भारतकोश
संग्रह पर लौटें

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ
५२कादम्बरी-[ कथामुखे-

सा क्षितितल-निहित जानु-करतला 'यथाज्ञापयति देवः' इति शिरसि कृत्वाज्ञां यथादिष्टमकरोत् ।

अथ मुहूर्त्तादिव वैशम्पायनः प्रतीहार्या गृहीतपञ्जरः कनकवेत्रलतावलम्बिना किञ्चिद्वनतपूर्वकायेन सितकञ्चुकाच्छन्नवपुषा जराधवलितमौलिना गद्गदस्वरेण मन्दमन्दसञ्चारिणा विहङ्गजातिप्रीत्या जरत्कलहंसेनेव कञ्चुकिनानुगम्यमानो राजान्तिकमाजगाम ।

क्षितितल-निहितकरतलस्तु कञ्चुकी राजानं व्यज्ञापयत्—'देव ! देव्यो विज्ञापयन्ति,


संति । सा प्रतीहारी क्षितितले भूमितले विहितौ स्थापितौ जानू ऊरुपर्वणी करतले पाणितले च यया सा तथोक्ता, एतेन विनयविशेषो ध्वनितः, यथा येन प्रकारेण आज्ञापयति आदिशति देवो भवान् इत्यभिधाय शिरसि मस्तके आज्ञाम् आदेशं कृत्वा विधाय स्वमस्तके करतलं स्थापयित्वेत्याशयः, यथा येन प्रकारेण राज्ञा आदिष्टम् आज्ञापितं तथा अकरोत् विदधौ ।

अथेति । अथ अन्तःपुरप्रवेशानन्तरं मुहूर्त्तादिव क्षणविलम्बादिव । गृहीतम् आत्तं पञ्जरं लौहशलाकानिर्मितपक्षिनिलयो यस्य स तथोक्तः । कनकेन सुवर्णेन खचिता या वेत्रलता वेतसयष्टिः तामवलम्बते धारणं करोतीत्येवं शीलो यः स तेन तथोक्तेन, इतः प्रभृति तृतीयान्तपदानि कञ्चुकिनेत्यस्य विशेषणानि बोध्यानि । किञ्चित् ईषत् भवनतः वार्धक्यवशादानम्रः पूर्वकायो नामेरूर्ध्वभागो यस्य तेन तादृशेन, सितकञ्चुकेन शुभ्रकूर्पासकेन आच्छन्नम् आच्छादितं वपुर्देहो यस्य स तेन तादृशेन, जरया वृद्धावस्थया धवलितः स्वच्छीकृतः मौलिः केशसमूहो यस्य तेन तादृशेन, गद्गदः अस्फुटः स्वरः कण्ठध्वनिर्यस्य स तेन तादृशेन, कञ्चुकिना—

'अन्तःपुरचरो वृद्धो विप्रो गुणगणान्वितः । सर्वकार्यार्थकुशलः कञ्चुकीत्यभिधीयते ॥'

इत्युक्तस्वरूपेण सौविदल्लकेनेत्यर्थः, मन्दं मन्दं शनैः शनै सञ्चरितुं शीलं यस्य स तेन तादृशेन विहङ्गजातिप्रीत्या पक्षिनेहेन जरत्कलहंसेनेव वृद्धराजहंसेनेव अनुगम्यमानोऽनुबध्यमानः, 'कलहंसस्तु कादम्बे राजहंसे नृपोत्तमे' इति मेदिनी, वैशम्पायनः शुकः राजान्तिकं नृपसमीपम् आजगाम आययौ । इह 'जरत्कलहंसेनेव' इत्युपमा ।

क्षितीति । क्षितितले धरणीतले 'धरा धरित्री धरणी क्षोणिर्ज्या काश्यपी क्षितिः' इत्यमरः, निहितं स्थापितं करतलं हस्ततलं येन स कञ्चुकी पूर्वोक्तलक्षणः राजानं भूमिपं व्यज्ञापयत् न्यवेदयत्—


राजा वहाँ पहुँच कर पलंग पर बैठ गया। उसकी तलवार लेकर साथ-साथ चलने वाली सेविका भी तलवार को गोद में रखकर फर्श पर बैठ गयी और नये कमल की पंखड़ियों के समान कोमल हथेलियों से धीरे-धीरे राजा का पैर दबाने लगी। वहाँ मिलने के लिए आने योग्य (विशिष्ट, जिसकी पहुँच दरबार खास-तक थी) राजाओं, मन्त्रियों और मित्रों के साथ तरह-तरह की बातें करते हुए राजा ने कुछ देर विश्राम किया।

फिर निश्चिन्त होकर उस सुग्गे का जीवन-वृत्तान्त पूछने की उत्सुकता से उसने समीप ही में खड़ी प्रतिहारी को आदेश दिया—रनिवास से वैशम्पायन को ले आओ !

प्रतिहारी ने भूमि पर घुटने टेक तथा हाथ से भूमि को छूकर 'श्रीमान् की जैसी आज्ञा' कहती हुयी हाथ को मस्तक पर रख लिया मानो राजा के आदेश को माथे चढ़ा लिया ओर वह आज्ञा के अनुसार सुग्गे को लाने के लिए रनिवास की ओर चल पड़ी।

एक क्षण के भीतर ही वैशम्पायन का पिंजड़ा हाथ में लिये हुए प्रतीहारी राजा के पास आ पहुँची । उसके पीछे-पीछे श्वेत कंचुक (जामा) से ढका हुआ तथा शरीर का ऊपरी भाग झुक जाने के कारण सोने की मूठ लगी बेंत की छड़ी का सहारा लेकर धीरे-धीरे चलनेवाला एक वृद्ध ब्राह्मण कंचुकी भी था। बुढ़ाती के कारण उसके बाल सन हो गए थे और स्वर अत्यन्त गद्गद (अस्पष्ट) हो गया था। वह ऐसा प्रतीत हो रहा था मानो पक्षी जाति के प्रति ममत्व होने के कारण कोई वृद्ध कलहंस वहाँ आ गया हो।

कंचुकी ने हाथ से भूमि छूकर राजा से निवेदन किया—'देव ! देवियों ने निवेदन किया है कि श्रीमान् के


१. मुहूर्त्तादेव । २ आनत···। ३. अवच्छन्न, अवच्छिन्न । ४. चारिणा । ५. विहितकरतलस्तु, निहितकरस्तु । ६. व्यजिज्ञापयत् ।

स० म० कञ्चु० नि० वर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । ५३

देवादेशादेव वैशम्पायनः स्नातः कृतआहारश्च देवपादमूलं१ प्रतीहार्य्या नीतः' इत्यभिधाय गते२ च तस्मिन् राजा वैशम्पायनमपृच्छत्—'कच्चित् ३ अभिमतमास्वादितमभ्यन्तरे भवता किञ्चिदश-नजातम् ?' इति ।

सँ४ प्रत्युवाच—'देव किं वा नास्वादितम् ?, आमत्त-कोकिल-लोचनच्छविर्नीलपाटलः कषायमधुरः प्रकाममपापीतो जम्बूफलरसः हरि-नखभिन्न-मत्तमातङ्गकुम्भ-मुक्त-रक्तार्द्रमुक्ता-फलत्विषि खण्डितानि दाडिम॑६बीजानि, नलिनीदल-हरिन्ति द्राक्षाफल-स्वादूनि च दलितानि७ स्वेच्छया प्राचीनामलकीफलानि । किं वा प्रलपितेन बहुना, सर्वमेव देवीभिः स्वयं करतलोप-नीयमानममृतायते' इति ।

'हे देव स्वामिन् ! देव्यो महिष्यः विज्ञापयन्ति सूचयन्ति, देवादेशाद् भवतो नियोगात् एव पुरोऽवलोक्य-मानो वैशम्पायनः शुकः स्नातः पूर्वं कृतस्नानः पश्चात् कृताहारो विहितभोजनः, देवस्य भवतः पादमूलं सन्निधिं प्रतीहार्या द्वारपालिकया अनया नीतः प्रापितः' इत्यभिधाय इत्युक्त्वा तस्मिन् कञ्चुकिनि गते तस्मात् स्थानाद् निष्क्रान्ते सति, राजा शूद्रकः वैशम्पायनं शुकम् अपृच्छत् पृष्टवान्-अभ्यन्तरे अन्तःपुरे भवता त्वया अभिमतम् इष्टं किञ्चित् अशनजातं भक्ष्यवस्तुसमूहः आस्वादितमिति काकुः, भुक्तं किमि-त्यर्थः ? इति कच्चिद् ज्ञातुमभिलषामि 'कच्चित् कामप्रवेदने' इत्यमरः ।

स इति । स वैशम्पायनः प्रत्युवाच उत्तरं ददौ—देव नाथ ! किं वा नास्वादितमिति काकुः ? अर्थात् मद्भक्ष्ययोग्यं सर्वमेव भक्षितमित्यर्थः । आमत्तः मधुपानोनोन्मत्तो यः कोकिलः पिकः 'वनप्रियः परभृतः कोकिलः पिक इत्यपि' इत्यमरः, तस्य लोचनच्छविर्नयनकान्तिः सेव छविर्यस्य स तादृशः नीलश्चासौ पटलः श्वेतरक्तश्चेति नीलपाटलः 'श्वेतरक्तस्तु पाटलः' इत्यमरः कषायोऽम्लश्वासौ मधुरो मिष्टश्चेति कषाय-मधुरः जम्बूफलानां रसोऽन्तर्भूतद्रवः प्रकामं पर्याप्तं यथा स्यात्तथा आपीतः समयदिं पानविषयीकृतः । 'इह... कोकिललोचनच्छवि इत्यत्र लुप्तोपमा ।

हरीति । हरेः सिंहस्य नखरैः नखैः भिन्ना विदारिता ये मत्तमातङ्गानाम् उन्मत्तगजानां कुम्भाः शिरःस्था मांसपिण्डाः तेभ्यो मुक्तानि अपगतानि यानि रक्तार्द्राणि शोणितस्तिग्धानि मुक्ताफलानि मौक्ति-कानि तेषां त्विष इव त्विषः कान्तयो येषां तानि तथोक्तानि, दाडिमबीजानि दाडिमफलबीजानि खण्डि-तानि शकलीकृतानि चञ्चुपुटेन मयेति शेषः । उपमाऽलङ्कारः ।

नलिनीति । नलिनी कमलिनी तस्या दलानि पत्राणि तद्वत् हरिन्ति हरिद्वर्णानि, तथा द्राक्षाफल-वत् मृद्वीकासस्यवत् 'मृद्वीका गोस्तनी द्राक्षा' इत्यमरः, स्वादूनि सुमधुराणि च प्राचीनामलकीफलानि जीर्णधात्रीसस्यानि स्वेच्छया स्वाधीनतया दलितानि चञ्चुपुटेन मर्दयित्वा खादितानीत्यर्थः । इह 'नलिनी-दलहरिन्ति' इत्यत्र 'द्राक्षाफलस्वादूनि' इत्यत्र च लुप्तोपमा, अनयोश्च मिथो नैरपेक्ष्येण संसृष्टिः ।

किं देति । बहुना अधिकेन प्रलपितेन कथितेन किं वा फलं न किमपि प्रयोजनमित्यर्थः । देवीभिः राजदारैः स्वयं न त्वन्यतः करतलोपनीयमानं हस्ततलैः मह्यं दीयमानं सर्वं निखिलमेव वस्तु


आदेशानुसार वैशम्पायन स्नान-भोजन से निवृत्त हो चुका है और प्रतिहारी के साथ आप की सेवा में भेज दिया गया है।' ऐसा कहकर कंचुकी के चले जाने पर राजा ने वैशम्पायन से पूछा—'क्या रनिवास में आप को अपनी इच्छा के अनुसार भोज्य पदार्थों का स्वाद चखने को मिला था ?

वैशम्पायन ने उत्तर दिया—राजन् ! मैंने क्या नहीं खाया ! मधु रस पीकर मतवाली कोयल की आँखों के समान नीले और गुलाबी जामुन के फलों का कसैला और मीठा रस भर पेट पिया है, सिंह के नखों से विदीर्ण हाथी के मस्तक से निकले हुए रक्त में सने मोती के दानों जैसे गुलाबी अनार के दाने चुनर चुनर कर खाए हैं और कमल के पत्तों के समान हरे-हरे तथा अंगूर जैसे मीठे पके हुए आंमलों को इच्छानुसार चबा है। अधिक कहना तो व्यर्थ है, देवियों ने अपने हाथों से ला-लाकर जो कुछ भी दिया था वे सभी अमृत जैसे मीठे बन गये थे।


१. पादमूले। २. अद्यगते। ३. कच्चिद्। ४. स तु। ५. करचरणरचितम्। ६. दाडिमो...। ७. चूर्णितानि, त्रुटितानि, समास्वादितानि।

५४कादम्बरी-[ कथामुखे-

एवंवादिनो वचनमाक्षिप्य नरपतिरब्रवीत्—आस्तां तावत् सर्व्वमेवेदम्, अपनयतु नः कुतूहलम्, आवेदयतु भवानादितः प्रभृति कार्त्स्न्येनात्मनः, जन्म कस्मिन् देशे ? भवान् कथं जातः ? केन वा नाम कृतम् ? का ते माता ? कस्ते पिता ? कथं वेदानामागयः ? कथं शास्त्राणां परिचयः ? कुतः कलाः समासौदिताः ? किं हेतुकं जन्मान्तरानुस्मरणम् ? उत वर-प्रदानम्, अथवा विहर्गवेष-धारी कश्चिच्छन्नो निवसि ? क्व पूर्वमुषितम् ? कियद्वा वयः ? कथं पञ्जरबन्धनम् ? कथं चण्डाल-हस्तगमनम् ? इह वा कथमागमनम् ? ।

वैशम्पायनस्तु स्वयमुपजातकौतूहलेन सबहुमानमवनिपतिना पृष्टो मुहूर्त्तमिव ध्यात्वा सादरमब्रवीत्—देव ! महतीयं कथा, यदि कौतुकंमाकर्ण्यताम्—

अमृतायते सुधावदाचरति स्वादुत्वादित्याशयः। 'अमृतायते' इत्यत्र क्यङ्प्रत्ययत्वादात्मनेपदम् । वर्त्तमान-सामीप्ये 'वर्त्तमानसामीप्ये वर्त्तमानवद्वा' इत्यनेनात्र वर्त्तमानत्वम् । क्यङ्गतोपमालङ्कारः । इति वाक्य-समाप्तौ 'इति हेतुप्रकरणप्रकाशादिसमाप्तिषु' इत्यमरः।

एवमिति। एवं पूर्वोक्तप्रकारेण वादिनः कथयतः शुकस्य वचनं वाक्यम् आक्षिप्य असमाप्तमेव निवार्य अन्यदेव ज्ञातुं नरपती राजा अब्रवीत् उवाच—इदं पूर्वोक्तं सर्वमेव तावत् आदौ आस्तां तिष्ठतु, नः अस्माकं कुतूहलं कौतुकं पक्षिणः सर्वशास्त्रविषयकं ज्ञानं कथं जातमित्याश्चर्यमित्यर्थः 'कौतूहलं कौतुकं च कुतुकं च कुतूहलम्' इत्यमरः, अपनयतु दूरीकरोतु । तदेवोपपादयति-आवेदयेति । कार्त्स्न्येन साकल्येन आदितः प्रभृति जन्मसमयादारभ्य सर्वम् आत्मनः स्वस्य आवेदयतु निरूपयतु । कस्मिन् देशे कुत्र जनपदे जन्म उत्पत्तिः ? । कथं केन प्रकारेण भवान् जातः उत्पन्नः ? केन महात्मना नाम कृतं वैशम्पायने-त्यभिधानं विहितम् ? ते तव का माता जननी ? ते कः पिता जन्मदः ? कथं केन प्रकारेण वेदानाम् ऋग्यजुः-सामाथर्वणाम् आगम उपलब्धिः प्राप्तिरिति यावत् ? कथं शास्त्राणां न्यायमीमांसाप्रभृतीनां परिचयो विशेषवोधः ? कुतः कस्माद्रूपात् कलाः चतुःषष्टिकलाः नृत्यगीतादिविद्याः समासादिताः प्राप्ताः ? किं हेतुकं किन्निमित्तकं जन्मान्तरस्य पूर्वजन्मोदन्तस्य अनुस्मरणं स्मृतिः ? उत किं वरप्रदानं कस्यचिन्महा-त्मनः प्रसादात् वरदानप्राप्तिः येन जन्मान्तरानुस्मरणमित्यर्थः 'आहो उताहो किमुत विकल्पे किं किमूत च' इत्यमरः । अथवा सिद्धि एव किं वा कश्चित् कश्चन विहगवेषधारी पक्षिरूपधारी छन्नो गुप्तः सन् निवसि वासं विदधासि । क्व वा कस्मिन् स्थाने अत्रागमनात्पूर्वम् उषितम् अवस्थितन् ? वा अथवा कियद् वयः वार्षिकावस्था क्यर्थः ? कथं केन प्रकारेण पञ्जरबन्धनं पञ्जरमध्ये ऽवस्थानम् ? कथं चण्डाल-हस्तगमनम् अन्यजहस्तप्राप्तिः ? इह अस्मिन् प्रदेशे कथं वा आगमनम् उपस्थितिः ? इति प्रश्नसमाप्ति-सूचनार्थः । उपरितना ये प्रश्नाः सन्ति तेषु कतिपये शुकस्नानाहारादिसमये तस्मादेवावगतराजपत्नीनां सेविकानां वा सकाशाद्राज्ञाऽवगताः केचिच्च स्वयमूह्रिता ज्ञातव्याः, अन्यया जातिस्मरोऽयं शुक इति ज्ञानाभावे तद्विषयकप्रश्नानुपत्तिः स्यादित्यवधेयम् ।

वैशम्पायनस्त्विति । पुनरर्थे त्विति । तदनन्तरं वैशम्पायनः शुकः सबहुमानं सादरम् उपजातं


इस प्रकार कहते हुए वैशम्पायन को बीच ही में टोककर राजा ने कहा—अच्छा-अच्छा, यह सब तो हुआ अब आप मेरी उत्सुकता मिटाने की कृपा कीजिये। प्रारम्भ से लेकर अबतक अपना पूरा जीवनचरित सुना जाइए। आपने किस स्थान पर और कैसे जन्म लिया ? आपका नामकरण किसने किया ? आपके माता-पिता कौन हैं ? आपने वेदों का ज्ञान और शास्त्रों का अभ्यास कैसे प्राप्त किया ? सभी कलाएँ कहाँ से सीख लीं ? आप में यह पूर्वस्मरणशक्ति (मेधा) पूर्व जन्म के संस्कारों से आयी है या किसी से वरदान रूप में मिली है ? अथवा आप पक्षी के वेश में छिपे हुए कोई महापुरुष (समझौत शास्त्र चेतन) तो नहीं हैं ! आप पहिले (इस पिंजड़े में आने के पहिले) कहाँ रहते थे ? आपकी अवस्था क्या होगी ? आप इस पिंजड़े में कैसे फँस गये ? इस चाण्डाल के हाथ में कैसे पड़े और यहाँ तक कैसे आए ?

राजा के अत्यन्त सम्मान के साथ उत्सुक होकर पूछने पर वैशम्पायन ने कुछ देर सोचकर सादर निवेदन किया—भगवन् ! यह कथा तो बड़ी लम्बी है लेकिन यदि आप इतने उत्कण्ठित हैं तो सुनिए—


१. सर्व्वम् । २. का माता । ३. कः पिता ? ४. सासादिताः । ५. किंद्धेतुकः । ६. विहङ्गवेषः*** । ७. छन्नं । ८. कथं वा । ९. बन्धकि । १० चाण्डाल*** । ११. कौतूहलम् ।

विन्ध्याटवी, पम्पासरोवर व जाबालि आश्रम वर्णन

विन्ध्याटवीवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । ५५

(अस्ति पूर्वापर-जलनिधि-वेलावनालग्ना, मध्यदेशालङ्कारभूता, मेखलेव भुवः, वन-करिकुल-मदजल-सेक-संवर्द्धितैरतिविकच-धवल-कुसुमनिकरमत्युन्नतया तारागणमिव, शिखरदेशलग्नमुद्वहद्भिः पादपैरुपशोभिता, मदकल-कुररकुल-दश्यमान-मरिचपल्लवा, करि-कलभ-करमृदित-तमालकिसलयामोदिनी मधुमदोपरक्त-केरली-कपोल-कोमलच्छविना, सञ्चरद्वनदेवता-चरणालक्तक-रस-रञ्जितेनेव पल्लवचयेन संछादिता,)

समुत्पन्नं कुतूहलं कौतुकं यस्य तेन तथोक्तेन स्वयम् आत्मनैव अवनिपतिना भूपतिना पृष्टः कृतप्रश्नो मुहूर्त्तं क्षणं ध्यात्वा चिन्तयित्वा सादरं सबहुमानं पुनः अब्रवीत् उवाच—देव नाथ ! यत्पृष्टं तद्विषयिणी महती विस्तृता इयं कथा वृत्तान्तः । यदि चेत् कौतुकं कौतूहलं तर्हि आकर्ण्यतां श्रूयताम्—

अस्तीति । अस्य दूरस्थेन विन्ध्याटवी नामेतिकर्तृपदेन सम्बन्धः । तथा च विन्ध्याटवी विन्ध्यारण्यं नाम प्रसिद्धमस्तीत्यर्थः, 'अटव्यरण्यं विपिनम्' इत्यमरः । इह प्रथमान्तपदानि विन्ध्याटवीविशेषणानि बोध्यानि । पूर्वापरश्च पूर्वापरौ प्राच्यप्रतीच्याविदग्वर्त्तिनौ यौ जलनिधी समुद्रौ तयोः यद्वेलावनं तटविपिनं तावत्पर्यन्तम् अवलग्ना सम्बद्धा, पूर्वसमुद्रतीरतः पश्चिमसमुद्रतीरं यावत्प्रसृतेत्यर्थः । तत्समये विन्ध्याटवी एवंविधैवासीदित्यवधेयम्, मध्यदेशस्य—

हिमवद्विन्ध्ययोर्मध्ये यत्प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्त्तितः ॥'

इति मनूक्तचित्तदचित्तोत्तरयोर्हिमवद्विन्ध्ययोः पूर्वपश्चिमयोश्च प्रयागकुरुक्षेत्रयोश्च मध्यवर्त्तिस्थानस्य अलङ्कारभूता अनेकप्रकारवृक्षलतासिद्धाश्रमादिपूर्णत्वेन भूषणस्वरूपा मध्यभूषणस्वरूपत्वादेव भुवो मेदिन्याः मेखला रशनादामेव 'स्त्रीकट्यां मेखला काञ्ची सप्तकी रशना तथा' इत्यमरः ।

वनेति । वने अरण्ये ये करिणो हस्तिनः तेषां कुलानि यूथानि तेषां मदजलस्य दानवारिणः सेकेन संवर्द्धितैः वृद्धिमापादितैः, तया अत्युन्नतया अत्युन्नततया शिखरदेशलग्नं शिरोभागसंयुक्तं तारागणं नक्षत्रमण्डलमिव अतिविकचानाम् अतिविकसितानां धवलानां शुभ्राणां कुसुमानां पुष्पाणां निकरं समुदायम् उद्वहद्भिः धारणं कुर्वद्भिः पादपैः वृक्षैः उपशोभिता भूषिता । इह 'शिखरदेशलग्नं तारागणमिव' इत्यत्र जात्युत्प्रेक्षा ।

मदेति । मदजलैः मदोन्मत्तैः कुरराणां मत्स्यनाशनानां कुलानि समूहाः तैः दश्यमानाः चञ्चुपुटेन संदश्य आस्वाद्यमाना मरिचानां कोलकानां पल्लवाः किसलयानि यस्यां सा 'मरिचं कोलकं कृष्णमूपणं धर्मपत्तन्नम्' 'पल्लवोऽस्त्री किसलयम्' इत्यमरः ।

करीति । करिणां हस्तिनां कलभाः त्रिंशद्वर्षीयाश्शावकाः 'कलभः करिशावकः' इत्यमरः, तेषां करः शुण्डादण्डैः मृदितानि मर्दितानि यानि तमालकिसलयानि तापिच्छपल्लवानि 'तमालस्तिलके खड्गे तापिच्छे वरुणद्रुमे' इति मेदिनी, तेषाम् आमोदः सुगन्धिः विद्यते यस्यां सा तादृशी ।

मध्विति । मधु मद्यं तस्य यो मदः पानेन मत्तता तेन उपरक्ताः किञ्चिल्लोहितस्वरूपा ये केरलीनां केरलदेशोत्पन्नानां सुन्दरीणां कपोला गल्लप्रदेशाः तेषामिव कोमला मृद्वी छविः कान्तिर्यस्य तेन, सञ्चरन्तीनाम् इतस्ततो व्रजन्तीनां वनदेवतानाम् अरण्याधिष्ठातृदेवीनां चरणालक्तकरसैः पादस्थितयावकद्रवैः रञ्जितेनेव रक्त्तीकृतेनेव पल्लवचयेन वृक्षलतानां किसलयसमूहेन संछादिता आच्छादिता । इह


समुद्र के पूर्वी किनारे से पश्चिमी किनारे तक लगी हुई मध्य प्रदेश की शोभा बढ़ानेवाली विन्ध्याटवी नाम के वनों की एक पट्टी फैली हुई है। यह पृथ्वी की करधनी के समान प्रतीत होती है। वह मानो जंगली हाथियों के मदजल से ही सींच कर बढ़ाये गये अनेक प्रकार के वृक्षों से सुशोभित थी, जिनकी चोटियों पर खिले हुए श्वेत-पुष्पों के समूह ऊँचाई के कारण तारों के समान प्रतीत होते थे। वहाँ कहीं सुन्दर बगुलों की मतवाली टोलियाँ मरिच के पत्ते नोच-नोच खाती थीं, कहीं हाथियों के बच्चों की सूँडों से मसले गए तमाल के पत्तों से मधुर सुगन्ध निकलती थी, कहीं मदिरा के नशे से लाल हुए केरल की स्त्रियों के कपोलों के समान लाल-लाल सुकुमार पल्लव छाये थे जो वन में घूमनेवाली वनदेवियों के पैरों की महावर से रंगे हुए से प्रतीत होते


१. वेलावलग्ना ।
२. तारका ।
३. प्रदेशसंलग्नम् ।
४. 'छविना' इति पाठः क्वचिन्नास्ति ।
५. पल्लवप्रचयेन ।

५६कादम्बरी-[ कथामुखे-

शुककुल-दलितदाडिमीफल-द्रवार्द्रीकृत-तलैरतिचपल-कपिकुल-कम्पित$^१$-कपित्थैल$^२$-च्युतपल्लव-फलशकलैः$^३$, अनवरत-निपतित$^४$-कुसुमरेणुपांशुलैः, पथिक-जन-रचित-लवङ्गपल्लव-संस्तरैः$^५$, अतिकठोर-नारिकेल$^६$-केतकी करीर-बकुल$^७$-परिगतप्रान्तैः, ताम्बूलीलतावनद्ध-पूगखण्ड-मण्डितैर्वनलक्ष्मी-वासभवनैरिव$^८$ विराजितों लतामण्डपैः$^९$, उन्मद-मातङ्ग-कपोलस्थल-गलित$^{१०}$-सलिलं-सिक्तेनेव निरन्तरमैलालतावनेन$^{१२}$ मदगन्धिनान्धकारिता, नख-मुख-लग्नेभ-कुम्भ-मुक्ताफल-लुब्धैः शबरसेनापतिभिरभिहन्यमानकेशरिशता प्रेताधिपनगरीव सदा-

‘......कपोलकोमलच्छविना’ इत्यत्र लुप्तोपमा, ‘......रक्षितेनेव’ इत्यत्र क्रियोत्प्रेक्षा, अनयोरङ्गाङ्गि भावेन सङ्करालङ्कारः।

शुकेति। शुककुलेन कीरप‌क्षिसमुदायेन दलितानां चञ्चुपुटेन विदारितानां दाडिमीफलानां द्रवैः रसैः आर्द्रीकृतानि आर्द्रत्वमुपनीतानि तलानि अधोवर्तिस्थानानि येषां तैः इत आरभ्य तृतीयान्तपदानि सन्निहितलतामण्डपैः’ इत्यस्य विशेषणानि बोध्यानि। अतिचपलैः अत्यन्तचञ्चलैः कपिकुलैः वानरसमूहैः कम्पितेभ्यः आन्दोलितेभ्यः कपित्थलेभ्यः कोशफलवृक्षेभ्यः च्युतानि पतितानि पल्लवफलानां किसलयफलानां शकलानि खण्डानि येषु तैः तथोक्तैः। अनवरतनिपतितानां निरन्तरप्रच्युतानां कुसुमानां पुष्पाणां रेणुभिः परागधूलिभिः पांशुलैः सरजस्कैः। पथिकजनैः पान्थपुरुषैः रचिता उपवेशनार्थं निर्मिता लवङ्गपल्लवानां लवङ्गवृक्षविशेषकिसलयानां संस्तरा आसनानि येषु तैः तथोक्तैः। अतिकठोरा अत्यन्तकठिनाः परिपक्वा इत्यर्थः, ये नारिकेला लाङ्गलिवृक्षाः, केतक्यः क्रकचपर्णाः करीराः पत्रविहीनाः कण्टकसहिता वृक्षविशेषाः, बकुलाश्च तैः परिगताः परितो व्याप्ताः प्रान्ताः पर्यन्तप्रदेशा येषां तैः तथोक्तैः, ताम्बूलीलताभिः नागवल्ली-प्रततीभिः संवनद्धं संबद्धं यत् पूगखण्डं क्रमुकवनं तेन मण्डितैः अलंकृतैः, अत एव वनलक्ष्म्या विपिनश्रियः वासभवनैरिव वसतिगृहैरिव लतामण्डपैः वल्लीजनाश्रयैः विराजिता उपशोभमाना।

इह दाडिमीफलद्रवेण मध्यभागस्य चार्द्रीकरणसम्बन्धभावावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्त्य-लङ्कारः, ‘वनलक्ष्मीवासभवनैरिव’ इत्यत्र जात्युत्प्रेक्षा च, द्वयोरपि परस्परनैरपेक्ष्येण स्थितत्वात्संसृष्टिरलङ्कारः।

उन्मदेति। उन्मदानां मदोन्मत्तानां मातङ्गानां गजानां कपोलस्थलेभ्यो गण्डप्रदेशेभ्यो गलितैः च्युतैः सलिलैः मदजलैः सिक्तेनेव सता, अत एव मदगन्धिना गजदानजलगन्ध इव गन्धो यस्मिन् तेन तथोक्तेन, एलालतानां चन्द्रवालातवल्लीनां वनेन विपिनेन निरन्तरं सान्द्रं यथा स्यात्तथा अन्धकारिता नावच्छादितेत्यर्थः। इह क्रियोत्प्रेक्षा।

नखेति। नखानां नखराणां मुखेषु अग्रेषु लग्नानि लासक्तानि यानि इभकुम्भमुक्ताफलानि सिंह-विदारितगजमस्तकमांसपिण्डोद्भव़ानि मौक्तिकानि तेषु लुब्धैः लोलुपैः शबराणां किरातानां सेनापतिभिः सैन्याध्यक्षैः अभिहन्यमानं केशरािशतं मृगेन्द्रमण्डलं यस्या सा तथोक्ता।

प्रेतेति। प्रेताधिपस्य यमराजस्य नगरीव संयमिनीपत्तनमिव, सदा सर्वस्मिन् काले सन्निहित-


थे, कहीं स्थान-स्थान पर लताओं की अनेक कुञ्जें शोभित थीं, जिनमें किसी के बीच की भूमि शुक़ों द्वारा कुतर-कुतर कर गिराये गए अनारदानों के रस से गीली-सी हो गयी थीं, किसी के नीचे उछल-कूद मचानेवाले बन्दरों से हिलाये गए कैथ के वृक्षों से गिरे हुए पत्ते और फलों के टुकड़े बिखरे हुए थे, किसी में निरन्तर झड़ने वाली फूलों की धूल पड़ी हुई थी, किसी में पथिकों ने आराम करने के लिए लवङ्ग-लता के पत्तों की चटाइयाँ बिछा रखी थीं, किसी के किनारों पर अत्यन्त कठोर नारियल, केवड़े, करील और मौलश्री के वृक्ष घिरे थे, किसी में पान की लताओं से लिपटी हुई सुपारी के झुण्डों वनलक्ष्मी के महलों के समान प्रतीत होती थीं, कहीं एक में एक सटी हुई सुगन्धित लताओं का घना अन्धकार छाया था जिससे वह वनभूमि मत्तवाले हाथियों के कपोलों से बहे हुए मदजल से सिंची हुई सी प्रतीत होती थीं, कहीं गजोन्मादों की लालच से भीलों के सेनापति हाथी के बच्चों के मस्तकों से फाड़ कर निकाले गए मोतियों को नाखूनों की छोरों में भरे हुए सैकड़ों


१. ‘कम्पित’ इत्यपि पाठः क्वचित्तोपलभ्यते।
२. ककोल बक्कोल।
३. शुकलैः।
४. धूलिसंनावनद्ध-कुसुम।
५. संस्तरैः।
६. नालिकेर, करिकेतरा
७. ‘करीरबकुल’ इति पाठः क्वचित्पुस्तके नास्ति।
८. वासभुवनैरिव।
९. विराजितमण्डपैः।
१०. स्रवण, प्रसवण, सलिलप्रस्रवण।
११. नदस्तिक।
१२. निरन्तरमेकया।

विन्ध्याटवीवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता ५७

सन्निहितमृत्यु-भीषणा महिषाधिष्ठिता च, समरोद्यतपताकिनीव बाणासनारोपितशिलीमुखा विमुक्त-सिंहनादा च, कात्यायनीव प्रचलितखड्गभीषणा रक्तचन्दनालङ्कृता च, कर्णी-सुतकथेव सन्निहित-विपुलाचला शशोपगता च कल्पान्तप्रदोषसन्ध्येव प्रनृत्यन्नीलकण्ठा पल्लवारुणा च, अमृतमथनवेलेव श्रीद्रुमोपशोभिता वारुणी-परिगता च, प्रावृषिव घन-

समीपवर्ती मृत्युः यमः तेन भीषणा भयदायिनी, पक्षे—व्याघ्रादिहिंसकवर्गैराक्रमणसम्भवात् भीषणा भयकारिणी, महिषो यमस्य वाहनं तेन अधिष्ठिता सहिता, पक्षे—महिषैः वन्यसैरभैः अधिष्ठिता व्याप्ता च 'लुलायो महिषो वाहद्विषाकासरसैरभाः' इत्यमरः । इतः प्रभृति 'क्वचिद्गृहीतव्रतेव' इत्यन्तं यावत् साधारणधर्मादिसद्भावात्पूर्णोपमालङ्कारः ।

समरोद्यतेति । समरे युद्ध उद्यता प्रवृत्ता या पताकिनी सेना तद्वदिव बाणासनेषु चापेषु आरोपिताः संस्थापिताः शिलीमुखा लोहखण्डाः शरा इत्यर्थः, यया सा तथोक्ता, तथा विमुक्तः परित्यक्तः सुभटैर्विहित इत्यर्थः, सिंहनादः श्वेडा इव नादो यया सा, पक्षे—बाणासु नीलीझिण्टीषु असनेषु पीतशालेषु च तरुषु भारोपिताः पुष्पसौगन्ध्यात् स्थापिताः शिलीमुखा भ्रमरा यया सा तथोक्ता ।

कात्यायनीति—कात्यायनी सिंहवाहिनी दुर्गेव, प्रचालितेन हननाय चञ्चलीभूतेन खड्गेन असिना भीषणा भयानका, तथा रक्तचन्दनानुलेपनेन अलङ्कृता भूषिता इयमपि प्रचलितैः इतस्ततः सेनाप्रकर्षेण सञ्चरद्भिः खड्गैः गण्डकैः भीषणा तथा रक्तचन्दनैः तत्संज्ञकतरुभिः अलङ्कृतेत्युभयोः साम्यम् ।

कर्णीति । कर्णीसुतः चौर्यशास्त्रप्रवर्तकः क्षत्रियविशेषः तस्य कथा वृत्तान्तः तद्वदिव, सन्निहितौ निकटवर्त्तिनौ विपुलाचलौ तत्संज्ञकौ सखायौ यस्यां सा तादृशी तथा शशेन शशसंज्ञकेन सचिनेन उपगता विविक्ता तथा च वृहत्कथायाम्—

कर्णीसुतः करटकः स्तेयशास्त्रप्रवर्तकः । तस्य ख्यातौ सखायौ द्वौ विपुलाचलसंज्ञितौ ॥ शशो मन्त्रिवरस्तस्य' ।

पक्षे—सन्निहिताः समीपवर्त्तिनः विपुला विस्तीर्णाः अचलाः पर्वता यस्यां सा तादृशी, तथा शशैर्मृगलोमकैः लोध्रवृक्षैर्वा उपगता सहितेत्युभयोः साम्यम् । 'शशो लोम्रे नृभेदे च पशौ' इत्यनेकार्थः ।

कल्पान्तेति । कल्पान्ते युगान्ते प्रदोषो रजनीमुखं तस्य या सन्ध्या सायं समयस्तद्वदिव, प्रनृत्यन् संसारसंहारप्रमोदेन नटन् नीलकण्ठो महादेवेवो यस्यां सा तथोक्ता तथा पल्लवः किसलयस्तद्वत् अरुणा रक्ता, पक्षे—प्रनृत्यन्तः मदेन नटन्तो नीलकण्ठा मयूरा यस्यां सा तथा पल्लवैः अनेकविधलताकिसलयैररुणा उपरि रक्तरूपा ।

अमृतेति । अमृताय सुधायै 'पीयूषममृतं सुधा' इत्यमरः यन्मन्थनं क्षीरसमुद्रस्य विलोचनं तस्य वेला समय इव, श्रिया लक्ष्म्या द्रुमेण कल्पद्रुमेण नामैकदेशग्रहणेन नामग्रहणं बोध्यम् उपशोभिता उप-रञ्जिता, वारुणीं सुरां परिगता सहिता, तस्या अपि तत्समये ततो जातत्वात्, पक्षे—श्रीद्रुमैः बिल्ववृक्षैः उपशोभिता, वारुणीं पश्चिमां दिशं परिगता सामस्त्येन प्राप्ता भारतवर्षस्य पश्चिमप्रान्तपर्यन्तं व्याप्तत्वात् ।

शेरों का शिकार करते रहते थे, कहीं सर्प, व्याघ्र आदि हिंसक जन्तुओं और भैंसों से भरी हुई वह वनभूमि भयंकर यमराज और उनके वाहन भैंसों से युक्त यमपुरी के समान प्रतीत होती थी, कहीं भौरों से ढकी हुई बाण और असना के वृक्षों की पंक्तियाँ थीं जिनमें सिंहों की दहाड़ होती रहती थी जिससे वह वनभूमि धनुष पर बाण चढ़ाकर युद्ध के लिए तैयार गरजती हुई सेना के समान प्रतीत होती थी, कहीं लाल चन्दनों के वृक्षों में इधर-उधर गैंड़े घूमा करते थे, जिससे वह रक्त चंदन और तलवार धारण करने वाली भगवती दुर्गा के समान प्रतीत होती थी, कहीं कनेरों से भरी विस्तृत पहाडों की श्रेणियों में खरगोश स्वच्छन्दता से विचरण किया करते थे अथवा कहीं कनेरों से पूर्ण पहाड़ों के फैले हुए अञ्चलों में लोध्र के अनेक वृक्ष झूमा करते थे जिससे वह विपुल और अचल नाम के मित्रों तथा शश नाम के प्रधान मन्त्री से युक्त कर्णीसुत (चौर्य शास्त्र के प्रणेता) की कथा के समान प्रतीत होती थी, कहीं लाल-लाल पल्लवों की झुरमुटों में मोर थिरकते रहते थे जिससे वह भगवान् शंकर के ताण्डव नृत्य से युक्त लीला से भरी हुई प्रलयकालीन सन्ध्या के समान प्रतीत होती थी, कहीं इधर-उधर बेल और वारुणी वृक्ष घिरे थे जिससे वह लक्ष्मी, पारिजात और मदिरा से सुशोभित अमृत-मंथन की


१. ०००सेनेव । २. समारोपित । ३. विविक्त । ४. प्रनृत्यन्नीलकण्ठा । ५. वारुण ।

८ का० कथा०

५८कादम्बरी-[कथामुखे-

श्यामला अनेकशतह्रदालङ्कृता च, चन्द्रमूर्त्तिरिव सततमृक्षसार्थानुगता हरिणाध्यासिता च, राज्यस्थितिरिव चमरमृग-बालव्यजनोपशोभिता समदगजघटा-परिपालिता च, गिरितनयेव स्थाणुसङ्गता मृगपतिसेविता च, जानकीव प्रसूतकुशलवा निशाचरपरिगृहीता¹ च, कामिनीव चन्दन-मृगमदपरिमलवाहिनी रुचिरोगुरु-तिलकभूषिता च, सोत्कण्ठेव विविधपल्लवा-

प्रावृदिति। प्रावृट् वर्षा समय इव, घनैर्मेघैः श्यामला कृष्णवर्णा तथा अनेकाभिः शतह्रदाभिः तडिद्भिः अलङ्कृता मण्डिता, पक्षे—घना वृक्षादिभिः सान्द्रा चासौ अत एव श्यामला अत्यन्तकृष्णा तथा अनेका भिन्नाभिन्नस्वरूपाः शतह्रदा जलबालिकाः ताभिः अलङ्कृता।

चन्द्रेति। चन्द्रस्य मूर्त्तिः शरीरमिव, सततं निरन्तरम् ऋक्षाणि ताराः तेषां सार्थः समूहः तेन अनुगता परिवेष्टिता, हरिणेन मृगचिह्नेन अध्यासिता आश्रिता। पक्षे—सततम् ऋक्षा भल्लूकाः तेषां सार्थः समुदायः तेन अनुगता व्याप्ता, हरिणैर्मृगैः अध्यासिता।

राज्येति। राज्यस्थितिः राज्यमर्यादा इव, चमरमृगाणां बालाः चामराणि व्यजनानि तालवृन्तानि च तैरुपशोभिता, तथा समदाभिः मदेन सह वर्त्तमानाभिः गजघटाभिः करिम्मण्डलैः परिपालिता परिरक्षिता। पक्षे—चमरमृगाणां बाला लोमान्येव व्यजनानि तैः तथोक्तैः 'व्यजनं तालवृन्तकम्' इत्यमरः, अन्यत्पूर्ववदेव।

गिरिनि। गिरितनया हिमाचलसुता पार्वती तद्वदिव स्थाणुना रुद्रेण 'स्थाणू रुद्र उमापतिः' इत्यमरः, सङ्गता मिलिता, तथा मृगपतिना बाहनीभूतसिंहेन सेविता वाहनेन शुश्रूषिता, पक्षे—स्थाणुभिः शाखापत्रादिशून्यतरुभिः सङ्गता, तथा मृगपतिभिः सिंहैः सेविता आश्रिता।

जानकीति। जानकी मैथिलात्मजा सीता तद्वदिव प्रसूतौ गर्भाद्विसृक्तौ कुशलवौ नक्षामकसुतौ यथा सा तथोक्ता, निशाचरेण लङ्काधिपतिना रावणेन परिगृहीता पञ्चवटीतोऽपहृता, पक्षे—प्रसूता जनिताः कुशानां बर्हिषां लवा अङ्कुरा यस्यां सा तथोक्ता, निशाचरैः उल्कादिपक्षिभिः परिगृहीता आश्रिता।

कामिनीति। कामिनी शृङ्गारनायिका तद्वदिव, चन्दनानुलेपन-मृगमदानुलेपनाभ्यां परिमलं सौगन्ध्यं वहति धारयतीत्येवंशीला तथा रुचिरागुरुणा सुन्दरकाकतुण्डसौगन्ध्येन तिलकेन भालपट्टादौ सिन्दूरादिपुण्ड्रकेन भूषिता अलङ्कृता, पक्षे—चन्दनानां वृक्षाणां मृगमदानां कस्तूरीणाञ्च सम्बन्धात् परिमलं सौगन्ध्यं वहति खनिस्वादाधारत्वाच्च दधातीत्येवंशीला, तथा रुचिराभ्यां मनोहराभ्याम् अगुरुतिलकाभ्याम् आमोदितरुविशेषपुष्पतहविशेषाभ्यां भूषिता शोभिता।

सोत्कण्ठेति। सोत्कण्ठा कान्तप्राप्तिसमुत्सुका नायिका तद्वदिव, विविधानाम् अनेकप्रकाराणां पल्लवानां किसलयानाम् अनिलैः पवनैः वीजिता सहचरीभिः मदनव्यथापनोदाय स्पर्शिता, पक्षे—स्वभावतः स्पृष्टा च, मदनेन कामेन मदनैः तदाख्यतरुविशेषैश्च सह वर्त्तमाना संयुक्ता।

वेला के समान प्रतीत होती थी, कहीं अत्यन्त घने वृक्षों की नीलिमा के बीच-बीच निर्मल जल से भरी अनेक तलरियाँ सुशोभित थीं जिससे वह बिजलियों से युक्त काले बादलों की घटा के समान प्रतीत होती थीं, कहीं रींछों का आवागमन होता रहता था और कहीं हरिण चौकड़ियाँ भरा करते थे जिससे वह नक्षत्रों से घिरी और मृग के चिह्नों से सुशोभित चन्द्रमा की मूर्ति के समान प्रतीत होनी थी, कहीं पूँछ डुलाती हुई चँवरी मृगियाँ घूमती रहती थीं और कहीं मतवाले हाथियों की कतारें खड़ी रहती थीं जिससे वह ऐसी प्रतीत होती थी मानो चँवरों से सुशोभित और हाथियों से रक्षित राज्य की मर्यादा हो, कहीं ठूंठे वृक्षों के बीच सिंह घूमते रहते थे जिससे वह भगवान् शंकर के साथ-साथ घूमने वाली सिंहवाहिनी भगवती पार्वती के समान सुशोभित होती थी, कहीं की भूमि कुशों के अंकुरों से ढकी हुई थी जिनमें उल्लुओं ने अपना बसेरा बना रखा था जिससे वह कुश-लव को जन्म देने वाली रावण के फन्दे में पड़ी देवी जानकी के समान प्रतीत होती थी, कहीं चन्दन और कस्तूरी की गन्ध उठती रहती थी और कहीं अगर और तिलक के अनेक वृक्ष उगे थे जिससे वह ऐसी प्रतीत होती थी मानो चन्दन और कस्तूरी का लेप किये हुये अगर का तिलक लगाने वाली कोई सुन्दरी हो, कहीं मन्द-मन्द वायु में पल्लव हिलोरें लेते रहते थे और कहीं मदन के अनेक वृक्ष लगे थे जिससे वहाँ अत्यन्त शीतलता छायी रहती थी, इसलिये वह ऐसी प्रतीत होती थी मानो किसी कामातुरा उत्कण्ठिता नायिका पर पल्लवों का पंखा झल


१. पतिगृहीता ।
२. कृष्णागुरु...।
३. सोत्कण्ठवनितेव ।

विन्ध्याटवीवर्णनम् ]चन्द्रकला-विद्योतिनीसहिता ।५६

निलवीजिता समदना च, वालग्रीवेव व्याघ्रनखपङ्क्तिमण्डिता गण्डकाभरणा च, पान-भूमिरिव प्रकटित-मधुकोशर्क-शता प्रकीर्णविविधकुसुमा च, क्वचित् प्रलयवेलेव महा-वराह-दंष्ट्रा-समुत्खात-धरणमण्डला, क्वचिद्दशमुखनगरीव चटुलवानरवृन्द-भज्यमान-तुङ्ग-शालाकुला, क्वचिदचिरनिर्वृत्त-विवाहभूमिरिव हरित-कुश-समित्-कुसुम-शमी पलाश-शोभिता, क्वचिदुन्मत्त-मृगपति-नाद-भीतेव कण्टकिता, क्वचिन्मत्तेव कोकिलकुल-कल-

बालेति । बालाः स्तनन्धयाः तेषां ग्रीवा गलदेशाः तद्वदिव, व्याघ्राः शार्दूलाः तेषां नखाः पुनर्भवद्याः तेषां पङ्क्तिभिः श्रेणिभिः मण्डिता भूषिता 'दिव्यत्पिशवलिः पङ्क्तिः श्रेणी लेखास्तु राजयः' इत्यमरः । बालानां गलदेशेषु दैवोत्पातरक्षार्थं व्याघ्रनखपङ्क्तयो बध्यन्त इति सम्प्रदायः, तथा च—श्रीमद्भागवते—'शार्दूलदिव्यनखभूषणभूषिताय नन्दात्मजाय' इति । गण्डकः तत्तद्देशविशेषप्रख्यातो गण्डस्थलपर्यन्तवर्त्तिभूषणविशेष आभरणम् अलङ्करणं यस्यां सा पक्षे—व्याघ्रनखपङ्क्तिभिः पर्यटनसमयोत्पन्ननखच्छिन्नवल्लीभिः मण्डिता, गण्डका खड्गिनःस एव आभरणानि भूषणानि यस्याः सा तथोक्ता ।

पानेति । पानभूमिः मद्यपानार्थस्थानं तद्वदिव, प्रकटितं पानाय द्योतितं मधु मद्यं तस्य कोशकानि पानपात्राणि यस्यां सा तथोक्ता, तथा प्रकीर्णानि पर्यस्तानि विविधानि अनेकप्रकाराणि कुसुमानि पुष्पाणि यस्यां सा, पक्षे—प्रकटितं प्रकाशितं मधूनां पुष्परसानां माक्षिकाणामित्यर्थः, कोशानां तदाश्रयाणाञ्च शतं यस्यां सा, अन्यत्तुल्यमेव ।

क्वचिदिति । क्वचित् कस्मिंश्चित्प्रदेशे एवमग्रेऽपि । प्रलयः सर्वत्र जलमयः तस्य वेला अवसरः तद्वदिव, महावराहेण परमेश्वरवृतीयावतारेण दंष्ट्रया दन्तेन समुत्खातं जलादूर्ध्वमानीतं धरणमण्डलं समस्तपृथ्वीमण्डलं यस्यां सा तथोक्ता, महावराहः पृथुलशूकरैः दंष्ट्राभिः दशनैः समुत्खातं विदारितं धरणमण्डलं भूम्यंशो यस्याः सा 'वराहः शूकरो घृष्टिः' इत्यमरः ।

प्रलयसमये परमेश्वरो हि वराहमूत्तिमाश्रित्य सलिलमग्नां भुवमूर्ध्वमानितवानिति पौराणिकवार्त्ता ।

क्वचिदिति । दशमुखस्य रावणस्य नगरी लङ्कापुरी तद्वदिव, चतुलाः चञ्चला ये वानराः शाखामृगाः तेषां वृन्देन समूहेन भुज्यमानाः श्रोच्यमानाः तुङ्गा उन्नता याः शाला भवनकदेशाः ताभिः आकुला व्याप्ता, पक्षे—चटुलवानरवृन्देन भुज्यमानास्तुङ्गा उच्चाः शालास्तदाख्यवृक्षाः ताभिः आकुला व्याकुला । राम-रावणयोः संग्रामकाले कपिवृन्देन लङ्काया भवनसमूहो नाशित आसीदिति रामायणीया कथा ।

क्वचिदिति । अचिरनिर्वृत्तः तत्कालनिष्पन्नो यो विवाहः परिणयः तस्य भूमिः स्थानं तद्वदिव, हरिता नीलवर्णा ये कुशा दर्भाः समिधो यज्ञीयकाष्ठानि, कुसुमानि पुष्पाणि, शमी, श्वा, पलाश्रा ग्रहवृक्षाः तैः शोभिता भूषिता भूषिता, पक्षेऽपि तुल्यमेव ।

क्वचिदिति । उन्मत्तो मदमत्तो यो मृगपतिः सिंहः तस्य नादेन गर्जितेन भीतेव त्रस्ता सुन्दरीव, कण्टको रोमाञ्चः सञ्जातोऽस्या इति कण्टकिता, पक्षे—कण्टकयुक्ता च ।

क्वचिदिति । मत्ता मधुपानोनोमत्ता नायिकेव, कोकिलकुलवत् पिकसमूहवत् कलम् अस्फुटमधुरं

कर शीतोपचार किया जा रहा हो, कहीं बाघों के इधर-उधर घूमने से उनके नखों के चिह्न उमड़े थे, कहीं गेंड़े इधर-उधर आते जाते थे जिससे वह दशनखों और गंडों से सुशोभित बालकों के गले के समान प्रतीत होती थी, कहीं-कहीं मधु के छत्ते पड़े थे जिनमें सैकड़ों मधु से भरी जालियों ऐसी प्रतीत होती थी मानो मदिरा से भरे सैकड़ों सकोरे हों और कहीं इधर-उधर तरह तरह के फूल बिखरे थे मानो मदिरा की बूंदें टपकी हों जिससे वह भूमि मदिरा पीने की जगह के समान प्रतीत होती थी, कहीं-कहीं जंगली सूअरों ने अपने दाढ़ों से भूमि खोद-खोदकर दूहे बना दिये थे जिससे वह दाढ़ों पर पृथ्वी उठानेवाले भगवान् वराह जैसे लगत थे और उनसे सुशोभित वह भूमि प्रलय की वेला के समान प्रतीत होती थी, कहीं कुश, समिधा (हवन की एकादशियाँ), फूल, शमी और पलाश के पत्ते पड़े थे जिससे वह भूमि ऐसी विवाह-वेदिका के समान प्रतीत होती थी जहाँ शीघ्र ही विवाहकार्य सम्पन्न हुआ हो, कहीं चञ्चल बन्दरों ने ऊँचे-ऊँचे शाल वृक्षों को तोड़ डाला था जिससे उन वृक्षों से भरी हुई वह भूमि ऐसी प्रतीत होती थी मानो बन्दरो द्वारा तोड़ी गया अंटारियों से भरी रावण की नगरी लंका हो। कहीं काँटों से भरी हुई झाड़ियों में भयभीत करनेवाले सिंह की दहाड़ होती रहती थी जिससे वह


१. पदपक्ष्ममण्डिता । २. आपान । ३. कोशशता । ४. ...भ्रङ्ग...वृङ्ग । ५. वृद्धवृत्त... ।

६०कादम्बरी-[ कथामुखे-

प्रलापिनी, क्वचिदुन्मत्तेव वायुवेग-कृत-तालशब्दा, क्वचिद्विधवेव उन्मुक्ततालपत्रा, क्वचित् समरभूमिरिव शर-शत-निचिता, [क्वचिदमरपति-तनुरिव नेत्रसहस्र-सङ्कुला, क्वचि-न्नारायणमूर्त्तिरिव तमालनीला, क्वचित् पार्थरथपताकेव वानराक्रान्ता, क्वचिदवनिपति-द्वार-भूमिरिव वेत्रलताशतदुष्प्रवेशा, क्वचिद्विराटनगरीव कीचकशतावृता, क्वचिदम्बरश्रीयिव

प्रलपितुम् उन्मत्तवशात् अनर्थकं वक्तुं शीलं यस्याः सा, पक्षे-कोकिलकुलस्य पिकमण्डलस्य कलप्रलापो-ऽस्फुटमञ्जुलध्वनिरस्या अस्तीति सा तादृशी ।

क्वचिदिति । उन्मत्ता उन्मादवातःव्याधियुक्ता स्त्रीव, वायुवेगेन व्याधिरूपपवनबाहुल्येन कृता विहिताः तालशब्दाः करतलध्वनयो यया सा, पक्षे-वायुवेगेन पवनाधिक्येन कृताः तालानां तालतरूणां शब्दाः यस्यां सा तादृशी ।

क्वचिदिति । विगतो विनष्टो धवः पतिर्यस्याः सा सुन्दरीव, उन्मुक्तं स्वामिमरणाद् परित्यक्तं ताल-पत्रं ताटङ्कः कर्णाभरणविशेषो यया सा तादृशी, पक्षे-उन्मुक्तानि युगान्तपवनाधिक्येन पतितानि तालानां तालतरूणां पत्राणि पर्णानि यस्यां सा तादृशी 'पत्रं पलाशं छदनं दलं पर्णं छदः पुमान्' इत्यमरः ।

क्वचिदिति । समरो युद्धं तस्य भूमिः स्थानमिव, शराणां मुञ्जवृन्दानां बाणानाञ्च शतेन समुदायेन निचिता व्याप्ता ।

क्वचिदिति । अमराणां देवानाम् 'अमरा निर्जरा देवा' इत्यमरः, पतिः प्रभुः इन्द्रः तस्य तनुः शरीर-मिव, नेत्राणां लोचनानां तरुमूलानाञ्च यद्वा-जटानां सहस्रं तेन सङ्कुला व्याप्ता । जटांशुकयोर्नेत्रम्' इत्य-मरः, 'नेत्रं मध्यगुणे वस्त्रभेदे मूले द्रुमस्य च' इति मेदिनी ।

क्वचिदिति । नारायणस्य श्रीकृष्णस्य मूर्त्तिः शरीरमिव, तमालं तापिच्छं तद्वच्छीला श्यामवर्णा, पक्षे-तन्नामकवृक्षैः नीला ।

क्वचिदिति । पार्थोऽर्जुनः तस्य रथस्य पताका वैजयन्ती 'पाताका वैजयन्ती स्यात्' इत्यमरः वानरेण हनूमता वानरैः शाखामृगैश्च आक्रान्ता अधिष्ठिता ।

क्वचिदिति । अवनिः पृथ्‍वी तस्याः पतिः स्वामी राजेत्यर्थः, तस्य द्वारभूमिरिव, वेत्राणि चेतसा लता, यष्ट्यश्च तासां शतं समूहस्तेन द्वारपालहस्तवेत्रयष्टिसमूहेनेत्यर्थः, दुष्प्रवेशा दुःखेन प्रवेष्टुं योग्या अन्य-पक्षेऽपि तुल्यम् ।

क्वचिदिति । विराटस्य मत्स्याधिपतेः नगरी पुरीव, कीचकशतेन स्वप्रियवान्धवकीचकसमूहेन राज-श्यालकेन, पक्षे-कीचकाः सरन्ध्रवेणवः छिद्रेषु वायुप्रवेशेन शब्दायमानवंशगणा इत्यर्थः, तैः आवृता व्याप्ताः 'वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः' इत्यमरः ।

क्वचिदिति । अम्बरम् आकाशं तस्य श्रीलक्ष्मीखिव, व्याधेन व्याधरूपधारिणा शिवेन अनुगम्यमानम्


उस दहाड़ से डर कर रोमाञ्चित सी प्रतीत होती थी, कहीं मधु पी-पीकर मतवाली कोयलें मधुर कूक मचाए रहती थीं जिससे वह मदिरा पीकर बड़बड़ानेवाली मतवाली स्त्री के समान प्रतीत होती थी, कहीं वायु के थपेड़ों से ताड़ के पत्ते खड़खड़ाया करते थे जिससे वह बात-बात में तालियाँ पीट-पीट कर ठट्ठा मारने वाली पगली के समान प्रतीत होती थी, कहीं ताड़ वृक्षों के पत्ते टूट-टूटकर गिर पड़े थे जिससे वह कर्णफूल से रहित विधवा के समान प्रतीत होतो थी, कहीं सैकड़ों शरपत्रों (सरकण्डा नाम का पौधा) से भरी होने के कारण वह बाणों से भरी युद्धभूमि के समान दिखाई पड़ती थी, कहीं हजारों नेत्र नाम के वृक्षों के कारण वह हजार नेत्रों वाले भगवान् इन्द्र के शरीर के समान प्रतीत होती थी, कहीं चारों ओर तमाल वृक्षों की घनी नीलिमा के कारण भगवान् नारायण की मूर्ति के समान प्रतीत होती थी, कहीं बन्दरों से भरी होने के कारण बन्दर की छाप लगी अर्जुन के रथ की पताका के समान प्रतीत हो रही थी, कहीं बेंतों की लताओं के कारण उसमें प्रवेश पाना अत्यन्त कठिन था जिससे वह सैकड़ों बेंतधारी द्वार-पालों से घिरी राजमहलों की देहली के समान प्रतीत होती थी, कहीं सैकड़ों बाँसों की झाड़ियाँ लगी हुई थीं जिससे वह कीचकों से भरी विराट् की नगरी के समान प्रतीत होती थी, कहीं घने जंगलों में बहेलिये रूप से चञ्चल नेत्रोंवाले हरिनों का पीछा करते थे


१. कम्प्राक्रान्ता, कप्याक्रान्ता । २. अमरपति । ३. कीचकावृता, कोचकाकुला ।

विन्ध्याटवीवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । ६१

व्याधानुगम्यमान-तरल-तारक-मृगा, क्वचिद्गृहीतव्रतेव दर्भ-चीर-जटा-वल्कल-धारिणी, अपरिमित-बहलपत्रसञ्चयाऽपि सप्तपर्णभूषिता, क्रूरसत्त्वाऽपि मुनिजनसेविता, पुष्पवत्यपि पवित्रा विन्ध्याटवी नाम् । ...तस्याञ्च दण्डकारण्यान्तःपति सकलभुवनविख्यातम् उत्पत्तिक्षेत्रमिव भगवतो धर्म्मस्य, सुरपति-प्रार्थना-पीत-सकल-सागर-सलिलस्य मेरुर-मत्सराद्गवैरतल-प्रसारित-शिरःसह-

अनुगम्यमानम् अत एव तरलं त्रासेन चलं तारकमृगं मृगशिरोनक्षत्रं यस्यां सा तथोक्ता, पक्षे—व्याधैः किरातैः अनुगम्यमानाः, अत एव तरला भयेन लोलाश्चञ्चलाः तारका लोचनकनीनिका येषां ते तथोक्ता मृगा हरिणा यस्यां सा तादृशी। पुरा प्रजापतिः परमसुन्दरीं स्वतनयां सन्ध्यां निरीक्ष्य कामांन्धस्तामन्वधावत्, स्वधर्म्मं रिरक्षिषुः सा पुत्री तु हरिणीस्वरूपमाश्रित्य पलायमाना महादेवशरणं गतवती, प्रजापतिरपि हरिणस्वरूपमाश्रित्य तत्राम्यनुजगाम महादेवस्तु तद्विरीक्ष्य प्रजापतेः शिरःकर्त्तनाय स्वधनुषा वाणं मुमोच, तदा तु प्रजापतिरत्यन्तं लज्जितस्त्रस्तश्च सन् मृगशिरोनक्षत्रे प्रविष्टवान् शिवस्य वाणोऽपि आर्द्रानक्षत्रस्वरूपेण तदन्वतिष्ठदिति शिवपुराणीया कथानुसन्धेया।

क्वचिदिति । गृहीतं स्वीकृतं व्रतं नियमो यया सैवंविधा सुन्दरीव, दर्भाः कुशाः, चीराणि जीर्णवसनखण्डानि, जटाः संहतकेशाः ‘शिखाजटे संहतौ कचौ’ इत्यनेकार्थः, वल्कलानि च परिधेयानि परिधारयितुं शीलं यस्याः सा तथोक्ता, पक्षे—दर्भाः कुशाः, चीराः तृणविशेषाः, जटाः मूलानि वल्कलानि च धारयितुं शीलं यस्याः सा तादृशी ‘मूले लग्नकचे जटा’ इत्यमरः।

अपरीति । अपरिमित्तानि सङ्ख्याक्रान्तानि बहलानि सघनानि पत्राणि दलानि तेषां सञ्चयः समूहो यस्यां सा तथोक्ताऽपि सप्तभिः पर्णैः भूषितेति विरोधः, सप्तपर्णसंज्ञकतन्निराजितेति तत्परिहारः। ‘यत्र विरोध इव भासेत विरोधोऽसौ’ इति लक्षणेन विरोधाभासोऽलङ्कारः। एवमग्रेऽपि । क्रूरसत्त्वेति । क्रूरं दुष्टं सत्त्वं हृदयं यस्याः सा तथोक्ताऽपि मुनिजनसेवितेति विरोधः ‘सत्त्वं द्रव्ये गुणे चित्ते व्यवसायस्वभावयोः’ इत्यनेकार्थः, क्रूराः हिंस्राः सत्त्वा व्याघ्रादिप्राणिनो यस्यां सा तादृशीति तत्परिहारः तथा पुष्पवती रजोधर्म्मवत्यपि पवित्रेति विरोधः, पुष्पाणि प्रसूनानि अस्याः सन्तीति तत्परिहारः।

तस्याञ्चेति । तस्यां विन्ध्याटव्याम् अगस्त्यस्य कुम्भयोनेः आश्रमपदं तपोभूमिः आसीदिति वक्ष्यमाणेन सम्बन्धः । इह प्रथमान्तानि पदानि आश्रमस्य विशेषणानि । दण्डकारण्यस्य दण्डकसंज्ञकवनस्य अन्तःपाति तन्मध्यवर्ति । अत्रेदमितिवृत्तम्—सूर्यवंशीयः कश्चन दण्डको नाम भूपतिः शुक्राचार्यगुरोः अरजाख्यां पुत्रीं बलात्कारेण घर्षितवान्, तच्छ्रुत्वातीव कुपितः शुक्राचार्यस्तं नृपमभिशापाप-त्वं विनङ्क्ष्यसि, अद्यारम्य सप्तादिनाभ्यन्तरे चेदं राज्यं महावनतया परिणतं भविष्यतीति । तच्च विन्ध्याचलशिखरप्रदेशस्थं राज्यं दण्डकारण्यं सञ्जातम् इति । रामायणे प्रसिद्धमेतत् ।

सकलेति । सकलानि समस्तानि यानि भुवनानि भूभुव आदीनि तेषु विख्यातं प्रसिद्धम् । भगवतो महाम्यवतो धर्मस्य सुकृतस्य उत्पत्तिक्षेत्रमिव जन्मभूमिरिव, तत्र सर्वप्रकारधर्मोत्पत्तेरित्याशयः । अत्र जात्युत्प्रेक्षा, सा च भावाभिमानिनी वाच्येत्यवगन्तव्या ।

सुरेति । सुरपतिः इन्द्रः तस्य प्रार्थनया याञ्चया पीतानि चुलुकीकृतानि सकलसागराणां समस्त-

जिससे वह ऐसी प्रतीत होती थी मानो व्याधिरूपधारी भगवान् शंकर से खदेड़े गए मृगशिरा से शोभित आकाश की लक्ष्मी हो,—कहीं कुश, चीर (चीड़ नाम का वृक्ष), जटाओं और छालों के कारण वह ऐसी प्रतीत होती थी मानो कुश की लंगोटी मारे तथा वल्कलों की काछनी काछे कोई जटाधारिणी तपस्विनी हो, कहीं अत्यन्त घने पत्तोंवाले छितवन के वृक्षों से भरी होने के कारण वह असंख्यपछवा होते हुए भी सप्तपर्णा प्रतीत होती थी। यद्यपि उसमें दुष्ट प्राणियों के समान अनेक हिंसक जन्तु भरे थे, किन्तु उसमें अनेक मुनियों के आश्रम भी स्थित थे। यद्यपि वह फूलों से लदी होने के कारण रजस्वला सी सी प्रतीत होती थी, किन्तु वह अत्यन्त पवित्र भी थी।

उस विन्ध्याटवी में दण्डक वन के बीच सभी लोकों में प्रसिद्ध भगवान् धर्मराज की जन्मभूमि के समान महर्षि अगस्त्य का पवित्र आश्रम था, जिन्होंने भगवान् इन्द्र की प्रार्थना पर समुद्र का सभी जल ही पी


१. बहुल २. सप्तपर्णैर्भूषिता । ३. भुवनख्यातम्, भुवनतलख्यात । ४. निधीन । ... जलस्य । ५. मेरुशिखर । ७. गगनतल... । ८. शिखरस्य ।

६२ कादम्बरी— [कथामुखे-

त्रेण दिवसकर-रथागमने-पथमपनेतुमभ्युद्यतेन अवगणित सकलसुर-वचसा विन्ध्यगिरिणा- प्यनुल्लङ्घिताज्ञस्य, जठरानल-जीर्ण-वातापिदानवस्य सुरासुर-मुकुट-मकरपत्र-कोटि-चुम्बित- चरण-रजसो दक्षिणाशा-वधू-मुख-विशेषकस्य, सुरलोकादेकहुङ्कारनिर्पा तित-नहुष प्रकटै-

समुद्राणां जलानि सलिलानि येन तस्य । इत आरभ्यैऽपप्स्यन्तानि पदानि ऋषेर्विशेषणानि । पुरा लोकान् पीडयितुं कालेयाख्याः केचनासुरा दिनपर्यन्तं समुद्रजलेऽन्तर्हिताः सन्तो निशि बहिरागत्य लोकद्वय-मप्यन्तमुपद्रुतश्चक्रुः । तद्विनाशाय नितरां चेष्ट्यमानो देवाधिपतिरगस्त्यशरणं ययौ। बहुधा प्रार्थितो भगवानगस्त्यो निखिलसमुद्रसलिलानि चुलुके कृत्वा पपाविति महाभारतीया कथात्रातुसन्धेया ।

मेर्विति । मेरोः सुवर्णद्रेः मत्सरात् उन्नतिविषयकशुभद्वेषात् 'मत्सरोऽन्यशुभद्वेष' इत्यमरः अम्बरतले आकाशतले प्रसारितानि विस्तारितानि विक्रटानि बृहन्ति यानि शिरांसि मस्तकानि तेषां सहस्रं समूहो येन स तेन, दिवसकरस्य सूर्यस्य रथागमनपथं स्पन्दनगमनमार्गम् 'श्वःपूरम्धूःप्रयामानदे' इत्यच् प्रत्ययः, अपनेतुं निरसितुम् अभ्युद्यतेन प्रवृत्तेन, तथा अवगणितानि अनाहतानि सकलानां समस्तानां देवानां सुराणां वचांसि दिवसाधिपतेः गति मार्गावरोधनिषेधकवाक्यानि येन तेन विन्ध्यगिरिणाऽपि जलवाल्काद्रिणापि अनुल्लङ्घिता अनतिक्रान्ता सम्मानिता आज्ञा आदेशो यस्य तस्य तादृशस्य ।

पुरा पर्यटन् नारदो योगी विन्ध्याचलमासादयामास, अथ तेन कृतातिथ्यो नारदस्तं गिरिं प्रत्यु-वाच—गिरिमणे ! प्रतिदिनं सूर्यो हि सुमेरुं परिक्रमति त्वां नेति नितरां चेष्टियते मे चेतः अतस्तदर्थ यतस्वेत्यभिधाय निर्गते तस्मिन् तयैवात्मानं विधातुं सूर्यमनुरुन्धन् तेन प्रत्याख्यातोऽतिकोपेन तद्गमन-पथमवरोद्धुं वृद्धिमुपगच्छन् सुरैर्निवारितोऽपि नितरां ववृधे; तदैवतोऽधिकतापाद् प्रज्वलन्तोऽपरतान्चका-राष्टताक्षात्किमपि कर्तुमक्षमा लोका देवान् तुष्टुवुः, ते च द्रुतमेव काश्यामगस्त्याश्रममाजग्मुः, विन्ध्य-वृद्धयवरोधार्थ तममुरुन्धुश्च, अथ तेषामनुरोधेन समायंके भगवत्यगस्त्ये तत्रोपस्थिते विन्ध्याद्रिः शिरोऽ-वनमय्य तस्मै प्रणाममकरोत्, ऋपिस्तु—'प्रिय वत्स ! यावदहं पुनः प्रत्यावृत्तः स्यां तावत्त्वमेवंविघनेवा-वनतो भूत्वा तिष्ठ' इत्युक्त्वा दक्षिणाशां प्रस्थितो नेदानीमपि प्रत्यावृत्तः, विन्ध्याद्रिरपि तदाज्ञयाऽद्युनापि तयैव तिष्ठतीति स्कन्दपुराणान्तर्गतकाशीखण्डोयकथा ।

जठरेति । जठरानलेन उदराग्निना जीर्णः अन्तःपरिपार्कं प्रापितो वातापिदानवो वातापिनामकासुरो येन यस्य तादृशस्य ।

पुरा इल्वलवातापिसंज्ञकौ भ्रातरावसुरविशेषावास्ताम् तत्रेइवलो विप्रस्वरूपं कृत्वा मेषस्वरूप-स्थितं वातापि मारयित्वा तन्मांसं पक्त्वा समुपस्थितान् विप्रान् भोजय.मास, भक्तितवत्सु तेषु 'वातापे ! निर्गच्छ' इतीह्वलेनाकारितः सुरवरप्रतापेन वातापिस्तेषामुदराणि विदार्य निर्यतः, ततश्च तौ तेषां वित्तादिकं चोरितवन्तौ । ततो देवा इत्थं निरीक्ष्य भगवतोऽगस्त्यस्य शरणमाययुः, आगस्त्य च प्रत्यपकर्तुं याचितः स तेनैव रूपेण तन्मांसं भक्षयित्वा उदरे जीर्ण कृतवानिति महाभारतीया क्या ।

सुरासुरेति । सुरा देवा असुरा दानवास्तेषां मुकुटेषु किरीटेषु यानि मकरपत्राणि सुवर्णरचिता मकरा-कारपक्षा, 'पत्रं वाहेनपक्षयोः' इत्यमरः, तेषां कोटयः अग्रभागाः तैः चुम्बितानि स्पृष्टानि चरणरजांसि पादरजषो यस्य तस्य, देवदानवपूजितपदस्येत्यर्थः दक्षिणा अवाची आशा दिनेव वधूः स्त्री तस्या मुखे आनने विशेषकस्य तिलकस्वरूपस्य 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः', चित्रपुण्ड्रविशेषकाः' इत्यमरः। अत्रागस्त्ये तिलकत्वारोपस्य दक्षिणदिशि वधूत्वारोपः कारणमिति परम्परितरूपकम् । तदुक्तं साहित्यदर्पणे—'यत्र कस्यचिदारोपः परारोपस्य कारणम् । तत्परम्परितम्...॥'

सुरेति । सुरलोकात् देवन्गरात् (स्वर्गात् ) एकहुङ्कारेण हुङ्कृतिमात्रेण निपातिते प्रच्याविते नहुषे


लिया था। समस्त देवताओं की प्रार्थना अनसुनी करके मेरु पर्वत की ईर्ष्या के कारण अपनी हजारों चोटियों को आकाश में फैलाकर सूर्य का मार्ग रोक देनेवाला विन्ध्याचल भी जिनकी आज्ञा टालने का साहस न कर सका और पैरों पर झुका ही रह गया, जिन्होंने अपने पेट की आग में वातापि दानव को भी पचा डाला, देवता और राक्षस दोनों ही अपने मुकुटों में बने हुए मत्स्याभूषणों की पत्रलताओं से जिनके चरणों की धूल


१. गतिपथ । २. ' ' 'धुरसन्धू ' ' ' । ३. भक्षयित । ४. मुकुटघटितोमरकतमयपत्रभङ्गकोटि''' । ५. दक्षिणामुखविशेषकस्य । ६. निपतित । ७. प्रकटत ।

[अगस्त्याश्रमवर्णनम् ] चन्द्रकला-विद्योतिनीसहित। ६३

प्रभावस्य भगवतो महामुनेरगस्त्यस्य, भार्य्यया लोपामुद्रया स्वयमुपरचितआलवालकैः करपुट-सलिलसेक-संवर्द्धितैः सुतनिविशेषैरुपशोभितं पादपैः, तत्पुत्रेण च गृहीतव्रतेनापाढिनो पवित्र भस्म-विरचित-त्रिपुण्ड्रकाभरणेन कुश-चीवर-वाससा मौञ्ज-मेखलाकलितमध्येन गृहीत-हरित्पर्णपुटेन प्रत्युटजमटता भिक्षां दृढदस्युनाम्ना पवित्रीकृतम्, अतिप्रभूतेध्म-हरणाच्च यस्येध्मवाह इति पिता द्वितीयं नाम चकार, दिशि दिशि शुक्रहरितैश्च कदलीवनैः


प्रकटः स्फुटः प्रभावो माहात्म्यं यस्य तस्य तादृशस्य, भगवतो माहात्म्यवतः महामुनेरकृष्टमनशीलस्य।

इह स्पष्टः पुत्रे वृत्रे दधीच्यस्थना वज्रं निर्माय हते सुराधिपे ब्रह्महत्याणायते मानससरोवरे निलीने सति सुरैः राजविहीनं स्वर्गं दृष्ट्वा चन्द्रवंशीयो राजा नहुषो निजनिजप्रभावैर्वर्द्धयित्वा स्वर्गराज्ये नियुक्तः। इन्द्रपदं चारूढो भवानिन्द्राणीं कथं न कामयते ? इति हेनभिरुपदिष्टे स कदाचित्तां प्रार्थितवान् , ततस्तया कथितम 'राजन ! महर्षिभिर्वाहितो शिविकामारुह्य यदि भवान् मद्भवनमागन्तुं शक्नोति तदा भवन्तमहं सेवेय' इति। राजा तु तदेवाभ्युपेत्य भृग्वादीन् देवर्षीन् वाहकत्वेन संयोज्य शिविकामारूढः इन्द्राणीं कामयमानः तां प्रति व्रजन् शीघ्रं चलितुम् अग्रे गच्छन्तं भृगुं मूर्ध्नि चरणेन 'सर्प सर्प' इति कथयन्नताडयत्, एतन्मध्ये भृगोर्जटासु प्रच्छन्नो भगवानगस्त्यः तच्चरणेन ताडितः 'त्वं सर्पो भूत्वाऽधः पत' इति शशाप, तेन च राजा सर्पो भूत्वा हिमालयकन्दरायामपतदिति महाभारतीया कथा-त्रानुसन्धेया।

भार्ययेति । भार्यया पत्न्या लोपामुद्रया तन्नामिकया स्वयम् आत्मना उपरचितानि निर्मितानि आलवालानि आवापा मूलसलिलधारा येषां तैः 'स्यादालवालमावापः' इत्यमरः, करपुटेन निजहस्तद्वयेन यः सलिलस्य जलस्य सेकः तेन संवर्द्धितैः वृद्धिं प्रापितैः, सुतनिर्विशेषैः पुत्रसदृशः पादपैर्वृक्षैरुपशोभितं भूषितं तदाश्रमपदं मुनिस्थानम्।

तत्पुत्रेनेति । तस्य अगस्त्यस्य पुत्रेण सूनुना, गृहीतम् अङ्गीकृतं व्रतं ब्रह्मचारिव्रतं येन तेन, आपाढः पलाशदण्डः अस्यास्तीति तेन 'आषाढो मतिनां दण्डे मासे मलयपर्वते' इति विश्वः, प्रियाणं पलाशदण्डस्यैव धारणमाह मनुः—'ब्राह्मणो बैल्वपालाशौ' इति, पवित्रं पूतं यद्भस्म तेन विरचितं विहितं त्रिपुण्ड्रकं रेखात्रययुततिलकविशेष एव आभरणं भूषणं येन, तेन, ब्राह्मणानां त्रिपुण्ड्रधारणमाह स्मृतिः—'ब्राह्मणानां त्रिपुण्ड्रकम्' इति। कुशा दर्भा एव चीवरं चीरं वासः वस्त्रं यस्य तेन, मौञ्ज्या मुञ्जविरचितया मेखलया कलितो बद्धः मध्यः कटिभागो येन तेन, तथा च मनुः—मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला' इति। गृहीतं याचितान्नरक्षणार्थमाप्तं हरितं श्यामलं पर्णपुटं पत्ररचितपुटंकं येन तेन, प्रत्युटजम् उटजमुटजं प्रति प्रतिपर्णशालमित्यर्थः। 'पर्णशालोटजोऽस्त्रियाम्' इत्यमरः, भिक्षाम अटता भिक्षायै भ्रमणं विदधता शिक्षामित्यत्र 'अकथितञ्च' इत्यनेन कर्मसंज्ञायां 'कर्मणि द्वितीया' इति द्वितीया। दृढदस्युरिति नाम यस्य तेन तादृशेन पवित्रीकृतं तत्र स्थित्या पूतम्।

प्रतीति । पिता अगस्त्यः, अतिप्रभूतानि अतिप्रचुराणि यानि इध्मानि काष्ठानि तेषाम् आहरणाद् आनयनात् हेतोः, इध्मं वहतीति 'इध्मवाह' इत्यन्वर्थं द्वितीयम् अपरं नाम अभिधेयं चकार विदधौ। इध्मवाह इत्यत्र 'कर्मण्यण्' इत्यण्।


शङ्का करते जो दक्षिण दिशा रूपी वधू के मुख के तिलक थे (अगस्त्य तारा दक्षिण दिशा में निकलता है), तथा जिन्होंने एक ही हुङ्कार में नहुष को स्वर्ग से पृथ्वी पर पटक कर अपना प्रभाव प्रकट कर दिया था। वह आश्रम अनेक वृक्षों से सुशोभित था। भगवान् अगस्त्य की पत्नी लोपामुद्रा ने स्वयं अपने हाथों से उनमें दौंड़े बना-बनाकर अपनी अञ्जुलियों के जल से उन्हें सींचा और पाल-पोस कर बढ़ाया था। उन्हें वह पुत्र के समान ही प्यार देती थीं। उनके पुत्र ब्रह्मचारी दृढदस्यु की तपश्चर्या से वह आश्रम और भी पवित्र हो गया था। वह हाथों में पलाशदण्ड लिये, मस्तक पर भस्म का त्रिपुण्ड लगाये, कटि में कुश की लंगोटी


१. तद्भार्यया। २. लोपामुद्रया च। ३. आषाढिव्रतिना। ४. ०चकार। ५. वल्कल, मुञ्ज ००० ।
६. हरित्पर्णे, पन्नपुटेन ० ७. शुक्रकुल ००० ।

६४कादम्बरी-[ कथामुखे-

श्यामलीकृत-परिसरं सरिता च कलसयोनि-परिपोत-सागरमार्गानुगतयेव बद्धवेणिकया गोदा- वर्या परिगतमाश्रमपदमसीत् ।

यत्र च दशरथवचनमनुपालयन्नुत्सृष्टराज्यो दशवदन-लक्ष्मी-विभ्रमविरामो रामो महामुनिमगस्त्यमनुचरन् सह सीतया लक्ष्मणोपरचित-रुचिर-पर्णशालः पञ्चवट्यां कञ्चित् कालं सुखमुवास । चिरशून्येऽद्यापि यत्र शाखानिलोनि-निभृत-पाण्डु-कपोतपङ्क्तयो लग्न-तापसाग्निहोत्र-धूमराजय इव लक्ष्यन्ते तरवः । बलिकर्म्म-कुसुमान्युद्धरन्त्याः सीतायाः

दिशीति। दिशि दिशि प्रत्येकदिशि 'नित्यवीप्सयोः' इति द्विवचनम्, शुकवत् कीरदेहवत् हरितै-नीलवर्णैः कदलीवनैः रम्भाविपिनैः 'रम्भाग्रचेऽथ कदली' इति मेदिनी, श्यामलीकृतः कृष्णवर्णीकृतः परिसरः प्रान्तभूमिर्यस्य तत्। शुकहरितैरित्यत्र लुप्तोपमा।

सरितेति। कलसयोनिन अगस्त्येन परिपीतस्य चुलुकीकृतस्य मृतस्येत्याशयः, सागरस्य समुद्रस्य मार्गम् अध्वानम् अनुगतयेव अनुव्रजितयेव बद्धा धृता वेणिका सलिलधारा यया तया, बद्धा संकरा-विधानायैव संयता वेणिका केशशचनाविशेषो यया तया च, गोदावर्या तन्नामिकया सरिता नद्या परिगतं परिव्याप्तम्। अगस्त्येन चुलुकीकृततया निधनमुपगतस्य समुद्रस्य अनुव्रजनं सर्वदा केशसंयमनञ्च पति-व्रतया विधेयमेवेत्याशयः। उक्तञ्च 'न प्रोषिते तु संकुर्याद्वेणीं च प्रमोचयेत्' इति। 'अनुगतयेव' इति क्रियोत्प्रेक्षा। समासोक्तिरपि व्यञ्जना। तदुक्तं दर्पणे-

'समासोक्तिः समैर्यत्र कार्य्यलिङ्गविशेषणैः। व्यवहारसमारोपः प्रकृतेऽन्यस्य वस्तुनः ॥'

यत्रेति। यत्र यस्मिन्नाश्रमस्थाने दशसु दिशासु अप्रतिहतो रथो यस्य स दशरथः तस्य वचनं वनगमनादेशम् अनुपालयन् पालनं कुर्वन् तथैवानुतिष्ठन्नित्यर्थः, उत्सृष्टं त्यक्तं राज्यं येन सः, दशवदनो लङ्काधिपतिर्दशाननस्तस्य या लक्ष्मीः राज्यश्रीः तस्या विभ्रमस्य विलासस्य विरामोऽवसानं यस्मात् स तथोक्तो रामः महामुनिं मुनिश्रेष्ठम् अगस्त्यम् अनुचरन् सेवमानः, लक्ष्मणेन सुमित्रानन्दनेन उपरचिता निर्मिता रुचिरा मनोज्ञा पर्णशाला उटजो यस्य सः, कञ्चित्कालं पञ्चवट्यां जनस्थाने सीतया जनकनन्दिन्या सह सुखम् आनन्दपूर्वकं यथा स्यात्तथा उवास निवसति स्म । 'विरामो राम' इत्यत्र यमकालङ्कारः । तदुक्तं दर्पणे-

'सत्यर्थे पृथगर्थायां स्वरव्यञ्जनसंहते । क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते ॥'

चिरेति । 'चिरशून्ये बहोः कालात् मुनिवृन्दरहिते, यत्र यस्मिन्नाश्रमपदे अद्यापि इदानीमपि, शाखासु निलीना अवस्थिता निभृता निःशब्दाः पाण्डवः श्वेता ये कपोताः पारावताः तेषां पङ्क्तयो राजयः येषु ते, अत एव लग्नाः संलग्नाः तापसानां तपस्विनां यदग्निहोत्रं दैनिकयज्ञविशेषः तस्य धूमा-नाम् अग्निशिखानां राजयः पङ्क्तयो येषु ते तथोक्ता इव तरवो वृक्षा लक्ष्यन्ते अवलोक्यन्ते । इह पदार्थ-हेतुकं काव्यलिङ्गमलङ्कारः, तथा धूमपङ्क्तीनां संलग्नत्वस्योत्प्रेक्षणात् क्रियोत्प्रेक्षा चेत्युभयोरङ्गाङ्गिभावेन सङ्करालङ्कारः ।

बलोति । बलिकर्म्मणे देवपूजनकार्यस्य कुसुमानि प्रसूनानि उद्धरन्त्याः सञ्चयं कुर्वन्त्याः सीताया

तथा मूंज की करधनी पहिने और हाथों में हरे पत्तों का दोना लिये हुये एक झोपड़ी से दूसरी झोपड़ी तक घूम-घूमकर भीख माँगा करते थे। वह जङ्गल से पिता के अग्निहोत्र के लिये समिधाओं (हवन की लकड़ियों) का इतना बड़ा गट्ठर बाँधकर लाया करते थे कि पिता ने उनका दूसरा नाम ही इध्मवाह (हवन की लकड़ियां ढोने वाला) रख दिया था। उस आश्रम के चारों ओर सुग्गों के समान हरे-हरे केलों की घनी बाढ़ लगी हुई थी जिसकी घनी हरियाली से वहाँ कुछ-कुछ अन्धकार सा छाया रहता था। उस आश्रम से सटी हुई एक ही प्रखर धारा में बहती हुई गोदावरी नदी ऐसी प्रतीत होती थी मानो एक चोटी वाली समुद्र की विधवा पत्नी अपने पति के पीछे पीछे उसका समस्त जीवन पी लेने वाले अगस्त्य के आश्रम में चली आई हो।

और जहाँ पञ्चवटी में दशरथ की आज्ञा का पालन करने के लिये राज्य छोड़कर महामुनि अगस्त्य की सेवा करते हुये रावण की राज्यलक्ष्मी का वैभव मिटा देने वाले भगवान् रामचन्द्र जी ने सीता जी के साथ लक्ष्मण द्वारा बनाई गई पत्तों की सुन्दर झोपड़ी में कुछ दिनों तक सुख से निवास किया था, बहुत दिनों से ऋषियों के न रहने के कारण जिस सूने प्रदेश में डालियों पर चुपचाप बैठे हुए सफेद कबूतरों की पंक्तियों


१. श्यामीकृत ।
२. कावेर्या ।
३. रामो ।
४. अतिचिर ।
...पङ्क्तयोऽमलग्न... ।

[ अगस्त्याश्रमवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । ६५

करतलादिव सङ्क्रान्तो यत्र रागः स्फुरति लताकिसलयेषु । यत्र च पीतोद्गीर्णजलनिधि-जलमिव मुनिना निखिलमाश्रमोपान्तवर्त्तिषु विभक्तं महाह्रदेषु । यत्र च दशरथ-सुत-निशित-शर-निकर-निपात-निहत-रजनीचर-बल-बहल-रुधिर-सिक्त-मूलमद्यापि तद्रागाविद्ध-निर्गत-पलाशमिवाभाति नव-किसलयमरण्यम् । अधुनापि यत्र जलधरसमये गम्भीरमभिनव-जलधर-निवह-निनादमाकर्ण्य भगवतो रामस्य त्रिभुवन-विवर-व्यापिनश्चापघोषस्य स्मरन्तो न गृह्णन्ति शष्प-कवलमस्रमुजल-लुलिता-दीनदृष्टयो वीक्ष्य शून्या दश दिशो जरा-

वैदेह्याः करतलात् हस्ततलात् लताकिसलयेषु व्रततिपल्लवेषु संक्रान्तो लग्न इव सन् रागो लौहित्यं स्फुरति दीप्तिमान्भवति । सङ्क्रान्त इवेति क्रियोत्प्रेक्षा ।

यत्र चेति । यत्र च आश्रमपदे, मुनिना अगस्त्येन पूर्वं पीतं चुलुकीकृतं पश्चादुद्गीर्णम् वान्तं निखिलं समग्रं जलनिधिजलं समुद्रसलिलम् आश्रमोपान्तवर्त्तिषु आश्रमनिकटस्थायिषु महाह्रदेषु महातडागेषु विभक्तमिव विभज्य स्थापितमिव । अत्रापि विभक्तमिवेति क्रियोत्प्रेक्षा, अत एव हि तडागानामगाधसलिल-युक्तत्वं ध्वन्यते इत्यलङ्कारेण वस्तु व्यङ्ग्यम् ।

यत्र चेति । दशरथसुतयो रामलक्ष्मणयोः निशिताः तीक्ष्णा ये शरा बाणाः तेषां यो निकरः समूहः तस्य निपातेन वर्षणेन निहतानि घातितानि यानि रजनीचरबलानि असुरसैन्यानि तत्सम्बन्धीनि बहलानि विपुलानि रुधिराणि रक्तानि तैः सिक्तानि मूलानि यस्य तत्, नवानि नूतनानि किसलयानि पल्लवानि यत्र तत् तथोक्तम् अरण्यं वनं (कर्तृ), अद्यापि इदानीं कालपर्यन्तमपि तेषां रुधिराणां रागेण रक्तिम्ना आविद्धानि युक्तानि विद्यमानानि निर्गतानि निःसृतानि पलाशानि पत्राणि यः तत् तथोक्तमिव आभाति शोभते । इहापि क्रियोत्प्रेक्षा ।

अधुनापीति । अधुनापि इदानीमपि यत्र आश्रमपदे जलधरसमये वर्षाकाले गम्भीरं मञ्जुलम् अभिनवा नूतना ये जलधरा मेघास्तेषां निवहस्य समूहस्य निनादं गर्जनम् आकर्ण्य श्रुत्वा भगवतः पूज्यस्य रामस्य दाशरथेः त्रिभुवनस्य त्रिलोक्याः विवराणि छिद्राणि तानि व्याप्नोति पूरयतीति स तस्य, चापघोषस्य धनुः शब्दस्य अत्र मातुः स्मरतीतिवत् कर्मणि षष्ठी, तेन धनुःशब्दमित्यर्थः, स्मरन्तः चिन्तयन्तः दशदिशः दशाशाः शून्याः रामलक्ष्मणसीतारहिताः, वीक्ष्य अवलोक्य, अजस्रं निरन्तरम् अश्रुजलैः तेषां शोकजनितनयनसलिलैः लुलिता विह्वलीभूताः दीनाः कातराः दृष्टयो लोचनानि येषां ते तथोक्ताः, तथा जरया वृद्धावस्थया जर्जरिताः विशीर्णा विषाणानां शृङ्गाणां कोटयोऽग्रभागा येषां ते तथोक्ताः, जानक्या वैदेह्या संवर्द्धिताः शष्पसलिलादिप्रदानेन वृद्धिं प्रापिताः जीर्णमृगाः वृद्धहरिणाः शष्पं बालतृणं तस्य कवलं ग्रासं न गृह्णन्ति न स्वीकुर्वन्ति तेषां शोकेनेत्याशयः । अत्र गम्भीरजलदनिनादाकर्णनेन

से वृक्ष ऐसे प्रतीत होते थे मानों आज भी उनमें उन तपस्वियों के अग्निहोत्रों से उठे हुये धुएँ की रेखायें लगी हुई हों, जहाँ लताओं की नयी-नयी सुकुमार कोपलों से फूटती हुई लाली ऐसी प्रतीत होती थी मानों पूजा के लिये फूल चुनते समय उनमें लगी हुई जानकी के करतलों की लाली ही आज भी फूट फूट कर बिखर रही हो, जहाँ आश्रम के निकटवर्ती सरोवरों में भरा हुआ जल ऐसा प्रतीत होता था मानों भगवान् अगस्त्य ने समुद्र का पिया हुआ समस्त जल ही उगलकर इन सरोवरों में बाँट दिया हो, जहाँ नयी-नयी कोपलों से भरा हुआ वन लाल भभूका हो उठा था मानों रामचन्द्र जी के तीखे बाणों की वर्षा से मारे गये राक्षसों के गाढ़े रक्त से सिंची हुई जड़ों वाले वृक्षों से आज भी उसी रक्त की लाली में सने हुये लाल लाल पल्लव फूट पड़े हों, जहाँ आज भी भगवती जानकी द्वारा पालपोस कर बढ़ाये गये बुढ़ौती से कटी-फटी सींगों वाले आश्रमों के बूढ़े हरिण वर्षा के दिनों में नयी-नयी साँवली घटाओं की गम्भीर ध्वनि सुनकर भगवान् राम के धनुष की तीनों लोकों में फैली हुई ध्वनि का स्मरण करते हुए आँसुओं से छलछलायी हुई करुण दृष्टि द्वारा अपने बन्धुओं से सूनी (जिन्हें राम के धनुष ने पहले ही मार डाला था, अथवा राम से सूनी) दसों दिशाओं को


१. ....'च' इति क्वचिन्न ।
२. 'निशित' इति पाठः क्वचिन्न ।
३. बहलबहुल ।
४. रक्त ।
५. तद्रागानुविद्ध ।
६. किसलम् ।
७. गम्भीररवम् ।
८. 'निवह' इति पाठः क्वचिन्न ।
९. सम्यक् रूप ।
१०. लुलितदृष्टयः ।

६ का० कथा०

६६कादम्बरी-[ कथामुखे-

जर्जरित-विषाणकोटयो जानकीसंवर्द्धिता जीर्णमृगाः । यस्मिन्ननवरत-मृगया-निहत-शेषै-र्वन-हरिण-प्रोत्साहित इव कृतसीताविप्रलम्भः कनकम्गो राघवमतिदूरं जहार । यत्र मैथिली-वियोगदुःखदुःखितौ दशवदन-विनाश-पिशुनौ चन्द्रसूर्याविव कबन्धग्रस्तौ समं राम-लक्ष्मणौ त्रिभुवनमयं महद्भयञ्चक्रतुः । अत्यायतश्च यस्मिन् दशरथसुत-शरै-निपातितो योजन-बाहोर्बाहुरगस्त्य-प्रसादेनागतनहुषाजगर-कायशङ्कां चकार ऋषिगणस्य । जनकतनया भर्त्रा विरहविनोदनार्थमुटजाभ्यन्तरंलिखिता यत्रा रामनिवास-दर्शनोत्सुका पुनरिव धरणी-तलादुल्लसन्तीव वनचरैरद्याप्यालोक्यते ।।

रामस्य चापघोषस्मृतेः स्मरणाल्ङ्कारः, तथा शष्पग्रासग्रहणसम्भवेऽपि तदसम्बन्धप्रतिपादनादतिशयो-क्त्यलङ्कारः। यदुक्तं दर्पणे—

'सदृशानुभवाद्वस्तुस्मृतिः स्मरणमुच्यते'। 'सिद्धत्वेऽध्यवसायस्यातिशयोक्तिर्निगद्यते ।

एवञ्चोभयोरङ्गाङ्गिभावेन सङ्करालङ्कारः।

यस्मिन्निति। यस्मिन् विपिने अनवरतं निरन्तरं या मृगया पशुहननव्यापारः तस्यां निहतेभ्यः रामेण व्यापादितेभ्यः शेषा अवशिष्टा ये वनहरिणाः काननमृगाः तैः प्रोत्साहित इव जानकीवञ्चनापूर्वक-रामदूरनयने प्रकृष्टोत्साहं प्रपिता इव कनकम्गः हाटकमयहरिणरूपधारी मारीचः, कृतो विहितः सीताया जानक्या विप्रलम्भो वञ्चना येन तथोक्तः सन् राघवं रामचन्द्रम् अतिदूरम् अनतिसमीपं जहार नीतवान्। इह क्रियोत्प्रेक्षा।

यत्रेति। यत्र पञ्चवट्यां मैथिली जानकी तस्या वियोगदुःखेन विरहजनितक्लेशेन दुःखितौ क्लेशितौ दशवदनो रावणः तस्य विनाशपिशुनौ ध्वंसबोधकौ रामलक्ष्मणौ कौशल्यानन्दनसुमित्रानन्दनौ, चन्द्र-सूर्याविव पुष्पवन्ताविव 'एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ' इत्यमरः। कबन्धः राहु राक्षसाधि-पतिः तेन दनुकबन्धेन च ग्रस्तौ कवलीकृतौ गृहीतौ च सन्तौ समम् एककालं त्रिभुवनस्य जगत्त्रयस्थित-लोकस्य महत् उत्कृष्टं भयम् आतङ्कं चक्रतुः विदधतुः। इह चन्द्रसूर्याविवेत्युपमा।

अत्यायतश्चेति। यत्र च दशरथसुतो रामः तस्य शरेण इषुणा निपातितः कर्तयित्वा पातितः अत्या-यतः अतिविस्तृतः योजनबाहुः दनुकबन्धापरनाम्नो दैत्यस्यैव बाहुर्भुज, अगस्त्यस्य मुनेः प्रसादनाय शिबिकारोहणेन इन्द्राणी प्रति यानकाले पादप्रहारकृतक्रोधोपशान्तये आगतः प्राप्तो यो नहुषाजगरस्तस्य अजगर (सर्प) रूपिनहुषभूपतेः कायशङ्कां देवभ्रान्तिम् ऋषिगणस्य मुनिमण्डलस्य चकार कृतवान्। अत्र दनुकबन्धबाहौ नहुषाजगरभ्रान्त्या भ्रान्तिमानलङ्कारः। तदुक्तं दर्पणे—'साम्यादेतस्मिंस्तद्बुद्धि-र्भ्रान्तिमान् प्रतिभोत्थितः' इति। अत्राप्येतिवृत्तन्तु रामायणस्यारण्यकाण्डतोऽवगन्तव्यम्।

जनकेति। यत्र आश्रमपदे जनकतनया वैदेही, भर्त्रा स्वामिना रामेण, विरहविनोदनार्थं जानक्याः वियोगव्यथा लघुत्वसम्पादनार्थम् उटजाभ्यन्तरे 'पर्णशालामध्ये 'पर्णशालोटजोऽस्त्रियाम्' इत्यमरः, लिखिता चित्रीकृता सा रामस्य निवासोऽवस्थानभूमिः तस्य दर्शनाय अवलोकनाय उत्सुका उत्कण्ठिता सती पुन-र्भूयो धरणीतलात् पातालात् उल्लसन्तीव, वनचरैः किरातैः अद्यापि इदानीं कालेऽपि आलोक्यते दृश्यते। अत्र उल्लसन्तीवेति क्रियोत्प्रेक्षा। अत्र 'पुनः शब्दोपादानेन पूर्वं वैदेही मिथिलायां यज्ञभूमिकर्षणकाले

देख-देख कर मुँह में भरी हुई घास का चबाना भी भूल जाते हैं, जहाँ नित्य ही शिकार करने वाले राम से अपने परिवार का विनाश होते देख बचे हुए जंगली हरिणों द्वारा मानों उसकाया गया कनकम्ग जानकी को धोखे में डालकर राम को दूर बहका ले गया था तथा उनके वियोग का कारण बना था, जहाँ जानकी के विरह में दुखी और राहुरूपी कबन्ध से घिरे हुये सूर्य और चन्द्रमा के समान राम और लक्ष्मण ने रावण के विनाश की सूचना देते हुये उसके साथ युद्ध में तीनों लोकों को एक साथ ही अत्यन्त भयभीत कर दिया था, जहाँ राम के बाणों से कटकर गिरी हुई योजनबाहु नाम के राक्षस की अत्यन्त लम्बी बाहु देखकर वहाँ के ऋषियों को ऐसा भ्रम होता था मानों भगवान् अगस्त्य को प्रसन्न करने के लिये अजगर रूपधारी नहुष ही


१. निःशेष, अशेष०...। २. प्रोत्सारित। ३. रावणविनाशसूचकौ। ४. अतिमहत्। ५. ०...बाण०...। ६. ०...प्रसादेनागत०...। ७. अकरोदृषिजनस्य। ८. तनया च भर्त्रा। ९. ०...विनोदार्थम्। १०. अभ्यन्तरे। ११. धरणीतलादुल्लसन्ती। १२. उपलक्ष्यते।

पंपासरोवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । ६७

तस्य चैवंविधस्य सम्प्रत्यपि प्रकटोपलक्ष्यमाण-पूर्ववृत्तान्तस्याश्रमस्य नातिदूरे जलनिधि-पान-कुपित-वरुणोत्साहितेन अगस्त्यमत्सरादाश्रमसमीपवर्त्त्यपर इव वेधसा महाजलनिधिरुत्पादितः प्रलयकाल-विघटिताष्ट-दिग्भाग-सन्धिनन्धं गगनतलमिव भुवि निपतितम्, आदिवराहसमुद्धृत-धरामण्डल-स्थानमिव सलिलपूरितम्, अनवरत-मज्ज-दुन्मद-शबरकामिनी-कुचकलस-लुलित-जलम्, उत्फुल्ल-कुमुद-कुवलय-कह्लारम्, उद्भिद्रारविन्द-

पातालादुत्थानम्; लङ्कां विजित्याग्निप्रवेशेन विशुद्धायामपि तस्यां लोकापवादभीत्या निर्वासिता रामेण पुनः परीक्षाप्रकरणे भूमितलप्रवेशः ततश्चेदमभ्युत्थानमिति प्रतीयते ।

तस्येति । एवंविधस्य उक्तरूपस्य तस्य च अगस्त्याश्रमस्य सम्प्रत्यपि अस्मिन् समयेऽपि प्रकटं स्पष्टम् उपलक्ष्यमाणा दर्शितदिशा ज्ञायमानाः पूर्ववृत्तान्ताः पूर्वोदन्ता यस्य तस्य 'वार्त्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यात्' इत्यमरः नातिदूरे समीप एव पम्पाभिधानं पम्पेतिसंज्ञकम् पद्मसरः कमलकासारः 'कासारः सरसी सरः' इत्यमरः, विद्यत इति वक्ष्यमाणेन सम्बन्धः । इह प्रथमान्तपदानि पद्मपरोविशेपणानि । जलनिधयः समुद्राः तेषां पानेन चुलुकीकृतेन कुपितः जलाधिपतित्वात् क्रुद्धो यो वरुणः प्रचेताः 'प्रचेता वरुणः पाशी' इत्यमरः, तेन उत्साहितः अन्यं महासमुद्रं निर्मातुं दत्तोत्साहः तेन तथोक्तेन, वेधसा प्रजापतिना 'स्रष्टा प्रजापतिर्वेधाः' इत्यमरः, अगस्त्यमत्सरात् अगस्त्यं मुनिं प्रति शुभद्वेषात् 'मत्सरोऽन्यशुभद्वेषः' इत्यमरः तस्य अगस्त्यस्य आश्रमसमीपवर्ती मुनिस्थाननिकटवर्ती, अपरोऽन्यो महाजलनिधिरिव महासागर इव उत्पादितः निर्मितः अतिविस्तृतत्वादित्याशयः । इह महाजलनिधिरिवेति द्रव्योत्प्रेक्षा ।

प्रलयेति । प्रलयकाले कल्पान्तसमये विघटिताः विस्खलिताः, अष्टानाम् अष्टसंख्याकानां दिशां हरितां विभागाः प्रदेशाः नलपर्वतावधिकाः तेषां सन्धयः संयोजनानि तेषां बन्धः बन्धनानि यत्र एवम्भूतम्, भुवि पृथिव्यां निपतितं गगनतलमिव नभस्तलमिव 'नभोऽन्तरिक्षं गगनम्' इत्यमरः, स्थितं तिष्ठत् अत्यन्तस्वच्छत्वादतिविस्तृतत्वाच्चेत्यभिप्रायः । अत्रापि गगनतलमिवेति द्रव्योत्प्रेक्षा ।

आदीति । आदिवराहेण विष्णोस्तृतीयावतारेण महावराहरूपेण समुद्धृतं सम्यक् प्रकारेण जलाद्बहिर्नाीतं यत् धरामण्डलं भूमण्डलं तस्य स्थानम् अवकाशः सलिलपूरितमिव जलपूरितमिव स्थितम् अतिविस्तृतत्वादिति भावः। अत्र जलपूरितमिवेति क्रियोत्प्रेक्षा ।

अनवरतेति । अनवरतं सन्ततं मजन्त्यः अवगाहमानाः या उन्मदा यौवनगर्वाधिष्ठिताः शबरकामिन्यः भिल्लनार्यः तासां कुचकलसैः स्तनघटैः लुलितानि आलोडितानि जलानि सलिलानि यस्य तत् तथोक्तम् । इह कुचा एव कलसा इति विग्रहे रूपकम्, किं वा कुचाः कलसा इवेति विग्रहे उपमेति द्वयोरपि वारयितुमशक्यत्वाद् सन्देहसङ्करः ।

उत्फुल्लेति । उत्फुल्लानि प्रस्फुटितानि कुमुदानि श्वेतोत्पलानि कुवलयानि नीलोत्पलानि कह्लाराणि रक्तोत्पलानि च यत्र तत् तादृशम् । 'सिते कुमुदकैरवे' 'स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च' इत्यमरः ।

उद्भिदेति । उद्भिद्राणि विकसितानि यानि अरविन्दानि पद्मानि तेषां मधुबिन्दुभिः मकरन्दकणि-

उस आश्रम में पड़ा हो और जहाँ सीता के वियोग में मन बहलाने के लिए राम ने उसका जो चित्र कुटिया में बना रखा था उसे आज भी कोल-किरात आदि वनचर इस प्रकार देखते हैं मानों राम का निवास स्थान देखने के लिए उत्सुक जानकी पुनः पृथ्वी से बाहर निकल कर वहाँ सुशोभित हों ।

जहाँ पहले की सभी घटनाएँ आज भी स्पष्ट सी दिखाई पड़ती हैं, उस अगस्त्य के आश्रम से थोड़ी ही दूर पर अथाह, अत्यन्त विस्तृत, अद्वितीय और जल का समुद्र सा पम्पा नामवाला कमलों से भरा हुआ एक सरोवर था । वह ऐसा प्रतीत होता था मानों समुद्र का समस्त जल पी लेनेवाले अगस्त्य को जलाने के लिए क्रुद्ध वरुण देव से उकसाये गए ब्रह्मा ने उनके आश्रम के समीप एक दूसरा महान् सागर ही उत्पन्न कर दिया हो; अथवा प्रलय काल में आठों दिशाओं की जोड़ें खुल जाने के कारण आकाश-तल ही पृथ्वी पर गिर पड़ा हो। या समुद्र के भीतर से आदिवराह द्वारा उठाये गये पृथ्वीमण्डल का उसके जल से भरा हुआ स्थान हो । इसका जल निरन्तर स्नान के समय खुलकर खेलनेवाली मतवाली भीलनियों के कुचकलसों (घड़े के समान


१. 'एवंविधस्य' इति पाठः क्वचिन्नानुपपद्यते । २. कुपितवरुणप्रोत्साहितेन । ३. वह्निवि । ४. '''विघटिताष्टदिग्विभाग''' । ५. बन्धनम् । ६. सलिलपरिपूरितम् ।

६८ | कादम्बरी- | [ कथामुखे-

मधुबिन्दु-बद्धचन्द्रकम्, अलिकुल-पटलान्धकारितसौगन्धिकम्, सारसित-समद-सारसम्, अम्बुरुह-मधुपान-मत्त-कलहंसकामिनी-कृत-कोलाहलम्, अनेक-जलचर-पतङ्गतोत-सञ्चलन-चलित-वाचाल-वीचिमालम्, अनिलोल्लासित-कल्लोल-शिशिर-शीकरारब्ध-दुर्दिनम्, अशङ्कितावतीर्णानिमग्नक्रीडारागिणीभिः स्नानसमये वनदेवताभिः केशपाशकुसुमैः सुरभीकृतम्, एकदेशावतीर्णमुनिजनापूर्यमाण-कमण्डलु-गलज्जलध्वनि-मनोहरम्, उन्मिषदूत्पलवन-मध्यचारिभिः सवर्णतया रसितानुमेयैः कादम्ब-कदम्बकैरारोवितम्, अभिषेका-

काभिः यद्वा सलिलोपरि बद्धा विहिताः चन्द्रकाः मयूरबर्हचन्द्राकारा यत्र तत् तादृशम्।

अलीति। अलिकुलानां भ्रमरवृन्दानां पटलेन समुदायेन अन्धकारितानि आवृतानि सौगन्धिकानि कह्लाराणि यत्र तत्। 'सौगन्धिकं तु कह्लारम्' इत्यमरः। अत्र कुलपटलयोर्मध्ये कस्याप्येकस्यैव कथनेनेष्ट-सिद्धावपरस्य ग्रहणं निरर्थकमेवेति कुशलाः।

सारसितेति। मारसितेन शब्देन सह वर्तमान अत एव समदा मद्योत्कटा सारसा लक्ष्मणाप्रभृतयः यत्र तत् 'हंसस्य योषित्परटा सारसस्य तु लक्ष्मणा' इति कोशः। अत्र छेकानुप्रासः, तदुक्तं दर्पणे—'छेको व्यञ्जनसंहत्य सकृत्साम्यमनेकधा' इति।

अम्बुरुहेति। लम्बुरुहाणि पद्मानि तेषां यन्मधु मकरन्दः तस्य पानेन मत्ताः मद्योत्कटा याः कलहंस-कामिन्यः वरटाः ताभिः कृतो विहितः कोलाहलः कलकलो यत्र तत् तादृशम्।

अनेकेति। अनेके सहस्रशो ये जलचरा नक्रपादयो जलजन्तवः तेषां पतङ्गानां पक्षिणाञ्च शतस्य मण्डलस्य सञ्चलनेन गमनागमनेन चलिता शोभां प्राप्ता वाचाला मुखरायमाणा च वीचिमाला लहरि-सन्ततिर्यत्र तत् तादृशम्। इह छेकानुप्रासः।

अनिलेति। अनिलेन पवनेन उल्लासिता उत्थानं प्रापिता ये कल्लोला महातरङ्गाः तेषां शिशिरशीकरैः शीतलाम्बुकणैः आरब्धं कृतं दुर्दिनं मेघाच्छन्नदिनं यत्र तत् तादृशम्, वृष्टिजलस्येव तेषामपि पतनादि-स्याशयः। अत्र वृत्त्यनुप्रासः, तदुक्तं दर्पणे—

'अनेकस्यैकधा साम्यमसकृद्वाप्यनेकधा। एकस्य सकृदप्येवं वृत्त्यनुप्रास उच्यते ॥'

अशङ्कितेति। अशङ्कितं निर्जनत्वेन शङ्कारहितं यथा स्यात्तथा अवतीर्णाभिः अन्तःप्रवेशं कृतवतीभिः, भग्नः क्रीडायां जलकेल्यां रागिणीभि लब्धाधिकमनोरथयुक्ताभिः वनदेवताभिः वनाधिष्ठातृदेवीभिः। स्नान-समये मज्जनकाले केशपाशानां कचसमूहानां कुसुमैः सुमनोभिः सुरभीकृतं सौगन्ध्यं नीतम्।

एकेति। एकदेशे एकभागे अवतीर्णैः अन्तःप्रवेशं कृतवद्भिः मुनिजनैः तपस्विगणैः आपूर्यमाणा जलेन प्रियमाणा ये कमण्डलवः देवादिपूजनपात्रविशेषाः तेषां गलैः अव्यक्तमधुरैः जलध्वनिभिः सलिल-पूरणशब्दैः मनोहरं मनोज्ञम्।

उन्मिषदिति। उन्मिषतः प्रस्फुटत उत्पलवनस्य श्वेतकमलविपिनस्य मध्येऽन्तः चरन्तीभिः गच्छन्तीभिः, अत एव सवर्णतया श्वेतकमलकादम्बकदम्बकयोः सादृश्येन रसितेन शब्देन अनुमेयैः अनुमातुं

गोल-मटोल बड़े बड़े स्तनों) से टकरा-टकरा कर चञ्चल होता रहता था। उसमें कहीं कुमुद (कोई), कहीं कुवलय (नील कमल) और कहीं कह्लार (श्वेतकमल) खिले थे, वहीं फूले हुए कमलों से टपकी हुई मधु की बूँदें (पुष्परस) जल पर फैलकर मोरचन्द्रिकाओं के समान लगती थीं, कहीं भौरों के झुण्ड से ढँके श्वेत-कमल काले-काले दिखाई पड़ते थे, कहीं मत्तवाले सारस कूँ-कूँ किया करते थे, कहीं कमलों का रस पी-पीकर मदमाती हंसिनियाँ कोलाहल किया करती थीं, कहीं सैकड़ों की संख्या में अनेक जलपक्षियों के साथ-साथ तैरने से चञ्चल लहरों में कल-कल हुआ करती थी, कहीं वायु से उठती हुई बड़ी-बड़ी लहरें उछलती हुई ठण्डी-ठण्डी बूँदों की झड़ी लगाये रहती थीं, कहीं निर्भय होकर सरोवर में उतरी हुई जल-क्रीडा की प्रेमी वनदेवियाँ स्नान करते समय बालों में गुथे हुए फूलों से जल को सुगन्धित बना देती थीं, कहीं एक ओर जल में उतरे हुए मुनियों के


१. ॰॰॰मधुद्रव, मधुबिन्दुनिष्यन्द॰॰॰, मकरन्दबिन्दुबद्ध। २. आरसित॰॰॰। ३. ॰॰॰पतङ्गितशत॰॰॰। ४. सङ्घटित । ५. ॰निनिरोद्भासित॰॰॰। ६. इतरोत्फुल्लशिशीरत्तारचित। ७. रत्नः। ८. केशकुसुमैः। ९. कलध्वनि । १०. उन्मिषितः॰॰॰। ११. कादम्बैः।

पम्पासरोवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता ।

वतीर्ण-पुलिन्दराज-सुन्दरी-कुच-चन्दनधूलि-धवलित-तरङ्गम्, उपान्त-जात-केतकी-रजःपटल-बद्ध-कूल-पुलिनम्, आसन्नाश्रमगत-तापसक्षालितार्द्र-वल्कल-कषाय-पाटल-तट-जलम्, उपतट-विटपि-पल्लवानिल-वीजितम्, अविरल-तमाल-वीधिकान्धकारिताभिः वालिनिर्वासितेन संचरता प्रतिदिनमृष्यमूकवासिना सुग्रीवेणावलुप्त-फलै-लघु-लताभिः,

योग्यैः न तु पार्थक्येन चाक्षुषप्रत्यक्षगम्यैरित्याशयः, कादम्बकदम्बकैः कलहंससमूहैः आसेवितं समन्तात्पर्युपासितम् । ‘कादम्बः कलहंसः स्यात्’, स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम्’ इत्यमरः । इह रसितानुमेयैरित्यनेन मीलितालङ्कारो ध्वन्यते, तथाहि दर्पणे—मीलितं वस्तुनो गुप्तिः केनचित्तुल्यलक्ष्मणा’ । एवञ्च वस्तुना अलङ्कारध्वनिरिति व्याख्यातारः ।

अभिषेकेति । अभिषेकाय मज्जनार्थम् अवतीर्णाः सलिलान्तःप्रविष्टा याः पुलिन्दराजस्य शबराधिपतेः सुन्दर्यः कामिन्यः तासां ये कुचा वक्षोजाः तेषां चन्दनधूलिभिः लिप्तशुष्क-मलयजपांसुभिः धवलिताः शुभ्रीकृताः तरङ्गा ऊर्मयो यस्य तत् तादृशम् । इह शुभ्ररूपसंपादनासम्बन्धाभावेऽपि तत्सम्बन्धः प्रतिपादनादतिशयोक्तिः ।

उपान्तेति । उपान्ते पानीयनिकटे जातानाम् उत्पन्नानां केतकीनां मालतीपुष्पाणां रजःपटलैः धूलिसमूहैः बद्धं रचितं कूले तटसमीपे पुलिनं सैकतं यस्य तत्। इह पूर्वोक्तोऽलङ्कारः ।

आसन्नेति । आसन्नाः समीपवर्त्तिनो ये आश्रमाः तपस्विस्यानानि तेभ्य आगतैरायातैः तापसैः मुनिजनैः क्षालितानां धौतानाम् आर्दाणां जलाविलानां तत्तृणं कर्त्तयित्वा नयनेन निर्यासाविर्भावादित्यभिप्रायः, वल्कलानां परिधेयवृक्षत्वचां कषायैः 'तुवरस्तु कषायोऽस्त्री' इत्यमरः पाटलं श्वेतरक्तं 'श्वेतरक्तस्तु पाटलः' इत्यमरः, तटजलं तीरान्तिकसलिलं यस्य तत् तादृशम्, तटनिकट एव क्षालनादित्याशयः ।

उपेति । तटस्य समीपमुपतम् तत्र उपतटे तीरनिकट इत्यर्थः, ये विटपिनः पादपाः तेषां पल्लवाः किसलयानि तैः यः अनिलो वायुः तेन वीजितं व्यञ्जनेनेवाचरितम् ।

अविरलेति । अविरला सान्द्रा या तमालवीथिका तापिच्छपङ्क्तिः 'कालस्कन्धस्तमालः स्यात्तापिच्छोऽपि' इत्यमरः तया अन्धकारिताभिः कृतान्धकाराभिः । इतोऽग्रे तृतीयान्तानि बहुवचनपदानि वनराजिभिरित्यग्रिमस्य विशेषणानि ।

वालीति । वालिना इन्द्रात्मजेन वानराधिपतिना निर्वासितेन राजधानीतो निष्कासितेन, प्रतिदिनं प्रत्यहं सञ्चरता तत्रागच्छता, ऋष्यमूकाख्यो गिरिस्तत्र वासिना निवसनशीलेन, सुग्रीवेण वायुकुलजेन अवलुप्सानि दूरीकृतानि फलानि याम्यः ताः, अत एव लघ्व्या फलभाररहिताः लताः वतयो यासु ताभिः तादृशीभिः ।

पुरा कश्चन मायावी नामासुरः वालिसुग्रीवाभ्यां सह रणं कुर्वाणः तयोः प्रहारेणात्यन्तखिन्नः केनचिद्विलेनाधः प्रविष्टः । तदा वाली सुग्रीवमाह—सुग्रीव ! त्वं तावद् इहैव बिलमुखे तिष्ठ यावदहं तं निह-


कमण्डलु भरने से कुल-कुल की मनोहर ध्वनि सुनाई पड़ती थी, कहीं खिले हुए श्वेत कमलों के बीच समान रंग होने के कारण मधुर ध्वनि से ही पहिचान में आनेवाले हंसों के झुण्ड तैरा करते थे, कहीं जल में उतरकर स्नान करनेवाली पुलिन्दराज (भीलों के स्वामी) की सुन्दरियों के स्तनों पर लगी हुई चन्दन की धूल लहरों को उजली बना देती थी, कहीं किनारों की रेतियॉ समीप में ही उगे हुए केवड़ों की धूल से पटी रहती थीं, कहीं समीप के आश्रमों से आये हुए मुनि लोग गीली-गीली छालें (तत्काल की उतारी गई वृक्षों की छाल) धो-धोकर किनारे के जल को कसैला और गुलाबी बना देते थे, और कहीं किनारों के वृक्ष पंखों के समान हिलते हुये पत्त्वों की मन्द-मन्द वायु से जल में कोमल-कोमल लहरियाँ उठाया करते थे । उसके चारों किनारे वन पंक्तियों से घिरे थे जिनमें कहीं घने तमाल वृक्षों की झुरमुटें अन्धकार से ढंकी रहती थीं, कहीं फलों से रहित हल्की-फुल्की लताऐं ऐसी प्रतीत होती थीं मानों बालि से निकाले गये ऋष्यमूक पर घूमने वाले सुग्रीव ने उनके फलों को निर्मूल कर दिया हो, कहीं जल में खड़े होकर तपस्या करने वाले मुनि


१. ०००शबरी००० । २. ०००धवलिततरन् । ३. 'जात' इति पाठः क्वचिन्नाप्यस्ति । ४. वृक्षपल्लवाङ्कुडानिल०० ।
५. वोध्यन्धकारिताभिः । ६. इह 'च' इत्यधिकः पाठः क्वचित् । ७. दलित ।

५०कादम्बरी-[ कथामुखे-

उदवासितापसानां ¹देवतार्चनोपयुक्त-कुसुमाभिः उत्पतज्जलचर-पतङ्ग²-पक्षपुट-विगलित-जल-बिन्दुसेक-सुकुमार-किसलयाभिः लतामण्डप-तले³-शिखण्डि-मण्डलारब्ध-ताण्डवाभिः अनेक-कुसुम-परिमल-वाहिनीभिर्वनदेवताभिः स्वश्वास-वासिताभिरिव वनराजिभिरुपारूद्धतीरम्, अपरसागरशङ्किभिः सलिलमादातुमवतीर्णैर्जलधरैरिव बहल-पङ्क-मलिनैर्वनकरिभिरनवरत-पीयमानैसलिलम्, अगाधमनन्तमप्रतिमम् अपां निधानं पम्पाभिधानं पद्मसरः।

त्यागच्छामि' इति विज्ञाप्य स्वयं तं हन्तुं तद्विलमेव प्राविशत्, परन्तु व्यतीते बहुकाले तत्प्रतीक्षया तिष्ठन्नपि सुग्रीवः किं कर्तव्यमिदानीमित्येवं विचारयत्येव बिलमुखादाविर्भूतं शोणितम्, अथ तत् निरीक्ष्य 'प्रायो मम भ्राता वाली तेन हत' इति निश्चित्य बिलमुखे बृहन्तमेकं प्रस्तरं स्थापयित्वा किष्किन्धायामागत्य बान्धवेभ्यस्तद्वृत्तान्तं निवेद्य स्वयमतिखिन्नो वालिराज्यं शशास। अथातीते कियत्सन्मये वाली तमसुरं निहत्य तेनैव पथा प्रत्यावृत्तो बिलमुखे प्रस्तरं वीक्ष्य कुपितः पादाघातेन तं दूरीकृत्य किष्किन्धामागत्य सुग्रीवचरितमतिक्रमित्यवधार्य स्वराज्यद्बहिर्निष्कास्यामास सोऽपि तद्दुःखदुःखितः ऋष्यमूकगिरौ निवासमकरोदिति रामायणीया किष्किन्धाकाण्डीया कथा।

उदवासीति। उदके जले वसन्तीत्युदवासिनश्च ते तापसास्तपस्विनश्चेति तेषां तथोक्तानाम्, 'पेषं वासवाहनविषु च' इत्यनेनोदकस्योदादेशो ज्ञेयः। देवतार्चनेषु देवपूजासु उपयुक्तानि आवश्यकानि कुसुमानि पुष्पाणि यासु ताभिः तथोक्ताभिः।

उत्पतदिति। उत्पतन्त उड्डीय गच्छन्ती ये जलचराः नक्ररूपाद्याः पतङ्गाः पक्षिणः तेषां पक्षपुटेभ्यः विगलिताः च्युता ये जलबिन्दवः सलिलकणाः तैः सेकः तेन सुकुमाराणि विशेषमृदुलानि किसलयानि पल्लवानि यासां ताभिः तथोक्ताभिः।

लतेति। लतानां व्रततीनां ये मण्डपाः आच्छादितस्थानानि तेषां तलेषु अधःप्रदेशेषु शिखण्डिमण्डलेन मयूरगणेन आरब्धं प्रवर्त्तितं ताण्डवं नृत्यं यासु ताभिः तथोक्ताभिः, 'ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने, इत्यमरः इह दृष्टथनुप्रासस्तल्लक्षणञ्चोक्तं प्राक्।

अनेकेति। अनेकेषां बहुप्रकाराणां कुसुमानां पुष्पाणां परिमलान् गन्धान् वहन्तीति ताः तादृशीभिः 'विमर्दोत्थे परिमलो गन्धे जनमनोहरे' इत्यमरः, अत एव वनदेवताभिः विपिनाधिष्ठातृदेवीभिः (कर्त्रीभिः) स्वश्वासेन स्वीयश्वासवायुना वासिताभिः सुगन्धीकृतामिरिव वर्तमानाभिः, वनराजिभिः वनपङ्क्तिभिः उपरुद्धानि व्याप्तानि तीराणि तटानि यस्य तत् तथोक्तम्, सरोविशेषणमिदम्। अत्र वासिताभिरिवेति क्रियोत्प्रेक्षा।

अपरेति। 'अयम् अपरो भिन्नः सागरः समुद्रः' इति शङ्कां भ्रमं जनयन्तीति तैः तथोक्तैः, सलिलं जलम् आदातुं ग्रहीतुम् अवतीर्णैः गगनादुत्तरितैः जलधरैः वारिदैरिव बहलपङ्कैः शरीरलग्नाधिककर्दमैः मलिनाः श्यामा तैः तथोक्तैः, वनकरिभिः आरण्यकहस्तिभिः अनवरतं निरन्तरम् आपीयमानानि समन्तात् पानकर्मीक्रियमाणानि सलिलानि पानीयानि यस्य तत् तादृशम्। अत्र जलधरैरिवेति जातिस्वरूपोत्प्रेक्षा।

अगाधमिति। अगाधम् अप्राप्ततलम् अनन्तं शेषरहितम् अतिमहदित्यर्थः। अप्रतिमं स्वसादृश्यरहितम्; अपां जलानां निधानं शेवधित्वरूपम् अपरिमितसलिलयुक्तत्वादित्याशयः। 'पम्पा' इति अभिधानं नामधेयं यस्य तत्, पद्मानां कमलानामाकरीभूतं सरः कासारः पद्मसरः। अन्वयस्तु प्रागेवोक्तः।

उनके फूलों को तोड़-तोड़कर देवताओं को चढ़ाया करते थे, कहीं उड़ते हुए जलपक्षियों के पंखों से झड़ी हुई बूँदों के कारण उनकी भींगी हुई कोपलें और भी गुदगुदी हो उठी थीं, और कहीं उन लताओं की झुरमुटों में मोर मंडल बाँध कर नाचा करते थे। तरह-तरह के फूलों की सुगन्ध से वन-पंक्तियाँ इस प्रकार महमह! उठों


१. 'पतङ्ग' इति पाठः क्वापि।
२. 'स्थित' इत्यधिकः पाठः क्वापि।
३. वनदेवताभिः श्वास, वनदेवताभिः श्वास।
४. रङ्ग...।
५. शोषवान्।
६. अप्रतिष्ठम्।

शाल्मलीतरुवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । ७१

यत्र च^१ विकच-कुवलय-प्रभा-श्यामायमान-पक्षपुटान्यद्यापि मूर्त्तिमद्रामशापग्रस्तानीव मध्यचारिणामालोक्यन्ते^२ चक्रवाकंनाम्नां^३ पक्षिणां मिथुनानि ।
तस्यैव^४ पंम्पासरसः पश्चिमे तीरे राघव-शर-प्रहार-जर्जरित-जीर्ण-तालतरु-षण्डस्य^५ च समीपे दिग्गज-करदण्डानुकारिणा जरदजगरेण सततमावेष्टितमूलतया बद्धमहालवाल इव तुङ्ग-स्कन्धावलम्बिभिरनिलवेल्लितैरहिनिर्मोकैर्धृतोत्तरीय इव दिक्‌चक्रवाल-परिमाणमिव गृह्णता भुवनान्तरालविप्रकीर्णेन शाखासंचयेन प्रलयकाल-ताण्डव-प्रसारित-भुजसहस्रमुद्-

यत्रेति । यत्र यस्मिन् पम्पासरास; विकचानि विकसितानि यानि कुवलयानि नीलोत्पलानि 'नीलोत्पलं कुवलयम्' इत्यमरः, तेषां याः प्रभाः कान्तयः ताभिः श्यामायमानानि निकटसवंरणात् श्यामवदाचरन्ति पक्षपुटानि येषां तानि तथोक्तानि । मध्यचारिणां पम्पासरोवरान्तर्भ्रमणकारिणां चक्रवाकनाम्नां रथाङ्गसंज्ञकानां पक्षिणां पतत्रिणां मिथुनानि युग़लानि, अद्यापि एतावत्समयपर्यन्तमपि मूर्त्तिमान् देदीप्यमानरूपो यो रामस्य दशरथतनयस्य शापः अभिसम्पातः तेन ग्रस्तानीव गृहीतानीव आलोक्यन्ते दृश्यन्ते, तत्र विद्यमानैर्लोकैरिति शेषः ।

इह रामशापश्यामायमानपक्षपुटत्वेन ग्रस्तानीवेति वाच्या क्रियोत्प्रेक्षा । यद्यपि 'मालिन्यं व्योम्नि पापे' इति कविसमयप्रसिद्ध्या पापस्यैव मलिनत्वेन वर्णनं विहितं न तु शापस्य, तथापि तत्सादृश्येन शापस्य तथा वर्णनं कृतमित्यवधेयम् । इह च 'पम्पातटे सीताविरहविह्वलं दाशरथिं वीक्ष्य चक्रवाकाः हासं विदधुः ततस्तानेवं निरीक्ष्य 'यथा मम प्रियाविश्लेषः तथैव भवतामपि क्षपायां भविष्यति' इति रामः शशापेत्यैतिहासिकिकी वार्त्ता ।

तस्यैवेति । तस्य पम्पाभिधेयस्यैव पम्पासरासः कमलकासारस्य, पश्चिमे तीरे प्रतीचि तटे, राघवस्य रामस्य ये शरा बाणाः तेषां प्रहारेण वेधेन जर्जरितानां विदारितानां जीर्णानां प्राचीनानां, तालतरूणां तालद्रुमाणां षण्डस्य समुदायस्य समीपे महान् महीयान् जीर्णः पुरातनः शाल्मलीवृक्षः रोचनाख्यस्तरुरस्तीत्यग्रिमेण सम्बन्धः । अत्र प्रथमान्तानि पदानि शाल्मलीवृक्षविशेषणानि बोध्यानि । दिक्षु स्थितो गज ऐरावतादिः, तथा चामरः—'ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः । पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥' तस्य यस्य यः करदण्डः शुण्डादण्डः तमनुकर्तुं शीलं यस्य तेन तथोक्तेन, तत्तुख्यविशालेनेत्यर्थः, जरन् वृद्धो योऽजगरस्तन्नामकः पृथुलसर्पः तेन तादृशेन, वद्धं रचितं महत् दीर्घम् आलवालम् आवापः मूले सलिलार्थखातमृत्परिवेष्टनमित्यर्थः, यस्य स तथोक्त इव । इह दिग्गजेत्यत्र समासगता । आर्थी लुप्तोपमा, आलवाल इवेति वाच्या क्रियोत्प्रेक्षा च, उभयोरप्यङ्गाङ्गिभावे सङ्करालङ्कारः ।

पुरा हि वालिना राज्याद्बहिर्निष्कासित ऋष्यमूकगिरिस्थः बालिवधमिच्छन् हनूमद्द्वारा कृतराममैत्रीकः सुग्रीवो वालिवधोपयोगि सामर्थ्यं भगवति रामचन्द्रेऽस्ति न वेति सन्दिहानो जातः तत्परीक्षणार्थं तेन प्रेरितो रामचन्द्रः एकेनव वाणेन पङ्क्तिबद्धान् सप्ततालवृक्षान् विदारयामास इति रामयणीया कथा ।

तुङ्गेति । तुङ्गम् उन्नतं स्कन्धं प्रकाण्डभागम् अंसभागञ्च अवलम्बितुम् आधारं कृत्वा लम्यमानीभवितुं शीलं येषां तैः तथोक्तैः अनिलवेल्लितैः पवनचालितैः अहिनिर्मोकैः सर्पकञ्चुकैः धृतोत्तरीय इव गृहीतोपसंसंव्यानवस्त्र इव । क्रियोत्प्रेक्षा ।

दिक्‌चक्रेति । दिशां ककुभां चक्रवालं मण्डलं तस्य परिमाणम् इयत्तापरिमितं गृह्णतेव धारयता यद्वा विदधतेव, भुवनान्तराले संसारमध्यभागे विप्रकीर्णं इतस्ततो विस्तारितः तेन, शाखासञ्चयेन लता-


थीं मानों वनदेवियों ने उन्हें अपनी साँसों से सुवासित कर दिया हो। वहाँ फूले हुये नीलकमलों की झलक से साँवले पंखों वाले चकवों के जोड़े बीच-बीच में घूमते हुए ऐसे लगते थे मानों वे राम के मूर्त्तिमान शाप से ग्रस्त हों।

उसी पम्पा-सरोवर के पश्चिमी किनारे पर रामचन्द्र जी के बाणों से छिन्न-भिन्न ताड़ वृक्षों की झुरमुट के पास एक पुराना सेमल का वृक्ष था। उसकी जड़ के चारों ओर दिग्गजों की सूँड़ के समान एक बूढ़ा अजगर


१. 'च' इति पाठः क्वचिन्नास्त्यपि ।
२. मध्यचारिण्यालोक्यन्ते
३. चक्रनाम्नां ।
४. तस्यैवंविधस्य सरसः ।
५. तालतरुखण्डस्य ।