कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
७२ कादम्बरी- [ कथामुखे-
पतिशेखरमिव विडम्बयितुमुद्यतः, पुरातनतया पतनभयादिव वायुस्कन्धैर्लग्नः, निखिल-शरीर-व्यापिनीभिरतिदूरोन्नताभिर्जीर्णतया शिराभिरिव परिवृतो व्रततिभिः, जरा-तिलक-विन्दुभिरिव कंटकैराचिततनुः इतस्ततः परिपीतसागरसलिलैर्गगनागतैः पत्ररथैरिव शाखान्तरेषु निलीयमानैः क्षणमम्बुभारालसैराद्रीकृतपल्लवैर्जलधरपटलैरप्यदृष्टशिखरं, तुङ्गतया नन्दनवनश्रियमिवावलोकयितुमभ्युद्यतः, स्वसमीपवर्त्तिनामुपरि संचरतां गगनतल-
संदोहेन 'शिखाशाखाजटाः समा' इत्यमरः' प्रलयकाले करान्तस्तनये तत् ताण्डवम् उद्धतनृत्यं तत्र प्रसारितम् इतस्ततो विक्ष्वस्तं भुजसहस्रन् अनेकतरबाहवो येन स तं तादृशम्, उडुपतिः तारापतिश्चन्द्रः शेखरो मस्तककारो यस्य तं महादेवं विडम्बयितुम् अनुकरणं विधातुम् उद्यतः कृतप्रयत्न इव । इह गृह्णतेवेति उद्यत इवेति वाच्या क्रियोत्प्रेक्षा, विडम्बयितुमित्यार्थी उपमा, तत्र परस्परमेषामङ्गाङ्गि-भावः सङ्करः ।
पुरानेति । पुरातनतया पुरातनतया पतनभयादिव स्खलनशङ्कयेव वायुः पवनः स्कन्धे प्रकाण्डे लग्नः यस्य तादृशः । एतेन प्रकाण्डेषु वायुप्रवेगेन प्रकर्षो द्योतितः । इह समासोक्तिहेतूत्प्रेक्षयोः सङ्करः ।
निखिलेति । निखिलं समस्तं यत् शरीरं वपुः तद् व्यातुं शीलं यासां तादृशीभिः, अतिदूरोन्नताभिः अतिविप्रकृष्टमुत्थिताभिः, वृद्धत्वेनातिरिक्रमुत्पन्नाभिः, जीर्णतया प्राचीनतया (वृद्धावस्थया) शिराभिरिव अस्थिबन्धनैरिव व्रततिभिः लताभिः 'वल्ली तु प्रततिर्लता' इत्यमरः, परिवेष्टितः ।
जरेति । जरायां वृद्धावस्थायां ये तिलकबिन्दवः समप्रशरीरेषु उत्पद्यमानाः श्यामवर्णाश्चिह्नविशेषाः तैरिव कण्टकैः क्षुद्रशत्रुभिः आचिता व्याप्ता तनुः देहो यस्य स तयोक्तः । 'कण्टकः क्षुद्रशत्रौ च' इति विश्वः । गतैः वैहायसपथोस्थितैः, पत्ररथैः पक्षिभिरिव 'पतत्पत्ररथाण्डजाः' इत्यमरः । शाखानां स्कन्धानाम् अन्त-रेषु मध्येषु दृशं दृशमात्रं निलीयमानैः गुप्ततया स्थितवद्भिः, अम्बुभारेण पीतसलिलभारेण अलसैः मन्थर-गतिभिः, आर्द्रीकृतानि वर्षणेन क्लिन्नानि पल्लवानि सद्यः क्रिमदलानि यैस्तानि तैः, जलधरपटलैः मेघ-समूहैरपि न दृष्टम् अत्युन्नततया नेक्षितं शिखरं प्रान्तप्रदेशो यस्य स तथोक्तः । अत्र पत्ररथैरिवेति वाच्योप-मालङ्कारः, जलधरपटलानां शिखरावलोकनसम्वन्धसत्वेऽपि तदसम्बन्धप्रतिपादनादतिशयोक्त्यलङ्कारश्चे-त्युभयोः सङ्करः, अतिशयाभिधानेन चात्युञ्चतत्वं गम्यते इत्यलङ्कारेण वस्तुध्वनिः ।
तुङ्गेति । तुङ्गतया उन्नततया 'उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गे' इत्यमरः, नन्दनवनम् इन्द्रोद्यानम् 'अथ नन्दनम्, इन्द्रोद्याने नन्दनस्तु तनये हर्षकारिणि' इति हेमः, तस्य या श्रीः शोभा ताम् अवलोक-यितुमिव वीक्षितुमिव अभ्युद्यतः तत्परः । अत्र अवलोकयितुमिवेति क्रियोत्प्रेक्षा ।
स्वसमीपेति । स्वसमीपवर्त्तिनां निशान्तिकस्थानाम् उपरि ऊर्ध्वं सञ्चरतां गच्छताम्, गगनतले
लिपटा हुआ ऐसा प्रतीत होता था मानों किसी ने उसकी जटा में घोंसला बना दिया हो। उसके ऊँचे कंधों पर लटकी हुई वायु से हिलने वाली केंचुली ऐसी लगती थी मानों उसका उत्तरीय वस्त्र फहरा रहा हो। दिशाओं के विस्तार की नाप के समान आकाश में फैली हुई डालियों को उठाये हुये वह ऐसा प्रतीत होता था मानों हजारों भुजायें उठाकर ताण्डवनृत्य करने वाले भगवान् शंकर की होड़ लगा रहा हो। वह इतना ऊँचा था मानों बहुत पुराना होने के कारण गिरने के भय से उसने अपने कंधों को आकाश में टेक दिया हो। उसके ऊपर तक चढ़ी हुई लताओं ने उसे चारों ओर से कस दिया था, मानों बुढ़ापे के कारण शरीर पर उभड़ी हुई उसकी नाड़ियाँ हों। उसके शरीर के काँटे दुर्दांतों के नखों के समान प्रतीत होते थे। समुद्र का जल पीकर आकाश मार्ग से जाने वाले पक्षियों के समान बादल उसकी चोटी पर न पहुँच कर बीच ही में इधर-उधर डालियों पर अटक जाते थे और पानी के बोझ से ढलने के कारण वहीं थोड़ी देर तक रुक कर उसके पल्लवों को गीला कर जाते थे। वह आकाश तल तक पहुँची हुई ऊँचाई से ऐसा प्रतीत होता था मानों उचक कर नन्दन वन की शोभा देखने का प्रयत्न कर रहा हो। उसकी चोटी की डालियों को श्वेत बनाने वाली बर्फ की तहें बिखरी हुई थीं
१. उडुपतिशकलशेखरमिव । २. पवनस्कन्ध...गगनस्कन्ध... ३. तिलककण्टकैः ४. दलैः । ५. शाखान्तरेष्वेषु । ६. ०००शिखरदेशः । ७. उत्तुङ्गतया । ८. समीप । ९. गगनतल ।
| शालमलीतरुवर्णनम् ] | चन्द्रकला-विद्योतिनीसहिता । | ७३ |
|---|
गमन-खेदायासितानां रविरथतुरङ्गमाणां सृक्वपरिस्रुतैः फेनपटलैः सन्देहित-तूलराशिभि- र्धवलीकृतशिखरशाखः, वनगज-कपोलकण्डूयन-लग्नमदं-निलीन-मत्तमधुकरमालेन लोह- शृङ्खलाबन्धननिश्चलेनेव कल्पस्थायिना मूलेन समुपेतः, कोटराभ्यन्तरनिविष्टैः स्फुरद्भिः सजीव इव मधुकरपटलैः, दुर्योधन इवोपलक्षित-शकुनिपक्षपातः, नलिननाभ इव वन- मालोपगूढः नवजलधरव्यूह इव नभसि दर्शितोन्नतिः, अखिलभुवनतलावलोकनप्रासाद-
आकाशतले गमनेन सञ्चारेण यः खेदः परिश्रमः तेन आयासितानां खेदमुपगतानां रविरथतुरङ्गमाणां सूर्यरथनियुक्तश्वानां सृक्क्याम् ओष्ठप्रान्ताभ्यां 'प्रान्तावोष्ठस्य सृक्िणी, इत्यमरः, परिस्रुतैः पतितैः, सन्देहितः 'अयमेतद्वृक्षोत्पन्नः तूलसमुदायो न वा' एवमात्मनि सन्देहविषयीकृतः तूलराशिः कार्पासकपिण्डो यैस्तैः फेनपटलैः श्वेतकफसमूहैः धवलीकृताः श्वेतीकृताः शिखरशाखाः अप्रस्थायिन्यः शाखा यस्य सः। इहोक्तविधफेनपटलैरप्रस्थायिशाखानां श्वेतीकरणसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्ति, अत एव चाप्रस्तुतत्वं गम्यत इत्युल्लद्वारेण वास्तुध्वनिः ।
वनगजेति । वनगजानाम् आरण्यकहस्तिनां कपोलयोः गण्डयोः कण्डूयनेन खर्जनेन लग्नेषु सक्तेषु मदेषु दानवारिषु निलीना अवस्थिता मत्ताः मधुपानैन क्षीबा मधुकरमाला भ्रमरपङ्क्तयो यत्र तेन तादृशेन 'गोस्त्रियोरुपसर्जनस्य' इत्युपसर्जनह्रस्वः, अत एव लोहशृङ्खलया लोहनिगडेन 'अथ शृङ्खला, बन्धुको निगडोऽस्त्री स्यात्' इत्यमरः, यद्वन्धनं नियन्त्रणं तेन निश्चलं स्थिरं तेनेव विद्यमानेन, कल्पस्थायिना प्रलयसमयं यावत् तिष्ठता मूलेन समुपेतः संदृक्तः । इह काव्यलिङ्गगुणोत्प्रेक्षयोः सङ्करः ।
कोटरेति । कोटराभ्यन्तरे शरीरस्यच्छिद्रमध्ये निविष्टैः निलीनैः स्फुरद्भिः दीप्यमानैः मधुकरपटलैः भ्रमरवृन्दैः सजीव इव श्वासोद्दिमाणयुक्त इव, कोटरे प्राणवन्मधुकराणां निरन्तरस्पन्दनादित्याशयः । इह गुणोत्प्रेक्षा ।
दुर्योधन इति । दुर्योधनो धृतराष्ट्रप्रथमसुतः तद्वत्, उपलक्षितो ऽन्तर्लोचनविषयीकृतः शकुनीनां पक्षिणां पक्षैः छुदैः पातः पतनं यस्मिन् स तादृशः, पक्षे उपलक्षितः अन्तर्लोचनविषयीकृतः शकुनौ गान्धाराधिपतौ मातुले पक्षपातः प्रणयो यस्य स तथोक्तः । इह पूर्णोपमा ।
नलिनैति । नलिने कमलं नाभौ यस्य स विष्णुरिव, वनमालया अरण्यपङ्क्त्या उपगूढः आच्छादितः, पक्षे वनमाला जानुपर्यन्तावलम्बिनी सर्वर्तुपुष्पोज्ज्वला मध्ये स्थूलकदम्बान्वया तया सजा उपगूढ श्लिष्टि इहापि पूर्ववदेवालङ्कारः । वनमाला लक्षणमाह-
'आचानुलम्बिनी माला सर्वर्तुकुसुसोज्ज्वला । मध्ये स्थूलकदम्बान्वया वनमालेति कीर्त्तिता ॥'
नवेति । नवा नूतना ये जलधरा मेघाः तेषां व्यूहो मण्डलं तद्वत्, नभसि व्योम्नि दर्शिता प्रकटिता उन्नतिः स्तब्धत्वं येन स तथोक्तः, पक्षे नभसि श्रावणे मासि दर्शिता प्रकटिता उन्नतिः वृद्धिर्येन स तादृशः । 'नभः खं श्रावणो नभाः' इत्यमरः । अत्रापि पूर्ववदेवालङ्कार इति केचिद, तत्वविदस्तु उपरितनेष्वभङ्गश्लेष एवेत्याहुः ।
अखिलेति । अखिलानि समस्तानि यानि भुवनतलानि जगन्ति तेषाम् अवलोकनं निरीक्षणं तदर्थं
मानो इसके समीप होकर आकाश-मार्ग से जानेवाले थके हुए सूर्य के घोड़ों ने थोड़ी देर ठहर कर उन्हें अपने ओठों की कोरों से गिरते हुए झागों से भर दिया हो । जंगली हाथियों के कपोल खुजलाने से इसके तने में मद चिपका रहता था जिससे मत्तवाले भौरों से घिरा हुआ वह ऐसा प्रतीत होता था मानो किसी ने लोहे की सीखचों से बाँध कर उसके तने को कल्पान्त तक के लिए अडिग बना दिया हो । इसकी कोटरों में स्फुरित होने वाले भौरे इसके प्राणों के समान प्रतीत होते थे । वह पक्षियों के गिरे पंखों से भरा होने के कारण शकुनि का पक्षपात करने वाले दुर्योधन, वन-पंक्तियों से घिरे होने के कारण वनमालाधारी भगवान् विष्णु और आकाश में ऊँचाई तक छाये रहने के कारण नवीन बादलों की घटा के समान प्रतीत होता था। वह मानो वनदेवियों का भुवनतलावलोकनप्रासाद (वह अत्यन्त ऊँचा महल जिसकी चोटी पर बैठ कर राजा लोग समस्त पृथ्वी
१. मदसहित । २. बन्धनिश्चलेनेव । ३. पतद्भिः । ४. पद्मनाभ इव । ५. इवोन्नतिः ।
१० का० कया०
७४ | कादम्बरी- | [कथामुखे-
इव वनदेवतानाम्, अधिपतिरिव दण्डकारण्यस्य, नायक इव सर्ववनस्पतीनाम्, सखेव विन्ध्यस्य, शाखाबाहुभिरुपगुह्येव विन्ध्याटवीमवस्थितो महान् जीर्णः शाल्मलीवृक्षः।
तत्र च शाखाग्रेषु कोटरोदरेषु पल्लवान्तरेषु स्कन्धसन्धिषु जीर्णवल्कलविवरेषु च महदवकाशतया विश्रब्ध-विरचित-कुलायसहस्राणि दुरारोहतया विगलितविनाशभयानि नानादेशसमागतानि शुक-शकुनिकुलानि प्रतिवसन्ति स्म। यैः परिणामविरलदलसंहति-रपि स वनस्पतिविरल-दल-निश्चय-श्यामलं इवोपलक्ष्यते दिवानिशं निलीनैः।
ते चं तस्मिन् वनस्पतावतिवाह्य निशामार्मनीडेषु प्रतिदिनमुत्थायोत्थाया-
प्रासादो राजभवनमिव अत्युन्नतत्वादित्याशयः। वनदेवतानाम् अरण्याधिष्ठात्रीणां देवीनाम्। दण्डकारण्यस्य दण्डकाभिधवनस्य अधिपतिः स्वामी एव मुख्यत्वादित्यभिप्रायः। सर्ववनस्पतीनां पुष्पं बिना फलं येषामेवंविधसर्वतरूणाम् 'वनस्पतिर्वृक्षमात्रे विना पुष्पंफलद्रुमे' इति विश्वः। नायकः अध्यक्ष इव, अत्रापि मुख्यत्वादित्याशयः। विन्ध्यस्य जालवालकपर्वतस्य सखा सुहृत् स इव तत्तुल्योन्नतत्वादित्याशयः। इह सर्वत्र जात्युत्प्रेक्षा। शाखा स्कन्धा एव बाहवो भुजाः तैः विन्ध्याटवीं विन्ध्यभूमिम् उपगुह्येव आलिङ्ग्येव अवस्थितः विद्यमानः। इह निरङ्गं केवलरूपकम्, तथा क्रियोत्प्रेक्षा च, अनयोरङ्गाङ्गिभावेन सङ्करालङ्कारः।
तत्रेति। तत्र तस्मिन् शाल्मलीवृक्षे शाखाग्रेषु शालप्रान्तेषु कोटरोदरेषु शरीरस्य च्छिद्राभ्यन्तरेषु पल्लवान्तरेषु किसलयमध्येपु स्कन्धसन्धिषु प्रकाण्डबन्धेपु जीर्णानि प्राचीनानि यानि वल्कलानि त्वचः तेषां विवरेषु छिद्रेषु, महान् अतिदीर्घः अवकाशः अन्तर्विस्तारः येषां तेषां भावस्तया तथोक्त्या विश्रब्धं सविश्वासं निःसन्देहं यथा स्यात्तथा विरचितानि निर्मितानि कुलायसहस्राणि नीडसहस्रा यैस्तानि तथोक्तानि दुःखेन अत्यन्तोन्नतत्वात् क्लेशेन आरुह्यत इति दुरारोहः तस्य भावः तत्ता तया विगलितं हृदयात् प्रच्युतं विनाशभयं रुजादिभ्यो मृत्युभयं येषां तानि, नानादेशेभ्यो भिन्नभिन्नप्रान्तेभ्यः समागतानि सम्प्राप्तानि, शुकाः कीराः शकुनयस्तदतिरिक्ताः पतत्रिणः तेषां कुलानि समूहाः प्रतिवसन्ति स्म वासं कुर्वन्ति स्म।
यैरिति। दिवानिशं रात्रिन्दिवं निलीनैः स्थितैः यैः शकुनिकुलैः, परिणामेन पुरातनतया विरला स्वल्पा दलसंहतिः पत्रसमुदायो यत्र स तथोक्तोऽपि तरुणवृक्षवदभिनवदलानां सान्द्रत्वेनोपपन्नतवात् जीर्णदलानाञ्च यथाक्रमं ह्रासादित्याशयः, स वनस्पतिः शाल्मलीतरुः, अविरलानि सान्द्राणि यानि दलानि पर्णानि तेषां संहतिः समूहः तेन श्यामलः कृष्णवर्ण इव उपलक्ष्यते जनैरवलोक्यते, तत्र तत्र निलीनानां शुकशकुनीनां दलवत् कृष्णवर्णत्वादित्याशयः। इह श्यामलत्वं गुण इति तस्योत्प्रेक्षणादुत्प्रेक्षालङ्कारः।
ते चेति। ते शुकशकुनयः, 'विचरन्ति स्म' इत्यग्रिमेणान्वयः। अत्र प्रथमान्तपदानि 'ते' इत्यस्य विशेषणानि बोध्यानि। तस्मिन् वनस्पतौ शाल्मलीवृक्षे आत्मनीडेषु निजनिजकुलायेषु 'कुलायो नीडमस्त्रियाम्' इत्यमरः, निशां रात्रिम् अतिवाह्य अतिक्रम्य प्रतिदिनं प्रत्यहम् उत्थायोत्थाय उत्थानं विधाये-
का प्राकृतिक सौन्दर्य अथवा चाँदनी का आनन्द लेते थे) था, अथवा दण्डकारण्य का स्वामी था, अथवा सम्पूर्ण वृक्षों का राजा था, अथवा विन्ध्याचल का मित्र था। उसने अपनी डाली रूपी भुजाओं को फैला कर मानो विन्ध्याटवी को अपने आलिंगन में कस लिया था।
स्थान अधिक होने के कारण विभिन्न देशों से आये हुए सुग्गों और पक्षियों के परिवार उसकी डालियों के सिरों पर, खोखलों में, पत्तों के बीच में, कन्धों की जोड़ों पर और पुरानी छालों के छेदों में हजारों घोंसले बनाकर रहते थे। उस वृक्ष पर चढ़ना अत्यन्त कठिन था इसलिए वे अपने विनाश के भय से निश्चिन्त थे। यद्यपि वह वृक्ष बुढ़ौती के कारण पत्तों से कुछ खण्ड-सा हो गया था तथापि उन पक्षियों के निरन्तर रहने के कारण घने पत्तों से छतनार-सा दिखाई पड़ता था।
उस वृक्ष में बनाये गए अपने घोसलों में रात बिता कर भोजन की खोज में प्रतिदिन प्रातःकाल आकाश में उड़ती हुई कलरव करनेवाली उन सुग्गों की पंक्तियाँ ऐसी प्रतीत होती थीं मानो बलराम के हल
१. विन्ध्याचलस्य। २. उपगृह्येव। ३. स्थितः। ४. शाल्मलि। ५. वल्का। ६. 'च' इति पाठः कचिन्नाप्यस्ति। ७. विगतविनाशमयानि, विगतमयानि। ८. विरलसंहतिः, विरलदलसन्ततिः। ९. श्यामः। १०. तस्मिन् वनस्पतावतिवाह्य। ११. रजनीम्। १२. आत्मनो नीडेषु।
शुकजन्मवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । ७५
ऽहारान्वेषणाय नभसि विरचितपङ्क्तयो मदकल-हलधर-हलमुखोत्क्षेप-^१विकीर्णबहुस्रोतसमम्बर-तले कलिन्दकन्यामिव दर्शयन्तः, सुरगजोन्मूलित-विगलदाकाशगङ्गा-कमलिनीशङ्खामुपजन-यन्तः, दिवस-कर-रथतुरग-प्रभानुलिप्तमिव गगनतलमूषपादयन्तः, सञ्चारिणीमिव मरकत-स्थलीं विडम्बयन्तः, शैवलपल्लवावलीमिवाम्बरसरसि प्रसारयन्तः, गगर्नविततैः पक्ष-पुटैः कदलीदलैरिव दिनकर-खर-कर-निकर-परिखेदिताभ्याशामुखानि वीजयन्तः, वियति ^१०विसारिणीं शष्पवीथीमिवारचयन्तः, सेन्द्रायुधभिवान्तरिक्षमादधाना विचरन्ति स्म^११ शुकशकुन्तयः ।
ऽयर्थः, आहारान्वेषणाय भक्ष्यमार्गणार्य नभसि आकाशे विरचिता कृता पङ्क्तिः श्रेणी यैस्ते तयोक्ताः । मदेन मधुपानेन कलो मत्तो यो हलधरो वलरामः तस्य हलमुखेन लाङ्गलप्रदेशेन य उत्क्षेपः ऊर्ध्वदेशे क्षेपणं तेन विकीर्णानि विक्षिप्तानि बहूनि स्रोतांसि प्रवाहा यस्याः तां तथोक्तां कलिन्दकन्यां यमुनाभिव अम्बरतले गगने दर्शयन्तः दर्शनीयतां प्रापयन्तः । इह कालिन्दीद्रव्यस्वरूपोत्प्रेक्षणाद् द्रव्योत्प्रेक्षालङ्कारः । अन्वयवृत्तान्तस्तु प्रागेव प्रतिपादितः ।
सुरगजेति । सुरगजेन देवहस्तिना ऐरावतेनेत्यर्थः, उन्मूलिता उत्पाटिता अत एव विगलन्ती अधः पतन्ती या आकाशगङ्गा मन्दाकिनी 'मन्दाकिनी वियद्गङ्गा' इत्यमरः, तस्याः कमलिनी पद्मिनी तस्याः शङ्खाम् स्वेषु परेषां भ्रान्तिम उपजनयन्तः उत्पादयन्तः तुल्यकृष्णवर्णत्वादियाशयः । एवञ्चात्र भ्रान्तिमान् नामाङ्कारः स्पष्ट एव ।
दिवसेति गगनतलम् आकाशतलम्, दिवसकरस्य आदित्यस्य ये रथतुरगाः स्यन्दनयोजितसप्ताश्वाः तेषां प्रभाभिः श्यामहरूपाभिः दीप्तिभिः अनुलिप्तं लेपनविषयीकृतमिव उपपाद्यन्तः विदधतः निजकान्तिभिरित्याशयः । इह अनुलिप्तमिवेति क्रियोत्प्रेक्षा ।
सञ्चारिणीमिति । सञ्चारिणीं पर्यटनशीलां मरकतस्थलीं नीलमणिभूमिं विडम्बयन्तः अनुकुर्वन्त इव स्वकीयानामपि नीलवर्णत्वादित्याशयः । इहाप्युत्प्रक्षालङ्कारः ।
शैवलेति । अम्बरं गगनमेव सरः स्वच्छत्वाद्दिपुलत्वाच्च 'कासारः सरसी सरः' इत्यमरः, तत्र शैवलपल्लवस्य शैवालकिसलयस्य आवलिं पंक्तिं प्रसारयन्तः विस्तारयन्तः इव स्वेषां शैवालकिसलयवद् श्यामरूपत्वाद् ह्रस्वह्रस्वत्वाच्चेत्याशयः । इह अम्बरमेव सर इति निरङ्गकेवलरूपकम्, प्रसारयन्त इवेति क्रियोत्प्रेक्षा चेत्यनयोरङ्गाङ्गिभावेन सङ्करालङ्कारः ।
गगनेति । कदलीदलानि रम्भापत्राणि तैरिव श्यामरूपत्वादित्यादायः, गगने आकाशे विततैः विस्तृतैः पक्षपुटैः पक्षच्छदैः, दिनकरस्य आदित्यस्य खराः तीक्ष्णाः ये करनिकराः किरणसमूहाः तैः परिखेदितानि संक्लेशितानि आशामुखानि दिग्बदनानि वीजयन्तः स्वोत्पन्नपवनसंस्पर्शयुतं सम्पादयन्तः । इह कदलीदलैरिवेत्युपमा ।
वियतीति । वियति अम्बरे विसारिणीं विस्तारिणीं शष्पवीथीम् अभिनवतृणपङ्क्तिम् आरचयन्तः निर्माणं कुर्वन्त इव तृणपङ्क्तिवत् निजपङ्क्तेरपि श्यामरूपत्वाद्विस्तृतत्वाच्चेत्याशयः । इह आरचयन्त इवेति क्रियोत्प्रेक्षा ।
सेन्द्रेति । अन्तरिक्षम् । अम्बरं सेन्द्रायुधं शक्रधनुषा सह विद्यमानमिव, 'इन्द्रायुधं शक्रधनुः'
की नोक से आकाश में फेंकी गई यमुना की बिखरी हुई कई धारायें हों, अथवा ऐरावत गज द्वारा आकाशगङ्गा से उखाड़ कर फेंकी गई कमलिनियों की कतारें हों, अथवा सूर्य के रथ के घोड़ों की हरी-हरी कान्ति से सारा आकाश ही रङ्ग उठा हो, अथवा आकाश में उड़ती हुई मरकतमणि से निर्मित भूमि की टुकड़ियाँ हों, अथवा आकाशरूपी तालाब में फैली हुई सेवारों की पंक्तियाँ हों । वे आकाश में उड़ते समय केले के पत्तों के समान अपने हरे-हरे खुले पंखों को मारते हुये ऐसे प्रतीत होते थे मानो सूर्य की धूप में मुरझाये हुये दिशारूपी कामिनियों के मुख पर पंखे झल रहे हों, अथवा आकाश में हरी-हरी घासों की पट्टियाँ बिछा रहे हों। वे
१. बलभद्रहलमुत्क्षेप । २. विप्रकीर्णं । ३. उत्पादयन्तः । ४. अनुलिप्तगगनतलम् । ५. प्रदर्शयन्तः । ६. गगनावततैः । ७. 'खर' इति पाठः क्वचिन्नाप्यस्ति । ८. परिखेदिताशामुखानि । ९. परिवीजयन्तः । १०. विस्तारिणीं । ११. 'विचरन्ति स्म' एतावानेव काप्यन्यत्र पाठ दृश्यते ।
| ७६ | कादम्बरी- | [ कथामुखे- |
|---|
(कृताहाराश्च पुनः प्रतिनिवृत्यात्मकुलायावस्थितेभ्यः शावकेभ्यो विविधाम् फलरसान् कलममञ्जरीविकारांश्च प्रहत-हरिण-रुधिरानुरक्त-शार्दूलनखकोटिपाटलेन चञ्चुपुटेन दत्त्वा³ दत्त्वा अधरीकृत-सर्वस्नेहेनासाधारणेन गुरुणाऽपत्यप्रेम्णा तस्मिन्नेव क्रोडान्तनिहिततनयाः क्षपाः क्षपयन्ति स्म।
(एकस्मिंश्च जीर्णकोटरे भार्यया सह⁶ निवसत: पश्चिमे वयसि वर्त्तमानस्य कथमपि पितु-रहमेवैको⁷ विधिवशात् सूनुरभवम् । अतिप्रर्बलया⁸ चाभिभूता ममैव जायमानस्य प्रसववेदनया जननी मे लोकान्तरमगमत्⁹ । अभिमतजायाविनाशदुःखितोऽपि¹⁰ खलु तातः सुतस्नेहादन्त॑-¹¹
इत्यमरः, आदधानाः कुर्वाणाः, निजपङ्क्त्या विविधरूपरत्न-दित्याशयः । इह सेन्द्रायुधमिति गुणोत्प्रेक्षा ।
कृताहारा इति। कृतो विहित आहारो भोजनं यैस्ते तथोक्ताः, पुनः स्वभोजनानन्तरं भूयः प्रतिनिवृत्य परावृत्य, आत्मीया निजा ये कुलाया नीडानि 'कुलायो नीडमस्त्रियाम्' इत्यमरः, तत्र अवस्थितेभ्यः वर्त्तमानेभ्यः शावकेभ्यः शिशुभ्यः 'पृथुकः शावकः शिशुः' इत्यमरः विविधाम् अनेकप्रकारान् फलरसान् सस्यनिर्यासान् , कलमानां धान्यविशेषाणां मञ्जर्यो वल्लर्य्यस्तासां विकाराः परिपाकविशेषेण परिपक्काः कणाः तांश्च, प्रहतस्य विनाशितस्य हरिणस्य कुरङ्गस्य रुधिरं शोणितं तेन अनुरक्ता रक्तवणीकृता या शार्दूलनखकोटिः व्याघ्रनखाग्रप्रदेशः तद्वत् पाटलेन श्वेतरक्तेन 'श्वेतरक्तस्तु पातलः' इत्यमरः । इह लुप्तोपमा। चञ्चुपुटेन पक्षाङ्गुलसम्पुटेन 'चञ्चुः पक्षाङ्गुले श्रोत्र्याम्' इति हैमः, दत्त्वा मुहुर्मुहुः तेभ्य आहारं वितीर्येत्यर्थः। अधरीकृतः निम्नत्वमापादितः सर्वः स्नेहः सन्तानभिन्नवृत्तिस्समस्तप्रेम येन तेन तादृशेन, अत एव असाधारणेन तन्मात्रगतेन गुरुणा महता अपत्यप्रेम्णा सन्तानस्नेहेन, तस्मिन्नेव शाल्मलीतरावैव क्रोडानाम् उत्सङ्गानाम् अन्तर्निहिता मध्येेषु रक्षिताः तनया अपत्यानि यैस्ते तथोक्ताः शुकशकुनयः क्षपाः त्रियामाः 'त्रियामा क्षणदा क्षपा' इत्यमरः, क्षपयन्ति स्म अतिवाहयन्ति स्म । इह वत्सलो रसः ।
एकस्मिन्निति । जीर्णकोटरे दीर्घकालीननिष्कुटे जायया भार्यया सह निवसत: वासं कुर्वतः पश्चिमे अन्तिमे वयसि अवस्थायां वार्धक्य इत्यर्थः, वर्त्तमानस्य विद्यमानस्य कथमपि महता क्लेशेन पितुर्जनकस्य विधिवशाद् दैवसंयोगात् अहमित्यात्मनिर्देशः एक एव नान्यः सूनुः तनयः 'आत्मजस्तनयः सूनुः' इत्यमरः, अभवम् अजनिषि ।
अतिप्रबलेति । मम जायमानस्यैव उत्पद्यमानस्यैव अतिप्रबळया अतिकठिनया प्रसववेदनया प्रसूतिपीडया अभिभूता आक्रान्ता सती मे मम जननी माता परलोकं लोकान्तरम् अगमत् अव्रजत् ।
अमीति । अभिमताया अभीष्टाया जायायाः पत्न्याः विनाशेेन लोकान्तरगमनेन दुःखितोऽपि क्लेशितोऽपि खलु निश्चयेन, तातः जनकः सुतस्नेहात् पुत्रवात्सल्यात्, पदूप्रसरमपि स्पष्टवेगमपि शोकं क्लेशम्
अपनी रंग-बिरंगी पंक्तियों से आकाश में इन्द्रधनुषों का जाल बिछा रहे थे।
वे चारा चुग लेने के बाद फिर लौट कर अपने-अपने घोसलों में स्थित बच्चों को मारे गये मृग के रक्त से सने हुये बघनखों के समान लाल-लाल चोंचों से तरह-तरह के फलों का रस और धान के कण खिला-खिला कर उन्हें अपनी गोद में भर लेते तथा अत्यन्त वात्सल्य के कारण पंखों में छिपा कर उन्हीं घोंसलों में रात बिताते थे।
उसी वृक्ष के एक पुराने खोखले में मेरे पिता मेरी माँ के साथ निवास करते थे। उनकी बुद्धौती में किसी प्रकार सौभाग्य से एकलौती सन्तान के रूप में मेरा जन्म हुआ। मेरे जन्म के समय ही अत्यन्त तीखी प्रसव-पीड़ा के कारण मेरी माँ चल बसीं। प्रिय पत्नी की मृत्यु से दुखी होते हुये भी पुत्रप्रेम के कारण मेरे पिता ने शोक के
१. कलमफलविकारान्
२. प्रसक्त ।
३. दत्त्वा ।
४. स्वस्मिन्नेव ।
५. 'मुक्तम्' इत्यधिकः पाठः काप्यन्यत्र ।
६. 'तत्र' इत्यधिकः पाठः कचित् ।
७. अहमेकः।
८. प्रवलया ।
९. परलोकमगच्छत् ।
१०. ***शोकदुःखितोऽपि दुःखदुःखितोऽपि ।
११. अभ्यन्तरे निरुध्य ।
शुकजन्मवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । [ ७७
निगृह्य पटुप्रसरमपि शोकमेकाकी मत्संवर्धनपर एवाभवत् । अतिपरिणतवयाश्च कुशचीरानुकारिणीमल्पावशिष्ट-जीर्ण-पिच्छजाल-जर्जराम् अवस्रस्तांसदेशशिथिलाम् अपगतोत्पतनसंस्कारां पक्षसन्ततिम् उद्वहन्, उपारूढकम्पतया सन्तापकारिणीमङ्गलग्नां जरामिव विधुन्वन्, अकठोर-शेफालिकाकुसुम-नाल-पिञ्जरेण कलममञ्जरी-दलन-मसृणित-क्षीर्णोपान्तलेखेन स्फुटिताग्रकोटिना चञ्चुपुटेन, परनीडनिपतिताभ्यः शालिवल्लरीभ्यस्तण्डुलकणानादायादाय तरुमूलनिपतितानि च शुककुलावदलितानि फलशकलानि समाहृत्य परिभ्रमितुमशक्तो मह्यमदात् । प्रतिदिवसमात्मना च मदुपभुक्तशेषम् अकरोदशनम् ।
अन्तर्निगृह्य हृदयमध्य एव निरुध्य एकाकी एकः मत्संवर्धनपर एव मम परिपोषणतत्पर एव अभवत् आसीत् ।
अतिपरिणतेति । अतिपरिणतम् अत्यन्तपरिपक्वम् अतिवृद्धमित्यर्थः, वयोऽवस्था यस्य स तादृशः, कुशो बर्हिः चीरं जीर्णवसनखण्डं तदनुकरोति तत्सामान्यमाश्रयति या सा तां तादृशीम् । अत्रार्थी उपमा । अल्पं वार्धक्येन निःसरणात् स्तोकमात्रम् अवशिष्टम् उर्वरितं यत् जीर्णपिच्छजालं पुरातनबर्हसमुदायः तेन जर्जरां विशीर्णाम् । अवस्रस्ते परिणतत्वात् गलिते अंसदेशे स्कन्धस्थाने शिथिलाम् अस्थि-रावयवसम्बन्धाम् । अपगतो दूरीभूत उत्पतने आकाशविहरणे संस्कारः सामर्थ्यविशेषो यस्याः सा तां तथोक्ताम्, एतादृशीं पक्षसन्तति पतत्रसमुदायम् उद्वहन् धारयन् ।
उपारूढेति । उपारूढः परिणतवयस्कत्वेन स्वभावत एवाविर्भूतः कम्पः शरीरसञ्चलनं यत्र सा तादृशी तस्या भावस्तया, सन्तापकारिणीं दुःखदायिनीम् स्वेच्छया सञ्चालयितुमसमर्थत्वादित्याशयः । अङ्गलग्नां शरीरे विद्यमानां जरां परिणतावस्थामिव विधुन्वन् तामेव पक्षधारां कम्पयन् सञ्चालयन् किञ्चिद् व्रजन्नित्यर्थः । इह जरामित्युत्प्रेक्षा ।
अकठोरेति । अकठोरं मृदुलं यच्छेफालिकाकुसुमं निर्गुण्डीपुष्पं तस्य यत् नालं वृन्तं तद्रूपिञ्जरेण पिङ्गलवर्णेन, अत्र लुप्तोपमा । कलमस्य तदाख्यधान्यविशेषस्य या मञ्जर्यः शिखाः तासां दलनेन विदारणेन मसृणिता चिकणा शीर्णा क्षयं प्राप्ता च उपान्तलेखा प्रान्तसमीपस्थायिनी रेखा यस्य स तेन तादृशेन तथा चञ्चुपुटेन पञ्चाङ्गुलेन परिश्रमात् स्फुटिता क्षयं प्राप्ता अग्रकोटिः अग्रिमप्रखरदेशो यस्य तेन तादृशेन ।
परेति । परेषां अन्येषां शकुनीनां नीडानि कुलायाः तेभ्यः निपतिताः स्रस्ताः शालिवल्लर्यः धान्यमञ्जर्यः ताभ्यः तथोक्ताभ्यः तण्डुलकणान् आधायादाय गृहीत्वा गृहीत्वा तरुमूलनिपतितानि वृक्ष-मूलच्युतानि शुकानां कीराणां कुलेन समूहेन अवदलितानि विदार्य भूमौ पातितानि फलशकलानि फलखण्डानि समाहृत्य एकीकृत्य परिभ्रमितुं दूरे सञ्चरितुम् अशक्तोऽसमर्थो मह्यं वैशम्पायनाय अदात् भक्षयितुं दत्तवान् । एवं प्रतिदिवसं प्रत्यहमुक्तविधिना, आत्मना स्वयञ्च । मया उपभुक्तस्य भक्षितस्य शेषम् अवशिष्टम् अशनं भोजनम् अकरोत् कृतवान् ।
फैलते हुए तीव्र वेग को भीतर ही भीतर पी डाला और वह अकेले ही मेरे पालन-पोषण में तल्लीन हो गये । अत्यन्त बुढ़ौती के कारण उनके दोनों पंखों में बहुत थोड़े पुराने पखने बच गये थे जिससे वे कुश के कपड़े की तरह रूखे और छिन्न-भिन्न हो गये थे तथा शिथिल कंधों से लटक जाने के कारण उड़ने की शक्ति खो चुके थे । उनका शरीर बुढ़ौती के कारण सर्वदा काँपा करता था मानो वह अपने शरीर में चिपक जानेवाली दुःखदायिनी बुढ़ौती को झाड़ कर गिरा देना चाहते थे । उनकी चोंच हरसिंगार के फूल की डंडी के समान अब कुछ पीलापन लिए हुए लाल रंग की हो चली थी जिसके किनारे धान की कलियाँ कुतरते-कुतरते घिस कर चिकने हो गए थे तथा उनपर इस घिसावट की एक पतली रेखा-सी पड़ गयी थी और उसका अगला नुकीला भाग टूट चुका था । वे इधर-उधर आने-जाने में असमर्थ थे इसलिए दूसरों के घोसलों के नीचे गिरी हुई धान की बालियों से अन्न के कणों और सुग्गों द्वारा कुतर-कुतरकर वृक्ष की जड़ पर गिराये गये फलों के टुकड़े किसी प्रकार उसी चोंच से उठा-उठाकर लाते और मुझे खिलाने के बाद जो बचता उसे आप भी खा लेते थे ।
१. शोकवेगम् । २. अतिपरिणततया च । ३. जर्जरीम् । ४. स्रस्तांसदेशाम् । ५. पक्षसंहतिम् ।
६. इह 'च' इत्यधिकः पाठः क्वापि । ७. कुसुमपिञ्जरेण । ८. क्षीरोपान्तलेखेन । ९. ॰॰॰पतिताभ्यः ।
१० वृक्ष॰॰॰ । ११. मह्यमाहारमदात् । १२. मदुपयुक्तशेषम् ।
कादम्बरी- [कथामुखे-
(एकदा तु प्रभातसन्ध्यारागरोहिते गगने च कमलिनी-मधुरक्त-पक्षसम्पुटे वृद्धहंस इव मन्दाकिनीपुलिनादपर-जलनिधि-तटमवतरति चन्द्रमसि, परिणत-रङ्कु-रोम-पाण्डुनि व्रजति विशालतामाशाचक्रवाले गजरुधिर-रक्त-हरिसटा-लोहिनीभिः प्रतप्त-लाक्षिक-तन्तु-पाटलाभि-रायामिनीभिः अशिशिरकिरणदीधितिभिः पद्मरागशलाकासम्मार्जनीभिरिव समुत्सार्यमाणे गगनकुट्टिमकुसुमप्रकरे तारागणे सन्ध्यामुपासितुमुत्तरावलम्बिनि मानससरस्तीर-
एकदेति । एकदा एकस्मिन् काले स्फुटतया जाते प्रत्यूषे मृगयाकोलाहलध्वनिः उदचरदिति वक्ष्यमाणेने दूरेणान्वयः। प्रभातस्य प्रत्यूषस्य या सन्ध्या तत्सम्बन्धी यो रागो रक्तिमा तेन लोहिते रक्तवर्णे, विशेषणमिदं गगने चन्द्रमसि च, तदानीमुभयोरपि तथैव सम्भवात् । अत एव च गगने चेत्यत्र चकारोपादानं सार्थकभित्यवधेयम् । अत एव कमलिन्या नलिन्याः मधुना लोहितवर्णपुष्परसेन अनुरक्तम् अनुरञ्जितं पक्षसम्पुटं पतत्रयुगलं यस्य तस्मिन् वृद्धहंस इव पुरातनकलहंस इव, अलसगतिव्यञ्जनाय वृद्धपदम्। चन्द्रमसि हिमांशौ मन्दाकिनीपुलिनात् वियद्गङ्गासैकतात् अपरः पश्चिमो यो जलनिधिः समुद्रः तस्य तटं तीरम् अवतरति उत्तीर्णे सति । इह वृद्धहंस इवेत्युपमा।
परिणतेति । परिणतस्य पुरातनस्य रङ्कोर्मृगविशेषस्य रोमाणि लोमानि तद्वत् पाण्डुनि पीतशुभ्रे
'पाण्डुस्तु पीतभागाधैः केतकीधूलिसन्निभः'
इति शब्दार्णवः। आशाचक्रवाले दिङ्मण्डले 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' 'चक्रवालं तु मण्डलम्' इति चामरः, विशालताम् अन्धकारापगमाद्विस्तीर्णतां व्रजति गच्छति सति । अत्र लुप्तोपमा ।
गजेति । गजानां हस्तिनां रुधिरं शोणितं तेन रक्ता लोहितवर्णा या हरिसटाः सिंहस्कन्धकेसराः तद्वत् लोहिनीभिः रक्तवर्णाभिः, इह रुधिररक्तपदार्थयोरापातः पौनरुक्त्येऽपि दर्शितदिशा पार्थक्यस्य स्पष्टमुपलम्भात् भिन्नाकारशब्दगत्वाच्च पुनरुक्तवदाभासोऽलङ्कारः तदुक्तं दर्पणे-
'आपाततो यदर्थस्य पौनरुक्त्येन भासनम् । पुनरुक्तवदाभासः स भिन्नाकारशब्दगः ॥'
इति ।
हरिसटावदिति लुप्तोपमा चेत्यनयोरङ्गाङ्गिभावेन सङ्करालङ्कारः । प्रतप्ता उष्णीकृता ये लाक्षिका जतुविकारोत्पन्नाः तन्तवः सूत्राणि तद्वत् पाटलाभिः श्वेतरक्ताभिः । अत्र लुप्तोपमालङ्कारः । आयामिनीभिः विस्तारवतीभिः, अशिशिरा उष्णाः किरणा रश्मयो यस्य तस्य सूर्यस्य दीधितिभिः प्रभाभिः पद्मरागस्य लोहितकमणेः याः शलाकाः इषीकाः तासां सम्मार्जनीभिः गृहादिशोधनीभिः 'सम्मार्जनी शोधनी स्यात्' इत्यमरः, ताभिरिव विध्यमानाभिः, अत्र जात्युत्प्रेक्षा । गगनम् आकाशमेव कुट्टिमं बद्धभूमिः (वहिद्वारं) तस्य कुसुमप्रकरः पुष्पसमुदायः तस्मिन् तारागणे नक्षत्रमण्डले समुत्सार्यमाणे दूरीक्रियमाणे सति । इह नक्षत्रमण्डले कुसुमप्रकरत्वारोपस्य गगने कुट्टिमत्वारोपो निमित्तमिति परम्परितरूपकमलङ्कारः, तदुक्तं दर्पणे-
'यत्र कस्यचिदारोपः परारोपस्य कारणम् । तत्परम्परितम्... ॥'
सन्ध्यामिति । उत्तराशा उदीची दिक् तद्वलम्बिति तदवस्थिते सप्तर्षिमण्डले ताराभूते मरीच्यादि सप्तदेवर्षिसमूहे सन्ध्यां प्रातः सन्ध्याम् उपासितुं विधातुमिव मानससरस्तीरं मानससरोवरतटं प्रति अवतरति अवरोहति सति तत्समये सप्तर्षिगणस्य उदीच्यामस्तगमनादेवमभिधानम् । इह च सन्ध्यामुपासितुमिवेति क्रियोत्प्रेक्षा । सप्तर्षिपदवाच्याश्च-
एक बार बड़े तड़के ही उस वन में शिकार का हाँका सुनायी पड़ा। उस समय प्रातःकालीन आकाश की लाली में रँगा हुआ चन्द्रमा धीरे-धीरे पश्चिम की ओर ढल रहा था मानो आकाशरूपी कमलिनी के पुष्प रस से रँगा हुआ लाल पंखों वाला बूढ़ा हंस आकाश-गंगा की रेती से पश्चिम समुद्र-तट पर उतर रहा हो। दिशाओं के छोर तक फैला हुआ तथा बूढ़े रंकु (एक प्रकार का मृग) के बालों के समान हल्के पीले रंग का क्षितिज क्रमशः स्पष्ट दिखायी पड़ने के कारण विस्तृत-सा प्रतीत होने लगा था, हाथी के रक्त में लिपटे हुए सिंह के अयाल (गर्दन के बाल) के समान लाल तथा तपायी हुई लाख की सलाइयों के समान श्वेत और पीले रंग की अत्यन्त लम्बी-लम्बी सूर्य की किरणें आकाश से तारों को समेटती हुई ऐसी प्रतीत हो रही थीं मानो पद्मराग मणि (लालमणि) की सलाइयों से बनी हुई झाडू लेकर सूर्य आकाशरूपी फर्श पर बिखरे हुए तारे-रूपी पुष्पों को बटोर रहा हो।
१. गगनतले, गगनतल,...गगनकमलिनी ।
६. मधुरक्तपक्षपुटे ।
३. आतप्तलाक्षिक, सन्तप्तलाक्ष, आतप्तलाक्षा...।
४. आगामिनीभिः ।
५. रत्नशलाकासंमार्जनीभिः ।
६. मानससरसः ।
प्रभातवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । [ ७६
मिवावतरति सप्तर्षिमण्डले, तटगत-विघटित-शुक्ति-सम्पुटविप्रकीर्णमरुणकर-प्रेरणाधोगलित-मुडुगणमिव मुक्ताफलनिकरमुद्वहति धवलितपुलिनेऽमु-दन्वति पूर्वेतरे [तुषारबिन्दुवर्षिणि विबुद्धशिखिकुले विजृम्भमाणकेशरिणि करिणी-कदम्बक-प्रबोध्यमान-समदे³करिणि क्षपाजल-जडकेशरं कुसुमनिकरमुदयगिरिशिखरस्थितं⁴ सवितारमिवोद्दिश्य पल्लवाञ्जलिभिः समुत्सृ-जति कानने-रासभ-रोम-धूसरांसु वनदेवताप्रासादानां तरूणां शिखरेषु पारावतमालाय-मानासु धर्मपताकाँस्सिव समुन्मिषन्तीषु तपोवनाग्निहोत्रधूमलेखासु, अवश्यायशीकरिणि
'मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः । वसिष्ठश्चेति सप्तैते ज्ञेयाश्चित्रशिखण्डिनः ॥' इति । तटगतेति । पूर्वं इतरो यस्मात् तस्मिन् पश्चिमे इत्यर्थः । उदन्वति समुद्रे 'इतरस्त्वन्यनीचयोः' इत्यमरः, बहुव्रीहिसमासत्वादेव नात्र सर्वादिस्वप्रयुक्तकार्यमित्यवधेयम् । तटगतानि तीरस्थितानि विघटितानि स्फुटितानि यानि विस्तारितभागद्वयानि तत्र शुक्तिसम्पुटेषु समुद्रमण्डूकीपुटेषु मध्ये विकीर्णम् असंयोग-भावेनावस्थितम्, धवलितं निजकान्त्या श्वेतीकृतं पुलिनं सैकतं येन तं तथोक्तम्, अरुणकरैः दिनकर-किरणैः या प्रेरणा नोदना तया अधोगलितं भूमिपतितम् उडुगणं नक्षत्रमण्डलमिव मुक्ताफलनिकरं मौक्तिकसमूहम् उद्वहति धारणं कुर्वति सति । अत्र उडुगणमिवेति जातिस्वरूपोत्प्रेक्षा ।
तुषारेति । अत्र काननविशेषणानि सप्तम्यन्तपदानि । तुषारस्य रात्रिपनिततहिनस्य विन्दवः कणाः तान् वर्षति दलाग्रभागेभ्यः पातयतीति तस्मिन् तथोक्ते, विबुद्धं जागरितं शिखिकुलं मयूरगणो यत्र तस्मिन् तथोक्ते, विजृम्भमाणा तत्क्षणनिद्रात्यागेन जृम्भाविधायिनः केशरिणः सिंहा यत्र तस्मिन् तादृशे, करिणीनां हस्तिनीनां कदम्बकं समूहः तेन प्रबोध्यमाना स्वच्छन्दक्रीडार्थं शुण्डाकर्षणेन जागरणं कुर्वाणाः समदा दानजलस्यन्दिनः करिणो गजा यस्मिन् तस्मिन् तादृशे, एतादृशे कानने वने 'काननं गहनं वनम्' इत्यमरः, क्षपायाः रात्रेः जलेन तत्सम्बन्धितुषारसलिलेन जडाः स्तिमिताः केशराः किञ्जल्काः यस्य तं तथोक्तं कुसुमनिकरं स्वोत्पन्नपुष्पसमूहम्, उदयगिरिः उदयाचलः तस्य शिखरे शृङ्गे स्थितं विद्यमानं सवितारं सूर्यम् उद्दिश्य उद्देश्यं कृत्वेव पल्लवान्येव अञ्जलयः तैः समुत्सृजति प्रक्षिप्य समर्पयति सति । इह उद्दिश्येवेति क्रियोत्प्रेक्षा, 'पल्लवाञ्जल्य' इत्यत्र निरङ्गकेवलंरूपकम्, तया समासोक्ति-श्चेति परस्परमेतेषामङ्गाङ्गिभावेन सङ्करात् सङ्करालङ्कारः ।
रासमेति । रासभस्य गर्दभस्य रोमाणि लोमानि तद्वत् धूसरासु धूस्ररूपासु । वनदेवतानाम् अरण्या-धिष्ठात्रीणां प्रसादा उन्नतत्वाद्दिपुलत्वाच्च अट्टालिकारूपाः तरवो वृक्षाः तेषां शिखरेषु अग्रप्रान्तेषु पारावतानां कपोतानां माला पङ्क्तिः तद्वत् आचरन्तीषु संलग्रास्विति तासु तथोक्तासु, तपोवनेषु मुन्याश्रमेषु यानि अग्निहोत्राणि 'सायं प्रातर्जुहोति', इति श्रुत्या तपस्विनाम् अग्रपाधानानि अग्निहोत्रहोमाः इत्यर्थः, तेषां धूमलेखासु धूमपङ्क्तिषु, धर्मपताकास्त्विव यज्ञादौ धर्मोद्घोषर्णाय वैजयन्तीष्विव समुन्मिषन्तीषु समुत्सर्पन्तीषु । इह रासभरोमधूसरास्त्वित्यत्र लुप्तोपमा पारावतमालायमानास्वित्यत्र च यथङ्गतोपमा, धर्मपताकास्त्विवेत्यत्र जातिस्वरूपोत्प्रेक्षा चेति परस्परमेषामङ्गाङ्गिभावेन सङ्करात् सङ्करालङ्कारः ।
अवश्यायेति । अवश्यायः तुषारः 'अवश्यायस्तु नीहारस्तृपारः' इत्यमरः, तस्य शीकरा अम्बुकणाः
आकाश के उत्तरी छोर पर स्थित सप्तर्षियों का मंडल ऐसा प्रतीत हो रहा था, मानो मानस सरोवर के तट पर सन्ध्योपासन के लिए आया हो । सूर्य के प्रकाश में घुली हुई पश्चिम समुद्र की रेतियॉँ किनारे पर आकर फूटी हुई सीपियों से बिखरे हुए मोतियों के दानों से ऐसी सुशोभित हो रही थी मानो सूर्य की किरणों ने आकाश के तारों को समेट कर पश्चिम की ओर नीचे गिरा दिया हो । वन के वृक्षों से ओस की बूँदें झटने लगी थीं, झुरमुटों में सोने वाले मोर जाग गए थे, सिंह जम्हाइयाँ लेने लगे थे, हथिनियाँ मदमाते हाथी को जगा रही थीं और वह वन स्वयम् रात के पाले से ठिठुरी हुई केसरवाले फूलों को अपनी पल्लव रूपी अञ्जलियों से उदयाचल पर स्थित सूर्यदेव को मानो अर्पित-सा करने लगा था । गदहे के रोमों के समान धुमैली तपोवन के अग्निहोत्र की धूम-रेखायें वृक्षों की चोटियों पर जा-जाकर टिकने लगी थीं, मानो वनदेवियों के महलों की चोटियों पर मटमैले कबूतरों की पंक्तियाँ बैठी हों, अथवा धर्म की पताकाएं फहरा रही हों । ओस के कणों से
१. म्बरादवतरति । २. ॰॰॰पुलिनतटम्, पुलिनतटम् । ३. मेऽसमदकरिणि स्फेटे च क्षाते प्रभाते । ४. र्धितसवितारम् । ५. त्सृजति । ६. धूसरासु वनराजिषु । ७. पताकासु ।
८० | कादम्बरी- | [ कथामुखे-
लुलितकमलवने रतिखिन्न-शबरसीमन्तिनी-स्वेदजलकणापहारिणि वनमहिष-रोमन्थ-फेनबिन्दुवाहिनि चलितपल्लव-लतालास्योपदेश-व्यसनिने विघटमान-कमलखण्ड-मधु-शीकरासारवर्षिणि कुसुमामोदतर्पितालिजाले निशावसानजातजडिम्नि मन्द-मन्दसञ्चारिणि प्रवाति प्रभातिके मातरिश्वनि, कमलवनप्रबोधमङ्गलपाठकानाम् इभगण्डडिण्डिमानां मधुलिहां कुमुदोदरेषु विघटमान-दलपुट-निरुद्धपक्षसंहतीनामुच्चरत्सु हुंकारेषु, प्रभातशिशिर-मरुतोहतमुक्तप्रजतुरसारिलिप्तं पद्दमंमॉलमिव सशेषनिद्राजिह्विततारं चक्षुरुन्मीलयत्सु
ते अस्य सन्तीति तस्मिन् तथोक्ते, इत आरभ्य सप्तम्यन्तपदानि 'मातरिश्वनि' इत्यग्रिमस्य विशेषणानि बोध्यानि। लुलितम् आन्दोलितं कमलवनं पद्मवनं येन तस्मिन् तथोक्ते, रतिखिन्नानां निधुवनश्रान्तानां शबरसीमन्तिनीनां किरातवधूनां यत् स्वेदजलं घर्मवारि तस्य कणा बिन्दवः तेषाम् अपहारिणि निजस्पर्शेन नाशविधायिनि तस्मिन् तादृशे, एतेन वायोस्त्रिविधगुणवत्त्वं व्यञ्जितम्। वनमहिषाणां सैरिभाणां रोमन्थः चर्वितचर्वणं तत्र ये फेनबिन्दवः कफकणाः तान् वहति धारयतीति तस्मिन् तथोक्ते। चलितानां स्ववेगेनान्दोलितानां पल्लवानां किसलयानां लतानां वल्लीनाञ्च यत् लास्यं चाम्लयरूपं नृत्यं तस्य उपदेशे शिक्षणे व्यसनम् आसक्तिरस्यास्तीति तस्मिन् तथोक्ते। विघटमानानि विकाशं प्राप्यमाणानि यानि कमलखण्डानि पद्मवनानि तेषां मधु पुष्परसः तस्य शीकराणां बिन्दूनाम् आसारं धारासम्पातं 'धारासम्पात-आसारः' इत्यमरः, वर्षति क्षिपतीति तस्मिन् तथोक्ते। कुसुमानां पुष्पाणाम् आमोदः सौरभः तेन तर्पितं प्रीणितम् अलिजालं भ्रमरसमूहो येन तस्मिन् तथोक्ते। निशावसाने रात्रिषेपे जात उत्पन्नः जडिमा जडत्वं शीतलसलिलामोदवहनादिना भारवत्त्वं यस्य तस्मिन् तथोक्ते, अतएव मन्दमन्दसञ्चारिणि शनैः शनैः प्रवहति प्राभातिके प्रातः समयके मातरिश्वनि सदागतौ वायावित्यर्थः, प्रवाति प्रवहति सति 'मातरिश्वा सदागतिः' इत्यमरः।
कमलेति। कमलवनस्य पद्मवनस्य प्रबोधे जागरणे विकसने मङ्गलपाठकानां स्तुतिविधायिनां कियतां मधुलिहां भ्रमराणां नृपतीनां प्रबोध इव तदीयवन्दिजनानामिव्याशयः। इभगण्डेषु दानवारि-सहितहस्तिकपोलेषु डिण्डिमानां तत्संज्ञकवाद्यविशेषरूपाणाम्, बिषयविशेषसूक्ष्मार्थं यथा कश्चित् डिण्डिमं वादयति तथैव भ्रमरा अपि हस्तिजागरणार्थं गुञ्जन्तीत्याशयः। तथा कुमुदोदरेषु कैरवाभ्यन्तरेषु घटमानैः सूर्योदयात् सङ्कोचं प्राप्यमाणः दलपुटैः पत्रकोशैः निरुद्धा अवरुद्धा पक्षसंहतिः छदसम्मूहो येषां तथोक्तानाञ्च कियतां मधुलिहां द्विरेफाणां हुङ्कारेषु अव्यक्तशब्देषु उच्चरत्सु उत्थितेषु सत्सु। इह मधुलिट्सु मङ्गलपाठकारोपः शब्दः, पद्मवने नृपत्वारोपस्त्वार्थ इत्येकदेशविवर्तिरूपकम्, इभगण्ड-डिण्डिमेत्यत्र निरङ्गकेवलंरूपकम्, तथा चानयोः परस्परमनपेक्षाभावेन संसृष्टिरलङ्कारः। तदुक्तं दर्पणे- 'मिथोऽनपेक्ष्यमेतेषां स्थितिः संसृष्टिरुच्यते' इति।
प्रभातेति। ऊषरा तृणशून्या या शय्या शयनभूमिः तेन धूसरा मलिनवर्णा क्रोडरमराजयः हृदय-लोमपङ्क्तयो येषु तथोक्तेषु वॅनमृगेषु अरण्यहरिणेषु, प्रभातं प्रातःकालः तस्य यः शिशिरः शीतलो वायुः
रुकी हुई प्रातःकाल की हवा धीरे-धीरे चलने लगी थी—वह कहीं कमलवनों को गुदगुदा आती थी, कहीं रति में थकी हुई भीलनियों के पसीने की बूँदें ले भागती थी, कहीं जंगली भैंसों की जुगाली का फेन उड़ा लाती थी, कहीं लतारूपी नर्तकियों के पल्लव रूपी वस्त्रों को फहरा-फहरा कर उन्हें नृत्य का पाठ पढ़ा जाती थी, कहीं खिले हुये कमलों के पुष्प-रस की फुहारें बरसाने लगती थी, कहीं भौरों के झुण्डों में फूलों की गन्ध बाँट आती थी और कभी प्रातःकाल की ठंडक से मानो स्वयम् सिकुड़-सी उठती थी। कहीं कमलवनों में गूँजते हुये भौरे ऐसे प्रतीत हो रहे थे मानों उन्हें जगाने के लिये बन्दियों की तरह मंगल पाठ कर रहे हों, कहीं हाथियों के गण्डस्थल पर भिनभिनात हुये ऐसे प्रतीत हो रहे थे मानो उन्हें जगाने के लिये डिण्डिम बाजा बजा रहे हों और कहीं संकुचित कुमुदिनियों के सम्पुटों में पंखों के फँस जाने के कारण वे क्रुद्ध होकर हुङ्कार कर रहे थे। कहीं प्रातःकालीन वायु के शीतल थपेड़ों से जंगली हरिनों की अलसायी आँखें खुलने लगी थीं—उनकी भूरी-भूरी
१. रति०।
२. ॰॰॰स्वेदजलकणिका, स्वेदकणिका॰॰॰।
३. ॰॰॰खण्ड।
४. 'वन' इति क्वचिन्नास्त्यपि।
५. मधुलिहां पंटलेषु।
६. विघटमान, घनघटमान।
७. निबद्ध॰॰॰।
८. झङ्कारिषु, टङ्कारेषु।
९. वाय्वा-हतम्।
१०. पद्मेर्मेणलूमिव।
११. जिह्मातारम्, जिह्विततारकम्।
प्रभातवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । ८१
शनैः शनैरुत्पक्ष्मशय्या-धूसर-क्रोडरोमराजिषु¹ वनमृगेषु, इतस्ततः सञ्चरत्सु वनचरेषु, विजृम्भमाणे श्रोत्रहारिणि पम्पासरः कलहंसकोलाहले² समुल्लसति नर्तितशिखण्डिमण्डले³ मनोहरे वनगजकर्णतालशब्दे, क्रमेण च गगनतलमवरतो⁴ दिवसकरवारणस्यावचूड़⁵-चामरकलाप इवोपलक्ष्यमाणे मञ्जिष्ठारागलोहिते किरणजाले, शनैः-शनैरुदिते भगवति सवितरि, पम्पासरःपर्यन्त-तरु-शिखर-सञ्चारिणि⁶ अध्यासित-गिरिशिखरे दिवसकरजन्मनि हृततारे पुनरिव कपीश्वरे वनमभिपतति बालातपे, स्पष्टे जाते प्रत्यूषसि, नचिरादिव दिव-
पवनः तेन आहृतं ताडितं कृतनरर्शामिन्यर्थः, उत्तप्तेन अग्निना उष्णीकृतेन जतुरासेन लाक्षाद्रवेण आलिष्टा मियः संयोजकभावेनाश्लेषिता पक्ष्मणां नेत्रां माला पङ्किः यस्य तदिव, संशेषया किञ्चिदवशिष्टया निद्रया स्वापेन 'स्यान्निद्रा शयनं स्वाप.' इत्यमरः, जिह्मिता वक्रीकृता तारा कनीनिका यस्य तत् तथोक्तं चक्षुर्नेत्रं, शनैः शनैः मन्दं मन्दम् उन्मीलयत्सु विकासयत्सु सत्सु । इह क्रियोत्प्रेक्षा ।
इतस्तत इति । इतस्ततः चतुर्दिक्षु वनचरेषु काननचारिषु सञ्चरत्सु भ्रमत्सु । श्रोत्रहारिणि मनोहरतया कर्णाकर्षिणि पम्पासरसः पम्पानामककासारस्य कलहंसानां कादम्बानां कोलाहले कलकले विजृम्भमाणे विस्तृते सति । नर्तितं नाटितं शिखण्डिनां मयूराणां मण्डलं समूहो येन तस्मिन् यथोक्ते, मनोहरे रुचिरे वनगजानाम् अरण्यकरिणां कर्णयोः श्रोत्रयोः तालवत् करतलध्वनिवत् 'तालः करतलध्वनिः' इत्यनेकार्थध्वनिमञ्जरी, शब्दे रवे समुल्लसति तेषां प्रबोधानन्तरमुत्थिते सति । तालशब्द इत्यत्र लुप्तोपमा ।
क्रमेणेति । क्रमेण परिपाट्या गगनतलम् आकाशपथम् अवतरत आरोहतः, दिवसकर आदित्यः वारणो गज इव तस्य तथोक्तस्य, मञ्जिष्ठा हि औषधविशेषः, तस्या रागो लौहित्यं तद्वत् लोहिते रक्तवर्णे, किरणजाले मयूखगणे, अवनता अधोमुखीभूता चूड़ा अग्रदेशो यस्य सा अवचूडा स चासौ चामरकलापः चामरगणः तस्मिन् तथोक्त इव उपलक्ष्यमाणे अवलोक्यमाने सति । उन्नतप्रदेशारोहणं विदधतो हस्तिनः श्रोत्रान्तिकल्म्विन्चवनते चामरगण इव गगनमारोहत आदित्यस्यावनते मयूखजाले अवलोक्यमाने सतीति स्पष्टार्थः । इहोपमालुप्तोपमानां परस्परमङ्गाङ्गिभावेन सङ्कराद् सङ्करालङ्कारः ।
शनैरिति । शनैः शनैः मन्दं मन्दम् उदिते उदयं प्राप्ते भगवति माहात्म्यवति सवितरि आदित्ये ।
पम्पासर इति । पम्पासरसः पम्पानामकसरोवरस्य पर्यन्ततरूणां प्रान्तस्थायिवृक्षाणां शिखरेषु ऊर्ध्वप्रदेशेषु सञ्चारिणि व्याप्ते, अध्यासितं पूर्वमाश्रितं गिरेः उदयपर्वतस्य किष्किन्धापर्वतस्य च शिखरम् अग्रप्रदेशो येन तस्मिन् तथोक्ते, दिवसकरात् आदित्यात् जन्म उत्पत्तिः यस्य तस्मिन् तथोक्ते, हृता निजप्रभावेण लोपं प्रापिता अपहृता च तारा नक्षत्रं तदभिधेया वालिपत्नी च, बालातपे अभिनवादित्यलोके कपीश्वरे सुग्रीव इव पुनः दनम् अरण्यम् अभिपतति व्याप्नुवति अभिगच्छति च सति । इह पूर्णोपमा । आदित्याजन्म जातं सुग्रीवस्येति वाल्मीकीयरामायणस्योत्तरकाण्डतोऽवगम्यते ।
स्पष्ट इति । प्रत्यूषसि प्रातःकाले स्पष्टे व्यक्ते जाते समुत्पन्ने सति, भास्वति दिवसकरे, नचिरादिव
बरौनियों ऐसी प्रतीत हो रही थीं मानो उन्हें तपाई हुई लाख के रस में रंग दिया गया हो । नींद पूरी न होने के कारण उनकी आँखें पूरी तरह खुल नहीं पाती थीं जिससे वे कनखियों से देख रहे थे । वनचर गण इधर-उधर आने जाने लगे थे । पंपासर में कानों को मधुर लगने वाला हंसों का कलरव बढ़ने लगा था । मोर मण्डल उल्लास के साथ मंडल बाँधकर नाच रहे थे और हाथी कान फड़फड़ाते हुए मानो ताल सा दे रहे थे । मँजीठिया रंग की लाल-लाल किरणें आकाश में धीरे-धीरे उतरने वाले सूर्य रूपी हाथी के मस्तक पर झुलते हुए चँवर के समान प्रतीत हो रही थीं । सूर्य धीरे-धीरे आकाश में उदित होने लगा था, पंपासर के निकटवर्ती वृक्षों तथा पहाड़ की चोटियों पर विहार करने वाली तारों को चुरा लेनेवाली उसकी प्रातःकालीन मधुर धूप में फैलायी हुई ऐसी प्रतीत हो रही थी मानों बालि की पत्नी तारा को चुरा लेने वाला सूर्यपुत्र सुग्रीव डर से जंगल में भाग गया हो । उषा स्पष्ट हो चली थी और दिन के आठवें भाग (प्रथम प्रहर) में सूर्य का प्रकाश निखर उठा
१. राजिषु च । २. कलहंसकुल । ३. नर्तितशिखण्डिनि । ४. गगनतलमार्गम् । ५. ऽवधूत***। ६. सञ्चारिणान् ।
११ का० कथा०
| ८२ | कादम्बरी- | [ कथामुखे- |
|---|
साष्टमभागभाजि स्पष्टभासि भास्वति भूते, प्रयातेषु यथाभिमतानि दिगन्तराणि शुककुलेषु, कुलाय-निलीननिभृत-शुक-शावकसनायेऽपि निःशब्दतया शून्य इव तस्मिन् वनस्पतौ, स्वनीडावस्थित एव ताते, मयि च शैशवादसञ्जातवले समुद्भिद्यमानपक्षपुटे पितुः-समीपवर्त्तिनी कोटरगते, सहसैव तस्मिन् महावने संत्रासितसकलवनचरः सरभसमुत्पतत्पत्तिपक्षपुट-सन्ततः भीत-करिपोत-चीत्कारपीवरः प्रचलित-मत्तालिकुलक्व णितमांसलः परिश्रमदुद्धोण-वन-वराह-रर्वघर्घरः गिरिगुहा-सुप्त-प्रबुद्ध-सिंहनादोपवृंहितः, कम्पयन्निव तरून् भगीरथा-वर्त्तार्य्यमाण-गङ्गाप्रवाहक लकल-बहलो भीतवनदेवताकर्णितो मृगयाकोलाहलध्वनिरुदचरत् ।
अष्टमसमयेनेव दिवसस्य वासरस्य अष्टमभागं चतुर्घटिकात्मकं भजत इति तस्मिन् तथोक्ते, अत एव स्पष्टाः सर्वासु दिक्षु स्फुटा भासः कान्तयो यस्य तथोक्ते, भूते जाते सति । इह नचिरादिवेत्यस्य गुणपदार्थत्वाद् गुणोद्वेचा ।
प्रयातेष्विति । शुककुलेषु कीरवन्देशु यथानिमतानि यथेप्सितानि दिगन्तराणि दिग्विभागान् प्रयातेषु वाहारानयनाय गतेषु सत्सु । कुलायेषु नीडेषु 'कुलायो नीडमस्त्रियाम्' इत्यमरः, निलीनाः प्रच्छन्नाः निमृता निश्चला निःशब्दा इत्यर्थः, ये शुकशावकाः कीरशिशवः तैः सनायेऽपि संयुक्तेऽपि तस्मिन् वनस्पतौ शाल्मलीद्रुमे शून्य इव निखिलप्राणिवर्जित इव विद्यमाने सति । शून्य इवेति वाच्य। क्रियोत्प्रेक्षा ।
स्वनीडेति । ताते मम पितरि मयि वैशम्पायने च स्वनीडावस्थित एव स्वकुलाये तिष्ठत्येव शैशवाद् बाल्याद्धेतोः असञ्जातम् अनुत्पन्नं वलन् उत्पतनादिशक्तिः यस्य तस्मिन् तथोक्ते, तथा समुद्भिद्यमानं यथाक्रमं द्योतमानं पक्षपुटं पतत्त्रद्वयं यस्य तस्मिन् तथोक्ते मयि च, तातस्य पितुर्जकस्य समीपवर्त्तिनि निकटस्थायिनि सति कोटरगते स्वकुलायाधारतलमध्यस्थिते सति ।
सहसैवेति । तस्मिन् पूर्वोक्ते महावने महारण्ये सहसैव लक्स्मादेव मृगया आखेटकः तस्याः कोलाहलध्वनिः कलकलनिनादः उद्चरत उत्पन्नोऽभूत् इत्यन्वयः । सन्न प्रयमान्तपदानि उक्तध्वनेविंशेषणानि संत्रासिताः त्रासं प्रापिताः सकलाः समस्ता वनचरा अरण्यचारिणो येन स तथोक्तः सरभसं त्रासेन सवेगम् उत्पतताम् उड्डयनं विदधतां पत्त्रिणां पक्षिणां पक्षपुटैः पतत्त्वद्वयशब्देः सन्ततः सम्यग्विधिना विस्तीर्णः, भीतानां त्रासमुपगतानां करिपोतानां गजशिशूनां (कलभानां) चीत्कारैः विपुलव्यथासूचक- ध्वनिभिः पीवरः स्थूलः पुष्ट इत्यर्थः । प्रचलितस्य त्रासेन स्वस्थानात् प्रयातस्य मत्तस्य पुष्परसपानेनोन्मत्तस्य अलिकुलस्य भ्रमरसमूहस्य क्वणितेन अस्फुटशब्देन मांसलः पीवरः । परिश्रमतां त्रासेन इतस्ततः सञ्चरताम् उद्धोणानाम् उन्नतनासाग्रसहितानां वनवराहाणाम् आरण्यकशूकराणां रखैः आर्तशब्द घर्घरः 'घर घर' इत्येवं रूपशब्देन कठिनः । गिरिगुहातु पर्वत कन्दरासु सुप्ताः पूर्वं निद्रिताः पश्चात् प्रबुद्धाः आखेटकोलाहलेन उत्थिताः ये सिंहाः केसरिणः तेषां नादैत् ध्वनिना उपवृंहितः वृद्धिं गतः ।
कम्पयन्निति । भागीरथेन तत्संज्ञसूर्यवंशीयनृपतिना अवतार्यमाणः तुहिनाचलात् पृथिव्यां नीयमानो यो गङ्गाप्रवाहः जाह्नवीस्त्रोतः तस्य कलकल इव कल्लोल इव बहलः बहुलीकृतः, तथा भीताभिः त्रस्ताभिः
था । सभी सुग्गे अपनी अपनी मनचाही दिशाओं की ओर उड़ गये थे । यद्यपि बच्चे घोसलों में रह गये थे लेकिन उनकी चुप्पी से वह वृक्ष अत्यन्त नीरव ( शब्द हीन) और सूना सा जान पड़ता था। मेरे पिता भी अपने घोंसले में ही थे और मैं भी उसी में उनके पंखों से चिपका हुआ पड़ा था। बचपन के कारण मुझ में अभी शक्ति नहीं आई थी और पंख तो अभी फूट ही रहे थे। सहसा ही उस हांके को सुनकर सारे वनचर भयभीत हो उठे, पक्षी व्याकुल होकर पंख फड़फड़ाने लगे, मदभीत हाथियों के बच्चे एक साथ चिंघाड़ने लगे, उड़ते हुए मतवाले भौरों की घनी गुंजार वनबनाने लगी, घूमते हुए दनैलै सूअर घूयन उठा-उठाकर घुरघुराने लगे, पहाड़ी गुफ़ाओं में सोये हुए सिंह जागकर दहाड़ने लगे और जंगल के सारे वृक्ष मानो काँपकर थरथराने लगे । उस समय की सभी ध्वनियां एक साथ मिलकर ऐसी प्रतीत होती थीं मानो भगीरथ के पीछे उतरने-
१. ष्टमभागभाजि । २. इह च इत्यधिकः पाठः क्वापि दियते । ३. कुलाय-निभृतशावक । ४. ०सञ्जात-बलसमु००० । ५. तातस्य । ६. सततं सरभसमुत्पतत्००० । ७. प्रचलितलत्वालुकुलिव, प्रचलित-लवाकुल-मत्तालिकुल०००। ८. वराहगर्दूरकठोरः । ९. नादबृंहितः । १०. ०००भावार्थ्यमान००० ।
शबरमृगयावर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । [ ८३
आकर्ण्य चं^१ तमहमश्रुतपूर्वमुपजातवेपथुरर्भकतया जर्जरित-कर्णविवरो भयविह्वलः समीपवर्त्तिनः पितुः प्रतीकारबुद्ध्या जरौ^२शिथिलपक्षपुटान्तरमविशम् ।
अनन्तरञ्च 'सरभसमितो गजयूथपति-लुलित-कमलिनी-परिमलः; इतः क्रोडकुल-दश्यमान-भद्रमुस्ता-रसामोदः, इतः करिकलभ-भज्यमान-शल्लकी-कपाय-गन्धः; इतो निपतित-शुष्क-पत्रमर्मरध्वनिः, इतो वनमहिष-विषाण-कोटिकुलिश-भिद्यमान-वल्मीकधूलिः, इतो मृग-कदम्बकम् , इतो वनगजकुलम् , इतो^३ वनवराहयूथम् , इतो वनमहिषवृन्दम् , इतः शिखण्डि-
वनदेवताभिः अरण्यधिष्ठातृदेवीभिः आकर्णितः श्रवणविषयीकृतः । तरून् वृक्षान् कम्पयन् चालयन्निव । अन्वयस्तूक्तः । इह लुप्तोपमाक्रियोत्प्रेक्षयोः परस्परनैरपेक्ष्येण स्थितत्वात् संसृष्टिरलङ्कारः ।
आकर्ण्येति । अहं वैशम्पायनः, अश्रुतपूर्वम् अनाकर्णितपूर्वं तम् आखेटकोलाहलशब्दम् आकर्ण्य श्रुत्वा, उपजातवेपथुः त्रासेन समुत्पन्नकम्पः अर्भकतया शावकतया जर्जरितम् विदीर्णं कर्णयोः श्रोत्रयोः विवरं रन्ध्रं यस्य स तथोक्तः, भयेन त्रासेन विह्वलो व्यग्रः समीपवर्त्तिनः निकटस्थितस्य पितुः तातस्य प्रतीकारबुद्ध्या त्रासनिवृत्त्युपायबुद्ध्या, जरया परिणतवयसा शिथिलं श्लथं यत् पक्षपुटं पतत्त्रद्वन्द्वं तस्य अन्तरं मध्यम् अविशं प्रविष्टोऽभवम् ।
अनन्तरञ्चेति । अनन्तरं पितुः पतत्त्रपुटमध्यप्रवेशानन्तरञ्च कोलाहलमशृणवमिति दूरस्थक्रियया सम्बन्धः कोलाहलमेव विशेषयति-सरभसमित्यादिना । इतः अस्मिन् स्थले इत्थमग्रेऽपि । सरभसं सवेगं गजयूथपतिभिः करिकुलोत्तमैः लुलिता मदिता याः कमलिन्यः पद्मिन्यः तासां परिमलः विमर्दोत्थसौरभं सञ्चरतीति शेषः, अतश्चात्र करिणो विलसन्तीति सम्भाव्यत इत्याशयः । क्रोडकुलेन अरण्यशूकरसमूहेन दश्यमाना दष्ट्वा भक्ष्यमाणा या भद्रमुस्ता गुन्द्राः लोके 'नागरमोथा' इति प्रसिद्धाः 'गुन्द्रस्तेजनके स्त्री तु प्रियङ्कौ भद्रमुस्तके' इति मेदिनी, तासां रसस्य द्रवस्य आमोदः सौरभम्, एतेन स्पष्टमेवात्र शूकराणामव-स्थितिस्सम्भावनेत्यभिप्रायः । करिकलभैः त्रिंशद्वर्षीयगजशिशुभिः भज्यमाना आभञ्ज्यमाना याः शल्लक्यः गजभक्ष्यतरुविशेषाः तासां कषायगन्धः निर्यासामोदः, अत एवात्रगजशिशूनामस्तित्वसम्भव इत्याशयः ।
इत इति । निपतितानि वृक्षादधश्च्युतानि यानि शुष्कपत्राणि नीरसदलानि तेषां मर्मरध्वनिः मर्मर इत्येव रवः 'मर्मरो वस्त्रभेदे च शुष्कपर्णध्वनौ तथा' इति कोशात्, ध्रुवमत्र कोऽपि चतुष्पाद विचरतीति ज्ञायत इत्याशयः । वनमहिषा अरण्यसैरभाः तेषां विषाणकोटयः शृङ्गाग्राणि कुलिशानि वज्राणीव यद्वा विषाणकोटय एव कुलिशानि तैर्भिद्यमानानां छिद्यमानानां वल्मीकानाम् वमीकावृत्तमृत्तिकास्तूपानां 'वल्मीक ऊयीकाकृतमृत्तिकास्तूपः' इति शब्दकल्पद्रुमः धूलिः रजः दृश्यत इति शेषः, तेनेह महिषा विद्यन्त इत्याशयः । इह लुप्तोपमारूपकयोः द्वयोरपि सम्भवात् सन्देहसङ्करालङ्कारः । मृगाणां हरिणानां कदम्बकं समूहः । वनगजानाम् अरण्यहस्तिनां कुलं समूहः । वनवराहाणाम् अरण्यशूकराणां यूथं मण्डलम् । वन-
वाली गङ्गा के प्रवाह की भीषण और अत्यन्त घनी हरहराहट हो। उसे वन-देवता भी अत्यन्त भयभीत होकर सुन रहे थे।
उस अपूर्व ध्वनि को सुनकर मैं भी काँपने लगा, बचपन के कारण मेरे कान उस ध्वनि से बहरे हो उठे और भय से व्याकुल होकर उससे बचने की आशा में समीप ही में स्थित पिता के पंखों के भीतर घुस गया जो बुढ़ौती के कारण अत्यन्त ढीले पड़ गये थे।
इसके बाद ही मुझे शिकारियों की बहुत बड़ी भीड़ का कोलाहल सुनायी पड़ा। वे आपस में बड़ी फुर्ती से इस प्रकार चिल्ला रहे थे—यह देखो, इधर हाथियों के स्वामी ने कमलिनियों को मसल फेंका है, जिससे कैसी मधुर गन्ध उठ रही है; इधर सूअरों ने नागरमोथों को खोद खोदकर उलट डाला है, जिससे कैसी महँक आ रही है, इधर हाथियों के बच्चों ने सल्लई की डालियाँ तोड़ मरोट डाली हैं, जिनसे कैसी कसैली गंध निकल रही है, इधर गिरे हुए सूखे पत्ते मरमरा रहे हैं; इधर जंगली भैंसों ने अपनी वज्र जैसी सींगों की नोंक से बामियों को खोद गिराया है जिससे धूल ही धूल उड़ रही है; इधर हरिनों का झुण्ड है, उधर जंगली हाथियों का परिवार है, इधर जंगली सूअरों का गिरोह है, इधर जंगली भैंसों का समूह है, इधर मोरों की ध्वनि या
१. आकर्ण्य तं । २. जरावशिथिल । ३. इतो वराहयूथम् ।
८४ कादम्बरी- [कथामुखे-
मण्डल-विरुतम्, इतः कपिञ्जल-कुल-कल-कूजितम्, इतः कुररकुल-क्वणितम्, इतो मृगपति-नखभिद्यमान-कुम्भ-कुञ्जर-रसितम्, इयमार्ड्र-पङ्कमालिना वराहपद्धतिः, इयमभिनव-शष्प-कवल-रस-श्यामला हरिण-रोमन्थ-फेन-संहतिः, इयमुन्मद-गन्धगजगण्ड-कण्डूयन-परिमल-^२निलीन-मुखर-मधुकर-विरुतिः, एषा निपतितरुधिरबिन्दुसिक्त-शुष्कपत्र-पाटला रुरुपदवी; एतद्द्विरद-चरण-मृदित-विटप-पल्लवपटलम्, एतत् खड्गिकुल^३क्रीडितम्, एष नखकोटि-^४विलिखितविकट-पत्रलेखो रुधिरपाटलः ^५करिमौक्तिकदन्तुरो मृगपतिमार्गः, एषा प्रत्यग्रप्रसूत-वनमृगीगर्भ-रुधिर-लोहिनी-भूमिः, इयमटवी वेणिकानुसारिणी ^७पक्षचरस्य यूथपतेर्मदजल-
सहिषाणाम् अरण्यसैरभाणां वृन्दं कदम्बकम्। शिखण्डिनां मयूराणां मण्डलं समूहः तस्य विरूतं शब्दः। कपिञ्जलानां चातकपक्षिणां 'कपिञ्जलः चातकपक्षी' इति शब्दकल्पद्रुमः, कुलस्य समूहस्य कलकूजितं मधुरशब्दितम्। कुररकुलस्य मत्स्यनाशकसमुदायस्य क्वणितं कूजितम्। मृगपतीनां केसरीणां नखैः पुनर्भवैः भिद्यमाना विदीर्यमाणाः कुम्भाः शिरस्थकुम्भाकृतिमांसपिण्डाः येषां तथोक्तानां कुञ्जराणां गजानां रसितम् आक्रन्दितम्।
इयमिति। इयं प्रत्यक्षदृश्यमाना, एवमग्रेपि। आर्द्रः क्लिन्नः अशुष्क इत्यर्थः, यः पङ्कः कर्दमः तेन वराहशरीरेभ्य एव च्युतपङ्केनेत्यर्थः, मलिना श्यामवर्णा वराहपद्धतिः वनशूकरमार्गः। अभिनवानि नूतनानि यानि शष्पाणि बालतृणानि येषां ये कवलाः ग्रासाः तेषां तथोक्तानां चर्व्यमाणशष्पाणामित्यर्थः, रसैः निर्यासः श्यामला कृष्णवर्णा, हरिणानां मृगाणां यो रोमन्थः चर्वितचर्वणं तस्य फेनसंहतिः कफसमूहः। उन्मदा मदमत्ता ये गन्धगजाः सुरभिमद्युक्तहस्तिनः तेषां गण्डकण्डूयनेन कपोलघर्षणेन चे परिमलः सुगन्धाः तेषु तस्सुगन्धियुक्तभूमिष्वित्यर्थः। निलीनानां प्रच्छन्नानां मुखराणां वाचालानां मधुकराणां भ्रमराणां विरुतिः झङ्कारः। एषा अवलोक्यमाना, निपतिताः पृथिव्यामस्माकमस्त्रहननेन शरीरात्स्यन्दिताः ये रुधिरविन्दवः शोणितपृषताः तैः सिक्तानि आर्द्रीकृतानि यानि शुष्कपत्राणि नीरसदलानि तैः पाटला श्वेतरक्ता रुरुपदवी हरिणविशेषाध्वा।
एतदिति। एतत् निकटतरस्थापि, द्विरदा गजास्तेषां चरणैः पादैः मृदितानां मर्दितानां विटपानां वृक्षस्कन्धानां पल्लवानां किसलयानाञ्च पटलं वृन्दं यत्र एवंविधं स्थलमिर्यर्थः, एवज्ञानेन पथा निश्चितमनुपदमेव द्विरदा गता इत्याशयः। एतत् अवलोक्यमानं खड्गिनां गण्डकानां कुलम् समुदायः तस्य क्रीडितं विहृतं पृथिव्यां क्रीडाचिह्नमवलोकयत इत्यर्थः, तेन खड्गिनामपीदं विहारस्थानमित्याशयः। एवं पुरो दृश्यमानः नखकोटिभिः पुनर्भवग्रैः नखाग्रच्युतशोणितैरित्यर्थः, विलिखिताः चित्रीकृताः विकटा भयङ्कराः पत्रलेखाः पत्राकृतिलक्षणानि यत्र स तथोक्तः, रुधिरैः व्यापादितप्राणिशोणितैः पाटलः श्वेतरक्तवर्णः, तथा करिमौक्तिकैः व्यापादितहस्तिमुक्ताभिः दन्तुरः उन्नतनातः, मृगपतेः केसरिणो मार्गः सञ्चरणपथः, एवञ्च नूनमनेन मार्गेण मृगपतिर्गत इत्यभिप्रायः।
एषेति। प्रत्यग्रप्रसूता अभिनवप्रसूतवती या वनमृगी अरण्यहरिणी तस्या गर्भरुधिरेण भ्रूणशोणितेन लोहिनी रक्तवर्णा एषा भूमिः मेदिनी। वेणिकानुसारिणी केशवेणीसमा विषमेति यावद्; इयम् अटवी इदम् अरण्यम् 'अटव्यरण्यं विपिनम्' इत्यमरः। पक्षेण निजमण्डलेन चरति भ्रमतीति तस्य तादृशस्य यूथपतेः हस्तिराजस्य मदजलेन दानवारिणा मलिना कृष्णवर्णा। तेनेह हस्तिनो भ्रमन्तीत्याशयः।
रही है, इधर पपीहों की मधुर रट लगी है, इधर क्रौंच चीख रहे हैं, इधर बाघ के नखों से फटे गंडस्थलों-वाला हाथी कराह रहा है, यह गीले कीचड़ में सनी हुई सूअरों के आने जाने की राह है, यह नयी-नयी घास खाकर जुगाली करने वाले हरिणों के मुँह से गिरी हुई बॉस के रस से हरी-हरी झाग की ढेरी है, यह मतवाले हाथियों के कपोल खुजलाने से लगी हुई सुगन्ध पर चिपके हुये भौरों की मधुर गुञ्जार है, यह टपकती हुई खून की बूंदों में सने हुये सूखे पत्तों से भरी हुई घायल रुरु हरिणों के भागने की राह है, यह हाथियों के पैरों से रौंदे हुए पेड़ के पत्तों की ढेर है, यहाँ गैंडों ने खिलवाड़ किया है, यह हाथी मार कर लौटते हुए सिंह की राह है, जो उसके खून से लाल लाल भयंकर पत्तों की छापों से भरी हुई तथा गिरे हुये गजमोतियों से कैसी चमक
१. वराहकुलपद्धतिः। २. आलीनः। ३. शिखण्डिकुलक्रीडितम्। ४. विकटविलिखितपत्रलेखः। ५. मौक्तिकदन्तुरः। ६. वेणुकानुसारिणी। ७. एकचरस्य समीपचरस्य।
| शबरमृगयावर्णनम् ] | चन्द्रकला-विद्योतिनीसहिता । | ८५ |
|---|
मलिना, सञ्चार-वीथी-चमरीपङ्क्तिरियमनुगम्यताम्, उच्छुष्कमृग-करीष-पांसुला त्वरिततरम- ध्यास्यतामियं वनस्थली, तरुशिखरमारुह्यताम्, आलोक्यतां दिगियम्, आकर्ण्यतामयं शब्दः, गृह्यतां धनुः, अवहितैः स्थीयताम्, विमुच्यन्तां श्वान.' इत्यन्योन्यमभिदधतो मृगया- सक्तस्य महतो जनसमूहस्य तरुगहनान्तरितविग्रहस्य क्षोभितकाननं कोलाहलमशृणवम् ।
अथ नातिचिरादेवानुलेपनाद्र्र-मृदङ्गध्वनिधीरेण गिरिविवर-विजृम्भित-प्रतिनादै- गम्भीरेण, शर्बर-शर-ताडितानां केशरिणां निनादेन, संत्रस्त-यूथ-मुक्तानामेकाकिनाञ्च सञ्च-
सञ्चारेति । इयं प्रत्यक्षोपलभ्यमाना, सञ्चारवीथ्यां भ्रमणमार्गे चमरीपङ्क्तिः चर्मर्याख्यमृगराजिः अनुगम्यतां हननायानुस्रव्यताम् । उच्छुष्कैः अत्यन्तनीरसैः मृगकरीषैः हरिणपुरीषैः पांसुला सधूलीका इयं दृश्यमाना वनस्थली अरण्यभूमिः त्वरिततरं वेगवत्तरम् अध्यास्यतां हरिणमार्गमाय अवलम्ब्यताम् प्रविश्यतामित्यर्थः। तरोः वृक्षस्य शिखरम् ऊर्ध्वदेश आरुह्यताम् पक्षिहननाय आरोहविषयीक्रियताम्। इयम् अभिमुखी दिक् ककुप् आलोक्यतां 'पशवो विद्यन्ते न वे'ति बोधनाय परिदृश्यताम् । अयं शब्दः आकर्ण्यतां श्रूयतां यतश्चोदेति शब्दस्तद्देशे यातव्यमिति भावः । धनुश्चापः गृह्यतां झटिति पशुवधाय आदीयताम् । अवहितैः सावधानैः भवद्भिः स्थीयताम् उपविश्यताम् अन्यथा चेत् अन्तिकादेवाविद्ध- गात्राः पशवः पलायिता भवेयुरित्याशयः। श्वानः कौलेयकाः विमुच्यन्तां परिप्रेष्यन्तां व्यापाद्यपशुमार्ग- णायेति भावः। 'स्वपालितश्वानो हि पशून् मार्गयित्वा सङ्केतविशेषेण स्वामिनं बोधयन्ती'ति लोकवार्ता । इति अन्योन्यम् एवं परस्परम् अभिदधतः कथयतः, मृगयासक्तस्य आखेटलग्नस्य महतो विपुलस्य अधिकदेशव्यापिन इत्यर्थः, जनसमूहस्य मनुष्यसमुदायस्य । तरूणां वृक्षाणां गहनं वनं तेन अन्तरिता आच्छादिता विग्रहा देहा यस्य तस्य तथोक्तस्य, क्षोभितं काननं येन तं तथोक्तं सञ्चालितवनं कोलाहलं कलकलम् अशृणवम् ।
अथेति । अथ कोलाहलश्रवणानन्तरम् 'मङ्गलानन्तरारम्भप्रश्नकात्स्न्र्येष्वथो अथ' इत्यमरः, नाति- चिरादेव स्वल्पसमयेनैव 'सर्वतः प्रचलितमिव तदरण्यमभवदिति वक्ष्यमाणेन सम्बन्धः । इह तृतीयान्त- पदानि प्रचलितमिति क्रियायाः करणानि । अनुलेपनं पार्श्वमुखद्वये द्रवद्रव्यविशेषलेपनं तेन आर्द्रः स्निग्धो यो मृदङ्गो मुरजवाद्यम् तस्य ध्वनिः शब्दः तद्वद् धीरेण गम्भीरेण । गिरिविवरेषु पर्वत कन्दरासु विजृम्भि- तेन विस्तीर्णेन प्रतिनादेन प्रतिशब्देन गम्भीरो विपुलः तेन तादृशेन । इहाचविशेषणे लुप्तोपमा ।
शबरेति । शवराणां किरातानां शरा इषवः तैः ताडितानां व्यथितानां केसरिणां मृगपतीनां निनादेन शब्देन 'शब्दो निनादनिनदे'त्याद्यमरः ।
सन्त्रस्तेति । संत्रस्तेन शवराक्रमणाच्चकितेन यूथेन स्ववर्गीयसमूहेन मुक्तानां त्यक्तानाम् अत एव
रही है, यह किसी जंगली हरिणी के गर्भ के टटके खून से भरी हुई जगह है, जहाँ उसने अभी-अभी बच्चा पैदा किया है, यह अपने परिवार के साथ घूमनेवाले गजपति के मद-जल से काली पड़ी हुई तथा वेणी के समान प्रतीत होने वाली वनपंक्ति है, यह हरिणों के पैरों की निशानी से भरी हुई उनके आने-जाने की राह है, इसी रास्ते से उनका पीछा करो, यह हरिणों के सूखे कंदो से भूरी-भूरी दिखाई देनेवाली वनभूमि है, यहाँ शीघ्रता से बैठ जाओ, वृक्ष की चोटी पर चढ़ जाओ, उधर देखो, यह शब्द सुनो, धनुष ले लो, सावधान होकर खड़े हो जाओ और कुत्तों को छोड़ दो।' वह मोड़ यद्यपि घने वृक्षों में छिप सी गई थी किन्तु उसके कोलाहल से सारा जंगल क्षुब्ध सा हो उठा था ।
थोड़े ही देर में चारों ओर भीतर ही भीतर होनेवाली ध्वनियों से सारा जङ्गल काँप सा उठा । कहीं भीलों के बाणों से घायल सिंहों की दहाड़ पर्वतों की गुफाओं में और भी भयंकर रूप से गूंजती हुई ऐसी प्रतीत होने लगी मानो टटके अनुलेपन से गीले मृदङ्गों की गम्भीर ध्वनि गूंज रही हो, कहीं मदमत्त दुष्टों से बिछुड़
१. ऽभिददतः ।
२. नृगयाप्रसक्तस्य, मृगयाप्रसक्तास्ते ।
३. •••'दिवा'••• ।
४. •••'ध्वनि ।
५. प्रतिनिनादगम्भीरेण ।
६. 'शबर' इति पदं क्वचिन्न विद्यते ।
८६ कादम्बरी- [ कथामुखे-
रतामनवरत-करास्फोटमिश्रेण जलधर-रसितानुसारिणा गजयूथपतीनां कण्ठगर्जितेन, सरभस-सारमेय-विलुप्यमानावयवानामालोल²-कातर-तरलतर-तारकाणामेणकानाञ्च करुण-कूजितेन, निहत-यूथपतीनां वियोगिनीनामनुगत-कलॅभानाञ्च स्थित्वा स्थित्वा समाकर्ण्य कलकल-मुत्कर्णपल्लवानामितस्ततः परिभ्रमन्तीनां प्रत्यग्र-पतिविनाशशोकदीर्घेण करिणीनां चीत्कृतेन, कतिपय-दिवस-प्रसूतानाञ्च खड्गिधेनुकानां त्रास-परिश्रष्ट-पोतकौन्वेषिणीनामुन्मुक्तकण्ठ॑मा-रसन्तीनामाक्रन्दितेन, तरुशिखरसमुत्पतितानामाकुलाकुलचारिणाञ्च पत्त्ररथानां कोलाहलेन, रूपानुसार-प्रधावितानाञ्च मृगयूणां युगपदतिरभसपाद-पोताभिहताया भुवः कम्पमिव
एकाकिनां सहायसहितानां विभिन्नरूपेणावतिष्ठतामित्यर्थः, सञ्चरतां भ्रमतां गजयूथपतीनां करिवृन्दस्वामिनाम् अनवरतं निरन्तरं यः करास्फोटः शुण्डाघातः तच्छन्द इति यावत् तेन मिश्रं संवलितं तेन तादृशेन जलधररसितानुसारिणा वारिदगर्जनतुल्येन, कण्ठगर्जितेन कण्ठनिःसृतविस्तृतशब्देन । इह समासगतार्थी लुप्तोपमा ।
स.मसेति । सरभसैः वेगवत्तरैः सारमेयैः श्वभिः विलुप्यमाना दन्तैस्त्रोट्यमाना अवयवा अङ्गानि येषां तेषां तादृशानाम्, अत एव आलोलाः अश्रुव्याप्ताः कातरा दीना तारुण्यव्यासूरुकाः, तरलतराः त्रासेनात्यन्तचञ्चलाः तारकाः कनीनिका येषां तेषां तादृशानाम्, एणकानां मृगविशेषाणां करुणकूजितेन शोकोत्पादकध्वनिना । इह वृत्त्यनुप्रासः ।
निहतेति । निहताः शवर्रहिंसिताः यूथपतयः स्ववर्गीयव्रणस्वामिनो गजा यासां तासां तथोक्तानाम् , अतएव वियोगिनीनां स्वामिविरहिणीनाम् अनुगता पश्चात्संक्ताः कलभाः त्रिंशद्वर्षीयशिशवो यासां तथोक्तानाम्, स्थित्वा स्थित्वा यस्मिन् कस्मिन् स्थले अवस्थाय अवस्थाय कलकलं शबराणां कोलाहलं समाकर्ण्य निशम्य उत्कर्णपल्लवानाम्, ऊर्ध्वीकृतकिसलयाकृतिकर्णानाम् इतस्ततः समन्ततः परिभ्रमन्तीनां सञ्चरणं कुर्वतीनां करिणीनां हस्तिनीनाम्, प्रत्यग्रेण अभिनवेन पतिविनाशेन स्वामिरणेन यः शोकः तेन दीर्घं विस्तृतं तेन तादृशेन चीत्कृतेन आर्त्तचीत्कारशब्देन ।
कतिपयेति । कतिपये कियन्तो ये दिवसाः अहानि तत्र प्रसूतम् उत्पादितं याभिः तासां तादृशीनाम् । त्रासेन भयेन परित्रष्टान् मण्डलाद्भ्रष्टगलितान् पोतकान् स्वस्वार्भकान् अन्वेष्टुं मार्गयितुं शीलं यासां तासां तादृशीनाम् । अत एव उन्मुक्तकण्ठं यथा स्यात्तथा आरसन्तीनाम् शोकव्यञ्जकशब्देनाटर्तन्तीनां खड्गिधेनुकानां दुग्धवतीनां गण्डपलीनाम् आक्रन्दितेन आर्त्तशब्देन ।
तरुशिखरेति । तरुशिखरेभ्यः वृक्षप्रान्तेभ्यः समुत्पतितानाम् उड्डीनानाम् आकुलाकुलं यथा स्यात्तथा चारिणां भ्रमणविधायिनां पत्त्ररथानां पक्षिणां कोलाहलेन कलकलध्वनिना ।
रुपेति । रूपानुसारेण मृगानुगमनेन प्रधावितानां प्रचलितानां मृगयूणां शबराणाम्, युगपद् एकस्मिन् समये अतिरभसेन अतिवेगेन ये पादपाताः पादन्यासाः तैः अभिहतायाः ताडितायाः भुवो मेदिन्याः कम्पमिव चलनमिव जनयता उत्पादयता चरणशब्देन पादध्वनिना ।
कर अकेले मटकनेवाले गजपति अपनी सूँड़ पटक-पटककर बादलों की गरज के समान गड़गड़ा रहे थे कहीं जङ्गली कुत्ते झपट-झपटकर हरिणों को नोच रहे थे जिससे उनकी आँखों की पुतलियाँ अत्यन्त चञ्चल, कातर और आँसुओं से भीग उठी थीं तथा वे बेचारे कराहते हुए चिल्ला रहे थे, कहीं मरे हुए गजपतियों की वियोगिन हथिनियाँ पीछे-पीछे बच्चों को लिए-दिए इधर-उधर भटकती हुई तथा थोड़ी-थोड़ी दूर पर रुक-रुक कर उस कोलाहल को कनौतियाँ खड़ी कर करके सुनती हुई पति की मृत्यु के दुःख में विह्वल हो चिग्घाड़ रही थीं, कहीं कुछ ही दिनों की ब्याई हुई गैंडों की मादायें भयभीत होकर साथ से बिछुड़ जानेवाले बच्चों को इधर-उधर खोजती हुई गला फाड़-फाड़कर विलाप कर रही थीं, कहीं वृक्षों से उड़े हुए घबराहट में इधर-उधर चक्कर काटनेवाले पक्षी काँव-काँव मचाए हुए थे, कहीं जंगली पशुओं और उनका पीछा करने वाले शिकारियों के एक साथ हो पड़ने वाले पैरों के आघात से पृथ्वी को कंपाती हुई सी धमक हो रही थी; कहीं कानों
१. क्वापि 'कण्ठ' इति नोपलभ्यते । २. आलोलतरलतारकाणाम्, विलोलतरल...। ३. कलभकानाम् । ४. पोतान्वेषणीनाम् । ५. .. कण्ठकरण, कण्ठं करण, कण्ठमतिकरुण । ६. निनादेन । ७. ...प्रस्थितानाञ्च । ८. मृगयूयानां । ९. पादवातात् ।
शबरसैन्यवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । ८७
जनयता चरणशब्देन; कर्णान्ताकृष्टज्यानाञ्च मदकलकुररकामिनी-कण्ठकूजित¹कलेन शरनिकर-वर्षिणां धनुषां निनादेन; पवनोद्धति²-क्वशित-धाराणामसीनाञ्च कठिन-महिष-स्कन्धपीठ³पातिनां रणितेन; शुनाञ्च सरभसविमुक्त-घर्घर-ध्वनीनां वनान्तरव्यापिना ध्वानेन सर्वतः प्रचलितमिव तदर॑ण्यमभवत्⁴।
अचिराच्च प्रशान्ते तस्मिन् मृगयाकलकले, निर्वृष्ट-मूक-जलधर-वृन्दानुकारिणि मथनावसानोपशान्तवारिणि सागर इव स्तिमिततामुपगते कानने⁵, मन्दीभूतमयोऽहमुपजात-कुतूहलः पितुरुत्सङ्गादीषदिव निष्क्रम्य कोटरस्य एव शिरोधरां प्रसार्य सन्त्रास-तरल⁸तारकः शैशवान् किमिदमिति सञ्जात॑¹⁰दिदृक्षः तामेव दिशं चक्षुः प्राहिणवम्।
कर्णान्तेति । कर्णान्ते श्रोत्रपर्यन्ते आकृष्टा आकर्षिता ज्या गुणो येषां तेषां तथोक्तानाम्, शरनिकरवर्षिणां बाणसमूहपातिनां धनुषां चापानाम्, मदकलानां मदोन्मत्तानां कुररकामिनीनां मत्स्यादनपक्षिणीनां कण्ठकूजितवत् गलनिनादवद् कलेन अव्यक्तमधुरेण निनादेन ध्वनिना । इह लुप्तोपमा । शब्दस्याव्यक्तमधुरत्वव्यञ्जनायै कुररकामिनीत्यत्र कामिनीति पदमित्यवधेयम् ।
पवनेति । पवनस्य वायोः आहत्या संवट्टनेन क्वणिताः शब्दिताः धाराः तीक्ष्णांशा येषां तेषाम्, कठिनः कठोर यो महिषस्कन्धः सैरिभबाहुशिरः स एव पीठं स्थलं तत्र पातिनां पतनशीलानाम् असीनां खड्गानां रणितेन शब्देन ।
शुनामिति । तथा सरभसं वेगवत्तरं विमुक्ताः परित्यक्ताः विहिता घर्घरध्वनयः 'घर घर' इति निनादः यैः तेषां तथोक्तानां शुनां सारमेयाणां वनान्तरव्यापिना विपिनमध्यप्रसरणशीलेन ध्वानेन निनादेन सर्वतः समन्तात् प्रचलितमिव कम्पितमिव तदरण्यं तद्वनम् अभवद् अभूत् । इह प्रचलितमिवेति क्रियोत्प्रेक्षा ।
अचिरादिति । अचिराद् अल्पकालेन प्रशान्ते शान्ति प्राप्ते तस्मिन् मृगयाकलकले आखेटकोलाहले, निर्वृष्टं निःशेषेण सम्पादितवर्षम् अत एव मूकं निःशब्दं यद् जलधरवृन्दं वारिदसमूहः तदनुकर्तुं शीलं यस्य तस्मिन् तथोक्ते कानने वने 'गहनं काननं वनम्' इत्यमरः, मथनस्य सुरासुरैमन्थनस्य अवसाने अन्ते उपशान्तं निजस्वरूपावस्थितं वारि सलिलं यस्य तस्मिन् तथोक्ते सागर इव समुद्र इव स्तिमिततां निस्पन्दताम् उपगते लब्धे सति । मन्दीभूतं मन्दतां प्राप्तं भयं त्रासो यस्य स तादृशः, उपजातम् उत्पन्नं कुतूहलं कौतुकं यस्य स तादृशश्च अहं वैशम्पायनः पितुः तातस्य उत्सङ्गात् क्रोडात् ईषदिव किञ्चिदिव निष्क्रम्य तद्द्रुमस्य कोटरो वृक्षविवरं तस्य एव शिरोधरां ग्रीवां प्रसार्य बहिः विस्तार्य, सन्त्रासेन भयेन तरले चञ्चले तारके कनीनिके यस्य स तादृशः, शैशवाद् बाल्याद् इदम् आश्चर्यभूतं किमिति हेतोः सञ्जाता समुत्पन्ना दिदृक्षा अवलोकनेच्छा यस्य स तादृशः, तामेव दिशम् आशां प्रति चक्षुर्रोचनं प्राहिणवम् संप्रेषितम् । इह उपमालुप्तोपमयोः परस्परनैरपेक्ष्येण स्थितत्वात् संसृष्टिः ।
तक खिंची हुई बाणों की वर्षा करनेवाली धनुषों की टङ्कार से मतवाली कुररियों की मधुर ध्वनि के समान हुहुक हो रही थी, कहीं हवा के झोकों में खनखनाती हुई जंगली भैंसों की पीठों पर गिरने वाली तलवारें झनझना रही थीं और कहीं झटके के साथ छोड़े गये कुत्तों की घरघराहट हो रही थी ।
थोड़ी ही देर के बाद उस शिकार के हाँके के शान्त हो जाने पर वह जंगल यों सुन्न हो गया मानो जल न बरसाने वाली एकदम शान्त घिरी हुई काली घटा हो, अथवा मदने के पश्चात् शान्त हो जाने वाला समुद्र हो । उस समय मेरा डर भी कम हो गया और बचपन के कारण 'यह क्या है—इसे देखने की अभिलाषा जाग पड़ी इसलिए कुतूहलवश पिता की गोद से थोड़ा-सा निकलकर खोखले में ही गरदन बढ़ाकर भयभीत आँखों से मैं उसी ओर निगाहें दौड़ाने लगा ।
१. '...कूजितकलरवितेन, कूजितकलध्वनितेन; कूजितकण्ठतेनेव;......कूजितकलकण्ठतेन ।
२. पवनाहृत ।
३. '...पीठपातिदानां ।
४. तदारण्यम् ।
५. दृश्यते ।
६. इह 'तस्मिन्' इत्याधिकः पाठः क्वचिद्दृश्यते ।
७. '...साभसोद्धतः साध्वसः ।
८. '...तरलतर' ।
९. किमिति ।
१०. समुत्पन्नदिदित्सरो दिक्षुः, समुत्पन्नदिदृक्षुः, सञ्जातदिदृक्षुः ।
| ८८ | कादम्बरी- | [कथामुखे- |
|---|
अभिमुखमापतंश्च तस्माद्वनान्तरादर्जुनभुजदण्ड-सहस्र-विप्रकीर्णमिव नर्मदाप्रवाहम्, अनिलचलितमिव तमालकाननम्, एकीभूतमिव कालरात्रीणां यामसङ्घातम्, अञ्जनशिला-स्तम्भ-सम्भारमिव क्षितिकम्प-विघूर्णितम्, अन्धकारपुरमिव रविकिरणाकुलितम्, अन्तक-परिवारमिव परिभ्रमन्तम्, अवदारित-रसातलोद्भूतमिव दानवलोकम्, अशुभ-कर्म्म-समूहमिवैकत्र समागतम्, अनेक-दण्डकारण्यवासिँ-मुनिजन-शाप-सार्थमिव सञ्चर-न्तम्, अनवरत-शर-निकर-वर्षि-राम-निहत-खर-दूषण-बलमिव तदपध्यानात् पिशाचता-
अभिमुखमिति । तस्माद्वनान्तरात् अभिमुखमापतत शबरसैन्यमद्राक्षमित्यग्रिमक्रियया सम्बन्धः । इह द्वितीयान्तानि शबरसैन्यविशेषणानि बोध्यानि । वनान्तरात् वनमध्यात् अभिमुखं संमुखम् आपतत् आगच्छत् । अर्जुनस्य कार्तवीर्यस्य राज्ञो भुजदण्डसहस्रेण सहस्रसंख्यकदण्डसदृशबाहुभिः विप्रकीर्णम् इतस्ततो विक्षिप्तं नर्मदाया मेखलाद्रिजाया नद्याःप्रवाहमिव स्रोत इव, धारावाहिकपङ्किकत्वाद्दित्याशयः । इहोपमा । अत्रायं रामायणीयेतिहासः—पुरा किल हैहयानामधिपतिः कार्तवीर्यः सहस्रबाहुभिः नर्मदा-प्रवाहमवरुध्य जलक्रीडां सम्पादितवानिति ।
अनिलेति । अनिलेन पवनेन चलितं प्रयातम् उत्पादितं सत् स्थानान्तरप्राप्तियोग्यमित्यर्थः, तमालानां तापिच्छानां काननम् अरण्यमिव सान्द्रश्यामवर्णत्वाहीर्घस्वरूपत्वाच्चेत्याशयः । इहाप्युपमा ।
एकीभूतमिति । कालरात्रीणां प्रलयक्षणानाम् अत्यन्तान्धकारत्वेन सान्द्रश्यामानामित्याशयः, एकी-भूतम् एकत्रमिश्रीभूतं यामसङ्घातं प्रहरसमुदायम् इव । इह जात्यूत्प्रेक्षा ।
अञ्जनेति । क्षितिकम्पेन पृथिवीकम्पेन विघूर्णितम् आन्दोलितम् अञ्जनवत् कज्जलवत् श्यामवर्णा इत्यर्थः, ये शिलास्तम्भाः पाषाणरचितस्थूणाः तेषां सम्भारं संघातमिव । इहोपमालुप्तोपमयोः सङ्करः ।
अन्धकारेति । रविकिरणैः सूर्यरश्मिभिः आकुलितं सञ्चाल्य व्याकुलीभूतम् अन्धकाराणां तमसां पूरं प्रवाहमिव । अत्रान्धकारत्वजातिस्वरूपोत्प्रेक्षा । अन्धकारस्य द्रव्यत्वेनानेकत्वेन च जातित्वम् , एतच्च पूर्वोत्तरपक्षाभ्यां मुक्तावल्यादौ निर्णीतम् । तथा चोक्तम्—
'तमः खलु चलं नीलं परापरविभागवत् । प्रसिद्धधर्मवैधम्र्म्यान्नवभ्यो भेत्तुमर्हति' ॥
वैशेषिकादयस्तु आवश्यकतेजोभावेनैव चैतस्य सिद्धिं दिशन्ति ।
अन्तकेति । परिभ्रमन्तम् इतस्ततः पर्यटन्तम् अन्तकस्य वैवस्वतस्य 'वैवस्वतोऽन्तकः' इत्यमरः, परिवारं परिजनवर्गमिव निविडश्यामवर्णत्वादित्याशयः । इहापि जातिस्वरूपोत्प्रेक्षा ।
अवदारितेति । अवदारितेन विदीर्णेन रसायाः पृथिव्याः तलेन तन्मार्गेणेत्यर्थः उद्भूतं पातालादुद्गतं दानवलोकं दैत्यजनमिव । इहान्युत्कालङ्कारः ।
अशुभेति । एकत्र एकस्मिन् स्थाने समागतं मिलितम् अशुभकर्मणाम् अघमंकार्याणां समूहं गगमिव । उक्तालङ्कारः ।
अनेकेति । अनेकेषां दण्डकारण्यवासिनां दण्डकवननिवासिनां मुनिजनानां तपस्विलोकानां शापसार्थम् अभिसम्पातसमूहमिव सञ्चरन्तं गच्छन्तम् । उक्तलङ्कारः । 'सार्थो वणिक् समूहेन स्यादपि सङ्घातमात्रके' इति मेदिनी ।
अनवरतेति । अनवरतं सततं शरनिकरं बाणसमूहं वर्षतीत्येवं शीलो यो रामो दशरयतनयः तेन
मैंने उस वन के भीतर से अपनी ही ओर आनेवाली भयदायिनी भीलों की सेना देखी जिसमें अनेकों हजार भील थे । वह सैन्य दल ऐसा प्रतीत हो रहा था मानों कार्तवीर्य अर्जुन की हजारों बाहुओं से कई धाराओं में बिखरा हुआ नर्मदा नदी का प्रवाह हो, अथवा वायु के झोंकों में काँपता हुआ तमाल वृक्षों का वन हो, कालरात्रि के एकत्रित पहरों का समूह हो, अथवा भूचाल में हिलते हुए काले पत्थरों के खम्भों का ढेर हो, अथवा सूर्य की किरणों से व्याकुल अन्धकार का समूह हो, अथवा इधर-उधर भटकता हुआ यमराज का परिवार हो, अथवा पृथ्वीतल को फाड़ कर निकलते हुए दानवों का समूह हो, अथवा अशुभ कर्मों के समूह एकत्रित होकर आ गए हों, अथवा दण्डकारण्य में रहने वाले अनेकों मुनियों के शापों का झुण्ड एक
१. आपतितन्, लापतन्तन् ।
२. अनिलदलचलितमिव, अनलवशचलितमिव ।
३. ०°पूरमिव ।
४. ०°नाकुलन् ।
५. ०°तलोद्गतमिव ।
६. अशेष०° ।
७. ०°वासित०° ।
८. निहतन् , इतखरदूषणनिवहमिव ।
शवरसेनापतिवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता। ८६
मुपर्गतम्, कलिकाल-बन्धुवर्गमिव सङ्गतम्, अवगाहप्रस्थितमिव वनमहिषयूथम्, अचल-शिखर-स्थित-केसरि-कराकृष्ट-पतनशीर्णमिव कालमेघपटलं, अखिलरूप-विनाशाय धूम-केतुजालमिव समुद्गतम्, अन्धकारिताशेषकाननम्, अनेकसहस्रसंख्यम्, अतिभय-जनकम्, उत्पात-वेतालव्रातमिव शबरसैन्यमद्राक्षम्।
मध्ये च तस्यातिमहतः शबरसैन्यस्य प्रथमे वयसि वर्त्तमानम्, अतिकर्कशत्वादायस-मयमिव, एकलव्यमिव जन्मान्तरोंगतम्, उद्भिद्यमान-श्मश्रुराजिपया प्रथम-मदलेखा-मण्ड्य-
निहतं मारितं यद् खरदूषणयोः तन्नामकयोः पाताललङ्काधिपयोर्दैत्ययोः बलं सैन्यं तदिव। तस्मिन् रामचन्द्रे अपध्यानं दुश्चिन्तनमशुभचिन्तोत्पन्नपापं तस्मात् पिशाचतां भूतताम् उपगतं प्राप्त सत् आगत मित्यर्थः। उत्थाऽलङ्कारः। अनेन साधुजनाशुभचिन्तनेन प्रत्यवायः समुदेतीत्याशयो ज्ञेयः।
कलिकालति। एकत्र एकस्मिन्नेव स्थाने सङ्गतं सम्मिलितम्, कलिकालस्य कलियुगस्य बन्धुवर्ग• मित्रमण्डल मिव। उक्ताऽलङ्कारः।
अवगाहेति। अवगाहो मज्जनं तदर्थं प्रस्थितं प्रयातं वनमहिषयूथमिव अरण्यसैरिभसमूहमिव ! उक्ताऽलङ्कारः।
अचलेति। अचलः पर्वतः तस्य शिखरे शृङ्गे स्थितो विद्यमानो यः केसरी सिंह तस्य कराभ्यां पाणिभ्यां या आकृष्टः आकर्षणं तया यत् पतनं पृथिव्यां भ्रंशः तेन शीर्णम् अधिकखण्डीभूतं कालमेघ-पटलमिव श्याममेघमण्डलमिव। उक्ताऽलङ्कारः।
अखिलेति। अखिलानां समग्राणां रूपाणां मृगाणां 'रूपं मृगेऽपि विज्ञेयम्' इति हलायुधः, विना-शाय व्यापादनाय समुद्गतं समुद्भूतं धूमकेतूनाम उत्पातग्रहाणां जालं वृन्दमिव। उक्ताऽलङ्कारः। 'धूम-केतुः स्मृतो वहावुत्पातग्रहभेदयोः' इति विश्वः।
अन्धेति। अन्धकारितं समुत्पन्नान्धकारम् अशेषं समग्रं काननं विपिनं येन तत् तथोक्तम्, अनेकानि बहूनि सहस्राणि संख्या यस्य तत् तादृशन्, अतिभयजनकम् अत्युत्कृष्टत्रासोत्पादकम्। उत्पाताय अशुभाय यो वेतालव्रातः भूताधिष्ठितमृतकगण; तमिव शबरसैन्यं भिल्लानीकम् अद्राक्षम् अपश्यम्। उक्ताऽलङ्कारः।
मध्ये चेति। अतिमहतः अतिविशालस्य तस्य पूर्वोपवर्णितस्य शवरसैन्यस्य भिल्लानीकस्य मध्ये च मातङ्गनामानं शवरसेनापतिमपश्यमित्यतिदूरेण सम्बन्धः। इह यानि द्वितीयान्तपदानि तानि शवर-सेनापतिविशेषणानीत्यवगन्तव्यानि। प्रथमे वार्धकापेक्षया पूर्वे वयसि अवस्थायां वर्त्तमानं स्थितं तरुण-मित्यर्थः। अतिकर्कशत्वात् अत्यन्तकठिनशरीरत्वात् आयसमयमिव लौहरचितमिव 'आयसं लौहमिति' भरतः। इह क्रियोत्प्रेक्षा।
एकेति। जन्मान्तरे अन्यजन्मनि आगतं प्राप्तम् एकलव्यं तन्नामकं द्रोणाचार्यशिष्यं शवरमिव धनुर्वेदे निपुणत्वादित्याशयः। इह द्रव्योत्प्रेक्षा।
अत्रेदमितिवृत्तम्-पुरा किलैकलव्यो धनुर्वेदं शिक्षितुं द्रोणाचार्यान्तिकमुपेत्याध्यापयितुं प्रार्थया-मास। किन्तु स हि पार्थप्रेम्णा तन्नाङ्गीचकार, ततो निराशया तमेव हृदि ध्यायन् मृन्मयीं तन्मूर्तिं विधाय स्वभवने प्रतिदिनमर्चयामास। ततश्च प्राप्तमनोरथो जन्मान्तरे तच्छिष्यत्वमुपगतवानिति महाभारतम्।
उद्भिदेति। उद्भिद्यमानानि उत्पद्यमानानि यानि श्मश्रूणि मुखलोमानि तेषां राजिः पङ्क्तिर्यस्य तस्य
साथ घूम रहा हो, अथवा निरन्तर तीखे बाणों की वर्षा करने वाले राक्ष खरदूषण के जिस सैन्य दल का विनाश कर डाला था वही मानो राम का अहित सोचने के कारण पिशाचों के रूप में प्रकट हो गया हो, अथवा कलियुग के भाई बन्धु इकट्ठा हो गये हों, अथवा जङ्गली भैसों का झुण्ड स्नान के लिये जा रहा हो, अथवा पहाड़ की चोटी पर खड़े सिंह के पञ्जों द्वारा खींच लेने से गिर कर बिखर जानेवाले प्रलयकालीन काले बादलों का समूह हो, अथवा सम्पूर्ण जङ्गली पशुओं का विनाश करने के लिये धूमकेतुओं का जमावड़ा लगा हो। प्रलयकालीन पिशाचों के समान दिखाई पड़नेवाले उस सैन्य-दल ने सारे जङ्गल को अन्धकारमय कर दिया था।
उस बहुत बड़ी सेना के बीच में मैंने भीलों के सेनापति को देखा। अभी उसकी आयु बिल्कुल नयी थी।
१. उपागतम् । २. कलिकालवर्गमिव समुद्गतम्...वर्गमिवैकत्र समागतम् । ३. अवगाहोदितमिव । ४. अचलशिखरस्यसिंह... । ५. विशीर्णमिव । ६. कालान्न...। ७. अन्धकारितकाननम् । ८. ...जननम् । ९. तस्य महतः । १०. आयसमिव । ११. जन्मान्तरगतम् ।
१२ का० कथा०
| ६० | कादम्बरी | [ कथामुखे- |
|---|
मान-गण्डभित्तिमिव गजयूथपतिकुमारं, असित-कुवलय-श्यामेन देहप्रभा-प्रवाहेण कालिन्दीजलेनेव पूरयन्तमरण्यम्, आकुटिलाग्रेण स्कन्धावलम्बिना कुन्तल-भारेण केसरिणमिव गजमदमलिनीकृतेन केसरकलापेनोपेतम्, आयतललाटम्, अतितुङ्ग-घोरघोणम्, उपनीतस्यैककर्णाभरणां भुजङ्गफणामणेरापाटलैरंशुभिरालोहितीकृतेन पर्णशयनाभ्यासा-ल्लग्न-पल्लवरागेणेव वामपार्श्वेन विराजमानम्, अचिरै-हत-गज-कपोल-गृहीतेन, सप्तच्छद-परिमलवाहिना कृष्णागुरु-पङ्केनेव सुरभिणा मदेन कृताङ्गरागम्, उपरि तत्परिमलान्धेन
भावस्तया हेतुना, प्रथमया नूतनया मदलेखया श्यामलमहजलरेखया मण्ड्यमाने अलङ्क्रियमाणे गण्डभित्ती कपोलदेशौ यस्य तं तादृशम्, गजयूथपतेः हस्तिनायकस्य कुमारः त्रिंशद्वर्षीयकलभः तमिव । इहोपमा ।
मतीतेति । असितं नीलं यत् कुवलयम् उत्पलं तद्वत् श्यामेन कृष्णवर्णेन देहस्य शरीरस्य । प्रभा-प्रवाहेण द्युतिस्रोतसा कालिन्दी यमुना तस्या जलेन सलिलेनेव अरण्यं वनं पूरयन्तं पूर्ण विदधतम् । कालिन्दीजलं नीलं शवरशरीरकान्तिरपि तादृशी, अत उभयोः सादृश्यम् । इह यथाक्रमं लुप्तोपमा, द्रव्योत्प्रेक्षा तथा उक्तविधशरीरकान्तिप्रवाहेण वनपूरणसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्ति-रित्येतेषां परस्परमङ्गाङ्गिभावेन सङ्करात् सङ्करालङ्कारः ।
आकुटिलेति । गजानां हस्तिनां व्यापादनलक्षणेन तन्मदेन दानजलेन मलिनीकृतेन कृष्णीकृतेन केसरकलापेन सटानिकरेण उपेतं सहितं केसरिणं सिंहमिव आकुटिलाग्रेण किञ्चित्कुञ्चिताग्रेण स्कन्धाव-लम्बिना बाहुमूलस्थितवता कुन्तलभारेण केशसमूहेन उपेतम् । इहोपमा ।
आयतेति । आयतं विस्तीर्णं ललाटं भालदेशो यस्य तं तथोक्तम्, अतितुङ्गा अत्युन्नता घोरा विशाल-लच्छिद्रतया भयङ्करी च घोणा नासिका यस्य तं तादृशम् । 'घोणा नासा च नासिका' इत्यमरः ।
उपनीतस्येति । एकस्य कर्णस्य श्रोत्रस्य आभरणताम् अलङ्करणताम् उपनीतस्य प्रापितस्य भूषण-तया सव्यश्रोत्रे स्थापितस्येत्यर्थः, भुजङ्गस्य उरगस्य फणामणेः फणास्थितरत्नस्य आपातलैः किञ्चिच्छ्वेत-रक्तैः अंशुभी रश्मिभिः आलोहितीकृतेन किञ्चिद्रक्तवर्णीकृतेन अत एव पर्णेषु वृक्षपत्रेषु यच्छयनं स्वापः तस्य अभ्यासात् पुनः पुनरनुष्ठानेन संस्कारातिशयात् लग्नः संसक्तः पल्लवानां किसलयानां राग आरुण्यं यत्र तेन तादृशेनेव, आस्तरणभूतपत्रेषु किसलयानामपि विद्यमानत्वादित्याशयः । वामपार्श्वेन सव्यपार्श्वेन विराजमानं द्योतमानम् । इह क्रियोत्प्रेक्षा ।
अचिरेति । अचिरहतस्य तत्कालमारितस्य गजस्य दन्तिनः कपोलाभ्यां गण्डाभ्यां गृहीतेन आनी-तेन, सप्तच्छदस्य सप्तपर्णतरोः परिमलं सौरभमिव परिमलं वहति धारयतीत्येवंशीलेन कृष्णस्य श्याम-वर्णस्य अगुरोः तत्संज्ञकसुगन्धिद्रव्यस्य पङ्केनेव द्रवेणेव सुरभिणा घ्राणतर्पणसौरभवता 'सुरभिघ्रण-तर्पणः' इत्यमरः, मदेन दानजलेन कृतो विहितः अङ्गरागः शरीरविलेपनं येन तं तादृशम् । इहोपमालुप्तो-पमयोः परस्परनैरपेक्ष्येण स्थितेः संसृष्टिरलङ्कारः ।
उपरीति । तस्य मदस्य यः परिमलः सौरभं तेन अन्धेन विह्वलेन, अत एव उपरि शिर ऊर्ध्वभागे
उसका शरीर इतना कठोर था मानो लोहे का बना हो। वह ऐसा प्रतीत होता था मानो दूसरा जन्म लेने वाला एकलव्य हो। अभी उसकी मसें भीन रही थीं जिससे वह ऐसा सुशोभित हो रहा था मानो पहली मद-रेखा से सुशोभित कपोलों वाला कोई गजपति-कुमार हो। उसके शरीर का रङ्ग नीले कमल के समान साँवला था जिससे निकल कर जङ्गल में चारों ओर फैलने वाली कान्ति की धारा यमुना जल की बाढ़ के समान प्रतीत होती थी। उसके कन्धों तक लटके हुए घुंघराले बाल गजमद से माँग कर काले बने सिंह के अयाल जैसे लगते थे। उसका माथा चौड़ा और नाक बड़ी तथा ऊँची थी। एक कान में पहिनी गयी नागमणि को लाल-लाल किरणों से उसका बाया अङ्ग रक्तवर्ण का हो गया था जिससे वह ऐसा प्रतीत होता था मानो पल्लवों की शय्या पर सोने से उसमें उनका लाल रङ्ग ही निचुड़ पड़ा हो। उसने अपने शरीर पर काले अगुरु के लेप के समान तत्काल ही के मारे हुये हाथी कपोलों के सुगन्धित मद का लेप किया था जिससे छितवन जैसी गन्ध उठ रही थी। उस गज-मद की सुगन्ध से विह्वल होकर उसके सिर पर मँडराने वाले मोरपङ्खों के छाते जैसे भौरों के झुण्ड ऐसे प्रतीत
१. ०कुमारम्। २. श्यामेन । ३. पूरिताण्यम् । ४. आयतललाटमासिनम् । ५. तुङ्गघोरघोणम् । ६. भुजङ्गफणामणेः, भुजगफणामणेः । ७. अचिराहत००० । ८. कृष्णागरु००० । ९. पतत्००० ।
शबरसेनापतिवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । ६१
परिश्रमता मायूर-पिच्छातपत्रानुकारिणा मधुकराकुलेन तमाल-पल्लवेनेव निवारितातपम्, आलोलपल्लवव्याजेन भुजबलनिर्जितया भयप्रयुक्तसेवया विन्ध्याटव्येव करतलेनापमृज्य-मान-गण्डस्थल-स्वेदलेखम्, आपाटलया हरिणकुल-काल-रात्रि-सन्ध्यायमानया शोणितार्द्रे-येव दृष्ट्या रञ्जयन्तमिवाशाविभागान्, आजानुलम्बिना दिक्कुञ्जर-करप्रमाणमिव गृहीत्वा निर्मितेन चण्डिका-रुधिर-बलिप्रदानार्थमसकृन्निशितशस्त्रोल्लेख-विषमित-शिखरेण भुज-युगलेनोपशोभितम्, अन्तरान्तरा लग्नाश्वान-हरिण-रुधिरविन्दुना स्वेदजल-कणिको-चितेन गुञ्जाफलमिश्रैः करिकुम्भमुक्ताफलैरिव विरचिताभरणेन विन्ध्यशिलातल-विशालेन वक्षः-
परिश्रमता सञ्चरता, मायूरं मयूरसम्बन्धि यत् पिच्छं बर्हं तस्य आतपत्रं तद्रुचितच्छत्रम् अनुकर्तुं शील-मस्येति तेन तथोक्तेन मधुकरकुलेन भ्रमरगणेन तमालस्य तापिच्छस्य पल्लवेन किसलयेन इव निवारितः दूरीकृतः आतपः सूर्यरश्मिः यस्य तं तथोक्तम्। इहोपमाद्वयम्, एका आर्थी अपरा च श्रौती, अनयोश्च परस्परनिरपेक्षेण स्थित्या तिलतण्डुलवत् संसृष्टिरलङ्कारः।
आलोलेति। भुजबलेन शवरसेनाधिपतिबाहुबलेन निर्जितया स्वाधीनीकृतया, अत एव भयेन त्रासेन प्रयुक्ता आरब्धा सेवा शुश्रूषा यथा तथा तादृश्या विन्ध्याटव्या, विन्ध्यवनस्थल्या कर्या, आलोलाः पवनवेगेन सम्यक् चञ्चला ये पल्लवाः किसलयानि तेषां व्याजेन स्वीयवृक्षोत्पन्नकिसलयसञ्चालनकपटेने-त्यर्थः, करतलेन हस्तेनेव अपमृज्यमाना प्रोञ्छ्यमाना गण्डस्थलयोः कपोलस्थलयोः स्वेदलेखा घर्मबिन्द-पङ्क्तिः यस्य तं तादृशम्। इहापह्रवोत्रेक्षा।
आपाटलयेति। आपाटलया ईषच्छ्वेतततया, अत एव हरिणकुलस्य मृगवृन्दस्य कालरात्रेः विनाश-यामिय्याः सन्ध्यायमानया अरुणरश्मिलोहिनीकृतसायंकालवदाचरन्त्यातयाविधदृष्टिनिक्षेपेणैव निरूप्य मृगविनाशादित्याशयः, शोणितार्द्रयेव रुधिरलिप्तयेव दृष्ट्या नेत्रेण आशाविभागान् दिग्त्रिभागान् रञ्जयन्तं रक्तवर्णोत्पादनात् शोभयन्तमिव विद्यमानम्। इह सन्ध्यायमानयेत्यत्र व्यङ्गतोपमा, शोणितार्द्रयेवेत्यत्र गुणोत्प्रेक्षा, रञ्जयन्तमिवेत्यत्र क्रियोत्प्रेक्षा चेति परस्परमेषामङ्गाङ्गिभावेन सङ्करात् सङ्करालङ्कारः।
आजान्विति। आजानुलम्बिना नलकीलपर्यन्तपातिना अतिदीर्घेण, दिक्कुञ्जरस्य ऐरावताद्यन्यतम-दिग्गजस्य करप्रमाणं शुण्डापरिमाणं गृहीत्वेव आदायैव निर्मितेन प्रजापतिरचितेन दिग्गजशुण्डादण्ड-सदृशायितेनेत्यर्थः। चण्डिकायै कालिकायै रुधिरबलेः शोणितोपहारस्य प्रदानायं समर्पणार्थं पशुकर्त्तनार्थ-मित्याशयः, असकृत् मुहुर्मुहुः निशितानि सुधारोपादनाय प्रस्तरादौ तेजितानि यानि शस्त्राणि खड्गा दीनि तेषाम् उल्लेखेन घर्षणेन विषमितम् उद्भावचीकृतं शिखरम् अग्रदेशो यस्य तेन तादृशेन । इह गृहीत्वेवेति क्रियोत्प्रेक्षा।
अन्तरेति। अन्तरान्तरा मध्ये मध्ये लग्ना संलग्ना आश्व्याना आशुष्का हरिणस्य मृगस्य रुधिर-विन्दवः शोणितकणा यस्मिन् तेन तथोक्तेन, स्वेदजलं घर्मजलं तस्य कणिका विन्दवः ताभिः चितेन व्याप्तेन अत एव गुञ्जाफलैः क्रुन्दालस्रैः 'काकचिञ्चागुञ्जे तु कृष्णला' इत्यमरः, मिश्रानि संयुतानि तैः तथोक्तैः,
दो रहे थे मानो वह तमाल के पत्ता से धूप रोक रहा हो। इसके कानों में लगी हुई वायु से हिलनेवाली कोंपलें कपोलों पर बहते हुए पसीने को पोंछ दिया करतीं थी मानों उसके बाहुबल में पराधीन होकर भयवश सेवा के लिए लाई हुई स्वयं विन्ध्याटवी अपने हाथों से पसीना पोंछ रही हो। उसकी खून से तर जैसी लाल-लाल दृष्टि से दिशायें भी लाल हो उठी थी मानो हरिणों की कालरात्रि की संध्या फूट उठी हो। घुटनों तक लटकती हुई उसकी बाहें ऐसी प्रतीत होती थी मानो दिग्गजों की सूँढ़ की माप लेकर बनायी गयी हों और उसकी हथेलियाँ भगवती चण्डिका को रक्त की बलि देने के लिए हथियारों पर सान चढ़ाते-चढ़ाते अत्यन्त कठोर हो गयी थीं। उसकी विन्ध्य पहाड़ की चट्टान जैसी चौड़ी छाती पर हरिणों के खून के जमे हुए गाढ़े छीटों में ढलती हुई पसीने की बूंदियाँ ऐसी सुशोभित हो रही थीं मानो गुँदचों के लाल-लाल दानों के साथ पिरोई गयी मोतियों की माला
१. भ्रमता। २. मायूरपिच्छातपानुकारिणा, मयूरपिच्छातपस्यानुकारिणा, मयूरपिच्छच्छत्रानुकारिणा।
३. आलोलकर्णपल्लवव्याजेन। ४. ०००हस्तिलेखम्। ५. मृगकुलह्वदराति०००। ६. रञ्जयन्तमाशाविभागान्।
७. नतुलम्बेन। ८. वनकुञ्जर, कुञ्जर०००। ९. कालिका। १०. प्रदानाय। ११. अन्तरान्तरा०००। १२. कण०००।
१३. विमिश्रैः। १४. रचिताभरणेन। १५. विन्ध्यशिलाविशालतेन। १६. वक्षस्थलमेन, वक्षःस्थलेन।