भारतकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

३३६ | किरातार्जुनीयम्

हिन्दी—इस समय शत्रुसे पुरुषार्थका त्याग कराये गये तुमलोगोंने दुःखसे सुखाये गये तालाब जैसे दुस्तर पङ्क (कीचड़) को प्राप्त करता है वैसे ही दुःखसे हटाये जानेवाला पङ्क (कलङ्क) को प्राप्त कर लिया है ॥ १७ ॥

वेत्रशाककुजे शैलेऽलेशैजेऽकुकशात्रवे ।
यात किं विदिशो जेतुं तुञ्जेशो दिवि किंतया ॥ १८ ॥
(प्रतिलोमानुलोमपादः)

मल्लि०वेत्रेति । वेत्राणि = वंशाः फलिन्यो वा । शाका बर्बराश्च कुजा वृक्षा यस्मिंस्तस्मिन् वेत्रशाककुजे । शत्रुष्णा दुष्प्रवेश इत्यर्थः । 'वेत्रं वंशफलिनीद्रोः' इति विश्वः । 'शाकः बर्बरवर्धकाः' इत्यमरः । लेशेन स्तोकेनाव्यजते कम्पत इति लेशैजः । स न भवतीति अलेशैजस्तस्मिन् । अत्यन्ताकम्पन इत्यर्थः 'एज् कम्पने' पचाद्यच् । न कोकते नादत्त इत्यकुकः ग्रहणासमर्थः शात्रवो यस्मिंस्तस्मिन् अकुकशात्रवे । 'कुक आदाने' । पचाद्यच् । शैले पर्वते । केषां भावः किता कुत्सितता तयोपलक्षिताः सन्तः । 'कुत्साप्रश्नवितर्केषु क्षेपे किं शब्द इष्यते' । इति शाश्वतः । विदिशो जेतुं यात गच्छत किम् । यातेः संप्रश्ने लोट् । मध्यमपुरुषबहुवचनम् । दिवि स्वर्गेऽपि । तुञ्जेश इति तेषां संबोधनम् । तुञ्जन्ति इति तुञ्जा हिंसका दैत्याः। 'तुजि हिंसायाम्' पचाद्यच् । तेभ्यो दैत्येभ्य ईशते इति तुञ्जेशः । ईशेः क्विप् । तेभ्योऽपि शक्ता इत्यर्थः । स्वर्गेऽप्यसुरविजयिनां युष्माकमत्र क्षुद्रस्थले क्षुद्रशत्रोः पलायनमनुचितमिति भावः ॥ १८ ॥

हिन्दी—तुमलोग बांस, शाक (बर्बर) और वृक्षोंसे युक्त अर्थात् शत्रुसे दुष्प्रवेश्य, कम्पित न होनेवाले, जहाँ ग्रहण करनेमें शत्रु असमर्थ हैं, ऐसे पर्वतमें निन्दितरूपसे उपलक्षित होते हुए अनेक दिशाओंको जीतनेके लिए जाते हो क्या ? तुमलोग स्वर्गमें भी हिंसकों (दैत्यों) से समर्थ हो । स्वर्गमें भी दैत्योंको जीतनेवाले तुमलोगोंको ऐसे क्षुद्र स्थलमें क्षुद्र शत्रुसे डरकर भागना उचित नहीं है यह भाव है । यह 'प्रतिलोमानुलोमपाद' नामक चित्रकाव्यका उदाहरण है ॥ १८ ॥

अयेशे तिष्ठति पलायनमेतद्धो न युक्तमित्याह—

अयं वः क्लैब्यमापन्नान् दृष्टपुष्टानरातिना ।
इच्छतीशश्च्युताचारान् दारानिव निगोपितुम् ॥ १९ ॥

मल्लि०अयमिति । अयमीशः स्वामी शिवः क्लैब्यं निष्पौरुषत्वम् । आप-

पञ्चदशः सर्गः ३३७

म्नान् प्राप्तांस्तथा अरातिना दृष्टपृष्ठान् । पलायमानानित्यर्थः । वो युष्मान् व्युता- चारान् स्खलितव्रतान् दारान् कलत्राणीव । 'अथ पुंभूम्नि दाराः' इत्यमरः । निगोपितुं गोप्तुम् । ऊदित्वानिङ्‌विकल्पः । दारदोषं भर्तेव स्वमहिम्ना युष्मद्दोषं संवर्तितुम् । इच्छति । अतः कुतो युष्माकमनर्थ इत्यर्थः ॥ १९ ॥

हिन्दी—ये स्वामी शिवजो नपुंसकत्वको प्राप्त ( पुरुषार्थहीन ) और शत्रुने जिनकी पीठ देख ली है ( भागते हुए ) तुमलोगोंको पत्नीकी तरह रक्षा करना चाहते हैं ( तुम्हारे दोषोंको छिपाना चाहते हैं ) ॥ १९ ॥

ननु हो मथना राधो घोरा नाथमहो नु न । तयदातवदा भीमा माभीदा बत दायत ॥ २० ॥

( प्रतिलोमानुलोमार्धः )

मल्लि०—नन्विति । 'ननु' इत्यामन्त्रणे । 'हो' इत्याह्वाने । 'हे है भोस्तो समस्तो च हृतसंबोधनार्थयोः । हो हो चैवंविधो ज्ञेयो संबुद्ध्याह्वानयोरपि' । इति विश्वः । मथन्तीति मथनाः । 'मन्थ विलोडने' कर्तरि ल्युट् । राधन्ति = समर्था भवन्तीति राधः । 'राधू सामर्थ्ये, क्विप् । घोरा क्रूराः । शत्रूणामिति भावः । नाथ महयन्ति पूजयन्तीति नाथमहः । दृशिग्रहणात्कर्मण्यपपदे क्विप् । तयन्ति=रक्ष- न्तीति तया रक्षकाः । पचाद्यच् । दायन्तीति दाताः = शुद्धाः । 'दैप् शोधने' कर्तरि क्तः । वदन्तीति वदा वक्तारः । पचाद्यच् । तेषां द्वन्द्वः तयदातवदाः । भीमा भयंकराः । माभीः । नञर्थ'मा'शब्दस्य सुप्सुपेति समासः । तां ददतीति माभीदा अभयप्रदाः एवंविधा यूयमिति शेषः । 'बत' इति खेदे । बवयोरभेदः । न दायत नु न शुद्धाः किम् । 'नु' पृच्छायाम् । किंतु शुद्धा एव । न काकुरत्रानुसंधेया । 'दैप् शोधने' लोट्मध्यमपुरुषबहुवचनम् ॥ २० ॥

हिन्दी—हे सैनिको ! शत्रुओंको मथन करनेवाले, समर्थ, शत्रुओंके लिए क्रूर, अपने स्वामीकी पूजा करनेवाले, रक्षा करनेवाले, शुद्ध, वक्ता, भयङ्कर और अभयदान करनेवाले तुमलोग क्या शुद्ध नहीं हो ? ( शुद्ध ही हो ) । यह 'प्रति- लोमानुलोमार्ध' नामक चित्रकाव्यका उदाहरण है ॥ २० ॥

किं त्यक्तापास्तदेवत्वमानुष्यकपरिग्रहैः । ज्वलितान्यगुणैर्गुर्वी स्थिता तेजसि मानिता ॥ २१ ॥

मल्लि०—किमिति । अपास्तोऽवधीरतो देवत्वमानुष्यकयोः परिग्रहः स्वीकारो

१२ कि०

३३८ | किराताजुर्नीयम्

यैस्तैः । अतिदेवमानुषैरित्यर्थः । मनुष्याणां भावो मानुष्यकम् । 'योद्धादुपसंख्यानाद्बुञ्' । ज्वलितान्यदूर्तः ज्वलिता उज्ज्वलिताः । प्रकाशिता इति यावत्। अन्यगुणा अमन्दगुणा यैस्तैः । 'अन्यो विभिन्नासदृशो' इति वैजयन्ती । ईदृशैर्भवद्भिरिति शेषः । तेजसि प्रतापे स्थिता प्रतापैकशरणा धूर्वी मानिता शौर्यादिना विना किमिति त्यक्ता । किमिति निर्लज्जैः पलायन इति भावः ॥ २१ ॥

हिन्दी - देवत्व और मनुष्यत्वका अतिक्रमण करनेवाले, असाधारण गुणोंको प्रकाशित करनेवाले तुमलोगोंने प्रतापमें स्थित शूरत्वके अभिमानको क्यों छोड़ दिया ? अर्थात् क्यों निर्लज्ज होकर पलायन कर रहे हो ? ॥ २१ ॥

निशितासिरतोऽभीको न्येजतेऽमरणा रुचा ।
सारतो न विरोधी नः स्वाभासो भरवानुत ॥ २२ ॥

मल्लि०—निशितेति । हे अमरणा मरणरहिताः ! निशितासिरितोऽन्वितोऽस्य खड्गरतः । अभीको निर्भीकः । रुचा तेजसोपलक्षितः सुष्ठु आभासत इति स्वाभासो रमणीयः पचाद्यच् । उतात्यर्थमतिशयेन भरवान् । रणभरसहिष्णुरित्यर्थः । 'उतात्यर्थविकल्पयोः' इति विश्वः । ईदृशो नोऽस्माकं विरोधी शत्रुः सारतो बलतो न न्येजते न कम्पते । प्रचलतीत्यर्थः । 'एजृ कम्पने' । लट् । अतो भवद्भिरपि स्थातव्यमेव । न चलितव्यमिति भावः ॥ २२ ॥

हिन्दी--हे अमर प्रमथगण ! तीक्ष्ण खड्गको लिया हुआ, निर्भीक, तेजसे उपलक्षित, रमणीय, युद्धभारका सहिष्णु ऐसा हमलोगोंका विरोधी (शत्रु) बलके कारण कम्पित नहीं हो रहा है । (इस कारणसे तुमलोगोंको भी अचल होकर रहना चाहिए) ॥ २२ ॥

नन्वयं न चलतीति कथं ज्ञायते ? तत्राह प्रतिलोमानुलोमेन श्लोकद्वयम्—

तनुवारभसो भास्वानधीरोऽविनतोरसा ।
चारुणा रमते जन्ये कोऽभीतो रसिताशिनि ॥ २३ ॥

मल्लि०—तन्विति । तनुमावृणोत्याच्छादयतीति तनुवारं=वर्म । कर्मण्यण् । जेतुं रभसो भासन इति तनुवारभसः । 'भस दीप्तौ' । पचाद्यच् । भास्वान्=तेजस्वी, चारुणा भास्वताऽविनतेनोन्नतेन । उरसा वक्षःस्थलेनोपलक्षितः । एवंविधोऽर्जुनोऽधीरो धैर्यसहितो रसितेन शब्दितेनैवाश्नाति ग्रसतीति रसिताशी तस्मिन् । रखेणैव विश्वप्राणहारिणीत्यर्थः । आभीक्ष्ण्ये णिनिः । जन्ये युद्धे । 'युद्धमायोधनं जन्यम्'

पञ्चदशः सर्गः ३३९

पञ्चदशः सर्गः ३३९

इत्यमरः । अनीतः निर्भीकः सन् को रमते=कः क्रीडति ? यदि रमत तर्ह्ययमेवेति भावः । निर्भयतयाऽङ्गदेवाश्य निश्चकत्वं निश्चीयत इत्यर्थः । पूर्वश्लोकस्यायं प्रतिलोमः ॥ ३३ ॥

हिन्दी—कवचसे शोभित, तेजस्वी, सुन्दर और उन्नत वक्षःस्थलसे उपलक्षित, ऐसा होकर भी धैर्य्यरहित, शब्द करतेहुए ही निरन्तर त्रास करनेवाले युद्धमें निर्भीक होकर कौन-सा पुरुष क्रीड़ा करता है ? (यही तपस्वी क्रीड़ा कर रहा है) ॥ ३३ ॥

अथ पञ्चभिः कुलकमाह—विभिन्नेत्यादिभिः

विभिन्नपातिताश्वीयनिरुद्धरथवर्त्मनि ।
हतद्विपनगष्ठ्यूतरुधिराम्बुनदाकुले ॥ २४ ॥

मल्लि०—आहवं विशिनष्टि—विभिन्नानि विदारितान्यत एव पातितान्यश्वीयान्यश्वसमूहाः । 'पूर्वकाले-'ति समासः । तैरश्वसमूहैर्निरुद्धानि रथानां वर्त्मनि यस्मिंस्तथोक्ते । 'वृन्दे त्वश्वीयमाइश्ववत्' इत्यमरः । 'केशाश्वाभ्यां यञ्छावन्यतरस्याम्' इति छप्रत्ययः । हतास्ताडिता द्विपा गजा एव नगाः शैलाः । 'शैलवृक्षौ नगावगौ' इत्यमरः । तै ष्ठ्यूतानि उज्झितानि । ष्ठीवतेः कर्मणि क्तः । 'ष्ठिवोः ष्ठूढनुनासिके च' इत्यूठादेशः । तानि रुधिराण्येवाम्बूनि तेषां नदैः प्रवाहैराकुले व्याप्ते ॥ २४ ॥

हिन्दी—(युद्धका और भी विशेषण दिखलाते हैं)—विदारित अश्वसमूहोंसे जहाँ रथोंका मार्ग रुका हुआ है, ताड़ित हाथी-रूप पर्वतोंसे छोड़े गये रुधिररूप जलके प्रवाहोंसे व्याप्त (युद्धमें) ॥ २४ ॥

देवाकानिंनिकावादे
वाहिकास्वस्वकाहिवा ।
काकारेभभरेकाका
निस्वभव्यव्यभस्वनि ॥ २५ ॥

मल्लि०देवेति । पुनः, देवानाकनयतुद्वांशयत्युत्साहयतीति देवाकानि तस्मिन् देवाकानिनि । 'कन दीप्तौ' इति धातोर्ण्यन्ताण्णिनिः । यद्वा,—'के शब्दे' इति धातोराङ्पूर्वस्य भावे ल्युटि आकानम् आश्चन्दनमीषद्रदनमिति यावत् । देवानां तच्चतोत्यर्थः । कावाद ईषद्वादो वावकलहः । 'ईषदर्थे' इति 'कु'शब्दस्य कादेशः ।

३४०किरातार्जुनीयम्

तदर्हति कावादे। अर्शआदिभ्योऽच् । वाहिका = पर्यायेण रणभारोद्वहनम्। सं पर्याये धात्वर्थनिर्देशे ण्वुल्वक्तव्यः। वाहिकया कमप्राप्तरणक्रियया सुष्ठु शोभं यथा तथाऽस्वकान्=परानाजिहीतेऽभियुङ्क्ते। योजयतीति यावत् । वाहिकास्वस्वकाहास्तस्मिन् । योद्धृधर्मो युद्ध उपचर्यते । 'ओहाङ् गतौ' इति धातोर्विच्प्रत्ययः। 'सोमपा' शब्दवत्प्रक्रिया । 'वा' शब्दश्चार्थे । कं मदोदकमाकिरन्तीति काकारा मदस्राविणः । किरतेराङ्पूर्वात्कर्मण्यण, एवंविधा इभभरा गजघटा यत्र तस्मिन् काकारेभभरे । काका इव काका गर्ह्या इति लक्षणया तेषामामन्त्रणम् । निस्ता निरुत्साहा भव्याः = सोत्साहास्तानुभयान्व्ययन्ति संवृण्वन्तीति निस्वमव्ययाः 'व्येञ् संवरणे' । 'आतोऽनुपसर्गे कः' । तैर्भासिस्त भासत इति निस्वभव्यव्ययस्तस्तस्मिन्,। 'अन्येष्वोऽपि दृश्यन्ते' इति क्वनिप् । सर्वतो भ्रमणात्सर्वतोभद्राख्यश्चित्रबन्धः । तथाह दण्डी-तदिदं सर्वतोभद्रं भ्रमणं यदि सर्वतः' इति । उद्धारस्तु-चतुष्कोष्ठे चतुरङ्गबन्धक्रमेणाद्यपङ्क्तिचतुष्टये पादचतुष्टयं विलिख्यानन्तरपङ्क्तिचतुष्टयेऽप्यधः क्रमेण पादचतुष्टयलेखने प्रथमासु चतसृषु पङ्क्तिषु प्रथमः पादः सर्वतो वाच्यते, द्वितीयादिषु द्वितीय इत्यादि ॥ २५ ॥

हिन्दी—देवताओंको उत्साहित करनेवाले, घोड़ेसे बचनके कलहसे युक्त बारी-पारीसे युद्धके भारको प्राप्त क्रियासे अच्छी तरहसे शत्रुओंसे युद्ध करनेके साधन मद गिरानेवाली गजघटासे युक्त हे कौएके समान निन्दनीय ! उत्साहरहित और उत्साहयुक्त दोनों प्रकारके जनोंसे सवरण करनेवाले शोभित (युद्धमें) ।

इस पद्यमें चारों चरणोंमें बाएँ और दाहिने भागके अक्षर दुहराये गये हैं अतः यह सर्वतोभद्रनामक चित्रकाव्यका उदाहरण है ॥ २५ ॥

प्रवृत्तशववित्रस्ततुरगाक्षिप्तसारथौ ।
मारुतापूर्णतूणीरविक्रुष्टहतसादिनि ॥ २६ ॥

मल्लि०—प्रवृत्तेति । प्रवृत्तशवेभ्यो नृत्यत्कबन्धेभ्यो वित्रस्तैः क्षुभितैस्तुरगैराक्षिप्ता अवधूताः सारथयो यत्र तस्मिन् । तथा मारुतेनापूर्णेभ्यस्तैस्तूणीनिषङ्गेर्विक्रुष्टाः शब्दायमाना हतास्ताडिताः सादिनस्तोरङ्गिका यत्र तस्मिन् पाठान्तरे मारुतापूर्णतूणीरैर्विकृष्टा आकर्षिता अतएव हता मारिताः सादिनोऽश्ववारा यत्र तस्मिन् ॥ २६ ॥

हिन्दी—नाचते हुए कबन्धों (शिरसे रहित शवों) से डरे हुए घोड़ों

पञ्चदशः सर्गः ३४१

गिराये गये सारथियोंवाले, वायुसे पूर्ण तरकशोंसे शब्द करते हुए ताडित घुड़-सवारोंवाले ( युद्धमें ) ॥ २६ ॥

ससत्त्वरतिदेनित्यं
सदरामर्षनाशिनि ।
त्वराधिककसंनादे
रमकत्वमकर्षति ॥ २७ ॥

मल्लि०ससत्त्वेति । ससत्त्वानां सत्त्ववतां रतिदे = रागप्रदे नित्यं सदराणां सभयानाममर्षनाशिनि = क्रोधहारिणि, त्वरयोत्साहेन अधिकं कसन्तो विकसन्तो नादा यत्र तस्मिन् । रमयतीति रमकः । रमधातोर्वुल् । तस्याकादेशः तद्भावो रमकत्वम् । रणकर्मण पररञ्जकत्वम् । अकर्षत्यपनुदति । परस्परमुत्साहं रणकर्मणा स्फोरयतीत्यर्थः ॥ २७ ॥

हिन्दी — बलवानोंको हर्ष देनेवाले और नित्य डरनेवालोंके क्रोधको हटानेवाले, उत्साहसे अधिक फैलते हुए शब्दोंसे युक्त, युद्धक्रियासे दूसरोंको प्रसन्न करनेके भावको विस्तार करनेवाले ( युद्धमें ) ।
यह पद्य मर्द्दभ्रमक-नामक चित्रकाव्यका उदाहरण है ॥ २७ ॥

आसुरे लोकवित्रासविधायिनि महाहवे ।
युष्माभिरुन्नतिं नीतं निरस्तमिह पौरुषम् ॥ २८ ॥

मल्लि०आसुर इति । एवंविधः आसुरेऽसुरसंबन्धिनि लोकवित्रासविधायिनि=लोकभयंकरे महाहवे = महायुद्धे युष्माभिरुन्नतिं वृद्धिं नीतं प्रापितं पौरुषं पुरुषकर्म निरस्तं = नाशितम् । इह सङ्ग्रामे । कुलकम् ॥ २८ ॥

हिन्दी — ( हे सैनिको ! ) लोकको त्रस्त करनेवाले असुरोंके साथ किये गये महायुद्धमें तुमलोगोंसे बढ़ाये गये पुरुषार्थको नष्ट कर दिया ॥ २८ ॥

इति शासति सेनान्यां गच्छतस्ताननेकधा ।
निषिध्य हसता किञ्चित्तस्थे तत्रान्धकारिणा ॥ २९ ॥
( निरोष्ठ्यम् )

मल्लि०इतीति । इति=इत्थं, सेनान्यां=स्कन्दे शासत्याज्ञापयति । अनेकधा गच्छतः पलायमानांस्तानाणान्निषिध्य=निवार्य, अन्धकारिणा = हरेण किंचिद्धसता तस्थे स्थितम् । भावे लिट् ॥ २९ ॥

३४२किरातार्जुनीयम्

हिन्दी— इस प्रकार सेनापति कात्तिकेयके समझानेपर चारों ओर भागते हुए सैनिकोंको रोककर शिवजी कुछ हँसते हुए खड़े हुए ।
इस पद्यमें ओष्ठ्यस्थानीय वर्ण नहीं है ॥ २९ ॥

मुनीषूदहनात्तप्ताँल्लज्जया निविवृत्सतः ।
शिवः प्रह्लादयामास तान्निषेधहिमाम्बुना ॥ ३० ॥

मल्लि०मुनीति । मुनेरिषव एव दहनस्तेनाऽऽतप्तान् पीडितांस्तथा लज्जया रणभङ्गाच्छालीनत्वेन निविवृत्सतो निर्वतितुकामान् । ‘वृद्भ्यः स्यसनोः’ इति विकल्पात्परस्मैपदम् । तान् गणान् शिवो निषेधो मा भैष्ट मा पलायतेति निवारकवचनं स एव हिमाम्बु शीतोदकं तेन । प्रह्लादयामास । रूपकालंकारः ॥ ३० ॥
हिन्दी— तपस्वी (अर्जुन) के बाणरूप अग्निसे सन्तप्त और भागनेकी इच्छा करते हुए उन सैनिकोंको शिवजीने निषेधरूप शीतल जलसे आह्लादित कर दिया ॥ ३० ॥

दूनास्तेऽरिवलादूना निरेभा बहु मेनिरे ।
भीताः शितशराभीताः शङ्करं तत्र शङ्करम् ॥ ३१ ॥

मल्लि०दूना इति । दूनाः = शरतप्ताः 'ल्वादिभ्यः' इति निष्ठानत्वम् । अरिबलात् शत्रुबलात् । ऊना ऊनबलाः । 'पञ्चमी विभक्ते' इति पञ्चमी । निरेभाः निःशब्दाः । कुतः । भीतास्त्रस्ताः । कुतः । यतः शितैस्तीक्ष्णैः शरैरभीता अभिव्याप्ताः । इणः कर्म्मणि क्तः । ते गणास्तत्र रणे शङ्करमभयवचनेन सुखकरं शम्भुं शिवं बहु यथा तथा मेनिरेऽमन्यन्त ॥ ३१ ॥
हिन्दी— अर्जुनके बाणोंसे सन्तप्त, शत्रुके बलसे हीन बलवाले, मौन किये हुए, अर्जुनके तीखे बाणोंसे विद्ध डरे हुए वे गण युद्धमें अभय वचनसे सुख देनेवाले शङ्करको अधिक मानने लगे ॥ ३१ ॥

महेषुजलधौ शत्रोर्वर्तमाना दुरुत्तरे ।
प्राप्य पारमिवेशानमाश्वसास पताकिनी ॥ ३२ ॥

मल्लि०महेष्विति । दुरुत्तरे = दुस्तरे शत्रोः सम्बन्धिनि महेषुजलधौ महति बाणसागरे वर्तमाना पताकिनी = सेना । ईशानं शिवं पारं परतीरमिव । 'पारावारं परार्वाची' इत्यमरः । प्राप्य, आश्वसास प्राणिति स्म ॥ ३२ ॥

पञ्चदशः सर्गः ३४३

**हिन्दी—**शत्रु (अर्जुन) के दुस्तर महान् बाणरूप समुद्र में विद्यमान शिवजी-की सेना शिवजीको पार करनेवाले तटके समान पाकर आश्वस्त हुई ॥ ३२ ॥

स बभार रणापेतां चमू पश्चादवस्थिताम् ।
पुरःसूर्यादपावृत्तां छायामिव महातरुः ॥ ३३ ॥

**मल्लि०—**स इति । स शिवो रणापेतां=रणादपावृत्तां पराङ्मुखीभूतामत एव पश्चात् पृष्ठभागेऽवस्थितां चमू पुरोऽग्रे स्थितः सूर्यः पुरःसूर्यः । रणोपमानमेषः । तस्मात्, अपावृत्तां परावृत्तां छायां महातरुरिव बभार । छायां तरुरिवात्मकशरणं तां चमूं न मुमोचेत्यर्थः ॥ ३३ ॥

**हिन्दी—**शिवजीने युद्धसे विमुख अत एव पृष्ठ भागमें अवस्थित सेनाको आगे रहे हुए सूर्यसे हटी हुई छायाको जैसे महावृक्ष धारण करता है वैसे ही धारण कर लिया अर्थात् नही छोड़ा ॥ ३३ ॥

मुञ्चतीशे शराञ्जिष्णौ पिनाकस्वनपूरितः ।
दध्वान ध्वनयन्नाशाः स्फुटन्निव धराधरः ॥ ३४ ॥

**मल्लि०—**मुञ्चतीति । ईशे=हरे कर्तरि, जिष्णावर्जुने विषये शरान्मुञ्चति सति पिनाकस्य=शिवकार्मुकस्य स्वनेन=ध्वनिना पूरितो धराधर इन्द्रकीलः स्फुटन्निव = विदीर्यमाण इवेत्युत्प्रेक्षा । आशा दिशो ध्वनयन्=शब्दयुक्ताः कुर्वन्, दध्वान = शब्दमकरोत् । 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' । इत्यमरः ॥ ३४ ॥

**हिन्दी—**शिवजीने अर्जुनके प्रति बाण छोड़नेपर शिवधनु पिनाकके शब्दके पूर्ण इन्द्रकील पर्वत मानों विदीर्ण होता हुआ दिशाओंको शब्दमय करता हुआ शब्द करने लगा ॥ ३४ ॥

तद्गणा ददृशुर्भीमं चित्रसंस्था इवाचलाः ।
विस्मयेन तयोर्युद्धं चित्रसंस्था इवाचलाः ॥ ३५ ॥
(द्विचतुर्थयमकम्)

**मल्लि०—**तदिति । भीमं तयोर्हरपाण्डवयोः । तत् प्रसिद्धं युद्धं गणाः प्रमथाश्चित्रसंस्थाश्चित्राकारा अचलाः शैला इव । तथा चित्रे आलेख्ये, संस्था = स्थितिर्येषां ते चित्रसंस्थाश्चित्रलिखिता इव, अचला आश्चर्यवशान्निश्चलाः सन्तो विस्मयेन ददृशुः ॥ ३५ ॥

**हिन्दी—**शिवजी और अर्जुनके उस युद्धको प्रमथलोग चित्राकार पर्वतोंके

३४४किरातार्जुनीयम्

समान और आश्चर्यसे चित्रलिखित पर्वतोंके समान निश्चल होते हुए आश्चर्यसे देखने लगे। यह पद्य द्वितीय और चतुर्थ चरणमें समान वर्णन्यास होनेसे द्विचतुर्यमक-का उदाहरण है ॥ ३५ ॥

परिमोहयमाणेन शिक्षालघवलीलया ।
जैष्णवी विशिखश्रेणी परिजह्रे पिनाकिना ॥ ३६ ॥

मल्लि०—परीति । शिक्षालघवलीलयाऽभ्यासपाटवातिशयेन हेतुना परिमोहयमाणेन व्यामोहयता । 'अणावकर्मकाच्चित्तवत्कर्तृकात्' इति परस्मैपदे प्राप्ते 'न पादम्या'त्यादिना तत्प्रतिषेधादात्मनेपदं शानच् । 'णेर्विभाषा' इति कृत्वस्य नस्य वा णत्वम् । पिनाकिना = हरेण जिष्णोरर्जुनस्येयं जैष्णवी विशिखश्रेणी बाणसंघातः परिजह्रे = निरस्ता ॥ ३६ ॥

**हिन्दी—**अधिक अभ्यासकी कुशलतासे परिमोहित करनेवाले शिवजीने अर्जुनके बाणसमूहको दूर कर डाला ॥ ३६ ॥

अवद्यन्पत्रिणः शंभोः सायकैरवसायकैः ।
पाण्डवः परिचक्राम शिक्षया रणशिक्षया ॥ ३७ ॥
( आद्यन्तयमकम् )

मल्लि०—अवद्यन्निति । पाण्डवोऽर्जुनः । अवसायकैरवसानकरैः । स्यतेर्ण्यन्तात् ण्वुल्प्रत्ययः । सायकैर्बाणैः शंभोः पत्रिणः = शरान् । अवद्यन् = खण्डयन् । द्यतेः शतृप्रत्ययः । 'ओतः श्यनि' इत्योकारलोपः । शिक्षया शक्तुं प्रभवितुमिच्छया । उत्साहेनेत्यर्थः । रणे शिक्षयाऽभ्यासेन च परिचक्राम । उत्साहेनेष्वभ्यासाच्चचारेत्यर्थः ॥ ३७ ॥

**हिन्दी—**अर्जुनने अन्त करनेवाले बाणोंसे शिवजीके बाणोंको खण्डित कर दिया, उत्साहसे और युद्धके अभ्याससे भी वे घूमने लगे ।

इस श्लोकमें चतुर्थ चरणमें 'शिक्षया रणशिक्षया' इस प्रकार आदि और अन्तमें 'शिक्षया' की आवृत्ति होनेसे आद्यन्तयमक अलंकार है ॥ ३७ ॥

चारुचुञ्चुशिरारत्नो चञ्चच्चीररुचा रुचः ।
चचार रुचिरश्चारु चारोराचारचञ्चुरः ॥ ३८ ॥
( द्वयक्षरः )

पञ्चदशः सर्गः [३४५]

मल्लि०—चारेति। चारं गतिविशेषं वेत्तीति चारचुञ्चुः। 'तेन वित्तश्चुञ्चु-
प्चणपौ' इति चुञ्चुप्प्रत्ययः। चिरमारेचयति = रिक्तीकरोति शत्रूनिति चिरारेची।
सञ्चतश्चलतश्चीरस्य = वल्कलस्य, रुचा = प्रभया। रोचत इति रुचः = शोभमानः।
'इगुपधे—'ति कः। रुचिरः = सुन्दरः। चञ्चूर्यते भृशं चरतीति चञ्चूरः।
चरतेर्यङन्तात्पचाद्यच्। 'वररुलोम्व' इति नुमागमः। 'यङोऽचि च' इति यङो
लुक्। आचारस्य = युद्धव्यवहारस्य, चञ्चूरो भृशमाचरितः स मुनिश्चारु यथा तथा
चारैश्चक्रादिद्वन्द्यंगतिविशेषैः। चचार। 'चारः प्रियाऽवृत्ते स्याद् गतौ बन्धापसर्पयोः'
इति विश्वः ॥ ३८ ॥

**हिन्दी—**गतिविशेषसे प्रसिद्ध, बहुत समय तक शत्रुओंको रिक्त करनेवाले,
हिलते हुए वल्कलकी कान्तिसे शोभित, युद्ध व्यवहारका अतिशय आचरण किये
हुए वे मुनि (अर्जुन) सुन्दर गतिभेदोंसे घूमने लगे।
इस श्लोकमें च और र इन दो अक्षरोंका अनुप्रास है ॥ ३८ ॥


स्फुरत्पिशङ्गमौर्वीकं धुनानः स बृहद्धनुः।
धुतोल्कानलयोगेन तुल्यमंशुमता बभौ ॥ ३९ ॥

मल्लि०—स्फुरदिति। स मुनिरर्जुनः स्फुरन्ती पिशङ्गी=पिशङ्गवर्णा मौर्वी =
ज्या यस्य तत्तथोक्तम्। 'नद्यृतश्च' इति कप्प्रत्ययः। बृहद्धनुर्गाण्डीवं, धुनानः =
कम्पयन्। उल्कैवानलस्तेन धुतो योगो येन तेन। अंशुमताऽर्केण सूर्येण तुल्यं बभौ।
उपमा ॥ ३९ ॥

**हिन्दी—**अर्जुन चमकती हुई पीली प्रत्यञ्चासे युक्त विशाल धनु (गाण्डीव)-
को कम्पित करते हुए उल्कारूप अग्निसे युक्त सूर्यके समान शोभित हुए ॥ ३९ ॥


पार्थबाणाः पशुपतेरावव्रुर्विशिखावलीम् ।
पयोमुच इवारन्धाः सावित्रीमंशुसंहतिम् ॥ ४० ॥

मल्लि०—पार्थेन। पार्थबाणा अर्जुनशराः पशुपतेर्विशिखावलीं=शरसंघातम् ।
सवितुरियं सावित्रीं ताम्। अंशुसंहति किरणसमूहम् । अरन्धा निबिडाः पयोमुचो
मेघा इव। आवव्रुस्तिरोदधुः ॥ ४० ॥

**हिन्दी—**अर्जुनके बाणने शिवजोको बाणपङ्क्तिको जैसे घने मेघ सूर्यकी
किरणपङ्क्तिका आच्छादित करते हैं उसी तरह आच्छादित कर दिया ॥ ४० ॥

१४६ | किरातार्जुनीयम्

शरवृष्टि विधूयोर्वीमुदस्तां सव्यसाचिना ।
रुरोध मार्गणैर्मार्गं तपनस्य त्रिलोचनः ॥ ४१ ॥

मल्लि०-- शरेति । त्रिलोचनः=शिवः । सव्येन सचते = समवैतीति तेन सव्यसाचिनाऽर्जुनेन । उदस्तां क्षिप्तामुर्वीं महतीं शरवृष्टिं मार्गणैः शरैर्विधूय = निरस्य तपनस्य रवेर्मार्गं रुरोधावव्रे ॥ ४१ ॥

हिन्दी— शिवजीने अर्जुनसे छोड़ी गई घनी बाणवृष्टिको अपने बाणोंसे हटाकर सूर्यके मार्गको अवरुद्ध कर डाला ॥ ४१ ॥


तेन व्यातेनिरे भीमा भीमार्जनफलाननाः ।
न नानुकम्प्य विशिखाः शिखाधरजवाससः ॥ ४२ ॥
( शृङ्खलायमकम् )

मल्लि०-- तेनेति । तेन = शिवेन भीमा भयंकरास्तथा भियो भयस्य मार्जनं निरासस्तदेव फलं प्रयोजनं येषां तान्याननान्यग्राणि येषां ते भीमार्जनफलाननाः । तथा शिखाधरा मयूरास्तेषु जातानि शिखाधरजानि = बर्हाणि तानि वासांसीव पक्षाः येषां ते शिखाधरजानि मयूरपक्षिण इत्यर्थः । विशिखा बाणा अनुकम्प्य=कृपां कृत्वा न व्यातेनिर इति न । किन्त्वनुकम्प्यैवेत्यर्थः । अनुजिघृक्षुत्वादिति भावः । संभाव्यनिषेधने द्वौ प्रतिषेधावित्युक्तम् ॥ ४२ ॥

हिन्दी— शिवजीने भयङ्कर भयनिवारणरूप प्रयोजनरूप अग्रभाग ( नोक )-वाले तथा मयूरके पंखरूप जिनके वस्त्र थे ऐसे बाणोंको दयासे नहीं छोड़ा था यह नहीं, किन्तु दयासे छोड़ा था ।

इस श्लोकमें प्रथम चरणके अन्तमें और द्वितीय चरणके आरम्भमें भीमाः इन दो वर्णोंकी और तृतीय चरणके अन्त्यमें 'शिखा( : )' और चतुर्थ चरणके आरम्भमें 'शिखा—' इन दो वर्णोंकी आवृत्तिसे 'शृङ्खलायमक' नामक अलंकार है ॥ ४२ ॥


द्युवियद्गामिनी तारसंरावविहतश्रुतिः ।
हैमीषुमाला शुशुभे विद्युतामिव संहतिः ॥ ४३ ॥
( गूढचतुर्थपादः )

मल्लि०-- द्युवियदिति । द्यां = स्वर्गं वियदन्तरिक्षं च गामिनी व्यापिनी

पञ्चदशः सर्गः ३४७

द्युवियद्गामिनी । द्वितीयाप्रकरणे श्रितादिषु गम्यादीनामुपसंख्यानात्समासः । तारेणोच्चैस्तरेण संरावेण = नादेन विहता विद्धाः श्रुतयः कर्णा यया सा तथोक्ता । हैमी हेममयी इषुमाला शिवशरावलिर्विद्युतां संहतिरिर्वोक्तविशेषणा । विद्युन्मालेव । शुशुभे चतुर्थपादवर्णानां त्रिपाद्यां संभवाद् गूढचतुर्थपादमाहुः ॥ ४३ ॥

हिन्दी—स्वर्ग और आकाशको व्याप्त करनेवाली और ऊँची आवाजसे कानोंको विद्ध करनेवाली ( फाड़नेवाली शिवजीकी सुनहली बाणपङ्क्ति बिजलीके श्रेणीकी तरह शोभित हो गई ।

इस पद्यके चतुर्थ चरणके वर्णोंका पहलेके तीन चरणोंमें सम्भव होनेसे 'गूढचतुर्थपाद' कहते हैं ॥ ४३ ॥

विलङ्घ्य पत्रिणां पङ्क्ति भिन्नः शिवशिलीमुखैः ।
ज्यायो वीर्यमुपाश्रित्य न चकम्पे कपिध्वजः ॥ ४४ ॥

मल्लि०विलङ्घ्येति । शिवशिलीमुखैः पत्रिणां पङ्क्तिं निजशरावलिं विलङ्घ्यातिक्रम्य भिन्नो विद्धः कपिध्वजोऽर्जुनो ज्यायः = प्रशस्तम् । 'वृद्धप्रशस्ययोर्ज्यायान्' । इत्यमरः । वीर्यं सत्त्वम् । उपाश्रित्यावस्थाय, न चकम्पे = न चचाल । किन्तु तान्सहन्नवतस्थवित्यर्थः ॥ ४४ ॥

हिन्दी—शिवजीके बाणोंसे अपने बाणोंकी पङ्क्ति को काटकर विद्ध होकर अर्जुन उत्तम बलका अवलम्बन करके युद्धस्थलसे विचलित नहीं हुए ॥ ४४ ॥

जगतोशरणे युक्तो हरिकान्तः सुधासितः ।
दानवर्षी कृतार्थंसो नागराज इवाबभौ ॥ ४५ ॥
( अर्थत्रयवाची )

मल्लि०जगतीति । अर्थत्रयवाची श्लोकोऽयम् । तत्रादौ 'अगराज' इति पदच्छेदमाश्रित्य प्रथमोऽर्थोऽभिधीयते—( १ ) ईशस्य रणे युक्तः शक्तः । अन्यत्र, जगतोशरणे = भूरक्षणे, युक्तः = स्थितः । विधिनेति शेषः । हरिः = सिंह इव कान्तो मनोहरः । अन्यत्र, हरीणा = सिंहानां कान्त आवासदानात्प्रियः । सुष्ठु दधाति = पालयति प्रजा इति सुधाः । क्विबन्तः । असितः कृष्णवर्णः । ततो विशेषणसमासः । अन्यत्र—सुधालेपद्रव्यविशेषस्तद्वत् सितो = धवलः । दानवर्षी = बहुप्रदः, कृतार्थंसः = कृतजयाभिलाषः । अन्यत्र, दानवैर्दैत्यैर्ऋषिभिः इना कामेन न च कृतार्शसा = नानाफलाभिलाषी यस्मिन्स ना = नरोऽर्जुनः । अगराजो हिमवानिव अगस्त्यावभावित्ये-

३४८ | किरातार्जुनीयम्

-कोऽर्थः ॥ ( २ ) अथ ऐरावतसाम्यमुच्यते—जगतीं=भुवं, श्यन्ति=तनुकुर्वन्तीति ते जगतीशा राक्षसास्तेषां रणस्तत्र युक्तो विहितसमर्थः । हरिकान्त इन्द्रप्रियः । उभयत्रापि समानमेतत् । सुधासितोऽमृतः स्वच्छः । एकत्र—शीलतः, अन्यत्र—वर्णत इति विवेकः । दानवर्षी = धनप्रदो मदस्रावी च । कृताशंस उभयत्र कृतजिगीषः । पार्थो नागराज इव=ऐरावत इव । आवभाविति द्वितीयोऽर्थः । ( ३ ) अथ शेषौपम्यमुच्यते—जगतोशरणे=भूरक्षणे युक्तो नियुक्तः । दैवेनेति शेषः । 'शरणं गृहरक्षित्रोः' इत्यमरः । हरिकान्तः = कृष्णप्रियः । उभयत्रापि तुल्यम् । सुष्ठु दधातीति सुधा । वसुधेति केचित् । एकदेशग्रहणात् समुदायग्रहणम् । तत्र सितो बद्धः । 'षिञ् बन्धने' क्तः । वन्यत्र—सुधयाऽमृतेन सितो बद्धः । अमृतप्रिय इत्यर्थः । दानवाश्च क्ष्म्यश्च ( ईर्लक्ष्मीश्च ताभिः ) कृताशंसो = विहितशंसः । उभयत्रापि तुल्यमेतत् । सोऽर्जुनो नागराजः=शेष इवावभाविति तृतीयोऽर्थः ॥ ४५ ॥

हिन्दी--इस श्लोकमें अर्जुन की पर्वतमें, ऐरावत हाथी में और शेषनागमें समानता दिखलाई गई है । पहले पर्वत पक्षमें—

( १ )—जगति = लोकमें, ईशरणे = शिवजीके युद्धमें, युक्तः = समर्थ, हरिकान्तः=हरि ( सिंह ) के समान कान्त ( सुन्दर ), सुधासितः = सुधाः ( प्रजाओंके पालक ) असित ( कृष्ण वर्ण ), दानवर्षी = दानकी वृष्टि करनेवाले, कृताशंसः = जयकी आशंका ( संभावना ) किये हुए अर्जुन, जगतोशरणे = जगती ( पृथ्वी ) की रक्षामें युक्तः = ब्रह्माजीसे नियुक्त, हरिकान्तः = हरि ( सिंह ) को आश्रय देनेसे, कान्तः ( प्रिय ) सुधासितः=सुधा ( चूने ) के समान सित ( शुक्लवर्ण ) । दानवर्षी=अनेक प्रकारके रत्नोंके दानकी वृष्टि करनेवाला, ऐसा अगराजः=अगों ( पर्वतों ) के राजा हिमालयके समान । आवभौ=शोभित हुए ।

( २ )—नागराज ऐरावत हाथीके पक्षमें योजना—
जगतींशरणे=जगती=पृथ्वीको जो श्यन्ति = क्षीण करते हैं ऐसे राक्षसोंके रण- ( युद्ध ) में युक्त=समर्थ । हरिकान्तः = हरि ( इन्द्र ) का कान्त=प्रिय, सुधासितः = सुधा ( अमृत ) के समान सितः = स्वच्छ । दानवर्षी=दान ( मदजल ) की वृष्टि करनेवाला, कृताशंसः = जयकी संभावनावाला ऐसे ऐरावतके समान अर्जुन शोभित हुए । अबभौ = शोभित हुए ।

( ३ )—शेषनागके पक्षमें योजना—
जगतींशरणे=जगती ( पृथ्वी ) के शरणे ( रक्षामें ) अर्थात् धारण करनेमें युक्तः=

पञ्चदशः सर्गः ३४९

ब्रह्माजीसे नियुक्त, हरिकान्तः = हरि ( भगवान् विष्णु ) के कान्तः = शयनका आधार होनेसे प्रिय। सुधासितः = सुधा ( अमृत ) के पान करानेमें, सितः = बद्ध अर्थात् आसक्त। दानवर्षा कृताशंसः = दानव, ऋषि और ( ई ) लक्ष्मीसे आशंसा ( प्रशंसा ) किये गये, ऐसे नागराज = नागोंके राजा शेषके समान, आवभौ=अर्जुन शोभित हुए। इस पद्यमें श्लेष और उपमाका सङ्कर अलङ्कार है ॥ ४५ ॥

विफलीकृतयत्नस्य क्षतबाणस्य शंभुना।
गाण्डीवधन्वनः खेभ्यो निश्चक्राम हुताशनः ॥ ४६ ॥

मल्लि०--विफलीति। शंभुना क्षतबाणस्य अत एव विफलीकृतयत्नस्य निष्फलप्रयत्नस्य, गाण्डीवं धनुर्यस्य तस्य गाण्डीवधन्वनोऽर्जुनस्य। 'वा संज्ञायाम्' इत्यनङादेशः। खेभ्य इन्द्रियरन्ध्रेभ्यः। 'खमिन्द्रिये सुखे स्वर्गे' इति विश्वः। हुताशनोऽग्निः। निश्चक्राम = निष्क्रान्तः। क्रोधादिति भावः ॥ ४६ ॥

**हिन्दी--**शिवजीसे क्षीण बाणोंवाले, निष्फल यत्नवाले, अर्जुनके इन्द्रियोंके छिद्रोंसे क्रोधके कारण आग निकल पड़ी ॥ ४६ ॥

स पिशङ्गजटावलिः किरन्नुरु तेजः परमेण मन्युना।
ज्वलितोषधिजातवेदसा हिमशैलेन समं विदिद्युते ॥ ४७ ॥

मल्लि०--स इति। पिशङ्गजटावलिः पिशङ्गजटाजूटः परमेणोत्कृष्टेन मन्युना क्रोधेन। उरु = महत्तेजः किरन् = विक्षिपन् सोऽर्जुनो ज्वलिता ओषधयस्तृणज्योतींषि जातवेदा दवाग्निश्च यस्मिंस्तेन हिमशैलेन समं=तुल्यं हिमाद्रिरिव विदिद्युते हिमाद्रिवच्छुशुभे इति बिम्बप्रतिबिम्बभावोपमा ॥ ४७ ॥

**हिन्दी--**पीली जटापङ्क्ति वाले बढ़े हुए क्रोधसे अधिक तेजको विकीर्ण करते हुए अर्जुन जलती हुई तृणज्योति और दवाग्निवाले हिमालयकी तरह शोभित हुए ॥ ४७ ॥

शतशो विशिखानवद्यते भृशमस्मै रणवेगशालिने।
प्रथयन्ननिवार्यवीर्यतां प्रजिघायेसुमघातुकं शिवः ॥ ४८ ॥

मल्लि०--शतश इति। शिवः शतशो विशिखानवद्यते खण्डयते रणवेगशालिने रणसंरम्भशोभिनेऽस्मै पार्थाय भृशमत्यर्थम्। अनिवार्यवीर्यताम्। विद्धामिति शेषः। तस्मै प्रथयन् दर्शयन्। किं तु अघातुकममारकम्। 'लष पते'--त्यादिना

३१०किरातार्जुनीयम्

हन्तेरक्वन् । इषुम् । जातावेकवचनम् । प्रजिघाय=प्रयुयुजे । 'हि गतौ' इति धातो- लिट् । 'हेरचङि' इति कुत्वम् ॥ ४८ ॥

हिन्दी--शिवजीने सैकड़ों बाणोंको खण्डित करते हुए, युद्ध-वेगसे शोभित होनेवाले अर्जुनको अपने अनिवार्य पराक्रमको दिखलाते हुए हत्या न करनेवाले बाणोंसे प्रहार किया ॥ ४८ ॥


शम्भोधनुर्मण्डलतः प्रवृत्तं तं मण्डलादंशुमिवांशुभर्तुः ।
निवारयिष्यन्विदधे सिताश्वः शिलीमुखच्छायवृतां धरित्रीम् ॥ ४९ ॥

मल्लि० - शम्भोरिति । सिताश्वोऽर्जुनः शम्भोधनुर्मण्डलतो धनुर्वलयात् प्रवृत्तं निष्क्रान्तं तमिषुम् । अंशुभर्तुरर्कस्य मण्डलात् प्रवृत्तं अंशुमिव । अत्रापीषुषुज्जातावेक- वचनम् । निवारयिष्यन्=निवारयितुकामः । क्रियार्थक्रियायाम् लुटि तस्य शत्रादेशः । धरित्रीं = भुवं, शिलीमुखानां छाया शिलीमुखच्छायम् । 'छादा बाहुल्ये' इति नपुंसकत्वम् । तेन वृतां = व्याप्तां विदधे = कृतवान् । शरजालच्छायावृतां धरित्रीं मकरोदित्यर्थः । उपमालंकारः ॥ ४९ ॥

हिन्दी--अर्जुनने सूर्यमण्डलसे निकले हुए किरणके समान शिवजीके धनु- (पिनाक) से निकले हुए बाणको निवारण करनेकी इच्छा कर पृथिवीको बाणोंकी छायासे व्याप्त कर डाला ॥ ४९ ॥


घनं विदार्यार्जुनबाणपूगं ससारबाणोऽयुगलोचनस्य ।
घनं विदार्यार्जुनबाणपूगं ससारबाणोऽयुगलोचनस्य ॥ ५० ॥

मल्लि०--घनमिरिति । अयुगलोचनस्य=विषमनेत्रस्यालोचनस्य । लोच्यतेऽसौ लोचनः । कर्मणि ल्युट् । न लोचनोऽलोचनस्तस्य अलोचनस्याचाक्षुषज्ञानविषयस्य संबंधी सारो बलं बाणः शब्दताभ्यां सारबाणाभ्यां सह वर्तत इति ससारबाणः । बवयोरभेद इत्युक्तम् । न युज्यते कुत्रापोत्यपीत्ययुक्=सङ्गरहितः । क्विप् । बाणः= शरः । जातावेकवचनम् । घनं सान्द्रम् अर्जुनस्य बाणपूगं=शरव्रातं, विदार्य=विभिद्य घनं = निबिडं विदार्या भूमिकूष्माण्डयो लताविशेषा अर्जुनाः = ककुभवृक्षा बाणा नीलसैरेयकाः पूगाः क्रमुकास्तेषाम् । 'विभाषा वृक्षे—'त्यादिना द्वन्द्वैकवद्भावः । विदार्यार्जुनबाणपूगं ससार । विवेशेत्यर्थः । 'सृ गतौ' । यद्वा,—तदानीमेव युगलो- चनस्यार्जुनस्य ससारेत्यर्थः ॥ ५० ॥

पञ्चदशः सर्गः ३११

हिन्दी--अयुग्मलोचन (विषम नेत्र) अर्थात् शिवजीका अलोचनस्य = लोचन (नेत्र) उनसे रहित अर्थात् नेत्रमे अलक्ष्य ज्ञानसे रहित सार (बल) और वाण (शब्द) से युक्त और मल्लसे रहित बाणने गाढ़ रूपसे अर्जुनके बाणसमूहको विदारण कर गाढ रूपमे भूमिकूष्माण्डी [लताविशेष] अर्जुनवृक्ष, वाणवृक्ष और मुचरीक पेड़ोंका विदारण कर अर्जुनके बाणसमूहके भीतर प्रवेश किया।
इस पद्यमें पूर्वार्द्ध और उत्तरार्द्धके वर्ण तुल्यरूप हैं ॥ ५० ॥

रुजन्महैषूनबहुधाशुपातिनो मुहुः शरौघैरपवारयन्दिशः ।
चलाचलोऽनेक इव क्रियावशान्महर्षिसंघैर्बुबुधे धनञ्जयः ॥ ५१ ॥

मल्लि०—रुजन्नित्यादि। बहुधाशुपातिनः शीघ्रमापततो महेषून् मुहुः शरौघै रुजन् = भञ्जयन्। तथा दिशश्चापवारयन्नाच्छादयन्। क्रियावशाद् युद्धकर्मान्नततया। चलाचलोऽतिचञ्चलो धनञ्जयोऽर्जुनो महर्षिसङ्घैरनेको बहुविध इव बुबुधे = ददृशे ॥ ५१ ॥

हिन्दी--अनेक प्रकारसे शीघ्र आ पड़नेवाले विशाल बाणोंको बारंबार अपने बाणसमूहोंसे काटते हुए और दिशाओंको आच्छादित करते हुए युद्धकर्ममें लगे रहनेसे अति चञ्चल अकेले अर्जुनको महर्षिसमूहने अनेक अर्जुनके समान देखा ॥ ५१ ॥

विकाशमोयुर्जगतोशमार्गणा विकाशमोयुर्जगतोशमार्गणाः ।
विकाशमोयुर्जगतोशमार्गणा विकाशमोयुर्जगतोशमार्गणाः ॥ ५२ ॥
(महायमकम् ।)

मल्लि०—विकाशमिति । जगतीशस्य पृथिवीपतेरर्जुनस्य मार्गणा बाणा विकाशं=प्रसारम् ईयुः । तथा, जगन्ति लोके ईशमार्गणाः=शंभुशरा विकाशं विषमगतिम् । ईयुः भङ्गमयुरित्यर्थः । तथा जगतों श्यन्ति = तनुकुर्वन्तीति जगतोशा दानवाः । ‘आतोनुपसर्गे कः’ । तन्मारयन्तीति जगतोशमाराः । म्रियतेण्यन्तात्क्विप् । ते च ते गणाः = प्रमथाः जगतोशमार्गणा विकाशमुल्लासं हर्षम् । ईयुः । प्रापुरित्यर्थः । अहो देवेऽप्यस्य पराक्रमप्रसर इति विस्मयादिति भावः । तदानीं मार्गयन्तीति मार्गणा अन्वेषकाः । कर्तरि ल्युट् । जगतीशस्य त्रैलोक्यनाथस्य मार्गणा अन्वेषकाः शिवद्रष्टारो देवर्ष्यादयो वोनां = पक्षिणां काशो गतिरत्रेति विकाशमाकाशम् । ईयुः । दिदृक्षयेति भावः ॥ ५२ ॥

३५२ | किरातार्जुनीयम्

**हिन्दी—**जगतीश [पृथिवीके स्वामी अर्जुन] के मार्गणाः = बाण, चारों ओर फैल गये, तथा जगति=लोकमे, ईशमार्गणाः शिवजीके बाण विकासम्= विषम गतिको ईयुः = प्राप्त हुए, अर्जुन खण्डित हुए । इसी प्रकार जगतीम् = पृथ्वोको श्यन्ति = तनूकुर्वन्ति इति जगतीशाः = अर्थात् पृथ्वोको क्षीण करनेवाले असुर, जगतीशान् = अर्थात् असुरोंको, मारयन्तीति जगतीशमारः = असुरोंको मारने वाले, ते च ते गणाः असुरोंको मारनेवाले गण, विकासम्=हर्षम् हर्षको ईयुः = प्राप्त हुए । एवम्जगतीशमार्गणाः = जगतीशस्य = शिवस्य मार्गणाः = अन्वेषकाः, अर्थात् शिवजीका अन्वेषण करनेवाले अर्थात् देवता ओर ऋषि आदि। विकाशं = वीनाम् [ पक्षिणाम् ] काशः [ गतिः ] अस्मिन् इति विकाशम् अर्थात् जहाँ पक्षियोंकी गति है अर्थात् आकाशको ईयुः = प्राप्त हुए, शिवजीको देखनेके लिए आकाशमें प्राप्त हुए ॥

**भावार्थ—**अर्जुनके बाण चारों ओर फैल गये, लोकमें शिवजीके बाण विषम गतिको प्राप्त हुए । अर्जुनके बाण खण्डित हुए । असुरोंको मारनेवाले प्रमथगण आश्चर्यको प्राप्त हुए । शिवजीका अन्वेषण करनेवाले देवता और ऋषियोंके समूह आकाशमें प्राप्त हुए ।

इस पद्यमें चारों चरणोंकी पदावली समान रूपमें रहनेसे महायमक नामक अलङ्कार है ॥ ५२ ॥

संपश्यतामिति शिवेन वितायमानं लक्ष्मीवतः क्षितिपतेस्तनयस्य वीर्यम् । अङ्गान्यभिन्नमपि तत्त्वविदां मुनीनां रोमाञ्चमञ्चिततरं बिभ्रांबभूवुः ॥ ५३ ॥

इति भारविकृतौ किरातार्जुनीये महाकाव्ये पञ्चदशः सर्गः ।

**मल्लि०—**संपश्यतामिति । इति=इत्थं शिवेन वितायमानं = विस्तार्यमाणम् । 'तनोतेर्यकि' इति वैकल्पिक आकारादेशः । लक्ष्मीवतो जयश्रीमन्तः । 'मादुपधाया-' इत्यादिना मतुपो मस्य वकारः । क्षितिपतेस्तनयस्यार्जुनस्य वीर्यं शौर्यं संपश्यतां तत्त्वविदामपि हरेरंशावतारोऽयमिति विदुषामपि । किमुतान्येवामिति भावः । मुनीनामङ्गानि गात्राणि । अभिन्नमविरलम् । अञ्चिततरमतिरुचिरतरं रोमाञ्चं

षोडशः सर्गः ३१३

रोमहर्षं बिभ्रांबभूवुर्बुधः । 'ओहा—'त्यादिना विकल्पादाम्प्रत्ययः ॥ ५३ ॥
इति महाकविभारविकृतौ महाकाव्ये किरातार्जुनीये पञ्चदशः सर्गः ।

**हिन्दी—**इस प्रकार शिवजीसे विस्तीर्ण किये जाते हुए राजकुमार अर्जुनके पराक्रमको देखते हुए तत्त्ववेत्ता मुनियोंके भी शरीर लगातार अति रमणीय रोमाञ्चको धारण करने लगे अर्थात् तत्त्ववेत्ता मुनिलोग भी रोमाञ्चित हो गये ॥ ५३ ॥
किरातार्जुनीय महाकाव्यका पन्द्रहवां सर्ग समाप्त हुआ ।


षोडशः सर्गः

ततः किराताधिपतेरलघ्वीमाजिक्रियां वीक्ष्य विवृद्धमन्युः ।
स तर्कयामास विविक्ततर्कश्चिरं विचिन्वन्निति कारणानि ॥ १ ॥

**मल्लि०—**तत इति । ततोऽनन्तरं किराताधिपतेः संबन्धिनीम् । अलघ्वीम् आजिगुर्वीम् क्रियां रणकर्म वीक्ष्य विवृद्धमन्युर्विवृद्धक्रोधो विविक्तो निष्कलङ्कस्तर्क ऊहो ज्ञानं वा यस्य सोऽर्जुनः कारणानि रणभराशक्तिकारणानि विचिन्वन् विमृशन् । इति इत्थं वक्ष्यमाणप्रकारेण तर्कयामासाम्यूहितवान् ॥ १ ॥

**हिन्दी—**तब अर्जुन किरातराजका गौरवपूर्ण युद्ध कर्म देखकर बढ़े हुए क्रोधसे युक्त और निष्कलङ्क ज्ञानवाला होकर उनसे साथ अपने असामर्थ्यके कारणोंका विचार करते हुए इस प्रकार तर्कना करने लगे ॥ १ ॥

अथ त्रयोविंशतिश्लोकैर्वितर्कमेवाह—
मदस्रुतिश्यामितगण्डलेखाः क्रामन्ति विक्रान्तनराविरूढाः ।
सहिष्णवो नेह युधामभिज्ञा नागा नगोच्छ्रायमिवाक्षिपन्तः ॥ २ ॥

**मल्लि०—**मदेत्यादि । इहास्मिन्युद्धे मदस्रुतिभिर्मदप्रवाहैः श्यामाः कृता इति श्यामिताः गण्डलेखाः कपोलभागा येषां ते विक्रान्ताः पराक्रमं कुर्वन्तः । कर्तरि क्तः । 'शूरो वीरश्च विक्रान्तः' इत्यमरः । तैनरैरधिरूढाः सहिष्णवो रणभरक्षमा
२३ कि०

३५४ | किरातार्जुनीयम्

युधां युद्धानामभिज्ञाः । शिक्षिता इत्यर्थः । कृद्योगारकर्मणि षष्ठी । किंच, नभस्त-
च्छ्रायं पर्वतानामोन्नत्यम् । घञन्तेनोपसर्गस्य समासो नोपपदाद् घञ्प्रत्ययः । 'द्विषस्तथा
भुवोऽनुपसर्गे' इत्यत्रानुपसर्गे इति निषेधात् । आक्षिपन्तः प्रतिषेधयन्त इव स्थिताः
तथोन्नता इत्यर्थः । नागा गजा इह संग्रामे न क्रामन्ति न चरन्ति । यदा युद्धानभि-
ज्ञ्विति शेषः । एवमुत्तरत्रापि सर्वत्र द्रष्टव्यम् । तथापि कथं मे शक्तिह्रासोऽग्रेऽपि
सर्वत्र तात्पर्यार्थः ॥ २ ॥

हिन्दी—इस युद्ध में मदोंके प्रवाहसे काले किये गये कपोलभागोंसे युक्त वीर पुरुषोंसे अधिरूढ़, युद्धभार धारण करनेमें सहिष्णु, युद्ध करनेमें शिक्षित पर्वतकी ऊँचाईको भी आक्षेप करते हुए, अर्थात् पर्वतके समान ऊँचे हाथी भी नहीं विचरण करते हैं ॥ २ ॥

विचित्रया चित्रयतेव भिन्नां रुचं रवेः केतनरत्नभासा ।
महारथौघेन न संनिरुद्धा पयोदमन्द्रध्वनिना धरित्री ॥ ३ ॥

मल्लि०विचित्रयेति । विचित्रया नानावर्णया केतनानां रत्नानि तेषां भासा प्रभया भिन्नां संवलितां रवे रुचं कान्तिं चित्रयता विचित्रवर्णां कुर्वता इव स्थितेनेति केतनोन्नत्यनिमित्तेयमुत्प्रेक्षा । पयोदमन्द्रध्वनिना मेघगम्भीरघोषेण महतां रथानामोघेन समूहेन धरित्री न संनिरुद्धा नावृता ॥ ३ ॥

हिन्दी—अनेक वर्णोंवाली पताकाओंकी कान्तिसे मिश्रित, सूर्यकी कान्तिको विचित्र वर्णोंवाली करते हुएके समान स्थित मेघके समान गम्भीर शब्द करनेवाले विशाल रथोंके समूहसे पृथिवी भी आच्छादित नही है ॥ ३ ॥

समुल्लसत्प्रासमहोर्मिमालं परिस्फुरच्चामरफेनपङ्क्ति ।
विभिन्नमर्यादमिहातनोति नाश्वीयमाशा जलधेरिवाम्भः ॥ ४ ॥

मल्लि०समुल्लसदिति । इह = युद्धे प्रासाः = कुन्ताः । 'प्रासस्तु कुन्त-' इत्यमरः । ते महोर्मय इव तेषां मालाः समुल्लसन्त्यो यत्र तत् समुल्लसत्प्रासमहोर्मिमालम् । चामराणि फेना इव चामरफेनास्तेषां पङ्क्तयः परिस्फुरन्त्यश्चामरफेनपङ्क्तयो यत्र तत्तथोक्तम् । अश्वीयमश्वसमूहः । 'बृन्दे त्वश्वीयमाश्ववत्' इत्यमरः । जलधेरम्भ इव विभिन्नमर्यादमुन्मर्यादमुच्छृङ्खलं यथा तथा, आशा दिशो नातनोति = नावृणोति ॥ ४ ॥

षोडशः सर्गः ३५५

षोडशः सर्गः ३५५

हिन्दी—इस युद्धमें बड़ी तरङ्गोंके समान चमकती हुई मालोंकी पङ्क्तिवाले फेनोंके समान चामरोंकी पङ्क्तिवाले, घोड़ोंके समूह जलके समान मर्यादाका उल्लङ्घन नहीं करते हैं ॥ ४ ॥

हताहतेत्युद्भटभीष्मघोषैः ममुज्झिता योद्धृभिरभ्यमित्रम् ।
न हेतयः प्राप्ततडित्विषः खे विवस्वदंशुज्वलिताः पतन्ति ॥ ५ ॥

मल्लि०—हतेति । हत = प्रहर । आहत = विध्यत । हन्तेर्लोट् । मध्यमपुरुषबहुवचनम् । 'अनुदात्तोपदेशे-'त्यादिनाऽनुनासिकलोपः । आह्तेत्यत्र कर्मणः प्रयोगासंभवेऽपि हन्तेः स्वाभाविकमकर्मकत्वस्यानपायात् । अकर्मकत्वस्य चात्राविवक्षितत्वेन कर्मनिवृत्त्यैव तन्निवृत्तेः 'आङो यमहन्ः' इति नात्मनेपदम् । इत्येवमुद्धताः = प्रगल्भा भीष्माश्च घोषा येषां तैः । योद्धृभिर्योधैः । अभ्यमित्रम् = मित्रानभि ममुज्झिता मुक्ता विवस्वतोऽंशुभिः । प्रतिफलितैरिति भावः । ज्वलिता = दीपिताः अत एव प्राप्तस्तडितां त्विष इव त्विषो याभिस्ता हेतयः शस्त्राणि । खे न पतन्ति । समुल्लसन्तो न दृश्यन्त इत्यर्थः । 'हेतिः स्यादायुधे' इति विश्वः ॥ ५ ॥

हिन्दी—इस युद्धमें 'मारो, बेध करो', इस प्रकार उद्धत और भयङ्कर शब्द करनेवाले योद्धाओंसे शत्रुओं पर छोड़े गये प्रतिबिम्बित सूर्यकिरणोंसे प्रदीपित, बिजलीकी समान कान्तिको प्राप्त करने वाले शस्त्र भी आकाशमें नहीं गिर रहे हैं ॥ ५ ॥

अभ्यायतं संततधूमधूम्रं व्यापि प्रभाजालमिवान्तकस्य ।
रजः प्रतूर्णैरवशाङ्गनुन्नं तनोति न व्योमनि मातरिश्वा ॥ ६ ॥

मल्लि०—अमीति । अभ्यायतो वीरान्हन्तुमभ्यागच्छतः । इणः शतृप्रत्ययः । अन्तकस्य ० कालस्य संबन्धि संततं = सततं धूमवद्धूम्रं व्यापि व्यापकं प्रभाजाल मिव स्थितं प्रतूर्णैः = वेगवद्भिरश्वै रथाङ्गैः = रथचक्रैश्च नुन्नं = प्रेरितं रजो मात- रिखा मरुत् । व्योमन्यन्तरिक्षे न तनोति = न विस्तारयति ॥ ६ ॥

हिन्दी—इस युद्धमें वीरोंको मारनेके लिए सम्मुख आते हुए यमराजके निरन्तर धूमके समान धूम्रवर्णवाली व्यापक, कान्तिसमूहके समान स्थित, वेगवाले घोड़ों और रथोंके पहियोंसे प्रेरित धूलको हवा भी आकाशमें नहीं फैला रही है ॥ ६ ॥