काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
Here is the line-by-line transcription of the page into clean Markdown in Unicode Devanagari:
॥ काशिका ॥ ६ ॥ २ ॥ ५७३ अच् क इत्येवमन्तमशक्तौ गम्यमानायामुत्तरपदं नञः परमन्तोदात्तं भवति । अपचो यः पक्तुं न शक्नोति । अजयः । कः खल्वपि । अविक्षिपः । अविलिखः । अशक्ताविति किम् । अपचो दीक्षितः । अपचः परिव्राजकः * ॥ आक्रोशे च ॥ १५८ ॥ आक्रोशे च गम्यमाने नञ उत्तरमकारान्तमन्तोदात्तं भवति । अपचोऽयं जाल्मः । अपठोऽयं जाल्मः । पक्तुं पठितुं शक्तोऽप्येवमाक्रुश्यते । अविक्षिपः । अविलिखः ॥ संज्ञायाम् ॥ १५६ ॥ आक्रोशे गम्यमाने नञः परमुत्तरपदं संज्ञायां । वर्त्तमानमन्तोदात्तं भवति । अदेवदत्तः । अयज्ञदत्तः । अविष्णुमित्रः ॥ कृत्योकेष्णुञ्चार्वादयश्च ॥ १६
५७४ ॥ काशिका ॥ ६ ॥ २ ॥ भोजनं वा स इदंप्रथमः । इदंद्वितीयः । इदंतृतीयः । एतत्प्रथमः । एतद्द्वि- तीयः । एतत्तृतीयः । तत्प्रथमः । तद्द्वितीयः । तत्तृतीयः । बहुव्रीहाविति किम् । अनेन प्रथम इदंप्रथमः । तृतीयेति योगविभागात्समासः । इदमेतत्सद्वा इति किम् । यत्प्रथमः । प्रथमपूरणयोरिति किम् । तानि बहून्यस्य तद्बहुः । क्रियागणनइति किम् । अयं प्रथम एषां तदिदंप्रथमाः । द्रव्यगणनमेतत् । गणनइति किम् । अयं प्रथम एषामिदंप्रथमाः । इदंप्रधाना इत्यर्थः । उत्तर- पदस्य कार्यित्वात् कपि पूर्वमन्तोदात्तं भवति । इदंप्रथमकाः । बहुव्रीहावि- त्येतदनं समासइति प्रागेतस्मादधिकृतं वेदितव्यम् ॥ संख्यायाः स्तनः ॥ १६३ ॥ संख्यायाः परः स्तनशब्दो बहुव्रीहौ
॥ काशिका ॥ ६ ॥ २ ॥ २७२ नाव्ययदिग्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः ॥ १६८ ॥ अव्यय दिक्शब्द गो महत् स्थूल मुष्टि पृथु वत्स इत्येतेभ्यः परं मुखं स्वाङ्गवाचि बहुव्रीहौ समासे नान्तोदात्तं भवति । अव्यय । उच्चैर्मुखः । नीचै- र्मुखः । दिक्शब्द । प्राङ्मुखः । प्रत्यङ्मुखः । गो । गोमुखः । महत् । महामुखः । स्थूल । स्थूलमुखः । मुष्टि । मुष्टिमुखः । पृथु । पृथुमुखः । वत्स । वत्स- मुखः । पूर्वपदप्रकृतिस्वरो यथायोगमेषु भवति । गोमुष्टिवत्सपूर्वस्योपमान- लक्षणो विकल्पः पूर्वविप्रतिषेधेन बाध्यते ॥ निष्ठोपमानादन्यतरस्याम् ॥ १६९ ॥ निष्ठान्तादुपमानवाचिनश्च मुखं स्वाङ्गमूत्तरपदमन्यतरस्यां बहुव्रीहौ समासेन्तोदात्तं भवति । प्रक्षालितमुखः । यदैतदुत्तरपदान्तोदात्तत्वं, न भवति तदा निष्ठोपसर्गपूर्वमन्यतरस्यामिति पक्षे पूर्वपदान्तोदात्तत्वं तदभावपक्षेपि पूर्वपदप्रकृतिस्वरत्वेन गतिस्वर इति त्रीण्युदाहरणानि भवन्ति । उपमानात् । सिंहमुखः । २ । व्याघ्रमुखः । २ ॥ जातिकालसुखादिभ्यो ऽनाच्छादनात् क्तो ऽकृतमितप्रतिपन्नाः ॥ १७० ॥ जातिवाचिन आच्छादनवर्जितात् कालवाचिनः सुखादिभ्यश्च परं क्तान्तं कृतमितप्रतिपन्नान्वर्जयित्वा बहुव्रीहौ समासेन्तोदात्तं भवति । सारङ्गजग्धः । बलाबड्डुर्भक्षितः । सुरापीतः । काल । मासजातः । संवत्सरजातः । द्वयहजातः । त्र्यहजातः । सुखादिभ्यः । सुखजातः । दुःखजातः । तृप्तजातः । जात्यादिभ्य इति किम् । पुत्रजातः । आहिताग्न्यादित्वात्परनिपातः । अनाच्छादनादिति किम् । वस्त्रच्छन्नः । वसनच्छन्नः । अकृतमितप्रतिपन्ना इति किम् । कुण्डकृतः । कुण्डमितः । कुण्डप्रतिपन्नः । एतेषु बहुव्रीहिषु निष्ठान्तस्य * पूर्वनिपातो न भवत्येकस्मादेव ज्ञापकात् । प्रत्युदाहरणेषु पूर्वपदप्रकृतिस्वरो योजयितव्यः । सुखादयस्तृतीयेऽध्याये पठ्यन्ते ॥ वा जाते ॥ १७१ ॥ जातशब्दोत्तरपदे वा ऽन्त उदात्तो भवति बहुव्रीहौ समासे जातिका- लसुखादिभ्यः । दन्तजातः । २ । स्तनजातः । २ । कालात् । मासजातः । २ । संवत्सरजातः । २ । सुखादिभ्यः । सुखजातः । दुःखजातः ॥ नञ्सुभ्याम् ॥ १७२ ॥ नञ्सुभ्यां परमुत्तरपदं बहुव्रीहौ समासेन्तोदात्तं भवति । अपथोदेशः ।
- पूर्वनिपातो न भवतीत्यस्य स्थाने परंनिपातो भवति । पाठः २ ।
५०६ ॥ काशिका ॥ ६ ॥ २ ॥ अव्रीहिः । अमाषः । सुयवः । सुव्रीहिः । सुमाषः । समासस्येत्यन्तोदात्तत्व- मिष्यते । समासान्ताश्चावयवा भवन्तीत्यनृचो बह्वृच इत्यत्र कृते समासान्ते ऽन्तोदात्तत्वं भवति ॥ कपि पूर्वम् ॥ १७३ ॥ नञ्सुभ्यां कपि परतः पूर्वमन्तोदात्तं भवति । अकुमारीको देशः । अवृ- षलीकः । अब्रह्मबन्धुकः । सुकुमारीकः । सुवृषलीकः । सुब्रह्मबन्धुकः ॥ ह्रस्वान्ते ऽन्त्यात्पूर्वम् ॥ १७४ ॥ ह्रस्वो ऽन्तो यस्य तदिदं ह्रस्वान्तमुत्तरपदं समासो वा, तत्रान्त्यात्पूर्व- मुदात्तं भवति कपि परतो नञ्सुभ्यां परं बहुव्रीहौ समासे । अयवको देशः । अव्रीहिकः । अमाषकः । सुयवकः । सुव्रीहिकः । सुमाषकः । पूर्वमिति वर्त्तमाने पुनः पूर्वग्रहणं प्रवृत्तिभेदेन नियमप्रतिपत्त्यर्थम् । ह्रस्वान्तेन्त्यादेव पूर्वमुदात्तं भवति न कपि पूर्वमिति । तेनाब्जकः सुब्जक इत्यत्र कबन्तस्यैवान्तोदात्तत्वं भवति ॥ बहोर्नञ्वदुत्तरपदभूम्नि ॥ १७५ ॥ उत्तरपदार्थबहुत्वे यो बहुशब्दो वर्त्तते तस्मान्नञ्वत् स्वरो भवति । नञ्सुभ्यामित्युक्तम् । बहोरपि तथा भवति । बहुयवो देशः । बहुव्रीहिः । बहुतिलः । कपि पूर्वमित्युक्तं बहोरपि तथा भवति । बहुकुमारीको देशः । बहुवृषलीकः । बहुब्रह्मबन्धुकः । ह्रस्वान्तेन्त्यात्पूर्वमित्युक्तं बहोरपि तथा भवति । बहुयवको देशः । बहुव्रीहिकः । बहुमाषकः । नञो जरमरमित्रमृता इत्युक्तं बहोरपि तथा भवति । बहुजरः । बहुमरः । बहुमित्रः । बहुमृतः । उत्तरपदभूम्नीति किम् । बहुषु मनो ऽस्य बहुमना अयम् ॥ न गुणादयो ऽवयवाः ॥ १७६ ॥ गुणादयो ऽवयववाचिनो बहोरुत्तरे बहुव्रीहौ नान्तोदात्ता भवन्ति । बहुगुणा रज्जुः । बहुत्तरं पदम् । बहुच्छन्दो मानम् । बहुसूक्तः । बहुऋचः । गुणादिराकृतिगणो द्रष्टव्यः । अवयवा इति किम् । बहुगुणो ब्राह्मणः । अध्ययनश्रुतसदाचारादयो ऽत्र गुणाः ॥ उपसर्गात् स्वाङ्गं ध्रुवमपर्शु ॥ १७७ ॥ उपसर्गात् स्वाङ्गं ध्रुवं पर्शुवर्जितमन्तोदात्तं भवति बहुव्रीहौ समासे । प्रपृष्ठः । प्रोदरः । प्रललाटः । ध्रुवमित्येकरूपमुच्यते । ध्रुवमस्य शीतमिति यथा । सततं यस्य प्रगतं पृष्ठं भवति स प्रपृष्ठः । उपसर्गादिति किम् । दर्श- नीयललाटः । स्वाङ्गमिति किम् । प्रहस्तो हयः । ध्रुवमिति किम् । उद्बाहुः क्रोशति । अपर्श्विति किम् । उत्पर्शुः । विपर्शुः ॥
॥ काशिका ॥ ६ ॥ २ ॥ ५७७ वनं समासे ॥ १७८ ॥ समासमात्रे वनमित्येतदुत्तरपदमुपसर्गात्परमन्तोदात्तं भवति । प्रवणे यष्टव्यम् । निर्वणे प्रविधीयते । प्रनिरन्तरिति णत्वम् । समासग्रहणं समास- मात्रपरिग्रहार्थं बहुव्रीहावेव हि स्यात् ॥ अन्तः ॥ १७९ ॥ अन्तश्शब्दादुत्तरं वनमन्तोदात्तं भवति । अन्तर्वणो देशः । अनुपसर्गार्थ चारम्भः ॥ अन्तश्च ॥ १८० ॥ अन्तश्शब्दश्चोत्तरपदमुपसर्गादन्तोदात्तं भवति । प्रान्तः । पर्यन्तः । बहुव्रीहिरयं प्रादिसमासो वा ॥ न निर्विभ्याम् ॥ १८१ ॥ नि वि इत्येताभ्यामुत्तरोन्तश्शब्दो नान्तोदात्तो भवति । न्यन्तः । व्यन्तः । पूर्वपदप्रकृतिस्वरत्वे कृते यणादेशः । तत्रोदात्तस्वरितयोर्यणः स्वरि- तोऽनुदात्तस्येति स्वरितो भवति ॥ परेरभितोभावि मण्डलम् ॥ १८२ ॥ परेरुत्तरमभितोभाविवचनं मण्डलं चान्तोदात्तं भवति । परिकूलम् । परितीरम् । परिमण्डलम् । बहुव्रीहिरयं प्रादिसमासो ऽव्ययीभावो वा । अव्य- यीभावपक्षेपि हि परिप्रत्युपापावर्ज्यमानाहोरात्रावयवेष्विति पूर्वपदप्रकृतिस्व- रत्वं प्राप्तमनेन बाध्यते । अभित इत्युभयतः । अभितो भावो ऽस्यास्तीति तदभितोभावि । यच्चैवं स्वभावं कूलादि तदभितोभाविव्यपदेशेन गृह्यते ॥ प्रादस्वाङ्गं संज्ञायाम् ॥ १८३ ॥ प्रादुत्तरपदमस्वाङ्गवाचि संज्ञायां विषये ऽन्तोदात्तं भवति । प्रकोष्ठम् । प्रवहम् । प्रहारम् । अस्वाङ्गमिति किम् । प्रहस्तम् । प्रपदम् । संज्ञाया- मिति किम् । प्रपीठम् * ॥ निरुदकादीनि च ॥ १८४ ॥ निरुदकादीनि च शब्दरूपाण्यन्तोदात्तानि भवन्ति । निरुदकम् । निरू- दपम् । निरुपलमित्यन्ये पठन्ति । निर्मशकम् । निर्मक्षिकम् । एषां प्रादिस- मासो बहुव्रीहिर्वा । अव्ययीभावे तु समासान्तोदात्तत्वेनैव सिद्धम् । निष्का- लकः । निष्क्रान्तः कालकादिति कन्प्रत्ययान्तेन कालशब्देन प्रादिसमासः । नि-
- प्राष्ठः । पा० । ३७
' or 'अ-'? Yes, it looks like प्र- with a hyphen.
And line 30 starts with: नु ज्येष्ठः । or नुऽष्ठः?
Look at line 30, first word:
नु then ज् under which there is something, ष्ठः!
Wait, between नु and ष्ठः, there is ज् and ये?
Look at line 30:
It has: नु followed by ज् with ये? Wait, no!
Look at line 30:
नु then a letter with े and ष्ठः! It looks like नुज्येष्ठः or नु ज्येष्ठः?
Wait, look at the space: between नु and ज्येष्ठः?
Wait, let's look closely at:
नु then a mark, then ष्ठः? No, look at line 30:
नु then a vertical stroke with a bar? No, it's नुज्येष्ठः! But wait, look at the letters:
नु then a hyphen/space? No, it's नु followed by a broken ज्ये:
Wait, ज् + य + े = ज्ये. In ज्ये, the ज् is on the left, य on the right, े on top.
Here, look
॥ काशिका ॥ ६ ॥ २ ॥ ५७८ पुरुषश्चान्वादिष्टः ॥ १६० ॥ पुरुषशब्दो ऽन्वादिष्टवाची चानोत्तरान्तोदात्तो भवति । अन्वादिष्टः पुरुषो, ऽनुपुरुषः । अन्वादिष्टो ऽन्याचितः कथितमनुकथितो वा । अन्वादिष्ट इति किम् । अनुगतः पुरुषो ऽनुपुरुषः ॥ अतेरकृत्पदे ॥ १६१ ॥ अतेः परमकूदन्तं पदशब्दश्चान्तोदात्तो भवति । अत्यङ्कुशो नागः । अतिकशोश्वः । पदशब्दः खल्वपि । अतिपदा शक्वरी । अकृत्पदे इति किम् । अतिकारकः ॥ अतेर्गातुलोपइति वक्तव्यम् ॥ * ॥ इह मा भूत् । शोभनो गार्ग्यः । अतिगार्ग्यः । इह च यथा स्यात् । अतिक्रान्तः कारकादतिकारक इति ॥ नेरनिधाने ॥ १६२ ॥ नेः परमुत्तरपदमन्तोदात्तं भवति । निधानमप्रकाशता । निर्मूलम् । न्यक्षम् । नित्यग्निम् । बहुव्रीहिर
५८० ॥ काशिका ॥ ६ । २ ॥ सुशब्दोऽत्र पूजायामेव । वाक्यार्थस्तु अवक्षेपमसूयया तथाभिधानात् । सोरिति किम् । कुब्राह्मणः । अवक्षेपग्रहणं किम् । शोभनेषु तृणेषु सुतृणेषु ॥ विभाषोत्पुच्छे ॥ १६६ ॥ उत्पुच्छशब्दे तत्पुरुषे विभाषा ऽन्त उदात्तो भवति । उत्क्रान्तः पुच्छाद्, उत्पुच्छः । यदा तु पुच्छमुदस्यति उत्पुच्छयति उत्पुच्छयतेर्वा उत्पु- च्छस्तदा थाथादिसूत्रेण नित्यमन्तोदात्तत्वे प्राप्ते विकल्पोऽयमिति सेयमुभयत्र विभाषा भवति । तत्पुरुष इत्येव । उदस्तं पुच्छमस्य, उत्पुच्छः ॥ द्वित्रिभ्यां पाद्दन्मूर्द्धसु बहुव्रीहौ ॥ १६७ ॥ द्वि त्रि इत्येताभ्यामुत्तरेषु पाद् दत् मूर्द्धन् इत्येवमुत्तरपदेषु यो बहुव्री- हिस्तत्र विभाषा ऽन्त उदात्तो भवति । द्वौ पादाव
Here is the line-by-line transcription of the page:
॥ काशिका ॥ ६ ॥ ३ ॥ ५८१ पूर्व्वादिः ॥ पूर्वपदाद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसंख्यानम् ॥ * ॥ दिवोदासाय सामगाय ते इत्येवमादि सर्वं संगृहीतं भवति ॥ इति काशिकायां वृत्तौ षष्ठाध्यायस्य द्वितीयः पादः ॥ ॥ अथ षष्ठाध्यायस्य तृतीयः पादः ॥ अलुगुत्तरपदे ॥ १ ॥ अलुगिति च उत्तरपदे इति च एतदधिकृतं वेदितव्यम् । यदित ऊर्द्ध्व- मनुकमिष्यामो ऽलुगुत्तरपदइत्येवं तद्वेदितव्यम् । वक्ष्यति पञ्चम्याः स्तोका- दिभ्यः । स्तोकान्मुक्तः । अल्पान्मुक्तः । उत्तरपदेइति किम् । निष्क्रान्तः स्तोकात्, निस्तोकः । अन्यार्थमिदमुत्तरपदग्रहणमिहाप्यलुको निवृत्तिं करोतीत्येवमर्थे लक्षणप्रतिपदोक्तपरिभाषा नाश्रयितव्या । अलुगधिकारः प्रागानङः । उत्तरप- [
५८२ ॥ काशिका ॥ ६ ॥ ३ ॥ मनस उत्तरस्यास्तृतीयायाः संज्ञायामलुग्भवति । मनसादत्ता । मनसा- गुप्ता । मनसासङ्गता । संज्ञायामिति किम् । मनोदत्ता । मनोगुप्ता ॥ अज्ञायिनि च ॥ ५ ॥ आज्ञायिन्युत्तरपदे मनस उत्तरस्यास्तृतीयाया अलुग्भवति । मनसा ऽऽज्ञातुं शीलमस्य, मनसाऽऽज्ञायी ॥ आत्मनश्च पूरणे ॥ ६ ॥ आत्मन उत्तरस्यास्तृतीयायाः पूरणप्रत्ययान्तउत्तरपदे ऽलुग्भवति । आत्मनापञ्चमः चात्मनाषष्ठः । तृतीयाविधाने प्रकृत्यादिभ्य उपसंख्यानमिति तृतीया । तृतीयेति योगविभागात्समासः । आत्मना वा कृतः पञ्चम, आत्म- नापञ्चमः । कथं जनार्दनस्त्वत्मचतुर्थ एवेति । बहुव्रीहिरयमात्मा चतुर्थो ऽस्यासावात्मचतुर्थः ॥ वैयाकरणाख्यायां चतुर्थ्याः ॥ ७ ॥ वैयाकरणाख्या वैयाकरणाख्या । आख्या संज्ञा । यया संज्ञया वैया- करणा एव व्यवहरन्ति तस्यामात्मन उत्तरस्याश्चतुर्थ्या अलुग्भवति । आत्मने- पदम् । आत्मनेभाषा । तादर्थ्ये चतुर्थी । चतुर्थ्येति योगविभागात्समासः ॥ परस्य च ॥ ८ ॥ परस्य च या चतुर्थी तस्या वैयाकरणाख्यायामलुग्भवति । परस्मैपदम् । परस्मैभाषा ॥ हलदन्तात्सप्तम्याः संज्ञायाम् ॥ ९ ॥ हलन्ताददन्ताच्चोत्तरस्याः सप्तम्याः संज्ञायामलुग्भवति । युधिष्ठिरः । त्वचिसारः । गविष्ठिर इत्यत्र गविषुधिभ्यां स्थिर इत्यत एव वचनादलुक् । अदन्तात् । बारयेतिलकाः । बारयेमाषकाः । वनेकिंशुकाः । वनेहरिद्राकाः । वनेबल्वजकाः । पूर्वाहेस्फोटकाः । कूपेपिशाचकाः । हलदन्तादिति किम् । नद्यां कुक्कुटिका, नदीकुक्कुटिका । भूम्यां पाशाः, भूमिपाशाः । संज्ञायामिति किम् । अन्तशोषदः ॥ हृद्दिव्भ्यां ङेः ॥ * ॥ हृद् दिव् इत्येताभ्यामुत्तरस्य ङेरुलुक् भवति । हृदिस्पृक् । दिविस्पृक् ॥ कारनाम्नि च प्राचां हलादौ ॥ १० ॥ प्राचां देशे यत्कारनाम तत्र हलादावुत्तरपदे हलदन्तादुत्तरस्याः सप्त- म्या अलुग्भवति । सूपेशाखः * । दृषद्विमाषकः । हलेद्विपदिका । हलेत्रिष-
- मुकुटेकार्षापणमित्यधिकं पुस्तकान्तरे ।
द्विका। कारविशेषस्य संज्ञा एताः, तत्र पूर्वेणैव सिद्धे नियमार्थमिदम्। एते च त्रयो नियमविकल्पा अत्रेण्यन्ते। कारनाम्न्येव प्राचामेव हलादावेवेति। कार- नाम्नीति किम्। आभ्यर्हिते पशुः, आभ्यर्हितपशुः। कारादन्यस्यैतद्धेयस्य नाम। प्राचामिति किम्। यूथेपशुः, यूथपशुः। हलादाविति किम्। अविकटे उरभ्रः, अविकटोरभ्रः। हलदन्तादित्येव। नद्यां दोहनी, नदीदोहनी ॥ मध्याद्गुरौ ॥ ११ ॥ मध्यादुत्तरस्याः सप्तम्या गुरावुत्तरपदे ऽलुग्भवति। मध्येगुरुः ॥ अन्ता- च्वेति वक्तव्यम् ॥ * ॥ अन्तेगुरुः। सप्तमीति योगविभागात्समासः ॥ अमूर्द्धमस्तकात् स्वाङ्गादकामे ॥ १२ ॥ मूर्द्धमस्तकवर्जितात्स्वाङ्गादुत्तरस्याः सप्तम्या अकामउत्तरपदे ऽलुग्भवति। कण्ठे कालोस्य, कण्ठेकालः। उरसिलोमा। उदरेरोमाः। अमूर्द्धमस्तकादिति किम्। मूर्द्धिशिखः। मस्तकशिखः। अकामइति किम्। मुखे कामो ऽस्य, मुख- कामः। स्वाङ्गादिति किम्। आतपशौण्डः। हलदन्तादित्येव। अङ्गुलित्राणः। अङ्गुलावलेः ॥ बन्धे च विभाषा ॥ १३ ॥ बन्ध इति घञन्तो गृह्यते। तस्मिन्नुत्तरपदे हलदन्तादुत्तरस्याः सप्तम्या विभाषा ऽलुग्भवति। हस्तेबन्धः। हस्तबन्धः। चक्रेबन्धः। चक्रबन्धः। उभयत्र विभाषेयम्। स्वाङ्गाद्वहुव्रीहौ पूर्वेण नित्यमलुक् प्राप्नोति। तत्पुरुषे तु स्वाङ्गादस्वा- ङ्गाच्च नेन्सिद्धबध्नातिषु चेति प्रतिषेधः प्राप्नोति। हलदन्तादित्येव। गुप्तिबन्धः * ॥ तत्पुरुषे कृति बहुलम् ॥ १४ ॥ तत्पुरुषे समासे कृदन्तउत्तरपदे सप्तम्या बहुलमलुग्भवति। स्तम्बेरमः। कर्णेजपः। न च भवति कुरुचरो मद्रचरः ॥ प्रावृट्शरत्कालदिवां जे १५ ॥ प्रावृट् शरत् काल दिव् इत्येतेषां जउत्तरपदे सप्तम्या अलुग्भवति। प्रावृषिजाः। शरदिजः। कालेजाः। दिविजः। पूर्वस्यैवायं प्रपञ्चः ॥ विभाषावर्षचरशरवरात् ॥ १६ ॥ वर्ष चर शर वर इत्येतेभ्य उत्तरस्याः सप्तम्या जउत्तरपदे विभाषा ऽलु- ग्भवति। वर्षेजः। वर्षजः। चरेजः। चरजः। शरेजः। शरजः। वरेजः। वरजः ॥ घकालतनेषु कालनाम्नः ॥ १७ ॥
- कारिकाबन्ध इत्यधिकमेकस्मिन् पुस्तके।
५८४ ॥ काशिका ॥ ६ ॥ ३ ॥ घसंज्ञके प्रत्यये कालशब्दे तनप्रत्यये च परतः कालनाम्न उत्तरस्याः सप्तम्या विभाषा ऽलुग्भवति । घ । पूर्वाह्नेतरे । पूर्वाह्णतरे । पूर्वाह्नेतमे । पूर्वा- ह्णतमे । काल । पूर्वाह्नेकाले । पूर्वाह्णकाले । तन । पूर्वाह्नेतने । पूर्वाह्णतने । कालनाम्न इति किम् । शुक्कतरे । शुक्कतमे । हलदन्तादित्येव । रात्रितरायाम् । उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविधीर्नेष्यते । हृदयस्य हल्लेखेति लेखग्र- हणाल्लिङ्गात् । तेन घतनग्रहणे तदन्तग्रहणं न भवति । कालेति स्वरूपग्र- हणम् ॥ शयवासवासिष्वकालात् ॥ १८ ॥ शय वास वासिन् इत्येतेषूत्तरपदेष्वकालवाचिन उत्तरस्याः सप्तम्या विभाषा ऽलुग्भवति । खेशयः । खशयः । यामेवासः । यामवासः । यामेवासी । [
वक्तव्यः ॥ * ॥ देवानांप्रियः ॥ शेषपुच्छलाङ्गूलेषु शुनः संज्ञायां षष्ठ्या अलुग्व- क्तव्यः ॥ * ॥ शुनःशेपः । शुनःपुच्छः । शुनोलाङ्गूलः ॥ दिवश्च दासे षष्ठ्या अलु- ग्वक्तव्यः ॥ * ॥ दिवोदासाय गायति ॥ पुत्रे ऽन्यतरस्याम् ॥ २२ ॥ पुत्रशब्दे उत्तरपदे आक्रोशे गम्यमाने ऽन्यतरस्यां षष्ठ्या अलुग्भवति। दास्याः पुत्रः, दासीपुत्रः । वृषल्याः पुत्रः, वृषलीपुत्रः । आक्रोश इत्येव । ब्राह्मणीपुत्रः ॥ ऋतो विद्यायोनिसंबन्धेभ्यः ॥ २३ ॥ ऋकारान्तेभ्यो विद्यासंबन्धवाचिभ्यो योनिसंबन्धवाचिभ्यश्चोत्तरस्याः षष्ठ्या अलुग्भवति । होतुरन्तेवासी । होतुःपुत्रः । पितुरन्तेवासी । पितुःपुत्रः । ऋत इति किम् । आचार्यपुत्रः । मातुलपुत्रः ॥ विद्यायोनिसंबन्धेभ्यस्तत्पूर्वो- त्तरपदग्रहणम् ॥ विद्यायोनि संबन्धवाचिन्येवोत्तरपदे यथा स्यादन्यत्र मा भूत् । होतृधनम् । पितृधनम् । होतृगृहम् । पितृगृहम् ॥ विभाषा स्वसृपत्योः ॥ २४ ॥ स्वसृ पति इत्येतयोरुत्तरपदयोर्ऋकारान्तेभ्यो विद्यायोनिसंबन्धवाचिभ्यो विभाषा ऽलुग्भवति । मातुःष्वसा । मातुःस्वसा । मातृष्वसा । पितुःष्वसा । पितुःस्वसा । पितृष्वसा । यदा लुक् तदा मातृपितृभ्यां स्वसेति नित्यं षत्व- म् । यदा त्वलुक् तदा मातुःपितृभ्यामन्यतरस्यामिति विकल्पेन षत्वम् । दुहितुः पतिः । दुहितृपतिः । ननान्दुः पतिः । ननान्दृपतिः ॥ आनङ् ऋतो द्वन्द्वे ॥ २५ ॥ ऋकारान्तानां विद्यायोनिसंबन्धवाचिनां यो द्वन्द्वस्तत्रोत्तरपदे पूर्वपद- स्थानङादेशो भवति । होतापोतारौ । नेष्टोद्गातारौ । प्रशास्तारप्रतिहर्तारौ । योनिसंबन्धेभ्यः । मातापितरौ । याताननान्दरौ । नकारोच्चारणं रपरत्वनिवृत्त्य- र्थम् । ऋत इति किम् । पितृपितामहौ । पुत्रइत्यनुवर्त्तते ऋत इति च । तेन पुत्रशब्देप्युत्तरपदे ऋकारान्तस्यानङादेशो भवति । पितापुत्रौ । मातापुत्रौ ॥ देवताद्वन्द्वे च ॥ २६ ॥ देवतावाचिनां यो द्वन्द्वस्तत्रोत्तरपदे पूर्वपदस्यानङादेशो भवति । इन्द्रावरुणौ । इन्द्रासोमौ । इन्द्राबृहस्पती । द्वन्द्वइति वर्त्तमाने पुनर्द्वन्द्वग्रहणं प्रसिद्धसाहचर्यार्थम् । अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वइति निपात्यते । तत्र ये लोके प्रसिद्धसाहचर्या वेदे च सहभावेन ये निर्द्दिष्टास्तेषामिह ग्रहणं भवति । तेन ब्रह्मप्रजापती शिववैश्रवणावित्येवमादौ न भवति ॥ उभयत्र वायोः प्रतिषेधो वक्तव्यः ॥ * ॥ अग्निवायू । वाय्वग्नी ॥
५८६ ॥ काशिका ॥ ६ । ३ ॥ ईदग्नेः सोमवरुणयोः ॥ २७ ॥ सोम वरुण इत्येतयोर्देवताद्वन्द्वे ऽग्नेरीकारादेशो भवति । अग्नीषोमौ । अग्नीवरुणौ । अग्नेः स्तुतस्तोमसोमा इति षत्वम् ॥ इद्दृद्धौ ॥ २८ ॥ ऋत्यवृद्धावुत्तरपदे देवताद्वन्द्वे ऽग्नेरिकारादेशो भवति । आग्निमारुती- मनड्वाहीमालभेत । आग्निमारुतं कर्म्म क्रियते । अग्नीवरुणौ देवता ऽस्य आग्नीमरुतो देवतास्येति तद्धितः । तत्र देवताद्वन्द्वे चेत्युभयपदवृद्धौ कृताया- मानङ् ह्रस्वं च बाधितुमिकारः क्रियते । वृद्धाविति किम् । आग्नेन्द्रः । नेन्द्रस्य परस्येत्युत्तरपदवृद्धिः प्रतिषिध्यते ॥ इद्दृद्धौ विष्णोः प्रतिषेधो । वक्तव्यः ॥ * ॥ आग्नावैष्णवं चरुं निर्वपेत् ॥ दिवो द्यावा ॥ २९ ॥ दिवित्येतस्य द्यावा इत्ययमादेशो भवति देवताद्वन्द्वे उत्तरपदे । द्यावाक्षामा । द्यावाभूमी * ॥ दिवसश्च पृथिव्याम् ॥ ३० ॥ पृथिव्यामुत्तरपदे देवताद्वन्द्वे दिवो दिवसित्ययमादेशो भवति चका- राद् द्यावा च । दिवसंपृथिव्यौ । द्यावापृथिव्यौ । अकारोच्चारणं सकारस्य विकाराभावप्रतिपत्त्यर्थम् । तेन रुत्वादीनि न भवन्ति । कथं द्यावा चिदस्मै पृथिवी नमेते इति । क्लीबेऽत्र यणः ॥ उषासोषासः ॥ ३१ ॥ उषस उषासा इत्ययमादेशो भवति देवताद्वन्द्वे उत्तरपदे । उषासा- सूर्य्यम् । उषासानक्ता ॥ मातरपितरावुदीचाम् ॥ ३२ ॥ मातरपितरावित्युदीचामाचार्याणां मतेनारङादेशो मातृशब्दस्य निपात्यते । मातरपितरौ । उदीचामिति किम् । मातापितरौ ॥ पितरामातरा च च्छन्दसि ॥ ३३ ॥ पितरामातरा इति छन्दसि निपात्यते । आ मा गन्तां पितरामातरा च। पूर्वपदस्य चाङादेशो निपात्यते। उत्तरपदे तु सुप्सुं सुलुगिति आकारादेशः । तत्र ऋतो ङिसर्वनामस्थानयोरिति गुणः । छन्दसि किम् । मातापितरौ ॥
- द्यौश्च पृथिवी च द्यावापृथिव्यौ इत्यधिकं पुस्तकान्तरे ।
दुर्भागा, भक्तिः, चित्रा, अम्बा, कान्ता, सान्ता, समा, चपला, दुहिता, वामा..." In L20: is it "सचित्रा" or "चित्रा"? Looking at L20: Before "चित्रा", there is "स"? Wait, look at: "भक्तिः । सचित्रा ।" Wait, is it "सचित्रा" or "चित्रा"? Look at the character: It has 'स' then 'चि' then 'त्रा': "सचित्रा ।" Yes, printed as "सचित्रा ।"! Wait, what about after कान्ता? "सान्ता ।" (शान्ता/सान्ता). Printed as "सान्ता ।".
Line 27: "गणनं कर्तव्यम् । अतसौ । तरप्तमपौ । चरट्जातीयरी ।" Wait, is it "चरट्जातीयरौ" or "चरट्जातीयरी"? The letter is 'र' with au-matra: 'रौ'.
Line 28: "रूपप्पाशपौ । थम्थालौ । दाहिनौ । तिल्तातिलौ ॥" Wait, "रूपब्याशपौ" or "रूपप्याशपौ"? Look at "रू प प्या श पौ": it's 'प' conjunct with 'प' or 'य', looks like 'रूपप्याशपौ'. Let's write "रूपप्याशपौ".
Line 3
५८८ ॥ काशिका ॥ ६ । ३ ॥ अठन्निति किम् । श्येनेयः । रोहिणेयः । कथमग्नायी देवताऽस्य चाग्नेयः स्थालीपाक इति । कर्त्तव्योऽत्र यत्नः ॥ ठक्छंसोश्च पुंवद्भावो वक्तव्यः ॥ * ॥ भवत्याश्छात्रा भावत्काः । भवदीयाः ॥ क्यङ्मानिनोश्च ॥ ३६ ॥ क्यङि परतो मानिनि च स्त्रिया भाषितपुंस्कादनूङ् पुंवद्भवति । एनी । एतायते । श्येनी । श्येतायते । मानिनि । दर्शनीयमानी अयमस्याः । दर्शनीयमानिनीयमस्याः । मानिनो ग्रहणमस्वार्थमसमानाधिकरणार्थं च । इह तु दर्शनीयामात्मानं मन्यते दर्शनीयमानिनीति पूर्वेणैव सिद्धम् ॥ न कोपधायाः ॥ ३७ ॥ कोपधायाः स्त्रियाः पुंवद्भावो न भवति । पाचिकाभार्यः । कारिकाभार्यः । शुक्तिकाभार्यः । मद्रिकाभार्यः । मद्रिकाकल्पा । मद्रिकायते । शुक्तिकायते । मद्रि- कामानिनी । शुक्तिकामानिनी । विलेपिकाया धर्म्यं वैलेपिकम् ॥ कोपधप्रतिषेधे- षु तद्धितग्रहणं कर्तव्यम् ॥ * ॥ इह मा भूत्, पाकभार्या भेकभार्य इति ॥ संज्ञापूरणयोश्च ॥ ३८ ॥ संज्ञायाः पूरण्याश्च स्त्रियाः पुंवद्भावो न भवति । दत्ताभार्यः । गुप्ता- भार्यः । दत्तापाशा । गुप्तापाशा । दत्तायते । गुप्तायते । दत्तामानिनी । गुप्ता- मानिनी । पूरण्याः । पञ्चमीभार्यः । दशमीभार्यः । पञ्चमीपाशा । दशमी- पाशा । पञ्चमीयते । दशमीयते । पञ्चमीमानिनी । दशमीमानिनी ॥ वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे ॥ ३९ ॥ नेति वर्तते । वृद्धेर्निमित्तं यस्मिन् स वृद्धिनिमित्तस्तद्धितः स यदि रक्तेऽर्थे विकारे च न विहितः, तदन्तस्य स्त्रीशब्दस्य न पुंवद्भवति । सौघ्नी- भार्यः । माथुरीभार्यः । सौघ्नीपाशा । माथुरीपाशा । सौघ्नीयते । माथुरीयते । सौघ्नीमानिनी । माथुरीमानिनी । वृद्धिनिमित्तस्येति किम् । मध्यमभार्यः । तद्धितस्येति किम् । काण्डलावभार्यः । बहुव्रीहिपरिग्रहः किमर्थः । तावद्भार्यः । यावद्भार्यः । अरक्तविकार इति किम् । कषायेण रक्ता काषायी, काषायी बृह- तिका यस्य स काषायबृहतिकः । लोहस्य विकारो लौही, लौही ईषा यस्य रथस्य स लौहेषः * ॥ स्वाङ्गाच्चेतो ऽमानिनि ॥ ४० ॥ स्वाङ्गादुत्तरो य ईकारस्तदन्तायाः स्त्रिया न पुंवद्भवति अमानिनि परतः । दीर्घकेशीभार्यः । दीर्घकेशीपाशा । श्लक्ष्णकेशीपाशा । दीर्घकेशीयते ।
- खादिरैष इति पुस्तकान्तरे ऽधिकम् ।
[Page Header] ॥ काशिका ॥ ६ ॥ ३ ॥ ५८२
श्लक्ष्णकेशीयते । स्वाङ्गादिति किम् । पटुभार्यः । ईत इति किम् । चक्रोश- भार्यः । अमानिनीति किम् । दीर्घकेशमानिनी ॥ जातेश्च ॥ ४१ ॥ जातेश्च स्त्रिया न पुंवद्भवति अमानिनि परतः । कठीभार्यः । बह्वृची- भार्यः । कठीपाशा । बह्वृचीपाशा । कठीयते । बह्वृचीयते । अमानिनीत्येव । कठमानिनी । बह्वृचमानिनी ॥ अयं प्रतिषेध औपसंख्यानिकस्य पुंवद्भावस्य नेष्यते ॥ हस्तिनीनां समूहो, हास्तिकम् ॥ पुंवत्कर्मधारयजातीयदेशीयेषु ॥ ४२ ॥ कर्मधारये समासे जातीय देशीय इत्येतयोश्च प्रत्यययोर्भाषितपुंस्का- दनूङ्स्त्रियाः पुंवद्भवति । प्रतिषेधार्थोयमारम्भः । न कोपधाया इत्युक्तं तत्रापि भवति । पाचकवृन्दारिका । पाचकजातीया । पाचकदेशीया । संज्ञापूरणयो- श्चेत्युक्तं तत्रापि भवति । दत्तवृन्दारिका । दत्तजातीया । दत्तदेशीया । पूरण्याः । पञ्चमवृन्दारिका । पञ्चमजातीया । पञ्चमदेशीया । वृद्धिनिमित्तस्य च तद्धि- तस्यारक्तविकारइत्युक्तं तत्रापि भवति । शौच्रजातीया । शौच्रदेशीया । स्वाङ्गा- च्चेतो ऽमानिनीत्युक्तं तत्रापि भवति । श्लक्ष्णमुखवृन्दारिका । श्लक्ष्णमुखजा- तीया । श्लक्ष्णमुखदेशीया । जातेश्चेत्युक्तं तत्रापि भवति । कठवृन्दारिका । कठ- जातीया । कठदेशीया । भाषितपुंस्कादित्येव । खट्वावृन्दारिका । अनूङित्येव । ब्रह्मबन्धूवृन्दारिका ॥ कुक्कुट्यादीनामण्डादिषु पुंवद्भावो वक्तव्यः ॥ * ॥ कुक्कुट्या अण्डं, कुक्कुटाण्डम् । मृग्याः पदं, मृगपदम् । मृग्याः क्षीरं, मृगक्षीरम् । काक्याः शावः, काकशावः । न वा ऽस्त्रीपूर्वपदस्य विवक्षितत्वात् । स्वातन्त्र्येण विना पूर्वप- दार्थोत्र जातिः सामान्येन विवक्षितः । पुंवद्भावाद् ह्रस्वत्वं खित्घ्रादिषु भवति विप्रतिषेधेन । खित् । कालिंमन्या । हरिणींमन्या । घादि । पटुतरा । पटुतमा । पटुरूपा । पटुकल्पा । क । पटुका । शुढिका । एडेडबिड् दरद् एषु उशिजिलेत्येते जनपदशब्दाः क्षत्रियवाचिनः । तत्र तद्राजप्रत्ययस्य स्त्रियामतश्चेति लुकि कृते एडबिड्वृन्दारिकेति विगृह्य समासः क्रियते । ततः पुंवद्भावेन ऐड़बिक्रादयः पुंशब्दाः क्रियन्ते । ऐड़बिक्वृन्दारिका । औशिजवृन्दारिका * ॥ घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योने- काचो ह्रस्वः ॥ ४३ ॥ घ रूप कल्प चेलट् ब्रुव गोत्र मत हत इत्येतेषु परतो भाषितपुंस्का-
[Footnote]
- दारद्वृन्दारिका । पार्थवृन्दारिकेत्यधिकं पुस्तकान्तरे ।
५९० ॥ काशिका ॥ ६ ॥ ३ ॥ त्परो यो ङीप्रत्ययस्तदन्तस्यानेकाचो ह्रस्वो भवति । घ । ब्राह्मणीतरा । ब्राह्मणीतमा। रूप । ब्राह्मणीरूपा । कल्प । ब्राह्मणीकल्पा । चेलट् । ब्राह्मणी- चेली। ब्रुव। ब्राह्मणीब्रुवा। गोत्र । ब्राह्मणीगोत्रा । मत। ब्राह्मणीमता । हत । ब्राह्मणीहता । घरूपकल्पाः प्रत्ययाश्चेलडादीन्युत्तरपदानि । ब्रुवदति ब्रवीतीति ब्रुवः पचाद्यचि वच्यादेशो गुणश्च निपातनाच्च भवति । ङ्य इति किम् । दत्ता- तरा । गुप्तातरा । अनेकाच इति किम् । नद्याः शेषस्यान्यतरस्यामिति वक्ष्यति । भाषितपुंस्कादित्येव । आमलकीतरा । कुवलीतरा ॥ नद्याः शेषस्यान्यतरस्याम् ॥ ४४ ॥ नद्याः शेषस्य घादिषु परतो ह्रस्वो भवति अन्यतरस्याम् । कश्च शेषः । अस्त्री च या नदी ङ्यन्तं च यदेकाच् । ब्रह्मबन्धूत
विंशत्। द्व्यष्टन इति किम्। पञ्चदश। संख्यायामिति किम्। द्वैमातुरः। षाण्मातुरः। अबहुव्रीह्यशीत्योरिति किम्। द्विजाः। त्रिदशाः। द्व्यशीतिः॥ प्राक् शतादिति वक्तव्यम्॥ * ॥ इह मा भूत्। द्विशतम्। द्विसहस्रम्। अष्टशतम्। अष्टसहस्रम्॥ त्रेस्त्रयः ॥ ४८ ॥ त्रि इत्येतस्य त्रयसित्ययमादेशो भवति संख्यायामबहुव्रीह्यशीत्योः। त्रयोदश। त्रयोविंशतिः। त्रयस्त्रिंशत्। संख्यायामित्येव। त्रैमातुरः। अब- हुव्रीह्यशीत्योरित्येव। त्रिदशाः। त्र्यशीतिः। प्राक् शतादित्येव। त्रिशतम्। त्रिसहस्रम्॥ विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् ॥ ४९ ॥ चत्वारिंशत्प्रभृतौ संख्यायामुत्तरपदे ऽबहुव्रीह्यशीत्योः सर्वेषां द्व्यष्टन् त्रि इत्येतेषां यदुक्तं तद्विभाषा भवति। द्विचत्वारिंशत्। द्वाचत्वारिंशत्। त्रिप- ञ्चाशत्। त्रयःपञ्चाशत्। अष्टपञ्चाशत्। अष्टापञ्चाशत् *। प्राक् शतादि- त्येव। द्विशतम्। अष्टशतम्। त्रिशतम् †॥ हृदयस्य हृल्लेखयदण् लासेषु ॥ ५० ॥ हृदयस्य हृदित्ययमादेशो भवति लेख यत् अण् लास इत्येतेषु परतः। हृदयं लिखतीति, हृल्लेखः। यत्। हृदयस्य प्रियं, हृद्यम्। अण्। हृदयस्येदं, हार्दम्। लास। हृदयस्य लासो, हृल्लासः। लेख इत्यणन्तस्य ग्रहणमिष्यते। घञि तु हृदयस्य लेखो हृदयलेख एतदेव। लेखग्रहणं ज्ञापकमुत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तायग्रहणस्य ॥ वा शोकष्यञ्रोगेषु ॥ ५१ ॥ शोक ष्यञ् रोग इत्येतेषु परतो हृदयस्य वा हृदित्ययमादेशो भवति। हृच्छोकः। हृदयशोकः। ष्यञ्। सौहार्दम्। सौहृदय्यम्। ब्राह्मणादित्वात् ष्यञ्। हृदादेशपक्षे हृद्भगसिन्ध्वन्ते पूर्वपदस्य चेत्युभयपदवृद्धिः। रोग। हृद्रोगः। हृदयरोगः। हृदयशब्देन समानार्थो हृतशब्दः प्रकृत्यन्तरमस्ति तेनैव सिद्धे विकल्पविधानं प्रपञ्चार्थम् ॥ पादस्य पदाज्यातिगोपहतेषु ॥ ५२ ॥ पादस्य पद इत्ययमादेशो भवति आजि आति ग उपहत इत्येतेषूत्त-
* अष्टचत्वारिंशत् । अष्टाचत्वारिंशत् । त्रिचत्वारिंशत् । त्रयश्चत्वारिंशत् । द्विपञ्चा- शत् । द्वापञ्चाशत् । इत्यधिकं पुस्तकेषु बहुषु । † सर्वेषां ग्रहणं प्रयाणामपि यथा स्याद् इत्यधिकमप्यस्मिन्पुस्तके ।
३८२ ॥ काशिका ॥ ६ ॥ ३ ॥ रपदेषु । पादाभ्यामवतीति, पदाजिः । पादाभ्यामततीति, पदातिः । अज्या- तिभ्यां पादे चेत्यौणादिक इत्प्रत्ययः । तत्राजेर्वीभावो न भवत्यत एव निपा- तनात् । पादाभ्यां गच्छतीति, पदगः । पादेनोपहतः, पदोपहतः । पादशब्दो वृषादित्वादाद्युदात्तस्तस्य स्थाने पदादेश उपदेशएवान्तोदात्तो निपात्यते, तेन पदोपहत इति तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वेनान्तोदात्तत्वं भवति । पदाजिः पदातिः पदग इत्येतेषु कृत्स्वरेण समासस्यैवान्तोदात्तत्वम् ॥ पद्यत्यतदर्थे ॥ ५३ ॥ यत्प्रत्यये परतः पादस्य पदित्ययमादेशो भवत्यतदर्थे । पादौ विध्यन्ति, पद्याः शर्कराः । पद्याः कण्टकाः । अतदर्थेति किम् । पादार्थमुदकं पाद्यम् ॥ पद्भावे इके चरतावुपसंख्यानम् ॥ * ॥ पादाभ्यां चरति, पदिकः । पर्णादिभ्यः ष्ठञिति पादशब्दात् ष्ठन्प्रत्ययः ॥ शरीरावयववचनस्य पादशब्दस्य ग्रहणमिह दृश्यते ॥ तेन पञ्चपादमाषशतावद् इत्यत्र पदादेशो न भवति । द्विपाद्यम् । त्रिपाद्यम् ॥ हिमकाषिद्धतिषु च ॥ ५४ ॥ हिम काषिन् हति इत्येतेषु पादशब्दस्य पदित्ययमादेशो भवति । हिम । पद्धिमम् । काषिन् । अद्य पत्काषिणो यान्ति । हति । पद्धतिः ॥ ऋचः शे ॥ ५५ ॥ ऋक्संबन्धिनः पादशब्दस्य शे परतः पदित्ययमादेशो भवति । पच्छो गायत्रीं शंसति । पादंपादं शंसतीति संख्यैकवचनाच्च वीप्सायामिति शस- त्प्रत्ययः । ऋच इति किम् । पादशः कर्षापणं ददातीति ॥ वा घोषमिश्रशब्देषु ॥ ५६ ॥ घोष मिश्र शब्द इत्येतेषु चोत्तरपदेषु पादस्य वा पदित्ययमादेशो भवति । पद्धोषः । पादघोषः । पद्मिश्रः । पादमिश्रः । पच्छब्दः । पाद- शब्दः । निष्के चेति वक्तव्यम् ॥ * ॥ पद्निष्कः । पादनिष्कः ॥ उदकस्योदः संज्ञायाम् ॥ ५७ ॥ उदकशब्दस्य संज्ञायां विषये उद इत्ययमादेशो भवति उत्तरपदे परतः । उदमेघो नाम यस्य औदमेघिः पुत्रः । उदवाहो नाम यस्य औदवाहिः पुत्रः । संज्ञायामिति किम् । उदकगिरिः ॥ संज्ञायामुत्तरपदस्य उदकशब्दस्य उदादेशो भवतीति वक्तव्यम् ॥ * ॥ लोहितोदः । नीलोदः । क्षीरोदः ॥ पेषंवासवाहनधिषु च ॥ ५८ ॥