य सः तादृशस्तुरङ्गमोऽश्वो महाराजेन भूपतिना ते तव निमित्तं प्रेषितः प्रहितः द्वारि विद्यामन्दिरप्रतोळ्यां तिष्ठति । खलु निश्चयेन, एष इन्द्रायुधः पारसीकाधिपतिना पारसीकदेशस्वामिना मया देवस्य महाराजस्य त्रिभुवनाश्चर्यं लोकत्रयविस्मयजनकम् इति कृत्वा जलनिधिजलात् समुद्रसलिलाद् उत्थितम् आविर्भूतम् अत एव अयोनिनं पुंस्त्रीसंयोगादनुत्पन्नन् अत एव च महाराजस्य तारापीडस्य अधिरोहणयोग्यम् आरोहणोचितम् इदम् अश्वरत्नं घोटकमणिः इति सन्दिश्य इति कथयित्वा प्रहितः प्रेषितः ।

ननु पारसीकाधिपतिना यत्प्रशंसितं तत्सत्यमेव न मन्ये विदेशीयत्वात् । यदि चास्मद्देशीयः कश्चित् तत्तत्त्वज्ञो वदेत् तदैव प्रशंसाया विशेषमहत्त्वमित्यत आह—दृष्ट्वा चेति । लक्षणविद्भिः इह विद्यमानैः अश्वलक्षणभिज्ञैः दृष्ट्वा निरीक्ष्य निवेदितं विज्ञापितम्—देव ! स्वामिन् ! उच्चैःश्रवसः उच्चैः उन्नतौ श्रवौ कर्णौ

अत्यन्त उत्कण्ठित हो रही है । और तुम्हें विद्यालय में वास करते हुए यह दशवाँ वर्ष है, तुमने छठे वर्ष की अवस्था में विद्यालय में प्रवेश किया था । इन दोनोंको जोड़नेसे तुम सोलहवें वर्षमें प्रविष्ट होकर बढ़ रहे हो, इस लिए आज यहां से बाहर निकल कर, देखनेके लिए उत्कण्ठित सभी माताओंको दर्शन देकर तथा गुरुजनों (बड़े-बूढ़ों) की वन्दना करके, स्वतन्त्रता-पूर्वक राज्य-सुख और नव-यौवनके भोग-विलासका यथारुचि अनुभव करो, राजाओंका सम्मान करो, ब्राह्मणोंका पूजन करो, प्रजाओंका पालन करो और आत्मीय-बन्धुओंको आनन्दित करो । त्रिभुवनके मध्यमें रत्न-स्वरूप एवं वायु और गरुड़के तुल्य वेगवान् इन्द्रायुधनामका एक अश्व आपके लिए महाराजने भेज दिया है, वह अश्व दरवाजे पर खड़ा है । 'समुद्र-जलमें से निकला हुआ अयोनिसम्मा यह अश्व-रत्न मुझे मिला है, यह महाराजके (तारापीडके) ही चढ़ने योग्य है' इस प्रकार सन्देशा देकर एवं यह अश्व तीनों भुवनोंके मध्यमें आश्चर्य्य रूप है ऐसा समझ कर पारसीकोंके राजाने महाराजके (तारापीडके) पास इसे भेज दिया था ।


१. क्वचित् , 'अयम्' इत्यधिकः पाठो नास्ति । २. संवत्सरः । ३. आपीढितेनाधुना । ४. अखिलमातृभ्यः । ५. गुरून् । ६. कुत्रचिद 'ते' इति पदं न विद्यते । ७. जलधि । ८. प्रहितम् । ९. इह क्वचित् 'च' इत्यादिकः पाठः समुल्लङ्घ्यते ।

२३८कादम्बरी-[ कथायाम्

तैरुपेतः। नैवंविधो भूतो भावी वा तुरङ्गम इति । तदयमनुगृह्यतामविरोहेणेन । इदञ्च मूर्द्धाभिषिक्त^१-पार्थिवकुल-प्रसूतानां विनयोपपन्नानां शूराणामभिरूपाणां कलावताञ्च^२ कुलक्रमा-गतानां राजपुत्राणां सहस्रं परिचारार्थम्^३ अनुप्रेषितं तुरङ्गममारूढं^४ द्वारि प्रणामलालसं प्रतिपा-लयति ।' इत्यभिधाय विरतवचसि^५ बलाहके चन्द्रापीडः पितुराज्ञां शिरसि कृत्वा नवजलधर-ध्वान-गम्भीरया गिरा 'प्रवेश्यतामिन्द्रायुध' इति निर्जिगमिषुरादिदेश ।

अथ वचनानन्तरमेव^६ प्रवेशितम्, उभयतः खलीन-कनक-कंटकावलग्नाभ्यां^७ पदे पदे

यस्य तस्य इन्द्राश्वस्य यानि लक्षणानि चिह्नानि श्रूयन्ते आकर्ण्यन्ते तैर्लक्षणैः अयम् इन्द्रायुध उपेतो युक्तः। एवंविध एतादृशः तुरङ्गोऽश्वो न भूतः पूर्वमासीत् न भावी अग्रे च न भविष्यति इति सम्भा-वयामइ इति शेषः । तस्मात्पारसीकवचनेऽपि विश्वासो विधेय एवेत्याशयः ।

तदिति। तत्तस्मात्कारणाद् अयम् अश्वोऽधिरोहणेन आरोहणेन अनुगृह्यताम् अनुग्रहविषयी-क्रियताम् ।

इदमिति। यथाशास्त्रं राज्येऽभिषिक्ताः मूर्द्धाभिषिक्ता इति साम्प्रदायिकाः । ब्राह्मणेभ्यः क्षत्रियासूतका मूर्द्धाभिषिक्ता इति धर्मशास्त्रम् । तथा च तादृशा ये पार्थिवा भूपतयः तेषां कुले वंशे प्रसूता उत्पन्नाः तेषां तयोक्तानाम्, विनयोपपन्नानां मर्यादासाहितानाम्, शूराणां साहसगुणयुक्तानाम्, अभिरूपाणां मनोहरा-कृतीनाम्, कलावतां विज्ञानवताम्, कुलक्रमागतानां वंशपरम्परायातानाम्, राजपुत्राणां सहस्रं नृपात्म-जानां समूहः, परिचारार्थं सेवानिमित्तम्, अनुप्रेषितं महाराजेन मत्पश्चात् प्रहितम्। एषां पूर्वजा यथा भवतः पूर्वजानां सेवां विहितवन्तः, एतेऽपि तथैव भवन्तं सेवितुं समायाता इत्याशयः । तुरङ्गमम् अश्वम् आरूढं द्वारि प्रतोल्यां प्रणामलालसं भवतो नमस्कारेऽत्यन्ताभिलाषुकं सद् प्रतिपालयति भवन्तं प्रतीक्षते।' इत्यभिधाय इत्युक्त्वा बलाहके विरतवचसि तूष्णीम्भूते सति चन्द्रापीडः पितुराज्ञां जनका-देशं शिरसि कृत्वा मस्तके आरोप्य, नवो नूतनो यो जलधरो मेघो घनः तस्य यद् ध्वानं गर्जनं तद्वद् गम्भीरया मन्द्रया गिरा वाण्या ततो निर्जिगमिषुः विद्यालयान्निर्गन्तुमिच्छुः इन्द्रायुधः तन्नामाश्वः प्रवेश्यताम् आनीयताम् इत्यादिदेश आज्ञां दत्तवान् ।

अथेति। अथेति नानन्तर्ये 'वचनानन्तरम्' इत्यनेनैव तस्य प्रतिपादनात् किन्तु वाक्यान्तरारम्भ इत्यर्थः । वचनानन्तरमेव चन्द्रापीडस्याज्ञावाक्यानन्तरमेव, प्रवेशितं बलाहकाज्ञया आनीतम् 'इन्द्रायुधम् अद्राक्षीत्' इत्यतिदूरस्थेन सम्बन्धः । इह द्वितीयान्तानि पदानि 'इन्द्रायुधम्' इत्यस्य विशेषणानि बोध्यानि । उभयतो भागद्वयात् खे वदनच्छिद्रे लीनोऽन्तर्भूत इति खलीनः कविका 'कविका तु खली-नोऽस्त्री' इत्यमरः, स एव कनककटकं स्वर्णवलयम् 'कटकं वलयोऽस्त्रियाम्' इत्यमरः, तत्र अवलग्नाभ्यां संयुक्ताभ्यां गृहीतकविकाभ्यामित्यर्थः, पदे पदे प्रतिपदं कृतो विहित आकुञ्चने आकर्ष्यानयने प्रयत्न


इसे देखकर इस देशके लक्षण पहचानने वालोंने भी कहा था कि—'उच्चैःश्रवा (इन्द्रके घोड़े) में जितने लक्षण सुने जाते हैं, उन समस्त लक्षणोंसे ही यह अश्व सम्पन्न है, अत एव हमारे मनमें होता है कि—इस प्रकारका अश्व पहले भी कभी उत्पन्न नहीं हुआ है कि वा भविष्यत्कालमें भी उत्पन्न नहीं होगा।' इसलिए आप इस पर सवार होने की कृपा करिए। अभिषिक्त क्षत्रिय-राजकुलोंमें उत्पन्न हुए, विनय-गुण-सम्पन्न, बलवान्, सुन्दराकृति, शिल्पकलाभिज्ञ और कुलक्रमागत इन एक हजार राजपुत्रोंको आपकी सेवाके लिए महाराजने मेरे पीछे भेजा है। वे घोड़ों पर बैठे-बैठे आपको प्रणाम करनेके अभिलाषी होकर दरवाजे पर आपकी प्रतीक्षा कर रहे हैं।' इतना कह कर बलाहकके चुप हो जाने पर चन्द्रापीडने पिता की आज्ञा को शिरोधार्य कर, विद्यालयसे बाहर निकलने की इच्छासे, नवीन मेघकी गर्जनाके समान गम्भीर स्वरसे—'इन्द्रायुधको अन्दर प्रवेश करो' इस प्रकार की आज्ञा दी।

राजपुत्रके आदेशके बाद ही बलाहकने उस अश्वको विद्यालयमें प्रवेश कराया। दो सांस दोनों बगल खड़े होकर, दोनों तरफ लगी हुई सोनेकी जञ्जीरोंको पकड़-पकड़ कर पद-पद पर रोकनेका प्रयत्न कर रहे होने


१. मूर्द्धाभिषिक्तानाम् ।
२. कुलवताम् ।
३. परिवारार्थम्, परिवारार्थम् ।
४. अधिरूढम् ।
५. अभिधाय विरराम ।
६. वचनान्तम् ।
७. खलीनकटक***, खलीनरूपनक ।

इन्द्रायुध०-२४ ] चन्द्रकला-विद्योतिनीसहिता । २३६

कृताङ्कुशप्रयत्नाभ्यां पुरुषाभ्यामाकृष्यमाणम्, अतिप्रमाणम् ऊर्ध्वकर-पुरुष-प्राप्य-पृष्ठभागम्, आपिबन्तमिव सम्मुखागतमखिलमाकाशम्, अतिनिष्ठुरेण मुहुर्मुहुः प्रकम्पितोदररन्ध्रेण हेषारवेण पूरितभुवनोदरविवरेण निर्भर्त्सयन्तमिवालोक-वेग-दुर्विदग्धं गरुत्मन्तम्, अतिदूरमवनमता प्रतिक्षणमतिदूरमुन्नमता च जवनिरोध-स्फीत-रोष-घुरघुरायमाण-घोर-घोणेन शिरोभागेन निज-जव-दर्पवशाल्लङ्घनायामाकलयन्तमिव त्रिभुवनम्, असित-पीत-हरित-पाटला-भिराखण्डल-चापानुकारिणीभीर्लेखाभिः कल्माषित-शरीरम्, आस्तीर्ण-विविधवर्णकम्बल-मिव कुञ्जरकलभम्; कैलास-तटाघातधातु-धूलि-पाटलमिव हरवृषभम्, असुर-रुधिर-पङ्क-

उद्योगो याभ्यां तादृशाभ्यां पुरुषाभ्याम् आकृष्यमाणम् आकृष्य आनीयमानम्, प्रमाणं सामान्यमेव परिमाणमतिक्रान्तमित्यतिप्रमाणम्, अतएव ऊर्ध्वम् उच्चतः करो हस्तो यस्य तादृशेन पुरुषेण प्राप्यः स्पृष्टुं योग्यः पृष्ठभागः पश्चादर्धप्रदेशो यस्य तं तादृशम् अत्यन्तोन्नतमित्यर्थः ।

आपिबन्तेति । सम्मुखागतम् अभिमुखायातम् अखिलं समस्तम् आकाशं गगनम् आपिबन्तमिव स्वाद्यन्तमिव वारंवारं मुखव्यादानादित्याशयः ।

अतीति । अतिनिष्ठुरेण अत्यन्तकठोरेण मुहुर्मुहुः, वारंवारं प्रकम्पितम् आन्दोलितम् उदररन्ध्रं जठरविवरं येन तादृशेन तथा पूरितं व्याप्तं भुवनोदरविवरं जगन्मध्यं येन तादृशेन हेषारवेण हेषाशब्देन 'हेषा हेषा च निस्वनः' इत्यमरः । अलीकवेगेन असत्यजवेन दुर्विदग्धं दुरभिमानिनं गरुत्मन्तं वैनतेयं निर्भर्त्सयन्तं तिरस्कारं कुर्वन्तमिव, स्वस्य तदधिकवास्तविकजवशालित्वादित्याशयः ।

अतिदूरमिति । प्रतिक्षणं क्षणे क्षणे अतिदूरं नितान्तम् अवनमता नीचैर्गच्छता, अतिदूरं नितान्तम् उन्नमता ऊर्ध्वं गच्छता च, जवनिरोधेन रयवृद्धारा वेगावरोधेन स्फीतो वृद्धिमुपगतो यो रोषः क्रोधः तेन घुरघुरायमाणा 'घुर घुर' इत्येवं ध्वनिं कुर्वाणा घोरा भीषणा घोणा नासिका यस्य तेन तादृशेन, शिरोभागेन मूर्ध्रप्रदेशेन करणेन, निजः स्वकीयो जवदर्पः वेगस्य गर्वः तद्वशात् उल्लङ्घनायम् अतिक्रमणार्यं त्रिभुवनं लोकत्रयम् आकलयन्तमिव किंपरिमाणमिति विचारयन्तमिव ।

'आपिबन्तमिव', 'निर्भर्त्सयन्तमिव', 'विचारयन्तमिव' एषु हि क्रियोत्प्रेक्षालङ्कारः ।

असितेति । असिताः श्यामाः, पीताः, हरिताः, पाटलाः श्वेतरक्ताश्च ताभिः तादृशीभिः अत एव आखण्डलस्य इन्द्रस्य यः चापो धनुः तदनुकारिणीभिः तत्सदृशीभिः, लेखाभिः रोमपङ्क्तिभिः कल्माषितं कर्बुरितं विचित्रीकृतमित्यर्थः, शरीरं वपुर्यस्य नं तादृशम् । अत एव आस्तीर्णं पृष्ठदेशोपरि निपातितं विविधवर्णं नानारूपं कम्बलं रत्नकं यस्य तं तादृशम्, कुञ्जरकलभमिव त्रिंशद्वर्षीयहस्तिबालकमिव । तथा असुराणां दैत्यानां रुधिरपङ्कलेखाभिः रक्तकर्दमपङ्क्तिभिः लोहिता रक्तवर्णाः सटाः केसरा यस्य तं तादृशम्, पार्वतीसिंहमिव दुर्गाकेसरिणमिव विद्यमानम् ।

इह मालोपमा, सा च वाक्यार्थहेतुककाव्यलिङ्गालङ्कारेण अर्थोपमालङ्कारेण च सङ्कीर्णा बोध्या ।


डाले थे। उसकी आकृति इतनी बड़ी थी कि-कोई पुरुष दण्डायमान (खड़े) होकर हाथ ऊँचे फैला कर उसके पृष्ठ देशको पा सकता था । वह सब बार-बार मुखव्यादान करनेसे सामने आए समस्त आकाशको, मानो पान करता था । बार-बार उदरको कम्पित कर बाहर निकला हुआ, संसारके मध्य-परिपूरक और अत्यन्त कठोर हेषा-रवसे (अश्वके शब्दका नाम-हेषा, टेंघा) वह मानो, मिथ्या वेगका व्यर्थ दुराभिमान (घमण्ड) रखनेवाले गरुडका तिरस्कार करता था । उसका मस्तक क्षण-क्षणमें कभी बहुत नीचा और कभी बहुत ऊँचा हो जाता था, एवं वेग रोकनेसे उत्पन्न हुए अत्यन्त क्रोधसे उसकी घोर नासिका 'घुर घुर' शब्द करती थी, उससे प्रतीत होता था कि—मानो वह अपने वेगके अहङ्कारसे समस्त त्रिभुवन उल्लङ्घन करने के लिए 'त्रिभुवन कितना बड़ा है' यह मन ही मन विवेचना करता था । इन्द्रधनुषका अनुकरण करनेवाली, काली, पीली, हरी और श्वेत-रक्त वर्णकी रेखाओंसे उसका सब शरीर चित्रित था, जिससे पीठके ऊपर नाना वर्णके कम्बलसे युक्त हाथीके बच्चेके समान, कैलास पर्वतके शरीर पर धक्को टक्कर लगनेसे निकले हुए गैरिकादि धातुकी रजसे श्वेत-रक्त वर्ण महादेव के बैलके समान एवं असुरोंके


१. क्वचित् 'अतिदूरमुन्नमता च, अवनमता प्रदक्षिणमुन्नमता च।
२. क्वचिद् 'घोर' इति पदं नास्ति ।
३. मुखेन ।
४. निजदर्पवशात् , निजजवदर्पविशात् ।
५. कल्पितचित, कल्माषित....।
६. आस्तीर्णकम्बलमिव, आस्तीर्णविविधवर्णकम्बलमिव ।

२४० कादम्बरी- [ कथायाम्-

लेखा-लोहित-सटामिव पार्वतीसिंहम्, रंहःसङ्घातमिव मूर्त्तिमन्तम्, अनवरतपरिस्रुरत्-प्रोथपुटोन्मुक्तसत्कारेण अतिजवापीतमिव नासिकाविवरेणोद्वमन्तम्, अन्तःस्खलित-मुखर-खलीन-खर-शिखर-क्षोभ-जन्मनो लालाजलभुवः फेनपल्लवान् उदधि-निवास-परिप्री-तामृतरस-गण्डूषानिवोद्गिरन्तम्, अत्यायतं निर्ममांसतया समुत्कीर्णमिव वदनमुद्वहन्तम्, आनन-मण्डल-निहितारुण-मणिसमुद्गवैरंशुशुक्लापै रुपेतेनावसक्त-रक्त चामरेणेव निश्चलशिखरेण कर्णयुगलेन विराज मानम्, उज्ज्वल-कनक-शृङ्खला-रचित-रश्मि-कलाप-कलितया लाक्षालोहित-लम्ब-लोल-सटा-सन्तानया जलनिधि-सञ्चरण-लग्न-विद्रुम-पल्लवय्येव शिरोधरयोपशोभितम्,

रह इति । रंहो वेगः तस्य सङ्घातं समूहमिव मूर्तिमन्तं शरीरधारिणम् । अनवरतं निरन्तरं परि-स्फुरतः समन्तात्प्रसरतः प्रोथपुटात् नासिकाग्रात् उन्मुक्तो यः सूत्कारः 'सूत्' इत्येवं ध्वनिः तेन कारणेन, नासिकाविवरेण नासारन्ध्रेण करणेन अतिजवेन प्राग्विहितेनात्यन्तवेगेन आपीतं सम्यक् पानविषयीकृतम् अनिलं वायुम् उद्वमन्तमिव बहिर्निष्कासयन्तमिव ।

'रंहःसङ्घातमिव' इत्यत्र गुणोत्प्रेक्षा, उद्वमन्तमिव इत्यत्र हि क्रियोत्प्रेक्षा ।

अन्तरिति । अन्तर्वदनमध्ये स्खलितः सञ्चलितः, अतएव मुखरो वाचालो यः खलीनः कविका तस्य खरशिखरेण निशिताग्रेण यः क्षोभः घर्षणं तस्माद् जन्म उत्पत्तिर्येषां तान् तादृशान्, लालाजलात् मुख-स्रावसलिंलात् भवन्ति उत्पद्यन्ते ये ते तान् तादृशान्, फेनपल्लवान् प्रसृतमुखकफान्, उदधिनिवासे सागरावस्थानसमये परिपीता ये अमृतरसाः पीयूषरसाः तेषां गण्डूषान् वदनपूरणपरिमितभागान् उद्गिरन्तं वमन्तमिव । क्रियोत्प्रेक्षा ।

अत्येति । अत्यायतम् अतिविस्तीर्णम्, निर्मांसतया तुरङ्गजातेः स्वभावाद् शरीरोपयोगिमांसरहित-तया समुत्कीर्णमिव सन्तद्य दारुविशेषादुद्धृतमिव वदनं मुखम् उद्वहन्तं धारयन्तम् । उक्तालंकारः ।

आननेति । आननमण्डले मूर्द्धीत्यर्थः, निहितेभ्यः मण्डनार्थं तन्तुभिर्ग्रथयित्वा स्थापितेभ्यः अरुण-मणिभ्यः पद्मरागरत्नेभ्यः प्रवालादिभ्यो वा समुद्गतैः निःसृतैः अंशुकलापैः किरणसमूहैः उपेतेन सहितेन अत एव अवसक्तः संलग्नः रक्तचामरः लोहितवर्णवालव्यजनं यत्र तेनेव स्थितेन, निश्चले निष्क्रिये शिखरे अग्रदेशौ यस्य तेन तादृशेन । इह रक्तचामरसम्बन्धोत्प्रेक्षणाद्रूपकोत्प्रेक्षा ।

उज्ज्वलेति । उज्ज्वलया निर्मलया कनकभृङ्खलया सुवर्णनिगडेन रचितः कल्पितो यो रश्मिकलापः अश्वसंयमनाघोरज्जुसमूहः तेन कलितया बद्धया, तथा लाक्षावत् जतुवत् लोहितो रक्तवर्णः लम्बो विस्तीर्णः लोलश्चपलः सटासन्तानः केसरसमूहो यस्यां तया तथोक्तया, अतएव जलनिधिसञ्चरणे पूर्वं सागरे भ्रमण-समये लग्नाः संसक्ताः विद्रुमपल्लवाः तन्त्रत्याः प्रसूतप्रवाला यस्यां तया तादृशयेव, शिरोधरया ग्रीवया उपशोभितं विराजितम् । उक्तालंकारः ।

गाढ़ रक्त संलग्न होनेसे रक्तवर्ण जटासमन्वित दुर्गाके सिंहके समान वह अश्व देखने में आता था। शरीरधारी वेग-समूहके समान वह दण्डायमान था। निरन्तर इतस्ततः सञ्चालित नासिकाके अग्रसे (फूलते नथनोंसे) सूं सूं शब्द निकल रहा था, इसलिए ऐसा बोध हो रहा था कि—पहले महावेगसे जो समस्त वायुका पान कर लिया था, उसे मानो, नासिकारन्ध्रद्वारा बाहर निकाल रहा है। मुखके भीतर सञ्चलित होनेसे खड़ खड़ करते लगामके तीक्ष्ण अग्रभागके घर्षण से लार द्वारा विस्तृत फेन उत्पन्न हो गया है, इससे प्रतीत हो रहा है कि—समुद्रमें निवास करने के समय जो अमृत पान किया था. उसका गण्डूष मानो बाहर फेंक रहा है। अत्यन्त दीर्घ एवं मांस नहीं रहनेसे काष्ठ वा प्रस्तरमें उत्कीर्ण (खुदे हुए) के समान विद्यमान मुख मण्डल धारण किए हुए था। कानों का अग्रभाग निश्चल था, उसके ऊपर नस्तरुत्थित रक्त वर्ण मणि समूहकी किरणें आफ़ पड़ती थी, उससे प्रतीत हो रहा था कि—मानो, दो रक्तवर्ण चामर कानोंके ऊपरमें संलग्न होकर विद्यमान हैं। उज्ज्वल सुवर्णके जञ्जीरके लगामसे उसकी गर्दन बेधी हुई थी, गर्दनके ऊपर लाखके समान रक्तवर्ण लम्बे-लम्बे बहुतर सटाएँ झूल रहीं थीं, इससे प्रतीत होता था कि—समुद्रमध्यमें विचरण करनेने मानो बहुतर प्रवालके पत्ते लग गये हों, इस प्रकारकी ग्रीवाद्वारा वह शोभा पा रहा था। रक्तवर्ण अलङ्कारसे वह अलङ्कृत था, उस अलङ्कारके मध्यमें पत्र और लताके


१. प्रोथोन्मुक्तफूत्कारेण, पुटोन्मुक्तफूत्कारेण। २, फेनप्लवानुदधिनिवास्य । ३. गण्ड। ४. मति-निर्मासतया । ५. रुचिर...।

इन्द्रायुधव०-२४ ] चन्द्रकला-विद्योतिनीसहिता । २४१

अतिकुटिल-कनक-पत्रलता-प्रतान-भङ्गुरण पदे पदे रणितरत्नमालेन स्थूलमुक्ताफलप्रा- चेण तारागणेनेव सन्ध्यारागम्^१। अरुणेनाश्वालङ्कारेणालङ्कृतम्, अश्वालङ्कार-निहित-मरकत- रत्नप्रभा-श्यामायमान-देहतया गगनतल-निपतित-दिवसकर-रथ-तुरग-शङ्कामिवोपजनयन्तम्^३, अतितैजस्वितया जब-निरोध-रोष-वशात् प्रतिरोमकूपात् समुद्गतानि^५ सागरपरिचय-लग्नानि^६ मुक्ताफलानीव स्वेदलवैंजालकानि वर्षन्तम्, इन्द्रनीलमणिपादपीठानूकारिभिरञ्जनशिला- घटितैरिव अनवरत-पतनोत्पतनजनितविषम-मुख-रवैः^९ पृथुभिः खुरपुटैर्जर्जरितवसुन्धरैरमुरज-

अतीति । अतिकुटिलानाम् अत्यन्तवक्राणां कनकपत्रलतानां सुवर्णरचितपत्राकारलताकारभाग-विशेषाणां प्रतानम् आधिक्यं यत्र तच्च तद् भङ्गुरं समूहेनापि वक्रञ्चेति तेन तादृशेन पदे-पदे प्रतिपदन्यासे रणितो ध्वनितो रत्नमाला मणिस्रजो यत्र तेन तादृशेन, स्थूलानाम् अछुद्राणां मुक्ताफलानां मौक्तिकानां, प्रायः आधिक्यं यत्र तेन तादृशेन, अरुणेन लोहितवर्णेन अश्वालङ्कारेण तुरङ्गभूषणेन अलङ्कृतं मण्डितम् , अत एव तारागणेन नक्षत्रमण्डलेन सन्ध्यारागमिव सायङ्कालीनलौहित्यमिव विद्यमानम् । सन्ध्या-रागमिवेत्युपमा।

मरकवेति । अश्वालङ्कारेषु तुरङ्गभूषणेषु निहितानां स्थापितानां मरकतरत्नानाम् अश्मगर्भाणां प्रभाभिः द्युतिभिः श्यामायमानः श्यामवदाचरन् देहः शरीरं यस्य तस्य भावस्तया कारणेन, गगनतलात् आकाशतलात् निपतितः अधोयातो यो दिवसकरो दिनकृत् तस्य रथतुरगः स्यन्दनाश्वः तस्य शङ्कां स्वस्मिन् भ्रमम् उपजनयन्तमिव उत्पादग्रन्तमिव विद्यमानम् । सूर्यरथाश्वानामपि हरित्द्वर्णत्वादतिविपुलत्वाच्चेत्याशयः । उपजनयन्तमिवेति क्रियोत्प्रेक्षा ।

अतीति । अतितैजस्वितया नितान्तपराक्रमवत्तयेति च क्रोधजनने कारणम् । 'तेजो दीप्तौ प्रभावे च स्यात् पराक्रमरेतसोः' इति मेदिनी । ज़वनिरोधेन रक्षककर्तृकवेगावरोधेन यो रोषः कोपः तद्वशात् प्रति रोमकूपं प्रतिरोमरन्ध्रं समुद्गतानि उत्थितानि स्वेदलवजालकानि धर्मबिन्दुवृन्द्वानि, सागरपरिचयेन समुद्र-मध्ये सञ्चरणपौःपुन्येन लग्नानि शरीररसंसक्तानि मुक्ताफलानीव रसोद्भवानीव वर्षन्तं वृष्टिं कुर्वन्तम् । मुक्ताफलानीवेति जात्युत्प्रेक्षा ।

इन्द्रेति । इन्द्रनीलमणेः नीलकान्तरत्नस्य पादपीठानि पादासनानि अनुकर्त्तुं शीलं येषां तैः तादृशैः कृष्णवर्णत्वादित्याशयः । अञ्जनशिलया कज्जलसदृशश्यामलवर्गप्रस्तरेण घटितै रचितैरिव, अनवरतं निरन्तरं यत् पतनं पृथिव्यामवतरणम् उत्पतनं पृथिव्या उत्थानञ्च ताभ्यां जनित उत्पन्नो विषमो विकटः मुखरवः अग्रभागशब्दो येषां तैः तादृशैः, पृथुभिर्विशालैः जर्जरितवसुन्धरैः भिन्नीकृतभूतलैः खुरपुटैः शफपुटैः, मुरजवाद्यं मृदङ्गवाद्यम् अभ्यस्यन्तमिव अभ्यासं कुर्वन्तमिव तथाविधध्वन्युत्पत्तेरित्याशयः । अभ्यस्यन्तमिवेति क्रियोत्प्रेक्षा, सा चार्योपमासङ्कीर्णा ।


समान आकृतिविशिष्ट अत्यन्त वक्र ( टेढ़ ) सुवर्ण-निर्मित छोटी-छोटी रेखाएँ अधिक थीं, और वह अलङ्कार प्रायः सम्पूर्ण ही वक्र था, प्रत्येक पादक्षेपनें ( पद पद पर ) मणिमय मालाके शब्द हो रहे थे ( रत्नोंके हार खनखनाते थे ), और जिसके मध्यमें बड़े-बड़े मोती लगे थे, अत एव तारागणसे शोभित सन्ध्यारागके समान वह अश्व देखनेमे आ रहा था । उन आभूषणोंके मध्यमें स्थापित ( जड़े ) मरकत मणियोंके कान्तिसे उसका शरीर श्याम हो गया था, जिससे वह मानो आकाशमेंसे गिरे हुए सूर्यरथनियुक्त घोड़ेका भ्रम उत्पन्न कर रहा था। अत्यन्त तेजस्विताके कारण वेग रुक गया था, अत एव वह क्रोधवश प्रत्येक रोमकूपसे निकलते हुए पसीनेकी बूंदोंको वर्षा कर रहा था, इससे प्रतीत होता था कि—अनेकवार समुद्र-मध्यमें विचरण करनेसे शरीरमें लगे हुए मोतियोंको मानो वर्षा कर रहा है। विधाताने उसके विस्तृत खुरोंको मानो कज्जलके समान विस्तृत काले पाषाण द्वारा निर्माण किया था, अत एव वे नीलकान्ति-मणि-निर्मित पादपीठ ( चौकी ) के अनुकरण करते थे एवं पृथिवीको जर्जरित ( विदारित ) करते थे, इसलिए निरन्तर ऊँचे और नीचे उठनेके कारण उन खुरोंके अग्र भागके विकट शब्दों ( विषम स्वरों ) से वह मानो मृदङ्ग वाद्यका अभ्यास करता था । विधाताने उसकी जङ्घाओंको मानो काष्ठ अथवा प्रस्तरोंको उत्कीर्ण ( छोल ) कर


१. अत्र ‘च’ इति पदमधिकमुपलभ्यते क्वचित् क्वचित् । २. सन्ध्यारागम्‌नेव, सन्ध्यारागानुरागेव । ३. तुरङ्गन ००० । ४. ‘इव’ इति पदं क्वचिन्नास्ति । ५. ००० फूरसमुद्गतानि, कूपसमुद्गतानि । ६. ००० परिचयलग्नग्रानि । ७. स्वेदजललव००० । ८. क्वचित् ‘मणि’ इति पदन्नास्ति । ९. ००० विषमस्वरमुखरवैः ।

२४२ कादम्बरी— [ कथायाम्-

वाचमिवाभ्यस्यन्तम्, उत्कीर्णमिव जङ्घासु, विस्तारितमिवोरसि, श्लक्ष्णीकृतमिव मुखे, प्रसारि- तमिव कन्धरायाम्, उल्लिखितमिव पार्श्वयोः, द्विगुणीकृतमिव जघनभागे, जब-प्रतिपक्ष- मिव गरुत्मतः, त्रैलोक्यसञ्चरणसहायमिव मारुतस्य, अंशावतारमिवोच्चैःश्रवसः, वेगसद्ब्रह्म- चारिणमिव मनसः, हरिचरणमिव सकलवसुन्धरोल्लङ्घनक्षमम्, वरुणहंसमिव मानसप्रचारम्, मधुमासदिवसमिव विकसितशोकपाटलम्, व्रतिनमिव भस्म-सित-पुण्ड्रकाङ्कितमुखम्।

उत्कीर्णमिति। जङ्घासु प्रसुतावच्छेदेन 'जङ्घा तु प्रसूता' इत्यमरः। उत्कीर्णमिव काष्ठविशेषं प्रस्तरं वा सन्तक्ष्य निःसारितमिव तत्र शरीरोपयोगिपिशितासत्त्वेन केवलमस्थिमयतया बोध्यमानत्वादित्याशयः। सर्वत्र सृष्टिकर्त्रेति कर्तृपदमध्याहार्यम्। जङ्घाद्वयस्यात्यन्तविस्तृततया भागाधिक्याशयसेनेह बहुवचनो-पन्यासः। तस्य जङ्घाद्वयमुत्कीर्णमिवेति स्फुटार्थः। एवमग्रेऽप्यूहनीयम्। उरसि वक्षसि विस्तारितमिव प्रसारितमिव। मुखे वदने श्लक्ष्णीकृतमिव चिकणकरणेन सौन्दर्यविशेषमापादितमिव। कन्धरायां ग्रीवायां प्रसारितमिव विस्तीर्णीकृतमिव। विस्तृतकन्धरात्वादित्याशयः। पार्श्वयोः कक्षाधोऽवयवयोः उल्लि-खितमिव उत्कीर्णमिव शरीरोपयोगिपिशितासत्त्वादित्याशयः। जघनभागे नितम्बदेशे द्विगुणीकृतमिव द्विगुणतामापादितमिव तयोरत्यन्तस्थूलत्वादित्याशयः।

'उत्कीर्णमिव' इत्यारभ्य 'द्विगुणीकृतमिव' इत्यन्तं यावत् क्रियोत्प्रेक्षालङ्कारः।

जवेति। गरुत्मतो वैनतेयस्य जबप्रतिपक्षमिव वेगे प्रतिद्वन्द्विनमिव तत्सदृशवेगयुक्तत्वादित्याशयः। एवमुपरिष्टापि। मारुतस्य पवनस्य त्रैलोक्ये त्रिभुवने यत्सञ्चरणं गमनं तत्र सहायमिव सखायमिव। उच्चैः-श्रवसः इन्द्रतुरङ्गमस्य अंशावतारमिव अंशेनावतरणमिव। मनसः चित्तस्य वेगस्य सब्रह्मचारिणमिव सतीर्थ्यमिव। इह सर्वत्र जात्युत्प्रेक्षा।

हरीति। हरेः वामनरूपस्य भगवतः चरणं पादमिव सकलवसुन्धरोल्लङ्घनक्षमं समस्तभूतलोल्लङ्घन-समर्थम्, बलिक्रतौ वामनभगवतः पादस्य समस्तभूनलोल्लङ्घनाद् इन्द्रायुधस्यापि तन्मत्त्वमित्याशयः।

वरुणेति। वरुणस्य प्रचेतसो यो हंसश्चक्राङ्गस्तमिव 'हंसास्तु श्वेतगरुतश्चक्राङ्गा' इत्यमरः। मानस-वत् चेतोवत् प्रचारो गतिर्यस्य तं तादृशम्, पक्षे मानसे तन्नामकसरोवरे प्रचारो भ्रमणं यस्य तं तादृशम्।

मध्विति। मधुमासस्य चैत्रमासस्य 'स्याच्चैत्रे चैत्रिको मधुः' इत्यमरः। दिवसमिव दिनमिव, विक-सितः प्रस्फुटितो यतः अशोको वञ्जुलो 'वञ्जुलोऽशोके' इत्यमरः, तद्वत् पाटलं श्वेतरक्तम्, पक्षे विकसितैः सशोकैः कुसुमैः पाटलम्।

व्रतिनमिति। व्रतिनं किञ्चिन्नियमयुक्तं पार्वणादिश्राद्धीयक्रियातत्परं विप्रमिव, भस्मवद् सितो धवलो यः पुण्ड्रको भाले रोमविन्यासविशेषः, पक्षे भस्मना विभूत्या यः सितपुण्ड्रकः श्वेततिलकविशेष-स्तेन अङ्कितं चिह्नितं मुखं वदनं यस्य तं तादृशम्।


बाहर किया था। वक्षःस्थल (छाती) को मानो विस्तृत किया था। मुख भागको मानो पालिश कर पतला कर दिया था। गर्दन को मानो विस्तृत बनाया था। दोनों बगल को मानो छीलकर बाहर किया था एवं जघन भागको मानो दूना कर बनाया था। और वह वेगमें गरुड़का प्रतिस्पर्धी था। त्रिभुवन विचरण करनेमें वायुका मानो सहचर था। इन्द्रके घोड़ेका मानो अंशावतार था। वेग-शिक्षामें मानो मनका सतीर्थ्य (साथी) था। वामनरूपी नारायणके चरण के समान वह, समस्त पृथिवीका उल्लङ्घन करनेमें समर्थ था। वरुणका हंस जिस प्रकार मानस सरोवरका विचरण करता है, वह भी उसी प्रकार मनके समान वेगसे विचरण करता था। चैत्र मासके दिन जिस प्रकार खिले हुए अशोक पुष्पसे पाटल (श्वेतरक्तवर्ण) होते हैं, वह भी उसी प्रकार खिले हुए अशोक-पुष्पके समान पाटल (श्वेत-रक्तवर्ण) था। श्राद्धादि वैध कर्ममें प्रवृत्त ब्राह्मणके मुखमण्डलके समान भस्मद्वारा निर्मित शुभ्रवर्ण त्रिपुण्ड्से अङ्कित रहता है, उसका मुख भी उसी प्रकार भस्मके समान शुभ्रवर्ण ललाटस्थित रोमावर्त्तसे अङ्कित था। कमल-वनके केशर जिस प्रकार उसके गाढ-मकरन्दसे पिङ्गल वर्ण होकर रहते हैं, उसके केसर (स्कन्धप्रदेशको सटा) भी


१. जव....। २. वेगस्य । ३. विकासित ।

•इन्द्रायुधव० २४ ] चन्द्रकला-विद्योतिनीसहिता २४३

कमलवनमिव मधु-पङ्क-पिङ्गकेसरम् , ग्रीष्मदिवसमिव महायाममुग्रतेजसञ्च, भुजङ्गमिव^१ सदागत्यभिमुखम् , उदधिपुलिनमिव शङ्खमालिकाभरणम् , भीतमिव स्तब्धकर्णम् , विद्याधरराज्यमिव चक्रवत्तिनरवाहनोचितम् , सूर्योदयमिव सकलभुवनार्घार्हम् , अश्वातिश- ममिन्द्रायुधमद्राक्षीत् । दृष्ट्वा च तमदृष्टपूर्वममानुषलोकोचिताकारमखिल-त्रिभुवन-राज्योचितमशेषलक्षणोप-


कमलेति । कमलवनमिव पङ्कजविपिनमिव, मधुना प्रसूनरसेन युक्तः सहितो यः पङ्को वचादिचूर्ण- लेपः, पक्षे मधुपङ्को गाढपुष्परसः तेन पिङ्गा रक्तपीताः केसराः स्कन्धरोमाणि किञ्जल्काश्च यस्य तं तादृशम् । आह वायुर्वेदे—'अश्वस्य वातादिदोषशान्तये मधुयुक्तवचादिचूर्णस्य पङ्कस्तेन तनुलेपनम् ।'

ग्रीष्मेति । ग्रीष्मदिवसमिव निदाघंवासरमिव, महान् आयामो विस्तारः यस्य तं तादृशम् , तथा उग्रं भीषणं तेजः सामर्थ्यं यस्य तं तादृशम् , पक्षे तु महान्तः अन्यान्य-ऋत्वपेक्षयातिदीर्घतमाः यामाः प्रहरा यत्र तं तादृशम् , तथा उग्रम् असह्यं तेज आतपो यत्र तं तादृशम् ।

भुजङ्गमिति । भुजङ्गं सर्पमिव, सदा सर्वस्मिन् काले गतौ गमने अभिमुखम् उन्मुखम् , अन्यत्र तु सदागतेः मातरिश्वनः वायोरित्यर्थः । 'मातरिश्वा सदागतिः' इत्यमरः, अभिमुखम् अभिमुखावस्थितम् ।

उदधीति । उदधिः समुद्रः तस्य पुलिनं सैकतमिव, शङ्खमालिका कण्ठार्पिता सलिलात् स्वयमुद्गता च या कम्बुपङ्क्तिः सैव आभरणं भूषणं यस्य तं तादृशम् ।

भीतमिति । भीतम् अन्यप्रतिपाद्यमानस्वकार्याकर्णनादुद्विग्नं तस्करादिजनमिव, स्तब्धौ निश्चलौ कर्णौ श्रोत्रे यस्य तं तादृशम् ।

विधेति । विद्याधराणां व्योमचारिणां गन्धर्वाणां राज्यम् आधिपत्यमिव, चक्रवर्त्तिनः सार्वभौमस्य नरस्य पुरुषस्य वाहने उद्वहने उचितं योग्यम् , स्वस्यापि सर्वथैवात्युत्तमत्वादित्याशयः । अन्यत्र तु—चक्र- वर्त्तिनः समस्तपृथिवीपतेः नरवाहनस्य नरवाहनदत्तसंज्ञकस्य वत्सराजसुतस्य उचितं योग्यम् ।

पुरा किलोदयनाभिधानाद्वत्सराजात् वासवदत्तानाम्न्यां महिष्यां नरवाहनदत्तसंज्ञकः सुतः समु- त्पन्नः; यो हि विद्याधरराज्यस्याधिपतिर्बभूवेति कथासरित्सागरीया कथा ।

सूर्योदयमिति ! सकलभुवनं समस्तजगदेव अर्घो मूल्यं तस्य अर्हो योग्यः तं तादृशम् , समस्तज- गद्रूपमूल्येन क्रेयमित्यर्थः, अत्यन्तोत्तमत्वादित्याशयः । अन्यत्र तु—सकलभुवनस्य समग्रजगद्वासिनो लोकस्य अर्घे अर्धदाने अर्हं योग्यम् ।

इह 'हरिचरणमिव' इत्यारभ्य 'सूर्योदयमिव' इत्यन्तं सर्वत्र पूर्णोपमालङ्कारः ।

अश्वेति । अश्वेषु तुरङ्गमेषु अतिशय उत्कर्षो यस्य तं तादृशम् अश्वकुलेष्वत्युत्तममित्यर्थः । अद्रा- क्षीत् अपश्यत् चन्द्रापीड इति शेषः ।

दृष्ट्वेति । अमानुषलोको देवलोकः तस्य उचितो योग्य आकार आकृतिर्यस्य तं तादृशम् । अखिलं समग्रं त्रिभुवनं लोकत्रयं राज्यम् आधिपत्यं यस्य तस्य देवाधिपत्येत्यर्थः । उचितं योग्यम् । अशेपैः


उसी प्रकार मधुमिश्रित वैद्यक शास्त्र-प्रसिद्ध वचादि चूर्ण लेपने पिङ्गलवर्ण हो गए थे। ग्रीष्मकालके दिन जिस प्रकार अन्यान्य ऋतुकी अपेक्षा बड़े बड़े प्रहरवाले और रौद्र-समन्वित होते हैं, उस अश्वका शरीर भी उसी प्रकार बड़ा विस्तार वाला और भयङ्कर बल-समन्वित था। सर्प जिस प्रकार वायुके अभिमुखमें रहता है, इन्द्रायुध भी उसी प्रकार सर्वदा जानेके लिए ऊपर मुँह उठाये तैयार रहता था। और वह इन्द्रायुध, समुद्र-तटके समान शङ्खमालामय आभूषणसे भूषित था, एवं भयभीत व्यक्तिके समान स्तब्धकर्ण (कान सीधा खड़ा घाला ) था। विद्याधरका राज्य जिसप्रकार चक्रवर्त्ती (समस्त पृथिवीके अधिपति) नरवाहनदत्तके उपयुक्त था, इन्द्रायुध भी उसी प्रकार चक्रवर्त्ती पुरुषके वाहन (सवारी) के उपयुक्त था। सूर्योदय जिस प्रकार समस्त संसारके लोगोंके अर्घदान योग्य है, इन्द्रायुध भी उसी प्रकार समस्त संसार रूप मूल्यके योग्य था। चन्द्रापीडने अश्वजातिके मध्यमें उत्कृष्ट उस इन्द्रायुधको देखा।

चन्द्रापीड अत्यन्त धीर प्रकृति होने पर भी, उस अश्वरूपी अनिर्वचनीय पदार्थको देखकर, बहुत विस्मया- पन्न हो गया। क्योंकि—वह अश्व, देवलोकके उपयुक्त आकारवाला, समस्त त्रिभुवनाधिपतिके आरोहण (सवारी)


१. उग्रतेजसा भुजगम ।
२. सकलभुवनान्यर्हेन् ।

२४४कादम्बरी-[ कथायाम्

पन्नमश्वरूपातिशयमतिधीरप्रकृतेरपि चन्द्रापीडस्य पस्पर्श विस्मयं¹ हृद्यम्। आसीच्चास्य मनसि 'सरभस-परिवर्त्तन²-चलित³-वासुकि-भ्रमित-मन्दरेण मथ्नता जलधि-जलम्⁴ इदमश्वरत्न-मुद्धरता⁵ पूर्वं किं नाम रत्नमुद्धृतं सुरासुरलोकेन⁶। अनारोहता च मेरुशिलातलविशालमस्य पृष्ठमाखण्डलेन किमासादितं त्रैलोक्यराज्यफलम्। उच्चैःश्रवसा विस्मितहृदयो वञ्चितः खलु जलनिधिना शतमखः। मन्ये च भगवतो नारायणस्य चक्षुर्गोचरमियतापि⁷ कालेन नायमुप-गतः, येनाद्यापि तां गरुडारोहणव्यसनितां न त्यजति⁸। अहो ! खल्वतिशयित⁹-त्रिदश-राज-समृद्धिरियं तातस्य राजलक्ष्मीः, यदेवंविधान्यापि सकलत्रिभुवनदुर्लभानि रत्नान्युपकर-

समग्रैः लक्षणैः तुरङ्गोक्तलक्षणैः उपपन्नं सहितम् । अश्वरूपः तुरङ्गरूपः अतिशयः अनिर्वचनीयः कश्चिद्-रितको भिन्नः पदार्थ इत्यर्थः, तं तादृशम् । अदृष्टपूर्वम् अनवेक्षितपूर्वम् , तमिन्द्रायुधं दृष्ट्वा विलोक्य वसंत-मानसय अतिधीरप्रकृतेरपि अतिसाहसभावस्यापि चन्द्रापीडस्य हृदयं कर्तृ विस्मयम् आश्चर्यं पस्पर्श प्राप । इहामंद्वे भेदाध्यवसायादतिशयोक्तिः।

आसीदिति । -अस्य चन्द्रापीडस्य मनसि चित्ते एवम्भूता वृत्तिरासीदित्यर्थः । सरभसं वेगसहितं यत् परिवर्त्तनं मथनं तेन वलितो दर्दितो यो वासुकिः शेषनागः तेन भ्रमितो घूर्णितो यो मन्दरो मेरुर्वतः तेन करणेन, जलधिजलं समुद्रसलिलं मथ्नता आलोड़यता सुरासुरलोकेन देवदानवसमूहेन, इदम् अश्च-रत्नं तुरङ्गमणिम् अमुद्धरता अगृह्णता किं नाम रत्नमुद्धृतं न किमपीत्यर्थः । संसारप्रसिद्धानि उच्चैःश्रव-आदीनि रत्नानि इतस्तुच्छानीत्याशयः ।

अनेति । आखण्डेन इन्द्रेण, मेरुशिलातलवत् - सुमेरुपर्वतविस्तृतप्रस्तरवद् विशालं बृहद् अस्य इन्द्रायुधस्य पृष्ठं पृष्ठप्रदेशम् अनारोहता अनधिरोहता लता, किं त्रैलोक्यराज्यस्य लोकत्रयाधिपत्यत्वकर-णस्य फलम् आसादितं प्राप्तम् अपि तु, किमपि नेत्यर्थः । पृष्ठा रोहणमस्यात्यन्तसौभाग्यफलमित्याशयः ।

उच्चैरिति । उच्चैःश्रवसा तत्सञ्ज्ञकतुरङ्गनिरोक्षणेनेत्यर्थः, विस्मितम् साश्चर्यं हृदयं मनो यस्य स तादृशः । शतमख इन्द्रः जलनिधिना मथ्यमानेन समुद्रेण वञ्चितः प्रतारितः खलु निश्चयेन; येनेदं न दत्त-मित्याशयः । इह वाच्या क्रियोत्प्रेक्षा ।

मन्य इति । इयतापि कालेन एतावतापि समयेन भगवत ऐश्वर्यादियुक्तस्य नारायणस्य श्रीविष्णोः चक्षुर्गोचरं नयनविषयम् अयम् अश्वो नोपगतो न प्राप्तः । येन हेतुना अद्यापि इदानीं पर्यन्तमपि तां पूर्वजातां गरुडारोहणे वैनतेयाधिरोहणे व्यसनिताम् आसक्तिं न त्यजति न जहाति नारायण इति शेषः; अन्यथा गरुडं परित्यज्य एनमेवारोहेदित्याशयः । अत्र 'मन्ये' इति प्रतिपादनाद्वाच्या क्रियोत्प्रेक्षा ।

अहो इति । अहो इत्याश्चर्ये । खलु निश्चयेन तातस्य मच्छितुः इयं राजलक्ष्मीः आधिपत्यश्रीः अतिशयिता अतिक्रान्ता त्रिदशराजस्य सुराधिपत्य समृद्धियया सा तादृशी वर्तते । यद् यस्मात् कारणात् एवंविधान्यपि पूर्वोक्तरूपाण्यपि सकलत्रिभुवनदुर्लभानि समस्तलोकत्रयदुष्प्राप्याणि रत्नानि मण्य

योग्य एवं सर्वोत्कृष्ट अश्वके लक्षणोंसे संयुक्त था । इस प्रकारका अश्व पहले और कभी भी उसे दृष्टिगोचर नहीं हुआ था । उस समय उसके मनमें इस प्रकार होने लगा कि-'वेगके साथ आकर्षण ( खींचने ) से बढ़े हुए शरीर वाले वासुकिनागके द्वारा भ्रमित मन्दराचलसे समुद्र-मन्थन करते हुए देव और दानवोंने यदि इस अश्वरत्नको नहीं निकाला तो किस रत्न को निकाला था ? देवराज, सुमेरु पर्वतके शिलातल ( चट्टान ) के समान विशाल इस अश्वके पीठ पर यदि नहीं चढ़े तो उनको त्रिलोकीके राज्यसे क्या फल मिला ? उच्चैःश्रवाको देखकर ही विस्मित हृदय वाले इन्द्र, समुद्र द्वारा निश्चय ही प्रतारित हुए हैं। मेरे विचारमें 'अभी तक भी यह अश्व, भगवान् नारायणको दृष्टिगोचर नहीं हुआ है' क्योंकि वे अब तक भी उस गरुड़ पर चढ़नेकी आसक्ति नहीं छोड़ रहे हैं। कितना आश्चर्य ! मेरे पिताकी यह राजलक्ष्मी तो, निश्चय ही देवराजकी समृद्धिको अतिक्रमण कर रही है, क्योंकि-समस्त त्रिभु-वनके मध्यमें दुर्लभ-सादृश रत्नोंको लाकर उनसे इसका भोग हो रहा है । अत्यन्त तेजस्वी और महाबलवान्


१. विस्मयः । २. "...विवर्त्तन..." । ३. "...चलित..." । ४. जलनिधि..." । ५. वन्यमुद्धरता, अनुद्धरता । ६. सुरलोकेन । ७. कुत्रचित् 'अपि' पदं नोपलभ्यते । ८. तं गरुडारोहणव्यसनितां न परित्यजति । ९. अतिशयः..." । १०. "...राज्य..." ।

इन्द्रायुधवर्ण०-२४ ] , चन्द्रकला-विद्योतिनीसहिता । , २४५


णतामागच्छन्ति । अतितैजस्चितया महाप्राणतया च सदैवतेवेयम् अस्याकृतिः, यत्सत्यमा- रोहणे शङ्कामिव मे जनयति । न हि सामान्यवाजिनामानुषलोकोचिताः सकल-त्रिभुवन- विस्मयजनन्य ईदृश्यो भवन्त्याकृतयः। दैवतान्यपि हि मुनिशापवशादुज्झितनिजशरीराणि शापवचनबलोपनीतानि³ एतानि शरीरान्तराणि⁴ अध्यासत एव । श्रूयते हि पुरा किल⁵ स्थूलशिरा नाम महातपा मुनिखिल-त्रिभुवन⁶-ललामभूतामप्सरसं रम्भामिधानां शशाप; सा सुरलोकमपहायाश्वहृदये निवेश्यात्मानमश्वहृदयेति विख्याता वडवा भूत्वा⁷ मृत्तिकावत्यां शतधन्वानं नाम राजानमुपसेवमाना मर्त्यलोके महान्तं कालमुवास ।

उपकरणतां भोगसाधनताम् आगच्छन्ति प्राप्नुवन्ति । एवंविधं रत्नं सुरेन्द्रस्य नास्तीत्याशयः ।

अतीति । अस्य पुरोऽवलोक्यमानस्याश्वस्य इयम् आकृतिः आकारः, अतितैजस्चितया अत्यन्तप्र- भाववत्तया महाप्राणतया अत्यन्तशक्तियुक्ततया च हेतुना सदैवतेव कयाचिद्देवतयेव अधिष्ठिता, यत् सत्यम् एतदकस्माद् आरोहणे अधिरोहणे मे मम शङ्कामिव जनयति उत्पादयति । इह यत्सत्यमित्येकमेवा- व्ययपदं चाथार्थ्ये ।

ननु सदैवतेवेति कथं वितर्क्यत इत्यत आह—नहीति । सामान्यवाजिनां साधारणतुरङ्गमानाम आकृतयः आकाराः ईदृश्यः एतादृश्यः अमानुषलोकोचिताः देवलोकोयोग्याः, तथा सकलत्रिभुवनस्य सम- स्तलोकत्रयस्य विस्मयजनन्य आश्चर्योत्पादिका न हि भवन्ति । सुतरां सदैवतेवेति वितर्क इत्याशयः ।

देवानार्माप रूपान्तरपरिग्रह सम्भवतीत्यभिप्रायेणाह—दैवतानोति । हि यस्मात् । दैवतान्यपि सुरा अपि । मुनिशापवशात् ऋषिमिसङ्गापताववशाद् उज्झितानि त्यक्तानि निजशरीराणि देवदेहाः यैरैवं- म्भूतानि शापवचनबलेन अभिसम्पातवाक्यबलेन उपनोतानि उपस्थापितानि एतानि शरीरान्तराणि ईदृशानि स्वशरीराद्विभेन्द्रियायतनानि अध्यासत एव आश्रयन्त्येव । एवञ्च नूनमस्य स्वरूपेऽपि कस्य- चिद्देवतस्याश्रयसम्भावनेत्याशयः ।

नन्वेवंविधोदन्तः कदाचिदवलोकितः आकर्णितो वेत्यत आह—श्रूयत इति । हि निश्चये श्रूयते आकर्ण्यते । पुरा पूर्व स्थूलशिरा नाम महातपा अतितपस्वी मुनिः ऋषिः, संखिलस्य समग्रस्य त्रिभुवनस्य लोकत्रयस्य ललामभूताम् अलङ्कारस्वरूपा म् अप्सरसं संर्वैर्धूम् , रम्भाभिधानां रम्भानाम्नीं शशाप शापं दत्तवान् । इह यद्यपि 'स्त्रियां बहुष्वप्सरसः' इति कोशाद्वहुवचनमेवापेक्ष्यते तथापि 'स्त्रियां बहुष्वप्सरसः स्यादेकत्वेऽप्सरा अपि' इति शब्दार्णवाद् बहुत्वं प्रायोवादः । 'अनचि च' इति सूत्रस्याद् 'अप्सराः' इति माप्याच्च 'अप्सरसम्' इत्येकवचनम् । सा सुरलोकं देवलोकम् अपहाय परित्यज्य अश्वहृदये तुरङ्गमोरसि कात्मानं निवेश्य संस्थाप्य तुरङ्गदेहं परिगृह्येत्यर्थः, अत एव अश्वहृदयेति विख्याता प्रसिद्धा वडवा अश्वा मृत्तिकावत्यां तन्नामिकायां राजधान्याम्, शतधन्वानं नाम राजानं भूपतिम् उपसेवमाना भजमाना मर्त्यलोके महान्तं भूयांसं कालं समयम् उवास उषितवती ।

इह च महाभारतीया कथा— पुरा किल स्थूलशिरा नाम महर्षिः कुशसमिदर्भमरण्यं पर्यटन् 'आंः वयं श्वश्रान्तरे पतामः परित्रायस्वास्मान्' इत्यार्त्तशब्दं श्रुत्वा तद्देशमुपगम्य लताप्रान्तावलम्वितान्

होनेके कारण इसका यह शरीर, किसी देवता द्वारा मानो अधिष्ठित प्रतीत हो रहा है; अत एव इस पर चढ़नेमें मुझे मानो कुछ शङ्का उत्पन्न हो रही है, क्योंकि—साधारण अश्वकी आकृति, इस प्रकार मनुष्य लोकके अयोग्य और समस्त त्रैलोक्यमें विस्मय उत्पन्न करनेवाली नहीं होती । देवता भी मुनियोंके शापसे अपने-अपने शरीरको छोड़कर शाप-वचनके प्रभावसे उपस्थित इस प्रकारके अन्यान्य शरीर धारण करते रहते हैं। सुना जाता है पहले समयमें स्थूलशिरा नामक कोई महातपस्वीने समस्त त्रिभुवनमेंमें अलङ्कार-रूपिणी रम्भा अप्सराको शाप दिया था, जिससे वह देवलोक छोड़ कर अश्व-हृदयमें स्वयं प्रवेश करके, 'अश्वहृदया' नामकी कोई घोड़ी होकर मृत्तिकावती नामकी नगरीमें शतधन्वा नामके राजाकी सेवा करती हुई बहुत काल तक


१. सदैवतेवेदम । २. ०-शरीराणि । ३. ०-वचनोपनीतानि । ४. शरीराणि । ५. क्वचिद् 'किल' इति पदं नोपलभ्यते । ६. ०-भुवन०- । ७. क्वचित् 'भूत्वा' इति पदं न विद्यते । ८. मूर्तिकवत्याम् ।

२४६कादम्बरी-[ कथामुखम्-

अन्ये च महात्मानो मुनिजनशाप-परिप्रीतप्रभावा नानाकारा भूत्वा बभ्रमुमिमं लोकम् । असंशयमनेनापि महात्मना केनापि शापभाजा भवितव्यम् । आवेदयतीव मदन्तः-करणमस्य दिव्यताम् ।'

इति विचिन्तयन्नेवारुरुक्षुरासनादुदतिष्ठत् । मनसा च तं तुरङ्गममुपसृत्य॑ 'महात्मन् । अर्वन् ! योऽसि सोऽसि, नमोऽस्तु ते, सर्वथा मर्षणीयोऽयमारोहणातिक्रमोऽस्माकम् , अपरिगतानि दैवतान्यप्यनुचित-परिभवभाञ्जि भवन्ति' इत्यामन्त्रयाम्बभूव । विदिताभिप्राय इव स तमिन्द्रायुधश्चटुलशिरः-केसर-सटा-हति-कूर्णिताकेकर-तारकेण तिर्यक्चक्षुषा - विलोक्य

अतलस्पर्शगर्ते पतितुं प्रवृत्तान् पुरुषान् दृष्ट्वा 'के यूयम्' इत्यपृच्छत्, तं च स्थूलशिरसः पितरो वयम् त्वया च सन्तानोत्पत्तिर्न कृता, तद्वियोगात्तदुपरे पुंनाम्नि नरके पतिष्यामः इत्यवोचन् स्थूल-शिरास्तु तच्छ्रुत्वा सन्तानोत्पत्त्यर्थं रम्भाभिधानां योषितमभिहितवान्—'त्वां कामये' इति । तया चाभिहितम्—'यथाज्ञापयसि,' किन्तु देवकार्यं कृत्वागमिष्यामि इत्युक्त्वा गत्वा विलम्बितवतीति 'क्रुद्धो महर्षिः 'वडवा भव' इति तां शशाप, नरनायणविग्रहावधिश्च शापो भविष्यति' इति ॥

अन्य इति । अन्येऽपरे महात्मानो गरीयांसो जनाः मुनिजनानां तपस्विनां शापेन अभिसम्पातेन परिप्रीतो विलयं नीतः प्रभावो माहात्म्यं येषां ते तादृशाः । यथा अगस्त्यादीनामभिसम्पातेन नहुषप्रभृतयः अजगररूपादिभिः नानाकारा भूत्वा विविधप्रकाराणि शरीराण्युपगृह्य इमं लोकं संसारं बभ्रमुः अभ्रिमवन्तः । असंशयं निःसन्देहम् अनेनापि केनापि महात्मना महापुरुषेण शापभाजा अभिसम्पातिना भवितव्यम् । मदन्तःकरणं मच्चित्तम् अस्य तुरङ्गमस्य दिव्यतां स्वर्गीयत्वम् आवेदयतीव बोधयतीव ।

इतेति । इति एवम्प्रकारेण चिन्तयन्नेव ध्यायन्नेव आरुरुक्षुः आरोढुमिच्छुः आसनात् सिंहासनाद् उदतिष्ठद् उत्थितो बभूव । तं तुरङ्गमम् अश्वं मनसा चेतसा उपसृत्य समीपं गत्वा चन्द्रापीड इत्यामन्त्रयामास अभ्यर्थयामास । किन्तदामन्त्रणमित्यत आह—महात्मन्निति । हे अर्वन् हे अश्व ! 'वाजिवाहार्बगन्धर्वहयसैन्धवसप्तयः ।' इत्यमरः, योऽसि सोऽसि यत्तद्रूपोऽसि ते तुभ्यं नमो नमो नमस्कारोऽस्तु । सर्वथा सर्वप्रकारेण अस्माकम् आरोहणेन योऽतिक्रमः अवहेलनं स मर्षणीयः सोढव्यः । अपरिगतानि देवत्वेनाज्ञातानि, दैवतान्यपि देवा अपि अनुचितम् अयोग्यं परिभवम् अवमाननां भजन्ते लभन्त इति तानि तादृशानि भवन्ति । इत्यज्ञाञाततयैव भवानपि ममैतदारोहणावमाननमाग मवतीत्याशयः ।

विदितेति । स इन्द्रायुधोऽश्वः अतिमनोरमम् अतिरमणीयं हेषारवं हेषाशब्दम् अकरोत् कृतवान् इत्यन्वयः । विदितो ज्ञातः अभिप्रायः चन्द्रापीडस्य सविनय आशयो येन स तादृशः चदुलं चञ्चलं यच्छिरः उत्तमाङ्गं तस्य याः केसरा एव सटा जटाः तासाम् आहुतिः आघातः ताडनं तया कूर्णिता कुञ्चिता आकेकरा किञ्चित्कुटिला च तारका कनीनिका यस्य तेन् तयोक्ततेन चक्षुषा लोचनेन तं चन्द्रापोडं तिर्यक् निरक्षोनं

मर्त्यलोकमें रही थीं । अन्यान्य महात्मा भो, मुनियोंके शापसे अपने-अपने प्रभाव क्षीण हो जाने पर अनेक प्रकारकी आकृति धारण कर इस संसारमें भ्रमण कर गए हैं । इसलिए यह भी शापग्रस्त कोई महात्मा ही होगा, इसमें कोई सन्देह नहीं । मेरा अन्तःकरण भी इसको स्वर्गीय समझ कर मानो परिचय देता है ।'

इस प्रकार चिन्ता करते-करते ही चन्द्रापीड़ सवार होनेकी इच्छा से आसनसे उठ खड़ा हुआ । एवं अश्वके समीपमें जाकर मन ही मन उससे अभ्यर्थना करने लगा कि—'हे महात्मन् अश्व ! तुम चाहे जो हो सो हो, तुमको मैं नमस्कार करता हूँ । तुम मेरे सवार होनेकी अवज्ञा सर्वथा क्षमा करना, क्योंकि अपरिचित देवता भी असह्य अनेक अपमानके भागी हो जाते हैं ।' उसके बाद वह इन्द्रायुध चन्द्रापीडका अभिप्राय जानकर ही मानो, चञ्चल मस्तकस्थित केसररूप जटाके ताड़नसे जरा मिची और तिरछी कनीनिका युक्त आँखोंके द्वारा तिर्यक् (तिरछे) रूपसे (पुतलियोंको फेरकर) उसे (चन्द्रापीड़को) देख कर, दाहिने खुरसे बारम्बार भूतल-ताडन कर उत्थित धूलियोंसे अपने छातीके रुपैंको मटमैला कर, आह्वान करते-करते (दुलत्ते २) ही मानो फूले हुए नथनोंके छिद्रसे 'वर्चट्' शब्द युक्त और मधुर हुङ्कार-समन्वित सुश्राव्य और अत्यन्त मनोहर हिनहिनाहट करने लगा ।


१. अनुपसृत्य, समुपसृत्य । २. इह 'स्थितेन' इत्यधिकः पाठः कुत्रचिदुपलभ्यते ।