भारतकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

२६० सटीके कामसूत्रे [५ अधिकरणे,

एतयेति। उद्भूतानर्थभीतजायया, वृत्यर्थिनां = जीवनार्थिनाम्, महामात्राभितप्तानां = महामात्रैः प्रभवद्भिः पीडितानाम्, बलाद्विगृहीतानां राजवल्लभैर्व्यवहारे दुर्बलानां न्यायबलाभावात्, स्वभोगेन तावन्मात्रेणासन्तुष्टानांमधिकमिच्छतां, राजनि प्रीतिकामानं क्वचित्परिचयं मम मा कार्षीदिति, बाह्यजनेषु, व्यक्तिं = प्रसिद्धिम्, इच्छतां, राज्ञः प्रसाद्योऽयमिति, सजातैः = दायादैः, सूचकानाम् = उद्घोषकाणां, कार्यवशिनामिति। कार्यार्थिनां, जाया व्याख्याताः, अत्रापि भिक्षुकी ब्रूयादिति योज्यम्, एते प्रच्छन्नयोगा अत्याजितस्वकुलासु स्त्रीषु ॥ २६ ॥

अन्येन वा सह संसृष्टां सङ्ग्राह्य; प्रयोज्यां दास्यमुपनीतां क्रमेणान्तःपुरं प्रवेशयेत् ॥ २७ ॥

अन्येनेति। येन केन चित्संसृष्टां कृतसंसर्गा, संग्राहेति। नागरकेण संग्रहविधिना ग्राहयित्वा, दास्यमुपनीतामिति। प्रकाशविनष्टाया वेश्याविशेषत्वाद्, तां सामान्यस्त्रियं क्रमेणान्तःपुरं प्रवेशयेद्, न झटिति समनन्तरमेव मा भूदेतत्कृतः प्रयोग इति ॥ २७ ॥

प्रणिधिना चायातिमस्याः सन्दूष्य राजनि विद्विष्ट इति कलत्रावग्रहोपायेनैनामन्तःपुरं प्रवेशयेदिति प्रच्छन्नयोगाः, एते राजपुत्रेषु प्रायेण ॥ २८ ॥

प्रणिधिना = चारेण, सन्दूष्य सद्भूतेनैव दोषेण, अन्यथा-अदुष्टदूषणमधर्माय भवति, एवं चास्य कलत्रावग्रहो न दोषाय, एतद्योगद्वयं त्याजितस्वकुलासु, एते राजपुत्रेषु प्रायेण न तु राज्ञः, तस्य मण्डले प्रतिष्ठितत्वात्कादाचित्काः स्युः ॥ २८ ॥

ननु परभवनप्रवेशेनापि प्रच्छन्नयोगाः सम्भवन्ति, यदा दूत्या प्रयोज्यां सङ्केत्य प्रच्छन्नः प्रविशति, न च तदानीं चरितं महाजनेन दृश्यतेऽनुविद्यीयते चेत्यत्राह—

न त्वेव परभवनमीश्वरः प्रविशेत् ॥ २९ ॥

प्रविशेत्प्रच्छन्नोऽपीत्यर्थः ॥ २९ ॥

अत्र पूर्ववृत्तं दोषं दर्शयति —

आभीरं हि कोट्टराजं परभवनगतं भ्रातृप्रयुक्तो रजको जघान, काशिराजं जयत्सेनमश्वाध्यक्ष इति ॥ ३० ॥

आभीरं हीति। गूर्जराते कोट्टं नाम स्थानं, तस्य राजानमाभीरनामानं, परभवनगतमिति। श्रेष्ठिवसुमित्रस्य भार्यामधिगन्तुं तद्भवनगतं-

५ अध्याये ] ईश्वरकामितप्रकरणम् । २६१

रजको राज्यार्हेण तद्भ्रात्रा प्रयुक्तो जघान, काशिराजं चेति । काशीस्थं- राजानं जयत्सेनमश्वाध्यक्षस्तद्भार्यामधिगन्तुं तद्भवनगतं जघान ॥३०॥

प्रकाशकास्तु योगा राज्ञः प्रायेण द्रष्टव्या यदाह—

प्रकाशकामितानि तु देशप्रवृत्तियोगात् ॥ ३१ ॥

देशप्रवृत्तियोगादिति । यो यस्मिन्देशे समाचारः पूर्वैः स्थापितस्त- द्योगादिति, अतो दृश्यमानान्यपि कामितानि महाजनेन नानुविधी- यन्ते, राज्ञामेव तत्राधिकारात् ॥ ३१ ॥

प्रत्ता जनपदकन्या दशमेऽहनि किंचिदौपायनिकमुपगृह्य प्रविशन्त्यन्तःपुरमपभुक्ता एव विसृज्यन्त इत्यान्ध्राणाम् ॥ ३२ ॥

प्रत्ता इति । ऊढा औपायनिकमुपायप्रयोजनं वस्त्रादि, उपभुक्ता राज्ञा संप्रयुक्ताः, विसृज्यन्ते त्यक्ष्यन्ते, इत्यान्ध्राणां प्रवृत्तिः ॥ ३२ ॥

महामात्रेश्वराणामन्तःपुराणि निशि सेवार्थं राजानमुपग- च्छन्ति वात्सगुल्मकानाम् ॥ ३३ ॥

महामात्राणां य ईश्वरा मुख्यास्तेषामन्तःपुराणि स्त्रियः, सेवार्थ- मिति । सेवां कर्तुं, वात्सगुल्मकानामिति । दक्षिणापथे सोदर्यौ राजपुत्रौ वत्सगुल्मौ ताभ्यामध्यासितो देशो वत्सगुल्मक इति प्रतीतः, तत्र भवानामिदं प्रवृत्तिः ॥ ३३ ॥

रूपवतीर्जनपदघोषितः प्रीत्यपदेशेन मासं मासार्धं वा वास- यन्त्यन्तःपुरिका वैदर्भाणाम् ॥ ३४ ॥

रूपवतीरिति । प्रशंसायां मतुप् , प्रीत्यपदेशेनेति । परस्परस्नेहभावः- प्रीतिस्तस्यापदेशः, संप्रयोगस्तु प्रयोजनं, वासयन्ति, अन्तःपुर एवान्तः- पुरिकाः स्त्रियः, वैदर्भाणामिति । कालाञ्जराद्दक्षिणेन विदर्भो नामदेशः, तत्र भवानाम् ॥ ३४ ॥

दर्शनीयाः स्वभार्याः प्रीतिदायमेव महामात्रराजेभ्यो ददत्य- परान्तकानाम् ॥ ३५ ॥

प्रीतिदायमिति । प्रीत्या यत् स्वत्वनिवृत्त्या दीयते ॥ ३५ ॥

राजक्रीडार्थं नगरस्त्रियो जनपदस्त्रियश्च सङ्घ एकशश्च राज- कुलं प्रविशन्ति सौराष्ट्रकाणामिति ॥ ३६ ॥

राजक्रीडार्थमिति । प्रवेशस्य निमित्तं, संप्रयोगस्तु प्रयोजनं, नग- रं यत्र राजधानी तत्र स्त्रियो नगरस्त्रियः, ततो बाह्या जनपदस्त्रियः,

ईश्वरकामितं सप्तचत्वारिंशं प्रकरणम् ॥

२६२ सटीक कामसूत्रे [ ५ अधिकरणे,

संघश इति। संभूय, एकश इति। एकैकशश्च सौराष्ट्रकाणामिति ॥३६॥
उक्तमनुक्तं चोपसंहरन्नाह—

श्लोकावत्र भवतः—
एते चान्ये च बहवः प्रयोगाः पारदारिकाः।
देशे देशे प्रवर्तन्ते राजभिः संप्रवर्तिताः ॥ ३७ ॥

एते चेति। अन्ये चैवं प्रकाराः, पारदारिकाः = परदारप्रयोजनाः, एते देशे देशे प्रवर्तन्ते, पूर्वराजभिः संप्रवर्तितत्वात् ॥ ३७ ॥
अत्र प्रांतष्टेयमाह—

न त्वेवैतत् प्रयुञ्जीत राजा लोकहिते रतः।
निगृहीतारीषड्वर्गस्तथा विजयते महीम् ॥ ३८ ॥

इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमेऽधिकरण ईश्वरकामितं पञ्चमोऽध्यायः।

न त्वेवैतदिति। एतदिति, ईश्वरकामितम्, प्रवर्त्ततामिति, न प्रयुञ्जीत, लोकहिते रतः, यस्तु नैवं; स महीपतिर्न विजयते, अनिगृहीतारीषड्वर्गत्वाद्, विजयस्य कारणं कामक्रोधलोभमानमदहर्षजय इति ॥३८॥
ईश्वरकामितं सप्तचत्वारिंशं प्रकरणम् ॥

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां पारदारिके पञ्चमेऽधिकरण ईश्वरकामितं पञ्चमोऽध्यायः।


षष्ठोऽध्यायः।

यथेश्वराणां परभवनप्रवेशो नास्ति तथाऽऽन्तःपुरिकाणां, नागरकाणां चान्तःपुरवेशः, इत्यान्तःपुरिकाणां नागरकाणां चोभयथाऽप्यन्तःपुरिकावृत्तमुच्यते, तत्र पूर्वमधिकृत्याह—

नान्तःपुराणां रक्षणयोगात्पुरुषसंदर्शनं विद्यते पत्युश्चैकत्वादनेकसाधारणत्वाच्चातृप्तिस्तस्मात्तानि योगत एव परस्परं रञ्जयेयुः ॥ १ ॥

नान्तःपुराणामिति। तात्स्थ्यादाप्तःपुरिकाणामित्यर्थः, तासां पतिरस्यैवैति चेदाह—पत्युश्चैकत्वादिति। एकोऽपि तृप्तिं कुर्यादिति चेदाह—अनेकसाधारणत्वाच्चेति। स हि तासां साधारणः कथं ? तृप्तिं कुर्याद्, योगतः, परस्परमिति। या रतिमन्तरस्यां कुर्यात्तस्य(मन्येति ॥ १ ॥

६ अध्याये ] आन्तःपुरिकाप्रकरणम् । २६३

६ अध्याये ] आन्तःपुरिकाप्रकरणम् । २६३

प्रयोगमाह—

धात्रेयिकां सखीं दासीं वा पुरुषवदलंकृत्याकृतिसंयुक्तैः कन्दमूलफलावयवैरुपद्रव्यैर्वाऽऽत्माभिप्रायं निवर्तयेयुः ॥ २ ॥

धात्रेयिकामिति । पुरुषवदलंकृत्येति । तत्र हि पुरुषवद् बुद्ध्याऽति मात्रे भावे तृप्तिरतिशयितवती भवति, आकृतिसंयुक्तैरिति । पुरुषेन्द्रिय-संस्थानवद्भिः, कन्दमूलफलावयवैरिति । तत्र कन्दा आलुककदल्यादीनाम्, मूलं तालकेतकीनाम्, फलमलाबुककर्कटिकाऽऽदीनाम्, एतानि संशोध्य ग्राह्याणीति, अवयवग्रहणे फलं दर्शयति—आत्माभिप्रायमिति । रागभावं, निवर्तयेयुः, केवलं श्रद्धाविनोदनं तथाविधकामस्याप्राधान्यात् ॥ २ ॥

पुरुषप्रतिमा अव्यक्तलिङ्गाश्चाधिशयीरन् ॥ ३ ॥

पुरुषप्रतिमाः पुरुषदेहान्, अव्यक्तलिङ्गा अजातश्मश्रुत्वात्स्त्रीरूपाभासानित्यर्थः ॥ ३ ॥

एकोऽपि पतिः तृप्तिं कुर्याद्यः कामार्तासु कृपाशीलः, यथा प्राच्यानामित्याह—

राजानश्च कृपाशीला विनाऽपि भावयोगादायोजितोपद्रव्यायावदर्थमेकया रात्र्या बह्वीभिरपि गच्छन्ति, यस्यां तु प्रीतिर्वासकऋतुर्वा तत्राभिप्रायतः प्रवर्तन्त इति प्राच्योपचाराः ॥ ४ ॥

राजान इति । विनाऽपि भावयोगादिति । अजातसंप्रयोगेच्छा अपि, आयोजितोपद्रव्या इति । कट्यामाबद्धकृत्रिमसाधनाः, यावदर्थं = यावत्तृप्तिं, बह्वीभिरपि स्त्रीभिः सह गच्छन्ति संप्रयोगमित्यर्थः, विशेषमाह—यस्यां त्विति । प्रीतिः=सहजः स्नेहः, वासकः=परिपाट्या शयनम्, ऋतुः=अपत्यार्थं, तत्र = तस्याम्, अभिप्रायतो भावेनेत्यर्थः, अयमन्तःपुरविषये योग उक्तः ॥ ४ ॥

स्त्रीयोगेणैव पुरुषाणामप्यलब्धवृत्तीनां वियोनिषु विजातिषु स्त्रीप्रतिमासु केवलोपमर्दनाच्चाभिप्रायनिवृत्तिर्व्याख्याता ॥ ५ ॥

स्त्रीयोगेणैवेति । यथा स्त्रीणां क्व चित्पुरुषबुद्धिमुत्पाद्याभिप्रायनिवृत्तिरेवं पुरुषाणामपि केषां चिदित्याह—अलब्धवृत्तीनामिति । ये स्त्रियं न प्राप्नुवन्ति, वियोनिषु = बालोरुकक्षादिषु, विजातिषु = एडीबडवाऽऽदिषु, स्त्रीप्रतिमासु = स्त्रीप्रतिकृतिषु, समुत्कीर्णस्त्रीलिङ्गादिषु, केवलोपमर्दनाच्चेति । सिंहाक्रान्तेन करेण वा साधनस्य मन्थनादेव केवलान्,

२६४ सटीके कामसूत्रे [ ५ अधिकरणे,

यथोक्तम्—

'भुवि विन्यस्तहस्ताभ्यामवष्टभ्योत्कटासनः।
बाहुमध्ये विमृद्गीयात्सिंहान्तेष्वयं विधिः' ॥

अस्थानेषु शुक्रविसृष्टिविधर्म इति चेत्, स्वप्नाभिमाने कथं ? तत्र प्रायश्चित्तविधानादिति चेदिहापि विहितत्वात् ॥ ५ ॥

बहिर्विषयमाह—

योषावेषांश्च नागरकान्प्रायेणान्तःपुरिकापरिचारिकाभिः सह प्रवेशयन्ति ॥ ६ ॥

योषावेषानिति । स्त्रीवेशान्, परिचारिकाभिरिति। प्रदोषे परिचरितुमन्तःपुरं प्रविशन्तीभिः ॥ ६ ॥

तेषामुपावर्तने धात्रेयिकाश्चाभ्यन्तरसंसृष्टाः, आयतिं दर्शयन्त्यः प्रयतेरन् ॥ ७ ॥

तेषामिति। नागरकाणामुपावर्तनेऽभिमुखीकरणे प्रयतेरन्, आभ्यन्तरसंसृष्टा इति। तासु नागरकाणां यथार्थबुद्धिः, न बाह्यासु, आयतिमिति। आगामि फलमेवं भविष्यतीति ॥ ७ ॥

सुखप्रवेशितामपसारभूमिं, विशालतां वेश्मनः, प्रमादं रक्षिणामनित्यतां परिजनस्य, वर्णयेयुः ॥ ८ ॥

अपसारभूमिं अपक्रमणमार्गं, विशालामिति । विस्तीर्णत्वान्न ज्ञायते क किं वर्तत इति, प्रमादम् = असावधानताम्, अनित्यतामिति । राजपरिजनो न नित्यं संनिहित इति ॥ ८ ॥

न चासद्भूतेनार्थेन प्रवेशयितुं जनमावर्तयेयुर्दोषात् ॥ ९ ॥

असद्भूतेनेति । विना भावेन, सुप्रवेशितां विना च, जनमिति । नागरकम्, आवर्तयेयुरभिमुखीकुर्युः, दोषादिति । विना भावमदुष्टदूषणे, आत्मनः सुप्रवेशिताद्यभावे च जनस्यापकारः ॥ ९ ॥

द्वितीयं वृत्तमधिकृत्याह—

नागरकस्तु सुप्रापामप्यन्तःपुरमपायभूयिष्ठत्वान्न प्रविशेदिति वात्स्यायनः ॥ १० ॥

अपायभूयिष्ठत्वादिति । बहूनां विनाशकारणानां संनिधानात् ॥१०॥

अत्र विशेषमाह—

सापसारं तु प्रमदवनावगाढं विभक्तदीर्घकक्षमलपप्रमत्तरक्षकं-

६ अध्याये ] आन्तःपुरिकावृत्तप्रकरणम् । २६३

६ अध्याये ] आन्तःपुरिकावृत्तप्रकरणम् । २६३

प्रोषितराजकं कारणानि समीक्ष्य बहुश आहूयमानोऽर्थबुद्ध्या कक्षाप्रवेशं च दृष्ट्वा ताभिरेव विहितोपायः प्रविशेत् ॥ ११ ॥

प्रमदवनं=क्रीडावनं, तेनावगाढं गहनं, कक्षाः = प्रकोष्ठकानि, प्रोषितराजकं राज्ञोऽन्यत्र गतत्वात् , कारणान्यभिगमनस्य, बहुश आहूयमानोऽर्थबुद्ध्या, कक्षाप्रवेशं दृष्ट्वा; अनेन मार्गेण मया प्रवेष्टव्यमिति, ताभिरिति। या उपावर्तयन्ते, विहितोपाय इति। एवं वेषोऽस्मिन्काले, गृहीत्वा चेममिति ॥ ११ ॥

शक्तिविषये च प्रतिदिनं निष्क्राम्येत् ॥ १२ ॥

शक्तिविषये चेति। येन प्रतिदिनं निष्क्रमितुं शक्तिस्तस्मिन्सति ॥ १२ ॥ इदमुपावर्तनस्य वृत्तं, यस्तु स्वयमुपावर्तते तस्य वृत्तमाह-

बहिश्च रक्षिभिरन्यदेव कारणमपदिश्य संसृज्येत ॥ १३ ॥

बाह्या ये रक्षिणस्तैः सह, अन्यदेवेति। अमुकसम्बन्धेन मम त्वं भ्राता भगिनीपतिर्वेति, संसृज्येत = प्रीतिं कुर्याद्, येन तेषां तन्निवारणे शैथिल्यं स्यात् ॥ १३ ॥

अन्तश्चारिण्यां च परिचारिकायां विदिताथार्यायां सक्तमात्मानं रूपयेत्, तदलाभाच्च शोकम् ॥ १४ ॥

विदिताथार्यायामिति। मध्यनुरक्त इति, विदिताथार्यायां, सक्तं निरूपयेत्प्रकाशयेदाकारसंवर णार्थम्, एवं च दार्थ्यार्थमाह - तदलाभादिति। परिचारिकाया अप्राप्तेः शोकं निरूपयेदित्येव ॥ १४ ॥

अन्तःप्रवेशिनीभिश्च दूतीकल्पं सकळमाचरेत् ॥ १५ ॥

अन्तःप्रवेशिनीभिश्चेति। बाह्याभिरन्तःपुरप्रवेशनशीलाभिः स्त्रीभिः कारणभूताभिः, दूतीकल्पं = दूतीविधानं यथोक्तम् ॥ १५ ॥

राजप्रणिधींश्च बुध्येत ॥ १६ ॥

राजप्रणिधींश्चेति। राजचरान् बुध्येतात्मसंरक्षणार्थं, यत्र यस्मिन्प्रदेशे दूरस्थाया एव दर्शनयोगः ॥ १६ ॥

दूत्यास्त्वसञ्चारे यत्र गृहीताकारायाः प्रयोज्याया दर्शनयोगस्तत्रावस्थानम् ॥ १७ ॥

गृहीताकाराया इति। अन्यथा सत्यपि दर्शनयोगेऽवस्थानं निष्फलमेव स्यात् ॥ १७ ॥

तस्मिन्नपि तु रक्षिषु परिचारिकाव्यपदेशः ॥ १८ ॥

तस्मिन्नपि तु प्रदेशे स्थितेन रक्षिषु परिचारिकाव्यपदेशः कार्यः, यस्यामात्मा सक्तो निरूपितः ॥ १८ ॥

३४ का० सू०

२६६ सटीक कामसूत्रे [ ५ अधिकरणे,

चक्षुरनुबध्नत्यामिङ्गिताकारनिवेदनम् ॥ १९ ॥

चक्षुरनुबध्नत्यामिति। पुनः पुनः पश्यन्त्यां प्रयोज्यायाम्, इङ्गिताकारनिवेदनं भावसूचनार्थम् ॥ १९ ॥

यत्र संपातोऽस्यास्तत्र चित्रकर्मणस्तद्युक्तस्य व्यर्थानां गीतवस्तुकानां क्रीडनकानां कृतचिह्नानामापीडकस्याङ्गुलीयकस्य च निधानम् ॥२०॥

सम्पात इति। यत्रोद्देशे सम्यग्गमनं, तद्युक्तस्येति। प्रयोज्यायुक्तस्य, सानुरागमात्मानं फलके भित्तौ वा विलिख्य निदध्यात्, द्यर्थानामिति। यानि प्रयोज्याविषयमनुरागं सूचयन्ति, गीतवस्तूनां खण्डगाथावर्णादीनां पत्रस्थानां, क्रीडनकानां पुत्रिकाकन्दुकादीनां कृतचिह्नानाम्, आपीडकस्य नखदशनपदाङ्कितस्य, अङ्गुलीयकस्य स्वनामाङ्कितस्य ॥२०॥

प्रत्युत्तरं च तया दत्तं प्रपश्येत्, ततः प्रवेशने यतेत ॥२१॥

प्रत्युत्तरं चेति। तयाऽन्यया वा दत्तं प्रकर्षेण पश्येत्, तत इति। ल्यब्लोपे पञ्चमी, सानुरागं प्रत्युत्तरं दृष्ट्वेत्यर्थः, यत्नः क्रमणम् ॥ २१ ॥

प्रवेशोपायमाह—

यत्र चास्या नियतं गमनमिति विद्यात्तत्र प्रच्छन्नस्य प्रागेवावस्थानम् ॥ २२ ॥

यत्रेति। उद्यानादौ, प्रच्छन्नस्य गूढस्यावस्थानं प्राङ् नायिकागमनात्, तदानीं गमनं तु लक्षितं भवति ॥ २२ ॥

रक्षिपुरुषरूपो वा तदनुज्ञातो वेलायां प्रविशेत् ॥ २४ ॥

रक्षिपुरुषरूपो चेति। रक्षिपुरुषव्यञ्जनः, तदनुज्ञातो रक्षिणाऽनुमतो वेलायां रात्रौ ॥ २३ ॥

आस्तरणप्रावरणवेष्टितस्य वा प्रवेशनिर्हारौ ॥ २३ ॥

आस्तरणं = कुथातूलकादि, आवरणं = कम्बलादि, तद्वेष्टितस्य तस्य स्त्रिया पुरुषेण वा गृहीतस्य, निर्हारः = निष्क्रमणम् ॥ २४ ॥

पुटापुटैर्योगैर्वा नष्टच्छायारूपः ॥ २५ ॥

पुटापुटैरिति। मञ्जूषायां सपिधानायां प्रक्षिप्तस्य योगैरन्तर्धानयोगैराम्नायागतैः ॥ २५ ॥

तत्रायं प्रयोगो नकुलहृदयं चोरकतुम्बीफलानि सर्पाक्षीणि चान्तर्धूमेन पचेत्, ततोऽनेन समभागेनोदकेन पेषयेदनेनाभ्यक्तनयनो नष्टच्छायारूपश्चरति ॥ २६ ॥

६ अध्याये ] आन्तःपुरिकावृत्तप्रकरणम् । २६७

नष्टच्छायारूपश्चरतीति । कश्चिद्रूपमेव तिरस्करोति न च्छायां, यैरुभयमपि न दृश्यते ॥ २६ ॥

रात्रिकौमुदीषु च दीपिकासंवाधे सुरङ्गया वा ॥ २७ ॥

रात्रिकौमुदीषु चेति । सुखरात्रिकासु वा, दीपिकासंबाधे गृहीतदीपिकानां चेटिकानां समूहे, तद्वेषधारिणः, सुरङ्गया वा, अन्तःपुरोद्भिन्नया, प्रवेशनिर्हारौ सर्वत्र योज्यौ ॥ २७ ॥

प्रवेशनिर्हारयोरेतद्वक्ष्यमाणमुपायान्तरमाह— भवन्ति चात्र श्लोकाः —

'द्रव्याणामपि निर्हारे यानकानां प्रवेशने ।
आपानकोत्सवार्थेऽपि चेटिकानां च संभ्रमे ॥ २८ ॥

द्रव्याणामिति । सारदार्वादीनां, यानकानां = युग्यादीनां, कर्मकरैर्निर्हारे प्रवेशने च तन्मध्यवर्तिनोऽपि प्रवेशनं निष्क्रमणं चेति, सर्वत्र योज्यम्, आपानकमुत्सवः, चार्थेऽपिः, चेटिकानां च, संभ्रमे = इतस्ततोगमने ॥ २८ ॥

व्यत्यासे वेश्मनां चैव रक्षिणां च विपर्यये ।
उद्यानयात्रागमने यात्रातश्च प्रवेशने ॥ २९ ॥

व्यत्यास इति । आन्तःपुरिकाणां वेश्मपरिचये कर्मकरवेशस्य, रक्षिणां विपर्यये द्वारान्तरगमने, तथा हि-न ज्ञायते क आत्मीयः कः-पर इति, यात्रातश्चेति । चकारादुद्यानतश्च ॥ २९ ॥

दीर्घकालोदयां यात्रां प्रोषिते चापि राजनि ।
प्रवेशने भवेत्प्रायो यूनां निष्क्रमणं तथा ॥ ३० ॥

दीर्घकालोदयामिति । दीर्घकाल उदयः फलं यस्याः, शत्रुर्न यानमात्रसाध्यो भवतीत्यर्थः । ॥ ३० ॥

ननु या नैवंविधा आन्तःपुरिकास्ताभिर्मन्त्रो भिद्येतेत्याह—

परस्परस्य कार्याणि ज्ञात्वा चान्तःपुरालयाः ।
एककार्यास्ततः कुर्युः शेषाणामपि भेदनम् ॥ ३१ ॥

परस्परस्येति । कार्याणि रहस्यानि, आन्तःपुरिकाः, एककार्या इति । एकस्या यत्कार्यं तत्सम्भूयास्माभिर्निष्पाद्यमिति, कृतसङ्गानां, शेषाणां भेदनं कुर्युर्यथा ता अपि समानधर्मिण्यः स्युः ॥ ३१ ॥

किं फलमिति चेदाह—

दूषयित्वा ततोऽन्योन्यमेककार्यार्पणे स्थिरः ।
अभेद्यतां गतः सद्यो यथेष्टं फलमश्नुते ॥ ३२ ॥

२६८ सटीक कामसूत्रे [ ५ अधिकरणे,

दूषयित्वेति। एककार्यार्पण इति। एकं चारित्रखण्डनाख्यं कार्यं परस्परस्यार्पयति य आन्तःपुरिकासंघः, अभेद्यतां गतो मन्त्रभेदाभावादेवं च स्थिरः ॥ ३२ ॥

इदमान्तःपुरिकावृत्तं प्रच्छन्नमुक्तम्, प्रकाशं तु देशप्रवृत्त्या, यदाह—

तत्र राजकुलचारिण्य एव लक्षण्यान्पुरुषानन्तःपुरं प्रवेशयन्ति नातिसुरक्षत्वादपरान्तिकानाम् ॥ ३३ ॥

तत्रेति। राजकुलचारिण्यो या राजकुले चरन्ति स्त्रियः, लक्षण्यानिति। ये स्त्र्यादिलक्षणे साधवस्तज्ज्ञास्तानित्यर्थः, नातिसुरक्षत्वादिति। नात्यन्तं स्वा राजकीयास्तत्र रक्षन्ति ॥ ३३ ॥

क्षत्रियसंज्ञकैरन्तःपुररक्षिभिरेवार्थं साधयन्त्याभीरकाणाम् ॥ ३४॥

क्षत्रियसंज्ञकैरिति। नान्यै रक्षिभिः, तेषां तत्राभ्यन्तरप्रवेशाद्, अर्थमिति। सम्प्रयोगं साधयन्ति राजकुलचारिण्य इत्येव ॥ ३४ ॥

प्रेष्याभिः सह तद्वेषान्नागरकपुत्रान्प्रवेशयन्ति वात्सगुल्मकानाम् ॥ ३५ ॥

प्रेष्याभिरिति। दासीभिः, तद्वेषान् = दासीवेषान्, प्रवेशयन्ति, राजकुलचारिण्य इति वर्तते ॥ ३५ ॥

स्वैरेव पुत्रैरन्तःपुराणि कामचारैर्जननीवर्जमुपयुज्यन्ते वैदर्भकाणाम् ॥ ३६ ॥

स्वैरिति। राजापेक्षया, कामचारैरिति। अनिषिद्धसञ्चारैः, जननीवर्जमिति। मुख्यमातरं मुक्त्वा, उपयुज्यन्ते = अभिगम्यन्ते ॥ ३६ ॥

तथा प्रवेशिभिरेव ज्ञातिसंबन्धिभिर्नान्यैरुपयुज्यन्ते स्त्रैराजकानाम् ॥ ३७ ॥

तथा प्रवेशिभिरिति। राजपुत्रवत् प्रवेशिभिः, ज्ञातिसम्बन्धिभिः, नान्यैरुपभुज्यन्ते, स्त्रैराजकानामिति। स्त्रीराजः = स्त्रीपुरी, तत्र भवानाम् ॥ ३७ ॥

ब्राह्मणैर्मित्रैर्भृत्यैर्दासचेटैश्च गौडानाम् ॥ ३८ ॥

मित्रैर्भृत्यैरिति। मित्रैश्च भृत्यैश्च, दासचेटैरिति। दासा गृहजातास्ततोऽन्ये चेटाः, गौडानामिति। गौडाः कामरूपकाः प्राच्यविशेषाः ॥३८॥

परिस्कन्दाः कर्मकराश्चान्तःपुरेष्वनिषिद्धा अन्येऽपि तद्रूपाश्च सैन्धवानाम् ॥ ३९ ॥

परिस्कन्दाः = प्रतीहाराः, कर्मकराः = शयनासनचमरादिकर्मकराः,

इत्यान्तःपुरिकावृत्तमष्टचत्वारिंशं प्रकरणम् ॥

६ अध्याये ] दाररक्षकप्रकरणम् । २६९

अन्येऽपि तद्रूपा येऽनिषिद्धसंचाराः, उपयुज्यन्त इत्यर्थकत्वाद्द्विभक्तिवि- परिणामेन संबन्धः, सैन्धवानामिति । सिन्धुनामा नदस्तस्य पश्चिमेन सिन्धुदेशस्तत्र भवानाम् ॥ ३९ ॥

अर्थेन रक्षिणमुपगृह्य साहसिकाः संहताः प्रविशन्ति हैमवता- नाम् ॥ ४० ॥

अर्थेनोपगृह्य रक्षिणां लुब्धत्वात्, साहसिका निर्भया नान्ये, संहताः एकीभूय, हैमवतानामिति । हिमवद्द्रोणीभवानाम् ॥ ४० ॥

पुष्पदाननियोगान्नगरब्राह्मणा राजविदितमन्तःपुराणि गच्छ- न्ति पटान्तरितश्चैषामालापः, तेन प्रसङ्गेन व्यतिकरो भवति वङ्गाङ्गकलिङ्गकानाम् ॥ ४१ ॥

नगरब्राह्मणा इति । तत्रैव नगरे ये ब्राह्मणास्ते पुष्पाणि दातुमन्तःपुरं- गच्छन्ति, राजविदितमिति । राजप्रज्ञातम् , पटान्तरितश्चैषामालापो- न ताभिः साक्षाद् दृश्यमानाभिरिति देशस्थितिः, तेनेति । पुष्पदानप्र- सङ्गेन, व्यतिकरः = संप्रयोगः, वङ्गाः तिरुहितात् पूर्वेण, अङ्गा महानद्याः- पूर्वेण, कलिङ्गा गौडविषयाद्दक्षिणेन ॥ ४१ ॥

संहत्य नव दशेत्येकैकं युवानं प्रच्छादयन्ति प्राच्यानामित्येवं- परस्त्रियः प्रकुर्वीत ॥ ४२ ॥ इत्यान्तःपुरिकावृत्तम् ॥

संहत्य नव दशेतीति । अत्रेतिशब्दः प्रकारे, एकैकं युवानं व्यवायक्ष- मं प्रच्छादयन्ति न यथा दृश्यते, एवमित्युक्तेन पारदारिकेण विधिना प्र- कुर्वीताभिगच्छेत् ॥ ४२ ॥

इत्यान्तःपुरिकावृत्तमष्टचत्वारिंशं प्रकरणम् ॥

यथा परस्त्रियमेभिरुपायैरभिगच्छेत्तथा तद्दारानपरोऽपीति, दार- रक्षकमुच्यते, दाररक्षा प्रयोजनमस्येति, यदाह—

एभ्य एव च कारणेभ्यः स्वदारान्रक्षेत् ॥ ४३ ॥

एभ्य एवेति । कारणेभ्य इति । निमित्तेभ्यः, तत्र व्यावत्र्तनकारणब- र्धनेन तदुच्छेदनकारणेभ्यो रक्षेत्, तथा सिद्धपुरुषेभ्यः, यैश्च द्वारदे- शावस्थानादिभिः कारणैरभियोगमात्रसाध्यत्वं, यानि च परिचयकार- णानि, अभियोगदूतीकर्माणि, ईश्वरकामितोपाय आन्तःपुरिकावृत्तं च तेभ्यो रक्षेत्, तत्रायं प्रथमो रक्षणोपायो यद्रक्षानिवेशनम् ॥ ४३ ॥

यदाह—

कामोपधाशुद्धान्रक्षिणोऽन्तःपुरे स्थापयेदित्याचार्याः ॥४४॥

२७०सटीके कामसूत्रे[ ५ अधिकरणे,

कामोपधेति । कामविषये या परीक्षा तया शुद्धान् ॥ ४४ ॥

ते हि भयेन चार्थेन चान्यं प्रयोजयेयुस्तस्मात्कामभयार्थोपधाशुद्धानिति गोणिकापुत्रः ॥ ४५ ॥

ते हीति । यद्यपि स्वयं कामोपधाशुद्धा नाभिगच्छन्ति, तथाऽपि भयेन लोभेन वाऽन्यं प्रयोजयेयुस्तदशुद्धिसंभवात्तस्मात् कामभयार्थोपधाशुद्धान् स्थापयेदिति गोणिकापुत्रः ॥ ४५ ॥

अद्रोहो धर्मस्तमपि भयाज्जह्यादतो धर्मभयोपधाशुद्धानिति वात्स्यायनः ॥ ४६ ॥

धर्मभयोपधाशुद्धानिति । वात्स्यायन एवं मन्यते धर्मोपधाशुद्धो न परदारानभिगच्छति, नार्थलोभात्स्वामिद्रोहमाचरति, भयात्तु धर्मं परित्यजेदिति ॥ ४६ ॥

स्वदारेषु परीक्षणमपि रक्षणोपाय इति के चिदित्याह—

परवाक्याभिधायिनीभिश्च गूढाकाराभिः प्रमदाभिरात्मदारानुपदध्याच्छौचाशौचपरिज्ञानार्थमिति बाभ्रवीयाः ॥ ४७ ॥

परवाक्येति । अमुकस्त्वय्यनुरक्तः स एवमाह-मम प्राणा धार्यन्तामिति । गूढाकाराभिरिति । यथा सा न जानाति पत्या प्रयुक्तेति, तयोपद्ध्यात्परीक्षेत, तथा ह्यप्रतिपन्नायाः शौचं, प्रतिपन्नायाश्चाशौचं ज्ञातं भवति ॥ ४७ ॥

दुष्टानां युवतिषु सिद्धत्वान्नाकस्माददुष्टदूषणमाचरेदिति वात्स्यायनः ॥ ४८ ॥

दुष्टानामिति । विनाशकारणानामित्यर्थः, एवं मन्यते विनाशकारणेषु सत्स्वसत्सु वा परीक्षावान्स्यात्, तत्र पूर्वस्मिन्पक्षे दुष्टानां युवतिषु प्रत्यक्षेण सिद्धत्वात् किं परीक्षया, द्वितीयेऽप्यकस्मात् कारणेन विना, नादुष्टानाभविद्यमानविनाशकारणानां दूषणमाचरेद्, शुद्धशोधनस्य दोषवत्त्वाद्, यथाक्तम्—

न शोधनमदुष्टस्य विशेषेणाभसश्चरेत् ।
कदा विद्धि प्रदुष्टस्य नाधिगम्येत भेषजम् ॥ ४८ ॥

तस्माद्विनाशकारणान्येव निरूप्यानि, येभ्यो व्यावर्तनेनोपदध्यादित्याह—

अतिगोष्ठी, निरङ्कुशत्वं, भर्तुः स्वैरता, पुरुषैः सहानियन्त्रणता, प्रवासेऽवस्थानं, विदेशे निवासः, स्वतन्त्र्युपवातः, स्वैरिणीसंसर्गः, पत्युरीर्ष्याळुता, चेति स्त्रीणां विनाशकारणानि ॥ ४९ ॥

६ अध्याये ] दाररक्षकप्रकरणम् । २७१

६ अध्याये ] दाररक्षकप्रकरणम् । २७१

अतिगोष्ठी = स्त्रीभिः सह सदा गोष्ठी, भर्तुःस्वैरता = भर्त्रा स्वातन्त्र्येण व्यवहारिता, पुरुषैः यैः कैश्चिदनियन्त्रणता = नियन्त्रणाभावः, प्रवासेऽवस्थानं = भर्तरि प्रोषिते यदेकोकिन्याऽवस्थातव्यं, विदेशे वासः = स्वस्थानादन्यस्मिन् स्थाने वासः, स्ववृत्त्युपघातः = स्वशरीरस्थित्युपघातो ग्रासाच्छादनवैकल्याद्, स्वैरिण्याः = पुंश्चल्याः संसर्गः, पत्युरीर्ष्यालुतेति । पत्यावीर्ष्यासम्भव इति विनाशकारणानि, एषु सत्सु परदाराभिमर्शयोगसम्भवात् ॥ ४९ ॥

अधिकरणार्थमुपसंहरन्नाह—

संदृश्य शास्त्रतो योगान् पारदारिकलक्षितान् ।
न याति छलनां कश्चित्स्वदारान्प्रति शास्त्रवित् ॥ ५० ॥

पारदारिकलक्षितानिति । पारदारिकेऽधिकरणे ये प्रोक्तास्तैर्लक्षितान्, शास्त्रविदिति । अन्यथा कथमेताः शास्त्रतः पश्येत् ॥ ५० ॥

पाक्षिकत्वाच्च योगानामपायानां च दर्शनात् ।
धर्मार्थयोश्च वैलोम्यान्नाचरेत्पारदारिकम् ॥ ५१ ॥

पाक्षिकत्वादिति । यदाऽन्यकारणानि पश्येद्, अपायानां च शरीरोपघातादीनां, वैलोम्यादिति । विपक्षत्वात्, परदारप्रयोजनप्रयोगन्नाचरेदिति ॥ ५१ ॥

तर्हि किमर्थं ? तदधिकरणमुक्तमिति चेदाह—

तदेतद्दारगुप्त्यर्थमारब्धं श्रेयसे नृणाम् ।
प्रजानां दूषणायैव न विज्ञेयो ह्ययं विधिः ॥ ५२ ॥

इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमेऽधिकरणे आन्तःपुरिकं दाररक्षकं षष्ठोऽध्यायः।

तदेतदिति । श्रेयस इति । अन्यथा खण्डितचारित्रायां सर्वधर्मविलोयः स्यात्, प्रजानामिति । न हि तदर्थं मुख्यं विधानमित्यर्थः ।

इति दाररक्षकमेकोनपञ्चाशत्तमं प्रकरणम् ।

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां पारदारिके पञ्चमेऽधिकरणे आन्तःपुरिकं दाररक्षकं षष्ठोऽध्यायः।


समाप्तं चेदं पारदारिकं नाम पञ्चममधिकरणम् ।

वैशिकं नाम षष्ठमधिकरणम् ।

प्रथमोऽध्यायः ।

तिसृभिर्नायिकाभिः समागमोपाय उक्तो वेश्याभिः सह वक्तव्यस्तदर्थं वैशिकमधिकरणमुच्यते, तत्र सहायादिनिरूपणव्यापारपूर्वकत्वादुत्तरव्यापारस्य सहायगम्यागम्यगमनकारणचिन्तोच्यते, पुंवैश्ययोस्तुल्येऽपि रतिफले वेश्याया एव प्रयोक्तृतया तत्राधिकारः, न पुंसः तत्प्रतिबद्धत्वाजीविकायास्तदाह—

वेश्यानां पुरुषाधिगमे रतिर्वृत्तिश्च सर्गात् ॥ १ ॥

वेश्यानामिति । पुरुषस्याधिगमे प्राप्तौ सतीति शेषः, रतिर्विस्सृष्टिसुखं, वृत्तिर्जीविका, अर्थोपादानात्, सर्गादिति । सृष्टेः, एषैव हि सृष्टिर्यत्कामोऽर्थाधिगमश्च वेश्यानां, कामोऽर्थनाशश्च पुंसामिति ॥ १ ॥

रतितः प्रवर्तनं स्वाभाविकं, कृत्रिमअर्थार्थम् ॥ २ ॥

रतित इति । तत्र द्वयोः फलयोर्यदा रतिमभिसंधाय प्रवर्तनं तदा स्वाभाविकं, तत्र रागस्य सहजत्वाद्, यदा त्वर्थमभिसंधाय तदा कृत्रिमं,- रागाभावात् ॥ २ ॥

तदपि स्वाभाविकवद्रूपयेत् ॥ ३ ॥

तदपीति । तदपि कृत्रिमं स्वाभाविकवद्रूपयेत्प्रकाशयेत्कान्तानुवृत्त्या ॥ ३ ॥

किमर्थं तत्राह—

कामपरासु हि पुंसां विश्वासयोगात् ॥ ४ ॥

कामेति । स्नेहेन मयि वर्तत इति पुंसां विश्वासयोगः = सक्तियागः, न त्वर्थपरासु ॥ ४ ॥

कामपरतां च ख्यापयन्ती नार्थरूपतामपि ख्यापयेदित्याह—

अलुब्धतां च ख्यापयेत्तस्य निदर्शनार्थम् ॥ ५ ॥

अलुब्धतामिति । तस्य निदर्शनार्थमिति । स्वाभाविकत्वस्य ख्यापनार्थम् ॥ ५ ॥

एवं च सति सक्ताद्वित्तोत्थानमपि स्वाभाविकं सिद्धं भवति, तत्रापि विनोपायेन नाददीतेत्याह—

न चानुपायेनाथान्सिाधयेदायतिसंरक्षणार्थम् ॥ ६ ॥

१ अध्याये] सहायगम्यागम्यगमनकारणचिन्ताप्रकरणम् । २७३

न चेति । आयतीति । आयतिः प्रभावः ॥ ६ ॥

तत्र सहायचिन्तामाह--

नित्यमलंकारयोगिनी राजमार्गावलोकिनी दृश्यमाना न चातिविवृता तिष्ठेत् पण्यसधर्मत्वात् ॥ ७ ॥

नित्यमिति। सदाऽलंकृता स्यादन्यथाऽऽयतिहानिः, निरुज्ज्वलत्वाद्, राजमार्गावलोकिनी स्याद् गम्यैर्यथा दृश्येत तथा, तत्रापि दृश्यमाना नातिविवृता नाति प्रकटा स्यात् , पण्यसधर्मत्वादिति । अतिप्रकटं-पण्यमपि न श्लाघनीयं भवति ॥ ७ ॥

यैर्नायकमावर्जयेदन्याभ्यश्चावच्छिन्द्यादात्मनश्चानर्थं प्रतिकु-र्यादर्थं च साधयेन्न च गम्यैः परिभूयेत तान्सहायान्कुर्यात् ॥ ८ ॥

यैरिति । आवर्जयेदभिमुखीकुर्याद्, अन्याभ्यश्च स्त्रीभ्योऽवच्छि-न्द्यात्संसृष्टमाकर्षयेद्, आत्मनश्चानर्थं राजकुलादन्यस्माद्वोत्पन्नं प्रतिकु-र्याद्, अर्थं च प्राप्तं साधयेद्, न च गम्यैः कामुकैः परिभूयेत, याना-श्रित्य तान सहायान्कुर्याद्यथोक्तकार्यसाधकानित्यर्थः ॥ ८ ॥

ते त्वारक्षकपुरुषा धर्माधिकरणस्था दैवज्ञा विक्रान्ताः शूराः समानविद्याः कलाग्राहिणः पीठमर्दविटविदूषकमालाकारगान्धिकशौण्डिकरजननापितभिक्षुकास्ते च ते च कार्ययोगात् ॥ ९ ॥

आरक्षकाः=नागरकादयः, धर्माधिकरणस्थाः=प्राड्विवाकादयः, उभयेऽप्यनर्थघातिनोऽर्थसाधकाः, दैवज्ञाः=ज्योतिर्गणकाः, ये शुभाशुभं क-थयन्तीति तया संयोगे ते वृद्धिर्भविष्यतीति गम्यं प्रोत्साह्य योजयन्ति, विक्रान्ताः=शरीरनिरपेक्षाः साहसिक्राः, ततोऽन्ये शूराः, उभयेऽनर्थं घ्न-न्त्यर्थं च साधयन्ति, समानविद्या इति। ते स्निह्यन्तोऽस्यास्त्वर्थं साधय-न्ति, कलेति। ये नायिकातः कलां गृह्णन्ति ते तद्विज्ञतां प्रकाशयन्तो ग-म्यान्योजयन्ति, पीठमर्दादयः स्वकर्मभिरर्थकृतः परभवनप्रवेशाद्गम्यं यो-जयन्ति, ते च ते च कार्ययोगादिति । कश्चिदेव किञ्चित्कार्यं साधयतीति, तद्वशादन्येऽपि स्युः, सहायाः प्रियहिताभ्यामनुवर्तनीयाः, न त्वभिगम्याः, तदभिगमने स्वार्थमेवैते कुर्युर्न तदर्थम् ॥ ९ ॥

गम्यचिन्तामाह--

केवलार्थास्त्वमी गम्याः स्वतन्त्रः, पूर्वे वयसि वर्तमानः, वित्तवा-न, अपरोक्षवृत्तिः, अधिकरणवान्, अकृच्छ्राधिगतवित्तः, संघर्षवान्, सन्ततायः, सुभगमानी, श्लाघनकः, षण्डकश्च, पुंशब्दार्थी, समा-

३५ का० सू०

२७४सटीके कामसूत्रे[ ६ अधिकरणे

नस्पर्धी, स्वभावतस्त्यागी, राजनि महामात्रे वा सिद्धः, दैवप्रमाणः, वित्तावमानी, गुरूणां शासनातिगः, सजातानां लक्ष्यभूतः, सवित्तः, एकपुत्रः, लिङ्गी, प्रच्छन्नकामः, शूरः, वैद्यश्चेति ॥ १० ॥

गमनाहा गम्याः, अर्हे कृत्यप्रत्ययः, ते द्विविधाः-केवलाथीः केवलः प्रीतिरहितोऽर्थो येभ्य इति, प्रीतियशोऽर्थाश्च र्तियशसी अर्थः प्रयोजनं येभ्योऽर्थस्त्वानुषङ्गिकः, स्वतन्त्रो गुरुष्वपरायत्तः, पूर्वे वयसि वर्त्तमानो न वृद्धः, वित्तवान् न दरिद्रः, अपरोक्षेति । अपरोक्षा प्रत्यक्षा न देशान्तरवृत्तिर्जीवनं यस्य, परोक्षवृत्तेस्तु यदा ततः किञ्चिदेष्यति तदा दास्यतीति कदर्थितं दानं स्याद्, अधिकरणवानध्यक्षो योऽर्थाधिकारेऽधिकृतः सोऽर्थदः, अकृच्छ्रेति । येन क्लेशं विनाऽन्वयाधिगतं निधिलाभाद्वा राजप्रसादाद्वाऽवाप्तं धनं सोऽकृच्छ्रेण ददाति, अन्यथा कृच्छ्रप्रदः स्यात्, संघर्षवानिति । स्पर्धावानन्येन गम्येन बहु ददाति, सन्ततायः शौल्लिको वार्धुषिकश्च, सुभगाभिमानीति । दुर्भगोऽपि यः सुभगमात्मानमभिमन्यते दुर्भगत्वादात्मनोऽप्रकटयितुं नायिकामन्यतो व्यावत्र्त्तयन् बहु ददाति, श्लाघनिकः स्वश्लाघाकर्तुर्बहुप्रदः, षण्डको नपुंसकः स पुंस्त्वख्यापनार्थं बहु ददाति, पुंशब्दार्थी मां लोकः पुमानित्यभिदध्यादित्यपेक्षी याच्यमानो ददाति, समानस्पर्धीति । यौ कुलविद्यावित्तवयोभिः समानौ तयोरन्यतरं स्पर्धते वेश्या सेयमनेन समानेनाधिका कृता, अहमपि यां काञ्चिदधिकतरां करोमीति, स आधिक्यमिच्छन्नाश्वेवाधिकव्ययेन गम्यः, संघर्षिता चैकस्मिन् विषये द्रष्टव्या, स्वभावतस्त्यागी सोऽवश्यं ददाति दातृस्वभावत्वात्, सिद्धो ग्राह्यवचनः स यदि स्वयं न ददाति राजानममात्यं वाऽभिधाय दापयति ममेयं प्रीतेति, दैवप्रमाणो भाग्यक्षयेण क्षीयते नोपभोगेन संपदिति मन्यमानो बहु ददाति, वित्तावमानीति । कुलसमं द्रव्यमित्यवमन्यमानो ददाति, गुरूणामिति । तदधीनस्य पराधीनत्वादबहुदातृत्वं गुरुवचनमतिक्रम्य यः प्रवर्त्तते सोऽपकार्यमपि कृत्वा ददाति, सजातानामिति । दायादानामेकस्मिन् गृहे वर्त्तमानानां यो लक्ष्यभूतः प्रधानभूतः स दाता नान्यः, एकपुत्र इति । बहु प्रयच्छन्नपि न पितृभ्यां स निवार्यते माऽन्यत्र यासीदिति, लिङ्गी = प्रव्रजितः, प्रच्छन्नकामी प्रकटं न कामयते लोको मा ज्ञासीदिति स कामेन बाध्यमानो बहु ददाति, शूरो यः सहायभावेनोपचरितो वित्तवांश्च स हि नार्थगृध्नुः, वैद्यस्य दातृत्वाभावेऽपि व्याधितायाश्चिकित्साकारित्वाद्दातृत्वमेव ॥१०॥

१ अध्याये ] सहायगम्यागम्यगमनकारणचिन्ताप्रकरणम् । २७५

प्रीतियशोऽर्थास्तु गुणतोऽधिगम्याः ॥ ११ ॥

प्रीतीति । यतो गुणवद्भ्य एव प्रीतियशश्च भवति ॥ ११ ॥

यच्चोक्तमुभयोरपि गुणागुणान्वैशिके वक्ष्याम इति तानाह-तत्र नायकमधिकृत्याह--

महाकुलीनः, विद्वान्, सर्वसमयज्ञः, कविः, आख्यानकुशलः, वाग्मी, प्रगल्भः, विविधशिल्पज्ञः, वृद्धदर्शी, स्थूललक्षः, महोत्साहः, दृढभक्तिः, अनसूयकः, त्यागी, मित्रवत्सलः, घटागोष्ठीप्रेक्षणकसमाजसमस्यक्रीडनशीलः, नीरुजः, अव्यङ्गशरीरः, प्राणवान्,-मद्यपः, वृषः, मैत्रः, स्त्रीणां प्रणेता लालयिता च, न चासां वशगः, स्वतन्त्रवृत्तिः, अनिष्ठुरः, अनीर्ष्यालुः, अनवशङ्की, चेति नायकगुणाः ॥ १२ ॥

महेति । महत् कुलं यस्य तस्यापत्यं, विद्वान्=आन्वीक्षिक्यादिज्ञः, आख्यानकुशलः=कथाकुशलः, वाग्मी=वक्ता, सर्वेति । पाषण्डादिसमय-परिज्ञाता, कविः=संस्कृतादिकाव्यकृत्, प्रगल्भः=प्रतिभावान्, शिल्पं=लेख्यादि, वृद्धदर्शी=विद्यावयोवृद्धानामुपासकः, स्थूललक्षः=महेच्छः, महोत्साह इति । यो महतोत्साहेन युक्तः, महत्त्वं च गुणान्तरयोगाद्, यथोक्तं-'शौर्यममर्षता शीघ्रता दाक्ष्यं चोत्साहगुणा' इति, दृढभक्तिः-न हरिद्राराग इव प्रीतिर्यस्य, अनसूयुः=क्षमावान्, त्यागी=दाता, मित्रवत्सलः, मित्रेष्वत्यन्तप्रीतिमाधत्ते, घटाऽऽदिशीलः, घटाऽऽदयः शीलयति सः, घटागोष्ठ्यौ व्याख्याते, प्रेक्षणकं=नटादिदर्शनं, समाजः=पानगोष्ठी, समस्यक्रीडा=संभूय क्रीडा, नीरुजः=अरोगप्रकृतिः, अव्यङ्गम्=अहीनम्, प्राणः=बलम्, अमद्यपः=ब्राह्मणः, अर्थाल्लभ्यते, वृषः=व्यवायक्षमः, मैत्रः=करुणावान्, स्त्रीणां प्रणेता प्रणेतृत्वमुपदेशेन तासां समुदाचारेषु स्थापनं, लालनं तासां शरीरस्थितिवैकल्यसंवरणं, न चासामिति। स्त्रीणां वशगो-वश्यः, स्वतन्त्रवृत्तिः, स्वतन्त्रकृत्येषु न परायतः, अनीर्ष्यालुः=ईर्ष्यारहितः, अनवशङ्की=निःशङ्कमारम्भावान्, नायकगुणा इति । गुणिद्वारेण गुणाभिधानमत्र प्रकरणाद्यत्तत्वाद्, गम्यगुणा इति वक्तव्ये नायकग्रहणं-सामान्यसंज्ञाप्रतिपत्त्यर्थं; ततश्च पूर्वोक्तं गुणागुणान् वैशिके वक्ष्याम-इति तद्व्याख्यातं भवति, स एव नायको गुणान्तरयोगात् कन्यापुनर्भू-परदारवेश्याऽपेक्षया यथाक्रमं वरो जारः सिद्धो गम्यश्चेति संज्ञाऽन्तराणि लभते ॥ १२ ॥

२७६ सटीके कामसूत्रे [ ६ अधिकरणे,

रूपयौवनलक्षणमाधुर्ययोगिनी, गुणेष्वनुरक्ता न तथाऽर्थेषु, प्रीतिसंयोगशीला, स्थिरमतिः, एकजातीया, विशेषार्थिनी, नित्यमकदर्यवृत्तिः, गोष्ठीकलाप्रिया, चेति नायिकागुणाः ॥ १३ ॥

रूपेति । रूपं = वर्णसंस्थानं यच्छोभनं, लक्षणं = सौभाग्यादिसूचकम्, माधुर्यं = प्रियवाक्यत्वं, तयोर्गः स यस्यास्तद्योगिनीति, तेषु गुणेषु नायकसंबन्धिष्वनुरक्ता, न तथाऽर्थेषु तदीयेषु, प्रीतिसंयोगशीलेति । प्रीतिग्रहणं बाह्यसंयोगनिवृत्त्यर्थं रतिसंभोगशीलेत्यर्थः, स्थिरमतिः, कर्तव्यमिति निश्चित्यान्यथा न करोति, एकजातीयेति । एकप्रकारा, न मायाविनी, विशेषार्थिनी न यत्र क्व चन वस्तुनि रमते, अकदर्यवृत्तिरिति । आत्मवृत्त्यवरोधेनार्थसंचयः कदर्यवृत्तिः सा न यस्याः, तत्रापि न कदाचिदित्याह-नित्यमिति । गोष्ठीकलाप्रियेति । गोष्ठी या क्रीडामात्रैककार्या, नायिकागुणा इति । अत्रापि पूर्ववद्वैश्याया इति नोक्तम् ॥ १३ ॥

एते द्वयोरप्यसाधारणास्साधारणानाह—

बुद्धिशीलाचारः, आर्जवं, कृतज्ञता, दीर्घदूरदर्शित्वम्, अविसंवादिता, देशकालज्ञता, नागरकता, दैन्यातिहासपैशून्यपरिवादक्रोधलोभस्तम्भचापलवर्जनं, पूर्वाभिभाषिता, कामशास्त्रे कौशलं, तदङ्गविद्यासु चेति साधारणगुणाः ॥ १४ ॥

बुद्धीति । बुद्धिः प्रज्ञा, शीलं = सुस्वभावता, आचारः = देशकालोचितः समुदाचारः, आर्जवम् = अवक्रता, कृतज्ञता = पूर्वोपकारस्मरणं, दीर्घदूरदर्शित्वम् = आगामिनोऽर्थस्य देशान्तरगतस्य परिज्ञानम्, अविसंवादिता = प्रतिज्ञायान्यथा न करणं, देशकालज्ञता, अस्मिन् देशे काले चेदं प्रयुज्यत इति, नागरकता = नागरकवृत्तानुष्ठानं, दैन्यं = याच्ञा, अतिहासः = नित्य हसनता, पैशून्यं = परस्परसंभेदनम्, परिवादः = परदोषोदाहरणं, क्रोधः = कोपः, लोभः = तृष्णा, स्तम्भः = मान्येष्वप्रतिपत्तिशीलता, चापलम् = अधैर्यं, तेषां, वर्जनं = त्यागः, तेन गुणा एवोक्ता अदैन्यादयः, पूर्वाभिभाषिता यावदेव परो न संभाषते, कामशास्त्रे कौशलं = कामशास्त्रपरिज्ञानं, तदङ्गविद्यासु च नृत्यादिषु कौशलम् , अत्र न गुणिद्वारेण गुणाभिधानं, साधारणत्वाद्, अन्यतरलिङ्गनिर्देशेन हि गुणाभिधाने साधारणत्वन्न गम्यते ॥ १४ ॥

गुणविपर्यये दोषाः ॥ १५ ॥

गुणविपर्यय इति । साधारणानां विपर्यये, दोषा दौष्कुलेयत्वादयोवैरूप्यादयो दौर्बुद्ध्यादयश्च, तद्योगान्न नायको नापि नायिकोच्यते ॥ १५ ॥

१ अध्याये ] सहायगम्यागम्यगमनकारणचिन्ताप्रकरणम् । २७७

सत्स्वपि गुणेषु दोषान्तरयोगादगम्या इत्यगम्यचिन्तामाह—

क्षयी, रोगी, कृमिशकृद्, वायसास्यः, प्रियकलत्रः, परुषवाक्, कदर्यः, निर्घृणः, गुरुजनपरित्यक्तः, स्तेनः, दम्भशीलः, मूलकर्मणि प्रसक्तः, मानापमानयोरनपेक्षी, द्वेष्यैरप्यर्थहार्यः, अतिलज्जः, इत्यगम्याः ॥ १६ ॥

क्षयीति । क्षयः=राजयक्ष्मा, रोगशब्दः सामान्यवाच्यपि लोकप्रसिद्ध्या कुष्ठवाची, द्वयोरपि सांक्रामिकत्वात् , कृमिशकृदिति । पुरीषमक्षिकति प्रसिद्धा, सा हि यस्मिन्ब्रणे पुरीषं मुञ्चति तत्र कृमिर्भवति, तद्वच्छुक्रं तत्संसर्गाद्या हि गर्भमाधत्ते सा स्त्री जरां धत्ते, वायसास्यः=दुर्गन्धमुखः, स वैमुख्यं जनयति, यद्वा-काकः शुच्यशुचौ मुखं निक्षिपति, एवं निर्विचारं स्त्रीत्येव यः कामयते स तासामनभिगमनीयः स्यात् , प्रियकलत्र इति । तस्यान्यत्रानासक्तेः नाप्यर्थदः, परुषवाग्=असह्यवाक्, कदर्यः, य आत्मानं भृत्यांश्च संपीड्यार्थसंचयकरः, निर्घृणः=निर्दयः, उभावप्यदातारावकार्यकरौ च, गुरुजनपरित्यक्तः, दुष्टत्वात् सोऽभिगतो दोषमपि कुर्यात् , स्तेनः=चोरः, तत्संपर्कादर्थापगमः, दम्भशीलः, मायया व्यवहरन् कथमर्थदः, मूलकर्मणि=वशीकरणादौ प्रसक्तः, तेन हि वशीकृतायां नान्यत्र प्रवृत्तिः शरीरवैरूप्यं च, अनपेक्षी यो मानमपरेण क्रियमाणमगुणज्ञतया नापेक्षते; अपमानमपि नीचप्रकृतित्वात् तस्य संपर्काद् भूमिकाऽपि पतति, द्वेष्यैरप्यर्थहार्यः, यो द्वेष्यैरप्यर्थलोभात्संधत्ते स लुब्धः कथं ददाति, अतिलज्जः, यो लोके वेश्यासंपर्केणातिलज्जते स कथं तामभिगच्छेद्व्याच्च ॥ १६ ॥

यैः कारणैरभिगमनं तत्र चिन्तामाह—

रागः, भयम् , अर्थः, संघर्षः, वैरनिर्यातनं, जिज्ञासा, पक्षः, खेदः, धर्मः, यशः, अनुकम्पा, सुहृद्वाक्यं, ह्रीः, प्रियसादृश्यं, धन्यता, रागापनयः, साजात्यं, साह्वेश्यं, सातत्यम् , आपत्तिश्च, गमनकारणानि भवन्तीत्याचार्याः ॥ १७ ॥

राग इति । क चित्स्वाभाविक उत्पन्नः, भयं=व्यापादनभयं, यथा रम्भाया रावणाद्, यदि मां न कामयसे व्यापाद्यसे मयेति, अर्थः=भूष्यादिलाभः, संघर्षः=स्पर्धा यथा देवदत्ताया अनङ्गसेनेयेति ततो हि समाकृष्य स्पर्धया मूलदेवः कामितः, वैरं निर्यातयन्ती क चिदभिगच्छति, जिज्ञासेति । विदग्धोऽयमिति श्रूयते तत्किं तथैवेति, पक्षः=आश्रयः,

पञ्चाशत्तमं प्रकरणम् ॥

२७८ सटीके कामसूत्रे [ ६ अधिकरणे,

यमाश्रित्य कार्यं साधयति, खेदः=परिश्रमः संप्रयोगो हि जीविका तत्र चाकृतखेदा सहसा क्व चित्क्व चित्प्रवृत्ता विमर्दं न सहेत, धर्मः अकिञ्चनविद्वद्ब्राह्मणाभिगमनाद्, यशः कस्यां चित्तिथौ कामसत्रप्रदानाद्, अनुकम्पा अकामयमानायां त्वयि म्रियेऽहमित्येवंवादिनि दया भवति, सुहृद्वाक्यं मम प्रीतिकरः समायातस्तेन सहाद्य शयितव्यमिति, ह्रीः, यो-गुरुस्थानीयोऽभिमतं भाणयति सोऽपि लज्जयाऽभिगम्यते, प्रियसादृश्यं मत्प्रियस्यायं सदृश इत्यनुरागवशात् काम्यते, धन्यतेति । पुण्यवानयमतोऽस्य संयोगात् कीर्तनीयाऽहं भविष्यामि, यत एष गुणवान् कुलीनो धनवान्रूपवांश्च, रागापनयः शुक्रधातोरुद्रिक्तस्य कं चिदभिगम्यापनयनं, साजात्यं सजातिरयमिति विप्रतिपन्नायाः कुलयोषितोऽभिगमनकारणमेतत् , साहवेश्यं सहवेशकोऽयमिति, सातत्यं=नित्यसाहचर्यम्, आयतिः=प्रभावः ॥ १७ ॥

अर्थोऽनर्थप्रतीघातः प्रीतिश्चेति वात्स्यायनः ॥ १८ ॥

अत्राह शास्त्रकारः—परिगणनमेतत्प्रदर्शनं वा, तत्र परिगणने चिकित्सा मैत्री शोकापनयः कलाऽऽगम इत्येवमादीनामपि सम्भवात् , प्रदर्शने चार्थोऽनर्थप्रतीघातः प्रीतिरिति तावद्वक्तव्यं सर्वेषामत्रैवान्तर्भावात्, तत्र संघर्षजिज्ञासापक्षखेदधर्मयशःसुहृद्वाक्यायतिकलाऽऽगमा-अर्थे, भयं वैरमनुकम्पा शोकापनय इत्यनर्थप्रतीघाते, शेषाः प्रीतौ स्नेह इत्यर्थः, हीरपि प्रीत्यंशमेव स्पृशति ॥ १८ ॥

अर्थं तु प्रीत्या न बाधेतास्य प्राधान्यात् ॥ १९ ॥

अर्थमिति । अर्थप्रीत्योर्यथास्वं विषयेषु युगपत्प्रत्युपस्थिते प्रीतिविषयं त्यक्त्वाऽर्थविषयमधिगच्छेदित्यर्थः, अर्थस्य प्राधान्यात्तत्प्रतिबद्धत्वात्तज्जीविकायाः ॥ १९ ॥

भयादिषु तु गुरुतालाघवं परीक्ष्यम् ॥ २० ॥ ॥ इति सहायगम्यागम्यगमनकारणचिन्ता ॥

भयादिषु त्वनर्थेषु गुरुतालाघवं परीक्ष्यं कोऽत्र गुरुर्यम्प्रति करिष्यामीति, अर्थानर्थप्रतीकारयोस्तु गुरुतालाघवमग्रे वक्ष्यति ॥ २० ॥ इति सहायगम्यागम्यगमनकारणचिन्ता पञ्चाशत्तमं प्रकरणम् ॥

एवं सहायं निरूप्य गम्यमभिमुखीकुर्यादिति गम्योपावर्तनमुच्यते—

उपमन्त्रिताऽपि गम्येन सहसा न प्रतिजानीयात् पुरुषाणां सुलभविमानित्वाद् ॥ २१ ॥

१ अध्याये ] गम्योपावर्त्तनप्रकरणम् । २७९

उपेति। स्वयमनुपावर्त्तितेन नायकेनाभिगन्तुं प्रार्थिता न सहसा प्रतिजानीयात् तत्क्षणमेव नाङ्गीकुर्यादित्यर्थः, सुलभावमानित्वात्, तथा- चोक्तं "सुलभामवमन्यते, दुर्लभाभिकाङ्क्षत इति प्रायोवादः," पुनःपुन- रुपमन्त्र्यमाणा तु प्रतिजानीयादित्यर्थोक्तम् ॥ २१ ॥

यदा तु तामुपावर्त्तयेत्तदाऽयं प्रथम उपायः, यत्तेषु प्रणिधानमित्याह—

भावजिज्ञासार्थं च परिचारकमुखान् संवाहकगायनवैहासिकान् गम्ये तद्भक्तान्वा प्रणिदध्यात् तदभावे पीठमर्दादीन् ॥ २२ ॥

भावजाज्ञासार्थं चेति। परिचारकमुखान्=परिचारकरूपान्, वैहा- सिकः=विदूषकः तस्य गम्यस्य, भक्तान्=सेवापरान्, प्रणिदध्याद्= नियुञ्जीत, पीठमर्दादीत्यादिशब्दाद्विटमालाकारगान्धिकशौण्डिकादयः- सहायाः ॥ २२ ॥

भावोऽभिप्रायः तस्मिन्ननेकप्रकारेऽपि प्राधान्याच्छौचादिभावेष्वेव जिज्ञासनमित्याह—

तेभ्यो नायकस्य शौचाशौचं रागापरागौ सक्तासक्ततां दाना- दाने च विद्यात् ॥ २३ ॥

तेभ्य इति। नायकस्येति। गम्यसंज्ञकस्य, शुचिसमुदाचाराद् शौचं- भावं तद्विपरीतमशौचं, यतः कश्चित्स्वयमौपरिष्टिकं प्रयुङ्क्ते प्रयोज- यति नोभयं वेति, रागः=संयोगेच्छा, तद्विपरीतोऽपरागः, सक्तां- वक्ष्यमाणलक्षणां, तद्विपरीतामसक्तां, दानं = दातृत्वं, तद्विपरीत- मदानम् ॥ २३ ॥

संभावितेन च सह विटपुरोगां प्रीतिं योजयेत् ॥ २४ ॥

सम्भावितेन चेति। भावान् ज्ञात्वा, संयुज्येतैवं प्रयोग इति निश्चित्य, विटपुरोगामिति। विटो हि जीर्णनागरकवृत्तः, तेन पूर्वप्रहितेन प्रीतिं- योजयेत् ॥ २४ ॥

योजितायां विधिमाह—

लावककुक्कुटमेषयुद्धशुकशारिकाप्रलापनप्रेक्षणककळाव्यपदे- शेन पीठमर्दो नायकं तस्या उदवसितमानयेत् तां वा तस्य ॥२५॥

लावकेति। लावकादीनां युद्धं, शुकादेः प्रलापनम्=पाठनम्, प्रेक्ष- णकं=नटादिदर्शनं, कला=गीतादिका, तद्व्यपदेशेनानयेद्, उदवसितं= गृहं, तां वेति। नायिकां वा, तस्योद्ववसितम् ॥ २५ ॥