भारतकोश
संग्रह पर लौटें

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

प्रथमान्ताद्विज्ञायते प्रत्ययः । उत्तरेण वसति । उत्तरा-

Line 24: द्वसति । उत्तरतो वसति । उत्तरेण रमणीयम् । उत्तराद्रमणीयम् । उत्तरतो

Line 25: रमणीयम् । अधरेण वसति । अधराद्वसति । अधस्ताद्वसति । अधरेण रम-

Line 26: णीयम् । अधराद्रमणीयम् । अधस्ताद्रमणीयम् । दक्षिणेन वसति । दक्षिणा-

Line 27: द्वसति । दक्षिणतो वसति । दक्षिणेन रमणीयम् । दक्षिणाद्रमणीयम् । दक्षि-

Line 28: णतो रमणीयम् । अदूर इति किम् । उत्तराद्वसति । अपञ्चम्या इति किम् ।

Line 29: उत्तरादागतः । अपञ्चम्या इति प्रागसेः । असिप्रत्ययस्तु पञ्चम्यन्तादपि

Line 30: भवति । केचिदुत्तरादिशब्दं नानुवर्तयन्ति । दिक्शब्दमात्रात्प्रत्ययं

Line 31: मन्यन्ते । पूर्वेण ग्रामम् । अपरेण ग्रामम् ॥

Let's double-check all line numbers and contents. Total lines: Top header: 1 line भावः रिल्‌रिष्टातिलौ... वसति । उपर्यागतः...

४४२ ॥ काशिका ॥ ५ ॥ ३ ॥ दक्षिणादाच् ॥ ३६ ॥ अदूर इति न स्वर्यते । अपञ्चम्या इति वर्तते । दक्षिणशब्दादाच् प्रत्ययो भवति अस्तातेरर्थे । दक्षिणा वसति । दक्षिणा रमणीयम् । अपञ्चम्या इत्येव । दक्षिणत आगतः । चकारो विशेषणार्थः, अञ्चूत्तरपदाजाहियुक्त इति ॥ आहि च दूरे ॥ ३७ ॥ दक्षिणशब्दादाहिः प्रत्ययो भवति अस्तातेरर्थे, चकारादाच् । दूरे चेद- वधिमानवधेर्भवति । दक्षिणाद्हि वसति । दक्षिणा वसति । दक्षिणाद्हि रम- णीयम् । दक्षिणा रमणीयम् । दूर इति किम् । दक्षिणतो वसति । अपञ्चम्या इत्येव । दक्षिणत आगतः ॥ उत्तराच्च ॥ ३८ ॥ उत्तरशब्दादाजाहौ प्रत्ययौ भवतः, अस्तातेरर्थे, दूरे चेदवधिमानव- धेर्भवति । उत्तरा वसति । उत्तराहि वसति । उत्तरा रमणीयम् । उत्तराहि रमणीयम् । दूर इत्येव । उत्तरेण प्रयाति । अपञ्चम्या इत्येव । उत्तरादागतः ॥ पूर्वाधरावराणामसि पुरधवश्चैषाम् ॥ ३९ ॥ अपञ्चम्या इति निवृत्तम् । तिसृणां विभक्तीनामिह ग्रहणम् । पूर्वो- धरावराणामसिः प्रत्ययो भवति अस्तातेरर्थे । तत्सन्नियोगेन चैषां यथासंख्यं पुर् अध् अव् इत्येते आदेशा भवन्ति । असीत्यविभक्तिको निर्देशः । पुरो वसति । पुर आगतः । पुरो रमणीयम् । अधो वसति अध आगतः । अधो रमणीयम् । अवो वसति । अव आगतः । अवो रमणीयम् ॥ अस्ताति च ॥ ४० ॥ सप्तम्यन्तमेतत् । अस्तातिप्रत्यये परतः पूर्वादीनां यथासंख्यं पुरादय आदेशा भवन्ति । इदमेवादेशविधानं ज्ञापकमस्तातिरेभ्यो भवति, असिप्रत्य- येन न बाध्यतइति । पुरस्ताद्वसति । पुरस्तादागतः । पुरस्ताद्रमणीयम् । अधस्ताद्वसति । अधस्तादागतः । अधस्ताद्रमणीयम् ॥ विभाषा ऽवरस्य ॥ ४१ ॥ पूर्वेण नित्ये प्राप्ते विकल्प उच्यते । अवरस्यास्तातौ परतो विभाषा अव् इत्ययमादेशो भवति । अवस्ताद्वसति । अवस्तादागतः । अवस्ताद्रमणी- यम् । अवरस्ताद्वसति । अवरस्तादागतः । अवरस्ताद्रमणीयम् ॥ संख्याया विधार्थे धा ॥ ४२ ॥ संख्यावाचिभ्यः प्रातिपदिकेभ्यो विधार्थे वर्तमानेभ्यो धा प्रत्ययो भवति

॥ काशिका ॥ ५ ॥ ३ ॥ ४४३ स्वार्थे। विधा प्रकारः सर्वक्रियाविषय एव गृह्यते। क्रियाप्रकारे वर्तमानायाः संख्याया धा प्रत्ययः। एकधा भुङ्क्ते। द्विधा गच्छति। त्रिधा। चतुर्द्धा। पञ्चधा ॥ अधिकरणविचाले च ॥ ४३ ॥ संख्याया इत्येव। अधिकरणं द्रव्यं, तस्य विचालः संख्यान्तरापादनम्। एकस्यानेकीकरणमनेकस्य वा एकीकरणम्। अधिकरणविचाले गम्यमाने संख्यायाः स्वार्थे धा प्रत्ययो भवति। एकं राशिं पञ्चधा कुरु। अष्टधा कुरु। अनेकमैकधा कुरु ॥ एकाद्धो ध्यमजन्यतरस्याम् ॥ ४४ ॥ एकशब्दात्परस्य धाप्रत्ययस्य ध्यमुञादेशो भवत्यन्यतरस्याम्। एकधा राशिं कुरु। ऐकध्यं कुरु। एकधा भुङ्क्ते। ऐकध्यं भुङ्क्ते। धाप्रकरणादेव लब्धे पुनर्द्धायग्रहणं विधार्थे विहितस्यापि यथा स्यात्। अनन्तरस्यैवैतत्प्राप्नोति ॥ द्वित्र्योश्च धमुञ् ॥ ४५ ॥ धा इत्यनुवर्तते। द्वित्र्योः संबन्धिनो धाप्रत्ययस्य विधार्थे ऽधिकरण- विचाले च विहितस्य धमुञादेशो भवत्यन्यतरस्याम्। चकारो विकल्पानुक- र्षणार्थः। द्विधा। द्वैधम्। त्रिधा। त्रैधम् ॥ धमुञन्तत्वात्स्वार्थे ऽदर्शनम् ॥ * ॥ पथि द्वैधानि संश्रयन्ते। पथि त्रैधानि संश्रयन्ते ॥ एधाञ्च ॥ ४६ ॥ द्वित्र्योः संबन्धिनो धाप्रत्ययस्य एधाञ्चादेशो भवत्यन्यतरस्याम्। चकारो विकल्पानुकर्षणार्थः। द्वेधा। द्वैधम्। द्विधा। त्रेधा। त्रैधम्। त्रिधा * ॥ याप्ये पाशप् ॥ ४७ ॥ याप्यः कुत्सित उच्यते। याप्ये वर्तमानात्प्रातिपदिकात्स्वार्थे पाशप् प्रत्ययो भवति। याप्यो वैयाकरणः। कुत्सितो वैयाकरणो, वैयाकरणपाशः। याज्ञिकपाशः। यो व्याकरणशास्त्रे प्रवीणो दुःशीलस्तत्र कस्मान्न भवति। यस्य गुणस्य सद्भावाद् द्रव्ये शब्दनिवेशस्तत्कुत्सायां प्रत्ययः ॥ पूरणाद्भागे तीयादन् ॥ ४८ ॥ पूरणप्रत्ययो यस्तीयस्तदन्तात्प्रातिपदिकाद्भागे वर्तमानात्स्वार्थे ऽन् प्रत्ययो भवति। स्वरार्थं वचनम्। द्वितीयो भागः। द्वितीयः। तृतीयः। भागइति किम्। द्वितीयम्। तृतीयम्। पूरणग्रहणमुत्तरार्थम्। नह्यपूरणस्तीया ऽस्ति। मुखतीयादिरनर्थकः ॥

  • वाक्यविभागो यथासंख्यनिरासार्थः। इत्यधिकं पुस्तकान्तरे।

४४४ ॥ काशिका ॥ ५ ॥ ३ ॥ प्रागेकादशभ्यो ऽच्छन्दसि ॥ ४९ ॥ पूरणाद्भाग इत्येव। प्रागेकादशभ्यः संख्यावाचिभ्यः पूरणप्रत्ययान्तेभ्यो भागे वर्तमानेभ्यः स्वार्थे ऽन् प्रत्ययो भवति अच्छन्दसि विषये। स्वरार्थं वचनम्। पञ्चमः। सप्तमः। नवमः। दशमः। प्रागेकादशभ्य इति किम्। एकादशः। द्वादशः। अच्छन्दसीति किम्। पञ्चममिन्द्रियस्यापाक्रामत् ॥ षष्ठाष्टमाभ्यां ञ च ॥ ५० ॥ भागइत्येव। अच्छन्दसीति च। षष्ठाष्टमाभ्यां भागे ऽभिधेये ऽच्छन्दसि विषये ञः प्रत्ययो भवति। चकारादंश्च। षष्ठो भागः। षाष्ठः। आष्टमः। अष्टमः। मानपश्वङ्गयोः कन्ल्लुकौ च ॥ ५१ ॥ भागइत्येव। षष्ठाष्टमाभ्यां यथासंख्यं कन्ल्लुकौ

॥ काशिका ॥ ५ ॥ ३ ॥ ४४५ भवतः । प्रकृत्यर्थविशेषणं च स्वार्थिकानां द्योत्यं भवति । सर्वेऽमी आढ्याः, अयमेषामतिशयेनाढ्य, आढ्यतमः । दर्शनीयतमः । सुकुमारतमः । अयमेषाम- तिशयेन पटुः, पटिष्ठः । लघिष्ठः । गरिष्ठः । यदा च प्रकर्षवतां पुनः प्रकर्षो विवक्ष्यते तदातिशायिकान्तादपरः प्रत्ययो भवत्येव । देवो वः सविता प्रार्प- यतु श्रेष्ठतमाय कर्मणे । युधिष्ठिरः श्रेष्ठतमः कुरूणामिति ॥ तिङश्च ॥ ५६ ॥ तिङन्ताच्चातिशायने द्योत्ये तमप् प्रत्ययो भवति । ङ्याप्प्रातिपदिका- दित्यधिकारात्सिद्धो न प्राप्नोतीति इदं वचनम् । सर्वेऽमी पचन्तीति अयमेषा- मतिशयेन पचति, पचतितमाम् । जल्पतितमाम् । इष्ठन्नोदाह्रियते । गुणवचने नियमितत्वात् ॥ द्विवचनविभज्योपपदे तरबीयसुनौ ॥ ५७ ॥ द्वयोरर्थयोर्वचनं द्विवचनम् । विभक्तव्यो विभज्यः । निपातनाद्वात् । द्व्यर्थे विभज्ये चोपपदे प्रातिपदिकात्तिङन्ताच्चातिशायने तरबीयसुनौ प्रत्ययौ भवतः । तमबिष्ठनोरपवादौ ॥ यथासंख्यमत्र नेष्यते ॥ द्वाविमावाढ्यौ, अयम- नयोरतिशयेनाढ्यतरः । सुकुमारतरः । पचतितराम् । जल्पतितराम् । ईयसु- न्खल्वपि । द्वाविमौ पटू । अयमनयोरतिशयेन पटुः, पटीयान् । लघीयान् । विभज्ये चोपपदे । माथुराः पाटलिपुत्रकेभ्य आढ्यतराः । दर्शनीयतराः । पटी- यांसः । लघीयांसः ॥ अजादी गुणवचनादेव ॥ ५८ ॥ इष्ठन्नीयसुनावजादी सामान्येन विहितौ तयोरयं विषयनियमः क्रियते । गुणवचनादेव भवतस्तौ नान्यस्मादिति पटीयान् । लघीयान् । पटिष्ठः । लघिष्ठः । इह न भवतः । पाचकतरः । पाचकतम इति । एवकार इष्टतो ऽवधारणार्थः । प्रत्ययनियमो ऽयं न प्रकृतिनियम इति । पटुतरः पटुतमः ॥ तुश्छन्दसि ॥ ५९ ॥ तुरिति तृन्तृचोः सामान्येन ग्रहणम् । तृन्ताच्छन्दसि विषये अजादी प्रत्ययौ भवतः पूर्वेण गुणवचनादेव नियमे कृते छन्दसि प्रकृत्यन्तरादप्यभ्यनुज्ञा- यन्ते तृन्तादप्यजादी भवत इति । आहुतिं करिष्ठः । दोहीयसी धेनुः । भस्याढे तद्धिते इति पुंवद्भावे कृते तुरिष्ठेमेयस्स्विति तृचो निवृत्तिः ॥ प्रशस्यस्य श्रः ॥ ६० ॥ प्रशस्यशब्दस्य श्र इत्ययमादेशो भवति अजाद्योः प्रत्यययोः परतः । अजादी इति प्रकृतस्य सप्तमी विभक्तिर्विपरिणम्यते । ननु च प्रशस्यशब्द

४४६ ॥ काशिका ॥ ५ ॥ ३ ॥ स्यागुणवचनत्वादजादौ न संभवतः, एवं तर्हि आदेशविधानसामर्थ्यात्तद्विषयो नियमो न प्रवर्त्तते ऽजादौ गुणवचनादेवेति । एवमुत्तरेष्वपि योगेषु विज्ञेयम् । सर्वद्रमे प्रशस्या अयमेषामतिशयेन प्रशस्यः, श्रेष्ठः । उभाविमौ प्रशस्यौ अयम- नयोरतिशयेन प्रशस्यः, श्रेयान् प्रकृत्यैकाजिति प्रकृतिभावाच्छ्रशब्दस्य टिलोप- यस्येतिलोपौ न भवतः ॥ ज्य च ॥ ६१ ॥ प्रशस्यशब्दस्य ज्य इत्ययमादेशो भवति अजाद्योः प्रत्यययोः परतः सर्वदमे प्रशस्या अयमतिशयेन प्रशस्यः, ज्येष्ठः । उभाविमौ प्रशस्यावयमनयो- रतिशयेन प्रशस्यः, अयमस्मात् ज्यायान् । ज्यादादीयस इत्याकारः ॥ वृद्धस्य च ॥ ६२ ॥ वृद्धशब्दस्य च ज्य इत्ययमादेशो भवत्यजाद्योः प्रत्यययोः परतः । तयोश्च सत्त्वं नियमाभावेन पूर्ववत् ज्ञायते । सर्वदमे वृद्धा अयमेषामतिशयेन वृद्धः, ज्येष्ठः । उभाविमौ वृद्धौ अयमनयोरतिशयेन वृद्धः, ज्यायान् । अयम- स्मात् ज्यायान् । प्रियस्थिरेत्यादिना वृद्धशब्दस्य वर्षादेशो विधीयते । वचन- सामर्थ्यात्पक्षे सोऽपि भवति । वर्षिष्ठः । वर्षीयानिति ॥ अन्तिकबाढयोर्नेदसाधौ ॥ ६३ ॥ अन्तिकबाढयोर्यथासंख्यं नेद साध इत्येतावादेशौ भवतो ऽजाद्योः परतः । तयोश्च सत्त्वं पूर्ववद्विज्ञेयम् ॥ निमित्तभूतयोर्यथासंख्यमत्र नेष्यते सर्वाणीमान्यन्तिकानि इदमेषामतिशयेन, नेदिष्ठम् । उभे इमे अन्तिके इदम- नयोरतिशयेन नेदीयः । इदमस्मान्नेदीयः । सर्वदमे बाढमधीयते । अयमस्मा- त्साधीयोधीते ॥ युवाल्पयोः कनन्यतरस्याम् ॥ ६४ ॥ युवाल्पशब्दयोः कनित्ययमादेशो भवत्यन्यतरस्यामजाद्योः परतः । तयोश्च सत्त्वं पूर्ववत् ज्ञेयम् । सर्वदमे युवानः, अयमेषामतिशयेन, कनिष्ठः । द्वाविमौ युवानौ अयमनयोरतिशयेन, कनीयान् । यविष्ठः । यवीयान् । सर्व- इमेऽल्पाः । अयमेषामतिशयेन, कनिष्ठः । उभाविमावल्पावयमनयोरतिशयेन कनीयान् । अयमस्मात्कनीयान् । अल्पिष्ठः, अल्पीयानिति वा ॥ विन्मतोर्लुक् ॥ ६५ ॥ विनो मतुपश्च लुग् भवति अजाद्योः प्रत्यययोः परतः । इदमेव वचनं ज्ञापकमजादिसद्भावस्य । सर्वद्रमे स्रग्विणः, अयमेषामतिशयेन, स्रजिष्ठः । उभाविमौ स्रग्विणौ, अयमनयोरतिशयेन, स्रजीयान् । अयमस्मात् स्रजीयान्

[Header] ॥ काशिका ॥ ५ ॥ ३ ॥ ४४७

सर्वेऽमी त्वावन्तः अयमेषामतिशयेन, त्वचिष्ठः । उभाविमौ त्वावन्तौ, अयम- नयोरतिशयेन, त्वचीयान् । अयमस्मात्त्वचीयान् ॥ प्रशंसायां रूपप् ॥ ६६ ॥ प्रशंसा स्तुतिः । प्रकृत्यर्थस्य विशेषणं चैतत् । प्रशंसाविशिष्टे ऽर्थे वर्तमा- नात् प्रातिपदिकात् स्वार्थे रूपप् प्रत्ययो भवति । स्वार्थिकाः प्रत्ययाः प्रकृत्यर्थ- विशेषस्य द्योतका भवन्ति । प्रशस्तो वैयाकरणो वैयाकरणरूपः । याज्ञिकरूपः । प्रकृत्यर्थस्य वैशिष्ट्ये प्रशंसा भवति । वृषलरूपो ऽयं, यः पलाण्डुना सुरां पिबति । चौररूपः । दस्युरूपः । यो ऽक्तोरप्यञ्जनमपहरेत् । तिङश्चेत्यनुवर्तते । पचतिरू- पम् । पचतोरूपम् । क्रियाप्रधानमाख्यातम् । एका च क्रियेति रूपप्प्रत्ययान्ताद् द्विवचनबहुवचने न भवतः । नपुंसकलिङ्गन्तु भवति लोकाश्रयत्वाल्लिङ्गस्य ॥ ईषदसमाप्तौ कल्पब्देश्यदेशीयरः ॥ ६७ ॥ संपूर्णता, पदार्थानां समाप्तिः । स्तोकेनासंपूर्णाता, ईषदसमाप्तिः । प्रकृत्यर्थविशेषणं चैतत् । ईषदसमाप्तिविशिष्टे ऽर्थे वर्तमानात् प्रातिपदिकात् कल्पब् देश्य देशीयर् इत्येते प्रत्यया भवन्ति । ईषदसमाप्तः पटुः, पटुकल्पः । पटुदेश्यः । पटुदेशीयः । मृदुकल्पः । मृदुदेश्यः । मृदुदेशीयः । तिङश्चे- त्येव । पचतिकल्पम् । जल्पतिकल्पम् ॥ विभाषा सुपो बहुच् पुरस्तात्तु ॥ ६८ ॥ ईषदसमाप्तिविशिष्टे ऽर्थे वर्तमानात् सुबन्ताद्विभाषा बहुच् प्रत्ययो भवति, स च पुरस्तादेव भवति, न परतः चित्करणमन्तोदात्तार्थम् । ईषद- समाप्तः पटुः, । बहुपटुः । बहुमृदुः । बहुगुडा द्राक्षा । विभाषाग्रहणात् कल्प- बादयो ऽपि भवन्ति । सुब्ग्रहणं तिङन्तान्मा भूदिति ॥ प्रकारवचने जातीयर् ॥ ६९ ॥ सामान्यस्य भेदको विशेषः प्रकारः, तस्य वचने, प्रकृत्यर्थविशेषणं चैतत् । सुबन्तात्प्रकारविशिष्टे ऽर्थे वर्तमानात् प्रातिपदिकात् स्वार्थे जातो- यर् प्रत्ययो भवति । प्रकारवति चायं प्रत्ययः । थाल्पुनः प्रकारमात्रएव भवति । पटुप्रकारः, पटुजातीयः । मृदुजातीयः । दर्शनीयजातीयः ॥ प्रागिवात्कः ॥ ७० ॥ इवे प्रतिकृताविति वक्ष्यति । प्रागेतस्माद्विकसंशब्दिताद्यानित ऊर्ध्वम- नुक्रमिष्यामः, कप्रत्ययस्तेष्वधिकृतो वेदितव्यः । वक्ष्यति अज्ञातादिति । अश्वकः । गर्दभकः ॥ तिङन्तादयं प्रत्ययो नेष्यते ॥ वक्ष्यिष्यते ॥ तिङ्श्चेत्यनुवृत्तमुत्तर- [L

४४८ काशिका ॥ ५ ॥ ३ ॥ अव्ययसर्वनाम्नाकच्प्राक् टेः ॥ ७१ ॥ तिङश्चेत्येव। अव्ययानां सर्वनाम्नां च प्रागिवीयेष्वर्थेष्वकच्प्रत्ययो भवति, स च प्राक् टेः, न परतः। कस्यापवादः । उच्चकैः । नीचकैः । शनकैः । सर्व- नाम्नः खल्वपि। सर्वके। विश्वके। उभयके । प्रातिपदिकात्सुप इति द्वयम- प्यनुवर्त्तते । तत्राभिधानतो व्यवस्था भवति । क्व चित्प्रातिपदिकस्य प्राक् टेः प्रत्ययो भवति। क्व चित्सुबन्तस्य । युष्माकाभिः । अस्माकाभिः । युष्माकासु । अस्माकासु । युवक्रयोः । आवकयोः । इत्यत्र प्रातिपदिकस्य । त्वयका । मयका । त्वयकि । मयकीत्यत्र सुबन्तस्य ॥ प्राकप्रकरणे तूष्णीमः काम् प्रत्ययो वक्तव्यः ॥ * ॥ स च मित्त्वादन्त्यादचः परो भवति । तूष्णीकामास्ते। तूष्णीकां [L1

॥ काशिका ॥ ५ ॥ ३ ॥ ४४९ अनुकम्पायाम् ॥ ७६ ॥ कारुण्येनाभ्युपपत्तिः परस्यानुकम्पा । तस्यां गम्यमानायां सुबन्तात्तिङ- न्ताच्च यथाविहितं प्रत्ययो भवति । पुत्रकः । वत्सकः । दुर्बलकः । बुभुक्षि- तकः * । विश्वसितकि । स्वपितकि ॥ नीतौ च तद्युक्तात् ॥ ७७ ॥ सामदानादिरुपायो नीतिः । नीतौ च गम्यमानायां तद्युक्तादनुकम्पायु- क्ताद्यथाविहितं प्रत्ययो भवति । हन्त ते धानकाः । हन्त ते तिलकाः । एहिकि । बहुकि । अनुकम्प्यमाने दानेनाराधयति । पूर्वेणाप्रत्यासत्त्यानुकम्पासंबन्धादनुक- म्प्यमानादेव प्रत्ययो विहितः । संप्रति व्यवहितादपि यथा स्यादिति वचनम् ॥ बह्वचो मनुष्यनाम्नष्ठज्वा ॥ ७८ ॥ अनुकम्पायां नीतौ च तद्युक्तादिति वर्तते । बह्वचः प्रातिपदिकान्मनु- ष्यनामधेयाद्वा ठच्प्रत्ययो भवति अनुकम्पायां गम्यमानायां नीतौ च । देविकः । देवदत्तकः । यज्ञिकः । यज्ञदत्तकः । बह्वच इति किम् । दत्तकः । गुप्तकः । मनुष्यनाम्न इति किम् । मद्रबाहुकः । भद्रबाहुकः ॥ घनिलचौ च ॥ ७९ ॥ अनुकम्पायामित्यादि सर्वमनुवर्तते । पूर्वेण ठचि विकल्पेन प्राप्ते वच- नम् । बह्वचो मनुष्यनाम्नो घन् इलच् इत्येतौ प्रत्ययौ भवतः । चकाराद्यथा- प्राप्तम् । देवियः । देविलः । देविकः । देवदत्तकः । यज्ञियः । यज्ञिलः । यज्ञिकः । यज्ञदत्तकः ॥ प्राचामुपादेरड्वुचौ च ॥ ८० ॥ पूर्ववत् सर्वमनुवर्तते । उपशब्द आदिर्यस्य तस्मादुपादेः प्रातिपदिकाद् बह्वचो मनुष्यनाम्नो ऽडच् बुच् प्रत्ययौ भवतः । चकाराद् घनिलचौ प्रत्ययौ भवतः । ठच्च वा । उपडः । उपकः । उपियः । उपिलः । उपिकः । उपेन्द्रद- त्तकः । प्राचांग्रहणं पूजार्थम् । वेत्येव हि वर्तते ॥ जातिनाम्नः कन् ॥ ८१ ॥ बह्वच इति नानुवर्तते । सामान्येन विधानं, जातिशब्दो यो मनुष्यना- मधेयो व्याघ्र सिंह इत्येवमादिः, तस्मादनुकम्पायां नीतौ च कन्प्रत्ययो भवति । व्याघ्रकः । सिंहकः । शरभकः । वावचनानुवृत्तेर्यथादर्शन†मन्यो ऽपि भवति । व्याघ्रिलः । सिंहिलः । नामग्रहणं स्वरूपनिवृत्त्यर्थम् ॥

  • ज्वरितकः । इत्याधिकं पुस्तकान्तरे ।
  • यथासंभवमिति पा० २ । २६

४५० ॥ काशिका ॥ ५ ॥ ३ ॥ अजिनान्तस्योत्तरपदलोपश्च ॥ ८२ ॥ कनित्यनुवर्त्तते, मनुष्यनाम्न इति च। अजिनशब्दान्तात्प्रातिपदिकान्मनु- ष्यनाम्नो ऽनुकम्पायां कन्प्रत्ययो भवति तस्य चोत्तरपदलोपः। व्याघ्राजिनो नाम कश्चिन्मनुष्यः। सोऽनुकम्पितः। व्याघ्रकः। सिंहकः॥ ठाजादावूर्ध्वं द्वितीयादचः ॥ ८३ ॥ लोप इत्यनुवर्त्तते। अस्मिन्प्रकरणे यष्ठो ऽजादिश्च प्रत्ययस्तस्मिन्परतः प्रकृतेर्द्वितीयादच ऊर्ध्वं यच्छब्दरूपं तस्य लोपो भवति। ऊर्ध्वग्रहणं सर्वलोपा- र्थम्। अनुकम्पितो देवदत्तः, देविकः। देवियः। देविलः। यज्ञिकः। यज्ञियः। यज्ञिलः। उपडः। उपकः। उपेन्द्रदत्तकः। ठग्रहणमुक्तो द्वितीयत्वे कविधा- नार्थम्। अजादिलक्षणे हि प्राथ

॥ काशिका ॥ ५ ॥ ३ ॥ ४५१

अल्पे ॥ ८५ ॥ परिमाणापचये अल्पशब्दः, प्रकृतिविशेषकं चैतत् । अल्पत्वविशिष्टे ऽर्थे वर्तमानात्प्रातिपदिकाद्यथाविहितं प्रत्ययो भवति । अल्पं तैलं, तैलकम् । घृतकम् । सर्वकम् । विश्वकम् । उच्चकैः । नीचकैः । पचतकि । जल्पतकि ॥ ह्रस्वे ॥ ८६ ॥ ह्रस्वत्वविशिष्टे ऽर्थे वर्तमानात् प्रातिपदिकाद् यथाविहितं प्रत्ययो भवति । दीर्घप्रतियोगी ह्रस्वः । ह्रस्वो वृक्षो, वृक्षकः । प्लक्षकः । स्तम्बकः ॥ संज्ञायां कन् ॥ ८७ ॥ ह्रस्वइत्येव । ह्रस्वत्वहेतुका या संज्ञा तस्यां गम्यमानायां कन् प्रत्ययो भवति । पूर्वस्यायमपवादः । वंशकः । वेणुकः । दण्डकः ॥ कुटीशमीशुण्डाभ्यो रः ॥ ८८ ॥ ह्रस्वइत्येव । संज्ञाग्रहणं नानुवर्त्तते, सामान्येन विधानम् । कुटीशमी- शुण्डाभ्यो ह्रस्वार्थे द्योत्ये रः प्रत्ययो भवति । कस्यापवादः । ह्रस्वा कुटी, कुटीरः । शमीरः । शुण्डारः । स्वार्थकत्वे ऽपि पुंल्लिङ्गता लोकाश्रयत्वा- ल्लिङ्गस्य ॥ कुत्वा डुपच् ॥ ८९ ॥ ह्रस्वइत्येव । कुतूशब्दाद्ध्रस्वत्वे द्योत्ये डुपच्प्रत्ययो भवति । कस्यापवादः । ह्रस्वा कुतूः कुतुपञ्चर्ममयं स्नेहभाजनमुच्यते । कूतूरित्यावपनस्याख्या ॥ कासूगोणीभ्यां ष्टरच् ॥ ९० ॥ ह्रस्वइत्येव । कासूगोणीशब्दाभ्यां ह्रस्वत्वे द्योत्ये ष्टरच्प्रत्ययो भवति । कस्यापवादः । षकारो ङीषर्थः । ह्रस्वा कासूः, कासूतरी । गोणीतरी । कासू- रिति शक्त्यायुधविशेष उच्यते ॥ वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे ॥ ९१ ॥ ह्रस्वइति निवृत्तम् । वत्स उक्षन् अश्व ऋषभ इत्येतेभ्यस्तनुत्वे द्योत्ये ष्टरच्प्रत्ययो भवति । यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशः, तस्य तनुत्वे प्रत्ययः । वत्सतरः । उक्षतरः । अश्वतरः । ऋषभतरः । प्रथमवया वत्सः तस्य तनुत्वं द्वितीयवयःप्राप्तिः । तदृक्ष उक्षा । तस्य तनुत्वं तृतीयवयःप्राप्तिः । अश्वेनाश्वायामुत्पन्नो ऽश्वस्तस्य तनुत्वमन्यपितृकता । अनड्वानृषभः । तस्य तनुत्वं भारवहने मन्दशक्तिता ॥ कियत्तदोर्निर्द्धारणे द्वयोरेकस्य डतरच् ॥ ९२ ॥

४५२ ॥ काशिका ॥ ५ । ३ ॥ किं यत् तत् इत्येतेभ्यः प्रातिपदिकेभ्यो द्वयोरेकस्य निर्धारणे डतरच् प्रत्ययो भवति । निर्धार्यमाणवाचिभ्यः स्वार्थे प्रत्ययः । जात्या * क्रियया गुणेन वा संज्ञया वा समुदायादेकदेशस्य पृथक्करणं निर्धारणम् । कतरो भवतोः कठः । कतरो भवतोः कारकः । कतरो भवतोः पटुः । कतरो भवतोर्देवदत्तः । यतरो भवतोः कारकः । यतरो भवतोः पटुः । यतरो भवतोर्देवदत्तः । ततर आगच्छतु । महाविभाषया ऽत्र प्रत्ययो विकल्प्यते । को भवतोर्देवदत्तः, स आगच्छतु । निर्धारणइति विषयसप्तमीनिर्देशः । द्वयोरिति समुदायान्निर्धारणविभक्तिः । एकस्येति निर्देशः निर्धार्यमाणनिर्देशः ॥ वा बहूनां जातिपरिप्रश्ने डतमच् ॥ ९३ ॥ कियत्तद् इति वर्तते, निर्धारणे एकस्येति च । बहूनामिति निर्धारणे षष्ठी । बहूनां मध्ये एकस्य निर्धारणे गम्यमाने जातिपरिप्रश्नविषयेभ्यः किमा- दिभ्यः वा डतमच् प्रत्ययो भवति । कतमो भवतां कठः । यतमो भवतां कठः । ततम आगच्छतु । वावचनमकर्तव्यम्, यको भवतां कठः । सक आगच्छतु । महा- विभाषा च प्रत्ययविकल्पार्थानुवर्ततएव । को भवतां कठः । योभवतां कठः । स आगच्छतु । जातिपरिप्रश्नइति किम् । को भवतां देवदत्तः । परिप्रश्नग्रहणं च किम एव विशेषणं, न यत्तदोरसंभवात् । जातिग्रहणं तु सर्वैरेव संबध्यते । किमो ऽस्मिन्विषये डतरमपीच्छन्ति के चित् । कतरो भवतां कठः । कतरो भवतां कालाप इति । तन्न कतरकतमौ जातिपरिप्रश्नइति वचनात्सिद्धम् ॥ एकाच्च प्राचाम् ॥ ९४ ॥ एकशब्दात्प्राचामाचार्याणां मतेन डतरच् डतमच् इत्येतौ प्रत्ययौ भवतः स्वस्मिन्विषये । चकारो डतरचो ऽनुकर्षणार्थः । द्वयोर्निर्धारणे डतरच् । बहूनां निर्धारणे डतमच् । जातिपरिप्रश्नइति नानुवर्तते । सामान्येन विधा- नम् । एकतरो भवतोर्देवदत्तः । एकतमो भवतां देवदत्तः । प्राचांग्रहणं पूजार्थे, विकल्प्यानुवर्तते ॥ अवक्षेपे कन् ॥ ९५ ॥ अवक्षिप्यते येन तदवक्षेपणम् । तस्मिन्वर्तमानात्प्रातिपदिकात्कन्प्र- त्ययो भवति । व्याकरणकेन नाम त्वं गर्वितः । याज्ञिक्यकेन नाम त्वं गर्वितः । परस्य कुत्सार्थे यदुपादीयते तदिहोदाहरणम् । यत्पुनः स्वयमेव कुत्सितं तत्र कुत्सितइत्यनेन कन्प्रत्ययो भवति । देवदत्तको, यज्ञदत्तक इति । प्रागिवीयस्य परो ऽवधिः ॥

  • जात्येत्येकस्मिन् पुस्तके नास्ति, कतरो भवतोः कठ इति तदुदाहरणं च । तच्चैव युक्त- म्पदभञ्जन्यां जात्या वेत्यपि दृष्टव्यं, कतरो भवतोः कठ इत्यादेरपि संभवदिति दर्शनात् ।

॥ काशिका ॥ ५ ॥ ३ ॥ ४५३ इवे प्रतिकृतौ ॥ ९६ ॥ कनित्यनुवर्त्तते । इवार्थे यत्प्रातिपदिकं वर्तते तस्मात्कन् प्रत्ययो भवति इवार्थः सादृश्यं तस्य विशेषणं प्रतिकृतिग्रहणम् । प्रतिकृतिः प्रतिरूपकं प्रतिच्छन्दकम् । अश्व इवायमश्वप्रतिकृतिः, अश्वकः । उष्ट्रकः । गर्दभकः । प्रतिकृताविति किम् । गौरिव गवयः ॥ संज्ञायां च ॥ ९७ ॥ इवेत्यनुवर्त्तते, कनिति च । इवार्थे गम्यमाने कन्प्रत्ययो भवति समु- दायेन चेत् संज्ञा गम्यते । अप्रतिकृत्यर्थ आरम्भः । अश्वसदृशस्य संज्ञा, अश्वकः । उष्ट्रकः । गर्दभकः ॥ लुम्मनुष्ये ॥ ९८ ॥ संज्ञायामित्येव । संज्ञायां विहितस्य कनो मनुष्ये ऽभिधेये लुप् भवति । चञ्चेव मनुष्यः, चञ्चा । दासी । खरकुटी । मनुष्यइति किम् । अश्वकः । उष्ट्रकः । गर्दभकः । देवपथादेराकृतिगणत्वात्तस्यैवायं प्रपञ्चो वेदितव्यः ॥ जीविकार्थे चापण्ये ॥ ९९ ॥ जीविकार्थे यदपण्यं तस्मिनभिधेये कनो लुप् भवति । विक्रीयते यत्तत्पण्यम् । वासुदेवः । शिवः । स्कन्दः । विष्णुः । आदित्यः । देवलका- दीनां जीविकार्थे देवप्रतिकृतय उच्यन्ते । अपण्यइति किम् । हस्तिकान्वि- क्रीणीते । अश्वकान् । रथकान् । देवपथादेरेवायं प्रपञ्चः ॥ देवपथादिभ्यश्च ॥ १०० ॥ इवे प्रतिकृतौ संज्ञायां च विहितस्य कनो देवपथादिभ्य उत्तरस्य लुप् भवति । आदिशब्दः प्रकारे । आकृतिगणश्चायम् । देवपथः । हंसपथः । अर्चासु पूजनार्थासु चित्रकर्मध्वजेषु च । इवे प्रतिकृतौ लोपः कनो देवपथादिषु ॥ अर्चासु तावत् । शिवः । विष्णुः । चित्रकर्मणि । अर्जुनः । दुर्योधनः । ध्वजेषु । कपिः । गरुडः । सिंहः । देवपथ । हंसपथ । वारिपथ । जलपथ । राजपथ । शतपथ । सिंहगति । उष्णग्रीवा । चामरज्जुः । रज्जुः । हस्त । कर्ण । दण्ड । पुष्य । मत्स्य* ॥ वस्तेर्ढञ् ॥ १०१ ॥ इवेत्यनुवर्त्तते, इतः प्रभृति प्रत्ययाः सामान्येन भवन्ति प्रतिकृतौ चाप्रतिकृतौ च । वस्तिशब्दादिवाऽर्थे द्योत्ये ढञ्प्रत्ययो भवति । वस्तिरिव वास्तेयः । वास्तेयी ॥

  • रथपथ । ऋजुपथ । सिंहपथ । इत्येते शब्दा अत्र गणेऽधिकाः पुस्तकान्तरे ।

४५४ ॥ काशिका ॥ ५ ॥ ३ ॥ शिलाया ढः ॥ १०२ ॥ शिलाशब्दादिवार्थे ढः प्रत्ययो भवति। शिलेव, शिलेयं दधि। केचि- दत्र ठजमपीच्छन्ति, तदर्थं योगविभागः कर्तव्यः। शिलाया ठञ्प्रत्ययो भवति। शैलेयम्। ततो ढः। शिलेयम् ॥ शाखादिभ्यो यत् ॥ १०३ ॥ शाखा इत्येवमादिभ्यः प्रातिपदिकेभ्यो यत्प्रत्ययो भवति इवार्थे। शाखेव, शाख्यः। मुख्यः। जघन्यः। शाखा। मुख। जघन। शृङ्ग। मेघ। चरण। स्कन्ध। शिरस्। उरस्। अङ्ग। शरण। शाखादिः ॥ द्रव्यं च भव्ये ॥ १०४ ॥ द्रव्यशब्दो निपात्यते भव्ये ऽभिधेये। द्रुशब्दादिवार्थे यत्प्रत्ययो निपा- त्यते। द्रव्यम्। भव्य आत्मवान्। अभिप्रेतानामर्थानां पात्रभूत उच्यते। द्रव्योयं राजपुत्रः। द्रव्योयं माणवकः ॥

॥ काशिका ॥ ५ । ३ ॥ ४५५

अङ्गुल्यादिभ्यष्ठक् ॥ १०८ ॥ अङ्गुल्यादिभ्यः स्वार्थे ठक् प्रत्ययो भवति । अङ्गुलीवाङ्गुलिकः । भाह- ङ्गिकः । अङ्गुलि । भहङ्ग । बभ्रु । वल्गु । मण्डर । मण्डल । वक्कुल । कपि । उदश्वित् । गोणी । उरस् । शिखा । कुलिश । अङ्गुल्यादिः ॥ एकशालायाष्ठञन्यतरस्याम् ॥ १०९ ॥ एकशाला शब्दात्स्वार्थे ऽन्यतरस्यां ठञ् प्रत्ययो भवति । अन्यतरस्यांग्र- हणेनानन्तरष्ठुक् प्राप्यते । एकशालेव, एकशालिकः । ऐकशालिकः ॥ कर्कूलोहितादीकक् ॥ ११० ॥ कर्कूलोहितशब्दाभ्यामिवार्थे ईकक् प्रत्ययो भवति । कर्कूः शुक्लो ऽश्वः, तेन सदृशः, कार्कीकः । लोहितीकः स्फटिकः । स्वयमलोहितोऽप्युपाश्रयवशा- त्तथा

्यः" or "कौण्डीवृष्यः"? Wait, look at L4: कौ - ण्डी - वृ - ष्यः (kauṇḍīvṛṣyaḥ) And dual: कौण्डीवृष्यौ (kauṇḍīvṛṣyau).

"कौण्डीवृषाः। क्षौद्रक्यः। क्षौद्रक्यौ। क्षुद्रकाः। मालव्यः। मालव्यौ। मालवाः।" Let's check every word: कौण्डीवृषाः । क्षौद्रक्यः । क्षौद्रक्यौ । क्षुद्रकाः । मालव्यः । मालव्यौ । मालवाः । All match perfectly.

"स्त्रियां कौण्डीवृषी। क्षौद्रकी। मालवी। आयुधजीविग्रहणं किम्। मल्लाः।" Wait, look at "आयुधजीविग्रहणं": "आयुधजीविग्रहणं किम् । मल्लाः ।" Matches!

"शयण्डाः। सङ्घग्रहणं किम्। सम्राट्। वाहीकेष्विति किम्। शबराः। पुलिन्दाः।" Let's check: शयण्डाः । सङ्घग्रहणं किम् । सम्राट् । वाहीकेष्विति किम् । शबराः । पुलिन्दाः । Matches!

"अब्राह्मणराजन्यादिति

॥ काशिका ॥ ५ ॥ ३ ॥ ४५७ रक्षस् । बाह्लीक । वयस् । महत् । दशार्ह । पिशाच । विशाल । वाशति । जाँवोषण । सत्वत् । वसु । पर्श्वादिः ॥ यौधेय । कौशेय । क्रोष्टेय । शौक्रेय । बौधेय । धार्त्तेय । वार्त्तेय । जाबालेय । त्रिगर्त । भरत । उशीनर । यौधेयादिः ॥ अभिजिद्विद्भृच्छालावच्छिखावच्छमीवद्दूर्णावच्छ्रु- मद्भ्यो यञ् ॥ ११८ ॥ आयुधजीविसंघादिति निवृत्तम् । अभिजिदादिभ्यो ऽणन्तेभ्यः प्राति- पदिकेभ्यः स्वार्थे यञ् प्रत्ययो भवति । अभिजितो ऽपत्यमित्यण् । तदन्ता- द्यञ् । आभिजित्यः । आभिजित्यौ । आभिजिताः । वैद्भृत्यः । वैद्भृत्यौ । वैद्भृताः । शालावत्यः । शालावत्यौ । शालावताः । शैखावत्यः । शामी- वत्यः । दौर्णावत्यः । श्रौमत्यः ॥ गोत्रप्रत्ययस्यात्राणो ग्रहणमिष्यते ॥ अभि- जितो मुहूर्तः । आभिजितः । स्थालीपाक इत्यत्र न भवति ॥ ञ्यादयस्तद्राजाः ॥ ११९ ॥ पूगाञ्ञ्यो ग्रामणीपूर्वादित्यतः प्रभृति ये प्रत्ययाः ते तद्राजसंज्ञाभवन्ति । तथा चैवोदाहृतम् । तद्राजप्रदेशाः तद्राजस्य बहुष्वित्येवमादयः ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ पञ्चमस्याध्यायस्य तृतीयः पादः ॥ ॥ अथ पञ्चमस्याध्यायस्य चतुर्थः पादः ॥ पादशतस्य संख्यादेर्वीप्सायां वुन्लोपश्च ॥ १ ॥ पादशतान्तस्य संख्यादेः प्रातिपदिकस्य वीप्सायां द्योत्यायां वुन् प्रत्ययो भवति । तत्सन्नियोगेन चान्तस्य लोपो भवति । यस्येति लोपेनैव सिद्धेपुनर्वि- धानमनेमित्तिकार्थम् । यस्येति लोपः परनिमित्तकः । तस्य स्थानिवद्भावात्पादः पद्दिति पद्भावो न स्यात् । अस्य स्वनिमित्तिकत्वाच्च स्थानिवत्त्वम् । द्वौद्वौ पादौ ददाति, द्विपदिकां ददाति । द्वे द्वे शते ददाति, द्विशतिकां ददाति । तद्धि- तार्थेति समासः । ततः प्रत्ययः । स्वभावाच्च वुन्प्रत्ययान्तं स्त्रियामेव वर्तते । पादशतस्येति किम् । द्वौद्वौ माषौ ददाति । संख्यादेरिति किम् । पादंपादं ददाति । वीप्सायामिति किम् । द्वौपादौ ददाति । द्वे शते ददाति । पाद- शतग्रहणमनर्थकमन्यत्रापि दर्शनात् । द्विमौदकिकां ददाति, त्रिमौदकिकां ददाति ॥ दण्डव्यवसर्गयोश्च ॥ २ ॥

दमनं दण्डः। दानं व्यवसर्गः। दण्डव्यवसर्गयोर्गम्यमानयोः पादशता- न्तात् प्रातिपदिकात् संख्यादेर्वुन् प्रत्ययो भवति, अन्तलोपश्च। अपीप्साऽर्थ- मारम्भः। द्वौ पादौ दण्डितः। द्विपदिकान्दण्डितः। द्वौ पादौ व्यवसृजति। द्विपदिकां व्यवसृजति। द्विशतिकां दण्डितः। त्रिशतिकां। द्विशतिकां व्यव- सृजति। त्रिशतिकां ॥ स्थूलादिभ्यः प्रकारवचने कन् ॥ ३ ॥ स्थूलादिभ्यः प्रकारवचने द्योत्ये कन् प्रत्ययो भवति। जातीयरोपवादः। प्रकारो विशेषः। स्थूलप्रकारः, स्थूलकः। अणुकः। माषकः॥ कन्प्रकरणे चञ्च- द्बृहतो रुपसंख्यानम् ॥ * ॥ चञ्चत्प्रकारः, चञ्चत्कः। बृहत्कः। चञ्चद्बृहत्योरिति के चित्पठन्ति। तेषां चञ्चकः, बृहक इति उदाहरणं द्रष्टव्यम्। केण इति [L1

ोरिति, it has without: looks like सक्यक्ष्णोरिति. Let's write सक्यक्ष्णोरिति`.

Everything is verified against the scanned image. Ready to output cleanly.॥ काशिका ॥ ५ ॥ ४ ॥ ४५९ अवबृहत् आशितंगु अलंकर्म अलंपुरुष इत्येतेभ्यो ऽध्युत्तरपदाच्च स्वार्थे खः प्रत्ययो भवति । अविद्यमानानि बहतीत्यस्येति बहुव्रीहिः । बहुव्रीहौ सक्यक्ष्णोरिति षच् । ततः खप्रत्ययः । अवबृहतीषो मन्त्रः । यो द्वाभ्यामेव क्रियते न बहुभिः । आशिता गावो ऽस्मिंश्चरणे आशितंगवीनमरण्यम् । नि- पातनात्पूर्वपदस्य मुमागमः । अलंकर्मन् । अलंपुरुष इति । पर्यादयो ग्लाना- द्यर्थे चतुर्थ्येति समासः । अलंकर्मणे,ऽलंकर्मीणः । अलंपुरुषाय, अलंपुरुषीणः । अध्युत्तरपदस्त्युक्तः । अधिशब्दः शाण्डादिषु पठ्यते । राजाधीनः । नित्य- श्चायं प्रत्यय

७६० ॥ काशिका ॥ ५ ॥ ४ ॥ स्वतः प्रकर्षो नास्ति तथापि गुणक्रियास्थः प्रकर्षो यदा द्रव्येऽपचर्यते तदा ऽयं प्रतिषेधः। क्रियामुख्ययोरेवायं प्रकर्षे प्रत्ययः। किंतराम्। किंतमाम्। पूर्वेद्यु- तराम्। पूर्वेद्युतमाम्। पचतितराम्। पचतितमाम्। उच्चैस्तराम्। उच्चैस्त- माम्। अद्रव्यप्रकर्षेऽति किम्। उच्चैस्तरः। उच्चैस्तमः॥ अमुचच्छन्दसि ॥ १२ ॥ किमेत्तिङव्ययघादद्रव्यप्रकर्षे अमु प्रत्ययो भवति छन्दसि विषये। चका- रादामु च। प्रतरं नयामः। प्रतरां वस्यः। स्वरादिषु अम् आम् इति पठ्यते। तस्मात्तदन्तस्याव्ययत्वम् ॥ अनुगादिनष्ठक् ॥ १३ ॥ अनुगदतीत्यनुगादी। अनुगादिन्शब्दात्स्वार्थे ठक् प्रत्ययो भवति। आनुगादिकः॥ शचः स्त्रियामञ् ॥ १४ ॥ कर्मव्यतिहारे शच् स्त्रियामिति यद्विहितः, तदन्तात्स्वार्थे ऽञ् प्रत्ययो भवति स्त्रियां विषये। व्यावक्रोशी। व्यावहासी वर्तते। स्त्रीग्रहणं किमर्थं यावता शच् स्त्रियामेव विहितः। ततः स्वार्थिकस्तत्रैव भविष्यति। एवं तर्ह्य- तज् ज्ञापयति स्वार्थिकाः प्रत्ययाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते ऽपीति। तेन गुडकल्पा द्राक्षा। तैलकल्पा प्रसन्ना। देव एव देवतेत्येवमाद्युपपन्नं भवति ॥ अभिनुशः ॥ १५ ॥ अभिविधौ भावइनुण् विहितस्तदन्तात्स्वार्थे ऽञ् प्रत्ययो भवति। सां- राविणं वर्त्तते। सांकूटिनम् ॥ विसारिणो मत्स्ये ॥ १६ ॥ विसरतीति विसारी। विसारिन्शब्दात्स्वार्थे ऽञ् प्रत्ययो भवति मत्स्ये ऽभिधेये। वैसारिणो मत्स्यः। मत्स्यइति किम्। विसारी देवदत्तः॥ संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् ॥ १७ ॥ संख्याशब्देभ्यः क्रियाभ्यावृत्तिगणने वर्तमानेभ्यः स्वार्थे कृत्वसुच् प्रत्ययो भवति। पौनःपुन्यमभ्यावृत्तिः। एककर्तृकाणां तुल्यजातीयानां क्रियाणां जन्म- संख्यानं क्रियाभ्यावृत्तिगणनं तत्र प्रत्ययः। पञ्च वारान्भुङ्क्ते पञ्चकृत्वः। सप्त- कृत्वः। संख्याया इति किम्। भूरीन्वारान्भुङ्क्ते। क्रियाग्रहणं किमर्थम्। याव- ताभ्यावृत्तिः क्रियाया एव संभवति न द्रव्यगुणयोः। उत्तरार्थं क्रियाग्रहणम्। एकस्य सकृच्चेत्यत्र क्रियैव गण्यते नाभ्यावृत्तिः, असंभवात्। अभ्यावृत्तिग्रहणं