भारतकोश
संग्रह पर लौटें

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ
५६२कादम्बरी-[ कथायाम्-

परि नियन्त्रणा स्यात्। आज्ञासंविभागकरणोचिते भृत्यजने क इवादरः परोपकारोपकरणं शरीरम्१, तृण-लव-लघु च जीवितमपत्रपे२ त्वत्प्रतिपत्तिभिरुपायनीकर्तुमागतायास्ते। वयमेते शरीरमिदमेतज्जीवितनेतानीन्द्रियाणि, एतेषामन्यतरदारोप्य३ परिग्रहेण गरीयस्त्वम्' इति।

अथैवंवादिनोऽस्य वचनमाक्षिप्य मद्रेखा सस्मितमवादीत्—'कुमार! भवतु, अति-यन्त्रणया खिद्यते खलु सखी कादम्बरी४, किमर्थञ्चैवमुच्यते, सर्वमिदमनतरेणापि वचन-


मधुरालापादिबाह्यव्यवहाराय नोद्येोगं कुर्वीतेत्याशयः। अनेनाहमुदारस्वभावाधीनत्वाद् युष्माकं गुणेनैवा-धीनीभूतोऽस्मीति ध्वन्यते।

धन्य इति। धन्यः कृतपुण्यः। नियन्त्रणा कठिनकार्यभारदानेन यातना। तथाविधदुष्करकार्यभा-रार्पणाभावादहमधन्य इत्याशयः।

आज्ञेति। आज्ञाया आदेशस्य संविभागकरणे सम्यक् पृथक्कृत्यार्पणे उचितो योग्यः तस्मिन्, भृत्य-जने सेवकजने क इव आदरो बहुमानः, अपि तु न कोऽपीत्यर्थः। अतएव मम मधुरालापायागमनस्य किमपि फलं नाभूदित्याशयः।

परोपकारेति। आगताया इहायातायाः ते तव निकटे, त्वत्प्रतिपत्तिभिः स्वां .प्रति भक्तिभिः, परोप-कारस्य अन्योपकृतेः उपकरणं साधनम् इदं शरीरं वपुः, तथा तृणस्य लववत् लेशवत् लघु अल्पम् इदं जीवितं जीवनं च, उपायनीकर्तुम् उपहाररूपेणार्पयितुम् अहम् अपत्रपे लज्जे—

'अष्टादशपुराणेषु व्यासस्य वचनद्वयम्। परोपकारः पुण्याय पापाय परपीडनम्॥' परोपकरणं कायादसारात्सारमाहरेत्।

इत्याद्यभियुक्तोक्तिदिशा देहस्य स्वभावत एव यस्य कस्याप्यन्योपकारकरणत्वेन भवति विशेषा-भावात् जीवितस्य च तृणलवलघुत्वेन तुच्छतया तदर्पणेन गौरवप्रकटनाभावादित्याशयः।

वयमिति। एते वयम्, इदं शरीरम्, एतज्जीवितम्, एतानि इन्द्रियाणि, परिग्रहेण उपादानेन एतेषां मध्ये अन्यतरत् एकतमदित्यर्थः। गरीयस्त्वम् अत्यन्तगौरवम् आरोप्य स्थापय। वयमित्यत्र 'अस्मदो द्वयोश्च' (पा०) बहुवचनम्। बहूनां मध्ये कस्यचिदेकस्य निर्धारणे ततमच् प्रत्ययस्यैव 'वा बहूनां जातिपरिप्रश्ने डतमच्' इति (पा०) सूत्रेण विधानात् 'अन्यतरत्' इत्यत्रोक्तार्थे डतरच् प्रत्ययः कथं तस्य द्वयोर्निर्धारण एव विधानादिति चेत्? बहूनां मध्ये निर्धारणेऽपि क्वापि डतरच् प्रत्ययो भवतीत्यवगमात्।

अथेति। अस्य चन्द्रापीडस्य। आक्षिप्य निराकृत्य। अतियन्त्रणया नितान्तप्रशंसावादयात नया खिद्यते। खेदं प्राप्नोति, स्वस्मिन् तथाविद्योत्कर्षाभावेनोपहासावगमादित्याशयः। किमर्थं कस्मै प्रयोज-नाय । उच्यते कथ्यते। इदं वचनमन्तरेणापि त्वयाभिहितं 'वयमेते' इत्यादिवाक्यं विनापि अनया कादम्बर्या परिगृहीतम् आत्ममिति परिहसितम्, अथ च स्वामित्वेन हृदयेन भवन्तं स्वीकृतमिति


सम्भवतः आप मुझको ऐसा अनुदार स्वभाव समझती होंगी जो बाहरके व्यवहार से ही प्रसन्न हो जाय। आपका परिजनवर्ग ही धन्य है, जिसके ऊपर आपका आज्ञा-प्रयोग होता रहता है। पृथक् पृथक् भावसे आज्ञा करनेके योग्य सेवक-जनके प्रति इतना आदर कैसा? यह शरीर तो स्वभावतः ही परोपकार करनेके लिए है और जीवन भी तृण-बिन्दुके समान तुच्छ है। अतः एव आपके प्रति भक्तिवश उस शरीर ओर जीवनको यहाँ आए हुए आपको उपहार देने (अर्पण करने) में मैं लज्जित होता हूँ। 'तो भी यह मैं हूँ, यह शरीर है, यह जीवन है, ये इन्द्रियाँ हैं—इन सबों के मध्यमें जो आपको अच्छा लगे उसको ग्रहण करके अत्यन्त गौरवान्वित कीजिए।'

चन्द्रापीड इस प्रकार कह ही रहा था कि, इतनेमें मदलेखाने उसके वाक्यमें बाधा देकर (बात काटकर) जरा हँसते-हँसते कहा—'राजपुत्र! बस, अपना अत्यन्त स्तुति-पाठ रहने दीजिए, इससे मेरी सखी कादम्बरीको ग्लानि होती है। आप क्यों इस प्रकार कह रहे हैं; आपके कहे बिना भी ये सब वाक्य उसने स्वीकार कर लिया


१. शरीरकम्। २. अपि इदं नव प्रतिपत्तावुपायनीकर्तुम्, अत्र दे, तव [त्व ] प्रतिपत्तिभिरपाय-नीकर्तुमागतास्ते। ३. अन्यतरमारोप्य। ४. सखीहा कादम्बरी।

मदलेखाचन्द्रापीडयोरालाप० १०० ] चन्द्रकला-विद्योतिनीसहिता । ५६३

मनया परिगृहीतम् , किं पुनरमुनोपचारफल्गुना वचसा सन्देहदोलामारोप्यते' इति । स्थित्वा च कञ्चित् कालं कृतप्रस्तावा 'कथं राजा तारापीडः, कथं देवी विलासवती, कथमार्यः शुक-नासः, कीदृशी चोज्जयिनी, कियत्यध्वनि सा च, कीदृग् भारतं वर्षम् , रमणीयो वा मर्त्य-लोकः' इत्यशेषं पप्रच्छ । एवंविधाभिश्चान्याभिः कथाभिः सुचिरं स्थित्वोत्थाय कादम्बरी केयूरकं चन्द्रापीडसमीपशायिनं समादिश्य परिजनञ्च, शयनसौधशिखरमारुरोह । तत्र च सितदुकूलवितानतलास्तीर्णं शयनीयमलञ्चकार । चन्द्रापीडोऽपि तस्मिन्नेव शिलातले निर-भिमाननामभिरूपतामतिगम्भीरताञ्च कादम्बर्याः, निष्कारणवत्सलताञ्च महाश्वेतायाः सुज-नताञ्च मदलेखायाः, महानुभावताञ्च परिजनस्य, अतिसमृद्धिञ्च गन्धर्वराजलोकस्य रम्यताञ्च किम्पुरुषदेशस्य मनसा भावयन् केयूरकेण संवाह्यमानचरणः क्षणादिव क्षणदां 'क्षपितवान् ।

अथ क्रमेण कादम्बरीदर्शन'-प्रजागरखिन्नः स्वप्तुमिव ताल-तमाल-ताली-कदलीकन्द-


व्यञ्जितम् । अतएव उपचारं बाह्यव्यवहारं फल्गुना निस्तत्त्वेन व्यर्थेनेत्यर्थः 'अमुना वयम्' इत्यादिद्वचसा किं पुनः सन्देहदोलामारोप्यते कादम्बरी संशयविह्वला विधीयते । निर्णीतकृतविषये भूयो निर्णयेन सन्देहोद्गमस्य स्वतः सिद्धत्वादित्याशयः ।

स्थितेति । कृतप्रस्तावा प्रश्नेच्छायां गृहीतावसरा मदलेखा । कथं कीदृशः, तारापीडः तव तातः कीदृशी किम्स्वरूपा उज्जयिनी विशाला । सा उज्जयिनी कियत्यध्वनि अस्माद्देशात् कियददूर इत्यर्थः । रमणीयो मनोहरः । मर्त्यलोको मनुष्यलोक इति एवं प्रकारेण अशेषं समग्रं पप्रच्छ पृष्टवती ।

एवमिति । कथाभिर्वाताभिः सुचिरं बहुकालं स्थित्वा अवस्थाय । चन्द्रापीडस्य समीपशायिनं निकटे शयनं विधातुमित्यर्थः । परिजनं परिचारकवर्गं च समादिश्य सेवितुम् आज्ञाप्येति सम्बन्धः । शयनसौधं स्वापोचितप्रासादस्य शिखरम् उपरितलम् आरुरोह आरूढवती ।

तत्रेति । तत्र तस्मिन् सौधतले, सितं धवलं यद् दुकूलस्य क्षौमवस्त्रस्य वितानं चन्द्रातपः तस्य तले अधोभागे आस्तीर्णं पातितं शयनीयं तल्पम् अलञ्चकार शयनेन अलङ्कृतवती । चन्द्रापीडोऽपि । निरभि-मानतां निरहङ्कारत्वम् अभिरूपतां सौन्दर्यम्, अतिगम्भीरताम् अत्यन्तदुर्ज्ञेयस्वभावताम् । निष्कारणव-त्सलतां निर्हेतुकहितकारिताम् । सुजनतां सौजन्यम् । महानुभावताम् उदारस्वभावताम् । अतिसमृद्धिं विपुलसम्पत्तिम् । रम्यतां मनोहरताम् । संवाह्यमानौ स्वाङ्के आदाय सेवमानौ चरणौ पादौ यस्य सः । क्षणदां रात्रिं क्षपितवान् अतिवाहितवान् ।

अथेति । कादम्बर्या दर्शनेन निरीक्षणेन यः प्रजागरो मदनौत्सुक्येन जागरणं तेन खिन्नः क्लान्तः तारानतिस्तन्द्रः स्वप्तुं निद्रां विधातुमिव, तालस्तालवृक्षः, तमाळस्तापिच्छः, ताली वृक्षविशेषः, कदली


हैं, अतः इस बाहर के व्यवहारयोग्य निरर्थक वाक्यसे क्यों इसे सशयाकुल करते हैं।' इतना कहनेके अनन्तर थोड़ी देर ठहरकर जिज्ञासा करनेका अवसर ग्रहण कर ? उसने पूछा—'महाराज तारापीड कैसे हैं ? महारानी विलासवती कैसी हैं ? माननीय शुकनास कैसे हैं ? उज्जयिनी कैसी है ? यहाँसे वह कितनी दूर होगी ? भारतवर्ष कैसा है ? और मर्त्यलोक रमणीय है या नहीं ? इस प्रकार बहुत देर तक अन्यान्य प्रकारसे कथा-वार्ता होनेके पश्चात् कादम्बरी उठी और चन्द्रापीडके निकट शयन करनेवाले केयूरक और अन्य परिजनोंको परिचर्या करनेके लिए आज्ञा देकर अपने शयन अट्टालिका (महल) के ऊपर शिखर (ऊपरके तल) पर चढ़ गयी । वहाँ जाकर शुभ्रवर्ण पट्टवस्त्र-निर्मित चन्द्रातप (चाँदोवे) के नीचे बिछी हुए शय्या पर शयन कर उसको अलङ्कृत की । चन्द्रापीड भी उसी शिलातल पर रहकर, कादम्बरीकी निरहङ्कारता, सौन्दर्य और गाम्भीर्य, महाश्वेताका निष्कारण वात्सल्य, मदलेखाका सौजन्य, परिजनवर्गोंका उदार स्वभाव, गन्धर्वराजकी अत्यन्त समृद्धि और किन्नर देशकी रमणीयकताके विषयमें भावना करता था, इधर केयूरक उसका चरणयुगल दबाता था । इतनेमें ही निद्रावश हो गया और उस रात्रिको क्षणमात्रके समान व्यतीत किया ।

इसके बाद कादम्बरीके दर्शन करनेके लिए उत्कण्ठावश जागनेके कारण परिश्रान्त होकर मानो शयन करने


१ ॰"प्रजागरखिन्नः ।

५६४कादम्बरी-[कथामुखम्

लिनीं प्रविरल-कल्लोलानिल-शीतलां^१ वेलावनराजिमवततार तारापतिः । अभ्यर्णविरहविधुरस्य च कामिनीजनस्य निश्वसितैरिव^२ उष्णैर्म्लानिमनीयत चन्द्रिका । चन्द्रापीडवलोकनाहू-ढमदनेव कुमुद्दलोदरनीतनिशा पङ्कजेषु निपपात लक्ष्मीः । क्षणदापगमे च स्मृत्वा कामि-नीकर्णोत्पल-प्रहाराणाम्^३ उत्कण्ठितेष्विव क्षामतां व्रजत्सु पाण्डुतनुषु^४ वासगृहप्रदीपेषु, अन-वरतशर-क्षेप-खिन्नानङ्ग-निश्र्वासै-विभ्रमेषु^५ वहत्सु^६ तरुलता-कुसुमपरिमलेषु^७ प्रभातमातरिश्वसु^८,


रम्भा आसां कन्दलं समूहः वत्या अस्तीति ताम् । प्रविरला लघ्वाकारा ये कल्लोलानिलाः समुद्रस्य बृहत्तरङ्गपवनाः तैः शीतलां शिशिरां वेलावनराजिं तीरवर्त्तिवनपङ्क्तिम् अवततार अवतीर्णवान् अस्तोन्मुखो बभूवेत्यर्थः । अपरोऽपि जागरक्लान्तः स्वप्तुं निभृतशिशिरस्थानमाश्रयति । 'स्वप्नुमिव' इत्यत्र क्रियोत्प्रेक्षालङ्कारः ।

अभ्यर्णेति । चन्द्रिका कौमुदी, अभ्यर्णेन दिवसागमस्य समीपस्थायिना विरहेण प्रियविश्लेषेण विधुरस्य व्यग्रस्य कामिनीजनस्य सुन्दरीगणस्य, उष्णैः निश्वसितैः श्वासमारुतैः म्लानि ग्लानिम् अनी-यत प्रापत्, उष्णपवनेन मृदुकिसलयवदित्याशयः । दिवसोपस्थितेश्चन्द्रिकाया उज्ज्वलता विलुप्तेत्यर्थः। उक्तालंकारः ।

चन्द्रेति । चन्द्रापीडवलोकनेन चन्द्रापीडनिरीक्षणेन आरूढ उपस्थितो मदनः कामो यस्यां सा तथोक्तेव, लक्ष्मीः शोभा कापि कामिनी च, कुमुददलानां कैरवपत्राणाम् उदरेषु अभ्यन्तरेषु नीता व्यतिक्रान्ता निशा रात्रिरनया सा तथोक्ता सती, पङ्कजेषु कमलेषु निपपात अधितस्थौ, मदनविह्वला शैत्यसेवनाय कैरवेषु क्वापि कमलेषु च निपपात । निशायां कैरवाणां प्रफुटनात्तेषु शोभासीद्, दिवसो-पस्थिते तु सङ्कुचिततया तानि परित्यज्य प्रस्फुटत्सु कमलेषु प्राप्तेत्याशयः। उक्तालंकारः ।

क्षणदेति । अपि च, क्षणदापगमेन रात्रिशेषे, पाण्डुतनुषु, क्रमशॊ दिवसालोकप्रकाशाद्वियोगात्म्ले-च्छाशयः । वासगृहप्रदीपेषु वासमवनदीपकेषु कामिनीनां रमणीनां कर्णोत्पलैः श्रोत्रालङ्कारैः ये प्रहारास्ता-डनानि तेषां स्मृत्वा तान् विचिन्त्येत्यर्थः । कर्मणि षष्ठी । उत्कण्ठितेष्विव पुनस्तन्निमित्तं समुत्पन्नोत्सुके-ष्विव, क्षामतां क्षीणत्वं व्रजत्सु गच्छत्सु सत्सु । सुरतेप्सुना प्रियेण समाकृष्यमाणे वसने लज्जया कामिन्यः प्रदीपोपशमनाथं कर्णोत्पलं तदुपरि क्षिपन्ति, तं स्मृत्वा पुनस्तादृशप्रहारप्राप्त्यर्थमौत्सुक्यं प्रदीपानामित्य-भिप्रायः । उक्तालंकारः ।

अनवरतेति । अनवरतं निशायां कामुकान् प्रति निरन्तरं यः शरक्षेपः बाणवृष्टिस्तेन खिन्नस्य परिश्रान्तस्य अनङ्गस्य कामस्य ये निश्वासाः श्वासमरुतः तेषां विभ्रमा इव विभ्रमा विलासा येषु तेषु, तरुलताकुसुमानां वृक्षवल्लीपुष्पाणां परिमला विमर्द्दगन्धा येषु तेषु, प्रभातमातरिश्वसु प्रातःकालिक-पवनेषु वहत्सु चलत्सु सत्सु । इह 'विभ्रमविलासा' इत्यत्र लुप्तोपमालङ्कारः ।


लता हो यों, ताल, तमाल, ताली और कदली-वृक्षोंसे परिपूर्ण, एवं थोड़े-थोड़े जल-तरंगोंकी पवनसे शीतल, समुद्रतीरस्थ वनराजिके अभ्यन्तरमें चन्द्रमा क्रमशः उतर गया । वियोग-समयके समीप आनेसे विह्वल कामिनियोंके उष्ण निश्वाससे ही मानो ज्योत्स्ना (चाँदनी) मलिन हो (फीकी पड़) गयी । चन्द्रापीडको देखनेसे काममत्त होकर ही मानो शोभा, कुमुद-दलके अभ्यन्तर समाप्त-रात्रि को व्यतीत कर उस समयमें कमलोंके ऊपर जा पड़ी ! रात्रिशेषमें वह मन्द हुए शयनगृहके दीपक, कामिनियोंके कर्णोत्पल-प्रहारको स्मरण कर उत्कण्ठित होकर ही मानो पाण्डुशरीरसे क्षीण हो गये; रात्रिमें कामुकोंके प्रति निरन्तर बाण-वर्षण करनेसे परिश्रान्त (थके) कामदेवकी निश्वास वायुके समान विलास-सम्पन्न, एवं तरुलतोत्पन्न पुष्पोंके सौरभवाही प्रभातकालीन पवन बहने लगेः-


१. अविरल ।
२. निश्वसितैरिव ।
३... 'प्रहारात्, स्मृत्वाकामिनीकर्णोत्पलप्रहारेषु ।
४. क्वचिद् 'वास' इति पदन्न दृश्यते ।
५... 'निश्वास' ... ।
६. श्रमत्सु ।
७. क्वचित् 'ततः' इतिशब्दं न विद्यते ।
८. नामोदिषु ।

का० महाश्वेतयोः साक्षात्कार० १०१ ] चन्द्रकला-विद्योतिनीसहिता। ५९५

मन्दरगिरिलतागृहगमनानि च॑ भियेव भजन्तीष्वरुणोदयोपप्लविनीषु तारकासु, क्रमेण च समुद्गते॑ चक्रवाक-हृदय-निवास-लग्नानुरागमिवालोहितं मण्डलमुद्वहति सवितरि, चन्द्रा-पीड़ः शिलातलादुत्थाय प्रक्षालितमुखकमलः कृतसन्ध्या॑नमस्कृतिगृहीतताम्बूलः 'केयूरक ! विलोकय देवी कादम्बरी प्रबुद्धा न वा, क्व वा तिष्ठति' इत्यवोचत् ।

गतप्रतिनिवृत्तेन च तेन 'मन्दरप्रासादस्याधस्तादङ्गनसौधवेदिकायां महाश्वेतया सह्रवतिष्ठते' इत्यावेदिते गन्धर्वराजतनयामालोकयितुमाजगाम । ददर्श च धवलभस्मकृत- ॑ललाटिकाभिः ॑अक्षमालिका-परिवर्त्तन-प्रचल-करतलाभिः पाशुपतव्रतचारिणीभिर्धातुरागारु-णाम्बराभिश्च परिव्राजिकाभिः, ॑परिणत-तालफल-वल्कल-लोहित-वस्त्राभिश्च रक्तपटव्रतवाहि-


मन्दरेति। अपि च, अरुणोदयेन गरुडाग्रजोद्गमेन उपप्लवः तेजोविनाशादिपदामामस्तीति तासु, तारकासु ऋक्षेषु, भियेव सूर्योदयत्रासेनेव, मन्दरगिरेः मन्दराचलस्य लतागृहेषु व्रततिभवनेषु गमनानि भजन्तीषु विदधतीषु सतीसु । मन्दराचलस्य पूर्वस्यां दिशि विद्यमानत्वात्तारकाणां च प्रायेण तस्यामेवा-स्तगमनादिदमभिधानमित्यवधेयम् ।

क्रमेणेति। अपि च, चक्रवाकानां रात्रिवियोगिनां रथाङ्गयुगलानां हृदये चित्ते निवासेन निजोदये तेषां पुनः सङ्गमस्य भावित्वेन रजन्यां निरन्तरमेव तैरात्मनो भावित्वादित्याशयः, लग्नः चेतसा एव संसक्तः अनुरागः सूर्यं प्रति प्रीतिरेव अनुरागो रक्तिमा यस्मिंस्तदिव, आलोहितम् आरक्तवर्णं मण्डलं बिम्बम् उद्वहति धारयति सवितरि सूर्ये, क्रमेण क्रमशः समुद्गते उदिते सति । इह प्रीतिरक्तिम्नोर्भेदेऽपि श्लिष्टेनाभेदाध्यवसायादतिशयोक्तिः क्रियोत्प्रेक्षा चेत्युभयोः सङ्करः ।

चन्द्रेति। प्रक्षालितमुखकमलो धौतवदनपङ्कजः, कृते विहिते सन्ध्यानमस्कृती सन्ध्यावन्दनस्वेष्ट-देवप्रणामौ येन सः । प्रबुद्धा सुप्तोत्थिता । अवोचत् अब्रवीत् ।

गतेति। पूर्वं गतः पश्चात् प्रतिनिवृत्तः प्रत्यागत इति तेन तादृशेन केयूरकेण । मन्दरसंज्ञकः प्रासादः सौधः मन्दरप्रासादः तस्य, अङ्गने अजिरे या सौधवेदिका गृहश्वेतीकरणचूर्णलिप्तबद्धभूमिस्त-स्याम् । इति एवम् आवेदितो कथिते । आलोकयितुं वीक्षितुम् आजगाम आययौ ।

ददर्शेति। चन्द्रापीड़ो महाश्वेतां कादम्बरीं च ददर्शति सम्बन्धः । आदौ महाश्वेतां विशिनष्टि—धवलेति । धवलभस्मभिः श्वेतविभूतिभिः कृतं विहिता ललाटिका भाले क्षुद्रतिलकविशेषा याभि-स्ताभिः, अक्षमालिका जपमालाः तासां परिवर्त्तने भ्रामणे प्रचलानि चलितानि करतलानि पागितलानि यासां ताभिः, पाशुपतव्रतचारिणीभिः शैवव्रतविधायिनीभिः तथा धातुरागेण गैरिकरजनेन अरुणानि लोहितवर्णानि अम्बराणि वस्त्राणि यासां ताभिश्च, परिव्राजिकाभिः संन्यासिनीभिस्तापसीभिः उपास्य-मानाम् आराध्यमानाम् इत्युत्तरेण सम्बन्धः ।

परिणतेति । अपि च, परिगतं परिपक्वं यत् तालफलं तस्य यद् वल्कलं त्वक् तद्वत् लोहितानि रक्त-


अरुणोदयसे तेजोहीन विपन्न होते तारागण, भयवशते ही मानो मन्दर-पर्वतके लता-मण्डपोंकी आड़में प्रवेश करने (बुसने) लगे; और चक्रवाक-दम्पतिगणके हृदयमें निवास करनेसे संलग्न अनुराग से मानो आरक्तवर्ण हुआ सूर्यमण्डल क्रमशः उदय होने लगा, तब चन्द्रापीडने उस शिलातलसे उठकर, मुखकमल-प्रक्षालन (धो) कर, सन्ध्या-वन्दन, इष्टदेवताको नमस्कार और ताम्बूल-चर्वण कर, केयूरकसे कहा-'केयूरक ! देखो-देखो, देवी कादम्बरी अभी जगी हैं या नहीं, अथवा इस समय कहाँ हैं?'

केयूरकने वहाँसे आकर सूचना दी कि—'देव ! वे मन्दरनामक प्रासाद (महल) के नीचे प्राङ्गणमें सुधाचूर्णचूर्णित बैठकके चबूतरे पर महाश्वेताके साथ बैठी हैं।' ऐसा सूचित करनेपर वह गन्धर्वराजपुत्रीको देखनेके लिए वहाँ आया। वहाँ आकर उसने पहले महाश्वेताको देखा। जिनके ललाटपर शुभ्रवर्ण भस्मके तिलक किये हुए थे, जपमालाको फिराते रहनेसे जिनके हाथ चलायमान हो रहे थे, ऐसी शैव-व्रत का आचरण करनेवाली गैरिक रागसे रङ्गिन रक्तवर्ण वस्त्रवाली परिव्राजिकाएँ; पक्व तालफलके वल्कलके समान रक्तवर्ण वस्त्र पढ़ने


१. सुमन्दरलतागृहगमनानि च। २. समुद्गतचक्रवाक... । ३. लोहितं । ४. आवदश्वेतयो सह्रवतिष्ठते । ५. अवतिष्ठति । ६. धवलभस्मललाटिकाभिः । ७. अक्षमाला । ८. चारिणीभिः ।

५६६कादम्बरी-[ कथायाम्-

नीभिः सित-वसननिबिड-निबद्ध-स्तन-परिकराभिश्च श्वेतपटव्यजनाभिः$^१$ जटाजिन-मौञ्जी$^२$-वल्कलाषाढधारिणीभिर्वर्णिचिह्नाभिस्तापसीभिः, साक्षादिव मन्त्रदेवताभिः पठन्तीभिर्भगवत॑$^३$स्त्र्यम्बकस्याम्बिकायाः कार्त्तिकेयस्य॑$^४$ विष्टरश्रवसः कृष्णस्य॑$^५$ आर्यावलोकितेश्वरस्यार्हतो विरिञ्च॑स्य$^६$ पुण्याः स्तुतीरुपास्यमानाम्, अन्तःपुराम्यर्हिताश्च सादरं नमस्कारैराभाषणैरभ्युत्थानैरा-सन्नवेत्रासनदानैश्च दर्शनागतगन्धर्वराजबान्धववृद्धाः$^७$ समानयन्तीं महाश्वेताम्, पृष्ठतश्च समुपविष्टेन किन्नरमिथुनेनं$^८$ मधुकर$^९$मधुराभ्यां वंशाभ्यां दत्ते ताने$^१$$^०$ कलगिरा गायन्त्या नारददुहित्रा$^१$$^१$ पठ्यमाने च सर्वमङ्गलमहीयसि महाभारते दत्तावधानाम्, पुरोधृते$^१$$^२$ च मणिदर्पणे$^१$$^३$ ताम्बूल-

वर्णानि वस्त्राणि वसनानि यासां ताभिः, रक्तपटव्रतवाहिनीभिः शाक्यभिक्षुविशेषनियमधारिभिः, सितवसनैः श्वेतवस्त्रैः निबिडं दृढं निबद्धा बन्धनीकृताः स्तनपरिकराः कुचमण्डलानि याभिस्ताभिः, श्वेतपटः सितवसनं स एव व्यजनं तालवृन्तकं यासां ताभिः। जटां सटाम्, अजिनं कृष्णसारमृगचर्म, मौञ्जीं मेखलाम्, वल्कलं तरुत्वचम्, आषाढं दण्डञ्च धारयन्ति वहन्तीति ताभिः, वर्णिनो ब्रह्मचारिणः चिह्नं लक्ष्म यासु ताभिः, साक्षात् प्रत्यक्षं मन्त्रदेवताभिरिव विद्यमानाभिः। त्र्यम्बकस्य महेशस्य, अम्बिकाया दुर्गायाः, कार्त्तिकेयस्य षडाननस्य, विष्टरश्रवसो विष्णोः, कृष्णस्य वासुदेवस्य, आर्यावलोकितेश्वरस्य बौद्धस्य, अर्हतः तीर्थङ्करस्य, विरिञ्चस्य प्रजापतेः, पुण्याः पावनीः स्तुतीः स्तोत्राणि पठन्तीभिर्वाच्यमानाभिः तापसीभिस्तपस्विनीभिश्च उपास्यमानाम् आराध्यमानाम्। इह 'साक्षान्मन्त्रदेवताभिरिव' इत्यत्र जात्युत्प्रेक्षा।

अन्तरिति। अपि च अन्तःपुरेषु अवरोधपुरेषु मध्ये या अभ्यर्हिताः अर्चनीयास्ताः, सादरं सत्कारपूर्वकं नमस्कारैः प्रणामैः, आभाषणैर्मधुरालापैः, अभ्युत्थानैः, आसन्ने निकटे वेत्रासनदानैः वेतसविष्टरा-र्पणैः, दर्शनाय अवलोकनाय आगता आयाता या गन्धर्वराजस्य चित्ररथस्य बान्धववृद्धाः स्वजनस्थविरा नार्यः सम्मानयन्तीं सत्कारं कुर्वन्तीम्।

पृष्ठत इति। अपि च, पृष्ठतः कादम्बर्या एव पश्चाद्भागे, समुपविष्टेन समासीनेन किन्नरमिथुनेन किंपुरुषयुग्मेन, मधुकरमधुराभ्यां भ्रमरध्वनिवत् सुश्राव्यस्वराभ्यां वंशाभ्यां वेणुभ्याम्, ताने अनु-टितस्वरप्रवाहे दत्ते 'गाता यं यं स्वरं गायेतं तं वंशेन तानयेत्' इति भरतोक्तिदिशा गीतस्वरमेलनाय स्थापिते, कलगिरा मधुरवचनया, नारददुहित्रा भद्राभिधेयया नारदस्य धर्मपुत्र्या, पठ्यमाने व्याख्याय-माने अभिधीयमाने वा, सर्वेभ्यः समस्तेभ्यो मङ्गलेभ्यः श्रेयउत्पादकेभ्यो ग्रन्थेभ्यो महीयसि अत्यन्तमुख्ये महाभारते ग्रन्थे दत्तावधानां न्यस्तैकाग्रमानसामिति अग्रेतनस्य 'कादम्बरीम्' इत्यस्य विशेषणम्।

पुर इति। अपि च, पुरो धृते कयापि सेविकया अभिमुखे स्थापिते मणिदर्पणे रत्नआदर्शे, ताम्बूल-

रक्त-पट-व्रतधारिणी; और समस्त ब्रह्मचर्यके चिह्न धारण करनेवाली तपस्विनी—शुभ्रवर्ण वस्त्रसे जिन्होंने अपने स्तनमण्डलको बाँध दिया था, श्वेत वस्त्र का व्यजन धारण किया था और जटा, कृष्णसार (मृग) का चर्म-मुञ्ज (मूँजकी) मेखला, वल्कल और पलाशके दण्ड—ये सब धारण कर रही थीं-जो साक्षात् मन्त्रदेवताके समान ही देखनेमें हों, इस प्रकार उन सबोंके मध्यमें कोई भगवान् शङ्करकी, कोई दुर्गाकी, कोई कार्त्तिकेयकी, कोई नारायणकी, कोई कृष्णकी, कोई बौद्धकी, कोई तीर्थंकर (गुरु-विशेष) की और कोई ब्रह्मा की पवित्र स्तुति-पाठ करतीं-करतीं उस (महाश्वेता) की उपासना कर रही थीं और वह (महाश्वेता) गन्धर्वराज चित्ररथ के ज्ञातिवर्गके मध्यमें प्राचीन (वृद्ध) एवं अन्तःपुर (रनवास) में मान पायी हुई (प्रधान) तथा दर्शन करनेके लिए आयी हुई स्त्रियोंको आदरपूर्वक नमस्कार कर, सम्भाषण कर, अभ्युत्थान कर, समीपस्थ वेत्रासन बैठनेको देकर, उसका सम्मान कर रही थी। फिर उसने कादम्बरीको देखा। उसके पीछे बैठा किन्नर-मिथुन-भ्रमर-ध्वनि (झङ्कार) के समान सुमधुर वंशीस्वरसे तान देता था। और मधुर स्वरसे गान करती नारदकी धर्मकन्या भद्रादेवी समस्त माङ्गलिक ग्रन्थोंके मध्यमें उत्कृष्ट महाभारत ग्रन्थको बाँच रही थी, उसे वह (कादम्बरी) एकाग्रचित्तसे सुनती थी; सामने रखे एकमणिमय


$^१$ ॰व्यजनाभिः। $^२$ क्वचित् 'मौञ्जी' पदन्नास्ति। $^३$ शीतोदनेः। $^४$ विश्रवस्य। $^५$ अर्जुनस्य, जिनस्य। $^६$ विश्रवणस्य, दैशदेवस्य मार्तण्डस्य विरिञ्चस्य। $^७$ क्वचित् 'दर्शनागते'ति पाठो न विद्यते। $^८$ ॰मिथुनकेन। $^९$ क्वचित् 'मधुकर' इति पदं न दृश्यते। $^{१०}$ स्थानके, ताले। $^{११}$ ॰दुहित्रा च सावित्र्या। $^{१२}$ पुरो विष्टते परिजनेन। $^{१३}$ दर्पणे।

चन्द्रापीडगमनायानुमतिग्रहण० १०२] चन्द्रकला-विद्योतिनीसहिता । ५९७

राग^१-बद्धकृष्णिकान्धकारिताभ्यन्तरं दशनज्योत्स्ना-सिक्तमुन्मृष्ट-मधूच्छिष्ट-पट्ट-पाटलमधरं^३ विलोकयन्तीम्, शैवलतृष्णया कर्णपूर-शिरीष-प्रेषितोत्तान-विलोचनेन बद्धमण्डलं भ्रमता-भवनकलहंसेन प्रभातशशिनेव क्रियमाण-गमन-प्रणाम-प्रदक्षिणां कादम्बरीञ्च । समुपसृत्य कृतनमस्कारस्तस्यामेव सुधा^४वेदिकायां विन्यस्तमासनं भेजे । स्थित्वा च कञ्चित् कालं महा-श्वेताया वदनं विलोक्य स्फुरितकपोलदरं मन्दस्मितमकरोत् । असौ तु तावतैव विदिताभि-प्राया कादम्बरीमब्रवीत्—'सखि ! भवत्या गुणैश्चन्द्रापीडश्चन्द्रकान्त इव चन्द्रमयूखैराद्रीकृतो न शक्नोति वक्तुम् । जिगमिषति खलु कुमारः, पृष्ठतो दुःखमविदितवृत्तान्तं राजचक्रमास्ते ।

रागेण नागवल्लीदलरक्तिम्ना बद्धा विहिता या कृष्णिका श्यामता तया अन्धकारितं समुत्पन्नान्धकारं मलिनीकृतम् अभ्यन्तरं मध्यभागो यस्य तम्, दशनज्योत्स्नया दन्तप्रभया सिक्तं क्षालितम्, तथा उन्मृष्टं घृष्टं यन्मधूच्छिष्टं सिक्यकं भाषायां 'मोम' इति ख्यातं तस्य पट्टं पिण्डं तद्वत् पाटलं श्वेतरक्तम् अधरम् ओष्ठं विलोकयन्तीं पश्यन्तीं कादम्बरीम् । 'मधूच्छिष्टं तु सिक्यकम्' इत्यमरः ।

शैवलेति । शैवलतृष्णया शैवाललोभेन तद्भ्रान्त्येत्यर्थः कर्णपूरशिरीषे कादम्बर्याः श्रवणभूषणी-कृतशिरीषकुसुमं प्रति प्रेषिते प्रेरिते उत्ताने ऊर्ध्ववदने विलोचने नयने येन तेन, प्रभातशशिनेव प्रत्यूष-चन्द्रेणेव बद्धं विहितं मण्डलं यत्र कर्मणि तद् यथा स्यात्तथा भ्रमता अटता, भवनकलहंसेन गृहका-दम्बेन क्रियमाणानि विधीयमानानि गमनं निकटोपस्थितिः प्रणामो नमस्कारः प्रदक्षिणञ्च तानि यस्या-स्ताम् । हंसः निकटे गमनं प्रणामं प्रदक्षिणां च कृत्वा कर्णपूरशिरीषं याचत इत्यर्थः ।

इह कर्णपूरशिरीषे शैवालभ्रान्त्या भ्रान्तिमानलङ्कारः, तथा 'प्रभातशशिनेव' इत्यत्रोपमा वेत्युभ-योर्मिथो नैरपेक्ष्येण संसृष्टिः ।

समुपेति । समुपसृत्य कादम्बर्या निकटमेत्य, कृतनमस्कारः । विहितप्रणामः तस्यामेव यत्र काद-म्बरी समुपविष्टा तत्रैवेत्यर्थः, सुधावेदिकायां गृहधवलीकरणचूर्णद्रव्योपलिप्तबद्धभूमौ विन्यस्तं स्थापितम् आसनं विष्टरं भेजे अध्यासायामास चन्द्रापीड इत्यन्वयः ।

स्थितेति । स्फुरितं चलितं कपोलयोर्गण्डयोः उदरं मध्यदेशो यत्र तत् तादृशम्, मन्दस्मितम् ईष-द्धास्यम् अकरोत् कृतवान् ।

असाविति । असौ महाश्वेता । तावतैव ईषद्धास्येनैव, विदिताभिप्राया ज्ञातचन्द्रापीडचित्तवृत्तिः सती । सखि आलि ! भवत्यास्तव गुणैस्तत्कैः चन्द्रापीडः, चन्द्रमयूखैः शशिकिरणैः चन्द्रकान्तश्चन्द्रोपल इव चार्द्रीकृतः जलनिर्गमात् क्लिन्नः कृतश्च वक्तुं कथयितुं न शक्नोति समर्थो भवति । 'चन्द्रकान्त इव' इत्यत्र श्रौतोपमालङ्कारः ।

वक्तव्यमेव दर्शयति—जिगमिषतीति । खलु निश्चयेन । जिगमिषति गन्तुमिच्छति । तत्र कारणमु-पपादयति—पृष्ठत इति । न विदितो ज्ञातो वृत्तान्तः चन्द्रापीडोदन्तो येन तत्तादृशम्, राजचक्रं सेनास्थ-राजगणः दुःखमास्ते दुःखाकुलं यथा स्यात्तथा विद्यते ।


दर्पणमें ताम्बूल-चर्वण करनेसे संलग्न काली रेखासे श्यामता उत्पन्न हुए मध्यस्थानवाले तथा दन्तप्रभासे चमकते-मोम लगाकर साफ किये वस्त्र जैसे श्वेत-रक्तवर्ण (गुलाबी) अधरको देख रही थी; और शैवल (सँवार) की तृष्णासे गृह-पालित एक कलहंस, उसके कानमें धारण किये हुए शिरीष-पुष्पके ऊपर दृष्टि रखकर, प्रभात-चन्द्रके समान मण्डलाकारमें भ्रमण करता उसके समीप जाकर नमस्कार और प्रदक्षिणा करता था। ऐसी कादम्बरीके समीपमें जाकर नमस्कार कर, चन्द्रापीड उसी शुभ्रवेदिका (चबूतरे) के ऊपर संस्थापित एक आसन पर जा बैठा। और कुछ देर रहकर, महाश्वेताके मुखको देख ईषद् हास्य किया (मुस्कुराया) जिससे उसके गण्डयुगल (गाल) का मध्यभाग स्पन्दित हो गया, परन्तु महाश्वेता तो उस मुस्कुराहट से ही चन्द्रापीडका अभिप्राय समझ गयी और कादम्बरीसे कहने लगीं—'सखि ! चन्द्रमाकी किरणोंसे चन्द्रकान्तमणि जिस प्रकार पिघलने लगता है, उसी प्रकार चन्द्रापीड तुम्हारे गुणोंसे वशीभूत हो गये हैं, इसलिए स्वयं बोल नहीं सकते । [ मुख्य बात यह है कि ]—राजकुमारको अब जानेकी अभिलाषा हुई है; क्योंकि—पीछे सब उनका राजगण राजकुमारका वृत्तान्त न मिलनेसे दुःखी होते होंगे। और भी देखो—पद्मिनी और सूर्यके समान एवं कुमुदिनी


१. बहलताम्बूलराग... ।
२. उत्सृष्ट... ।
३.¨ पट्टपाटलमधरं ।
४. क्वचित् 'सुधा' इति पदं नावलोक्यते ।

५६८ | कादम्बरी- | [ कथायाम्-

अपि च युवयोर्दूरस्थितयोरपि स्थितेयमिदानीं 'कमलिनीकमलवान्धवयोः'रिव कुमुदिनीकुमुद-नाथयोरिव प्रीतिराप्रलयात् । अतोऽभ्यनुजानातुं भवती' इति ।

अथ कादम्बरी 'सखि ! महाश्वेते ! स्वाधीनोऽयं सपरिजनेा जनः कुमारस्य स्व इवा-न्तरात्मा, क इवात्रानुरोधः' इत्यभिधाय गन्धर्वकुमारानाहूय 'प्रापयत कुमारं स्वां भूमिम्' इत्यादिदेश । चन्द्रापीडोऽप्युत्थाय प्रणम्य प्रथमं महाश्वेताम्, ततः कादम्बरीम्, तस्याश्च प्रेमस्निग्धेन चक्षुषा मनसा च गृह्यमाणः—'देवि ! किं ब्रवीमि, बहुभाषिणः न श्रद्दधाति लोकः, स्मर्त्तव्योऽस्मि परिजनकथासु' इत्यभिधाय कन्यकान्तःपुरान्निर्जगाम कादम्बरी-वर्जः अशेषः कन्यकाजनो गुणगौरवाकृष्टः परवश इव तं व्रजन्तमाबहिस्तोरणादनुवव्राज ।

अपीति । युवयोः कादम्बरीचन्द्रापीडयोः दूरस्थितयोरपि दविष्ठयोरपि, इदानीं साम्प्रतं कमलिनी-कमलवान्धवयोःरिव पद्मिनीसूर्ययोरिव कुमुदिनीकुमुदनाथयोरिव कैरविणीचन्द्रयोरिव प्रीतिः स्नेहः आप्रलयातू आकल्पान्तात् इयं स्थिता, अतः अस्मात्कारणात् । अभ्यनुजानातु गमनाय लाज्ञां ददात्वित्यर्थः ।

इह कमलिनीकमलवान्धवयोः स्त्रीपुँल्लिङ्गाभ्यां कामिनीकामुकव्यवहारसमारोपाद् समासोक्तिः श्रौतोपमा चेत्युभयोरेकाश्रयानुप्रवेशसङ्करः, एवं कुमुदिनीकुमुदनाथयोरित्यत्रापि सङ्करः, तयोश्च पुनः परस्पर-नैरपेक्ष्येण संसृष्टिः, एवञ्च कादम्बरीचन्द्रापीडयोरपि कामिनीकामुकभावो ध्वन्यते इत्यलङ्कारेण वस्तुध्वनिः ।

अथेति । सपरिनजः परिचारिकागणसहितः 'अयं मल्लक्षणो जनः, कुमारस्य चन्द्रापीडस्य स्वः अन्तरात्मन्येव स्वस्य' अधीन आयत्तः, अतएव अत्र गमनविषये क इव अनुरोधः सङ्कोचः (समानुमति-ग्रहणाग्रहः) अपि तु न कोऽपीत्यर्थः, सेवकजनात्त्वामितोऽभ्यनुज्ञाग्रहणापेक्षाभावदित्याशयः ।

इह श्रौतोपमा वाक्यार्थहेतुकं काव्यलिङ्गञ्चेत्युभयोरङ्गाङ्गिभावासङ्करः ।

चन्द्रेति, प्रथमम् आदौ । प्रणम्य नमस्कृत्य । प्रेमस्निग्धे अनुरागार्द्रेण । गृह्यमाणो वशीक्रियमाणः सन् । बहुभाषिणो वाचालात् । न श्रद्धधाति विश्वसिति, 'ब्रुवते हि फलेन साधवो न तु शब्देन' इति न्यायात् अतोऽल्पाक्षरेण कथयामीत्यभिप्रायः । किन्तद्वक्तव्यमित्यत आह— स्मर्त्तव्य इति । परिजनकथासु निजसेवकवार्त्तासु स्मर्त्तव्यः स्मरणीयोऽस्मि । अनेन स्वस्य परिचारकजनत्वं ध्वनितम् । इत्यभिधाय इत्युक्त्वा कन्यकान्तःपुरात् कुमारिकावरोधपुरात् निर्जगाम निर्ययौ ।

कादम्बेति । कादम्बरीं वर्जयति त्याजयतीति सः कादम्बरीभिन्न इत्यर्थः । अशेषः समग्रः कन्यकाजनः कुमारिकावर्गः, गुणगौरवेण उत्कर्षातिशयेन आकृष्टः आकर्षितः, परवश इव चन्द्रापीडाधीन इव । तं चन्द्रापीडम् । आबहिस्तोरणात् वहिर्द्वारपर्यन्तम् अनुवव्राज पृष्ठतो जगाम ।


और चन्द्रके समान दूर रहने पर भी तुम दोनोंकी प्रीति अभीसे लेकर प्रलयकाल तक स्थिर रहेगी; इसलिए तुम जानेके लिए कुमारको अनुमति प्रदान करो ।'

उसके बाद कादम्बरीने कहा—'सखि, महाश्वेते ! जिस प्रकार उनकी अन्तरात्मा उनके अधीन है, उसी प्रकार परिजन-वर्गके साथ यह व्यक्ति भी कुमारके अधीन है, इसलिए इस विषयमें अनुरोध क्या है ?' इतना कहकर गन्धर्वकुमारोंको बुलाकर इस प्रकार आदेश दिया कि—'तुमलोग राजकुमारको अपने देशमें पहुँचा दो ।' इसके पश्चात् चन्द्रापीडने भी उठकर पहले महाश्वेताको और तदनन्तर कादम्बरीको प्रणाम किया ! उस समय कादम्बरीके प्रेमसे स्निग्ध नेत्र और मनके द्वारा अपनी ओर आकृष्ट होनेसे वह कहने लगा—'देवि! क्या कहूँ ? लोग बहुत बोलनेवाले व्यक्ति का विश्वास नहीं करते, इसलिए थोड़ेमें इतना कहता हूँ कि—'परिजन-कथाओंके मध्यमें आप मुझे भी स्मरण करना' इतना कहकर वह कन्याओंके अन्तःपुरसे निकल गया । उस समय कादम्बरीके अतिरिक्त अन्य समस्त कन्याएँ उसके गुण-गौरवसे आकृष्ट होकर पराधीनके समान बाहरके बड़े दरवाजे तक उसका अनुगमन कीं । बहिर्द्वार पर्यन्त आयीं ।।


१. अनुजानातु
२. सखि स्वाधीनः ।
३. बहुभाषिणे !
४ ॰॰॰वर्जोऽवशेशः, वर्जमशेषकन्यकाजनः, दर्शनेने-परस्तु कन्यकाजनः ।

चन्द्रापीडस्य स्वभवनागमन० १०३ ] चन्द्रकला-विद्योतिनीसहिता । ५६६

निवृत्ते च कन्यकाजने केयूरकेणोपनीतं वाजिनमारुह्य गन्धर्वकुमारकैस्तैरनुगम्यमानो हेमकूटात् प्रवृत्तो गन्तुम् । गच्छतश्चास्य चित्ररथतनया न केवलमन्तर्बहिरपि सैव सर्वाशानिबन्धनमासीत् । तथाहि, तन्मयेन मानसेनासह्यविरहदुःखानुशयसग्नामिव पृष्ठतः, कृतमार्गगमननिरोधामिव पुरस्तात् , वियोगाकुलहृदयोत्कलिकावेशोत्क्षिप्तामिव नभसि, सम्यगालोकयितुं वदनं विरहातुरमानसामिवावस्थितामुरःस्थले, तामेव मृगलोचनां^३ ददर्श । क्रमेण च प्राप्य महाश्वेताश्रममच्छोदसरस्तीरे संनिविष्टमिन्द्रायुधखुरपुटानुसारेणावागतमात्मकस्कन्धावारमपश्यत् । निर्वर्तिताशेषगन्धर्वकुमारश्च सानन्देन सकौतूहलेन सविस्मयेन च स्कन्धा-

निवृत्त इति । निवृत्ते परावृत्य आगते कन्यकाजने कुमारिकागणे । उपनीतम् उपस्थापितम् , वाजिनमश्वम् । तैः पूर्वोक्तैः गन्धर्वकुमारकैः देवगायकपुत्रैः अनुगम्यमानः अनुव्रज्यमानः । गन्तुं चलितुं प्रवृत्तस्तत्परः अभूदिति शेषः ।

गच्छत इति । अपि च, गच्छतो व्रजतः अस्य चन्द्रापीडस्य, अन्तः अन्तःकरणे सर्वासां निखिलानाम् आशानाम् आकाङ्क्षाणां निबन्धनं हेतुः, तथा बहिरपि सर्वासामाशानी दिशां निबन्धनं निरोध-कारणम् आसीत् बभूव ।

बहिर्निरोधकारणत्वं प्रदर्शयितुमाह—तथाहीति । तन्मयेन कादम्बरीमयेन मानसेन हृदयेन कारणेन, पृष्ठतः पश्चात् असह्यं सोढुमशक्यं यद् विरहदुःखं वियोगक्लेशः तेन योऽनुशयः पश्चात्तापः (अनुगमनं) तेन लग्नां संसक्तामिव । अनेन पृष्ठतोनिरोधकारणमभिहितम् । तन्मयेन हृदयेन कारणेन, पुरस्तात् संमुखतः, कृतो विहितो मार्गगमने निरोधो निबन्धो यया तानिव । एतेनाग्रतो निरोधकारणत्वमुक्तम् । तन्मयेन हृदयेन कारणेन, नभसि गगने, वियोगाकुलं विरहव्यग्रं यद् हृदयं मानसं तत्र य उत्कलिकावेशः औत्सुक्याविर्भावः तेन उत्क्षिप्तामिव पर्यस्तामिव । अनेनोर्ध्वं निरोधकारणत्वं निरूपितम् । तथा तन्मयेन हृदयेन कारणेन, वदनं स्वस्य (कादम्बर्याः) मुखं सम्यक् साधुतया आलोकयितुं दर्शयितुम् । उरःस्थले आत्मनो वक्षःस्थले अवस्थितामिव कृतावस्थानामिव, विरहातुरमानसां वियोगव्यग्रहृदयां मृगलोचनां हरिणाक्षीं तामेव कादम्बरीं ददर्श अवलोकयामास, उरस्यवस्थया रन्धनेन समन्तादेव निरोधसम्भवात्, एतेन दिगन्तरेषु निरोधकारणत्वं द्योतितम् । इह चतस्रः क्रियोत्प्रेक्षाः, तासां परस्परं नैरपेक्ष्येण संसृष्टिः ।

क्रमेणेति । प्राप्य आसाद्य । संनिविष्टं स्थापितम्, इन्द्रायुधो निजाश्वः तस्य खुरपुटानुसारेणैव खुरपुटचिह्नानुसरणक्रमेणैव आगतं प्राप्तम् आत्मनः स्वस्य स्कन्धावारं सैन्यम् अपश्यत् ऐक्षत ।

निर्वर्तितेति । निर्वर्त्तिताः परावर्त्तिता अशेषाः समग्रा गन्धर्वकुमारा येन सः । सानन्देन सहर्षेण बहुसमयानन्तरं निजस्वामिविलोकनादित्याशयः । सकौतूहलेन सकौतुकेन अतिरमणीयगन्धर्वजना-वलोकनादिति भावः । सविस्मयेन साश्चर्येण तथाविधमुक्ताप्रालम्बदर्शनादिति भावः । प्रणम्यमानो


उसके बाद उन कन्याओंके लौटने पर केयूरकके द्वारा लाये हुए घोड़े पर वह सवार होकर पीछे-पीछे आते गन्धर्वकुमारोंके साथ हेमकूटपर्वतसे चल निकला, चलनेमें वह कादम्बरी केवल अन्तःकरणमें ही समस्त आकाङ्क्षाओंका कारण नहीं हुई थी, किन्तु बाहरमें भी वह समस्त दिशाओंके अवरोधका कारण हुई थी (अर्थात् चन्द्रापीडको कादम्बरी समस्त अभिलाषाओंका केन्द्र हो गयी और सब दिशाओंमें उसे कादम्बरी ही दीखने लगी), क्योंकि हृदय तन्मय होनेसे वह मानो असह्य-विरह-दुःखके सन्तापके कारण अनुमरण कर उसके पीछे-पीछे आयी हो, सामने चलनेके मार्ग पर आकर मानो अवरुद्ध करती (रोकती) हो, विरहसे व्याकुल हुए चित्तमें उत्कण्ठा आविर्भूत होकर उससे मानो आकाशमें फेंक दी गई हो और सम्पूर्णरूपमें अपने मुख देखनेके लिए मानो वक्षःस्थलमें आ बैठी हो-इस प्रकार उस हरिणनयना विरहातुरहृदया कादम्बरीको ही वह देखने लगा । क्रमशः (धीरे-धीरे) महाश्वेताके आश्रममें पहुँचकर उसने देखा कि—अपने सैन्यगण, इन्द्रायुधके टापोंके चिह्न का अनुसरण कर अच्छोदसरोवरके तट पर आकर ठहरे हैं। उस समय वहाँसे समस्त गन्धर्वकुमारोंको उसने लौटा दिया, इधर सेनान्तर्गत पुरुषोंने उसको देख आनन्द-सहित, कौतुक-सहित और विस्मय-सहित प्रणाम किया। इस रीतिसे


१. क्वचिद् ।
२ *** आवेशितामिव लावेदावस्थितामिव ।
३. क्वचिद् 'मृगलोचनाम्' इति पदन्न विद्यते ।

६००कादम्बरी[ कथायाम्-

वारवर्त्तिना जनेन प्रणम्यमानः स्वभवनं विवेश। सम्मानिताशेपराजलोकैश्च वैशम्पायनेन पत्रलेखया च सह 'एवं महाश्वेता, एवं कादम्बरी, एवं मदलेखा, एवं तमालिका, एवं केयूरकः' इत्यनयैव कथया प्रायो दिवसमनैषीत्। कादम्बरीरूपदर्शनद्विष्टयेव नास्य पुरेव प्रीतिमकरोत् राजलक्ष्मीः। तामेव च धवलेक्षणामावद्धरणरणकेन चेतसा चिन्तयतो जाग्रत एवास्य सा जगाम रात्रिः। अपरेद्युश्च समुत्थिते भगवति रवौ, आस्थानमण्डपगतस्तद्गतेनेव मनसा सहसैव प्रतीहारेण सह प्रविशन्तं केयूरकं ददर्श। दूरादेव च क्षितितलस्पर्शिना मौलिना कृतपादपतनम्, 'एहोहि' इत्युक्त्वा प्रथममपाङ्गविसर्पिणा चक्षुषा, ततो हृदयेन, ततो रोमोद्गमेन, पश्चाद्वाहुभ्यां प्रधावितः प्रसृतम् आलिङ्गि गाढम्। उपावेशयच्चैनमात्मनः


नमस्क्रियमाणः,-स्वभवनं पटमण्डपं विवेश प्रविष्टवान्। संमानिता प्रत्यभिवादनादिना सादरता अशेपाः समग्रा राजलोका येन सः। प्रायो बाहुल्येन अनयैव कथया वार्त्तया दिवसं वासरम् अनैषीत् व्यतीतवान्।

कादेति। कादम्बर्या रूपदर्शने चन्द्रापीडद्वारा सौन्दर्यावलोकने या दिष्टिद्वेषस्तयैव कारणेन, राजलक्ष्मीः राज्यश्रीः पुरेष पूर्वमिव, अस्य चन्द्रापीडस्य प्रीतिं स्नेहं नाकरोत् न कृतवती। अनेन राजलक्ष्म्याः सपलोभावसूचनेन चन्द्रापीडस्य निरतिशयप्रमावोऽभिव्यज्यते। ...'दिष्टये'वे'त्यत्र हेतूत्प्रेक्षालङ्कारः।

तामिति। आवद्धो घनो रणरणक औत्सुक्यं येन तेन, चेतसा हृदयेन धवले शुभ्रे ईक्षणे अवलोकने यस्यास्तां तामेव कादम्बरीमेव, चिन्तयतो ध्यायतो जाग्रतः कृतजागरणस्य अस्य चन्द्रापीडस्य सा रात्रिः जगाम ययौ।

अपरेद्युरिति। अपरेद्युः अपरस्मिन् दिने। आस्थानमण्डपे सभामण्डपे गतः स्थितः, तद्गतेनैव कादम्बरीं प्रति प्रधावितेनैव मनसा हृदयेन उपलक्षितः, सहसैव अतर्कित एव प्रतीहारेण सह द्वारपालकेन सार्कं प्रविशन्तम् अभ्यन्तर आयान्तम्। ददर्श अद्राक्षीत्। क्षितितलं भूतलं स्पृशति चुम्बतीत्येवंशीलेन मौलिना मस्तकेन कृतं विहितं पादयोश्चरणयोः पतनं येन तम्। प्रथमम् आदौ अपाङ्गविसर्पिणा प्रान्तगामिना चक्षुषा नयनेन। रोमोद्गमेन रोमाञ्चोद्गवेन। प्रसृतम् आयातं केयूरकं गाढं निविडम् आलिलिङ्ग उपगूहितवान्।

उपावेशयदिति। आत्मनः समीप एव स्वासन्नान्तिक एव उपावेशयत् -अस्थापयत्। स्मितेनेव ईषद्वहास्यमेव सुधा गृहधवलीकरणलेपविशेषः तेन धवलीकृतानि श्वेतीकृतानि अक्षराणि वर्णा यस्य तत्, तथा क्षरन् निर्गच्छन् यः प्रीतिद्रवः स्नेह्ररसः तन्मयं तेन व्याप्तमिव वचनं वाक्यम् उच्चारयन् ब्रुवन्, आदृतः सम्मानवान् पप्रच्छ प्रश्नं चकार।

इह 'स्मितसुधाधवलीकृताक्षरम्' इत्यत्र निरङ्गं केवलरूपकम्, धवलीकरणसम्वन्धाभावेऽपि


वह अपने पटमण्डप (तंबू) में प्रवेश किया (घुसा) और वहां प्रत्यभिवादन द्वारा समस्त राजाओं को सम्मानित कर, दिनका बहुत कुछ अंश उसने इस प्रकार महाश्वेता हैं, इस प्रकार कादम्बरी हैं, इस प्रकार मदलेखा हैं, इस प्रकार तमालिका हैं, इस प्रकार केयूरक हैं-प्रायशः ऐसे ऐसे व्यापार वैशम्पायन तथा पत्रलेखाके साथ करनेमें दिन व्यतीत किया। कादम्बरीका सौन्दर्य अवलोकन कर लेने पर राज्यलक्ष्मीसे उसे मानो द्वेष हो गया हो इस प्रकार पहलेके समान अब वह उसकी प्रीति उत्पन्न नहीं करती थी और उत्कण्ठित चित्तसे उसी धवलनयनाका चिन्तन करते-करते जागरण करते हुए ही उसने समस्त रात्रिको विताया। दूसरे दिन भगवान् सूर्यनारायणके उदित होने पर स्वयं तद्गतचित्तसे ही सभामण्डपमें बैठा था कि इतनेमें सहसा ही उसने प्रतीहारी (द्वारपाल) के साथ केयूरकको प्रवेश करते हुए देखा। केयूरक दूरसे ही भूतलमें मस्तक-स्पर्श कर उसके चरणके ऊपर गिर गया इतनेमें 'आओ, आओ'-यह कहकर चन्द्रापीडने पहले प्रान्तगामी नयनसे उसके बाद हृदयसे, तदनन्तर रोमाञ्च द्वारा, उसके पीछे दौड़कर बाहुओंसे उपस्थित केयूरकका गाढ़ आलिङ्गन किया और उसको अपने समीपमें ही


१. संमानितप्रत्यक्षीकृताशेषः ...संमानितप्रत्यक्षीकृतराजसंतानितराज...।
२. ...दिष्टिवेव।
३. पुरे।
४. क्वचित् 'सै'ति न विद्यते।
५. संप्रविशन्तम्।
६. निवृत्तम्, प्रथितम्, दधि तना...।
७. समुपायेशवत्।

का०प्रहितोपहारप्रदर्शनव० १०४] चन्द्रकला-विद्योतिनीसहिता । ६०१

समीप एव, पप्रच्छ च स्मितसुधाधवलीकृताक्षरं क्षरत्प्रीतिद्रवमयमिव वचनमादृतः 'केयू- रक ! कथय कुशलिनी देवी ससखीजना सपरिजना कादम्बरी, भगवती महाश्वेता च' इति । असौ तु तेन राजसूनोः प्रीतिप्रकर्षजन्मना स्मितेनैव स्नपित इवानुलिप्त इव सद्य एवापगताध्वखेदः प्रणम्याहृततरमवोचत्—'अद्य कुशलिनी, यामेवं देवः पृच्छति' इत्यभि- धायापनीयार्द्रवस्त्रावगुण्ठितं बिससूत्रसंयतमुखमार्द्रचन्दन-पङ्क-न्यस्त-बाल-मृणाल-वलय-मुद्रं नलिनीपत्रपुटमदर्शयत् । उद्घाट्य च तत्र कादम्बरीप्रहितान्यभिज्ञानान्यदर्शयत् । तद्यथा- मरकतरहरीणि व्यपनीतत्वग्भि चारुमञ्जरीभाञ्जि क्षीरीणि पूगीफलानि, शुककामिनीकपोल- पाण्डूनि ताम्बूलीदलानि, हरचन्द्रखण्डस्थूलशकलञ्च कर्पूरम् , अतिबहल-मृगमदामोदमनो-


त्सम्बन्धप्रतिपादनादतिशयोक्तिश्चैत्युभयोरेकाश्रयानुप्रवेशरूपसङ्करः । 'प्रीतिद्रवमयमिव' इत्यत्र क्रियो- त्प्रेक्षा, अनया चोक्तलङ्करस्य मिथो नैरपेक्ष्येण संसृष्टिः ।

असाविति । असौ केयूरकः, राजसूनोः चन्द्रापीडस्य, प्रीतिप्रकर्षः स्नेहातिशयः तस्माज्जन्म उत्पत्तिर्यस्य तेन, स्मितेनैव ईषद्धास्येनेव स्नपित इव, परिक्कुत इव अनुलिप्त इव अनुलेपनविषयीकृत इव । अपगतो निवृत्तः अध्वखेदः मार्गश्रमो यस्य सः, प्रणम्य नमस्कृत्य आहनतरम् अत्यादरपूर्वकम् अवोचत् अब्रवीत् । इह 'स्नपित इव' 'अनुलिप्त इव' इत्युभे क्रियोत्प्रेक्षे, अनयोश्च मिथो नैरपेक्ष्येण संसृष्टिः ।

व्येति । सार्द्रद्रश्वेण व्लिन्नवसनेन अवगुण्ठितम् आच्छादितम, बिससूत्रेण मृगालतन्तुना संयतं बद्धं मुखम् अग्रदेशा यस्य तत्, आर्दे क्लिन्ने चन्दनपङ्के मलयजकर्दमे न्यस्ता स्थापिता बालमृगाल- वलयस्य नवीनबिसकङ्कणस्य मुद्रा चिह्नम् (अन्यो नोद्घाटयेदिति) यत्र तत्, नलिनीपत्रपुटं कमलिनीदल- पुटम् अपनीय तद्वसनावरणम् अपसार्य अदर्शयत् अवलोकन मकारयत् ।

उद्घाट्येति । उद्घाट्य उन्मुद्रय । कादम्बर्या प्रहितानि प्रेषितानि, अभिज्ञायते अवबुध्यते प्रेम एभिरिति अभिज्ञानानि स्नेहद्योत कचिह्नानि । मरकतवत् अश्मगर्भक्त् हरिन्ति हरिद्वर्णानि, व्यपनीता दूरीकृताः त्वचो वल्कलाानि येषां तानि, चार्वीः पेशलाः मञ्जरीः भजन्ति इति तानि, तथा क्षीरीणि रस- युक्तानि, पूगीफलानि क्रमुकानि । शुककामिन्याः कीररमण्याः सारिकाया इत्यर्थः । कपोलवत् गण्डवत् पाण्डूनि पाण्डुरवर्णानि, ताम्बूल्या नागवल्या दलानि पत्राणि । हरस्य महेशस्य चन्द्रखण्डवत् शशिश- कलवत् स्थूलानि स्थविष्ठानि शकलानि खण्डानि यस्य तत्तथोक्तं कर्पूरं घनसारञ्च । तथा अतिबहलैः अत्यन्ताधिकैः मृगमदानां कस्तूरीणाम् आमोदैः परिमलैः मनोहरं रमणीयम्, मलयजविलेपन चन्द- नानुलेपनञ्च ।

इह 'मरकतहरिन्ति' 'शुककामिनीकपोलपाण्डूनि, 'हरचन्द्रखण्डस्थूलशकलम्' एषु सर्वत्र लुप्तोप- मालङ्कारः, तस्य च मिथो नैरपेक्ष्येण संसृष्टिः ।


बैठाया। फिर मानो विगलित प्रेमरससे व्याप्त ईषद् हास्यरूप सुधा-लेपसे शुभ्रवर्ण अक्षरवाले वाक्योंमें आदर- सहित पूछने लगा—'केयूरक ! कहो, सखीजन और परिजन वर्गके सहित देवी कादम्बरी और भगवती महाश्वेता सब कुशल तो हैं ? विशेष प्रणयसे उत्पन्न हुए राजपुत्रके उस ईषद् हास्यसे केयूरक मानो स्नान कर गया हो और अनुलिप्त हो गया हो, इस प्रकार उसका तत्काल ही मार्गश्रम जाता रहा और प्रणाम-पूर्वक विशेष आदरसे उसने उत्तर दिया—'आज वह कुशलिनी हैं, जिसके सम्बन्धमें आपने इस प्रकार प्रश्न किया है' इतना कहकर, कमलके पत्तोंके एक संपुटको निकाल कर उसने दिखाया । वह पद्मपत्र-दलका संपुट पहले आर्द्रवस्त्र (रुमाल) से आच्छादित था, मृणाल-सूत्रसे उसका मुखभाग बद्ध था, एवं चन्दन-रसके लेपपर नूतन मृणाल-वलयकी छाप (मुहर) लगी हुई थी। उसके बाद उस पुटका उद्घाटन कर, उसके अन्दरमें कादम्बरीके द्वारा प्रेषित कितने ही अभिज्ञान उसने दिखाये । वह अभिज्ञान इस प्रकार था—जिसमें मरकत मणिके समान हरिद्वर्ण वल्कल-विहीन (छिली हुई), सुन्दरमञ्जरी समन्वित और क्षीरपरिपूर्ण कितने पूगीफल (दुधिया सुपारियाँ) थे, सारिका (तोते) के गण्डस्थल (गाल) के समान पाण्डुवर्ण कितने ही ताम्बूल थे, शिव-मस्तकस्थित चन्द्रखण्डके समान कर्पूरका बड़ा एक खण्ड (टुकटा) था और कस्तूरीके अतिप्रचुर सौरभसे मनोहर लगता चन्दनानुलेपन था । [इनको


१. आहततरमेवावोचत् । २. सार्द्रकर्पटावगुण्ठितम्, सार्द्रवल्कलावगुण्ठितम् । ३८ का०

६०२ कादम्बरी- [ कथायाम्-

हरश्च मलयजविलेपनम्। अब्रवीच्च—'चूडामणिचुम्बिना ^१कोमलाङ्गुलिविवरविनिर्गत-लोहितांशुजालेनाञ्जलिना देवमर्चयति देवी कादम्बरी, महाश्वेता च सकण्ठग्रहेण कुशलवचसा, पर्यस्त-शिखण्ड-माणिक्य-ज्योत्स्ना-स्नपित-ललाटेन च नमस्कारेण मदलेखा, क्षितितलघटितसीमन्त-मकरिकाकोटिकवणेन सकलकन्यालोकश्च, सचरणरजःस्पर्शेन च पादप्रणामेन तमालिका'। सन्दिष्टञ्च तव महाश्वेतया—'धन्याः खलु ते, येषां न गतोऽसि चक्षुषोर्विषयं^२ तथा नाम समक्षं भवतस्ते तुहिनशीतलाश्चन्द्रमया इव गुणा विरहे विवस्वन्मया इव संवृत्ताः^३ स्पृहयन्ति खलु जनाः कथमपि दैवे'पपादितायामृतोत्पत्तिवासरायैवातीतादिवसाय। त्वया वियुक्तं ^४निवृत्त-महोत्सवालसमिव वर्त्तते गन्धर्वराजनगरम्। जानासि च मां कृतसकल-

अब्रवीदिति । चूडामणिः शिरोमणिः तच्चुम्बिना तत्स्पर्शिना, कोमलाङ्गुलीनां मृदुकरशाखानां विवरेभ्यश्छिन्द्रेभ्यो विनिर्गतं विनिःसृतं लोहितं रक्तम् अंशुजालं हस्ततलकिरणसमूहो यस्य तेन, अञ्जलिना बद्धपाणिपुटेन, देवं भवन्तम् अर्चयति सम्मानयतीति सर्वत्रान्वीयते। सकण्ठग्रहेण स्नेहालिङ्गनसहितेन कुशलवचसा मङ्गलवाक्येन । पर्यस्तं मस्तकनमनाल्लभ्वितं यत् शिखण्डमणिवर्यं चूडारत्नं तस्य ज्योत्स्नया दीप्त्या स्नपितं परिष्कृतं ललाटं भालं यन्न तेन। क्षितितलेन भूमितलेन घटितः सम्बद्धः सीमन्तमकरिकायाः सीमन्तस्थायिमकरसदृशाभूषणस्य कोटिकोणः संमुखप्रदेशैकभागो यत्र तेन नमस्कारेण प्रणानेन सकलकन्यकालोकश्च समस्तकुमारिकाजनश्च। तथा चरणरजसःपादरेणोः स्पर्शेन सहेति तेन पादप्रणामेन चरणाभिवन्दनेन।

इह महाश्वेता प्रभृतीनामनेकानां कर्त्रीणाम् 'अर्चयति' इत्येकक्रिययाभिसम्बन्धात्तुल्ययोगितालङ्कारः।

सन्दिष्टमिति । सन्दिष्टं वाचिकं निवेदितम्। येषां चक्षुषोर्नयनयोर्विषयं गोचरं न गतो यातोऽसि त एव खलु निश्चयेन धन्याः, येषां गतोऽसि ते तु तव विरहेण तप्यन्त इत्यर्थः। धन्यत्त्वे कारणं साधु स्फोरयति-तथेति । भवतस्तव ते विख्याता गुणाः सौन्दर्यादयः, समक्षं प्रत्यक्षं चन्द्रमयाश्चन्द्रनिप्पन्ना इव तुहिनं हिमं तद्वत् शीतलाः शिशिरा आसन्, सम्प्रति तु विरहे वियोगे विवस्वन्मयाः संतापदायकत्वात् सूर्यनिश्चन्ना इव अस्माकं संवृत्ताः सञ्जाताः, अतएवैवंविधवियोगसन्तापाभावादेव येषां लोचनगोचरो न ते धन्या इत्याशयः।

इह 'तुहिनशीतला' इत्यत्र लुप्तोपमालङ्कारः, 'चन्द्रमया इव' 'विवस्वन्मया इव' इत्युभयत्र क्रियोत्प्रेक्षालङ्कारः, इत्येपामङ्गाङ्गिभावेन सङ्करः।

स्पृहयन्तीति। कथमपि दैवेन विधिना उपपादिताय निष्पादिताय, यस्मिन् वासरे दिवसे 'अमृतोत्पत्तिः पीयूषाविर्भाव आसीत् तस्मै अमृतोत्पत्तिवासरायैव, अतीतो गतो यो दिवसो वासरः तस्मै यत्र तव संमिलनमभूत् तस्मै इत्यर्थः जना इहत्या लोकाः खलु निश्चयेन स्पृहयन्ति वाञ्छन्ति । 'स्पृहेरीप्सित' इति सम्प्रदानत्वाच्चतुर्थी विभक्तिः ।

त्वयेति। वियुक्तं विरहितं निवृत्तेन दूरीभूतेन महोत्सवेन अलसं मन्दमिव। गन्धर्वराजस्य चित्ररथस्य नगरम् । 'अलसमिव' इत्यत्र गुणोत्प्रेक्षा ।

जानासीति। कृतसकलपरित्यागां विहितसमस्तपरित्यागाम् । अकारणपक्षपातिनम् अहेतुकसाहाय्य-

दिलाकर केयूरकने] कहा—'कोमल अङ्गुलियोंके विवरमेंसे निकलती रक्तवर्ण किरणोंका वर्षण करनेवाली चूडामणि स्पर्शी अञ्जलिद्वारा देवी कादम्बरी आपकी पूजा (सम्मान) करती है, महाश्वेता देवी प्रणया-(कण्ठा-)लिङ्गनके सहित कुशल-समाचार-पूर्वक आपका सम्मान-वर्द्धन करती है, मदलेखा अवनत शिरोरत्नकी प्रभासे रँगे ललाटदेशसे नमस्कारद्वारा आपका सम्मान-वर्द्धन करती है, और समस्त कन्याएँ भी सीमन्तके मकराकार अलङ्कारके अग्रदेश से भूतल स्पर्श कर नमस्कार द्वारा आपका सम्मान-वर्धन करती है, तथा तमालिका आपके चरण-रज-स्पर्शके साथ चरणमें प्रणाम कर अर्चना करती है।' और महाश्वेताने आपके समीप सन्देशा भेजा है कि—'जिनके आप दृष्टि-पथ नहीं हुए हैं, वे लोग ही धन्य हैं; क्योंकि—आपका गुणग्राम, समक्षमें चन्द्र-निर्मित होनेके कारण ही मानो शिशिरके समान शीतल लगते थे और अब वियोगके समय सूर्य-निर्मित होकर ही मानो हम लोगोंको सन्ताप दे रहे हैं। इस स्थानके सब लोग ही अमृतोत्पत्ति-दिनके समान दैवयोगसे आए पिछले दिनको किसी प्रकार फिर देखनेके इच्छुक हैं। यह गन्धर्व-राजधानी आपके विरहमें, महोत्सव-निवृत्तिके अनन्तर निस्तब्धके समान मन्द हो गयी हो ऐसी प्रतीत होती है। आप जानते ही तो हैं कि मैंने समस्त पदार्थोंका परित्याग कर दिया


१. क्वचित् 'विवर' इति पदं नोपलभ्यते । २. अविषयं । ३. वृत्ताः । ४. विनिवृत्त... । ५. महोत्सवानन्दम् ।

का० प्रहितेनशारूहरण० १०५ ] चन्द्रकला-विद्योतिनीसहिता । ६०३

परित्यागम्, तथाप्यकारणपक्षपातिनं भवन्तं द्रष्टुमिच्छत्यनिच्छन्त्या अपि मे वलादिव हृदयम् । अपि च बलवदस्वस्थशरीरा कादम्बरी, स्मरति च स्मेराननं स्मरकल्पं त्वाम्, अतः पुनरागमनगौरवेणार्हसीमां गुणवदभिमानिनीं कर्तुम् । उदारजनादरो हि बहुमानमारोपयति । अवश्यं सोढव्या चेयमस्मद्विजन-परिचयकदर्थना कुमारेण, भवत्सुजनतैव जनयत्यनुचितसन्देशप्रागल्भ्यम् । एष देवस्य शयनीये विस्मृतः शेषो हारः प्रहितः¹' इत्युत्तरीयपट्टान्तसंयतं सूक्ष्मसूत्रविवरै²-निःसृतैरंशुसन्तानैः संसूच्यमानं विमुच्य चामरग्राहिण्याः करे समर्पितवान् ।

अथ चन्द्रापीडः ‘महाश्वेताचरणाराधनतपःफलमिदं यदेवं परिजनेऽप्यनुस्मरणादिकं प्रसादभारमति महान्तमारोपयति देवी कादम्बरी' इत्युक्त्वा तत्सर्वं शिरसि कृत्वा स्वयमेव


कारिजन् । अनिच्छन्त्या अनभिलषन्त्या अपि मे मम हृदयं चेतः बलाद् हठादिव भवन्तं त्वां द्रष्टुमिच्छति दिदृक्षति । बलवदस्वस्थशरीरा अत्यधिकपीडायुक्तदेहा । स्मेराननं विकसितवदनं स्मरकल्पं मदनसदृशं त्वां भवन्तं स्मरति स्मृतिपथम् आनयति, अतः अस्माद्धेतोः पुनरागमनमेव द्वितीयवारोपस्थितिरैव गौरवं गुरुत्वसम्पादकं तेन । इमां कादम्बरीम् । गुणवन्तम् आत्मानं स्वम् अभिमन्यत इति ताम्, चन्द्रापीडसदृशोऽपि नमान्तिकमागच्छतीति गुणवत्यहमित्यात्मन्यभिमान इत्यभिप्रायः । कर्तुं विधातुम् अर्हसि शक्नोषि । हि यतः, उदारस्य महतो जनस्य आदरः सत्कारः, बहुमानं स्वस्मिन्नादराम् । इह सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ।

ननु भूयोऽपि तत्र गमने महान् परिश्रमो भवेदित्याशङ्कायामाह—अवश्यमिति । अस्मद्विधानां गुणशून्यजनानामित्यर्थः परिचयेन या कदर्थना आत्मनोऽवमानः सा च अवश्यं नूनं कुमारेण भवता सोढव्या सौजन्यवशात् सहनीयेत्यर्थः । भवत्सुजनतैव स्वत्स्वजनतैव अनुचितसन्देशप्रागल्भ्यम् अयोग्यसन्देशपाण्डित्यं जनयति निष्पादयति । शयनीये भवतैव व्यवहृतायां तल्पे । प्रहितः प्रेषितः ।

इतीति । उत्तरीयपट्टान्तेन संख्यानवस्त्राञ्चलेन संयतं बद्धम्, सूक्ष्मसूत्राणाम् अतितनुतन्तूनां विवरैरन्धरैरिद्रैभ्यो विनिःसृतैः विनिर्गतैः, अंशुसन्तानैः किरणधारामिः संसूच्यमानम् अभिव्यज्यमानम् , विमुच्य वसनप्रान्तादुन्मुच्य चामरग्राहिण्या वालव्यजनधारिण्याः करे हस्ते समर्पितवान् दत्तवान् ।

अथेति । महाश्वेतायाः चरणयोः पादयोः आराधनमेव उपासनमेव तपः तस्य फलम् । परिजनेऽपि सेवकेऽपि मयीति शेषः । प्रसादभारम् अनुग्रहभारम् । तत्सर्वं पूगीफलादिकमुपहारम्, शिरसि कृत्वा मस्तके आरोप्य स्वयमेव आत्मनैव जग्राह गृहीतवान् ।


हैं; तो भी, आपके अकारण पक्षपाती होनेके कारण—मेरी इच्छा न रहने पर भी—मेरा हृदय, बलपूर्वक ही मानो आपको देखनेकी इच्छा करता है। विशेषतः कादम्बरीका शरीर भी अत्यन्त अस्वस्थ है। वह—प्रसन्नवदन और कन्दर्पतुल्य—आपका स्मरण करती है, इसलिए फिरके गौरवात्मक आगमनद्वारा आपको उसे गुणोंमें अभिमानिनी बनाना उचित है, क्योंकि—प्रधान उदार पुरुषोंके किए हुए आदरसे मनुष्योंके हृदयमें अभिमानका सञ्चार होता रहता है। मेरे समान लोगोंके साथ परिचय हो जानेके कारण इस प्रकारकी कदर्थना तो आपको अवश्य ही सह्य करनी होगी। आपके सौजन्यको देख कर ही, ऐसा अनुचित सन्देश भेजनेकी प्रगल्भता उत्पन्न हुई है। आपके विस्मरणवश यह हार शय्याके ऊपर छूट गया है, अतएव 'शेष' नामक इस हारको भेज दिया है।' इस प्रकार कह कर, उत्तरीयवस्त्रके अञ्चल (पल्ले) में बँधा हुआ, सूक्ष्म सूत्रकी बनावटमेंसे निकलती किरण-रेखाओंसे संसूचित (पहचान लिया जाता) इस हारको खोलकर उसने चन्द्रापीडके चामरधारिणीके हाथमें समर्पण कर (दे) दिया।

इसके बाद—यह, महाश्वेताकी चरणाराधनारूपो तपस्याका फल है कि मेरे समान परिजनके प्रति भी देवी कादम्बरीने इस प्रकार अनुस्मरणादिका अत्यन्त गुरुतर अनुग्रहभार आरोप किया है' यों कह कर चन्द्रापीडने उस समस्त उपहारद्रव्योंको अपनेसे ही मस्तक पर धारण कर ग्रहण किया। कादम्बरीके गण्डस्थल (गाल) से


१. क्वचिद् 'प्रहित' इति नास्ति ।
२. सूक्ष्मबलविवर ¨ ।

६०४ - कादम्बरी- [ कथामुखम्-

जग्राह। तेन च कादम्बर्याः कपोललावण्येनेव गलितेन, स्मितालोकेनेव¹ रसतामुपनीतेन, हृदयेनेव द्रुतेनेव गुणगणेनेव निस्यन्दितेनं² स्पर्शवता ह्लादिना सुरभिणा च विलेपनेन विलिप्य तमेव कण्ठे हारमकरोत्। आगृहीतताम्बूलश्च मुहूर्तादिवोत्थाय वामबाहुना स्कन्धदेशे समवलम्ब्य³ केयूरकम्, ऊर्ध्वस्थित एव कृतयथाक्रियमाणसम्मानमुदितं प्रधानराजलोकं विसृज्य शनैः शनैर्गन्धमादनं करिणं द्रष्टुमयासीत्। तत्र च स्थित्वा क्षणमिव तस्मै स्वयमेव निज-नखांशुजालजटिलं समृणालमिव शुष्कशष्पकवलमवकीर्य वल्लभतुरङ्ग⁴-मन्दिराभिमुखः प्रतस्थे, गच्छंश्चोभयतः किञ्चित् किञ्चिदिव तिर्यग्वलितवदनः परिजनं विलोकयाम्बभूव।

अथ चित्तज्ञैः प्रतीहारैः प्रतिषिद्धानुगमने निखिले समुत्सारिते परिजने केयूरकद्वितीय


तेनेति। गलितेन प्रस्रुतेन कादम्बर्याः कपोललावण्येनेव गण्डयोः सौन्दर्येणेव, रसतां द्रवताम् उपनीतेन प्रापितेन कादम्बर्याः स्मितालोकेनेव मन्दहास्यदीप्त्येव, द्रुतेन द्रवीभूतेन कादम्बर्या हृदयेनेव अन्तःकरणेनेव, निस्यन्दितेन गलितेन कादम्बर्या गुणगणेनेव, स्पर्शवता प्रशस्तस्पर्शयुक्तेन, ह्लादिना आनन्दोत्पादकेन, सुरभिणा घ्राणतृप्तिविधायिना च तेन विलेपेन अङ्गरागेण, चन्दनेन विलिप्य अङ्गानीतिं शेषः। तमेव हारं शेषनामानं कण्ठे गले अकरोत् अघटयत्।

इह 'कपोललावण्येनेव' इत्यत्र गुणोत्प्रेक्षा, अवशिष्टेषु यथाक्रमं त्रिषु जात्युत्प्रेक्षाः।

आगृहीतेति। स्कन्धदेशे अंसभागे समवलम्ब्य सम्यगालम्बनं विधाय, ऊर्ध्वस्थित एव अनुपविष्ट- एव दण्डायमान एवेत्यर्थः। क्रियमाणं मुख्यराजपुत्रैरादौ विधीयमानं नमस्कारादिकमनतिक्रम्य विद्य-मानमिति यथाक्रियमाणम्, कृतेन विहितेन यथाक्रियमाणेन सम्मानेन प्रतिनमस्कारादिना मुदितं सन्तुष्टम्, प्रधानराजलोकं सामन्तगणं विसृज्य गृहे गम्यतामित्यभिधाय। गन्धमादनं तत्संज्ञकं करिणं हस्तिनम्। अयासीत् अगमत्।

तत्रेति। निजनखांशुजालेन स्वनखकिरणसमूहेन जटिलो विपक्षीकृतः तम्, अतएव समृणालमिव विससहितमिव, नखकिरणसमूहस्य मृणालसदृशत्वादित्याशयः। तस्मै गन्धमादनाय शष्पकवलम् अभिनवतृणगुडेरकम् अवकीर्य खादनाय विक्षिप्य, वल्लभाः प्रिया ये तुरङ्गमा अश्वाः तेषां या मन्दुरा शाला तदभिमुखः तत्संमुखः सन् प्रतस्थे चचाल। गच्छन् व्रजंश्च उभयतः द्वयोः पार्श्वयोः। तिर्यग्-वलितम् उभयतः प्रवर्त्तितं वदनं मुखं येन सः, परिचारकादीनामपसारणायेत्याशयः। विलोकया-म्बभूव ईक्षाञ्चक्रे।

अथेति। अथ तत्समीपगमनानन्तरम्, चित्तज्ञैः आशयाभिज्ञैरित्यर्थः। प्रतिषिद्धं निवारितम् अनु-गमनं राजपुत्रानुसरणं यस्य तस्मिन्, समुत्सारिते निकटाद् दूरीकृते सति। मन्दुरां वाजिगालां प्रविवेश प्रविष्टवान्। 'वाजिराला तु मन्दुरा' इत्यमरः।


पिघले हुए लावण्यके समान, रसताको प्राप्त हुए मन्द-हास्यके समान, द्रवताको प्राप्त हुए हृदयके समान और प्रवाहित हुए गुण-ग्रामके समान सुखस्पर्शवाले, आह्लादजनक एवं नासिकाकी तृप्ति करनेवाले चन्दनसे उसने समस्त अङ्गमें लेपन कर उस हारको कण्ठमें धारण किया। फिर ताम्बूलको लेकर, कुछ समयके बाद उठकर, वाम-बाहुद्वारा केयूरकके कन्धे पर सहारा देकर, दण्डायमान रह कर (खड़े-खड़े) ही, प्रत्यभिवादन-सम्मानसे सन्तुष्ट हुए अभिवादनकारी प्रधान राजाओंको विदा कर, धीरे धीरे वह गन्धमादन हाथीको देखने चला। वहाँ कुछ देर ठहर कर, नख-किरणोंसे उद्भासित, अत एव मृणालयुक्तके समान दीखती थोड़ी-सी शुष्क घास, उस गन्धमादनके आगे अपने ही डालकर, वहाँसे प्रीतिभाजन अश्वसमूहके गृहाभिमुख (अस्तबलकी ओर) प्रस्थान किया। जानेके समयमें वह दोनों तरफ थोड़ा-थोड़ा मुँह फेर कर परिचारकोंके प्रति दृष्टिपात करने लगा।

उसके बाद, उसके मनके अभिप्रायको जाननेवाले द्वारपालोंने परिजनोंको उसके अनुसरण करनेका निषेध करके दूर कर दिया। तब वह केवल केयूरकके साथ ही जाकर अश्वशाला (अस्तबल) में प्रवेश किया। द्वारपालोंके


१. स्मितावलोकेनेव। २. विस्पन्दितेन। ३. अवलम्ब्य। ४. ॅ तुरङ्गमॅ ।

गन्धर्वनगरवृत्तान्तनिवे०व० १०६ ] चन्द्रकला-विद्योतिनीसहिता । ६०५

एव मन्दुरां प्रविवेश। उत्सारणभयसम्भ्रान्तलोचनेषु प्रणम्यापसृतेषु मन्दुरापालेषु, इन्द्रायुधस्य पृष्ठावगुण्ठनपटं किञ्चिदेकपार्श्वे^१ गलितं समीकुर्वन्नुत्सारयंश्च कूणितनेत्रत्रिभागस्य^२ दृष्टिनिरोधिनीं कुङ्कुमकपिलां केसरसटां खुरधारिणी^३-विन्यस्तचरणो लीलामन्दं मन्दुरादारुदत्तदेहभरः सकुतूहलमुवाच—'केयूरक ! कथय, मन्निर्गमादारभ्य को वा वृत्तान्तो गन्धर्वराजकुले ? केन वा व्यापारेण वासरमतिनीतवती^४ गन्धर्वराजपुत्री ? किं वाऽकरोन्महाश्वेता ? किमभाषत वा मदलेखा ? के वाऽभवन्नालापाः परिजनस्य ? भवतो वा को व्यापार आसीत् ? आसीद्वा काचिदस्मदाश्रयिणी कथा ?'

केयूरकस्तु सर्वमाचचक्षे—'देव ! श्रूयताम्, निर्गते त्वयि हृदय-सहस्र-प्रयाण-पटह-कलकलमिव नूपुरचक्रैः क्वणितेन कन्यकान्तःपुरे^५ कुर्वति^६, देवी कादम्बरी सपरिजना सौधशिखरमारुह्य तुरगधूलिरेखाधूसरं देवस्यैव गमनमार्गमालोकितवती। तिरोहितदर्शने च देवे,


उत्सारेणेति। उत्सारणं द्वारपालद्वारा कृतवेत्रताडनं तस्माद् यद् भयं त्रासस्तेन सम्भ्रान्तानि चकितानि लोचनानि नयनानि येषां तेषु, तथोक्तेषु, मन्दुरापालेषु वाजिगालारक्षकेषु प्रणम्य नमस्कृत्य अपसृतेषु दूरीभूतेषु सत्सु। एकपार्श्वे किञ्चिद्गलितम् ईषत्पतितम् इन्द्रायुधस्य पृष्ठावगुण्ठनपटं पृष्ठाच्छादनवस्त्रं समीकुर्वन् स्वस्थाने नयन्, कूणितः केसरपतनात् सङ्कोचिता नेत्रस्य नयनस्य त्रिभागः तृतीयभागो येन तस्य तादृशस्य इन्द्रायुधस्य दृष्टिनिरोधिनीं दृष्टिबाधाकारिणीम्, कुङ्कुमो यावकः तद्वत् कपिलां पिङ्गलवर्णाम्, केसरस्य स्कन्धप्रदेशोत्पन्नकेशस्य सटा गुच्छीभूतत्वाज्जटा ताम्, उत्सारयन् नयनाद् दूरीकुर्वन्। खुरधारिण्याम् इन्द्रायुधशफाधारभूतदारुपट्टिकायां विन्यस्तौ स्थापितौ चरणौ येन सः, तया लीलया विलासेन मन्दं शनैः यथा स्यात्तथा मन्दुरादारुणि वाजिगालात्थकाष्ठविशेषे दत्तो निहितो देहभरः शरीरभारो येन सः। सकुतूहलं सकौतुकम्।

केयूरकेति। वृत्तान्तः। उदन्तः गन्धर्वराजपुत्री कादम्बरी, वासरं दिवसम्, अतिनीतवती अतिवाहितवती। अकरोत् अन्वतिष्ठत्। आलापा वचनव्यापाराः।

केयूरक इति। सर्वं, निखिलिम् आचचक्षे कथयामास बालत्वेन कोमलहृदयत्वादित्याशयः। कन्यकान्तःपुरे कुमारिकाऽवरोधपुरे, नूपुरचक्रस्य कुमारिकाणां पादकटकसमूहस्य क्वणितेन शब्देन, हृदयसहस्रस्य कुमारिकाणामेव मानससमूहस्य यत् प्रयाणं गृहं प्रत्यागच्छता त्वया सह प्रस्थानं तस्य पटहकलकलो ढक्काशब्दकोलाहलः तं कुर्वतीव विदधतीव सती, नूपुरशब्दा नासन्, मन्ये भवता सह प्रस्थितानां कुमारिकाहृदयसहस्राणां प्रयाणे पटहध्वनय एवाभूवन्नित्यभिप्रायः। तुरगस्य भवदश्वस्य धूलिरेखया रजःसमूहेन धूसरं मलिनम्, देवस्यैव भवत एव। आलोकितवती दृष्टवती।

तिरोहितेति। किञ्च, देवे भवति तिरोहितदर्शने अन्तर्हितवीक्षणे सति, मदलेखायाः स्कन्धे निधिसं


वेत्रताडनके भयसे, चकित-नयनवाले वहाँके अश्वशालारक्षकगण (साइश) प्रणाम कर करके खिसक गये, तब इन्द्रायुधकी पीठ परसे एक तरफ कुछ अधिक खिसका हुआ आवरणवस्त्र (जीन) को समान करता-करता, जरा तृतीयभाग सङ्कुचित (मिची हुई) आँख पर आकर दृष्टिको निरोध करती कुंकुमके समान पिङ्गलवर्ण केशर-सटाको हटा दिया। इसके बाद खुरधारिणी (लटके हुए दोनों पाँवोंको थामने वाली) पर चरणयुगल रख, अस्तबलके किसी खूंटे पर देहका भार रखकर, वह कौतुकसहित लीलाके सहारे धीरे धीरे कहने लगा—'केयूरक ! कहो, मुझे वहाँसे निकल कर चले आने पर गन्धर्वराजकुलमें क्या घटना हुई है ? गन्धर्व-राजनन्दिनीने किस कार्यमें दिन विताया ? महाश्वेताने क्या किया ? मदलेखाने क्या कहा ? परिजनवर्गका क्या आलाप हुआ ? तुमने कौन कार्य किया ? एवं मेरे सम्बन्धमें कोई कथा-वार्त्ता हुई है या नहीं ?

केयूरकने सरलचित्त होनेके कारण समस्त प्रश्नोंका उत्तर दिया-'राजपुत्र ! सुनिये-आपके बाहर निकलते ही तत्क्षणात् कन्याओंके अन्तःपुरमें नूपुरोंके रणरणाहटसे हजारों हृदयोंके प्रस्थान-दुन्दुभिका मानो कोलाहल हुआ। ऐसे समयमें देवी कादम्बरी परिजनोंके साथ सौधशिखर पर आरूढ़ होकर, अश्वके द्वारा उठाई हुई धूलसे धूसरवर्ण दीखने आपके ही जानेके मार्गको देखने लगीं ? इसके बाद जब आप नेत्रपथसे बहिर्भूत हो गये तब मदलेखाके


१. इन्द्रायुधपृष्ठावगुण्ठनपटं किञ्चिदेकपार्श्वगलितं किञ्चिदेकपार्श्वे।
२. कूणितनेत्रत्रिभागां।
३. खुरधोरणी***।
४. अवसरमतिनीतवती।
५. नव
६. कुर्वन्ती।

६०६कादम्बरी-[ कथायाम्-

मदलेखास्कन्धनिक्षिप्तमुखी प्रीत्या तं दिगन्तं दुग्धोदधिधवलैः प्लावयन्तीव दृष्टिपातैः, सीतातपत्रापदेशेन शशिनेवेर्ष्या निवार्यमाणरविकरस्पर्शा$^१$ सुचिरं तत्रैव स्थितवती। तस्माच्च कथमपि सखेदमवतीर्य क्षणमिवावस्थानमण्डपे$^२$ स्थित्वोत्थाय स्खलनभियेव निवेद्यमानोपहारकुसुमा शब्दायमानैर्मधुकरैः, जलधारा-धवल-नख-मयूखोन्मुखशिखाण्डिनामनुगलं$^३$ गलद्भिर्वलयैः कण्ठबन्धानिवोपपादयन्ती केकारवोद्विग्ना भवनशिखण्डिनाम्, पदे पदे च कुसुमधवलान्$^४$ करेण गृहँलतापल्लवान् मनसा च देवस्य गुणगणानवलम्बमाना तमेव क्रीडापर्वतकमागतवती, यत्र

स्थापितं मुखं वदनं यया सा तथोक्ता कादम्बरी, प्रीत्या भवत्स्नेहेन, दुग्धोदधिवत् क्षीरसमुद्रवत् धवलैः शुभ्रैः दृष्टिपातैस्तं दिगन्तं प्लावयन्ती क्षालयन्ती सती, तथाविधनिरिक्षणानां निरन्तरत्वादित्याशयः। तया ईर्ष्याया सूर्य प्रति स्पर्द्धया कारणेन, सितातपत्रापदेशेन शुभ्रच्छत्रव्याजेन शशिना चन्द्रेण, निवार्यमाणो दूरीक्रियमाणो रविकरस्पर्शः सूर्यकिरणस्पर्शो यस्याः सा तथोक्ता च सती, सूर्येण सह चन्द्रस्य स्पर्धा 'त्वं कादम्बरीं यदि तापयेस्तर्ह्यहं त्वत्तापं दूरीकृत्य शीतलेयम्' इति। अतएव श्वेतच्छत्रस्य तु व्याजमात्रं, शुक्लत्व-प्रकाशशालिवादिगुणैश्चन्द्र एव सः। अतएव तेन निवार्यमाणातपेत्यर्थः। तत्र सौधशृङ्ग एव सुचिरं बहुकालं स्थितवती अवस्थानं कृतवती।

इह 'दुग्धोदधिधवलदृष्टिपाते' त्यत्र लुप्तोपमालङ्कारः, 'प्लावयन्तीव' इत्यत्र क्रियोत्प्रेक्षेत्युभयोरङ्गाङ्गिभावसङ्करः। तथा श्वेतच्छत्रमपहुत्य चन्द्रस्थापनात्कैतवापह्नु तिरलङ्कारः।

तस्मादिति। तस्मात् प्रासादशृङ्गात् , कथमपि महता कष्टेनं, सखेदं भवद्वियोगेन सकष्टं यथा स्यात्तथा अवतीर्य अवतरणं कृत्वा, अवस्थान मण्डपे वासभवने क्षणमिव किञ्चित्कालमिव स्थित्वा अवस्थाय, उत्थाय स्खलनभियेव अतीवोन्मनस्कतया अदृश्यमानत्वादेपूपायनप्रसूनेषु कादम्बरी स्खलित्वा पतिष्यतीति त्रासेनेव, शब्दायमानैः मुखरायमाणः मधुकरैर्भ्रमरैः निवेद्यमानानि ( स्वीयैरेव रवैः सूच्यमानानि 'पुष्पाण्यत्र, न स्खलितव्यम्' इति ) उपहारकुसुमानि उपायनप्रसूनानि यस्यै सा। तथा केकारवेण तेषां शिखण्डिनामेव केकाशब्देन उद्विग्ना उद्वेगं प्राप्ता कादम्बरी, अतएव जलधारावत् सलिलासारवत् धवलाः शुभ्रा ये नखमयूखाः कादम्बर्या एव नखरश्मयः तेषु उन्मुखानां सलिलधाराभ्रान्त्या उन्नमिताननानां भवनशिखण्डिनां गृहपालितमयूराणाम्, गलेषु कण्ठेषु इत्यनुगलं विभक्त्यर्थेऽव्ययीभावः, गलद्भिः केवलसमर्पणेनैवाधःपतद्भिः वलयैः कङ्कणैः, कण्ठबन्धान् उपपादयन्ती विदधतीव सती, सति सामर्थ्ये उद्वेजकानां निग्रहावश्यकत्वात्। भवद्वियुक्ता कादम्बरी गृहमयूराणां शब्दैर्दुःखिता भवतीति कण्ठेषु वलययोजनेन तान् मूकीकर्तुमभिलपति किन्तु वलयसमर्पणकाले तस्या नखमयूखेषु जलधाराभ्रमेण तद्ग्रहणाय ते उन्मुखा भवन्ति, अतएव प्रदानकाल एव ते वलयास्तेषां कण्ठादधः पतन्तीत्यभिप्रायः। किञ्च, पदे पदे प्रतिपदक्षेपं करेण पाणिना, कुसुमैः पुष्पैः धवलान् शुभ्रान् गृहलतापल्लवान् भवनसंसृष्टव्रततिकिसलयानि अवलम्बमाना दधाना तथा मनसा चेतसा च कुसुमवद्धवलान् देवस्य भवतो गुणगणान् सौन्दर्यादिगुणसमूहान् अवलम्बमाना दधाना चिन्तयन्ती।

'इह 'स्खलनभियेव' इत्यत्र हेतूत्प्रेक्षालङ्कारः 'नखमयूखेषु' इत्यत्र भ्रान्तिमान् व्यङ्ग्यः। 'कण्ठबन्धानुपपादयन्तीव' इत्यत्रोत्प्रेक्षा तु स्फुटैव। 'कुसुमधवलान्' इत्यत्र लुप्तोपमा।

कन्धेपर अपना मुख रख कर, आपके प्रति स्नेहवश, क्षीरोदसागरके समान धवलवर्ण-दृष्टिपातसे उस दिशाको प्लावित करने (भरने) लगीं, एवं सूर्यके प्रति ईर्ष्यावश चन्द्र ही मानो श्वेतच्छत्रके बहानेसे उस समय उसका धूप निवारण करने लगा, ऐसी अवस्थामें वह बहुत देर तक वहाँ पर ही रही। अन्तमें किसी किसी प्रकार खेदके साथ उस सौधशिखर परसे नीचे उतर कर, कुछ देर सभामण्डपमें बैठ कर उठीं और 'सम्भव अन्यमनस्क हो जानेसे लक्ष्य न कर उपहार-पुष्पों पर वह गिर न पड़े' इस भयसे ही मानो गुञ्जार करते भ्रमरगण उन्हें बिखरे फूलोंको बताने लगे; जलधाराके समान शुभ्रवर्ण नख किरणोंकी ओर मुख उठाकर देखने गृहपालित मयूरोंके केकारवसे उद्विग्न होकर, शासनके लिए निकले कङ्कणसे प्रत्येक मयूरके गलेमें मानो गलबन्धन बाँधने लगी; प्रत्येक पदक्षेप (पग-पग) पर पुष्प-धवल गृह-लताओंके पल्लवोंको हाथसे धारण कर, एवं पुष्पके समान धवलवर्ण


१ ॰॰॰किरणस्पर्शां। २. आस्थानमण्डपे। ३. अनुगलम्। ४: क्वचिद 'गृह' पदं नास्ति।

गन्धर्वनगरवृत्तान्तनिवे० व० १०६ ] चन्द्रकला-विद्योतिनीसहिता । ६०७

स्थितवान् देवः। तमुपेत्य च १देवेनात्र मरकतशिला-मकरिकाप्रणाल-प्रस्रवण-सिच्यमान-हरित-लतामण्डपे शीकरिणि२ शिलातले स्थितम्, अत्र गन्धोदक-परिमललीनालिजाल-जटिल-शिलाप्रदेशे स्नातम्, अत्र कुसुमथूलि-सिकतिले गिरि-नदिकानटे३ भगवानर्चितः शूलपाणिः, अत्र हेपित-शशधर-रोचिषि स्फाटिके४ शिलातले भुक्तम्, अत्र संक्रान्त-चन्दन-रस-लाञ्छने मुक्ताशैलशिलापट्टे५ सुप्तम्' इति परिजनेन पुनरुक्तं निवेद्यमानानि देवस्यैव स्थानचिह्नानि पश्यन्ती क्षपितवती दिवसन्। दिवसावसाने च कथमपि महाश्वेताप्रयत्नादनभिमतमपि तस्मिन्नेव स्फटिकमणिशिलावेश्मन्याहारमकरोत्। अस्तमुपगते भगवति रवौ, उदिते चन्द्रमसि तत्रैव कञ्चित्कालं स्थित्वा चन्द्रकान्तमयीव चन्द्रोदये प्रत्यार्द्रीकृततनुश्चन्द्रविम्बप्रवेशभयेनेव करौ कपोलयोः कृत्वा किमपि चिन्तयन्ती, मुकुलितेक्षणा क्षणमात्रं स्थित्वोत्थाय विमल-नख-

तमिति। अपि च, कादम्बरी तं क्रीडापर्वतकम् उपेत्य प्राप्य दिवसं क्षपितवतीति सम्बन्धः। मरकतशिलायाम् अश्मगर्भप्रस्तरे यो मकरिकाप्रणाली मकरसदृशसलिलनिर्गमनयन्त्रं तस्माद् यत्प्रस्रवणेन सलिलनिःसरणेन सिच्यमानः, हरितो हरिद्वर्णो लतामण्डपो यत्र तस्मिन्, अतएव शीकरिणि सलिलकण-वति अत्र दृष्टे शिलातले, देवेन चन्द्रापीडेन स्थितम्। गन्धोदकानि सुगन्धसलिलानि तेषां परिमलैः सौरभैः लीनं संलग्नं यद् अलिजालं मधुकरसमूहः तेन जटिलो विषमीकृतो यः शिलाप्रदेशः प्रस्तरमयभूमिः तस्मिन्, स्नातम् आप्लवः कृत इत्यर्थः। कुसुमानां पुष्पाणां या धूलयः परागाः ताभिः सिकतिले समुत्पन्न-सैकते अत्र गिरिनदिकानटे पर्वतीयाल्पसरित्तारे। शूलं पाणौ यस्य सः शिवः इत्यर्थः। अर्चितः पूजितः। हेपितं लज्जां प्रापितं शशधररोचिः चन्द्रालोको येन तस्मिन् शशधरादपि धवले इत्यर्थः। संक्रान्तं संसक्तं चन्दनरसो मलयजद्रव एव लाञ्छनं चिह्नं यस्मिन् तत्र, मुक्ताशैलशिलापट्टे मुक्तासदृशश्वेतपर्वतीयप्रस्तर-खण्डे सुप्तं स्वापो विहित इत्यर्थः, इति एवं परिजनेन पार्श्ववर्तिसेवकलोकेन पुनरुक्तं वारं वारं यथा स्या-त्तथा निवेद्यमानानि कथ्यमानानि देवस्य भवत एव स्थानचिह्नानि स्थितिलक्ष्माणि पश्यन्ती विलोक-यन्ती दिवसं वासरं क्षपितवती अतिवाहितवती।

दिवसेति। कथमपि महता कष्टेन। अनभिमतमपि असमीहितमपि, तस्मिन्नेव चन्द्रापीडे! यत्र भक्तितवान् तत्रैवेत्यर्थः। आहारं भोजनम्। अकरोत् अकारयत्। चन्द्रकान्तमयीव चन्द्रकान्तमणिनिष्प-न्नेन, चन्द्रोदये प्रत्यार्द्रीकृता स्वतः सलिलनिःसरणाद् घर्मोद्भूतत्वाच्च क्लिन्ना तनुर्देहो यस्याः सा चन्द्र-विम्बं शशिमण्डलं तस्य यः प्रवेशः तस्य भयेनेव त्रासेनेव। कृत्वा अर्पयित्वा, मदनोद्दीपकशशिमण्डल-प्रवेशप्रतिषेधनायेत्याशयः। चिन्तयन्ती ध्यायन्ती, मुकुळिते मुद्रिते ईक्षणे नयने यस्याः सा। विमलेषु

आपके गुण-गणोंका मन ही मन चिन्ता करती, जिस क्रीडापर्वतपर आप रहेथे वहीं आ पहुँची। वहाँ आनेके बाद परिजनगण उनसे निवेदन करने लगे कि-'मरकत मणिके मकराकार मोरीके प्रस्रवण (जल्यन्त्र) से सिञ्चन किये हुए हरितवर्ण लता-मण्डपवाले इस जलविन्दुसे छाए हुए शिलातल पर राजपुत्र बैठे थे; गन्ध-जलके सौरभते एकत्रित हुए भ्रमरोंके ऊँच नीचोंसे भरे इस शिलानलपर राजपुत्रने स्नान किया था; पुष्प-पराग-रूप वालुका (रेती) से भरे इस क्षुद्र पर्वतीय नदीके तटपर भगवान् शङ्करकी पूजाकी थी; चन्द्र-किरणको भी लज्जित करनेवाले स्फटिकमय शिलातलपर भोजन किया था; और चिपके हुए चन्दन-रसके चिह्नवाली मुक्ताके समान शुभ्रवर्ण इस पर्वतीय-शिलाखण्डके ऊपर शयन किया था।' इस प्रकार बारंबार दिखाए हुए आपके ही स्थानके चिह्नोंका अवलोकन करते-करते उन्होंने समस्त दिन व्यतीत किया। दिनके शेष भागमें महाश्वेताके प्रयत्नसे किसी प्रकार अन-भिमत होने पर भी उन्होंने उसी स्फटिक-मणिनय गृहमें भोजन किया। उसके बाद भगवान् सूर्यनारायणके अस्त-मित होने पर जब चन्द्रमाका उदय हुआ तब वे उस गृहमें कुछ देर तक रहीं। फिर चन्द्रोदयसे चन्द्रकान्तमणि-निर्मितके समान उनका शरीर आर्द्र (गीला) हो गया और सम्भवतः चन्द्र-मण्डलके प्रवेश करनेके भयसे ही मानो गण्डस्थल (गाल) पर हाथ रखकर छोटा नेत्रोंको सङ्कुचित (मींच) कर किसी विषयकी भावना ही करनेमें वहाँ क्षणमात्र बैठी रहीं। फिर उठकर निर्मल नखमें पड़े चन्द्र-प्रतिबिम्बके मारते मानो


१. क्वचित् 'हरित' इति पदं न दृश्यते।
२. शीकरिणि।
३. सिकतवर्दमनदीगिरि……।
४. गिरिनदीकाननतटे।
५. ॰-स्फटिक॰।
६. ॰-शिलापट्टशदनीये।

६०८कादम्बरी-[ कथायाम्-

निपत्तित-शशिप्रतिमाभर-गुरुणीव कृच्छ्रादुत्क्षिपन्ती, लीला-मन्थर-गमन-पटूनि पदानि शय्यागृहमगात् । शयन-निक्षिप्त-गात्रयष्टिश्च, ततः प्रभृति प्रबलया शिरोवेदनया विचेष्टमाना, दारुणेन च दाहरूपिणा ज्वरेणाभिभूयमाना केनाप्याधिना^२ मङ्गलप्रदीपैः कुमुदाकरैश्चक्रवाकैश्च सार्द्धमनिमीलितलोचना दुःखदुःखेन क्षणदामनैषीत् । उषसि च मामाहूय देवस्य वार्त्ताव्यतिकरोपलम्भाय सोपालम्भमादिष्टवती' ।

^६चन्द्रापीडस्तदाकर्ण्य जिगमिषुः 'अश्वोऽश्व' इति वदन्^५ भवनान्निर्ययौ । आरोपितपर्याणञ्च त्वरित-तुरग-परिचारकोपनीतमिन्द्रायुधमारुह्य, पश्चादारोप्य पत्रलेखाम्, स्कन्धावारे

निर्मलेषु नखेषु पादयोरेव नखरेषु निपतिता याः शशिप्रतिमाः चन्द्रप्रतिविम्बानि तासां भरेण गुरुणीव भारवन्तीव, अन्यथा क्लेशादुत्क्षेपणं न युज्यत इत्याशयः । लीला विलासः तया मन्थरगमने मन्दसञ्चरणे पटूनि कुशलानि, पदानि चरणन्यासानि, शय्यागृहं शयनीयभवनम् अगात् अगच्छत् । बहुवचनमौपचारिकम्, न्यासानामाधिक्यादित्यवगन्तव्यम् ।

इह 'चन्द्रकान्तमयीव' इत्यत्र क्रियोत्प्रेक्षालङ्कारः, 'चन्द्रविम्बप्रवेशभयेनेव' इत्यत्र हेतूत्प्रेक्षालङ्कारः, 'गुरूणीव' इत्यत्र गुणोत्प्रेक्षालङ्कारः ।

शयनेति । अपि च, शयने तल्पे निक्षिप्ता स्थापिता गात्रयष्टिः शरीरयष्टिर्यया सा । ततः प्रभृति तत्कालादारभ्य प्रबलया तीव्रया शिरोवेदनया शिरःपीडया विचेष्टमाना व्याकुलीक्रियमाणा, दाहः सन्तापस्तद्रूपिणा दारुणेन भयङ्करेण ज्वरेण तापेन अभिभूयमाना परामूयमाना केनापि अनिर्वचनीयेन आधिना मानसव्यथया, मङ्गलप्रदीपैः शयनीयभवनस्थायिभिरिति शेषः । कुमुदाकारैः कैरवसदृशैश्चक्रवाकै रथाङ्गैरनिमीलितलोचना असुकुलितेक्षणा सती । राजन्यां दीपकानां स्वत एव प्रकाशात् कैरवाणां चन्द्रोद्गमेन प्रस्फुटनात् रथाङ्गानाञ्च विरहवशादमुद्रितनयनत्वमित्याशयः । दुःखदुःखेन गुरुतरक्लेशेने क्षणदां निशाम् अनैषीत् क्षपितवती ।

इह प्रदीपकमुदयोरमुद्रितनयनत्वं प्रकाशमात्रं कादम्बरीरथाङ्गयोस्तु लोचननिमीलनाभाव इति भेदेऽप्यभेदमूलातिशयोक्तिरलङ्कारः तन्मूला च सहोक्तिः ।

उषसीति । उषसि प्रातःकाले । आहूय आह्वानं कृत्वा, देवस्य भवतः, वार्त्ताव्यतिकरोपलम्भाय वृत्तान्तव्यापारप्राप्तये समाचाराकर्णनायेत्यर्थः । सोपालम्भम् उचितज्ञोऽपि सम्भावितमहोदारस्यातिये राजकुमारस्य कुशलप्रवृत्तिमानेतुं न व्रजसीति सतिरस्कारम् आदिष्टवती कथितवती ।

चन्द्रेति । तदाकर्ण्य तच्छ्रुत्वा जिगमिषुः गन्तुमिच्छुः । भवनान्निर्ययौ गृहान्निर्जगाम । आरोपितं यथास्थानं स्थापितं पर्याणं पल्ययनं यस्य तम्, त्वरित्रेन शीघ्रण तुरगपरिचारकेण अश्वपालकेन उपनींतम् उपस्थापितम् । पश्चात् आत्मन् एव पश्चाद्भागे आरोप्य उपवेशनं कारयित्वा । स्कन्धावारे सैन्यवेशे । अशेषं

भारी हुए चरणयुगलको महाकष्टसे उठाकर, विलासयुक्त मन्द गतिसे चलकर शयनगृहमें गई और तत्रस्थ शय्याके ऊपर लेट गई । तबसे लेकर ही अत्यन्त प्रबल शिरोवेदनासे छटपटाने लगीं और दारुण दाह-ज्वरसे आक्रान्त हो गईं । उसने सब रात उन्होंने अनिर्वचनीय मनःपीडासे, माङ्गलिक-प्रदीप, कुमुद-समूह और चक्रवाकगणके साथ ही अनुद्रित (खुले) नयनसे अत्यन्त दुःखमें बिताई । फिर प्रातःकाल मुझे बुलाकर, (तुम मेरे विवेचक प्रियनृत्य होकर भी मेरे ही अतिथिमूत राजकुमारकी इन समय भी सुखसे पहुँचनेकी वार्ताको लानेके लिए नहीं जाते हो, इस प्रकारका) तिरस्कार (ताना दे) कर, आपके वृत्तान्तको जाननेके लिए आदेश दिया ।'

इस कथाको सुनकर चन्द्रापीड जानेकी इच्छासे—'घोड़ा घोड़ा, [लाओ]' इस प्रकार कहता भवनसे बाहर निकला और किसी अश्वसंरक्षक (साईश) द्वारा शीघ्रतासे पल्ययन (जीन) कसकर लाये गये इन्द्रायुध पर चढ़, पीछे पत्रलेखाको बैठाकर, शिविरपर वैशम्पायनको नियत कर, समस्त परिजनोंको साथ आनेसे निषेध


१. क्षिप्त । २. व्याधिना । ३. उपालम्भाय । ४. क्वचित् 'अद्य' इत्यादिकः पाठ उपलभ्यते । ५. वदन्-पूर्वदृष्टवमक्रुतचेताः । ६. कचित् 'तुरग' इति नोपलभ्यते ।

चन्द्रापीडस्य पुनः प्रस्थानव०१०७ ] चन्द्रकला-विद्योतिनीसहिता । ६०६

स्थापयित्वा^१ वैशम्पायनम्, अशेषं परिजनं^२ निवर्त्य च अन्यतुरगारूढेनैव केयूरकेणानुगम्य- मानो हेमकूटं ययौ । आसाद्य च कादम्बरीभवनद्वारमवततार । अवतीर्य च^३ द्वारपालापिंत- तुरङ्गः कादम्बरी-प्रथम-दर्शन-कुतूहलिन्या च पत्रलेखया चानुगम्यमानः प्रविश्य 'क्व देवी कादम्बरी तिष्ठति' इति सम्मुखागतमन्यतमं वर्षवरम्^४ अप्राक्षीत् । कृतप्रणामेन च तेन 'देव ! मत्तमयूरस्य^५ क्रीडापर्वतकस्याधस्तात् कमलवनदीर्घिकातीरे विरचितं हिमगृहमध्यास्ते' इत्यावेदिते केयूरकेणोपदिश्यमानवर्त्मा प्रमदवनमध्येन गत्वा किञ्चिदध्वानम् , मरकतहरि- तानां कदलीवनानां^६ प्रभया शष्पीकृत्तरविकिरणं हरितायमानं दिवसं ददर्श । तेषाञ्च मध्ये निरन्तर-नलिनी-दलच्छन्नं हिमगृहमपश्यत् । तस्माच्च निष्पतन्तमाद्रांशुकच्छलेनाच्छोद-

समग्रं । निवर्त्य पश्चाद्व्याघुट्य । अन्यतुरगारूढेनैव इतराश्वकृतारोहणेनैव । अनुगम्यमानः अनुव्रज्यमानः । आसाद्य प्राप्य । अवततार उत्तीर्णवान् । द्वारपालस्य अर्पितः तुरङ्ग इन्द्रायुधो येन सः । कादम्बर्याः प्रथमदर्शने आद्यावलोकने कुतूहलं कौतुकमस्या अस्तीति तया पत्रलेखया, चकारात् केयूरकेण चानुगम्य- मानः । संमुखागतं समक्षोपस्थितम् । वर्षवरं क्लीवम् अप्राक्षीत् पृष्टवान् । अन्तःपुरप्रवेशे पूर्वमेव महाश्वे- ताद्वारेण राज्ञोऽनुमतिप्रदानत्वादन्गुमोदनेन च प्रविशन्तं चन्द्रापीडं न कोऽपि प्रतिपेधयामासेत्यवधेयम् ।

कृतेति । कृतो विहितः प्रणामो नमस्कारो येन तेन । मत्ताः शीवा मयूराः कलापिनो यत्र तस्य । अधस्तात् अधोभागवर्त्तिनि, कमलवनेन पङ्कजविपिनेन पूर्णा दीर्घिका वापी तस्याः तीरे तटे विरचितं निर्मितं हिमगृहं सलिलोद्गारयन्त्रविद्यमानत्वाद् शिशिरं सद्म, अध्यास्ते अधितिष्ठति 'अधिशीङ्स्थासां कर्म' इत्य- नेनाधारस्य गृहस्य कर्मसंज्ञा बोध्या । प्रमदवनेन उद्यानवाटिकया । मरकतवत् अश्मगर्भंवत् हरिता हरिद्वर्णास्तेषाम् , कदलीवनानां रम्भाकाननानां प्रभया दीप्त्या शष्पीकृता अभिनवतृणवदवलोक्यमानी- कृता रविकरणाः सूर्यरश्मयो यस्मिन् तम् , अतएव हरितायमानं नीलायमानं दिवसं दिनं ददर्श अव- लोकयामास । इह शष्पीकरणसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिः, 'शष्पीकृता' इत्यत्र लुप्तोपमा चेत्युभयोः सङ्करः ।

तेषामिति । तेषां कदलीवनानाम् निरन्तरैः अविरलैः, नलिनीदलैः उपनीतैः कमलपत्रैः, छन्नम् आच्छादितं हिमगृहं शीतलं वेश्म अपश्यत् दृष्टवान् ।

तस्मादिति । अपि च, तस्मात् हिमगृहात् निष्पतन्तं निःसरन्तम् , आद्रांशुकच्छलेन क्लिन्नवस्त्रव्या- जेन, अच्छोदस्य एतन्नामकसरोवरस्य जलेन सलिलेनेव संवीतम् आच्छादितशरीरम् । आद्रांशुकाच्छोद्- सलिलयोः श्वेतसादृश्यादित्याशयः । 'अच्छोदजलेनेव' इत्यत्र जात्युत्प्रेक्षा । इत आरभ्य द्वितीयाया एक- वचनान्तानि पदानि अग्रेतनस्य 'परिजनमद्राक्षीद्' इत्यत्र परिजनमित्यस्य विशेषणान्यवगन्तव्यानि ।

'(लौटा) कर दूसरे घोड़े पर चढ़कर पीछे-पीछे आते केयूरकके साथ हेमकूट-पर्वतकी ओर प्रस्थान किया। [क्रमशः चलते-चलते ] कादम्बरीके महलके द्वार पर उपस्थित होकर घोड़े परसे उतरा; उतर कर किसी द्वार पालके समीप घोड़ेको रख (सुपुर्द) कर, कादम्बरीको पहले देखनेके लिए कौतुकवती पत्रलेखा एवं केयूरकको पीछे कर, अन्दर जाकर, सम्मुखागत किसी नपुंसकसे पूछने लगा—'देवी कादम्बरी कहाँ हैं ?' उसने प्रणाम कर सूचित किया कि—'राजकुमार ! मत्त-मयूर-गण जहाँ रहते हैं, उस क्रीडा-पर्वतके नीचे कमल-वन-परिपूर्ण बावहीके तट पर एक शीतल-गृह निर्मित है, वहाँ पर ही देवी कादम्बरी विराजती हैं। इस प्रकार उसके सूचित करने पर केयूरकके बताए मार्गसे प्रमदोद्यानके मध्यमें होकर वह कुछ दूर गया था कि इतनेमें ही मरकतके समान हरिद्वर्ण कदलीवनके प्रभासे-नूतन तृणके समान—सूर्यके किरणोंसे समन्वित दिवस हरिद्वर्ण (हरासा) दीखने लगा और उनके मध्यमें कमलके पत्तोंसे निरन्तर आच्छादित (ढँके) हिम-गृहको उसने देखा । उसमेंसे बाहर निकलती हुई, शिशिर उपचारमें निपुण, कादम्बरीके शरीरको परिचर्या करनेवाली, अलङ्कार-रहित दासियोंको उसने देखा । वे आर्द्र वस्त्रके बहाने अच्छोद सरोवरके जलसे ही मानो आच्छादित की


१. संस्थापयित्वा । २. अशेषपरिजनम् । ३. अवततार तुरगात् । ४. क्वचिद् चकारो नास्ति । ५. वर्षधरम् । ६. नृत्त्यन्मयूरस्य । ७. कदल्यदलानाम् ।

६१० कादम्बरी- [ कथायाम्-

जलेनेव संवीतम्, बाहुलतताविधृतैर्मृणालवलयैराभरणकैरिव धवलितावयवम्, आपाण्डुभि- श्चैकश्रवणाश्रयैस्ताटङ्कीकृतैः¹केतकीगर्भदलैरुपहसितदन्तपत्रम्, आलिखितचन्दनललाटिकानि मुखारविन्दानि बद्धसौभाग्यपदान्तीव² दधानम्, कृतचन्दनबिन्दुविशेषकांश्च दिवापि स्पर्श- लोभस्थितेन्दुप्रतिबिम्बानिव कपोलानुद्वहन्तम्³, अपहृताशेषशिरीषसौभाग्याभिः शैवलमञ्ज- रीभिः कृतकर्णपूरम्, कर्पूरधूलिधूसरेषु मलयज-रस-लव-लुलितेषु⁴ वकुलावलीवलयेषु⁵ स्तनेषु⁶ न्यस्तनलिनीपत्रप्रावरणम्, अनवरत-चन्दन-चर्चा-प्रणयनै⁷-पाण्डुरैः सन्ताप-रोष-मृदित-चन्द्र-

बाहुलतेति । अपि च, आभरणकैरिव रजताभूषणैरिव बाहुलताबिधृतैः भुजवल्लीस्थापितैः मृणाल- वलयैः विसकङ्कणैः धवलिताः श्वेतीकृताः, अवयवा अङ्गानि यस्य तम् इह श्रौतोपमा ।

आपाण्डु०ति । अपि च, आपाण्डुभिः अत्यन्तपाण्डुरैः, एकं श्रवणं श्रोत्रम् आश्रय आधारो येषां तः, ताटङ्कीकृतैः श्रवणालङ्कारीकृतैः केतक्याः पुष्पस्य गर्भदलैः आभ्यन्तरपत्रैः, उपहसितं निजरूपातिश- यात् परिहसितं दन्तपत्रं करिदर्शनरचितपत्रसदृशाभूषणं यस्य तम् । इह 'उपहसितम्' इत्यनेन साम्या- क्षेपादर्थोपमा ।

आलिखितेति । आलिखिताः चित्रिताः चन्दनस्य मलयजस्य ललाटिकाः तिलकविशेषा येषु तानि, अतएव बद्धानि रचितानि सौभाग्यपदानि स्वामिस्नेहव्यद्योतकत्वलक्षणानि येषु तानीव विद्यमानानि, मुखा- रविन्दानि वदनकमलानि दधानं विभ्राणम् । इह लुप्तोपमा क्रियोत्प्रेक्षा चेत्युभयोरङ्गाङ्गिभावसङ्करः ।

कृतचन्दनेति । कृता विहिताः चन्दनविन्दवो मलयजकणा एव विशेषकाः तिलकानि येषु तान्, अतएव दिवाऽपि, रात्रौ तु चन्द्रोद्गमात्प्रतीमाः सम्भवन्त्येव किन्तु चन्दनविन्दवस्तथा प्रतीयन्ते यथा स्पर्शलोभवशाद्दिनेऽपि चन्द्रस्य प्रतिबिम्बाः स्थिता इत्यर्थः । स्पर्शलोभेन स्पर्शतृष्णया स्थितानि विद्यमा नानि इन्दोः शशिनः प्रतिविम्बानि प्रतिच्छाया येषु तानिव विद्यमानान्, चन्दनविन्दुशशिप्रतिबिच्छायानां सादृश्यादित्याशयः । कपोलान् गण्डभागान् उद्वहन्तं धारयन्तम् । इह इन्दुप्रतिविम्बविद्यमानत्वोत्प्रेक्ष- णात् क्रियोत्प्रेक्षा ।

अपहृतेति । अपहृतानि दूरीकृतानि अशेषपाणि समग्राणि शिरीषस्य कुसुमस्य सौभाग्यानि शुभ्रत्व- मृदुत्वशिशिरत्वानि याभिस्ताभिः शैवालमञ्जरीभिः जलशुकवल्लरीभिः कृतकर्णपूरं विहितश्रवणा- लङ्कारम् । इहान्येनान्यसौभाग्यदूरीकरणासम्भवाद्धस्तुसम्बन्धोऽसम्भवान् सौभाग्यसाम्यमाक्षिपतीत्य सम्भम्वद्वस्तुसम्बन्धा निदर्शना । तदुक्तं दर्पणे—

'सम्भवन् वस्तुसम्बन्धोऽसम्भवन वापि कुत्रचित् । यत्र बिम्बानुबिम्बत्वं वोधयेत्सा निदर्शना ॥'

कर्पूरेति । कर्पूरस्य घनसारस्य धूलिभिः रजोभिः धूसरेषु ईषत्पाण्डुषु, मलयजरसचन्दनद्रवस्तस्य लवैर्विन्दुभिः लुलितेषु विच्छुरितेषु (एकीभूतेषु), तथा वकुलावलीनां वकुलपुष्पदाम्नां वलयानि मण्ड- लानि येषु तेषु, स्तनेषु वक्षोजेषु न्यस्तानि स्थापितानि नलिनीपत्राणां कमलिनीदलानां प्रावरणानि आच्छादनानि यस्य तम् ।

अनवरतेति । अनवरतं निरन्तरं चन्दनचर्चायाः मलयजविलेपनस्य प्रणयनेन सम्पादनेन पाण्डुराः श्वेतास्तैः, अतएव सन्तापेन उत्तेजकतया सन्तापोत्पादनेन यो रोषश्चन्द्रं प्रति कोपः तेन कारणेन मृदिताः

गई हों इस प्रकार दीखती थीं; आभूषणके समान भुज-लताओं पर धारण किए मृणाल-वलयोंसे उनके अङ्ग-प्रत्यङ्ग धवलवर्ण प्रतीत होते थे; उनके एक कानमें धारण किए हुये अच्छे धवलवर्णके केतकी-गर्भपत्रके किए हुए कर्ण भूषण गज-दन्त-पत्र निर्मित कर्णाल्ङ्कारकी शोभाकी भी हँसी करते थे; उनके मुखारविन्द पर सौभाग्य-सूचक चिह्नके समान चन्दन द्वारा किए हुए तिलक-विशेष लगे थे; कपोलदेशमें चन्दन-विन्दुके तिलक लगानेसे उनके स्पर्श-लोभसे ही मानों दिनमें भी चन्द्रका प्रतिबिम्ब वहाँ आकर वास करता है ऐसा प्रतीत होता था । समस्त शिरीष-पुष्पोंके सौन्दर्यको जिन्होंने अपहरण कर ली थी ऐसी शैवल-मञ्जरियोंके उन्होंने कर्णभूषण पहन रक्खे थे । कर्पूरकी रेणुसे धूसर रूप,- चन्दन-विन्दुसे परिपूर्ण, वकुल-कुसुम-मालाओंके वलयवाले स्तनों पर उन्होंने कमल-पत्ररूपी वस्त्र रख लिए थे; निरन्तर चन्दन लेपन करनेसे शुभ्रवर्ण हुए—सन्ताप और क्रोधसे निष्पिष्ट


१. तालङ्कीकृतैः ताडङ्कीकृतैः । २ ॰॰॰पदान्नीव । ३. कपोलफलकम् । ४. ललितेषु । ५. वकुलावलिषु, कुवलयावलिषु, ललितकुवलयेषु । ६. पयोधरेषु । ७ प्रणय ।

चन्द्रापीडस्य पुनः प्रत्यान० १०७ ] चन्द्रकला-विद्योतिनीसहिता । ६११

करैरिव करैः कल्पितमृणालदण्डानि बिसतन्तुमयानि चामराणि बिभ्राणम्, उन्नालैश्च कमलैः कुमुदैः कुवलयैः किसलयैः कदलीदलैः कमलिनीपलाशैः कुसुमस्तबकैश्चातपत्रीकृतैर्निवारितातपम्, जलदेवतानामिव समूहम्, वरुणश्रियामिव समूहम्, शरद्दामिव समाजम्, सरसीनामिव गोष्ठीबन्धनम्, शिशिरोपचारनिपुणं कादम्बर्याः शरीरपरिचारकं शरीरप्रायं परिजनमद्राक्षीत् । तेन च प्रणम्यमानः पादनखपतनभयादिव त्वरितापसृतेन दीयमानमार्गः, चन्दनपङ्ककृतवेदिकानां पुण्डरीककलिकाघटितघण्टिकानां विकसितसिन्दुवारकुसुममञ्जरीचाम-

पिष्टा ये चन्द्रस्य शशिनः करा रश्मयस्तैरिव, करैर्हस्तैः, कल्पितः कृतो मृणालं बिसमेव दण्डो येषां तानि, बिसतन्तुमयानि मृणालसूत्ररचितानि चामराणि बालव्यजनानि, बिभ्राणं 'दधानम् । '......चन्द्रकरैरिवे'त्यत्र जात्युत्प्रेक्षा ।

उन्नालैरिति । अपि च, उद्गतम् उपरि विद्यमानं नालं वृन्तं शाखादण्डश्चेति यथासम्भवं येषां तैः तादृशैः, कमलैः पङ्कजैः, कुमुदैः, कैरवैः, कुवलयैः नीलोत्पलैः, किसलयैः पल्लवैः, कदलीदलैः रम्भापत्रैः, कमलिनीपलाशैः पद्मिनीपत्रैः, कुसुमस्तबकैः पुष्पगुच्छैः, आतपत्रीकृतैः छत्रीकृतैः उत्तमाङ्गोपरिधृतैरित्यर्थः । निवारितो निषेधित आतपः सूर्यप्रकाशो यस्य तम् ।

जलेति । जलदेवतानां सलिलाधिष्ठात्रीणां समूहमिव वृन्दमिव, आर्द्रशरीरत्वादित्याशयः, इत्यमन्यत्रापि । वरुणस्य प्रचेतसः याः श्रियः सम्पतयः तासां समागमं सम्मेलनमिव प्रचेतसः सलिलाधिष्ठा-तृत्वात्तत्सम्पत्तीनामपि सलिलार्द्रशरीरत्वासम्भव इत्यभिप्रायः । शरदां घनात्ययर्तूनां समाजं समूहमिव । सरसीनां सरोवराणां गोष्ठीबन्धं परिपद्रचनामिव ।

इह 'समूहमिव' इत्यत्र जात्युत्प्रेक्षालङ्कारः, 'समागममिव' इत्यत्राप्युक्तारङ्कारः सम्मिलितवरुण-सम्पत्तिसमूहमिवेति विवक्षणात् । 'समाजमिव' इहाप्युक्तारङ्कारः, 'समागममिव' इहाप्युक्तारङ्कार एव परिगत्यसरसीनां समूहमिवेत्यभिप्रायोत् ।

शिशिरेति । शिशिरोपचारे शीतलक्रियायां निपुणः दक्षस्तम् । शरीरप्रायं वपुःसदृशं प्रियमित्यर्थः । अद्राक्षीत् अपश्यत् ।

तेनेति । तेन परिजनेन पादनखानां चन्द्रापीडचरणनखराणां पतनभयादिव मृदुलत्वात् निज-मस्तकखर्पणेन स्खलनत्रासादिव त्वरितं शीघ्रम् अपसृतेन केनापि प्रकारेण दूरं यातेन सता प्रणम्यमानो नमस्क्रियमाणो दीयमानमार्गश्च चन्द्रापीडः कदलीतोरणानां रम्भाबहिर्द्वाराणां तलेन प्रविश्य सर्वतः समन्तात् निसृष्टदृष्टिः अग्रेतनं सर्वं दृष्टवान् अन्याँश्चैवंप्रकारान् वीक्षमाणः सन् हिमगृहकस्य मध्यभाग-माससादेति सम्बन्धः । 'पतनभयादिव' इत्यत्र हेतूत्प्रेक्षा ।

इतः कदलीतोरणानि विशिनष्टि—चन्दनेति । चन्दनस्य मलयजस्य पङ्केन सवनद्रवेण कृता उल्लीकृता वेदिकाः परिष्कृतभूमयः ( बद्धतलभूमयः ) येषां तेषाम् ( तोरणानाम् ) । पुण्डरीकाणि सिताम्भोजानि तेषां कलिकाभिः कोरकैः घटिता रचिता घण्टिका लघुघण्टा येषां तेषाम् । विकसितानि प्रस्फुटितानि यानि सिन्दुवारकुसुमानि निर्गुण्डीप्रसूनानि तेषां मञ्जर्यो वह्ल्य एव चामराणि बालव्यज-

(मस्त उतारि गई) चन्द्रकिरण-समूहके समान है ऐसे दीखते हाथोंमें उन्होंने मृणाल-दण्ड समन्वित और मृणाल-सूत्रसे ही निर्मित बहुतसे चामर धारण किये थे । कमलोंके नाल और दण्डको ऊंचे करके कोई कमल, कोई श्वेतप-द्मल, कोई नीलोत्पल, कोई पल्लव, कोई कदलीपत्र, कोई पद्मपत्र एवं कोई पुष्पके गुच्छे छत्रके आकारमें मस्तकके ऊपर रखकर उन्होंने रौद्र-निवारण ( छाया ) कर रक्खी थी और वे जलदेवतासमूहके समान, सम्मिलित वरुण-सम्पत्तिके समान, शरत्कालसमूहके समान एवं एकत्र समवेत सरोवरसमूहके समान हो—ऐसी शोभायमान थीं ।

परिचारिकाओंने पद-नखों पर प्रतिबिम्ब गिर जानेके भयसे ही मानो शीघ्रतासे दूर खिसक प्रणाम कर उसको मार्ग दे दिया, इतनेमें ही उसने कदली-तोरणोंके नीचे होकर प्रवेश किया (हुआ) । वहाँ वेदीके ऊपर गाढ़ चन्दन-द्वारा लेपन किया गया था; श्वेत पद्मकी कलिकाद्वारा छोटी छोटी घण्टियां निर्माण की गई थीं; प्रस्फुटित सिन्दुवार-पुष्पकी माला-द्वारा चामर बने हुए थे;


१. '...शरच्चन्द्रकरैरिव, स्नापरोपकल्पित...' । २. शरीरपरिचारिकाप्रायम् । ३. पादनखपतन...', पादनखपतनदशमयादिव । ४. '...'सिन्दुवार...' ।