भारतकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ
७८सटीके कामसूत्रे[ २ अधिकरणे,

बलीयान्सर्वतः कालः कालेऽपि हि शशोऽपि सन् ।
संस्पृशत्येव सर्वत्र हस्तिनीमेहनोदरम् ॥
एवं वाजी विरुध्येत मृगीकालप्रकर्षतः ।
तस्मात्प्रमाणमेवाहुर्बलीयः सर्वतः परे ॥
बलीयान्वेग इत्यन्ये यस्मादश्वोऽप्यवेगवान् ।
नैव साधयितुं शक्तो वेगः कालप्रकर्षणः ॥
एवं तु नैव खिद्येत मन्दवेगाऽपि नायिका ।
यथाविषयमेतासां तस्माज्ज्ञेयं बलाबलम् ॥
हीनो भावप्रमाणाभ्यां वेगवान्कालवर्जितः ।
कालप्रमाणहीनश्च तत्र शेषेण साधयेद्' इति ॥ ६७ ॥

तत्र स्वभावतो यो यस्य भावः कालश्च स भावान्तरं कालान्तरं च यदा प्रतिपद्यते तदा भावकालान्तरसंक्रान्तिः, तां दर्शयितुमाह—

प्रथमरते चण्डवेगता शीघ्रकालता च पुरुषस्य तद्विपरीतमुत्तरेषु, योषितः पुनरेतदेव विपरीतमधातुक्षयात् ॥ ६८ ॥

शीघ्रमध्यचिरवेगा(१)णां मन्दमध्यचण्डवेगानामन्यतमस्य प्रकृतिस्थस्य प्रथमरते स्वभेदापेक्षया शीघ्रवेगता चण्डवेगता च द्रष्टव्या, तदानीं प्रवृद्धत्वाद्रागश्चण्डायमानो द्रुतं प्रशाम्यति, तद्यथा—चिरचण्डवेगस्य प्रथमरते मध्यवेगता चण्डतरवेगता च कालभावाभ्याम्, मध्यमध्यवेगस्य शीघ्रवेगता चण्डवेगता च, शीघ्रमन्दवेगस्य शीघ्रतरवेगता मध्यवेगता च, शीघ्रमध्यवेगस्य शीघ्रतरवेगता चण्डवेगता च, शीघ्रचण्डवेगस्य शीघ्रतरवेगता चण्डतरवेगता च, मध्यमन्दवेगस्य शीघ्रवेगता मध्यवेगता च, मध्यचण्डवेगस्य शीघ्रवेगता चण्डतरवेगता च, चिरमन्दवेगस्य मध्यवेगता, चिरमध्यवेगस्य मध्यवेगता चण्डवेगता, चेति(२) नव प्रथमरते संक्रान्तिरुतानि, तद्विपरीतमुत्तरेष्विति, प्रथमरते यदुक्तं तस्य विपरीतं द्वितीयादिषु रतेष्वित्यर्थः, तत्र कामस्यैकगुणत्वात्पुरुषस्य प्रशान्तरागत्वाद् द्वितीये रते प्रकृतिस्थैव भावकालान्तरसंक्रान्तिः,

योषितः पुनरेतदेव विपरीतमिति । अत्रापि प्रकृतिस्थायाः प्रथमरते स्वभेदापेक्षया चिरवेगता मन्दवेगता च द्रष्टव्या, तस्या अष्टगुणोऽपि रागो निसर्गादेव प्रथमरतेन संधुक्ष्यते, ततश्च तदानीं मन्दायमानश्चिरेण-


( १ ) वैयधिकरण्ये षष्ठी ।
( २ ) कालभावाभ्यामिति क्रमेण सर्वत्रान्वितम् ।

१ अध्याये ] प्रमाणकालभावरतावस्थापनप्रकरणम् । ७९

१ अध्याये ] प्रमाणकालभावरतावस्थापनप्रकरणम् । ७९

प्रशाम्यति, तद्यथा—चिरचण्डवेगायाः प्रकृतिस्थायाश्चिरतरवेगता मध्यवेगता च कालभावाभ्याम्, मध्यमध्यवेगायाश्चिरवेगता मन्दवेगता च, शीघ्रमन्दवेगाया मध्यवेगता मन्दतरवेगता च, इत्येवं शेषास्वपि षट्(१)सु योज्यम्, तद्विपरीतमुरारेषु द्वितीये रते प्रकृतिस्थैवं संक्रान्तिः, ततः शनैः शनैः संधुक्षणात्प्रवर्धमानरागवेगयोः स्वभेदापेक्षया तृतीयादिरतेषु शीघ्रतरतमवेगताऽऽदयश्चण्डतरतमवेगताऽऽदयश्च धर्माः यावच्छुक्रधातुक्षय इति स्त्रीपुंसयोस्तुल्ये धातुक्षये विशेषः ॥ ६८ ॥

यत्पुरुषस्यादौ धातोरेकगुणत्वाद्योषितश्च पश्चादष्टगुणत्वात्तदाह—

प्राक् च स्त्रीधातुक्षयात्पुरुषधातुक्षय इति प्रायोवादः ॥६९॥

प्राक्चेति । प्रायोवाद इति । न पुम्भिर्वामलोचना तृप्यतीति, प्रमाणान्तरसंक्रान्ति च योषितो जघनप्रसारणावहासाभ्यां पुरुषस्य च वृद्धिविधिना वक्ष्यति ॥ ६९ ॥

शीघ्रमध्यचिरवेगा नायिका इत्युक्तम् , काः पुनस्ता इत्याह—

मृदुत्वादपमृदुत्वान्निसर्गाच्चैव योषितः । प्राप्नुवन्त्याशु ताः प्रीतिमित्याचार्या व्यवस्थिताः ॥७०॥

निसर्गात्स्वभावतो या स्त्रियो मृद्वङ्गयः, अमृद्वङ्गयोऽपि याश्चुम्बनादिभिर्बाह्यैरान्तरैश्चाङ्गुलिकर्मादिभिरुपमृद्यन्ते ताः शीघ्रतरं प्रीतिं प्राप्नुवन्ति ताः शीघ्रवेगा इत्यर्थः, तद्विपर्ययेण मध्यचिरवेगा इत्यर्थ इत्युक्तं, तथा पुरुषोऽपीति, तत्र मृदुत्वं स्वाभाविकं लक्षणम्, शेषं कृत्रिमम्, इत्याचार्या व्यवस्थिता इति । सर्वेषामेतदेव मतमव्यभिचारित्वात् ॥ ७० ॥

एतावदेव युक्तानां व्याख्यातं सांप्रयोगिकम् । मन्दानामवबोधार्थं विस्तरोऽतः प्रवक्ष्यते ॥ ७१ ॥

रतावस्थापनमात्रेण सांप्रयोगिकं संक्षेपेण व्याख्यातम्, युक्ता हि प्राज्ञाः शास्त्रेण विदित्वाऽऽलिङ्गनादीनुपचारांनुत्प्रेक्ष्य योजयन्ति न मन्दबुद्धय इति तदवबोधनार्थं विस्तराभिधानम् ॥ ७१ ॥


(१) शीघ्रमध्यवेगाया, मध्यवेगता मन्दवेगता च । शीघ्रचण्डवेगाया, मध्यवेगते । मध्यमन्दवेगायाः, चिरवेगता मन्दतरवेगता च । मध्यचण्डवेगाया, चिरवेगता मध्यवेगता च । चिरमध्यवेगायाः, चिरतरवेगता मन्दवेगता च । चिरमन्दवेगायाः, चिरतरवेगता मन्दतरवेगता च । एतच्च स्वभावस्थाया योषितः प्रथमरते कालभावाभ्यां क्रमेण ज्ञेयम् ।

प्रमाणकालभावेभ्यो रतावस्थापनं नाम षष्ठं प्रकरणम् ।

८० सटीक कामसूत्रे [ २ अधिकरणे,

प्रमाणकालभावेभ्यो रतावस्थापनं नाम षष्ठं प्रकरणम् ।

यथा त्रिधा रतमवस्थापितं तथा स्थूलसूक्ष्मरूपाभ्यां प्रीतिरपि व्यवस्थापिता, किं तु तद्व्यतिरेकेणान्या अपि प्रीतयोऽस्मिञ्छास्त्रे संभवन्तीति दर्शनार्थं प्रीतिविशेषा उच्यन्ते—‘अभ्यासाद्’ इत्यादिना ।

अभ्यासादभिमानाच्च तथा संप्रत्ययादपि । विषयेभ्यश्च तन्त्रज्ञाः प्रीतिमाहुश्चतुर्विधाम् ॥ १ ॥

तन्त्रज्ञाः=कामसूत्रज्ञाः ॥ १ ॥

आसां लक्षणमाह—‘शब्दादिभ्य’ इत्यादिना

शब्दादिभ्यो बहिर्भूता या कर्माभ्यास लक्षणा । प्रीतिः साऽऽभ्यासिकी ज्ञेया मृगयाऽऽदिषु कर्मसु ॥ २ ॥

कर्मसु क्रियमाणेषु तत्रत्याञ्शब्दादिविषयानाश्रित्य या स्यात्सा विषयप्रीतिरेव कर्माभ्यासलक्षणा कर्मणां पुनः पुनरनुष्ठानमभ्यासः तेन लक्ष्यमाणत्वात्तल्लक्षणा प्रीतिः सक्तिः साऽभ्यासेन निर्वृत्ताऽऽभ्यासिकी कर्माश्रयकलाभ्यासक्तानां भवति, यदाह—मृगयाऽऽदिष्विति । आखेटकं मृगया, व्यायामकी विद्या; आदिशब्दान्नृत्यगीतवाद्यचित्रपत्रच्छेद्याद्युपसंग्रहः ॥ २ ॥

अनभ्यस्तेष्वपि पुरा कर्मस्वविषयात्मिका । संकल्पाज्जायते प्रीतिर्या सा स्यादाभिमानिकी ॥ ३ ॥

पुरा पूर्वं कर्मस्वनभ्यस्तेष्वपीत्यपिशब्दादभ्यस्तेष्वपीति, येनापि मृगयाकर्म नाभ्यस्तमभ्यस्तं वा सोऽपि तत्कर्म कृत्वा मनसा सुखायते, आभ्यासिकी तु कर्माभ्यासादेवेति विशेषः, अविषयात्मिकेति, नापि विषयेभ्यः शब्दादिभ्य आत्मलाभः स्यादित्यर्थः, कुत स्तर्हीत्याह—सङ्कल्पाज्जायत इति, मनसः संकल्पात्मकत्वान्मानसीत्यर्थः, सा सा चैवंविधाऽऽभिमानिकीत्युच्यते, अभिमानोऽहंकारः स प्रयोजनमस्या इति ॥ ३ ॥

सा कथमस्मिञ्शास्त्रे सम्भवतांत्याह—

प्रकृतेर्या तृतीयस्याः स्त्रियाश्चैवोपरिष्टके । तेषु तेषु च विज्ञेया चुम्बनादिषु कर्मसु ॥ ४ ॥

तृतीया प्रकृतिर्नपुंसकं तस्याः, स्त्रियाश्च मुखचपलायाः प्रयुक्त्याऽौपरिष्टिके मुखे जघनकर्मण्यभ्यस्तेऽपि विज्ञेया, प्रयोजयितुः पुनः कायिकी विषयप्रीतः, तेषु तेषु चेति । स्वभेदभिन्नेषु चुम्बनादिषु,

१ अध्याये ] प्रीतिविशेषप्रकरणम् । ८१

आदिशब्दादालिङ्गननखदशनच्छेदग्रहणेष्वभ्यस्तेष्वनभ्यस्तेष्वपि रतिकाल प्रयोक्तुर्मानसी प्रीतिः, यस्या अपि प्रयुज्यन्ते तस्या अपि तत्र तत्र स्थाने प्रयुज्यमानेषु रागसंकल्पवशान्मानसी प्रीतिर्न कायिकी स्पर्शमात्रसंवेदनात्, दुःखाभिभूते तु काये तत्प्रीतिकारणाभावात् सा न कायिकी ॥ ४ ॥

नान्योऽयमिति यत्र स्यादन्यस्मिन्प्रीतिकारणे ।
तन्त्रज्ञैः कथ्यते साऽपि प्रीतिः संप्रत्ययात्मिका ॥ ५ ॥

स एवायमित्यर्थः, यत्र=क्व चन, अन्यस्मिन्निति । अपूर्वस्मिन्विषये पुंसि स्त्रियां वा, स एवायमिति पूर्वप्रीत्यध्यारोपणाय स्त्रियाः पुंसो वा चित्तवृत्तिः, प्रीतिकारण इति। प्रीतिहेतावध्यारोपननिबन्धनमेतत्, पूर्वप्रीतस्य ये गुणाः प्रीतिहेतवस्तेऽत्रापि सन्तीति दर्शयति, एवं च सा पूर्वप्रीतिः संप्रत्ययादुत्पन्नस्वभावत्वात्संप्रत्ययात्मिका, तन्त्रज्ञैः=कामसूत्रविद्भिः, कथ्यते, तथा च 'प्रियासादृश्यं गमनकारणम्, इति वक्ष्यति॥५॥

प्रत्यक्षा लोकतः सिद्धा या प्रीतिर्विषयात्मिका ।
प्रधानफलवत्त्वात्सा तदर्थाश्चेतरा अपि ॥ ६ ॥

शब्दादिविषयाननुकूलानलम्ब्य श्रोत्रादिद्वारेण या प्रीतिरुत्पद्यते सा विषयव्यवसायानुगतत्वात्प्रत्यक्षा सती लोकत एव सिद्धत्वान्नात्र लक्षणाभिनिवेशः, सा चैवंविधा नित्यनैमित्तिकनागरकवृत्ते द्रष्टव्या, प्रधानफलवत्त्वात्सेति । साक्षाद्विषयोपभोगफलेन युक्तत्वादित्यर्थः, इतरा अपि तिस्रस्तदर्थाश्चेति, विषयप्रीत्यर्था एव तदङ्गत्वात्, चशब्द-एवकारार्थः ॥ ६ ॥

प्रीतीरेताः परामृश्य शास्त्रतः शास्त्रलक्षणाः ।
यो यथा वर्तते भावस्तं तथैव प्रयोजयेत् ॥ ७ ॥

इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे प्रमाणकालभावेभ्यो रतावस्थापनं, प्रीतिविशेषा इति प्रथमोऽध्यायः ।
आदितः षष्ठः ।

चतस्रः शास्त्रतः परामृश्य निरूप्य, शास्त्रलक्षणा इति । तेषु तेषु स्थानेषु शास्त्रेणानेन लक्ष्यमाणत्वात्, यो यथा वर्तते भाव इति । कर्माभ्यासादीनां चतुर्णां प्रकाराणां येन प्रकारेण योऽभिप्रायो वर्तते स तेनैव

११ का० सू०

८२ सटीक कामसूत्रे [ २ अधिकरणे,

प्रकारेण वर्तयेत् तज्जन्यप्रीत्यर्थमेव, तथा हि-अतथाप्रवर्तनादनीप्सिता प्रतिरप्रीतिरेव स्यात् ॥ ७ ॥

इति प्रीतिविशेषाः सप्तमं प्रकरणम् ।

आदितः षष्ठ इति । प्रथमाध्यायात्प्रभृति षष्ठोऽयमित्यर्थः, एवमुत्तरत्रापि योज्यम् ।

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाख्यायां सांप्रयोगिके द्वितीयेऽधिकरणे प्रमाणकालभावेभ्यो रतावस्थापनं प्रीतिविशेषाः प्रथमोऽध्यायः ।


द्वितीयोऽध्यायः ।

एवं रतमवस्थाप्य तदङ्गभूतां चतुःषष्टिं निर्दिदिक्षुराह—

संप्रयोगाङ्गं चतुःषष्टिरित्याचक्षते चतुःषष्टिप्रकरणत्वात् ॥ १ ॥

संप्रयोगस्य चतुःषष्ट्यात्मकत्वात्तस्याङ्गं चतुःषष्टिरित्याचक्षते पूर्वाचार्यास्तस्मात्तां वक्ष्यामः ॥ १ ॥

तत्र चतुःषष्टिशब्दः शास्त्रे तदेकदेशे वा वर्तते, उभयथाऽपि व्यवहाराङ्कमिति दर्शयन्नाह—

शास्त्रमेवेदं चतुःषष्टिरित्याचार्यवादः ॥ २ ॥

शास्त्रमेवेदमिति । इदमिति शास्त्रमाह, तच्च संप्रयोगस्याङ्गम्, तदुपायस्य तन्त्रावापाख्यस्य प्रकाशनात्, आचार्यवाद इति । शब्दविदो ह्याचार्या एवंविधमेव किञ्चिन्निमित्तमाश्रित्य चतुःषष्टिशब्दस्य प्रवृत्तिं वदन्ति तच्चेहाप्यस्तीति ॥ २ ॥

शास्त्रैकदेशे वा विद्यासमुद्देशे वर्तत इत्याह—

कलानां चतुःषष्टित्वात्तासां च संप्रयोगाङ्गभूतत्वात्कलासमूहो वा चतुःषष्टिरिति ॥ २ ॥

अत्र हि गीतादयः कलाश्चतुःषष्टिरुक्ताः, ततस्तत्समूहो वा संप्रयोगाङ्गम् ॥ ३ ॥

ऋचां दशतयीनां च संज्ञितत्त्वादिहापि तदर्थसंबन्धात् पञ्चालसंबन्धाच्च बह्वृचैरेषा पूजाऽर्थे संज्ञा प्रवर्तितेत्येके ॥ ३ ॥

चतुःषष्टिः सांप्रयोगिके वा शास्त्रकदेशे वर्तते तत्र हि पाञ्चालिकी चतुःषष्टिः कथ्यते, कथं ताश्चतुःषष्टिरित्याह-दशतयीनां चेति । दशावयवा मण्डलानि यासामृचाम्, इत्यवयवे तयप्, दशतय्यस्ताश्चतुःषष्टिरि-

२ अध्याये ] उपगूहनविचारप्रकरणम्। ८३


ति संज्ञिताः, इहापीति । संप्रयोगाङ्गे, तदर्थसम्बन्धादिति । दशावयवमण्डलार्थसम्बन्धात्, चतुःषष्टिरिति संज्ञा प्रवर्तत इति सम्बन्धः, संप्रयोगाङ्गं हि दशावयवम्, यथोक्तम्—

'आलिङ्गनं चुम्बनदन्तकर्मनखक्षतं सीत्कृतपाणिघातम् ।
संवेशनं चोपसृतौपरिष्ट्रं नरायितं चेति दशाङ्गमाहुः' ॥ इति,

पञ्चालसम्बन्धाच्च प्रवर्तिता, पञ्चालेन महर्षिणा ऋग्वेदे चतुःषष्टिर्निगदिता, बाभ्रव्येणापि पाञ्चालेन स्वकृते सांप्रयोगिकेऽधिकरणआलिङ्गनादय उक्ताः, ततश्च द्वयोरप्येकगोत्रनिमित्तसाम्येन पाञ्चालेन निगदनात्सम्बन्धोऽस्ति, पूजाऽर्थेति । उभयोरपि पक्षयो ऋग्वेदैकदेशवर्त्तिन्यपि संज्ञा बहुऋचैरभीष्टाचारैरालिङ्गनादिषु पूजार्था प्रवर्त्तितेति के चिदाहुः, "तत्पूजां च वक्ष्यति—

'विद्वद्भिः पूजितामेतां खलैरपि सुपूजिताम् ।
पूजितां गणिकासंघैर्नन्दिनीं को न पूजयेत्' ॥ इति ॥ ४ ॥

आलिङ्गनचुम्बननखच्छेद्यदशनच्छेद्यसंवेशनसीत्कृतपुरुषायितौपरिष्टिकानामष्टानामष्टधा विकल्पभेदादष्टावष्टकाश्चतुःषष्टिरिति बाभ्रवीयाः ॥ ५ ॥

आलिङ्गनेत्यादि । बाभ्रव्यस्य शिष्याः पुनरन्वर्थतामाहुः-अष्टधा विकल्पभेदादिति । एकैकस्याष्टधा विकल्पभेदादित्यर्थः, ततश्चाष्टौ सन्तोऽष्टगुणा अष्टावष्टकाश्चतुःषष्टिः ॥ ५ ॥

विकल्पवर्गाणामष्टानां न्यूनाधिकत्वदर्शनात्प्रहरणविरुतपुरुषायितचित्ररतादीनामन्येषामपि वर्गाणामिह प्रवेशनात्प्रायोवादोऽयं-यथा सप्तपर्णो वृक्षः पञ्चवर्णो बलिरिति वात्स्यायनः ॥ ६ ॥

विकल्पेति । न्यूनाधिकत्वदर्शनादिति । आलिङ्गनादीनां ये विकल्पवर्गा वक्ष्यमाणास्तेषां, कस्यचिदुनत्वं दृश्यते पुरुषायितस्य, केषाञ्चिदाधिक्यमेवालिङ्गनादीनाम्, ततश्च नाष्टावष्टावेव, विकल्पवर्गाणामष्टानांन्यूनाधिकत्वदर्शनाद्, अन्येषामपीति । प्रकृतत्वाच्चुम्बनादीनाम्, तेभ्योऽन्येषामपि प्रहरणविरुतपुरुषोपसृतचित्र रतादीनामिति सम्बन्धः, न तु प्रहरणादिभ्यश्चतुर्भ्योऽन्येषामपीति तेषामसम्भवाद्, इहेति । 'अष्टवर्गे प्रवेशनादेतान्यपि हि संप्रयोगोऽपेक्षते, ततश्च नाष्टावेवाष्टधा, कथंतर्ह्युक्तमित्याह-प्रायोवादोऽयमिति । प्रायिकमेतद्वचनम् , कथमित्याह-यथेति । पर्णानां न्यूनत्वेऽपि पर्णानां च बहुत्वेऽपि बाहुल्येन क्व चिद्-

८४ सटीक कामसूत्रे [ २ अधिकरणे,

र्शनात्तद्यपदेशो रूढिवशात्, तथाऽष्टानां बाहुल्येनाष्टधा भेदात्तद्यपदेशो- नाष्टावेवेति ॥ ६ ॥

तत्र शास्त्रस्य चतुःषष्ट्याः प्रस्तुतत्वात्कलासमूहस्य च विद्यासमु- द्देशे समुद्दिष्टत्वात्पाञ्चालिकीं चतुःषष्टिमाह-तत्रालिङ्गनपूर्वकत्वाच्चुम्ब- नादीनामालिङ्गनविचारा उच्यन्ते, विचाराश्च कालस्वरूपाभ्याम्, तत्रालिङ्गनमसमागते समागते च, तत्र पूर्वमधिकृत्याह—

तत्रासमागतयोः प्रीतिलिङ्गद्योतनार्थमालिङ्गनचतुष्टयं स्पृष्ट- कं, विद्धकम्, उद्घृष्टकम्, पीडितकमिति ॥ ७ ॥

असमागतयोरिति । असंघटितपूर्वयोः संजिघटियिष्वोः, प्रीतिलिङ्ग- द्योतनार्थमिति । अनुरागस्य लिङ्गिनः, स्पृष्टकादि लिङ्गम्, तत्प्रकाशनात्, तदभियोगकाले द्रष्टव्यम्, स्पर्शगोचरे सति तदभावे सति संक्रान्तक- माभियोगिकं वक्ष्यति ॥ ७ ॥

सर्वत्र संज्ञाऽर्थेनैव कर्मातिदेशः ॥ ८ ॥

सर्वत्रेति । चुम्बनादिष्वपि संज्ञाऽर्थेन कर्मातिदेश इत्यन्वर्थतां दर्शयति, स्पृष्टकादिसंज्ञानां प्रवृत्तिनिमित्तार्थः स्पर्शनादिकः, तेनैव कामातिदेश- इदमेव कार्यमिति ॥ ८ ॥

संमुखागतायां प्रयोज्यायामन्यापदेशेन गच्छतो गात्रेण गा- त्रस्य स्पर्शनं स्पृष्टकम् ॥ ९ ॥

संमुखागतायामिति । नायिकायामभिमुखमागतायाम्, प्रयोज्याया- मिति, आलिङ्गनादि प्रयोजयितुं, तत्र वा प्रयोक्तुं या शक्यते, अन्यापदे- शेनेति । अन्यदपदिश्यागच्छतः प्रयोक्तुः, यथाऽन्यो न जानाति बुद्धि- कारितमस्येति, गात्रेण स्वगात्रस्य प्रयोज्यायाः स्पर्शनमिति संज्ञात्वेन कर्मातिदिशति, पृष्टकमिति 'नपुंसके भावे क्तः । ३ । ३ । १४ । पश्चात् 'संज्ञायां कन्' ।५।३।८७। एवमुत्तरत्रापि योज्यम्, अस्याः संमुखागते नायके नायिकाऽपि प्रयोक्त्री ॥ ६ ॥

प्रयोज्यं नायिका स्थितमुपविष्टं वा विजने किंचिद् गृह्णती पयो- धरेण विध्येन्नायकोऽपि तामवपीड्य गृह्णीयादिति विद्धकम् ॥१०॥

नायिका प्रयोक्त्री प्रयोज्यं नायकं स्थितमुपविष्टं वा न गच्छेत् तत्प्र- थोक्तुमप्रयोगात्, न संविष्टम् असंगतत्वाद् विजने, अन्यत्र तु स्तनप्रदर्श- नस्यापि दुर्लभत्वात्, अथ व्यधनोपायमाह-किञ्चिदिति । तद्धस्तात्तत्स- मीपे वा किञ्चिदर्थजातमाददाना, पयोधरेणेति । शृङ्गारित्वात् स्तनग्रहण- नस्य । स्वेनांसकूर्दादिनाऽपविध्येदिति वक्षसि पृष्ठपार्श्वयोर्वा यथास-

२ अध्याये ] उपगूहनविचारप्रकरणम् । ८५


म्भवं प्राप्तेष्वङ्गेषु सा तमाक्षिपेदित्यर्थः, नायकोऽप्यपविध्यमानस्तां तथा बहुशो व्याप्रीयमाणां पार्श्वयोस्तद्भावित्वात्स्तनप्रहणनस्य स्वेनांसकूटेनांपविध्येदिति वक्षसि पृष्ठे पार्श्वयोरेकेन बाहुपाशेन पुरस्ताद् द्वाभ्यां पृष्ठतश्च प्रतिनिवृत्ताभ्यामवपीड्य गृह्णीयाद् , यथा कथञ्चिदनुरागं मयि यदि प्रकाशेत मामपविध्यतीति, एवं च द्वयोः स्तनस्य शल्यवदन्तःप्रविष्टत्वाद्बिद्धकं भवतीति, क्षेपणं तु केवलमपविद्धकं नाम तदेकंशत्वादत्रैवान्तर्गतम् , अस्य नायिकैव प्रयोक्त्री, विद्धकस्योभयजन्यत्वाद् द्वावपि, तथा चोक्तम्—

'विचेष्टितापविद्धेन कामिनी स्तनशालिनी।
विद्धकेनेतरस्तत्र कचाकर्षणकर्मणि'॥ इति ॥ १०॥

तदुभयमनतिप्रवृत्तसंभाषणयोः ॥ ११ ॥

तदुभयमिति । स्पृष्टकं विद्धकं च, अनतिप्रवृत्तसम्भाषणयोरेवासमागतयोः, तत्रोभयस्य साधयितुं शक्यत्वाद्, अतिप्रवृत्तसम्भाषणयोस्तु न सिद्धमेव, अप्रवृत्तसम्भाषणयोः पुनः साधयितुमशक्यत्वादशक्यमेव विज्ञेयम् ॥ ११ ॥

तमसि जनसंबाधे विजने वाऽथ शनैर्गच्छतोर्नातिह्रस्वकालमुद्घर्षणं परस्परस्य गात्राणामुद्घृष्टकम् ॥ १२ ॥

जनसंबाध इति । जनसंकुले, अन्धकारादिषु शङ्काऽभावात्प्रयोगसौकर्यम्, तथा शनैर्गमनमपि युक्तम्, एवं च सति नातिह्रस्वकालं चिरकालमुद्धर्षणं सिद्धं भवति, परस्परस्येति । नायकगात्रेण नायिकागात्रस्य तद्गात्रेण चेतरगात्रस्य घर्षणमुद्घृष्टकमुभयजन्यम्, एकनिष्पाद्यं तु घृष्टकं नाम तत्रैवान्तर्गतम् ॥ १२ ॥

तदेव कुड्यसन्दंशेन स्तम्भसन्दंशेन वा स्फुटक मवपीडयेदिति पीडितकम् ॥ १३ ॥

तदेवेति । उद्घृष्टकं पीडितकं भवति, कथमित्याह—कुड्यसन्दंशेनेति । सन्दंश उभयतो ग्रहणम्, अर्थात्नायकः परतः कुड्यं स्तम्भो वा, तेन स्फुटकं दृढमवपीडिते सति तत्पीडितकमेकजन्यमेव द्विविधम् ॥ १३ ॥

तदुभयमवगतपरस्पराकारयोः ॥ १४ ॥

उभयमुद्घृष्टकं पीडितकं च द्रष्टव्यम्, अवगतपरस्पराकारयोरिति । गृहीतान्योन्यभावयोः समागतयोः, पूर्वस्मादनयोरधिकोपक्रमत्वाद्, अगृहीताकारयोस्तु नैवेत्यर्थोक्तम् ॥ १४ ॥

८६ सटीके कामसूत्रे [ २ अधिकरणे,

लतावेष्टितकं वृक्षाधिरूढकं तिलतण्डुलकं क्षीरनीरकमिति च- त्वारि संप्रयोगकाले ॥ १५ ॥

संप्रयोगकाल इति । कृतार्द्रीकरणयोस्तु समागतयोः संप्रयोगः, तत्काले चत्वार्युपगूहनानि, तत्राद्ययोरेकजन्यत्वेऽपि नायिकैव प्रयोक्त्री तदनुरूपत्वात् , शेषयोरुभयजन्यत्वादुभावपि ॥ १५ ॥

लतेव शालमावेष्टयन्ती चुम्बनार्थं मुखमवनमयेदुद्धृत्य म- न्दसीत्कृता तमाश्रिता वा किञ्चिद्रामणीयकं पश्येत् तल्लुतावेष्टि- तकम् ॥ १६ ॥

लतेव शालमिति । यथा लता वृक्षमवेष्टते तद्वन्नायिका नायक- म्(१)र्ध्वस्थितमभिमु(२)खं कक्षयोः कण्ठे बाहुलताभ्यामावेष्टयेति च(३) तुर्विधं लतावेष्टितकम्, चुम्बनार्थिनी तन्मुखमवनमयेद्, नायकवृक्षस्थो- च्चत्वात् , तथा श्लिष्टाभ्यामेव बाहुपाशाभ्यां तच्छरीरावनमनान्मुखम- वनमितं भवति, अनेन प्रयोगफलं दर्शयति, अत्र प्रयोक्त्र्याः चुम्बनफल- स्यापरस्य विवक्षितत्वाद्, मौलन्तु फलं प्रयोगः, स यद्रागस्य जननं वर्धनं च, मन्दसीत्कृतेति । सीत्कृतं वक्ष्यति तन्मन्दं यस्याः, उल्बण- स्य रागकालभावित्वाद् , अनेन प्रयोगसंस्कारमाह, प्रयोगान्तरपरि- ष्कृतं सुतरां मनोहारि स्यात् , तमाश्रिता वेति द्वितीयं फलम्, यद्वा तथैव नायकमार्शिता, अन्यत्र आलेख्यादेस्तन्मुखस्य दशनपदा- ङ्कितस्य वा रामणीयकमुन्मुखी पश्येत्तल्लुतावेष्टितमिव लतावेष्टितकम्, प्रतिकृतौ कन् ॥ १६ ॥

चरणेन चरणमाक्रम्य द्वितीयेनोरुदेशमाक्रमन्ती वेष्टयन्ती वा तत्पृष्ठसक्तैकबाहुर्द्वितीयेनांसमवनमयन्तीषन्मन्दसीत्कृतकूजिता चु- म्बनार्थमेवाधिरोढुमिच्छेदिति वृक्षाधिरूढकम् ॥ १७ ॥

चरणेनेति । स्वेन चरणेन नायकस्य चरणमाक्रम्य; द्वितीयेन च(४)-


(१) शयनसमये ।
(२) स्थितानुपवेशे च ।
(३) कक्षाश्लिष्टबाहुकं कण्ठाश्लिष्टबाहुकं चेति द्विधा । द्वयमप्यूर्ध्वस्थितावभिमुख- स्थितौ चेति चतुर्विधम् , यद्यपि स्थित्युपवेशनावान्तरभेदकादरेणाभिमुखपक्षत एव चा- तुर्विध्यादूर्ध्वस्थितेतस्तु षाड्विध्यप्रसक्त्या चतुर्विधोक्तिरसंगतैव स्यात्तथाऽपि स्थितोपविष्टा- वभिमुखत्वेनानुगमय्य सोक्तिः संगमनीया, इदमपि फलस्य भेदकत्वाविवक्षापक्षेऽन्यथा तु चुम्बनरामणीयकदर्शनभेदादष्टत्वं द्वादशत्वं वा स्यादिति भावः ।
(४) उत्तरकल्पविभेदार्थं नायकपादान्तरा निवेशितेनेतिभावः ।

२ अध्याये ] उपगूहनविचारप्रकरणम् । ८७

२ अध्याये ] उपगूहनविचारप्रकरणम् । ८७

रणेनोर्ध्वदेशपार्श्वभागेनाक्रामन्ती यथा जघनस्थलं संश्लिष्टं स्यात्, तद् वामदक्षिणभेदाद् द्विविधम्, वेष्टयन्ती चेति । बहिर्नीव्या द्वितीयोरुदेशपार्श्वभागमानमयेच्चरणमित्यर्थः, तदपि वामदक्षिणभेदाद् द्विविधम्, द्वाभ्यां च यदाऽऽक्रमणमूर्ध्ववेष्टनं वा तदुभयमपि वृक्षाधिरूढकमङ्गैवान्तर्गतं, सामान्यविधिमाह— तत्पृष्ठसक्तैकबाहुरिति । नायकपृष्ठे लतावेष्टनवल्लग्न एको बाहुर्वामो दक्षिणो वा यस्याः, द्वितीयेन बाहुनाऽस्य स्कन्धभागमवनमयन्ती, ईषदिति । अनुरागकालत्वाद् मन्दानि रतान्तखिन्नानि सीत्कृतादीनि यस्या इत्यर्थः, अनेन संप्रयोगसंस्कारमाह, अत्र सीत्कृतं सीत्करणमेव, कूजितस्य लक्षणं वक्ष्यति, चुम्बनार्थमेव न रामणीयकदर्शनार्थम्, अनारुह्यापि तस्य संभवाद्, अधरपल्लवचुम्बनं तु नानारुह्येति प्रयोगफलम्, वृक्षाधिरूढकमिति पूर्ववत् ॥ १७ ॥

तदुभयं स्थितकर्म ॥ १८ ॥

तदुभयं स्थितकर्मेति । ऊ(१)र्ध्वस्थितयोर्यत्र योगः स्याद्, द्वाभ्यां रागजननार्थं तावदिदं कर्म ॥ १८ ॥

शयनगतावेवोरुव्यत्यासं भुजव्यत्यासं च ससंघर्षामिव घनं संस्वजेते तत्तिलतण्डुलकम् ॥ १९ ॥

शयनगतावेवेति । अत्रोरुव्यत्यासं भुजव्यत्यासं चेति क्रियाविशेषणम्, व्यत्यासो विपर्यासः, तत्र वामपार्श्वसुप्तायाः स्त्रिया उर्वन्तरे दक्षिणपार्श्वे सुप्तः पुमान्वाममूरुम्, दक्षिणकक्षान्तरे च वामभुजं प्रवेशयेद्, योषिदपि पुंस इत्येको व्यत्यासः, इतरपार्श्वसुप्तायाः स्त्रिया उर्वन्तरे वामपार्श्वे सुप्तः पुरुषो दक्षिणोरुं वामकक्षान्तरे च दक्षिणभुजं प्रवेशयेद्, योषिदपि पुंस इति द्वितीयो व्यत्यासः, द्वितीयस्य संघर्षार्थमिव घनं निरन्तरं संस्वजेते स्त्रीपुंसावुपगूह्येते इति । तिलतण्डुलकमिति । ऊरुभुजानां तनुस्थानां तिलतण्डुलानामिवोर्ध्वस्थित्या संमिश्रणात् ॥ १९ ॥

रागांधावनपेक्षितात्ययौ परस्परमनुविशत इवोत्सङ्गगतायामभिमुखोपविष्टायां शयने वेति क्षीरजलकम् ॥ २० ॥

अनपेक्षितात्ययाविति । रागान्धत्वादनपेक्षितास्थिभङ्गदोषौ परिष्वजमानौ परस्परमनुप्रविशत इव, बाहुयन्त्रेणातिपीडनान्मृतिव-


(१) रागवृद्धिसमयात् प्राक् स्थितयोर्नायकयोरित्येवार्थः, "तदुभयं रागकाले" । २।१। इति सूत्रस्वरसात् ।

८८सटीक कामसूत्रे[ २ अधिकरणे,

ण्डाविव क्षीरोदकवच्च तादात्म्यं प्रतिपद्येते इव, यथोक्तम्—

'भावासक्ताः कामुकाः कामिनीनामिच्छन्त्यङ्गेष्वम्भसीव प्रवेष्टुम्' इति,

कथमिदं निष्पद्यत इत्याह—उत्सङ्गगतायामिति । नायकोत्सङ्गे बहिरूरु वित्यस्याभिमुखमुपविष्टायां सत्याम्, अत्र कक्षयोर्यथायोगं संश्लिष्टमुभयोर्बाहुयन्त्रं स्यात्, शयने वेति। पार्श्वसुप्तयोरित्यर्थः, तिलतण्डुलकं पुनरत्रैव ॥ २० ॥

तदुभयं रागकाले ॥ २१ ॥

तदुभयमिति । रागस्य वृद्धत्वात्तत्काल एव द्रष्टव्यम्, संप्रयोगकालविशेषश्च रागकालः, यत्र पुंसः स्थिरलिङ्गता, स्त्रियाश्च क्लिन्नसंबाधता, तत्र च यन्त्रयोगात्प्राग्यथोक्तमेवालिङ्गनम्, यन्त्रयोजनेन तु संवेशनप्रकारानुरोधाद्योज्यम् ॥ २१ ॥

इत्युपगूहनयोगा बाभ्रवीयाः ॥ २२ ॥

बाभ्रवीया इति । बाभ्रव्येन प्रोक्ता उपगूहनप्रकाराः ॥ २२ ॥

सुवर्णनाभस्य त्वधिकमेकाङ्गोपगूहनचतुष्टयम् ॥ २३ ॥

सुवर्णनाभस्य बाभ्रवीयादुपगूहनाष्टकादनेन विकल्पवर्गस्याधिक्यं दर्शयति, एकाङ्गोपगूहनचतुष्टयं संप्रयोगकाल इति वर्तते, एकेनाङ्गेन सजातीयस्याङ्गस्य प्राधान्येन संश्लेषणात्तथोक्तम् ॥ २३ ॥

तत्रोरुसंदंशेनैकमूरुमूरुद्वयं वा सर्वप्राणं पीडयेदित्यूरूपगूहनम् ॥ २४ ॥

एकमूरुमूरुद्वयं वेति । पार्श्वसुप्तस्य पुंसः स्त्रियश्चात्र विशेषाभावाद् द्वयोरपि प्रयोक्तृत्वम्, यस्योरुस्थलमतिविपुलं स प्रयोक्तेति केचित्, सर्वप्राणमिति क्रियाविशेषणम्, अतिपीडनं हि मांसलस्थानेऽत्यन्तसुखकारि स्यात् ॥ २४ ॥

घनेन जघनमवपीड्य प्रकीर्यमाणकेशहस्ता नखदशनप्रहणनचुम्बनप्रयोजनाय तदुपरि लङ्घयेत्तज्जघनोपगूहनम् ॥ २५ ॥

जघनेन जघनमिति । पार्श्वशयनेन वराङ्गेन साधनं बाडवकेनापीडयेत्येकः प्रकारः, जघनेन यन्त्रस्यायोगे योगे वा जघनमवपीडयेति द्वितीयः, तत्र स्त्रीजघनस्यातिशृङ्गारत्वात्सैव शोभते, विशेषतो विपुलजघना, प्रकीर्यमाणकेशहस्तेति प्रयोगसंस्कारः, नखादीनि स्वेच्छया प्रयोक्ष्यामीति, तत्प्रयोजनं तु फलम्, उपरि लङ्घयेन्नायकस्योपरि तिष्ठेदित्यर्थः ॥ २५ ॥

२ अध्याये ] उपगूहनविचारप्रकरणम् । ८९

२ अध्याये ] उपगूहनविचारप्रकरणम् । ८९

स्तनाभ्यामुरः प्रविश्य तत्रैव भारमारोपयेदिति स्तनालिङ्गनम्॥२६॥

स्तनाभ्यामुर इति । आसने पार्श्वशयने वा पृष्ठभागं निम्नीकृत्य स्तनाभ्यां नायकोरः स्थलं प्रविश्य, तत्रैवेति । उरसि; भारमारोपयेत्, स्तनस्येत्यर्थात्, एवं हि नायकः स्तनभाराक्रान्तः पिण्डीकृतमिवोरसि स्पर्शसुखमनुभवति ॥ २६ ॥

मुखे मुखमासञ्ज्याक्षिणी अक्षणोर्ललाटेन ललाटमाहन्यात्सा ललाटिका ॥ २७ ॥

उत्तानसंपुटे पार्श्वसंपुटे वा वक्त्रे वक्त्रं संयोज्य, अक्ष्णोरक्षिणी दृष्ट्या लक्ष्यीकरगेनासज्य, नासिकाया मुखनयनमध्यादुवर्तित्वात्तत्संयोजनमर्थोक्तम्, ललाटे ललाटं द्विस्त्रिराहन्यादाहत्य च तत्रैव भारमारोपयेदित्येवमस्य नायिका प्रयोक्त्री, तेन ललाटिकैव ललाटिका, नायकललाटस्य संक्रान्तिविशेषेणालंक्रियमाणत्वात् ॥ २७ ॥

**संवाहनमप्युपगूहनप्रकारमित्येके मन्यन्ते संस्पर्शात्वात् ॥२८॥

९० सटीक कामसूत्रे [ २ अधिकरणे,

अनुक्तातिदेशमाह—

येऽपि ह्यशास्त्रिताः के चित्संयोगा रागवर्धनाः।
आदरेणैव तेऽप्यत्र प्रयोज्याः सांप्रयोगिकाः ॥ ३१ ॥

येऽपीति। अभिधायकत्वेन शास्त्रं संजातं येषां ते शास्त्रिताः, ये नैवंविधाः किं तु स्वेच्छयोत्प्रेक्षिताः संयोगाः संश्लेषाः, आदरेणैव, अवज्ञाया न, अशास्त्रिता अपि अत्र ते सुरते रागवर्धनत्वात्प्रयोज्याः, सांप्रयोगिकाः, संप्रयोगप्रयोजनाः ॥ ३१ ॥

किमित्यशास्त्रिताः प्रयोज्या इत्याह—

शास्त्राणां विषयस्तावद्यावन्मन्दरसा नराः ।
रतिचक्रे प्रवृत्ते तु नैव शास्त्रं न च क्रमः ॥ ३२ ॥

इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरण-
आलिङ्गनविचारो द्वितीयोऽध्यायः ।
आदितः सप्तमः ।

शास्त्राणामिति । अप्रवृद्धरागा हि शास्त्रोक्तप्रयोगक्रमं चापेक्षमाणाः शास्त्राणां विषयः, रतिचक्रे रागोत्पीडे प्रवृत्ते तद्वशादशास्त्रितानामप्यनुष्ठानोत्तदानीं न शास्त्रं स्यान्नापि क्रमः संयोगानां पौर्वापर्येणोच्चावचेन प्रवर्तनम्, तस्मान्मा भूच्छास्त्रस्य क्रमस्य चानर्थक्यमित्यनुक्तमतिदिश्यते ॥ ३२ ॥

इत्युपगूहनविचारोऽष्टमं प्रकरणम् ॥

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाख्यायां सांप्रयोगिके द्वितीयेऽधिकरण आलिङ्गनविचारो द्वितीयोऽध्यायः ।

तृतीयोऽध्यायः ।

एवं परिरभ्य चुम्बनादयः प्रयोक्तव्याः, तत्रापि किं प्राक्चुम्बनं-नखच्छेदं दशनच्छेदं वा पश्चादिति नास्त्येषां प्रयोगक्रम इत्याह—

चुम्बननखदशनच्छेद्यानां न पौर्वापर्यमस्ति रागयोगात् ॥१॥

न पौर्वापर्यमिति । रागयोगादिति रागवशाद् , रागाविष्टो हि न क्रममपेक्षते ॥ १ ॥

प्राक्संयोगादेषां प्राधान्येन प्रयोगः, प्रहणनसीत्कृतयोश्च संप्रयोगे ॥ २ ॥

३ अध्याये ] चुम्बनविकल्पप्रकरणम् । ९१

३ अध्याये ] चुम्बनविकल्पप्रकरणम् । ९१


अयं तु विशेषः-यदेषां प्राक्संयोगात्=प्राग्यन्त्रयोगात्, यन्त्रयोगे प्राधान्येन बाहुल्येन रागाभ्यासाद्वा प्रबोधनार्थं प्रयोगो नायकाभ्यां यन्त्रयोगे प्राधान्येनेत्यर्थोक्तम्, प्रहणनसीत्कृतयोस्तु संप्रयोगे यन्त्रयोगे प्राधान्येन प्रयोग इत्येव, तदा हि प्रवृद्धरागयोः प्राधान्येन घातसहत्वम्, प्रहणनबाहुल्ये च तदुद्भवस्य सीत्कृतस्यापि बाहुल्यं, प्रागप्राधान्येनेत्यर्थोक्तम् ॥ २ ॥

एकीयमतमेतदुत्तरपक्षदर्शनाद्, यदाह—

सर्वं सर्वत्र रागस्यानपेक्षितत्वादिति वात्स्यायनः ॥ ३ ॥

सत्र सर्वत्रेति । चुम्बनादिपञ्चकं प्राक्प्रयोगे च प्राधान्येन प्रयोक्तव्यम्, रागस्यानपेक्षितत्वादिति चण्डवेगो हि न प्राधान्येनाप्राधान्येन वा प्रयोगमपेक्षते, मन्दमध्यवेगयोस्तु पूर्व एव पक्षः ॥ ३ ॥

अयं तु विशेषः पक्षद्वयेऽपि तुल्य इत्याह—

तानि प्रथमरते नातिव्यक्तानि विश्रब्धिकायां विकल्पेन च प्रयुञ्जीत तथाभूतत्वाद्रागस्य ॥ ४ ॥

तानि चुम्बनादीनि पञ्च, प्रथमरत इति । रतस्यारम्भे, नातिव्यक्तानि नातिस्फुटानि, यथालक्षणस्यासमापनाद्, नातित्वरितेन विश्रब्धिकायां विकल्पेन चेति, इदं वेदं वेत्येकमेव प्रयुञ्जीत न समुच्चयेन, तद्यथा—चुम्बनं वा नखच्छेदं वा, चुम्बनं वा दशनच्छेदं वा, चुम्बनं वा प्रहणनं वा, चुम्बनं वा सीत्कृतं वे, ति चतुर्धा, नखच्छेदं त्रि(१)धा, दशनच्छेदं द्विधा(२), प्रहणनमे(३)कमेवेत्यनुलोमा दश, तावन्त एव प्रतिलो(४)माः, एक(५)त्र विंशतिः प्रयोगाः; तथाभूतत्वादिति । आरम्भकाले हि मन्दो रागः, ततश्च मध्यस्थचित्तता नातिसहिष्णुता चेति तदनुरूप एव प्रयोगः ॥ ४ ॥

ततः परमातित्वरया विशेषवत्समुच्चयेन रागसंधुक्षणार्थम् ॥ ५ ॥


(१) नखच्छेदं वा दशनच्छेदं वा, नखच्छेदं वा प्रहणनं वा, नखच्छेदं वा सीत्कृतं वा।
(२) दशनच्छेदं वा प्रहणनं वा, दशनच्छेदं वा सीत्कृतं वा,
(३) प्रहणनं वा सीत्कृतं वा ।
(४) दशसंख्याकाः, ते यथा—नखच्छेदं वा चुम्बनं वा, दशनच्छेदं वा चुम्बनं वा, प्रहणनं वा चुम्बनं वा, सीत्कृतं वा चुम्बनं वा । दशनच्छेदं वा नखच्छेदं वा, प्रहणनं वा नखच्छेदं वा, सङ्कृतं वा नखच्छेदं वा । प्रहणनं वा दशनच्छेदं वा, सीत्कृतं वा दशनच्छेदं वा, । सीत्कृतं वा प्रहणनं वा ।
(५) अनुलोमप्रतिलोमसङ्कलने ।

९४ सटीक कामसूत्रे [ २ अधिकरणे,

अङ्गुलिसंपुटेनेति । तर्जन्यङ्गुष्ठसंपुटेन, पिण्डीकृत्य गृहीत्वा, ततो निर्दशनं दशनव्यापारं विनोष्ठपुटेनावपीडयेद्, अत्र पीडनेऽपि बहिः पिण्डिताकर्षणं विशेषः, एवञ्च तदाकृष्टचुम्बननाम ग्रहणम् ॥१४॥

एवं कर्मभेदादष्टविधमधरचुम्बनमुक्तं त्रीणि कन्याचुम्बनानि पञ्च ग्रहणचुम्बनानीति, तत्र कर्षणचुम्बनभेदमशेषं समाप्यैवमवसरप्राप्तत्वादधरचुम्बने द्यूतमाह —

द्यूतं चात्र प्रवर्त्तयेत् ॥ १५ ॥

द्यूतं चेति । अत्रेत्यस्मिन्नधरचुम्बने, नान्यस्थाने चुम्बने, विशोभत्वाद् द्यूतमनुरागवर्धनार्थं स्यात् ॥ १५ ॥

तत्र जयपराजयफलत्वाद् द्यूतस्य लक्षणमाह—

पूर्वमधरसंपादनेन जितमिदं स्यात् ॥ १६ ॥

पूर्वमिति । आवयोः परस्परं चुम्बतोर्येन पूर्वं प्रथमतॊऽधरस्य ग्रहणविधिना संपादनं कृतं तस्मिन्सति तेन जितम्, किं तदित्याह—इदमिति । अनेन द्वयोरभिमतपणं सूचयति, द्यूतं च कपटेनाकपटेन वा स्यात्, तत्र यल्लौकिकेनैव चुम्बनेन द्वावेव परस्परस्याधरं चुम्बतस्तदकपटं च वक्ष्यति, तत्र तस्मिन्नकपटे द्यूते प्रवृत्ते नायकेन पूर्वमन्यतमेन ग्रहणम्, चुम्बनेन गृहीताधरत्वाज्जिता, अकपटद्यूते नायिकाया अबलत्वात्सैव जिता शोभते, कपटद्यूते चास्यास्तदनुरूपत्वाज्जयं वक्ष्यति, नायकेन तु कपटद्यूते न जेतव्या, तस्या अननुरूपत्वात् ॥ १६ ॥

तत्रान्यतरस्य जयेऽपरस्य कलहोऽवश्यं भावी; द्यूतस्य कलहास्पदत्वादिति कलहयोजनं रागोद्दीपनार्थमाह—

तत्र जिता सार्धरुदितं करं विधुनुयात्प्रणुदेद्धस्तोत्परिवर्त्तयेद्धलादाहृता विवदेत पुनरप्यस्तु पण इति ब्रूयात्, तत्रापि जिता द्विगुणमायस्येत् ॥ १७ ॥

सार्धरुदितमिति । क्रियाविशेषणं चैतत्, अधरपीडोपख्यापनार्थं सहार्धरुदितेन कृतकेन करं विधुनुयात्कम्पयेत्, प्रणुदेत्तर्जयेद् भङ्गिवैलक्ष्यान्नायकं क्षिपेद्, दंशोच्छ्लेषमधरग्रहणं बद्ध्वा दन्तैः खण्डयेत्, परिवर्त्तेत मुखेनाशक्ता चेत्कायेनाधरमोक्षार्थम्, विवदेत “नैव जिताऽस्मि मयैव जितमि”ति कलहायेत, पुनरस्त्वपरः पण इति । “पुनः क्रीडामः, पूर्वस्मात्पणादयमपरः पण” इति ब्रूयात्, तत्रापीति । द्वितीयेऽपि पणे, द्विगुणमायस्येदिति । करधूननाद्यधिक्येन कुर्यादित्यर्थः ॥१७॥

३ अध्याये ] चुम्बनविकल्पप्रकरणम्। ९५

कपटद्यूतमाह—

विश्रब्धस्य प्रमत्तस्य वाऽधरमवगृह्य दशनान्तर्गतमनिर्गमं कृ- त्वा हसेदुत्क्रोशेत्तर्जयेद्गलोद्वाहयेन्नृत्येतप्रनर्तितभ्रूणा च विचल- नयनेन मुखेन विहसन्ती तानि तानि च ब्रूयादिति चुम्बनद्यूत- कलहः ॥ १८ ॥

विश्रब्धस्येति । तस्मिन्नेव मुखचुम्बनद्यूतेऽन्तरा विश्रब्धिकथा नायिका विश्रम्भयेत्, ततो विश्रब्धस्य प्रमत्तस्याप्रमत्तस्य वाऽकस्माद-न्यत्र गतचेतसोऽधरमवगृह्यौष्ठसंपुटेन ततो दशनान्तर्गतमनिर्गमं कृत्वा यथा तदन्तर्गतमपि प्रमादान्न निर्गच्छति सापराधत्वात् पश्चाद् गृहीता-धरा मुक्ताधरा वा यथासंभवमुत्तरं व्यापारमनुतिष्ठेद्, इतरत्रापि क-पटद्यूते स्खलितप्रमादापेक्षयैव जयो दृष्टः, इत्येवं कपटेन जित्वा हसेत्, सशब्दमितरं वाऽत्यन्तपरितोषणाद्, उत्क्रोशेन्मया जितमिति फूत्कु-र्याद्, यथाऽस्य मित्राणि शृण्वन्ति स्वसख्यो वा, तर्जयेत् “लब्धोऽसी-दानीं खण्डयामि तेऽधरमि'ति, बलाद् हन्तुं सविलासं गात्राणि विक्षि-पेद्, आह्वयेत्सखेदन्तमेवोपसृत्य “आगच्छ दर्शयतां स्वपौरुषमि"ति, नृ-त्येत्तत्परितुष्ट्या, प्रनर्त्तितभ्रूणा चेति । एकोद्धारक्रमेण समुन्नमितभ्रूणा मुखेनेति विहसितसंस्कारः, विहसन्ती कलहावसानत्वात्, तानि ता-नीति । यानि यथार्थयुक्तानि रागदीपनानि मन्यते, चुम्बनद्यूतकलह इति। अकपटे कपटे च चुम्बनद्यूते कलह उक्तः, यदि नायकोऽपि जेता जितो-वा तथा चेष्टेत यथा कथं चित् कलहः स्यात्, तद्यथा—दृढमधर-मवपीडयन् ससीत्कृतं च शिरो विधुनुयाद्, नुदन्तीमुपसर्पेत् । दश-न्तीं प्रतिदशेत्, परिवर्तमानां प्रतिनिवर्तयेत्, विवदमानां प्रतिविवदेत, तिष्ठत्वयमपरः पण इति पूर्वकमेव तावत्प्रयच्छेति च ब्रूयात्, तत्रापि जेता द्विगुणमायस्येदिति पणद्वयसाधनार्थं साधयेत्, जितोऽपि वैलक्ष्या-द्विहसेत्, जितं जितं मयेत्युत्क्रोशन्त्यां मिथ्या मिथ्येति प्रत्युत्क्रोशेत्, तर्जयन्तीं प्रतितर्जयेद् । वल्गन्तीं तद्गात्रसंयमनेन प्रतिवल्गयेद्, आह्वय-न्तीं प्रत्याह्वयेत्, नृत्यन्तीं करतालिकया प्रतिनर्तयेत्, विहसन्तीं तानि तानि ब्रुवन्तीं तद्वचननिषेधार्थं प्रतिब्रूयादिति । यथा चोक्तम्—

'जितो वा यदि वा जेता चुम्बनद्यूतकर्मणि।
तस्या एव विचेष्टाभिः कलहं प्रतियोजयेद्' इति ॥ १८ ॥

एतेन नखदशनच्छेद्यप्रहणनद्यूतकलहा व्याख्याताः ॥ १९ ॥

एतेनेति । चुम्बनद्यूतेन कपटेनाकपटेन च, तत्राप्ययमेव विधिः, त·

९६ सटीके कामसूत्रे [ २ अधिकरणे,

यथा—पूर्वं नखच्छेद्यादिसंपादिते जितमिदं स्यादित्यादि, अत्र च द्यूत-प्रवर्तनं नखदशनहस्तानां प्रहणनस्थानेष्वेव मोहनेन स्यात्, सीत्कृतद्यूतकल्हस्तु पृथग् न संभवति, प्रहणनकलहे द्वयव्यस्तदुद्भवत्वात्, तत्र जेता ससीत्कृतं प्रहण्यात्, जीयमानश्च ससीत्कृतं प्रहणनं प्रतीच्छेत् ॥१९

चण्डवेगयोरेव त्वेषां प्रयोगः तत्सात्म्यात् ॥ २० ॥

एषामिति। कलहानाम्, तत्सात्म्यादिति । ईदृशैरेव चेष्टितैश्चण्डवेगयोः सात्म्यम्, न मन्दवेगयोः, तद्विमर्दाक्षमत्वात् ॥ २० ॥

तत उत्तरोष्ठविधिमाह—

तस्यां चुम्बन्त्यामयमप्युत्तरं गृह्णीयादित्युत्तरचुम्बितम् ॥२१॥

तस्यामिति । समग्रहेणेन नायकाधरं चुम्बन्त्यां नायिकायामयमपि नायकः सङ्गादस्या उत्तरोष्ठं समग्रहेण गृह्णीयाद्, उत्तरचुम्बितमुक्तरोष्ठग्रहणेन, प्रासङ्गिकमिदम्, केवलं तु न प्रयोक्तव्यं ग्राम्यत्वान्नासिकापुटपानवत्, प्रासङ्गिके च तिर्यग्ग्रहणादीनामसंभवाद्, एवमुत्तरचुम्बितमेकविधमेव ॥ २१ ॥

समग्रहणेनास्या नायिकाऽपि प्रयोक्त्री, यदि पुरुषो न जातव्यञ्जनस्तदा द्वयोरपि युगपद्विधिमाह—

ओष्ठसंदंशेनावगृह्यौष्ठद्वयमपि चुम्बेदिति संपुटकं स्त्रियाः, पुंसो वाऽजातव्यञ्जनस्य ॥ २२ ॥

ओष्ठसंदंशेनेति । उभाभ्यां ग्रहणं संदंशः, तेनौष्ठद्वयमवगृह्य वक्त्रान्तः प्रवेश्याभिचुम्बेदिति, सफूत्कारं स्वमोष्ठपुटं संकोचयेदित्यर्थः, सर्वत्र चुम्बनविधावायाते शब्दोच्चारणं कार्यम्, संपुटकमोष्ठद्वयग्रहणाद्, एतच्चतुर्विधम्—समं तिर्यग्दृष्टान्तमवपीडितं च, आकृष्टं न योज्यमशोभित्वात्, स्त्रिया इति। पुंसा प्रयोक्तव्यम्, तदौष्ठयोर्निर्लोमत्वात्, स्त्रियाऽपि पुंसश्चाजातव्यञ्जनस्याप्ररूढश्मश्र्रोः इतरथा लोमभिर्वक्त्रपूरणमसुखावहं स्यात् ॥ २२ ॥

एवमोष्ठचुम्बनं त्रिविध मुक्त्वा संपुटान्तर्गतत्वादन्तर्मुखचुम्बनविकल्पानाह—

तस्मिन्नितरोऽपि जिह्वयाऽस्या दशनानि घट्टयेत्तालु जिह्वांचेति जिह्वायुद्धम् ॥ २३ ॥

तस्मिन्निति । संपुटचुम्बने, इतरो नायको नायिका वा यस्य संपुटकं प्रयोक्तुमिच्छति, प्रयोक्तुर्विवृतास्यत्वादुपुर्यधश्च दशनानि जिह्वया घट्टयेत् संमार्जयेदित्यर्थः, तालु जिह्वयोर्ध्वप्रसारितया, जिह्वां-

३ अध्याये ] चुम्बनविकल्पप्रकरणम् । ९७

वा ऋजुप्रसारतया घटयेद्, जिह्वायुद्धं च कुर्यादिति शेषः, परस्पर- प्रेरणेन, एतच्चतुर्विधम्--अन्तर्मुखचुम्बनं दशनचुम्बनं जिह्वाचुम्बनं- तालुचुम्बनं चेति ॥ २३ ॥

एतेन बलाद्वदनरदनग्रहणं दानं च व्याख्यातम् ॥ २४ ॥

एतेनेति । जिह्वायुद्धेन, वदनरदनग्रहणमिति । हठाद्वदनेन वदनस्य दशनैर्दशनानां ग्रहणे परस्परस्य युद्धमिति ग्रहणपूर्वकं ददन- युद्धं रदनयुद्धं च व्याख्यातं, दानं चेति । एकश्चुम्बयितुं हठाद्वदनं- ददाति ग्राहयितुं वा दशनान्यन्यो गृह्णातीत्युभयोर्ग्रहणदानपूर्वकं वद- नयुद्धं चेति ॥ २४ ॥

समं पीडितमञ्चितं मृदु शेषाङ्गेषु चुम्बनं स्थानविशेषयोगादि- ति चुम्बनविशेषाः ॥ २५ ॥

शेषाङ्गेष्विति । ओष्ठान्तर्मुखेभ्योऽन्येषु ललाटादिस्थानेषु कर्मभेदा- त्समचुम्बनं पीडितचुम्बनमञ्चितचुम्बनं मृदुचुम्बनं चेति चतुर्विधं,- स्थानविशेषयोगादिति । यद्यत्र प्रयुज्यते तत्तत्र स्यादित्यर्थः, तत्रोरुसं- धिकक्षावक्षःसु समं न पीडितं नातिमृदु, स्तनकपोलनाभिमूलेषु पीडि- तं, कुचयोः कक्षापर्यन्ते चुम्बनमञ्चितं, ललाटे नयनयोर्मृदु स्पर्श- मात्रकरणमिति, एवमेते कर्मभेदाच्चुम्बनभेदा उक्ताः ॥ २५ ॥ त एवावस्थाभेदान्नामान्तरं प्रतिपद्यन्त इत्याह—

सुप्तस्य मुखमवलोकयन्त्याः स्वाभिप्रायेण चुम्बनं रागदीपनम् ॥ २६ ॥

सुप्तस्येति । मुखमालोकयन्त्या इत्याहितभावत्वं दर्शयति, स्वाभिप्रा- येणेति । यथा स्वयं धृतिं लभते तथा चुम्बतीत्यर्थः, एवं च सति तस्या एव रागसंधुक्षणाद्रागदीपनं, नायकस्य च तथा चुम्ब्यमानस्य प्रतिबो- धाद् जाग्रतोऽप्येतत्सम्भवति, तत्र तदवस्थकं सांप्रयोगिकमेव स्यात् ॥२६॥

प्रमत्तस्य विवदमानस्य वाऽन्यतोऽभिमुखस्य सुप्ताभिमुखस्य वा निद्राव्याघातार्थं चलितकम् ॥ २७ ॥

निद्राव्याघातार्थमित्युपलक्षणमेतत्, प्रमत्तस्य गीतालेख्यादिषु प्र- सक्तस्य प्रमादव्याघातार्थं, विवदमानस्य तया सह कलहव्याघातार्थम्, अन्यतोऽभिमुखस्यान्यतो दृष्टिव्याघातार्थं, सुप्ताभिमुखस्य सुषुप्सतो- निद्राव्याघातार्थं चलितकमिति, प्रमादादिना नायकस्य चलनं चलि- तं, तत्करोति-’ इति णिच्, तदन्ताच्चलयतीत्यच्, ततः संज्ञायां कन्, चलितकम्, अत्र नायिकैव प्रयोक्त्री शोभते ॥ २७ ॥

१३ का० सू०

९८ सटीक कामसूत्रे [ २ अधिकरणे,

चिररात्रावागतस्य शयनसुप्तायाः स्वाभिप्रायचुम्बनं प्रातिबोधिकम् ॥ २८ ॥

चिररात्राविति। असञ्चारवेलायामागतस्य प्रयोक्तुः सम्बन्धलक्षणा षष्ठी, शयनसुप्तायाः प्र योज्यायाः “नागतश्चपल” इति प्रातिबोधिकं प्रतिबोधप्रयोजनम्, मुखावलोकनं स्वाभिप्रायाभावाद्भागदीपनान्न विद्यते, तत्र विस्रब्धिकायां रागदीपनम् ॥ २८ ॥

साऽपि तु भावजिज्ञासाऽर्थिनी नायकस्यागमनकालं संलक्ष्य व्याजेन सुप्ता स्यात् ॥ २९ ॥

साऽपि त्विति। भावजिज्ञासार्थिनी "किं चित्पश्यामि मय्यनुरागोऽस्ति न” इति सम्मानाशिंनी नायकादेव वैलक्ष्यसुप्ता स्यादिति व्याजेन कृतकनिद्रया शयितेत्यर्थः, यदि मयि भावितस्तदा प्रातिबोधिकं विदध्यान्मानयिता वा, “कुपिते” ति मानेन पादपतनादिना संभाव्योत्थापयेद्, एतत्त्रिविधमावस्थिकम् ॥ २९ ॥

समागतयोराह—

आदर्श कुड्ये सलिले वा प्रयोज्यायाश्छायाचुम्बनमाकारप्रदर्शनार्थमेव कार्यम् ॥ ३० ॥

आदर्श इति। कुड्ये दीपाद्यालोकयुक्ते, प्रयोज्याया इत्युपलक्षणार्थत्वाच्चायकस्यापि प्रयोज्यस्य, विशेषाभावात्, छायाचुम्बनमिति । दर्पणादिषु प्रयोज्यप्रतिबिम्बस्य समीपे लौकिकमिव चुम्बनं वैहासिकं कार्यम्, आकारप्रदर्शनार्थमिति । भावसूचकमाकारं प्रदर्शयितुमित्यर्थः, यतस्तदवस्थां दृष्ट्वेत्तरो मन्यते मय्यनुरक्तो यदेवमाकारयतीति, कुड्ये तु न वैहासिकं, किं तु च्छायावदने वदनं विदध्यादेवमित्याकारप्रदर्शनार्थम् ॥ ३०॥

बालस्य चित्रकर्मणः प्रतिमायाश्च चुम्बनं संक्रान्तकमालिङ्गनं च ॥ ३१ ॥

बालस्येति। स्वाङ्कगतस्य लाडीकस्य चित्रकर्मण आलेख्यस्य प्रतिमायां मृच्छिलाकाष्ठादिमय्याः प्रयोज्यास समक्षं चुम्बनं संक्रान्तकं, तदध्यारोपादा लिङ्गनं च संक्रान्तकं, यथासंभवं चुम्बनाधिकारे प्रसङ्गादुक्तं, तत्र च्छायाचुम्बनं संक्रान्तकं चोभयमावस्थिकं, स्पर्शानोचरातीतयोरनभिवृत्त संभाषणयोरसमागतयोर्द्रष्टव्यम् ॥ ३१ ॥

तथा निशि प्रेक्षणके स्वजनसमाजे वा समीपगतस्य प्रयोज्याया हस्ताङ्गुलिचुम्बनं संविष्टस्य वा पादाऽङ्गुलिचुम्बनम् ॥३२॥

३ अध्याये ] चुम्बनविकल्पप्रकरणम् । ९९

तथेति आकारप्रदर्शनार्थं, निशि रात्रौ प्रेक्षणके वा नटादिदर्शने वा स्वजनसमाजे वा ज्ञातिसंबन्धिषु संभूय स्थितेषु प्रयोज्यायाः समीपो-पविष्टस्य प्रयोक्तुरुपलक्षणार्थत्वात्प्रयोज्यस्य वा समीपोपविष्टायाः प्रयोज्यायाः, हस्ताङ्गुलिचुम्बनमिति । तदा हस्तस्य सुलभत्वात्, त-मन्यापदेशेनाकृष्य तदङ्गुलिचुम्बनं, संविष्टस्येति । नायिकासमीपे शयितस्य चशब्दाद्धस्ताङ्गुलिचुम्बनं च तदानीमुभयोरपि सुलभत्वात्, तत्र हस्ताङ्गुलिचुम्बनस्य द्वावपि प्रयोक्तारौ, पादाङ्गुलिचुम्बनस्य नायि-कैव, न नरो गर्हितत्वात् ॥ ३२ ॥

संवाहिकायास्तु नायकमाकारयन्त्या निद्रावशादकामाया-इव तस्योर्वोर्वदनस्य निधानमूरुचुम्बनं पादाङ्गुष्ठचुम्बनं चेत्याभि-योगिकानि ॥ ३३ ॥

संवाहिकायास्त्विति । नायकं संवाहयति या काचित्संवाहनद्वा-रेण नायकमभियुङ्क्ते, आकारयन्त्या भावसूचकमाकारं ग्राहयन्त्याः, अकामाया इवेति । चुम्बितुमनिच्छन्त्या इव, नायकाकारस्यागृहीत-त्वाद्, अतः कृतकनिद्रया सा नायकस्योर्वोश्चुम्बितुं वदनं निधत्ते, पादाङ्गुष्ठचुम्बनं तु पादावाकृष्य संवाहयन्त्या बुद्धिकारितमपि न दोषाय, मुखाङ्गुष्ठयोस्तदानीं परस्पराश्लेषसंभवाद्, एतान्यङ्गुलिचुम्बनादीनि स्पृष्टकादिना सोढगात्रस्पर्शापोरनतिप्रवृत्तसं भाषणयोरसमागतयोः, आ-भियोगिकानीति । अभियोगप्रयोजनानि च्छायाचुम्बनादीनि तदानीं-प्रयोगांन्तानि च लौकिकचुम्बनवत्प्रयोक्तव्यानि कर्मभेदासम्भवात् ॥३३॥

सांप्रयोगाभियोगकालयोः सामान्यविधिमाह—

कृते प्रतिकृतं कुर्यात्ताडिते प्रतिताडितम् ।
करणेन च तेनैव चुम्बिते प्रतिचुम्बितम् ॥ ३४ ॥

इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे चुम्बनविकल्पास्तृतीयोऽध्यायः ।
आदितोऽष्टमः ।

कृत इति । सांप्रयोगिक आभियोगिके वा प्रयोक्तृकृते प्रयोज्या प्रति-कृतं कुर्यात्, तदेवोदाहरणार्थमाह—ताडिते चुम्बित इति । अन्यतरः संप्रयोगे स्तम्भमिवैनं मन्यमानां निर्विद्यते ततश्च निकृष्टः संप्रयोगः स्याद्, आभियोगिके च कारितोऽपि नावध्यत इति पशुमिव परिभवेत् ततश्च न समागमोऽर्थः सिध्येत्, तत्रापि करणेन च, तेनवेति । येनैव