कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
| ३२ | कादम्बरी— | [ कथामुखे- |
|---|
पादपङ्कजाम्, अचिर-मृदित-महिषासुर-रुधिर-रक्तचरणामिव कात्यायनीम्, अलोहिताङ्गुली-प्रभा-पाटलित-नख-मयूखाम् अतिकठिन-मणिकुट्टिम-स्पर्शमसहमानां क्षितितले पल्लवभङ्गानिव निधाय सञ्चरन्तीम्, आपिञ्जरेणोत्सर्पिणा नूपुरमणीनां प्रभाजालेन¹ रञ्जित-शरीरतया पावकेनेव भगवता रूपैक²-पक्षपातिना प्रजापतिमप्रमाणीकुर्वता जातिसंशोधनार्थ-मालिङ्गितदेहाम्, अनङ्ग-वारण-शिरो-नक्षत्रमालायमानेन रोमराजि-लतालवालकेन
श्रवणमात्रेणैव पुनरुक्तवदवभासिश्वाकारपदगत्वाच्च पुनरुक्तवदाभासोऽलङ्कारः, उपमा च अनयोरेकाश्रयानुप्रवेशरूपः सङ्करालङ्कारः।
पुरा किल ब्रह्मणो लब्धवरं महिषासुरं जगदुपपीडयन्तं भगवती दुर्गा स्वयमाविर्भूयासिना कर्त्त-यामासेति मार्कण्डेयपुराणान्तर्गतसप्तशतीकथा ।
आलोहितेति । आलोहिता अतिरक्तवर्णा या अङ्गुलयः करशाखाः तासां प्रभाभिः कान्तिभिः पाट-लिताः श्वेतरक्तीकृताः 'श्वेतरक्तस्तु पाटलः' इत्यमरः नखमयूखाः पुनर्नखरश्मयो यस्यास्ताम्, तथा अतिकठिनस्य अति-कर्कशस्य मणिकुट्टिमस्य मणिमयबद्धभुवः स्पर्शं संश्लेषम् असहमानाम् अक्षममाणाम् अतिमृदुलचरणत्वादिति भावः, अत एव क्षितितले पृथिवीतले पल्लवभङ्गान् किसलयखण्डान् 'पल्लवोऽस्त्री किसलयम्' इत्यमरः, निधायेव स्थापयित्वेव सञ्चरन्तीं गच्छन्तीम्, एवं सति पादव्यथा न भवेदित्या-शयः। इह निधायेवेति क्रियोत्प्रेक्षाणात्क्रियोत्प्रेक्षालङ्कारः तथा च तथाविधनखकिरणानामेव किसलय-खण्डसादृश्यप्रतीतिरिति ।
आपिञ्जरेणेति । आपिञ्जरेण ईषत्पीतरक्तेन 'पीतरक्तस्तु पिञ्जरः' इत्यभिधानचिन्तामणिः, उत्सर्पिणा ऊर्ध्वगयिना नूपुरमणीनां हंसकरत्नानां प्रभाजालेन कान्तिसमूहेन रञ्जितशरीरतया शोभितदेहतया हेतुना रूपैकपक्षपातिना केवलसौन्दर्यादरविधायिना, अत एव प्रजापतिं सृष्टिविधातारं ब्रह्माणम् अप्रमाणी-कुर्वता 'त्वमेवंविधां रूपवतीं निर्मायापि अस्पृश्याम् अन्त्यजजातिमेव कृतवान् तदहमेन शुद्धां करोमि' इत्यमनिधिकर्तृताकं विदधता, विधातुकृतस्यान्यथाकरणादहङ्कृतत्वाद्वित्याशयः, भगवता माहात्म्यवता पावकेन वह्निना जातिशोधनार्थम् अन्त्यजत्वेनास्पृश्यायास्तस्याः शुद्धतासम्पादनार्थमित्यर्थः, आलिङ्गित-देहाम् आश्लेषितशरीरामिव विद्यमानाम् अपवित्रं वस्तु वह्निना पवित्रं भवतीति धर्मशास्त्रे पेटीनसिवच-नम्—'सर्वमग्नो प्रत्तसं शुष्यते' इति ऊर्ध्वप्रसारी नूपुरमणीनां मयूखसमूहः सर्वतः शरीरपरिवेष्टनाद् वह्निरिव प्रतीयमान आसीदिति तात्पर्यम् । इह नूपुरमणिप्रभावह्नयोः परस्परमुपमानोपमेयभावः प्रतीयते इत्युपमा उत्प्रेक्षालङ्कारश्च स्फुट एव तथा चानयोरङ्गाङ्गिभावात्सङ्करालङ्कारः ।
अनङ्गेति । अनङ्गस्य कामस्य 'कन्दर्पो दर्पकोऽनङ्गः कामः' इत्यमरः, यो वारणो हस्ती तस्य शिरसि मूर्ध्नि या नक्षत्रमाला सप्तविंशतिसंख्यमुक्ताग्रथितमाला, तद्वदाचरताकामसम्बन्धितया कामोद्दीपकत्वा-दित्याशयः । 'सैष नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः' इत्यमरः रोमराजी नाभिम्रदेशाद् ऋजुभावेनो-र्ध्वगामिनी या लोमपंक्तिः 'वीच्यालिरावलिः पङ्क्तिः श्रेणी लेखास्तु राज्यः' इत्यमरः सैव लतावल्ली तस्या आलवालं मूले जलदानाय आवापः स्वरूपजलाधार इति यावत् 'स्यादालवालमावालमावाप' इत्यमरः । तत्स्वरूपेण रसनादाम्ना कटिमेखलाबन्धनरज्ज्वा परिगतं समन्ताद् व्याप्तं जघनस्थलं कटिपुरो भागो यस्याः
समान लाल-लाल चरणकमलों के कारण वह तत्काल ही के मारे गए महिषासुर के रक्त में सने हुए चरणों वाली भगवती कात्यायनी के समान प्रतीत हो रही थी। अपनी लालिमा से नखों को गुलाबी रंग का बना देनेवाली उसके चरणों की अत्यन्त लाल-लाल उँगलियों के गच में प्रतिबिम्बित होती हुई ऐसी प्रतीत हो रही थीं मानो चरणों की सुकुमारता के कारण उस गच की कठोरता सहन न कर पाने से वह उस पर पल्लवों को बिछाती हुई चल रही हों। नूपुरों में जड़ी हुई मणियों की लाल-पीली किरणों ने उसके शरीर को चारों ओर से इस प्रकार लपेट लिया था मानों ब्रह्मा के विधान को मिटाकर उसके रूपमात्र पर लट्टू बने हुए अग्निदेव ने उसकी जाति को पवित्र करने के लिए उसके शरीर को अपने आलिंगन में बाँध लिया हो। उसकी कमर के अगले भाग में सत्ताईस मोतियों से गुथी हुई एकलड़ी करधनी ऐसी प्रतीत हो रही थी मानो वह कामदेव के
१. प्रभाजालेनानुरञ्जित··· ।
२. रूप एव पक्षपातिना ।
| चण्डालकन्यावर्णनम् ] | चन्द्रकला-विद्योतिनीसहिता | ३३ |
|---|
नेत्रदाम्नां परिणद्धजघनस्थलाम्, अतिस्थूलमुक्ताफलघटितेन शुचिना हारेण गङ्गा- स्रोतसेव कालिन्दीशङ्कया कृतकण्ठग्रहाम्, शरदभिव विकसित-पुण्डरीकलोचनाम्, प्रावृष- मिव घनकेशजालाम्, मलयमेखलामिव चन्दनपल्लवावतंसाम्, नक्षत्रमालामिव चित्र- श्रवणामरणभूषिताम्, श्रियमिव हस्तस्थित-कमलशोभाम्, मूर्च्छामिव मनोहारिणीम्, अरण्यभूमिमिव अप्सृत-रूपसम्पदाम्, दिव्ययोषितमिवाकुलीनाम्, निद्रामिव लोचनग्राहि-
सानां तादृशीम्, 'कक्ष्याः स्त्रीदे तु प्रवतं पुरम्' इत्यमरः। इह रोमलाति लताद्यारोपे रसनादाम्नि आलवालत्वारोपे निश्लिष्टमिति परम्परितरूपकमलङ्कारः स्वकृतोपमया सङ्कीर्णः।
कलिन्दीवेति। अतिस्थूलानि अतिबृहन्ति यानि मुक्ताफलानि मौक्तिकानि तैः घटितेन निष्पादितेन शुचिना श्वेतवर्णेन हारेण कण्ठघटितवेन 'चक्षुष्घटितो हारः' इत्यमरः, कालिन्दीशङ्कया चण्डालकन्यकायाः श्यामत्वात् यमुनाभ्रान्त्या गङ्गास्रोतसेव जाह्नवीप्रवाहेनेव, कृतः कण्ठग्रहो गलसंश्लेषः संनीपासङ्गम यस्यास्तां तादृशीम्। इह चण्डालकन्यायां तुल्यश्यामत्वेन कालिन्दीभ्रमाद् भ्रान्तिमानलंकारः, हारे गङ्गाप्रवाहोत्प्रेक्षणाद् द्वयोश्चेका चोनयोः परस्परमङ्गाङ्गिभावेन सङ्करात् सङ्करालङ्कारः।
शारदभिवेति। विकसिते विस्फारिते पुण्डरीके सिताम्भोजद्वयमिव 'पुण्डरीकं सिताम्भोजम्' इत्यमरः, लोचने नयने यस्यास्ताम्, अत एव शरदिव धनात्ययमिव तत्र पक्षे विकसितानि प्रस्फुटितानि पुण्डरीकानि लोचनानि चक्षूंषीव यस्यास्तां तादृशीम्।
प्रावृषमिति। प्रावृषं वर्षासमयमिव, घनाः सान्द्राः ये केशाः शिरोरुहास्तेषां जालानि समूहा यस्यास्ताम्, प्रावृट्पक्षे तु—घना मेघाः केशजालानि यस्यां ताम्।
मलयेति। मलयस्य तदाख्यपर्वतस्य मेखलां मध्यभागमिव, चन्दनस्य पल्लवाः किसलयानि तेषामवतंसा भूषणानि यस्यास्ताम्, पक्षे-चन्दनपल्लवास्त एव अवतंसः शेखरो यस्यास्ताम्।
नक्षत्रेति। नक्षत्रमालामिव तारकापङ्क्तिमिव, चित्रैर्विविधप्रकारैः श्रवणाभरणैः कर्णभूषणैः भूषितां शोभिताम्, पक्षे-चित्रश्रवणामरणीसंज्ञकैर्नक्षत्रविशेषैर्भूषिताम्।
श्रियमिति। श्रियं लक्ष्मीमिव हस्ते पाशितले स्थिता विद्यमाना कमलस्य पद्मस्य शोभा श्रीर्यस्याः सा ताम्, पक्षे-हस्ते करे स्थितं यत्कमलं पद्मं तेन शोभा यस्याः सा ताम्।
मूर्च्छामिति। मूर्च्छा मोहमिव, मनोहारिणीं सौन्दर्यातिशयने हृदयाकर्षिणीम्, पक्षे-चेतनालोपकरणेन मनोवृत्तिभ्रंशिनीम्।
अप्सृतेति। अरण्यभूमिं काननभुवमिव 'अटव्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः, अप्सृतं केनाप्यसम्पृक्तं यद् रूपं लावण्यं तेन सम्पन्नां संयुक्ताम्, पक्षे-अक्षतरुभिः रुद्राक्षवृक्षैः यद्वा विभीतकवृक्षैः उपसम्पन्नां संयुक्ताम् 'रुद्राक्षे रावणो सर्पे विभीतकतरावापि' इति हेमः।
दिव्येति। दिव्या स्वर्गलोकसंबन्धिनी या योषित् स्त्री तामिव, अकुलीनाम् अन्यजवाञ्चीचकुलोत्प-
हाथी के मस्तक की नक्षत्रमाला हो अथवा नाभि से ऊपर की ओर फैली हुई रोमावली रूपी लता के चारों ओर घिरी हुई क्यारी हो। उसके गले में बड़े-बड़े मोतियों की माला इस प्रकार पड़ी हुई थी मानो उसे अमर-वश यमुना समझ कर गङ्गा ही उसके गले से लिपट गयी हो। उसकी बड़ी-बड़ी आँखें श्वेत कमलों के समान प्रफुल्लित थीं जिससे वह शरदऋतु के समान प्रतीत हो रही थी। वह घने काले बालों से घिरी हुई ऐसी प्रतीत होती थी मानो बादलों से घिरी हुई वर्षाऋतु हो। वह चन्दन के पल्लवों के आभूषणों से सजी हुई थी मानो चन्दनों के वनों से ढकी हुई मलयाचल की मेखला (मध्यभाग) हो। कानों में कई रंगों के जड़ाऊ कर्णफूल पहिनने के कारण वह चित्रा, श्रवण और भरणी से युक्त नक्षत्रों की माला के समान प्रतीत हो रही थी। उसके हाथों में कमल इस प्रकार उसकी शोभा बढ़ा रहा था मानो हाथों में नीला कमल लिए हुए स्वयम् लक्ष्मी ही उपस्थित हों। उसके रूप को देखकर दर्शकों का मन मूर्च्छित हो जाता था, जिससे वह मूर्तिमती मूर्च्छा के समान प्रतीत हो रही थी। वह उत्कृष्ट सौन्दर्य से भरोपूरी थी मानों वन की ऐसी भूमि हो जहाँ अभी तक कोई भी न पहुँच सका हो। जैसे देवकन्याएँ इस लोक के लिए अकुलीन (स्वर्गीय) होती हैं उसी प्रकार वह भी इस लोक के कुलीन
१. रसनादाम्ना परिगतजघननाम् !
२. शुचिहारेण।
३. मनोहराम्
४. क्वापि 'अप्सृत' पदं न विद्यन्ते। क्वचित् 'अन्यासद्वदूपशोभिरूपाम्' इति पाठो विद्यते।
५ का० कथा०
३४ | कादम्बरी- | [कथामुखे-
णीम्, अरण्यकमलिनीमिव मातङ्गकुलदूषिताम्, अमूर्त्तामिव स्पर्शवर्जिताम्, आलेख्यगतामिव दर्शनमात्रफलाम्, मधुमास-कुसुम-समृद्धिमिव अजातिम्^१, अनङ्ग-कुसुम-चापलेखामिव मुष्टिग्राह्यमध्याम्, यक्षाधिपलक्ष्मीमिवालकोद्भासिनीम्, अचिरोपारूढयौवनाम्, अतिशयरूपाकृतिम्, अनिमिष^३-लोचनो ददर्श। दृष्ट्वा चैं तां समुपाजात^५विस्मयस्याभून्मनसि
न्नाम्, पक्षे-कौ पृथिव्यां लीना स्थिता या भवति सा कुलीना एवंरूपा या न भवतीत्यकुलीना ताम्-पृथिवीतलस्पर्शविधायिनीमित्यर्थः। देवयोनीनां पृथिवीतले स्पर्शो न भवतीति पौराणिकाः।
निद्रामिति। निद्रां प्रमीलामिव, लोचनग्राहिणीं सौन्दर्यातिशयेन कामुकानां नेत्राकर्षिणीम्, पक्षे-अक्षिसंकोचविधानेन निमेषोन्मेषावरोधिनीम्।
०रण्येति। अरण्यकमलिनीं वनपद्मिनीमिव, मातङ्गकुलेन चण्डालान्वयेन तत्कुलोत्पन्नत्वेनेत्यर्थः दूषितां निन्दिताम्, पक्षे-मातङ्गकुलेन हस्तिसमूहेन दूषितां विमथिताम्। 'मातङ्गः श्वपचे गजे' इति मे०।
अमूर्त्तामिति। अमूर्त्तामशरीरिणीं तामिव, स्पर्शवर्जितां शरीरस्पर्शरहिताम्।
दिवाकीर्तिमुदक्याञ्च पतितं सूतिकां तथा। शवं तत्स्पृष्टिनञ्चैव स्पृष्ट्वा स्नानेन शुद्ध्यति॥
इति मनुवचनादन्त्यजस्पर्शे स्नानप्रतिपादनादित्याशयः पक्षे तु—स्पर्शोऽरत्नगिन्द्रियग्राह्यो गुणस्तेन वर्जितां शून्याम्। यस्य शरीरं न भवति तत् कथं स्पृश्यत, इयमपि नीचजातितया न स्पृश्या इत्याशयः।
आलेख्यगतामिति। आलेख्यगतां चित्रस्थितां पुत्रिकामिव दर्शनमात्रं चण्डालत्वेन सम्भोगाभावात् केवलावलोकनमेव फलं प्रयोजनं यस्यास्ताम्, पक्षे आकृत्यभावेन तत्संश्लेषाद्यसम्भवाद् दर्शनमात्रफलाम्।
मधुमासेति। मधुमासस्य वसन्तसमयस्य कुसुमसमृद्धिं पुष्पसम्पत्तिमिव, अजातिं न विद्यते जातिर्मन्वादिपरिगणितब्राह्मणवादिया या सा ताम्, तथा च-
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः। चतुर्थ एकजातिस्तु शूद्रो नास्ति तु पञ्चमः॥
इति मनुनेोक्तत्वादन्यजादीनां जातिहीनत्वमेव प्रतीयते। पक्षे-न विद्यते जातिर्मलती, यस्यां सा ताम्। 'न स्याज्जाति वसन्ते' इत्यादिसाहित्यदर्पणदिशा वसन्ते मालतीपुष्पस्य वर्णनमप्रसिद्धम्। 'जातिश्छन्दसि सामान्ये मालत्यां गोत्रजन्मनोः' इति मेदिनी।
अनङ्गकुसुमेति। अनङ्गस्य कन्दर्पस्य 'कन्दर्पो दर्पकोऽनङ्ग' इत्यमरः, कुसुमचापस्य पुष्पधनुषो या लेखा लता तामिव, मुष्टिना संपीडिताङ्गुलिना 'सम्पीडिताङ्गुलिर्मुष्टिः' इति हलायुधः; ग्राह्यो ग्रहीतुं शक्यः मध्यः कटिदेशो मध्यदेशश्च यस्याः सा ताम्। अनेन कटिदेशस्यात्यन्तकार्श्यम् प्रत्याय्यते।
यक्षाधिपेति। यक्षाधिपस्य गुह्यकेश्वरस्य कुबेरस्येत्यर्थः, लक्ष्मीः सम्पत् तामिव, अलकैश्चूर्णकुन्तलैः उद्भासते शोभते इत्येवंशीला या सा ताम्, पक्षे-अलकायां तन्नामिकायां पुर्याम् उद्भासते या सा ताम्।
इह 'शारदमिव' इत्यारभ्य 'यक्षाधिपलक्ष्मीमिव' इत्यन्तं पूर्णोपमालंकारः। केचित्तु श्लेषोपमां प्रतिपादयन्ति।
अचिरेति। अचिरं शीघ्रम् उपारूढम् उपगतं यौवनं तारुण्यं यस्याः सा ताम्, सञ्जातयौवनामित्यर्थः। अतिशयरूपं लावण्यं यस्याः सा एवम्भूता आकृतिः स्वरूपं यस्याः सा ताम्।
अनिमिषेति। अनिमिषे निमेषोन्मेषवर्जिते लोचने नयने यस्यैवम्भूतो राजा ददर्श अवलोकयामास।
दृष्ट्वेति। दृष्ट्वा अवलोक्य च तां चण्डालकन्यकाम्, जातः उत्पन्नः विस्मयः आश्चर्यं यस्यैवम्भूतस्य
भोग के अयोग्य थी। वह नींद के समान आँखों को पकड़ लेनेवाली थी। जैसे जङ्गल में खिली हुई कमलिनी हाथियों के कुल से दूषित होती है उसी प्रकार भीलों के कुल में जन्म लेनेसे वह भी दूषित थी। वह अस्पृश्य थी मानों स्पर्श रहित निराकार की मूर्ति हो। उसे केवल देखा जा सकता था इसलिए मानों वह चित्र में लिखी हुई-सी प्रतीत हो रही थी। जैसे वसन्त ऋतु के फूलों की शोभा अजाति (चमेलीके फूलोंसे रहित) होती है उसी प्रकार वह भी अजाति (हीन जाति की) थी। उसकी कमर इतनी पतली थी कि काम के पुष्प-
^१. विजातिम्।
^२. उपास्द्^^।
^३. अनिमेष^^।
^४. कापि 'दृष्ट्वा च ताम्' इति पाठो नोपलभ्यते।
^५. जात^^***।
चण्डालकन्यावर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । ३५
महीपतेः—“अहो ! विधातुरस्थाने रूप-निष्पादनप्रयत्नः¹। तथाहि⁴, यदि नामेयमात्मरूपोप-हसिताशेषरूपसम्पदुत्पादिता, किमर्थमपगत-स्पर्श-सम्भोग-सुखे कृतं कुले जन्म² । मन्ये च ³मातङ्ग-जाति-स्पर्श-दोष-भयादस्पृशतैयमुत्पादिता प्रजापतिना, अन्यथा कथमियमक्लिष्टता लावण्यस्य । नहिँ करतल-स्पर्श क्लेशितानामवयवानामीदृशी भवति कान्तिः । सर्वथा धिग्विधातारम्⁵ असदृशसंयोगकारिणम् । अतिमनोहराकृतिरपि⁶ क्रूरजातितया⁷ येनेयमसुरश्रीरिव सतत-निन्दित-सुरता रमणीयाऽप्युद्वेजयति’ इति ।
महीपतेः शूद्रकस्य राज्ञः, मनसि चित्ते ( एवं वृत्तिः ) अभूत् उत्पन्ना। तामेव मनोवृत्तिमुपपादयति— अहो ! इति । अहो ! इति वितर्के ‘आहो उताहो किमुत’ इत्यमरः । विधातुर्ब्रह्मणः अस्थाने अपात्रे सौन्दर्यस्य अद्भुतरूपस्य निष्पादने निर्माणे प्रयत्न प्रयासः । अथ स्पष्टीकरोति—तथाहीत्यादिना । नामेति मृदुलामन्त्रणे । यदि आत्मरूपेण स्वीयसौन्दर्येण उपहसिता न्यक्कृता अशेषा समग्र रूपसम्पद् सौन्दर्यसमृद्धिः यया सा तादृशी, इयं चण्डालकन्यका उत्पादिता निर्मिता, (तर्हि) किमर्थं किन्निमित्तम्, अपगते दूरीभूते स्पर्शसम्भोगसुखे संश्लेषसुरतसुखे यस्मात् एवम्भूते कुले अन्त्यजवंशे जन्म उत्पत्तिः कृतं विहितम् तथा च यथेयं सौन्दर्यराशिविधिना निर्मिता तथा उच्चकुले जन्मकरणमपि योग्यमासीद् यथेयं सुन्दरी स्पष्टमुपभोक्तुं च शक्येत ।
राजा एवं विमृश्य निश्चिनोति—मन्ये इति । अत्राहमित्यध्याहार्यः मातङ्गजातेः चण्डालगोत्रस्य ‘मातङ्ग श्वपचे गज’ इति मेदिनी ‘जातिश्छन्दसि सामान्ये मालत्यां गोत्रजन्मनोः’ इति विश्वः, ‘जातिः स्त्री गोत्रजन्मनोः’ इति मेदिनी च, स्पर्शेन संश्लेषेण (जनितः यः) दोषः अपवित्रता तस्माद् यद्भवं त्रासः तस्मात्, अस्पृश्यता अस्या देहस्पर्शमकुर्वता प्रजापतिना ब्रह्मणा, इयं चण्डालकन्यका, उत्पादिता मरीच्यादिसप्तर्षिवन्मनःसङ्कल्पमात्रेण निष्पादिता इति (अहं) मन्ये जाने इत्यर्थः। अन्यथा उक्तवैपरीत्ये स्पर्शयोग्यत्वे सतीति भावः, इयमेवम्भूता, लावण्यस्य सौन्दर्यस्य अक्लिष्टता अक्षतता कथं स्यात् ? कथमपि नेत्यर्थः । एतदेवोपपादयति—न हीत्यादिना । करतलस्पर्शक्लेशितानां पाणितलसंश्लेषमर्दितानाम् अवयवानां करादीनाम्, ईदृशी एवम्भूता, कान्तिः कमनीयता, न हि भवति न स्यात् ।
सर्वथेति । असदृशयोः व्यधिकरणत्वेन मिथो विरुद्धयोश्चण्डालत्वात्यन्तमनोहराकृत्योः संयोगम् एकत्र सम्बन्धं कर्तुं शीलं यस्य तं विधातारम् अस्या निर्माणकर्त्तारं ब्रह्माणं धिक् निन्दामि ‘धिक धिक’ इति पाठे, अत्यधिकं निन्दामीत्यर्थः, येन असदृशसम्बन्धविधानेन हेतुनां इयं चण्डालकन्यका मनोहरा चित्ताकर्षिणी आकृतिः स्वरूपं यस्याः सा एवम्भूताऽपि असुरश्रीरिव दैत्यलक्ष्मीव सतत निरन्तरं निन्दितं धर्मशास्त्रकृद्भिर्जुगुप्सितं सुरतसम्भोगो यस्यां सा, पक्षे—सततम् अजस्रं निन्दिता तिरस्कृता
धनुष की लचीली डण्डी के समान मुट्ठी में आने योग्य थी । वह अपनी अलकों से ऐसी शोभित हो रही थी मानो अलकापुरी के वैभव में निवास करनेवाली भगवान् कुबेर की राजलक्ष्मी हो ।
उसे देखकर राजा चकित हो उठा और मन ही मन विचार करने लगा—कितने आश्चर्य की बात है कि ऐसे अयोग्य स्थान में विधाता ने ऐसी रूप-रचना का आखिर इतना प्रयत्न किया ही क्यों ? और यदि अपनी सुन्दरता से सम्पूर्ण सौन्दर्य की खिल्ली उड़ानेवाली इस सौन्दर्य मूर्ति कन्या की रचना ही की तो इसे ऐसी जाति में क्यों उत्पन्न कर दिया कि यह सम्भोग की तो बात ही क्या छूने योग्य भी न रह गयी ।
मैं तो समझता हूँ कि चण्डाल-जाति के स्पर्श दोष से भयभीत होकर इसके निर्माण-काल में ही विधाता स्वयं इसके छूने में हिचक उठे और बिना हाथ लगाये ही इसकी रचना कर डाली । नहीं तो इसकी सुन्दरता कदापि इतनी अछूती न होती । हाथ के स्पर्श से दूषित अङ्गों में ऐसी निर्मल कान्ति कैसे सम्भव हो सकती है ! अर्थात् इसकी रचना में विधाता के हाथों की छाप तो है ही नहीं क्योंकि विधाता के हाथों की रचना इस प्रकार सर्वथा दोषमुक्त होती ही नहीं (विधि प्रपञ्च गुन अवगुन साना) अतः यह निश्चय ही उसकी मानसी सृष्टि है ।
१. सौन्दर्य...रूपनिष्पादनप्रयत्नः ।
२. अस्या जन्म ।
३. मनसोत्पादिता ।
४. तथाहि ।
५. धिग्विग् विधातारम् ।
६. मनोहरा... ।
७. क्रूरजातिता ।
३६ कादम्बरी— [ कथामुखे-
एवमादि चिन्तयन्तमेव राजानमीषदवगलित-कर्णपल्लवावतंसा प्रगल्भवनितेव कन्यका प्रणाम ।
कृतप्रणामायाञ्च तस्यां मणिकुट्टिमोपविष्टायाम् , स पुरुषस्तं विहङ्गममादाय पञ्जर-गतमेव किञ्चिदुपसृत्य राज्ञे न्यवेदयदब्रवीच्च—
'देव ! विदितसकलशास्त्रार्थः, राजनीतिप्रयोगकुशलः, पुराणेतिहासकथालापनिपुणः, वेदिता गीतश्रुतीनाम्, काव्य-नाटकाख्यानक-प्रभृतीनामपरिमितानां सुभाषितानामध्येता
सुरता देवभावो यया सा, एवम्भूता रमणीयाऽपि सुरतयोग्याऽपि क्रूरजातितया नृशंसान्त्यजजातितया उद्वेजयति वैचित्त्यमुत्पादयति' इति 'महीपतेर्मनसि अभूत्' इति पूर्वेण सम्बन्धः । इह पूर्णोपमा ।
एवमिति । ईषत् अल्पम् अवगलितौ अधःप्रसृतौ कर्णयोः श्रोत्रयोः पल्लवावतंसौ किसलयभूषणे यस्याः सा, कन्यका चण्डालदारिका प्रगल्भवनितेव सम्प्रत्यप्राप्तयौवनत्वादप्रगल्भापि धृष्टनायिकेव तथा-विधराजसभायामपि त्रपाऽभावादित्याशयः । एवमादि पूर्वोक्तप्रकारादिकम् , चिन्तयन्तमेव विचारं कुर्वन्तमेव राजानं महीपतिं प्रणाम प्रणाममकरोत् ।
कृतेति । कृतो विहितः प्रणामो नमस्कारो यया सा तथा तस्याम्, मणिकुट्टिमं रत्नबद्धभूमिस्तत्र उपविष्टायां वर्त्तमानायां तस्यां चण्डालकन्यकायाम्, सः अग्रगामी पूर्वोक्तो धवलवासाः वृद्धः पुरुषः, पञ्जरगतमेव पञ्जरस्थमेव न तु ततः पृथक्कृत्वेत्यर्थः तं विहङ्गमं पक्षिणं शुकं कीरम् आदाय गृहीत्वा किञ्चिद्विनयेन ( पुरः ) उपसृत्य आगत्य राज्ञे भूपतये न्यवेदयत् उपहृतवान् अब्रवीत् अवादीच्चेत्यर्थः ।
देवेति । देव हे राजन् ! ‘राजा भट्टारको देवः' इत्यमरः, ‘विदितसकलशास्त्रार्थः’ इत्यादीनि प्रथ-मान्तानि शुकविशेषणान्यवगन्तव्यानि । तत्र विदितः ज्ञातः सकलशास्त्राणां षडङ्गसहितवेदानाम् अर्थोऽभिधेयो येन स, राजनीतिप्रयोगे कामन्दक्युक्तशिक्षायां कुशलो निपुणः, पुराणं पञ्चलक्षणम्, इतिहासः पुरावृत्तम्, तयोः कथायां वार्तायां य आलापः सम्यग्भाषणं तदर्थप्रतिपादकवाक्यनिर्माणं वा तत्र निपुणः प्रवीणः, गीतं गानं श्रुतयः स्वरारम्भकावयवीभूताः शब्दविशेषा द्वाविंशतिविधाः तासां वेदिता बोद्धा । श्रुतीनां द्वाविंशतिविधत्वे प्रमाणम्—
'सप्त स्वरास्त्रयो ग्रामा मूर्च्छनाश्चैकोनविंशतिः । ताना एकोनपञ्चाशद् द्व्यधिका विंशतिः श्रुतिः ॥'
इति ।
अन्यत्र तु—
'नान्दी चालनिका रसा च सुमुखी चित्रा विचित्रा घना, मातङ्गी, सरसामृता मधुकरी मैत्री शिवा माधवी । बाला शार्ङ्गरवी कला कलरवा माला विशाला जया, मात्रेति श्रुतयः पुराणकविभिर्द्वाविंशतिः कीर्त्तिता ॥' इति
काव्यम् अदोषत्वे सति गुणालङ्कारवत्कविकर्म, नाटकम् अभिनयः, आख्यायिका वासवदत्तादिः, आख्यानकं साम्प्रतिकराजवृत्तम्, एतत्प्रभृतीनां सामुद्रिकादीनाम्, ( तथा ) अपरिमितानाम् अगणितानाम्, सुभाषितानां शृङ्गारनीतिवैराग्यबोधकानाम् च अध्येता पाठकः कर्त्ता स्वयमेव निर्माता च । परि-
इतनी बेमेल वस्तुओं को एक में मिला रखनेवाले विधाता को धिक्कार है ! चाण्डाल-कुल में उत्पन्न होने के कारण सम्भोग के सर्वथा अयोग्य यह सौन्दर्य प्रतिमा मनोहर और रमणीय होने पर भी मन को आकुलता ही प्रदान कर रही है मानो निरन्तर देव वृत्तियों की निन्दा करनेवाली मनोहर रमणीय दैत्य-लक्ष्मी हो ।
राजा अभी अपने विचारों में तल्लीन ही था कि उस कन्या ने बिना किसी हिचक के धृष्ट स्त्री के समान झुक कर उसे प्रणाम किया । उस समय उसके कानों में पल्लवों के आभूषण भी कुछ-कुछ झुक गए ।
जब वह प्रणाम करके मणियों की फर्श पर बैठ गयी तो उसके साथ के उस वृद्ध पुरुष ने पिंजड़े के उस पक्षी को लेकर और कुछ आगे बढ़ कर राजा से निवेदन किया—
राजन् ! यह अत्यन्त अद्भुत सुग्गा है । इसका नाम वैशम्पायन है । यह सभी शास्त्रों के मर्म का ज्ञाता है, राजनीति के प्रयोगों में अति कुशल है, पुराण और इतिहास की कथाओं को सुनाने में बड़ा ही निपुण है, सङ्गीत की श्रुतियों का भी इसे ज्ञान है, अनेक काव्यों, नाटकों और आख्यानों की असंख्य सूक्तियाँ इसे कण्ठ
१. विहङ्गमादाय, विहङ्गमं शुकमादाय ।
२. गतं किञ्चित् ।
३. नाटकाख्यायिकाख्यानक*** ।
| शुकवर्णनम् ] | चन्द्रकला-विद्योतिनीसहिता । | ३७ |
|---|
स्वयञ्च कर्त्ता, परिहासालापपेशलः, वीणा-वेणु¹-मुरजप्रभृतीनां वाद्यविशेषाणामसमः श्रोता, नृत्य²प्रयोगदर्शननिपुणः, चित्रकर्मणि प्रवीणः, द्यूतव्यापारे प्रगल्भः, प्रणयकलह³-कुपित⁴-कामिनी-प्रसादनोपायचतुरः, गज-तुरग-पुरुष-स्त्री-लक्षणाभिज्ञः, सकलभूतल-रत्नभूतोऽयं वैशम्पायनो नाम शुकः । सर्वरत्नानाञ्च⁵ उदधिरिव देवो भाजनमिति⁶ कृत्वैनमादायास्मत्स्वामि-दुहिता देवपादमूलमायाता, तदयमात्मीयः क्रियतामित्युक्त्वा नरपतेः पुरो निधाय पञ्जर-मसावपससार⁷।
अपसृते च तस्मिन्⁸ स विहङ्गराजो राजाभिमुखो भूत्वा समुन्नमय्य⁹ दक्षिणं चरणमतिस्पष्ट-वर्ण¹⁰-स्वर-संस्कारया गिरा कृतजयशब्दो राजानमुद्दिश्यार्यामिमां पपाठ—
हासोऽन्येषां प्रियवचनैर्हसनं तस्य आलापेषु रसबोधकपदप्रयोगेषु पेशलः दक्षः । वीणा, वेणुः सुषिरम्, मुरजम् आनद्धम्, आदिपदाद्वादनं कांस्यतालादि परामृश्यते, एतेषाम् असमः निरुपमः अद्वितीय इत्यर्थः, श्रोता आकर्णनेन तारतम्यगुणदोषविवेक इत्यर्थः, नृत्तं ताललयाश्रितं तस्य प्रयोगदर्शने प्रयुज्यमानस्य नृत्यस्यावलोकने निपुणः पेशलः अवलोकनेनोत्कृष्टापकृष्टनिर्वाचक इत्यर्थः ।
चित्रकर्मणि आलेख्यकलायां प्रवीणो निपुणः द्यूतव्यापारे दुरोदरव्यापारे प्रगल्भः कुशलः प्रतिभा-युत इत्यर्थः । प्रणयकलहेन स्नेहविषयविवादेन कुपितानां क्रोधं प्राप्तानां कामिनीनां प्रमदानां प्रसादनो-पायेषु सान्त्वनानिमित्तभूतप्रपञ्चे चतुरोऽभिज्ञः । गजा भद्रजातीयाः तुरगाः शालिहोत्रप्रतिपादितदेव-मण्यादयः, पुरुषा धीरोदात्तादयः स्त्रियः पद्मिन्यादयः तासां लक्षणेषु सामुद्रिकोक्तेषु अभिज्ञो निपुणः। सकलभूतले समस्तपृथिवीतले रत्नभूतः अयुत्कृष्टमणिः । अयं पुरोऽवलोक्यमानः वैशम्पायनो नाम वैश-म्पायनेतिसंज्ञकः शुकः कीरः सर्वरत्नानां सर्वोत्कृष्टवस्तूनाम् उदधिः सागर इव देवो भवान् भाजनमाग्रयः इति कृत्वा एतन्मनसि विचार्य, अस्मत्स्वामिनो वद्यप्रभागरय पत्युः दुहिता एषा कन्यका एनं शुकम् आदाय गृहीत्वा देवपादमूलं भवच्चरणान्तिकम् आयाता आगता, तत् तस्मात् कारणात् अयं शुकः आत्मीयो ग्रहणेन स्वीयः क्रियतां विधीयताम् इति पूर्वोक्तम् उक्त्वा अभिधाय नरपतेः राज्ञः ( शूद्रकस्य ) पुरः अग्रे निधाय स्थापयित्वा पञ्जरं पञ्जरग्रहणस्थानम्, असौ पुरुषः अपससार दूरीभूतवान् ।
अपसृत इति । तस्मिन् पुरुषे अपसृते दूरीभूते सति स पूर्वप्रतिपादितो विहङ्गराजः राज्ञः शूद्रकनृपतेः अभिमुखः सम्मुखो भूत्वा, दक्षिणम् सव्येतरं चरणं पादम् उन्नमय्य उत्तोल्य । दृश्यते हि लोके ब्राह्मणा आशीर्वादप्रदाने दक्षिणहस्तोत्तोलनं कुर्वन्ति पूर्वमयञ्च पुण्डरीकनामा ब्राह्मण आसीदिति तत्संस्कारानुसा-रेण जयशब्दोच्चारणे दक्षिणचरणोत्तोलनं कृतवान् चरणपदोपादानन्तु एकत्रैव करचरणोभयरूपत्वं पक्षिणा-मिति नासङ्गतिः । अतिस्पष्टाः सुव्यक्ताः, वर्णा अकारादि, स्वरा उदात्तादयः तेषां संस्कारः परिपाकः व्याक-रणशुद्धिरिति यावत्, यस्यां सा तथा तया । एतेनान्यशुकाद्यपेक्षयाऽस्य वैलक्षण्यं प्रदर्शितम्, एवम्भूतया गिरा वाचा राजानमुद्दिश्य नृपं निमित्तीकृत्य कृतजयशब्दः विहित 'जय' इति शब्दः इमाम् अग्रे प्रति-
हैं और यह उनकी रचना में भी प्रवीण है । यह कुशल विदूषक भी है, वीणा, वेणु और मुरज इत्यादि बाजों के सुनने का रसिक और नृत्य-प्रयोगों के देखने में अत्यन्त चाव रखने वाला भी है। यह चित्र भी बनाना जानता है और द्यूत खेलने में तो पटु ही है । प्रेम-व्यापार में रूठी हुई मानिनियों को मनाकर प्रसन्न कर देने के उपायों का ऐसा पण्डित तो मिलना ही कठिन है। कहाँ तक इसकी विशेषतायें निवेदन करूँ यह हाथी, घोड़ों, पुरुषों और स्त्रियों के लक्षणों का भी अद्भुत पारखी है। सचमुच यह पृथ्वी का एक विशिष्ट रत्न है और श्रीमान् ही समुद्र के समान सभी रत्नों के संग्रह करने वाले एकमात्र उचित स्थान हैं इसलिये मेरे स्वामी की यह पुत्री इसे लेकर आपके चरणों में आयी है । इसे अपनाने की कृपा करें।' यह कहकर उसने पिञ्जड़ा राजा के सामने रख दिया और स्वयं हट गया ।
उसके हट जाने पर उस पक्षिराज ने अपना मुख राजा की ओर कर लिया, दाहिने पैर को उठा लिया, अत्यन्त स्पष्ट वर्गों और स्वरों में सुलझी हुई वाणी से 'जय' शब्द का उच्चारण किया और राजा को लक्ष्य करके यह आर्या छन्द सुनाया-
१. मुरजादीनाम् । २. नृत्त । ३. प्रणयकुपित । ४. कामिनोजन । ५. सर्वरत्नानाममुदधिरिव ६. भाजनमद्यः । ७. पञ्जरमपससार । ८. तस्मिन् विहङ्गमराजः । ९. उन्नम्य । १०. वर्णसंस्कारया
३८ कादम्बरी— [कथामुखे-
'स्तनयुगमश्रुस्नातं समीपतरवर्त्ति हृदयशोकाग्नेः। चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम्॥'
राजा तु तां$^१$ श्रुत्वा संजात$^२$-विस्मयः सहर्षमासन्नवर्त्तिनम् अतिमहार्घहेमासनोपविष्टम् अमरगुरुमिवाशेषनीतिशास्त्रपारगम् अतिवयसमग्रजन्मानमखिलमन्त्रिमण्डलप्रधानममात्यं कुमारपालितनामानमब्रवीत्—
'श्रुता भवद्भिरस्य विहङ्गमस्य स्पष्टता वर्णोच्चारणे, स्वरे च मधुरता! प्रथमं तावदिदमेव महदाश्चर्यम्, यदयमसङ्कीर्णवर्णप्रविभागमभिव्यक्तमात्रानुस्वार-स्वर$^८$-संस्कार-
पादगानाम्, वार्याम् वार्यालंकृच्छन्दोबद्धं वाक्यम्, पपाठ पठितवान्। स्तनेति। अश्रुभिर्लोचनजलैः स्नातं कृतस्नानम्, हृदये चित्ते स्वपतिवियोगजनितः शोक एव वह्निर्वाः तस्य, समीपवर्ति अत्यन्तः सन्निहितत्याचितया विगतः पतिविनाशाद् दूरं गतः मुक्ताहारो मौक्तिकमाला यस्मात्तद् भवतस्तव रिपुस्त्रीणां शत्रुवनितानां स्तनयुगं कुचयुग्मं व्रतं नियमं चरतीव अनुतिष्ठतीव । अन्योऽपि यो व्रती स कालत्रये स्नाति होमाग्निसमीपस्थायी भवति शास्त्रविहितमुपवासञ्च करोति। अत्र विमुक्ताहारमिति समश्लेषः। हृदयशोकाग्नेरिति निरङ्गं केवलरूपकम्, तया वाच्याभिनाननी क्रियोत्प्रेक्षा चेति समुदिते संसृष्टिरलङ्कारः। आर्या चात्र छन्दः।
राजेति। राजा तु नृपोऽपि तामार्यां गाथां श्रुत्वा निशम्य सञ्जातः समुत्पन्नो विस्मयः साश्चर्यं यस्य सः, सहर्षं सानन्दं यथा स्यात्तथा आसन्नवर्तिनं निकटस्थायि, अतिमहार्घम् अतिबहुमूल्यं यद् हेमासनं सुवर्णपीठं तत्र उपविष्टं वर्त्तिनम् अमरगुरुर्बृहस्पतिस्तमिव अशेषामि समस्तानि यानि नीतिशास्त्राणि संसारिकृत्यबोधकानि तन्त्राणि तेषां पारगं तत्वज्ञातारम्। अत्यधिकं वयः अवस्था तन्, वृद्धमित्यर्थः, अग्रजन्मानं ब्राह्मणम्, सर्ववर्णेषु प्रथमो ब्राह्मणः। अखिलमन्त्रिमण्डले समस्तसचिवसमुदाये प्रधानं मुख्यम् 'कुमारपालित' इति नाम यस्यैवम्भूतम् अमात्यं सचिवम् अब्रवीत् अवोचत्।
श्रुतेति। भवद्भिर्युष्माभिः अस्य पुरो वर्त्तमानस्य विहङ्गमस्य शुकस्य वर्णोच्चारणे कादिव्यक्त्यतायां स्पष्टता स्फुटता श्रुता आकर्णिता किमिति काका व्यज्यते, तथा च श्रुता किमित्यर्थः। तथा च पुनः स्वरे उदात्तादिस्वरविषये मधुरता माधुर्यम्। प्रथमं पूर्वं तावद् इदमेव प्रत्यक्षगतमेव महदाश्चर्यम् अतिकौतूहलम्- यदयं शुकः असङ्कीर्णः मिथो वैलक्षण्येन श्रूयमाणो वर्णप्रविभागः अक्षरपार्थक्यं यस्यां सा ताम् अभिव्यक्तः स्फुटमवगम्यमानः, मात्रा ह्रस्व-दीर्घ-प्लुतस्वरूपाः अनुस्वारा अनुनासिकाः, संस्कारो व्याकरणशुद्धिथ एतेषां योगः सम्बन्धो यस्यां सा तान्। विशेपेण श्लेषाद्यलङ्कारेण संयुक्तां सहिताम्। अतिपरिस्फुटानि अत्यन्त- स्पष्टानि अक्षराणि वर्णा यस्यां ताम्, गिरं वाणीम् उदीरयति। यद्यपि 'असङ्कीर्णप्रविभागम्' 'अतिस्फुटा-क्षरम्' इत्यनर्थान्तरमिवाभाति तथापि पूर्वेण तालव्यशकारदन्त्यसकारादीनामुच्चारणभेद उच्यते उत्तरेण तु सर्वविद्याक्षराणामेव स्फुटीच्चारणमुच्यत इति स्पष्टं भेदः।
"आपकी शत्रु-स्त्रियों के स्तनों के जोड़े निरन्तर आँसुओं में स्नान करते हुये हृदय की शोकाग्नि के पास स्थित होकर हाररूपी आहार का परित्याग करके किसी साधना में लगे हुये से प्रतीत होते हैं।"
राजा इस छन्द को सुनकर आश्चर्यपूर्ण आनन्द में मग्न हो उठा और उसने पास ही में अत्यन्त बहुमूल्य सोने के आसन पर बैठे हुए देवगुरु बृहस्पति के समान समस्त नीति-शास्त्रों में दक्ष, वृद्ध ब्राह्मण प्रधानामात्य कुमारपालित से कहा—
आपने इस पक्षी के उच्चारण में वर्णों की स्पष्टता और स्वरों की मधुरता सुनी ? पहले तो यही महान् आश्चर्य है कि यह अपने कण्ठ से अलग-अलग व्यक्त होने वाले वर्णों, मात्राओं और अनुस्वारों से मधुर स्वरों से सुलझी हुई व्याकरणसिद्ध तथा अलङ्कारादि विशेष गुणों से भरी-पूरी अत्यन्त स्पष्ट वाणी का उच्चारण कर रहा है। उस पर यह और भी आश्चर्य की बात है कि पक्षी होने पर भी इसके कृत कार्यों में शिष्ट
१. तामाय्यां श्रुत्वा। २. जात...। ३. महार्हासनोपविष्टम्, अतिमहार्घहेमासनोपविष्टम्। ४. ०ति-पारंगमवयसम्। ५. अखिलमन्त्रिमण्डले प्रधानम्। ६. महत्तरमाश्चर्यम्, महाश्चर्यम्। ७. ०मसङ्कीर्णं०। ८. ...स्वरसंयोगविशेषयुक्ताम्, स्वरसंयोगान्।
| शुकवर्णनम् ] | चन्द्रकला-विद्योतिनीसहिता ! | ३६ |
|---|
योगां विशेषयुक्ताम् अतिपरिस्फुटाक्षरां गिरमुदीरयति । तत्र पुनरपरम् अभिमतविषये तिरश्चोऽपि मनुष्यस्येव संस्कारवती बुद्धिपूर्वा प्रवृत्तिः । तथाहि-अनेने समुत्क्षिप्तदक्षिणचरणे-नोच्चार्य जयशब्दमियमार्या मामुद्दिश्य परिस्फुटाक्षरं गीता । प्रायेण हि पक्षिणः पशवश्च भयाहार-मैथुन-निद्रा-संज्ञामात्र-वेदिनो भवन्ति । इदन्तु महच्चित्रम्।'
इत्युक्तवति भूपतौ कुमारपालितः किञ्चित्स्मितवदनो नृपमवादीत्—'देव! किमत्र चित्रम् । एते हि शुकशारिकाप्रभृतयो विहङ्ग-विशेषा यथाश्रुतां वाचमुच्चारयन्तीत्यधि-गतमेव देवेन । तत्राप्यन्यजन्मोपात्त-संस्कारानुबन्धेन वा पुरुषप्रयत्नेन वा संस्कारातिशय उपजायत इति नातिचित्रम् । अन्यच्चै, एतेषामपि पुरा पुरुषाणामिवातिपरिस्फुटाक्षरा
तत्रेति । तत्र उच्चारणविषये पुनः अपरमन्यदाश्चर्यमित्यर्थः । किं तदित्युपपादयति—अभिमतति । अभिमतविषये उपादेयेऽर्थे तिरश्चोऽपि निर्यग्जातेः पक्षिणोऽपि मनुष्यस्येव मानवस्येव संस्कारवती तत्त-दर्थविषयानुभवजन्यः संस्कारस्तद्वती बुद्धिपूर्वा बुद्धिपूर्विका प्रवृत्तिः कथनप्रवर्तनम् । एवं कथं ज्ञात-मित्युपपादयति । तथाहत्यादिना । समुत्क्षिप्त उत्थापितः दक्षिणचरणः सव्येतरपादो येन स तेन अनेन शुकेन जयशब्दं जयजयेति पदम् उच्चार्य अभिधाय इयं पूर्वप्रतिपादिनायां मामुद्दिश्य मामभिलक्ष्य परिस्फुटानि स्पष्टानि अक्षराणि वर्णा यत्र तद्यथा स्यात्तथेति क्रियाविशेषणम् गीता उच्चारिता । एवञ्च आशीर्वादसमये दक्षिणहस्तोत्तोलनं ब्राह्मणाः कुर्वते तथैवायमपि प्राक्तनवासनावशेन जयशब्दाभिधान-काले दक्षिणापादमुत्थापितवान्, तया नृपतेः पूर्वं स्तुतिरेवार्याच्छन्दसामिहितमिति सैषा बुद्धिपूर्वा प्रवृत्ति-रित्यतः परं किमाश्चर्यमित्याशयः । प्रायेनेति । प्रायेण बाहुल्येन पक्षिणः खगाः पशवो मृगाद्याः भयम् अनिष्टकारणबोध आहारो भोजनं क्षुन्निवृत्त्युपाय इति यावत्, मैथुनं स्त्रीसम्भोगः, निद्रा बाह्येन्द्रियशमः संज्ञा लोकव्यवहारजनकसङ्केतः नाम वा एतन्मात्रवेदिनो भवन्ति एतत्वेवलमेवावबुद्ध्यन्ते नातिरिक्तम्, इदन्तु तद्विलक्षणाज्ञातृत्वं महच्चित्रम् अश्याश्चर्यम् ।
इत्युक्तेति । इत्युक्तवति इति कथितवति भूपतौ नृपे कुमारपालितः एतन्नामकः पूर्वोक्तसचिवः किञ्चित्स्मितवदनः ईषद्वस्यमुखः अवादीत् अवोचत् । आश्चर्यशङ्कां निराकरोति—किमत्रेति । अत्र अस्मि-न्विषये किं चित्रमाश्चर्यम्, हि यतः एते शुकाः कीरपदवाच्या विख्याताः सारिका पीतचरणा एतत्प्रभृतय एतदाद्याः विहङ्गविशेषाः पक्षिविशेषा यथाश्रुताम् अर्थप्रतीतिरहितां वाचं वाणीम् उच्चारयन्ति उद्गिरन्ति इति पूर्वोक्तं देवेन स्वामिना अधिगतमेव ज्ञातमेव । तत्रापि पूर्ववक्तव्यतायाम् अन्यजन्मनि जन्मान्तरे उपात्तस्य गृहीतस्य संस्कारस्य वासनाया अनुबन्धेन अस्मिन् जन्मनि अनुवृत्त्या वा अथवा पुरुष प्रयत्नेन परिपालकजनपाठनाद्युद्योगेन वा संस्कारे शुकादीनां वासनायाम् अतिशयेन दार्थ्यम् उपजायते
मनुष्यके समान बुद्धि-पूर्ण व्यवहार की प्रवृत्ति भी है। क्योंकि अभी इसने दाहिना पैर उठाकर जय-शब्द का उच्चारण किया है और मुझे लक्ष्य करके इस आर्या छन्द का स्पष्ट अक्षरों में गान भी किया है। पशु और पक्षी प्रायः भय, आहार, निद्रा और मैथुन नाम की मूल वृत्तियों के विषय मात्र का ही ज्ञान रखते हैं, उन्हें इनके अति-रिक्त अन्य किसी भी वस्तु का ज्ञान नहीं होता किन्तु इसे तो लोक के शिष्ट-व्यवहार का भी ज्ञान है। यह तो महान् आश्चर्य की बात है।
राजा के इस प्रकार कहने पर कुमारपालित ने कुछ मुस्कराते हुए कहा—देव ! इसमें आश्चर्य ही क्या है। यह तो श्रीमन् को ज्ञात ही है कि पक्षियों में तोता-मैना आदि बहुत से ऐसे विशेष पक्षी हैं जो सुनी हुई बातों को ठीक ठीक वैसे ही कह भी देते हैं। पूर्वजन्म के प्राप्त संस्कारों के प्रभाव अथवा इस जन्म में किसी व्यक्ति के उद्योग से यदि उनमें और भी विशेष संस्कार आ जायें तो इसमें कोई विशेष आश्चर्य की बात नहीं। इसके अतिरिक्त ऐसे भी प्रमाण मिलते हैं कि अत्यन्त प्राचीन काल में मनुष्यों के समान ही इन
१. 'पदयमपि' 'पदयमति परिस्फुटम् ।
२. पुनरपीदम् ।
३. संस्कारवतः ।
४. वाक्प्रवृत्तिः ।
५. एतेन ।
६. स्फुटाक्षरम्, परिस्फुटाक्षरान् ।
७. 'निद्रामात्र, इत्येव पाठः क्वचि विद्यते ।
८. वदनोऽवादीत् ।
९. 'देव, इति क्वचिन्नास्ति ।
१०. विहङ्गा ।
११. यथाश्रुतं ।
१२. तत्राप्यन्यस्मिन्जन्मनि ।
१३. अन्यत् ।
१४. अतिपरिस्फुटाभिधाना ।
| ४० | कादम्बरी- | [कथामुखे- |
|---|
वागासीत्, अग्निशापात्त्वस्फुटालावता शुकानामुपजाता, करिणाञ्च जिह्वापरिवृत्तिः ।' इत्येवमुच्चारयत्येव तस्मिन्नशिशिरकिरणमम्बरतलस्य मध्यमारूढमावेदयन्, नाडिकाच्छेद-प्रहत-पटु-पटह-नादानुसारी मध्याह्न-शंखध्वनिरुदतिष्ठत् । तमाकर्ण्य च समा- सन्नस्नानसमयो विसर्जितराजलोकः क्षितिपतिरास्थानमण्डपादुत्तस्थौ । अथ चलति महीपतावन्धोन्यमतिरभस-सञ्चलन-चालिताङ्गद-पत्रभङ्ग-मकरकोटि-
त्पद्यते ताभ्यां कारणाभ्यां वाग्व्यापारयुक्ता जायन्त इत्याशयः । इति हेतोः नातिचित्रकम् अस्यैवंविधो- च्चारणं नातीवाश्चर्यम् अन्यच्च हेत्वन्तरञ्चास्ति एतेषामपि शुकादीनां पुरा पूर्वं पुरुषाणां परिपालकजनाना- मिव अतिपरिस्फुटानि अत्यन्तस्पष्टानि अभिधानानि नामानि यस्यामेवम्भूता वाग् वचनम् आसीद्, तु किन्तु अग्निशापात् अस्फुटः अस्पष्ट आलापो वाक्यं यत्र तस्य भावः तत्ता, शुकानाम् उपजाता । करिणां गजानां च जिह्वाया रसनायाः परिवृत्तिः वैपरीत्येनावस्थितिः उपजायेति सम्बन्धः । भाग्यवशादयं शुकस्तच्छापमतिक्रम्य स्पष्टाक्षरमुच्चारयतीति नाश्चर्यमित्याशयः।
पुरा तारकासुरपीडिताः सुराः प्रजापतिशरणं प्राप्ता प्राजापतिस्तु 'अग्नेः पुत्रः कार्तिकेयो भविता स एव तमसुरं नाशयिष्यति अतोऽग्निं मार्गयित्वा तत्पुत्रं प्रार्थयन्तु' इत्युवाच । 'अग्निं गवेषयन्तः सुराः क्वापि तमलभमानाः महान्तं हस्तिनमेकमवलोक्य क्वाग्निर्विद्यत इति पप्रच्छुः । स च गजः 'अश्वत्थवृक्षे- न्तर्हितोऽग्नि' रित्युक्तवान् । अथाग्निस्ततो निर्गत्य 'तव जिह्वापरिवृत्तिर्भवतु' इति शप्त्वा पुनः शमीगर्भे प्रच्छन्नः, तदा च सुरैः पृष्टः शुकः 'शमीमध्येऽन्तर्हितोऽग्नि' रित्युवाच । ततस्ततोऽप्यग्निंर्निष्क्रम्य 'त्वं वाग्विहीनो भव' इति तं शशाप इति भारतीया कथाऽवगन्तव्या ।
इत्येवमिति । तस्मिन् प्रधानामात्ये कुमारपालिते एवं पूर्वोक्तप्रकारेण उच्चारयत्येव भाषयत्येव अशिशिराणि उष्णानि किरणानि रश्मयो यस्य तं सूर्यमित्यर्थः, अम्बरतलस्य आकाशस्य मध्यं मध्य- भागम् आरूढं प्राप्तम् आवेदयन् संसूचयन्, तथा नाडिका सभाभङ्गघटिका तस्याः छेदे समाप्तौ तत्समय इत्यर्थः, प्रहतः करतलादिना ताडितः यो विविधयन्त्रादिरित्यर्थः, यः पटुर्महान् पटहो दुन्दुभिस्तस्य नादः शब्दस्तमनुसर्तुमनुगन्तुं शीलमस्येति सः, मध्याह्नशङ्खध्वनिः मध्याह्नद्योतकजलशब्दः उदतिष्ठत् उत्पन्नोऽभूत् । तं ध्वनिम् आकर्ण्य निशम्य, समासन्नः समीपवर्ती स्नानसमयः आप्लवनकालः यस्य सः, विसर्जितः निवर्तितः राजलोकः परिजनजनो येन सः, क्षितिपतिः शूद्रकः आस्थानमण्डपात् सभास्था- नात् उत्तस्थौ उत्थितवान् ।
अथेति । अथ उत्थानानन्तरं महीपतौ राजनि शूद्रके चलति सभाभवनात्प्रस्थातुमारभमाणे सति उत्तिष्ठताम् उत्थानं विदधतां महीपतीनां सामन्तनृपाणाम् अन्योऽन्यं परस्परम् अतिमहान् अतिबहुः सम्भ्रमः सम्मर्द आसीदिति सम्बन्धः । अत्र यानि षष्ठयन्तपदानि तानि महीपतिविशेषणानि । अतिरभ- सेन अतिवेगेन यत् सञ्चलनं तेन प्रस्थानं तेन चलितानां स्वस्थानात्प्रच्युतानाम् अङ्गदानां केयूराणां पत्र- भङ्गानां भूषणविशेषाणां मकराणां मकराकृतिकर्णभूषणानां कोटिभिः अग्रप्रदेशैः पाटिताश्छिन्ना अनेकपटाः
पशु-पक्षियों में भी वर्णों का अत्यन्त स्पष्ट उच्चारण करनेवाली वाणी विद्यमान थी । इन तोतों की वाणी से वर्णों के उच्चारण की स्पष्टता तो अग्निदेव के शाप से नष्ट हुई और हाथियों की जीभ उलट कर कण्ठ की ओर घूम गयी है ।
अभी कुमारपालित की बात चल रही थी कि मध्याकाश में तपते हुए सूर्यदेव के आ पहुँचने की सूचना देते हुए घड़ी की समाप्ति पर बजनेवाले नगाड़ों की ध्वनि के साथ ही दोपहर का शङ्ख बज उठा । उसे सुनकर स्नान की बेला अति निकट जान सभी सामन्त राजाओं को विदा करके राजा स्वयं सभामण्डप से उठ पड़ा ।
इसके पश्चात् राजा के वहाँ से चलते ही अपने-अपने आसनों से उठ खड़े होनेवाले सामन्त राजाओं में खलबली सी मच गयी । अत्यन्त झटके से चलने के कारण उन राजाओं के केयूरों ( बाजूबन्दों ) में बनी हुई मछलियों की नोकों से बहुतों के कपड़े फट गए, आपस की धक्का-मुक्की से उनके गलों के हार झूलने से लगे,
१. अग्निशापादपरि... । २. शारिकापाञ्च । ३. मध्यमध्यारुरुढ । ४. चासन्न ।
सभाभङ्गवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । ४१
पाटितानेकपतानाम् , आक्षेप दोलायमान-कण्ठदाम्नाम् , अंसस्थलोल्लसित-कुङ्कुम-पटवास-धूलिपटल-पिञ्जरीकृत-दिशाम् , आलोल-मालतीकुसुम-शेखरोत्पतदलिकदम्बकानाम् , अर्द्धावलम्बिभिः कर्णोत्पलैश्चुम्ब्यमानगण्डस्थलानाम् , गमन-प्रणाम-लालसानाम् , अहमहमिकया वक्षःस्थलप्रेङ्खोलित-हारलतानाम् , उत्तिष्ठतामासीदति॑महान् सम्भ्रमो महीपतीनाम् ।
इतश्चेतश्च निष्पतन्तीनां स्कन्धावसक्त-चामराणां चामरग्राहिणीनां कमलमधु-पाने-मत्त-जरत्कलहंस-नाद-जर्जरितेन पदे पदे रणितमणीनां मणिनूपुराणां निनादेन, वारविलासिनीजनस्य सञ्चरतो जघनस्थलोस्फालनरसित-रत्नमालिकानां मेखलानां मनोहारिणा
गर्भसूत्रनिर्मितवसनानि येषां तेषाम् । आक्षेपेण परस्परशरीरसङ्घलनेन दोलायमानानि चञ्चलानि कण्ठदामानि कण्ठहारा येषां तेषाम् अंसस्थलेभ्यः स्कन्धभागेभ्यः उल्लसितानि उत्थितानि यानि कुङ्कुमानि केसराणि पटवासः सुगन्धचूर्णविशेषः तयोर्धूलिपटलं परागसमुदायः तेन पिञ्जरीकृताः पीतरक्तीकृता दिश आशाः यैस्तेषाम्, आ समन्तात् लोलश्चञ्चलाः ये मालतीकुसुमानां जातीपुष्पाणां शेखराः शिरोभूषणानि तदुपरि उत्पतन्त उड्डीयमानाः अलिकदम्बा भ्रमरयूथा येषां तेषाम, अर्धावलम्बिभिः अर्धप्रदेशलग्मैः कर्णोत्पलैः श्रवणस्थितकमलैः चुम्ब्यमानानि मस्तकनमनात् स्पृश्यमानानि गण्डस्थलानि कपोलभागाः येषां तेषाम्, गमने राज्ञः प्रस्थाने प्रणामार्थं नमस्काराय लालसानाम् अतिस्पृहाणाम् 'अहं पूर्वमहं पूर्वम्' इत्यहमहमिका तया, 'अहमहमिका तु सा स्यात् परस्परं यो भवत्यहङ्कारः' इत्यमरः । वक्षःस्थले भुजान्तरे प्रेङ्खोलिता आन्दोलिता हारलता मुक्ताफलमाला येषां तेषाम् । अन्वयस्तूक्त एव ।
इतश्चेतश्चेति । तव आस्थानभवनं राज्ञः सभामण्डपं सर्वतः परितः तदा तस्मिन् काले क्षुभितमिव क्षोभमुपगतमिव अभ्रवदभूदिति वक्ष्यमाणक्रियया सम्बन्धः । अत्र च तृतीयान्तं पदं क्षुभितमित्यस्य करणम्, बहुयत्नञ्च तत्सकरणज्ञापकम् । इतश्चेतः संमर्दवशात्सर्वासु निष्पतन्तीनां स्खलन्तीनाम्, स्कन्धेषु अंसस्थलेषु अवसक्तानि न्यस्तानि चामराणि वालव्यजनानि यासां तासां चामरग्राहिणीनां योषिताम्, कमलमधुपानेन पद्मरसास्वादनेन मत्ताः क्षीवा ये जरन्तो वृद्धाः कलहंसाः कादम्बास्तेषां नादः कण्ठध्वनिस्तद्वद् जर्जरितेन सम्भित्नेन पृथक् पृथक् श्रूयमाणेनेत्यर्थः । लुप्तोपमा । पदे पदे प्रतिपदं रणिताः शब्दायमाना मणयो वैदूर्यादयो येषु तथाविधानां मणिनूपुराणां पादकटकानां निनादेन तदुत्पन्नशब्देन 'शब्दे निनादनिनद' इत्यमरः ।
वारेति । सञ्चरतो गच्छतः वारविलासिनीजनस्य गणिकाजनस्य 'वारस्त्री गणिका वेश्या' इत्यमरः, जघनस्थलानां कटिपुरोभागानाम् आस्फालनेन नितान्तसञ्चालनेन रमिता शब्दिता रत्नमालिका मणिमाला यासामेवंविधानां मेखलानां काञ्चीनां मनोहारिणा चित्ताकर्षणेन झङ्कारेण झन-झनशब्देन ।
उनके कंधों से उड़ती हुई केशर और सुगन्धित चूर्णों की धूल से सभी दिशाएँ पीली-पीली सी हो उठीं उनके मस्तकों पर चमेली के फूलों से बने हिलते हुए मुकुटों से भौरों के झुण्ड बिखरने लगे, उनके कानों में आधे लटके हुए कमल हिलने के कारण उनके कपोलों को चूमने से लगे तथा प्रस्थानकालीन प्रणाम की आपसी लाग-डाँट के कारण उनके वक्षःस्थलों के हार व्यस्त से हो उठे ।
उस समय वह सभा-भवन तरह-तरह की होनेवाली ध्वनियों से व्याकुल सा हो उठा—कहीं कंधे पर चँवर लिए चँवर डुलानेवाली स्त्रियाँ इधर-उधर फुदक रही थीं जिससे पग-पग पर उनके मनिनूपुरों की मणियों कमल रस पीकर मतवाले वृद्ध हंसों के मधुर कलरव के समान झनझना रही थीं, कहीं चलती हुई वेश्याओं के जघन-स्थलों पर टकरा-टकरा कर उनकी करधनियों की रत्नावलियाँ मनोहर झंकार कर रही थीं,
१. पाटितांशुकपटानाम् , पाटितांशुकानाम् । २. मालतीकण्ठदाम्नाम् । ३. स्थलोल्लासित । ४. धूलिपटलपिञ्जरितदिशाम्, धूलिपिञ्जरितदिशाम् । ५. मालतीपुष्प । ६. प्रसरणसदालालसानाम् । ७. आसीत् सम्भ्रमः, अतिमहान् संम्भ्रमः । ८. स्कन्धदेशावसक्त... । ९. ' 'मदमत्त' ' । १०. जर्जेरण । ११. जघनस्थलस्फलास्फालन... । १२. मणिमेखलानां ।
६ का० कथा०
| ४२ | कादम्बरी- | [ कथामुखे- |
|---|
झङ्कारेण, नूपुररवाकृष्टानाञ्च धवलितास्थानमण्डप-सोपानफलकानां भवनदीर्घिकाकलहंसकानां कोलाहलेन, रशनारसितोत्सुकानाञ्च तारतर-विराविणामुल्लिख्यमान-काँस्य-केङ्कार-दीर्घेण गृहसारसानां कूजितेन, सरभसप्रचलित-सामन्तशतचरणतलाभिहतस्य चास्थानमण्डपस्य निर्घोषगम्भीरेण कम्पयतेव वसुमतीं ध्वनिनां, प्रतिहारिणाञ्च पुरः ससम्भ्रममुत्सारितजनानां दण्डिनां समारब्धहेलमुच्चैरुच्चारयतामालोकयतालोकयतेति तारतरै-र्दीर्घेण भवनप्रासाद-कुञ्जेषूच्चरित-प्रतिशब्दतया दीर्घतरतामुपगतेनालोकशब्देन, राज्ञाञ्च ससम्भ्रमावर्जित-मौलि-लोल-चूडामणीनां प्रणमताममल-मणिशलाकादन्तुराभिः किरीट-कोटि-
नूपुरेति । नूपुररवैः पादकटकशब्दैः आकृष्टानां तत्र प्रापितानाम् धवलितानि निजनिजदेहप्रभाभिः श्वेतवर्णीकृतानि आस्थानमण्डपस्य सभामवनस्य सोपानफलकानि आरोहणफलको यैस्तेषां भवनदीर्घिकाकलहंसकानां गृहवापीस्थकादम्बानां कोलाहलेन अव्यक्तशब्देन ।
रशनेति । रशनानां कटिमेखलानां रसितैः शब्दितैः उत्सुकानाम् उत्कण्ठितानाम्, तारतरः अत्युच्चैस्तरः विरावः शब्दोऽस्ति येषां तेषाम् उल्लिख्यमानस्य घर्षणं प्राप्स्य कांस्यस्य विष्टुप्रियस्य तैजसविशेषस्येति यावत्, केङ्कारः 'कें' 'कें' इत्यस्फुटध्वनिस्तद्वद् दीर्घेण विस्तृतेन, गृहसारसानां सङ्ग्रहरूपमृगपक्षिणां कूजितेन अस्फुटशब्दितेन, कूजितं स्याद्विहङ्गानाम्' इत्यमरः। इह 'केङ्कारदीर्घेण' इत्यत्र लुप्तोपमा ।
सरभसेति । सरभसं सवेगं प्रचालिताः गन्तुमुद्यता ये सामन्ता अधिकृतराजानस्तेषां शतं तस्य चरणतलैः पादतलेः अनिहतस्य ताडितस्य आस्थानमण्डपस्य सभामवनस्य निर्घोषोऽव्यक्तशब्दस्तद्वद् गम्भीरेण पुष्टशब्देन तद्वत्पुष्टध्वनिनेत्यर्थः, वसुमतीं मेदिनीं कम्पयतेव क्षोभं जनयतेव । इह 'निर्घोषगम्भीरेण' इत्यत्र लुप्तोपमा, 'कम्पयतेव' इत्यत्र वाच्यक्रियोत्प्रेक्षा चानयोरङ्गाङ्गिभावेन सङ्करालङ्कारः।
प्रतीहारेति । दण्डोऽस्त्येषां दण्डिनस्तेषां यष्टिग्राहिणामित्यर्थः, पुरो ऽग्रप्रतः ससम्भ्रमं शीघ्रं समुत्सारिता दूरीकृता जना मनुष्या यैस्तेषाम्, समारब्धा प्रवर्तिता हेला क्रीडा यस्मिन् कर्मणि तद्यथा स्यात्तथा 'आलोकयत पृथ्दीपतिरयं गच्छतीति पश्यत' इत्युच्चैः उच्चारयताम् अभिभाषमाणानां मार्गावरोधिजनसावधानतानिमित्तमुच्चस्वरेण मापज्ञापयित्याशयः। प्रतीहारिणां द्वारपालकानाञ्च तारतरः शिरः समुत्पन्नध्वनिस्तेन दीर्घेण अतिविस्तृतेन, भवनस्य साधारणगृहस्य प्रासादानां देवसद्मनां राजसद्मनाञ्च कुञ्जेषु लताद्यन्तरितस्थानेषु उच्चरित उत्थितः प्रतिशब्दो यस्य तस्य भावस्तया दीर्घतरताम् अत्यन्तविस्तृतत्वम् उपगतेन प्राप्तेन, आलोकशब्देन जयकारनादेन ।
राज्ञाञ्चेति । संसम्भ्रमं शीघ्रम् आवर्जितेषु नमस्कारायावनमितेषु मौलिषु शिरस्सु लोलाः शिरःकम्पनेन चञ्चलाः चूडामणयः शिरोरत्नानि येषां तेषाम्, प्रणमतां शूद्रकाय नतिं विदधतां राज्ञाञ्च अमला निर्मला या मणिशलाका रत्नपक्षीकास्ताभिः दन्तुरा विषमास्ताभिः किरीटकोटिभिः मुकुटाग्रदेशैः उल्लिख्यमानस्य घर्षणं कुर्वतो मणिकुट्टिमस्य रत्नमयबद्धभूमेः निस्वनेन ध्वनिना ।
कहीं घर की बावलियों में पले हुए हंस नूपुरों की झंकारों से अत्यन्त उत्सुक हो सभा मण्डप की सोढ़ियों तक आकर अपनी उज्ज्वलता से उनको फर्श की धवल बनाते हुए कोलाहल कर रहे थे, कहीं घरों में पले हुए सारस करधनियों की मधुर ध्वनियों से चकित हो होकर उच्च स्वर से कें कें मचाते हुए ये मानों कोई कसेरा फूल के बर्तनों को खराद पर चढ़ाये हो, कहीं झटके से चलनेवाले सैकड़ों सामन्तों के पैरों की धमक से सभामण्डप की भूमि कँपा देनेवाली वज्र जैसी गम्भीर ध्वनि हो रही थी, कहीं दण्ड-धारी द्वारपाल अपने-अपने राजाओं के सामने से लोगों को बड़े सन्मान के साथ हटाते तथा विदाड़-सा करते हुए अत्यन्त ऊँचे स्वर से 'देखिए, देखिए' का शब्द कर रहे थे, जिससे राजमहलों को कुञ्जों से उठनेवाली उनकी अत्यन्त तीखी प्रतिध्वनियों द्वारा चारों ओर फैली हुई 'देखिए, देखिए' की ही अत्यन्त तीव्र ध्वनि सुनायी पड़ रही
१. उत्सुकितानाञ्च । २. ०काङ्क्षी । ३. निर्घातगम्भीरेण, निर्घातानिर्घोषगम्भीरेण । ४. क्वचिद 'ध्वनिना' इति पाठो न विद्यते । ५. प्रतीहाराणां, ससम्भ्रन्तानां, ००बान्धवानां । ६. ०कैङ्कारदाना-ओकरन्दितैः । ७. तारदीर्घेण । ८. प्रतिशब्दतया । ९. दीर्घताम् दीर्घतरपाठाम् ।
सभाभङ्गवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । ४३
भिरुल्लिख्यमानस्य मणिकुट्टिमस्य निःस्वनेन, प्रणामपर्य्यस्तानामतिकठिनमणिकुट्टिम- निपतनैरणरणायितानाञ्च मणिकर्णपूराणां निनादेन, मङ्गलपाठकानाञ्च पुरोधायिनां जयै- जीवेति मङ्गलमधुरवचनानुयातेन पठतां दिगन्तव्यापिना कलकलेन, प्रचलित-जनचरण- शतसंक्षोभ-भयादपहाय कुसुमप्रकरमुत्पतताञ्च मधुलिहां हुङ्कृतेन, संक्षोभादतिस्वरितपदै- प्रवृत्तैरवनिपतिभिः केयूरकोटिताडितानां क्वणित-मुखर-रत्नदाम्नाञ्च मणिस्तम्भानां रणितेन सर्वतः क्षुभितमिव तदास्थानभवनमभवत् ।
अथ विसर्जितराजलोको'विश्रम्यता'मिति स्वयमेवाभिधाय तां चाण्डाल-कन्यकाम्, 'वैशम्पायनः प्रवेश्यतामभ्यन्तरम्' इति ताम्बूलकरङ्कवाहिनीमादिश्य कतिपयप्तराजपुत्रपरिवृतो नरपतिरभ्यन्तरं प्राविशन् ।
प्रणामेति । प्रणामे नतिसमये पर्यस्तानां स्खलितानाम्, अतिकठिने अतिकर्कशे मणिकुट्टिमे रत्नमय- बद्धभूमौ निपतनेन पातेन रणरणायितानां 'रण-रण' इति ध्वनिं विदधतां मणिकर्णपूराणां तेषां राज्ञा- मेकरत्नकर्णभूषणानां निनादेन निःस्वनेन । मङ्गलेति । पुरोधायिनाम् अग्रेगामिनां पठतां यशोगानमुच्चार- यतां मङ्गलपाठकानां वन्दिनाञ्च जयजीवेति यन्मङ्गलमधुरवचनं तमनुलक्षीकृत्य यातेन प्रवृत्तेन, दिगन्त- व्यापिना सर्वतः प्रसारिणा कलकलेन कोलाहलेन । प्रचलिवेति । प्रचलितानां गन्तुं प्रवृत्तानां जनानां मानवानां चरणशतस्य अनेकनरपादानामित्यर्थः, संक्षोभमयात् प्रहारभीतेः कुसुमप्रकरं पुष्पसमुदायं विहाय त्यक्त्वा उत्पतताम् उड्डीयमानानां मधुलिहां भ्रमराणां हुङ्कृतेन हुङ्कारशब्देन । संक्षोभादिति । संक्षोभात् चक्रवर्त्तिनः प्रणाय मनोवेगवशाद् अतिस्वरितपदेषु अत्यन्तशीघ्रचरणनिक्षेपेण, प्रवृत्तैः प्रचलितैः अवनिपतिभिः नृपतिभिः (कर्तृभिः) केयूराणाम् अङ्गदानां कोटयः अग्रभागास्तैः (करणैः) ताडितानाम् आहतानाम्, क्वणितेन तत्ताडनोत्थशब्देन मुखराणि वाचालानि-रणद्नामानि मणिरचित- वेष्टनशृङ्खला येषु तेषां मणिस्तम्भानां रत्नमयस्थूणानां रणितेन क्वणितेन च, तदास्थानभवनं नृपोपवेशन- मण्डपं सर्वतः परितः क्षुभितं क्षोभमुपगतमिव अभवद् अभूत् ।
अथेति । अथ अनन्तरम्, 'अथायो संशये स्यातामधिकारे च मङ्गले । विकल्पाऽनन्तरप्रश्नकात्स्न्यैरार- म्भसमुच्चये ।।' इति मेदिनी । 'मङ्गलादनन्तरारम्भप्रश्नकात्स्न्येष्वथो अथ ।' इति चामरः । विसर्जितो मधुर- शब्देन सम्भाष्य विसृष्टा राजलोका नृपतयो येन सा तादृशो नरपतिः शूद्रकः, स्वयमेव आत्मनैव तां चाण्डालकन्यकां विश्रम्यतां विश्रामं प्राप्यताम् इत्यभिधाय इत्युक्त्वा, वैशम्पायनः स शुकः अभ्यन्तरं भवनमध्यं प्रवेश्यतां नीयतामिति ताम्बूलकरङ्कवाहिनीं पर्णवीटिकाधारिणीं स्त्रियम् आदिश्य आज्ञाप्य,
थी, कहीं प्रणाम करने में झटके के साथ मस्तक झुकाये हुए चंचल चूड़ामणियों वाले सामन्त राजाओं के, निर्मल तथा मणि-गुच्छाकों से ऊँचे-नीचे मुकुटों के किनारों की टक्करों से मणियों की गच खनक रही थी, कहीं प्रणाम करने के समय पर इधर-उधर लटके हुए मणियों के कर्णफूल मणि से पटी हुई कठोर गच पर टकरा-टकराकर खनखना रहे थे, कहीं 'महाराज की जय हो, महाराज चिरंजीवी बनें, का मधुर स्वर से मंगल-पाठ करते हुए आगे- आगे चलनेवाले चरणों की कल-कल सभी दिशाओं को भरती हुई गूँज रही थी, कहीं आते जाते सैकड़ों मनुष्यों के पैरों द्वारा कुचल उठने के भय से फूलों को छोड़कर इधर-उधर बिखर जानेवाले भौरों की हुंकार हो रही थी और कहीं व्याकुल होकर अत्यन्त शीघ्रता के साथ चलनेवाले राजाओं के केयूरों की कोरों की चपेट से मणिखंभों में लटकती हुई रत्नों की लड़ियाँ झनझनाती हुई उनसे बार-बार टकरा रही थी जिससे वे मणियों के खम्भे भी खनक रहे थे ।
सभी सामन्तों को विदा करने के पश्चात् राजा ने स्वयं उस चांडाल-कन्या से विश्राम करने के लिए कहा और अपनी ताम्बूल करंकवाहिनी (पान का डब्बा लेकर राजा के साथ-साथ रहनेवाली दासी) को आदेश
१. स्वनेन । २. निनादित०...। ३. जयदवेति । ४. मधुरवचनानुपातेन मधुरवचनानुपातेन । ५. दिगन्तर०...। ६. संक्षोभादतिशय । ७. त्वरितपदं प्रवृत्तैः, त्वरितपदं प्रवृत्तेः ८. चण्डाल०...। ९. अभ्यन्तरं स्नानपानाशनादिना च वृत्तिनमनेनं कारयति, अभ्यन्तरमशनादिना चोपचर्य्यताम् । १०. करण्ड ।
४४ कादम्बरी- [कथामुखे-
अपनीताभरणश्च दिवसकर इव विगलितकिरणजालः चन्द्रतारकाशून्य इव गगनाभोगः समुपावृत-समुचित-व्यायामोपकरणां व्यायामभूमिमयासीत् । स तस्याञ्च समानवयोभिः सह राजपुत्रैः कृतमधुरव्यायामः, श्रमवशादुन्मिषन्तीभिः कपोलयोरीषदवलितं-सिन्दुवार-कुसुम-मञ्जरी-विभ्रमाभिः, उरसि निर्दयश्रमं-छिन्न-हार-विगलित-मुक्ताफल-प्रकारानुकारिणीभिः ललाटपट्टकेऽष्टमी-चन्द्र-शकल-तलोल्लसदसृतबिन्दु-विडम्बिनीभिः स्वेदजल-कणिकासन्ततिभिरलङ्क्रियमाणमूर्तिः, इतस्ततः स्नानोपकरण-
कतिपयैः कियद्भिरल्पसङ्ख्यकैरित्यर्थः, आप्तैः विश्वस्तैः राजपुत्रैः नृपसुतैः परिवृतः परिवेष्टितः सन् अभ्यन्तरं गृहमध्यं प्राविशत् प्रवेशं कृतवान् ।
अपनीतेति । अपनीतानि शरीरात् पृथक्कृतानि आभरणानि भूषणानि येन सः, अत एव विगलि-तानि सायङ्काले विच्युतानि किरणजालानि रश्मिसमूहाः यस्य स दिवसकरः सूर्य इव स्वभाप्रभाविरहा-दित्यशयः । तथा चन्द्रो निशापतिः तारका नक्षत्राणि तेषां समूहः समुदायस्तेन शून्यो रहितः, गगना-भोग इव आकाशविस्तर इव विस्तृतगगनवद् विशालशरीरत्वादित्याशयः । समुपावृतानि भृत्यैरैकी-कृतानि समुचितानि योग्यानि व्यायामे परिश्रमे उपकरणानि उपयोगिलौहमुद्गरादिद्रव्याणि यस्यां सा ताम्, व्यायामभूमिं परिश्रमविधानयोग्यपृथ्वीम् अयासीत् अगच्छत् । इह ‘दिवसकर इव’ ‘गगनाभोग इव’ इत्युभयत्रोपमालङ्कारयोः परस्परं नैरपेक्ष्येण संसृष्टिः । आधुनिका राजपुत्रास्तु केवलं स्वेच्छया विहरन्तः प्रचुरतरमशनं विधाय स्थूलदेहाः सन्तोऽहर्निशं निद्रयैव कालं यापयन्ति परन्तुयं राजा तादृशो नेति स्पष्टं वर्णतया प्रतीयते—
स इति । तस्यां व्यायामभूमौ समानं तुल्यं वयः कौमारादिर्येषां तैः राजपुत्रैः राजसुतैः सह कृतो विहितो मधुरः सुदृश्यो व्यायामः परिश्रमो येन स राजा स्नानभूमिमगच्छदित्य॒त्तरेण सम्बन्धः । अत्र स्वेदजलकणिकासन्ततिरिनि पदम्, अलङ्क्रियमाणमूर्तिरिति राजविशेषणस्य कर्तृ, एतद्विन्नानि तृतीयान्त-पदानि च तस्योपमानवाचकानीति वेदितव्यम् । श्रमवशात् व्यायामवशात् कपोलयोः गण्डयोःपरभागयोः उन्मिषन्तीभिः प्रकटं भवन्तीभिः, ईषदत्पमवदलं तन्मदितं यत् सिन्दुवारस्य निर्गुण्ड्याः कुसुमं पुष्पं तस्य मञ्जरी वल्लरी तस्या इव विभ्रमो विलासो यासां ताभिः । उरसि वक्षःस्थले निर्दयश्रमेण विकट-प्रयासेन अन्यैः कर्तुमशक्यव्यायामेनेति तात्पर्यम्, छिन्नः छेदमुपगतः यो हारो मुक्तामाला तस्माद् विगलितानां विच्युतानां मुक्ताफलानां मौक्तिकाना प्रकारं समुदायम् अनुकर्त्तु शीलं यासां ताभिः । ललाटपट्टके भालस्थले अष्टमीचन्द्रः अष्टमीतिथिसमुदितः सुधांशुरेव शकलं खण्डं तस्य तले उत्तानस्थले उल्लसन्तो द्योतमाना ये अमृतबिन्दवः पीयूषकणाः तान् विडम्बयितुम् अनुकर्तु शीलं यासां ताभिः । अष्टमीपदप्रयोगो हि अष्टमीतिथिसमुदितचन्द्रकार इवास्य ललाट इति व्यञ्जयितुम् । स्वेदजलस्य व्यायामजनितशरीरजलस्य कणिकाः सूक्ष्मबिन्दवः तेषां सन्ततयः श्रेणयः ताभिः तथोक्ताभिः अलङ्क्रिय-माणा भूष्यमाणा मूर्त्तिः शरीरं यस्य स तथाक्तः । इह ••••••‘कुसुममञ्जरीविभ्रमाभिः’ इत्यत्र लुप्तोपमा । •••‘मुक्ताफलप्रकारानुकारिणीभिः’ इत्यत्र••••••‘अमृतबिन्दुविडम्बिनीभिः’ इत्यत्र चार्थोपमा बोध्या ।
इतस्ततः इति । इतस्ततः समन्तात् स्नानम् आप्लवस्तस्य उपकरणानां जलादीनां सम्पादने,
दिया कि वैशम्पायन को रनिवास में ले जाओ। फिर कुछ विश्वस्त राजकुमारों के साथ वह स्वयं भी महल के भीतरी भाग में चला गया।
यहाँ अपने समस्त आभूषणों को उतार कर राजा व्यायाम के सभी समुचित साधनों से सजी हुई व्यायाम-शाला में पहुँचा। आभूषणों को उतर जाने पर उसका शरीर किरणों से रहित सूर्य तथा चन्द्रमा और तारों से रहित विशाल आकाश के समान प्रतीत हो रहा था।
उसने अपनी ही अवस्था वाले राजकुमारों के साथ वहाँ थोड़ा-सा व्यायाम किया। परिश्रम के कारण उसका सारा शरीर पसीने की नन्हीं-नन्हीं बूँदों की लड़ियों से तर हो गया। उसके कपोलों पर लगी हुई पसीनों की लड़ियाँ उनपर रची गयीं। कुछ-कुछ मसली हुई सिंदुवार (निर्गुण्डी) के फूलों की मंजरियों का,
१. अपनीताशेषभूषणश्च ।
२. •••अवगलित-सितसिन्दुवार••• ।
३. •••रतिश्रम, रतिविभ्रम••• ।
| शूद्रकस्नानवर्णनम् ] | चन्द्रकला-विद्योतिनीसहिता । | ४५ |
|---|
सम्पादनसत्वरेण पुरःप्रधावता परिजनेन तत्कालं विरलैजनेऽपि राजकुले समुत्सारणाधिकार- मुचितमाचरद्भिः दण्डिभिरुपदिश्यमानमार्गः, वितत-सितवितानाम्, अनेक-चारणगण-निबध्य- मानमण्डलाम्, गन्धोदक-पूर्ण-कनकमय-द्रोणी-सनाथमध्याम्, उपस्थापित-स्फाटिकस्नान- पीठाम्, एकान्तनिहितैरतिसुरभि-गन्ध-सलिलपूर्णैः परिमलावकृष्ट-मधुकर-कुलान्धकारितमुखै- रातपभयान्नीलकर्पटावगुण्ठितमुखैरिव स्नानकलशैरुपशोभितां स्नानभूमिमगमच्छ्रत् । अवतीर्णस्य च जलद्रोणीं वारविलासिनी-कर-मृदित-सुगन्धामलकलैः प्रशिरसो राज्ञः
निष्पादने सत्वरेण त्वरायुतेन, अत एव पुरःप्रधावता अग्रतः शीघ्रं व्रजता परिजनेन सेवकपुरुषेण, एतच्च 'उपदिश्यमाना' इत्यस्य कर्तृ । तथा तत्कालं तस्मिन् मध्याह्नकाल इत्यर्थः, विरलजनेऽपि स्वल्पलोकेऽपि तत्र समुत्सारणस्य प्रयोजनाभावेऽपीत्याशयः, राजकुले राजगृहे उचितं योग्यं समु-त्सारणं लोकसम्मर्दनिवारणं तत्र यः अधिकारो नियोगः तम् आचरद्भिः सम्पादयद्भिः दण्डिभिः यष्टिधारिपुरुषैः, उपदिश्यमानः प्रदर्श्यमानः मार्गः स्नानभूमिगमनपन्था यस्य स तादृशः एतच्च राजविशेषणं बोध्यम् ।
विततेति । अत्र द्वितीयान्तपदानि स्नानभूमेर्विशेषणानि । विततम् ऊर्ध्वं विस्तीर्णं सितं श्वेतं वितानम् उल्लोचः चन्द्रोप इति यावत् यस्यां ताम् । अनेके अगणिता ये चारणगणाः कुशीलवाः स्तुतिपाठकाः तैः निबध्यमानं निर्मियमाणं मण्डलं मण्डलाकारेणावस्थितिः यस्यां तां तादृशीम् । गन्धोदकैः सुरभिजलैः पूर्णा भृता या कनकमयी सुवर्णरचिता द्रोणी जलकुण्डिका बृहज्जलपात्रविशेष इति तात्पर्यम्, तया सनाथो युक्तः मध्यो मध्यभागो यस्याः ताम् । उपस्थापितं न्यस्तं स्फाटिकं स्फटिकमणिरचितं स्नानपीठम् आप्लवनचतुरिका यस्यां सा तां तादृशीम् । एकान्ते स्नानभूमेरेकस्मिन् प्रदेशे निहितैः न्यस्तैः । इतस्तृतीयान्तानि सकलानि स्नानकलशैरित्यस्य विशेषणानि । अति अतिशयेन सुरभिः घ्राणतृप्तिजनको गन्धो येषां तादृशैः सलिलैः जलैः पूर्णा भृतास्तैस्तथोक्तैः, अत एव परिमलेन सलिलगन्धेन अवकृष्टा आकृष्टा ये मधुकरा मधुपः तेषां कुलानि समूहाः तैः अन्धकारितानि अन्धकारीकृतानि मुखानि वदनानि येषां तैः, अत एव आतपभयाद् सूर्यकिरणसन्तापत्रासात् नीलकर्पटैः श्यामवर्णवस्त्रखण्डैः अवगुण्ठितानि आच्छादितानि मुखानि येषां तैस्तथोक्तैरिव विद्यमानैः । स्नानकलशैः आप्लवकुम्भैः उपशोभितां विराजितां स्नानभूमिम् आप्लवस्थानम् अगच्छत् अयासीत् । इत च भावाभिमानिनी वाच्या क्रियोत्प्रेक्षा ।
अवतीर्णेति । जलद्रोणीं जलकुण्डिकाम् अवतीर्णस्य तन्मध्ये प्रविष्टस्य, वारविलासिनीभिः वेश्याभिः करैः हस्तैः 'वलिहस्तांशवः कराः' इत्यमरः, सृद्धितेन मृष्टेन सुगन्धेन सुरभिणा आमलकेन धात्री-
श्रम उत्पन्न कर रही थीं, छाती पर दिखाई पड़ने वाली बूँदें कठोर परिश्रम से टूटे हुये हार के बिखरे हुये मोतियों के दानों जैसी प्रतीत हो रही थीं और ललाट के तल पर उभरे हुये घम-बिन्दु अष्टमी के खण्ड चन्द्र-तल पर सुशोभित अमृत-बिन्दुओं को भी मात कर रहे थे । फिर वह स्नान की सामग्री जुटाने की हड़बड़ी में इधर-उधर आगे-आगे दौड़-धूप करते हुये सेवकों तथा उस समय राजमहल के भीड़-भाड़ रहित होने पर भी लोगों के हटाने के नियम का भली-भाँति पालन करने वाले दण्डधारियों के द्वारा बताये हुये मार्ग से स्नानागार में पहुँचा । वहाँ श्वेत चंदोवा तना हुआ था, चारणों की टोलियाँ मण्डल बाँधे खड़ी थीं, बीच से सुगन्धित जल से भरी हुई द्रोणी (जल-कुण्डिका छोटा-सा जल का कुण्ड) बनी थी, उसके समीप ही स्नान के समय बैठने के लिये बिल्लौरी पीढ़ा रखा हुआ था जिसके एक किनारे अत्यन्त सुगन्धित जल से भरे हुये स्नान करने के कलशे रखे हुये थे, जिनके मुख सुगन्ध के कारण आये हुये भौरों से घिर कर काले पड़ गये थे मानो धूप के गरम हो जाने के भय से उनपर काले कपड़े लपेट दिये गये हों ।
जब राजा जल की कुण्डिका में उतर गया तो वारवनितानों ने अपने हाथों से मल-मल कर उसके सिर पर सुगन्धित आंवलो का लेप किया । फिर उनमें से बहुत-सी राजा के अगल-बगल खड़ी हो गयीं ।
१. प्रधावता । २. परिजनेनानुगम्यमानः । ३. विरलत्वेऽपि । ४. समाचरद्भिः । ५. आवद्ध्यमान-मण्डलम् । ६. बद्धद्रोणी । ७. अभिद्भरभि । ८. कटशैः । ९. क्वचित् । चकारो न विद्यते । १०. उपक्षित् ।
४६ कादम्बरी- [ कथामुखे-
समन्तात् समुपतस्थुरंशुका-निबिड-निबद्ध-स्तनपरिकराः, दूरसमुत्सारित-वलय-बाहुलताः, समुत्क्षिप्तकर्णाभरणाः कर्णोत्सङ्गोत्सारितालकाः, गृहीतजल-कलसाः स्नानार्थमभिषेकदेवता इव वारयोषितः। ताभिश्च समुन्नत-कुचकुम्भ-मण्डलाभिर्वारिमध्यप्रविष्ट-करिणीभिरिव वनकरी परिवृत-स्तत्क्षणं रराज राजा। द्रोणीसलिलादुत्थाय च स्नानपीठममलस्फटिक-धवलं वरुण इव राजहंसमारुरोह। ततस्ताः काश्चिन्मरकतमणि-कलस-प्रभाश्यामायमाना नलिन्य इव मूर्त्तिमत्यः पत्रपुटैः,
फलेन लिप्तं शिरो मस्तकं यस्य तस्य, राज्ञः शूद्रकस्य समन्तात् परितः। अंशुकैः निजनिजपरिहितवस्त्रैः निबिडं दृढं यथा स्यात्तथा निबद्धा दृढभारलघूकरणाय आस्फालनावरोधाय वा संयताः स्तनपरिकराः कुचाभोगा याभिस्तास्तथोक्ताः। एवम्भूतानि प्रथमान्तानि 'वारयोषितः' इत्यस्य विशेषणानि। दूरे ऊर्ध्व-प्रदेशे समुत्सारितानि झणत्कारादिविघ्नदूरीकरणार्थम् उत्तोलितानि वलयानि कङ्कणानि यासु ताः तथोक्ता बाहुलता यासां ताः तथोक्ताः। समुत्क्षिप्तानि लोचनकपोलॊपरिपातननिवारणार्थम् ऊर्ध्वमुत्क्षिप्य बद्धानि कर्णाभरणानि श्रवणालङ्कारा याभिस्ताः तथोक्ताः। कर्णोत्सङ्गात् श्रोत्रान्तिकात् उत्सारिता लोचनोपरि-पतननिवारणाय अपसार्य उपरिन्यस्ता अलकाः चूर्णकुन्तला याभिस्ताः। गृहीता आत्ता जलकलसाः सलिलपूर्णघटा याभिस्ताः। अभिषेकदेवताः स्नानाधिष्ठात्र्यो देव्य इव स्नानार्थं राज्ञः आप्लवविधानार्थं समुपतस्थुः सम्यक्प्रकारेण उपस्थिता आसन्। इह वाच्या जात्युत्प्रेक्षा स्वभावोक्तिश्च अनयोरङ्गाङ्गिभावेन सङ्करालङ्कारः।
ताभिश्चेति। वारिमध्ये जलद्रोणीमध्ये प्रविष्टः कृतप्रवेशो राजा शूद्रकः समुन्नतम् अत्यन्तोच्चं कुच-कुम्भमण्डलं स्तनकलससमूहो यासां ताभिः, तादृशीभिः वारयोषिद्भिः, करिणीभिः हस्तिनीभिः परिवृतः परिवेष्टितः वनकरी वन्यहस्तीव तत्क्षणं तस्मिन् काले रराज शुशुभे। तथा च यथा हस्तिनीभिः समं मज्जनं कुर्वन् वनकरी शोभते तथैवायमपीत्यर्थः। एवं सति कालभेदेऽपि 'काऽप्यनिस्या तयोरासीद् मजतोः शूद्र-वेशयोः' इत्यादिवदुपमागतभग्नप्रक्रमत्वदोष इत्यवधेयम्। इहालङ्कारश्चोपमा।
द्रोणीसलिलेति। ततो द्रोणीसलिलात् जलकुण्डिकास्थानात् उत्थाय बहिर्निगत्य अमलो मलरहितो यः स्फटिकस्तदाख्यो मणिविशेषः तद्वद् धवलं स्वच्छं स्नानपीठम् आप्लवनचतुष्किकां वरुणः प्रचेताः राजहंसं कलहंसमिव आरुरोह आरूढवान्, वरुणो यथा राजहंसमारोहति तथैवायमप्यारुरोहेत्यर्थः। एवं सति कालभेदे सत्यप्यत्र पूर्ववद् भग्नप्रक्रमतादोषः।
तत इति। ततः आरोहणानन्तरं ता वाराङ्गना राजानम् अभिषिषिचुरित्यग्रिमेण सम्बन्धः। वाराङ्गना एव विविधप्रकारेण विशेषयति-काश्चिदित्यादिना। काश्चित् काश्चन मरकतमणिनिर्मितो यः कलसो घटस्तस्य प्रभया दीप्या श्यामायमानाः अश्यामा अपि श्यामवदाचरन्त्यः, अतएव पत्रपुटैः पर्ण-सम्पुटैः मूर्त्तिमत्यः श्यामत्वसाम्यात्तत्स्वरूपधारिण्यो नलिन्यः पद्मिन्य इव (दृश्यमानाः सत्यः) राजानं
उन्होंने अपनी छातियों को रेशमी वस्त्रों से कसकर बाँध लिया था और कंकणों को दूर तक बांहों पर तथा कानों में लटकते आभूषणों एवं कपोलों पर झूलते हुये बालों को हटाकर कानों पर चढ़ा लिया था। वह अपने हाथों में जलकलशों को लिये हुये ऐसी प्रतीत हो रही थीं मानो राजा को स्नान कराने के लिये स्वयं अभिषेकदेवियाँ ही आ गई हों।
उस समय जल में स्थित राजा कलशों के समान गोल-मटोल बैठे हुये स्तनों वाली वारवनितानों के बीच इस प्रकार सुशोभित हो रहा था मानों जल में घुसा हुआ हथिनियों के बीच कोई जंगली हाथी हो। इसके बाद वह जलकुण्डिका के जल से निकल कर अत्यन्त निर्मल श्वेत बिल्लौरी पीढ़े पर जा बैठा मानो श्वेत राजहंस पर स्वयं वरुणदेव ही आकर बैठे हों।
इसके पश्चात् उनमें से अनेकों मरकतमणि के बने कलशों से राजा को स्नान कराने लगीं। उस समय उन घड़ों की नीली-नीली छाई से साँवली-सी दिखाई पड़ने वाली वे वनितायें उसे नहलाती हुई ऐसी लग रही थीं
१. परितः। २. सवृतस्थुः। ३. अंशुकविनिबद्ध"**। ४. 'चरणाभरणाः। ५. जलद्रोणि । ६. काश्चन । ७. मरकतकलश"।
शूद्रकस्नानवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । ४७
काश्चिद्रजतकलसहस्ता रजन्य इव पूर्णचन्द्रमण्डलविनिर्गतेन ज्योत्स्नाप्रवाहेन, काश्चित् कलमोत्क्षेप-श्रम-स्वेदार्द्र-शरीरा जलदेवता इव स्फाटिकैः कलसैस्तीर्थजलेन, काश्चिन्मलय-सरित इव चन्दनरसमिश्रेण सलिलेन, काश्चिदुत्क्षिप्त-कलस-पार्श्व-विन्यस्त-हस्तपल्लवाः प्रकीर्य्यमाण नख-मयूख-जालकाः प्रत्यङ्गुलि-विवर-विनिर्गत-जलधाराः सलिलयन्त्रदेवता इव, काश्चिज्जाड्यमपनेतुमाश्रित-बालातपेनेव दिवसश्रिय इव कनककलसहस्ताः कुङ्कुमजलेन वाराङ्गनाः यथायथं^२ राजानमभिषिषिचुः ।
शूद्रकम् अभिषिषिचुः अभिषेकं कारयामासुः । इह नलिनीवाराङ्गनानां मरकतकलशपत्रपुटानाञ्च कृष्ण-वर्णत्वात् सादृश्यम् । वाराङ्गनासु नलिनीत्वजात्युत्प्रेक्षणादुत्प्रेक्षा व्यङ्गतोपमा च, अनयोरङ्गाङ्गिभावेन सङ्करालङ्कारः ।
काश्चिदिति । काश्चन अन्या वारयोषितो रजतकलसः रूप्यनिर्मितघटः हस्ते करे यासां तास्तथोक्ताः, पूर्णचन्द्रमण्डलात् समस्तशशिबिम्बात् विनिर्गतेन निःसृतेन ज्योत्स्नाप्रवाहेन चन्द्रिकारयेण शोभमाना रजन्यः क्षपा इव । रजनीभिर्वाङ्गनानाम्, पूर्णचन्द्रेण रजतकलसस्य ज्योत्स्नाप्रवाहेन तत्स्थसलिलस्य सादृश्यमत्राभिमतं वेदितव्यम् । इह वाराङ्गनासु रजनीत्वजात्युत्प्रेक्षणाज्जात्युत्प्रेक्षा ।
काश्चिदिति । अन्याः काश्चन कलसस्य घटस्य उत्क्षेपणात् ऊर्ध्वमुत्थापनाद् यः श्रमः आयासस्तेन ये स्वेदा घर्मसलिलानि तैराद्रीणि स्विन्नानि शरीराणि वपूंषि यासां ताः, स्फाटिकैः तदाख्यमणिविशेष-सम्बन्धिभिः कलसैः कुम्भैः तीर्थजलेन तीर्थपयसा च सहिताः, अत एव जलदेवता जलाधिष्ठात्र्य इव, तासामपि मलिलाभिसरणेन सलिलबिन्दुश्यामदेहत्वात् सादृश्यम् । इहापि वाराङ्गनासु जलदेवतात्व-जात्युत्प्रेक्षणाज्जात्युत्प्रेक्षा ।
काश्चिदिति । काश्चन अन्या वाराङ्गनाः चन्दनस्य मलयजस्य रसेन द्रवेण मिश्रं संयुक्तं तेन तथो-क्तेन, सलिलेन पयसा मलयसरितः मलयाचलनाद्य इव ता अपि चन्दनमिश्रजलान्यादधते । तस्मिन् समये मलयसरित्सु स्नानासम्भवेन तदारोपणादुत्प्रेक्षा ।
काश्चिदिति । अन्याः काश्चन उत्क्षिप्ता उत्क्षेप कृतं नीता ये कलसाः कुम्भास्तेषां पार्श्वेषु वाम-दक्षिणेषु विन्यस्ता उत्तानभावेन स्थापिता हस्तपल्लवाः करकिसलयानि याभिस्ताः, 'पल्लवोऽस्त्री किसल-यम्' इत्यमरः, प्रकीर्य्यमाणानि इतस्ततो विपर्य्यस्तानि नखानां पुनर्भावानां मयूखजालानि दीप्तिचया यासां ताः, तथा प्रत्यङ्गुलि प्रतिहस्तशाखं यानि विवराणि अन्तरालप्रदेशाः छिद्राणि इति यावत्, तेभ्यो विनि-र्गता निःसृता जलधारा पानीयसम्पातो यासां ताः, अत एव सलिलयन्त्रदेवता जलतन्त्राधिष्ठातृदेव्य इव ता अप्येतादृश्यो भवन्तीत्यर्थः । इहापि तथाविधगणिकासु सलिलयन्त्रदेवतात्वजात्युत्प्रेक्षणाज्जात्युत्प्रेक्षा ।
काश्चिदिति । काश्चन अन्याः कनककलसाः सुवर्णकुम्भा हस्तेषु पाणिषु यासां ताः काश्चिद्वाराङ्गनाः दिवसश्रिय इव दिनलक्ष्म्य इव जाड्यं जलीयशैत्यम् अपनेतुं पृथक्कर्त्तुं आश्रित आकर्षितो बालातपः अभिनवोदितसूर्य्यरश्मिः यस्मिन् तेनेव कुङ्कुमजलेन केसरमिश्रितसलिलेन यथायथं यथायोग्यं राजानं
मानों नीली-नीली कमलिनियाँ अपने पत्तों के पुटों से राजा को नहला रही हों । कोई-कोई चाँदी के घड़ों से जल को डालते हुए राजा को नहलाती हुई ऐसी प्रतीत हो रही थीं मानों पूर्णिमा की रातें चन्द्रमण्डलों से ढुलती हुई चाँदनी की धाराओं से उसे स्नान करा रही हों । कोई-कोई घड़ों को उठाने के परिश्रम से पसीने में लथ-पथ होकर बिल्लौरी कलशों से उसे स्नान कराती हुई ऐसी प्रतीत होती थीं, मानो तीर्थ जल से भरे कलशों द्वारा जल-देवियाँ स्नान करा रही हों । कोई-कोई चन्दन के रस से सुगन्धित जल-धारों से उसे स्नान कराती हुई ऐसी लगती थीं मानो मल्याचल से निकली हुई तथा चन्दन के रस से भरी हुई नदियाँ अपनी धाराओं से स्नान करा रही हों । कोई-कोई कलशों के दोनों ओर पल्लवों जैसी हथेलियाँ लगाए उन्हें सिर पर रखे हुए खड़ी थीं । उनके नखों की किरणें चारों ओर फैल रही थीं और उनकी उँगलियों के बीच से जल की धारें बह रही थीं जिससे वे ऐसी प्रतीत हो रही थीं मानों सिर पर घड़ा उठाए फौवारों में बनी हुई पुतलियाँ हों । कोई शीतलता दूर करने के लिए सोने के कलशों से कुंकुम मिला हुआ जल छिड़कती हुई ऐसी प्रतीत हो रही थीं मानो दिन की शोभा प्रातःकालीन मधुर धूप बिखेर रही हो । इस प्रकार क्रम-क्रम से उन वारवनिताभों ने राजा को स्नान कराया ।
१. ॰॰॰श्वविनिर्गत॰॰॰ । २. क्रमेण ।
४८ कादम्बरी- [ कथामुखे-
अनन्तरमुदपादि च स्फोटयन्निव श्रुतिपथमनेक-प्रहत-पटु-पटह-झल्लरी-मृदङ्ग-वेणु-वीणा-गीत-निनादानुगम्यमानो वन्दिवृन्द-कोलाहलाकुलो भुवन-विवरव्यापी स्नानशङ्खाना-मापूर्य्यमाणानामतिमुखरो ध्वनिः।
एवञ्च क्रमेण निर्वर्त्तिताभिषेको विषधरनिर्मोक-परिलघुनी धवले परिधाय धौत वाससी शरदम्बरैकदेश इव जलक्षालन-निर्मलतनुः अनघवत्त-जलधर-च्छेद-शुचिना दुकूलपट्टपल्लवेन तुहिनगिरिरिव गगनसरित्स्रोतसा कृत-शिरोवेष्टनः सम्पादित-पितृजल-क्रियो मन्त्रपूतेन तोयाञ्जलिन दिवसकरमभिप्रणम्य देवगृहमगमन् ।
शूद्रकम् अभिषिषिचुः स्नानं कारयामासुः। इह 'दिवमश्रिय' इति जात्युत्प्रेक्षा, 'आक्षिप्तदालातपेनेव' इति क्रियोत्प्रेक्षा, अनयोर्ब्राह्माङ्गिभावात्सङ्करालङ्कारः।
अनन्तरमिति। अनन्तरं स्नानानन्तरं स्नानशङ्खानां ध्वनिः उदपादीत्सम्बन्धः। धुनिरयं कर्णविवरं स्फोटयन् द्विधा कुर्वन्निव, अनेकैः पुरुषैः प्रहता वादिताः पटवः वाद्यविधाने मनर्याः पटहाः दुन्दुभयः झल्लर्यो वाद्यविशेषाः (भाषायां 'झाल' इति पदवाच्याः), मृदङ्गा मुरजाः, वेणवो वंश्यः, वीणा वल्लक्यः तासां गीतानां गानानाञ्च निनादैः ध्वनिभिः अनुगम्यमानः तमनुलक्षीकृत्य प्रवर्त्तमानः, वन्दिवृन्दस्य वैतालिकसमूहस्य कोलाहलेन कलकलेन लाकुलो व्याप्नो स्वतः एव भुवनविवरव्यापी विष्टपान्तराल-प्रसारी, अतिमुखरः अतिशयेन तारतरम्, आपूर्य्यमाणानां मुखवायुभिः वाद्यमानानां स्नानशङ्खानाम् आप्लवकालवादनीयशङ्खानां ध्वनिः शब्द उदपादि उत्पत्नोऽभूत्, 'पद गतौ' लस्मल्लुङिरूपम् । इह भुवनविवरव्यापनसम्बन्धाभावेऽपि तत्सम्बन्धोक्त्यातिशयोक्तिरलङ्कारः, 'स्फोटयन्निवे' ति क्रियोत्प्रेक्षा च, अनयोश्च परस्परं नैरपेक्ष्येण संसृष्टिरलङ्कारः। 'नियोऽनदेव्यमेतेषां स्थितिः संसृष्टिरुच्यते' इति लक्षणात् ।
एवञ्चेति । यो निष्क्रमे तस्य च विजेप्यर्थः । एवं पूर्वोक्तप्रकारेण क्रमेण परिपाट्या निर्वर्त्तितः कृतः अभिषेकः स्नानं येन स तादृशो राजा देवगृहमगमदिति . वक्ष्यमाणक्रियया सम्बन्धः । विषधराः सर्पास्तेषां निर्मोकः कञ्चुकः तद्वत् परिलघुनी अत्यन्तसूक्ष्मे धवले स्वच्छे धौतवाससी प्रक्षालितवसने परिधाय परिधानं विधाय, देवपूजानिमित्तं वस्त्रद्वयधारणावश्यकतानाह आह्निकसूत्रावल्याम्-
'होमदेवार्चनाद्यासु क्रियासु पठने तथा। नैकवस्त्रः प्रवर्तेत यत्नतः सर्वथा बुधः॥'
शरदि वर्षात्यये अम्बरैकदेश इव आकाशैकभाग इव जलक्षालनेन अभिषेचनीयसलिलद्वारा प्रक्षा-लनेन वर्षासलिलद्वारा प्रक्षालनेन च निर्मला अपगतमला तनुः शरीरं यस्य स तादृशः, अतिधवलः अतीव स्वच्छो यो जलधरच्छेदः मेघखण्डः तद्वत् शुचिना धवलेन दुकूलपट्टस्य क्षौमवसनस्य पल्लवेन विस्तरेण अतिदीर्घक्षौमवसनेनेत्यर्थः, 'पल्लवो विस्तरे विटपे किसले विटपे वने' इति त्रि० शेषः । गगन-सरित् आकाशगङ्गा तस्याः स्रोतसा प्रवाहेण तुहिनगिरिः हिमाचल इव कृतः विहितः शिरोवेष्टनम् उष्णीषो येन स तादृशः। होमार्थमुष्णीषधारणमाह-
'उष्णीषेण विना राजन् ! होमं चेत्कुरुते नरः। होतुरुद्धर्विनाशः स्याद्धोता च विकलो भवेत् ॥' इति ।
सम्पादिता निष्पादिता पितृजलक्रिया पितृतर्पणादिर्येन स तादृशः, तथा च-'स्नात्वा सन्तर्पयेद्
उसी समय साथ ही बजाए गए अनेक नगाड़ों, झाँझों, मृदङ्गों, वेणुओं और वीणाओं की ध्वनियों तथा मंगल गीतों के स्वरों एवं चारणों के कोलाहल से गूँजती हुई सभी लोकों में छा जानेवाली कानों को फोड़ती हुई सी शंख की अत्यन्त तीखी ध्वनि होने लगी, जो स्नान समाप्त होने की सूचना दे रही थी।
इसी रीति से स्नान कर चुकने के बाद जल से धुला हुआ उसका निर्मल शरीर शरत्कालीन स्वच्छ आकाश के एक टुकड़े के समान झलकाने लगा। उसने साँप की केंचुली के समान अत्यन्त झीने तथा उजले दो वस्त्र पहिन लिये और अत्यन्त उजले बादलों की तहों के समान श्वेत रेशमी पगड़ी अपने सिर पर लपेट ली। उस समय वह ऐसा सुशोभित होने लगा मानो अपनी चोटी पर आकाशगंगा की धाराओं को लपेटे हुए हिमाचल पहाड़ हो। इसके बाद उसने पितरों को तर्पण (जल-दान) किया और अँजुली में जल लेकर मंत्रों से ऋषिमन्त्रित करके भगवान् सूर्य को अर्घ्य दिया। फिर उन्हें नमस्कार करके वह मंदिर में चला गया।
१. ०स्फोटयन्निव, ०स्फोटयन्निव । २. कोलाहलो । ३. मदन०...। ४. मुखरः। ५. निर्वर्तिताभि-षेकः । ६. धौतवाससी । ७. जलक्षालननिर्मलतनुः ।
| शूद्रकनित्यकृत्यवर्णनम् ] | चन्द्रकला-विद्योतिनीसहिता । | ४६ |
|---|
उपर्चित-पशुपतिपूजश्च निष्क्रम्य देवगृहान्निर्वर्त्तिताग्निकार्यो विलेपनभूमौ झङ्कारिम- रलिकदम्बकैरनुबध्यमानपरिमलेन मृगमद-कर्पूर-कुङ्कुमवास-सुरभिणा चन्दनेनानुल्प्ति- सर्वाङ्गो विरचितामोदि-मालतीकुसुमशेखरः कृतवस्त्रपरिवर्त्तः रत्नकर्णपूरमात्रामरणः समुचित- भोजनैः सह भूपतिभिराहारमभिमत-रसास्वाद-जातप्रीतिरवनिपो निर्वर्त्तयामास । परिपीत धूमवर्त्तिरुपस्पृश्य च गृहीतताम्बूलस्तस्मात् प्रमृष्ट-मणि-कुट्टिम-प्रदेशादुत्थाय
देवान् पितॄंश्च मानवांस्तथा' इति मन्त्रैः वेदविदितैः पूतं पवित्रं यत्तोयं जलं तस्य अञ्जलिः हस्तसम्पुटः 'अञ्जलिस्तु पुमान् हस्तसम्पुटे कुडवेऽपि च' इति मेदिनी । तेन दिवसकरं सूर्यनारायणम् अभि सम्मुखं प्रणम्य अञ्जलौ मन्त्रपूतमर्घ्यरूपं जलं सूर्यनारायणाय दत्त्वा नमस्कृत्येत्यर्थः । तदुक्तम्-
'अर्घ्यं दद्यात्तु प्रथमं भास्कराय महात्मने । ततो विष्णुं शिवं शान्तः शिवां चैव प्रपूजयेत् ॥' इति । देवगृहं चैत्यम् आगमत् आगच्छत् । इह विव्वरानिर्माणेक्यत्र लुप्तोपमालङ्कारः । शरदम्वरैकदेश इवेत्यत्र पूर्णोपमालङ्कारः । अनिलवलनलवरेत्यत्रापि च लुप्तोपमैव । तुहिनगिरिरित्यत्र रूपमा ।
उपचितेति । उपर्चिता सम्पादिता पशुपतेः महेश्वरस्य पूजा अर्पचितिः 'पूजा नमस्याऽपचितिः' इत्यमरः, येन स तथामूतः, तया च-'असम्पूज्य शिवं मोहाद्ये नरा भुञ्जतेऽन्वहम् । सौख्यं नैवाप्नुवन्तीह मन्नाशाः पर्यटन्ति ते ॥' इति । निर्वर्तितं निष्पादितम् अग्निकार्यम् अग्निहोत्रादिकं येन सः, 'यावज्जीवमग्नि-होत्रं जुहुयात्' इति श्रुतेरग्निहोत्रस्यापि नित्यत्वादित्याशयः । विलेपनभूमौ अङ्गरागसम्पादनस्थाने झङ्का-रिभिः शब्दं कुर्वद्भिः अलिकदम्बकैः भ्रमरगणैः अनुबध्यमानः सेव्यमानः परिमलः सौरमं यस्य स तेन, मृगमदस्य कस्तूर्याः कर्पूरकुङ्कुमयोः हिमवालुककेसरयोश्च वासेन परिमलेन सुरभिणा घ्राणतर्पणेन 'सुरभि-र्घाणतर्पणः, इत्यमरः, चन्दनेन मलयजेन अनुलिप्ताङ्गः लेपितसकलशरीरावयवः, विरचितरचना-विशेषेण विहितः आमोदिभिः परिमलवद्भिः मालतीकुसुमैः जातीपुष्पैः शेखरः शिरोभूषणं येन स तादृशः, अङ्गरागादिकं यथाकालं यथावयः कार्यमित्याह्निके स्पष्टम् । कृतो विहितो वस्त्रयोः पूर्वपरिहित-वसनयोः परिवर्त्तः परिवर्तनं येन सः परिहितान्यवसन इत्यर्थः, पूजावाससः सर्वदा धारणाद्यनौचित्यादि-त्याशयः । रत्नकर्णपूरमात्रं केवलं रत्नखचितं कुण्डलमेव आभरणं तत्समयाऽलङ्कारो यस्य सः, अशनादि-समयेऽनेकमूषणपरिधानेन कष्टसम्भवादित्याशयः । समुचितं योग्यं भोजनम् एकपङ्क्तावशनं येषां तैः तथोक्तैः, आत्मतुल्यकुलसदाचारादिसम्पन्नैरित्याशयः, भूपतिभिः अन्यैः नृपतिभिः सह अभिमतं अभि-लषिता ये रसा मधुराद्यस्तेषाम् आस्वादेन ग्रहणेन जाता उत्पन्ना प्रीतिः सन्तुष्टिः यस्य सः अवनिपः भूपतिः शूद्रकः आहारम् अशनं निर्वर्त्तयामास सम्पादयामास ।
परिपीतेति । उपस्पृश्य आचमनं विधाय आस्थानमण्डपमयासीदिति वक्ष्यमाणक्रियया सम्बन्धः । 'उपस्पर्शस्त्वाचमनम्' इत्यमरः । भोजनानन्तरमाचमनस्यावश्यकर्त्तव्यमुक्तं नारदेन- 'सुप्त्वा क्षुत्वा च मुक्त्वा च निष्ठीव्योक्त्वाऽनृतं वचः। पीत्वाऽपोऽध्येष्यमाणश्च आचामेत् प्रयतोऽपि सन्।' इति परि सामस्त्येन पीता सुखसौगन्ध्यविधानार्थं गृहीता धूमवर्त्तिः अग्निसंयोगेन धूमसंयुक्तमाद्र-
वहाँ आकर भगवान् शङ्कर की पूजा करके वह मन्दिर से निकला और होमादि कार्यों को पूरा कर विले-पनभूमि में पहुँचा । फिर उसने अपने सभी अङ्गों में सुगन्ध के कारण भौरों के झुण्डों से ढके हुये तथा कस्तूरी, केशर और कपूर से सुवासित सुगन्धित चन्दन का लेप करके मस्तक पर विशेष ढङ्ग से मालती के फूलों की चोटी बनायी और वस्त्रों को बदल कर कानों में केवल रत्नों से जड़ा हुआ कर्णफूल पहिन लिया । इसके बाद भोजन के समय पंक्ति में बैठने योग्य राजाओं के साथ उसने मनोऽनुकूल रसों का स्वाद लेते हुए सन्तुष्ट होकर भोजन-क्रिया समाप्त की ।
भोजन कर लेने के पश्चात् उसने धूम्रवर्तिका (एक प्रकार की सिगरेट जैसी कपूर, अगन, चन्दन, मुस्ता, पूति, प्रियंगु और नांही मिलाकर बनाई गई बत्ती) का पान किया और हाथ-मुँह धोकर पान खाया। फिर वह धुली-माँजी मणियों की फर्श से उठकर सभा-मण्डप की ओर चल पड़ा।
तत्काल ही थोड़ी दूर पर खड़ी हुई प्रतिहारी अत्यन्त शीघ्रता से दौड़ी हुई आ पहुँची। उसने राजा की
१. उपचरित*** । २. पूजम्श्च । ३. निर्वर्तित । ४. कृताम्बरपरीवर्त्तः । ५. निर्वत्तयामास । ६. धूपवर्तिः, धूपधूमवर्तिः । ७. कुट्टिमात् ।
७ का० कथा०
५० कादम्बरी- [ कथामुखे-
नातिदूरवर्त्तिन्या ससम्भ्रम-प्रधावितया प्रतीहार्य्या प्रसारितं बाहुम् अवलम्ब्यानवरत-वेत्रलताग्रहण-प्रसङ्गादतिजरठ-किसलयानुकारि-करतलं। करेणं अभ्यन्तरसञ्चारसमुचितेन परिजनेनानुगम्यमानः, धवलांशुकै-परिगतपर्य्यन्ततया स्फटिक-मणिम॑य-भित्ति-बद्धमिवोप-लक्ष्यमाणम्, अतिसुरभिणा मृगनाभिपरिमलेना-मोदिना चन्दनवारिणा सिक्तशिशिरंमणि-भूमिम्, अविरलविप्रकीर्णेन विमल-मणिकुट्टिम-गगनतलतारागणेनेव कुसुमोपहारेण निरन्तरनिचितम्, उत्कीर्णशालभञ्जिकानिवहेन सन्निहितगृहदेवतेनेव गन्धसलिल-क्षालितेन कलधौतमयेन स्तम्भसञ्चयेन विराजमानम्, अतिबहलागुरु-धूप-परिमलम्, अखिल-
कृटादिरचिनद्रव्यविशेषो येन सः, गृहीतं मुखाभ्यन्तरे घृतं ताम्बूलं नागवल्लीदलं येन स तथोक्तः । प्रमृष्टः सलिलादिना संस्कृतो यो मणिकुट्टिमप्रदेशः रत्नमयबद्धस्थलं तस्मात्, उत्थाय उत्थानं विधाय, नातिदूरं वर्तते या सा तया, ससम्भ्रमं सत्रासं प्रधावितया शीघ्रं व्रजन्त्या प्रतीहार्य्या द्वारिपालिकया प्रसारितं विस्तारितम्, अनवरतं निरन्तरं वेत्रस्य वेतसस्य या लता मृदुयष्टिः तस्या ग्रहणे धारणं तस्य प्रसङ्गाद् अभ्यासात्, अतिजरठम् अतिकठिनम् अत्यन्तपरिणतमित्यर्थः यत् किसलयं पल्लवं 'पल्लवोऽस्त्री किसलयम्' इत्यमरः, तदनुकर्तुं शीलं यस्य तत्तथोक्तं करतलं हस्तोधःप्रदेशो यस्य तत्तथोक्तम्, बाहुं भुजं 'भुजवाहू प्रवेष्टो दोः' इत्यमरः, अवलम्ब्य तदाश्रयं कृत्वेत्यर्थः, अभ्यन्तरे वाह्यजनागम्ये गृहप्रदेशे या सञ्चारः सञ्चरणं गमनागमनमित्यर्थः, तत्र समुचितेन योग्येन परिजनेन सेवक्लोकेन अनुगम्यमानः अनुव्रज्यमानः ।
धवलांशुकेति । धवलानि निर्मलांनि यानि अंशुकानि वस्त्राणि तैः परिगताः परिवेष्टिताः पर्यन्ताः प्रान्तभागा यस्य तस्य भावस्तत्ता तया कारणेन, स्फटिकमणिमयी या भित्तिः कुड्यं तया निबद्धं रचितमिव उपलक्ष्यमाणम् अवलोक्यमानम् । अनेन वस्त्राणां शुभ्रत्वं सौक्ष्म्यातिशयश्च प्रतीयते । इह क्रियोत्प्रेक्षा, सा च वाच्या । इत आरभ्य द्वितीयान्तपदानि, 'आस्थानमण्डपम्' इत्यस्य विशेषणानि बोध्यानि ।
अतिसुरभिणेति । अतिसुरभिणा अत्यन्तघ्राणतर्पणेन 'सुरभिर्घ्राणतर्पणः' इत्यमरः, मृगनाभिपरिमलेन कस्तूरीगन्धेन 'विमर्दोत्थे परिमलो गन्धे जनमनोहरे' इत्यमरः, आमोदिना अत्यन्तसुगन्धिना चन्दनवारिणा मलयजमिश्रितपानीयैन, सिक्ता अत एव शिशिरा शीतला मणिभूमी रत्नबद्धा भूर्यत्र तं तथोक्तम् ।
अविरलेति । अविरलं सान्द्रं यथा स्यात्तथा विप्रकीर्णेन विक्षिप्तेन, तथा विमलं निर्मलं मणिकुट्टिमं रत्नवद्धभूमिः गगनतलतारागणेन आकाशस्थितनक्षत्रमण्डलेनेव कुसुमोपहारेण पुष्पसमूहेन निरन्तरम् अनवरतं निचितं सान्द्रभावेन व्याप्तम् । इहोपमालुप्तोपमयोः परस्परमङ्गाङ्गिभावेन सङ्करालङ्कारः ।
उत्कीर्णेति । उत्कीर्णं उत्कीर्य विहितः शालभञ्जिकानिवहः पुत्तलिकापुंजो यस्मिन् तथोक्तेन, अत एव सन्निहिता निकटस्था गृहदेवताः भवनाधिष्ठात्र्यो देव्यो यस्मिन् तथोक्तेनैव स्थितेन, गन्धसलिलैः सुगन्धिवारिभिः क्षालितेन धौतेन, कलधौतमयेन सुवर्णनिर्मितेन, स्तम्भानां स्थूणानां सञ्चयेन समुदायेन विराजमानं शोभमानम् । इह सन्निहितगृहदेवतेनेत्यत्र क्रियोत्प्रेक्षा ।
अतीति । अतिवहलः अत्यन्तप्रचुरो योऽगुरुः कृष्णागुरुः तस्य धूपस्य परिमलः सौरभं यस्मिंस्तत् तथोक्तम् ।
ओर अपनी बाहें फैला दीं। राजा ने भी निरन्तर बेंत की छड़ी लेने के कारण घट्टे पड़े हुये पल्लवों के समान उसकी हथेली अपने हाथ में ले ली। महल के भीतर तक आ जा सकने वाले सेवक भी राजा के पीछे-पीछे चल पड़े उस आस्थान-मंडप (वह सभा-मंडप जहाँ भोजन के बाद राजा का खास दरबार लगता था) के चारों ओर उजले रेशमी पर्दे पड़े हुये थे, जिससे वह विल्लौरी दीवारों का बना हुआ प्रतीत हो रहा था। वहाँ की मणियों से बनी हुई भूमि कस्तूरी मिले अत्यन्त सुगन्धित जल से सिंची होने के कारण बहुत ही शीतल थी, जिस पर थोड़ी-थोड़ी दूर पर फूलों के गुच्छों से सजावट की गई थी, जिसने वह ऐसी प्रतीत हो रही थी मानों मणिभूमि रूपी निर्मल आकाश में गुच्छे रूपी अत्यन्त घने तारों के झुण्ड दिखाई पड़ रहे हों। उस मण्डप में अनेक सोने के खम्भे बने हुये थे जो सुगन्धित जल से पखारे गये थे। उन पर पुतलियों की प्रतिमायें गढ़कर काढ़ी गई थीं
१. प्रसारितबाहुम्, प्रसारितम् । २. 'अनवरत' इति पाठः क्वचिन्नाप्युपलभ्यते । ३. प्रसङ्गानति, प्रसङ्गादनति...। ४. करतलकरेण । ५. शुक्लयवनिकापरिगत...। ६. स्फटिकमय । ७. निबद्ध । ८. अतिसुरभि । ९. परिगतेन । १०. शिशिरकर । ११. विमलमणिकुट्टिमं गगनतलं तारागणेनेव । १२. दैवतेनेव ।
सभासण्डपगमनम् ] चन्द्रकला-विद्योतिनीसहिता । ५१
विर्गलित-जलनिवह-धवल-जलधर-शकलानुकारिणा कुसुमामोदवासित-प्रच्छदपटेन, पट्टोपधानाध्यासितशिरोधाग्ना मणिमय-प्रतिपादुकाप्रतिष्ठितपादेन पार्श्वस्थ-रत्नपादपीटेन तुहिनगिरि-शिलातल-सदृशेन शयनेन सनाधीकृतवेदिकं भुक्त्वास्थानमण्डपमयासीत् ।
तत्र च शयने निषण्णः क्षितितलोपविष्टया शनैः शनैरुत्सङ्ग-निहितासिलतया खड्गवाहिन्या नव-नलिन-दल-कोमलेन करसम्पुटेन संवाह्यमानचरणस्तत्कालोचितदर्शनैरवनिपतिभिरमात्यैर्मित्रैश्च सह तास्ताः कथाः कुर्वन् मुहूर्त्तमिवासाञ्चक्रे ।
ततो नातिदूरवर्त्तिनीम् 'अन्तःपुराद्वैशम्पायनमादायागच्छ' इति समुपजाततद्वृत्तान्त-प्रश्न-कुतूहलो राजा प्रतीहारीमादिदेश ।
विगलितेति । अखिलः सम्पूर्णों विगलितो निर्गतो जलनिवहः सलिलसमुदायो यस्मिन् स तादृशः, अत एव धवलो निर्मलो यो जलधरो मेघः तस्य शकलं खण्डम् अनुकर्तुं शीलं यस्य स तेन । इत आरभ्य तृतीयान्तपदानि 'शयनेन' इत्यस्य विशेषणानि बोध्यानि । कुसुमानां पुष्पाणाम् आमोदेन सौगन्ध्येन वासितः सुगन्धीकृतः प्रच्छदपटः आस्तरणवस्त्रं यस्य स तेन । पट्टस्य क्षौमवस्त्रस्य यदुपधानम् उच्छीर्षकं तेन अध्यासितम् आश्रितं शिरोधाम मस्तकस्यानस्थलं यस्य स तेन । मणिमयीषु रनरचितासु प्रतिपादुकासु आधारपीठेषु प्रतिष्ठिताः स्थिताः पादाः पल्यङ्कपाद। यस्य स तेन । पार्श्वस्थं निकटस्थं रत्नपादपीठं मणिपादासनं यस्य स तेन । तुहिनगिरेः हिमालयपर्वतस्य यत् शिलातलं हिमव्याप्ततया श्वेतः प्रस्तरः, तत्सदृशेन तन्निभेन अत्यन्तधवलवर्णेनेत्यर्थः, शयनेन शय्यया, सनाधीकृता युक्ता वेदिका परिष्कृतभूमिर्यस्य तत्तथोक्तम् आस्थानमण्डपं सभामवनम् अयासीत् जगाम । इह 'धवलजलधरशकलानुकारिणा' इत्यत्र 'तुहिनगिरिशिलातलसदृशेन' इत्यत्र चार्थोपमा बोध्या ।
तत्रेति । शयने आस्तरणे निषण्ण उपविष्टो राजा शूद्रकः क्षितितले पृथवीतले उपविष्टया निषण्णया, तथा उत्सङ्गे क्रोडे निहिता स्थापिता असिलता लतावत् लम्बमानः खड्गो यया सा तया एवं भूतया खड्गवाहिन्या कृपाणधारिण्या कयाचित् नायिकया, नवं नूतनं यन्नलिनं पद्मं यस्य दलानि पत्राणि तद्वत् कोमलेन मृदुलेन, करसम्पुटेन हस्तद्वयेन शनैः शनैः मन्दं मन्दं संवाह्यमानौ सञ्वाल्यमानौ चरणौ पादयुगलं यस्य स तेन तथोक्तेन । तत्काले शयनसमये उचितं राज्ञा स्वयमेव निश्चितत्वाद् योग्यं दर्शनं साक्षात्कारों येषां तैः तथोक्तैः । अवनिपतिभिः राजभिः अमात्यैर्मन्त्रिभिः मित्रैः सुहृद्भिश्च तास्ताः प्रस्तावोचिता नानाविधाः कथा आलापान् कुर्वन् विदधत् मुहूर्त्तं क्षणमिव असाञ्चक्रे अवतस्थे । वाक्यालङ्कारे इवेतिपदम् । 'नवनलिनम्' इत्यत्र लुप्तोपमा ।
तत इति । ततः कथासमाप्त्यनन्तरं नातिदूरवर्त्तिनीं यत्किञ्चिद्द्रव्यवधानेनैव स्थितामित्यर्थः, प्रतीहारीं पूर्वोक्तलक्षणाम्, समुपजातं समुत्पन्नं तस्य शुकस्य वृत्तान्तप्रश्ने प्रवृत्तिपृच्छायां 'वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्याद्' इति, 'प्रश्नोऽनुयोगः पृच्छा च' इति चामरः, कुतूहलं कौतुकम् आश्चर्यमित्यर्थः, यस्य स तादृशः, राजविशेषणमिदम् । अन्तःपुराद् अवरोधात् तं वैशम्पायनं शुकम् आदायागच्छ गृहीत्वाव्रज इति इत्येवंरूपम् आदिदेश आज्ञापयामास ।
जो ऐसी प्रतीत हो रही थीं मानों गृहदेवियाँ ही मूर्त्तिमान हो गयी हों। मण्डप में चारों ओर अगरु और धूप की प्रचुर गन्ध उठ रही थी और उसके बीच में एक श्वेत पलंग पड़ा हुआ था जो समस्त जल बरस जाने के कारण उजले हो जाने वाले बादल के टुकड़े के समान स्वच्छ चद्दर से ढका हुआ ऐसा प्रतीत हो रहा था मानों बर्फ से ढकी हुई हिमालय की कोई सफेद चट्टान हो। उसके सिरहाने रेशमी तकिया और पायताने की भूमि पर मणियों की खड़ाऊँ रखी हुयी थी तथा उसके अगल-बगल रत्नों के दो पाबदान बने हुये थे ।
१. विगलित···। २. अध्यवसित। ३. शिरोभागेन । ४. रत्नपीटेन, रत्नमयपीटेन । ५. तुहिन-शिलातलसदृशशयनेन । ६. शयनतलनिषण्णः । ७. समुपयात ।