कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
( ८४ ) sense of 'apparently' i. e., although not really fatigued he showed that he took rest. Shiva, in order to avoid cognizance, had to act as an ordinary man. ऋजुना—सरलेन simple ; not betraying any particular inner feeling. अनुज्झितक्रमः—( न + √उज्झू + क्तः ) न (त्यक्तः) क्रमः (उचिताचारः) येन सः who did not give up propriety. क्रम् means the regular order or course. प्रचकमे—( प्र + √क्रम् + लिट् ) began √क्रम् when not preceded by a preposition is conjugated in both the Padas, but it is used in Atmanepadi when preceded by प्र and उप and the sense is of 'beginning' by 'प्रोपाभ्यां समर्थाभ्याम्' पा० १.३४२ । प्रक्रामति means 'he goes' and उपक्रामति 'he comes near.' 32. Change of Voice :—तेन विधिप्रयुक्तां सत्क्रियां परिगृह्य क्षणं परिश्रमं विनीय च नाम उमां ऋजुना एव चक्षुषा पश्यता अनुज्झितक्रमेण वक्तुं प्रचकमे ॥ ३२ ॥ Hindi Translation :—उसने यथाविधि की हुई सेवा को स्वीकार कर तथा क्षण भर के लिये थकावट को दूर सा कर के, पार्वती की ओर सीधीसादी दृष्टि से ही देखते हुए, (व्यवहार के) उचित मार्ग को न छोड़ते हुए, कहना प्रारम्भ किया ॥ ३२ ॥ English Translation :—Having accepted the wor- ship offered according to proper rites, and having apparently eased his fatigue for a moment, he, looking at Uma with quite simple eyes and without giving up propriety, began to speak 32
( ८५ ) PURPORT IN SANSKRIT :-सोऽतिथियथाविधि कृतां पार्वत्याः पूजां स्वीकृत्य, किञ्चित्कालञ्च श्रममपनीय, पार्वतीं रागादिरहितेनैव निर्दोषेण नेत्रेणावलोकयन् सदाचारपरिपाटी- मनुलंघयन् कथयितुमारेभे ॥ ३२ ॥ अपि क्रियार्थं सुलभं समित्कुशं जलान्यपि स्नानविधिक्षमाणि ते । अपि स्वशक्त्या तपसि प्रवर्तसे शरीरमाद्यं खलु धर्मसाधनम् ॥ ३३ ॥ अपीति । अत्रापि शब्दः प्रश्ने । क्रियार्थं होमादिकर्मानुष्ठा- नार्थम् । समिधश्च कुशाश्च समित्कुशम् । 'जातिरप्राणिनाम्' इति द्वन्द्वैकवद्भावः । सुलभं अपि सुलभं कच्चित् । जलानि ते तव स्नान- विधिक्षमाणि स्नानक्रियायोग्यानि अपि कच्चित् । किञ्च स्वशक्त्या निजसामर्थ्यानुसारेण तपसि प्रवर्त्तसे अपि । देहमपीडयित्वा तपश्च- रसि कच्चिदित्यर्थः । युक्तं च नामैतत् । खलु यस्मात् शरीरं आद्यं धर्मसाधनम् । धर्मस्तु कायेन वाचा बुद्ध्या धनादिना च बहुभिः साध्यते । तेषु च वपुरेव मुख्यं साधनम् । सति देहे धर्मार्थकाम- मोक्षलक्षणाश्चतुर्वर्गाः साध्यन्ते । अतएव 'सततमात्मानमेव गोपायीत्' इति श्रुतिः । 'अयथाबलमारम्भो निदानं क्षयसंपदाम्' इति भावः ॥ ३३ ॥ PROSE ORDER :-अपि क्रियार्थं समित्कुशं सुलभम् ? अपि जलानि ते स्नानविधिक्षमाणि ? अपि स्वशक्त्या तपसि प्रवर्त्तसे ? खलु शरीरं आद्यं धर्मसाधनम् ( अस्ति ) ॥ ३३ ॥ NOTES :-अपि-कच्चित् It is used here in the sense of interrogation. For its various senses Cf. 'गर्हास-
( ८६ ) समुच्चयप्रश्नशङ्कासंभावनासु अपि' इत्यमरः। क्रियार्थे—क्रियायै इदं क्रियार्थं (होमादिकर्मकरणार्थम्) for performing holy rites In क्रियार्थ the compound is नित्यसमास, which is defined as 'अविग्रहो नित्यसमासः अस्वपदविग्रहो वा' i. e., Nitya- samasa is that which either cannot be expounded or cannot be expounded by using the words actually compounded. Here क्रियार्थ is expounded by using क्रिया and इदं and not क्रिया and अर्थ which (latter) are actually compounded. The compound with अर्थ is a Nityasamasa and takes the gender and number of the noun it qualifies. समित्कुशम्—समिधश्च कुशाश्च समित्कुशम् Sacrificial sticks and Kusha grass. It is a Dwandwa compound and the singular is used by the rule 'जातिरप्राणिनाम्' पा० २.४ ६ । i. e., of words ex- pressing things and not animals when the species is prominently referred to the compound is in singular. सुलभम्—(सु + √लभ्+खल्) easy to obtain The suffix खल् is added by 'ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्' पा० ३ ३ १२६ । i. e, खल् is added to any root with ईषत्, दुर् or सु prefixed to it when the idea of ease or difficulty is present, e g, सुकरः, दुष्करः। स्नानविधि- क्षमाणि—स्नानस्य विधये क्षमाणि (योग्यानि) स्नानविधिक्षमाणि suitable for bathing. स्वशक्त्या—स्वसामर्थ्यानुसारेण accord- ing to your might. खलु—verily आद्यम्—प्रथमं the chief धर्मसाधनम्—धर्मस्य साधनम् means of performing the religious duties. 'शरीरमाद्यं खलु धर्मसाधनम्' is a
( ८७ ) well-known proverbial saying and it means that body is the chief means of performing the religious duties, hence one should take greatest possible care of it CHANGE OF VOICE :-अपि क्रियार्थं समित्कुशेन सुलभेन ( भूयते ) ? अपि जलैः ते स्नानविधिक्षमैः ( भूयते ) ? अपि ( त्वया ) स्वशक्त्या तपसि प्रवृत्त्यते ? खलु शरीरेण आद्येन धर्म- साधनेन ( भूयते ) ॥ ३३ ॥ HINDI TRANSLATION :-( यज्ञादि ) धार्मिक कृत्यों के लिये समिधायें और कुश तो सरलता से प्राप्त हो जाते हैं ? पानी तो तुम्हारे स्नान के लिये उपयुक्त है ? और अपनी सामर्थ्य के अनुसार ही तप करती हो न ? क्योकि शरीर वास्तव में धार्मिक कृत्यों के करने में मुख्य सहायक है ॥ ३३ ॥ ENGLISH TRANSLATION -'Are sacrificial sticks and Kusha grass easily available for holy rites ? Is the water suitable for thy bathing ? And, dost thou practise austerities in accordance with thy strength ? For, the body is the chief means of performing religious duties ' 33 PURPORT IN SANSKRIT - ब्रह्मचारिवेषधारी शिवः पार्वती तत्कुशलं तपःसहायकवस्तूनां सुलभतां प्रति च पृच्छति- ' किं त्वया होमादिधार्मिककृत्यकरणार्थं यज्ञकाष्ठानि दर्भाश्च सुखेन लभ्यन्ते ? इतस्ततः पर्वतनिर्झरेषु नदीषु च प्राप्यं जलं किं ते स्नान- योग्यमस्ति ? किं त्वं स्वसामर्थ्यानुसारेणैव तपस्यामाचरसि न तु शरीरमत्यन्तं पीडयित्वा, यतो देहो धर्माचरणे प्रधानसहाय-
( ८८ ) कोऽस्ति ? त्वया स्वास्थ्यमनादृत्य तपो न करणीयमिति भावः ' ॥ ३३ ॥ अपि त्वदावर्जितवारिसंभृतं प्रवालमासामनुबन्धि वीरुधाम् । चिरोज्झितालक्तकपाटलेन ते तुलां यदारोहति दन्तवाससा ॥ ३४ ॥ अपीति । त्वदावर्जितवारिसंभृतं त्वयावर्जितेन सिक्तेन वारिणा संभृतं जनित आसां वीरुधां लतानां प्रवालं पल्लवं अनुबन्धि अपि अनुस्यूतं किम् । यत् प्रवालं चिरोज्झितश्चिरकालत्यक्तो लाक्षारागो येन तत्तथापि पाटलम् । स्वभावरक्तमित्यर्थः । तेन चिरोज्झितालक्त- कपाटलेन ते तव दन्तवाससा अधरेण । ' ओष्ठाधरौ तु रदनच्छदौ दशनवाससी ' इत्यमरः । तुलां साम्यं आरोहति । गच्छतीत्यर्थः । अत्र तुलाशब्दस्य सादृश्यवाचित्वात्तद्योगेऽपि ' तुल्यार्थैरतुलोप- माभ्याम् ' इति न तृतीयाप्रतिषेधः तत्र सूत्रे सदृशवाचिन एव ग्रहणादिति ॥ ३४ ॥ PROSE ORDER:—अपि त्वदावर्जितवारिसंभृतं आसां वीरुधां प्रवालं अनुबन्धि ( अस्ति ) यत् चिरोज्झितालक्तकपाटलेन ते दन्तवाससा तुलां आरोहति ॥ ३४ ॥ NOTES —त्वदावर्जितवारिसंभृतम् । आवर्जितं—( आ + √ वृज् + क्तः ) सिक्तम् sprinkled. √वृज् ' to avoid, ' here with आ means ' to sprinkle ' संभृतम्—( सं + √भृञ् + क्तः ) Nourished, reared. त्वया आवर्जितेन वारिणा संभृतं reared by water sprinkled by you. त्वत् is formed by changing युष्म of युष्मत् into त्व by ' प्रत्ययोत्तरपदयोश्च ' पा० ७ २ ९८ । वीरुधाम्—लतानाम् of creepers The word
( ८६ )
वीरुध् ( वि + √रुह् + क्विप् ) is formed by changing the ह् of √रुह् to ध् and lengthening वि irregularly. It is feminine and is declined as वीरुत्, वीरुधौ, वीरुधः । वीरुधं, वीरुधौ, वीरुधः । etc For meaning Cf. ' लता प्रतानिनी वीरुद् ' इत्यमरः । प्रवालं—नूतनपल्लवं fresh or young leaves. Singular is used for the class ' प्रवालो विद्रुमे वीणादण्डेऽभिनवपल्लवे ' इत्यमरः । अनुबन्धि—( अनुबन्ध + इनिः ) अविच्छिन्नं continuous i e, coming out without a break. ' सम्बन्धे संततात्मकावनुबन्धः प्रकीर्तितः ' इति भोजः । Being an adjective of प्रवाल it is neuter gender and will be declined as अनुबन्धि, अनुबन्धिनो, अनुबन्धीनि etc. The suffix इनिः is added by 'अत इनिठनौ' पा० ५ २ ११५ । After it अस्ति is understood चिरोज्झितालक्तकपाटलेन । अलक्तकः—लाक्षारसः red lac , lac dye. चिराद् उज्झितः अलक्तको येन ( बहुव्रीहिः ) तथाभूतमपि पाटलम् ( रक्तं ), तेन red though long bereft of lac dye Adjective of दन्तवाससा—दन्तानां वासः, तेन ( अधरेण ) covering for the teeth i e lip. In दन्तवाससा the Instrumental is against the rule ' तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम् ' पा० २ ३.७५ । which means that in the case of words denoting equality or likeness, such as तुल्य, सदृश etc., the person or thing with whom or which any object is compared is put in the Genitive or Instrumental case, except in the case of तुला and उपमा ( with which only the Genitive case is used ). But Mallinatha defends this by saying that here the word तुला is-
( ३० ) सादृश्य ( noun ) वाचो and not सदृश ( adjective ) वाची The rule prohibits the use of the Instrumental only when the word तुला is सदृशवाची, hence it could be used here. Cf 'अत्र तुलाशब्दस्य .. ..ग्रहणादिति,' the last three lines of Mallinātha's commentary. Another anno- tator of the rule also has expressed the same view— •• 'अतुल्योपमाभ्याम्' इति तुला शब्दयोगे तृतीयानिषेधस्तु सदृ- शार्थकतुलाशब्दयोगे एव, इह तुलाशब्दः सादृश्यवाचीति न प्रवर्तत " इति । Bhoja also takes the same view Cf 'सदृशपदार्थवाची सादृश्यमात्रवाची चेति द्वौ तुलाशब्दौ । सादृ- श्यमात्रवाचकतुलाशब्दयोगे तु तृतीयाऽपीष्यत एव ।' Some commentators defend this by supplying सह after दन्तवाससा । तुलां—साम्यम् equality, similarity आरोहति —प्राप्नोति becomes, rises up to. As Pārvatī was very fond of small plants, which she loved like her sons, the inquiry into their well- being is quite appropriate 34 CHANGE OF VOICE —अपि त्वदावर्जितवारिसंभृतेन आसां वीरुधां प्रवालेन अनुबन्धिना ( भूयते ), येन चिरोज्झितालक- कपाटलेन ते दन्तवाससा तुला आरुह्यते ॥ ३४ ॥ HINDI TRANSLATION :—तुम्हारे द्वारा दिये पानी से बढ़े हुए इन बेलों के पत्ते लगातार तो निकलते रहते हैं ? जो ( पत्ते ) तुम्हारे इस ओठ के समान हैं, जो कि दीर्घकाल से लाख के रंग के ( उपयोग के ) छूट जाने पर भी लाल हैं ॥ ३४ ॥ ENGLISH TRANSLATION —Are the young leaves of these creepers, made to grow by the water sprinkled
( ३१ ) by thee, continuous ? — the leaves which are similar to the lip, which is red though long bereft of red lac 34 PURPORT IN SANSKRIT .—अथ पार्वत्या स्वयं सिञ्चितानां वृक्षाणां विषये पृच्छति— ' किं त्वया सिच्यमाना एता लता निरन्तरं नूतनपल्लवान्युत्पादयन्ति, यानि नूतनपल्लवानि रक्तवर्णा- त्वात् चिरात्यक्तलाक्षारसोपयोगेनापि स्वभावरक्तेन त्वदीयाधरेण साम्यं दर्शयन्ति ? शिवः पार्वत्या अधरः स्वभावेनैव रक्त इति चाटूक्त्या पार्वतीरूपं प्रशंसति ॥ ३४ ॥ अपि प्रसन्नं हरिणेषु ते मनः करस्थदर्भप्रणयापहारिषु । य उत्पलाक्षि प्रचलैर्विलोचनै- स्त्ववाक्षिसाहश्यमिव प्रयुञ्जते ॥ ३५ ॥ अपीति । करस्थदर्भप्रणयापहारिषु करस्थान्दर्भान्प्रणयेन स्नेहेनापहरन्तीति ते तथोक्तेषु सापराधेष्विति भावः । ' करस्थ- दर्भप्रणायापराधिषु ' इति पाठे दर्भाणां प्रणयेन प्रार्थनयापराधिषु । हरिणेषु विषये ते मनः प्रसन्नं अपि । न क्षुभितं किम् । साप- राधेष्वपि न कोपितव्यं तपस्विभिरिति भावः । हे उत्पलाक्षि ये हरिणाः प्रचलैः चञ्चलैः विलोचनैः नेत्रैः तवाक्षिसाम्यं प्रयुञ्जते इव अभिनयन्तीव । प्रसन्नत्वान्मृगनेत्राणि त्वन्नयनाभ्यां साम्य- मुपयान्तीति भावः । ' उत्पलक्षेपचलैः ' इति पाठान्तरे उत्पल- कम्पचलै । प्राधानयने द्रव्यानयनमिति न्यायेन क्षिप्यमाणोत्पल- चलैरित्यर्थ ॥ ३५ ॥ PROSE ORDER :—करस्थदर्भप्रणयापहारिषु हरिणेषु ते मनः अपि प्रसन्नम् ? ( हे ) उत्पलाक्षि । ये प्रचलैः विलोचनैः तव अक्षिसाम्यं प्रयुञ्जते इव ॥ ३५ ॥
( ६२ ) NOTES :—करस्थदर्भप्रणायापहारिषु । करस्थ —( कर + √स्था+कः) करे तिष्ठतीति करस्थ । अपहारी—( अप+ √हृ+णिनिः) अपहर्तुं शील यस्य सः one who takes away करस्थान् दर्भान् (कुशान्) प्रणयेन (स्नेहेन) अपहरन्ति (गृह्णन्ति) इति करस्थदर्भप्रणायापहारिणः तेषु who take the Kusha grass held in hand through their love (for you) Some books read अपराधिषु for अपहारिषु There the meaning is 'who are guilty of seeking the Kusha grass lying in your hand.' हरिणेषु— towards the deer. प्रसन्नम् —pleased उत्पलाक्षि—उत्पले (कमले) इव अक्षिणी (नेत्रे) यस्याः सा उत्पलाक्षी, तस्याः सम्बोधने उत्पलाक्षि, उत्पल+अक्षि+षच्+ङीप् O lotus-eyed one प्रचलैः— प्रकर्षेण चलैः (अतिचञ्चलैः) very much unsteady. अक्षिसादृश्य—सदृशस्य भावः सादृश्यं ( सदृश्+ष्यञ् ) resemblance. प्रयुञ्जते—कुर्वन्ति ; अभिनयन्ति make; present √युज् 'to unite' is conjugated as युनक्ति or युङ्क्ते, युञ्जाते, युञ्जते (लट्) युयोज यु युजे (लिट्) योक्ष्यति or योक्ष्यते (लृट्) अयुजत्, अयौक्षीत् or अयुक्त (लुङ्) etc when preceded by प्र or उप it means 'to perform; to do, to represent on the stage' etc and is used in Atmanepada only Cf. 'प्रोपाभ्यां युजेरयज्ञपात्रेषु' पा० १ ३ ६४। Some editions read 'उत्पलाक्षेपचलैः' in place of 'उत्पलाक्षिप्रचलै. In that case the meaning will be 'which are unsteady like lotuses tossed about' (उत्पलानां आक्षेपः, तद्वत् चलैः)। For the idea Cf. Shloka 15 above. 35
( ६३ ) CHANGE OF VOICE :—करस्थदर्भप्रणायापहारिषु हरिणेषु ते मनसा अपि प्रसन्नेन ( भूयते ) ? ( हे ) उत्पलाक्षि, यैः प्रचलैः विलोचनैः तव अत्तिसादृश्यं प्रयुज्यते इव ॥ ३५ ॥ HINDI TRANSLATION :—हाथ में पकड़े हुए कुशों को प्रेम के कारण ले जाने वाले मृगों की ओर से तुम्हारा मन प्रसन्न तो है ? जो ( मृग ), हे कमल के समान नेत्र वाली, अपने चञ्चल नेत्रों से तेरी आंखों की समता करते हैं ॥ ३५ ॥ ENGLISH TRANSLATION —Is thy mind pleased with the fawns, who take the Kusha grass in your hands out of love ( for you ), and who, O lotus-eyed one, present a resemblance to thy eyes by their unsteady eyes 35 PURPORT IN SANSKRIT :—' कच्चित्त्वयेषु मृगेषु प्रसन्ना तिष्ठसि, ये हि परिचयाधिक्येन ते हस्तधृतानपि कुशान् भक्षणार्थ- माददति, ये च, हे कमलनेत्रे, तव नेत्रयोः सादृश्यं स्वनेत्रेष्वल- भमानाः निजनेत्राणीतस्ततश्चालयन्तस्तव विलोचनयोः समतां कुर्वन्ति इव ।' वास्तव तु हरिणानां नेत्राणि न पार्वतिनेत्र- समानि, परमितस्ततश्चालनेन तानि तत्समानि क्रियन्त इवेति भावः ॥ ३५ ॥ यदुच्यते पार्वति पापवृत्तये न रूपमित्यव्यभिचारि तद्वचः । तथा हि ते शीलमुदारदर्शने तपस्विनामप्युपदेशतां गतम् ॥ ३६ ॥ यदिति । हे पार्वति रूपं सौम्याकृतिः पापवृत्तये पापाचरणाय न भवति । इति यदुच्यते । लोकैरिति शेषः । तद्वचः न व्यभिचरति कु० सं०—८
( ६४ ) न स्खलतीति अव्यभिचारि सत्यम् । ‘ यत्राकृतिस्तत्र गुणाः ’। ‘ न सुरूपा पापसमाचारा. भवन्ति ’ इत्यादयो लोकवादाः न विसंवादमासादयन्तीत्यर्थः । किमिति ज्ञायते—तथा हि । हे उदार- दर्शने आयताक्षि । सुरूपे इत्यर्थः । अथवा उन्नतज्ञाने । विवेक- वतीत्यर्थः । ते तव शील सद्वृत्तम् ‘ शीलं स्वभावे सद्वृत्ते ’ इत्यमरः । तपस्विनामपि उपदिश्यते अनेनेत्युपदेशः प्रवर्त्तकं प्रमाणं तत्तां उपदेशतां गतं प्राप्तम् । मुनयोऽपि त्वां वीक्ष्य स्ववृत्ते प्रवर्त्तन्ते इति भावः ॥ ३६ ॥ PROSE ORDER :—( हे ) पार्वति 'रूपं पापवृत्तये न ( भवति इति ) यद् उच्यते, तद् वचः अव्यभिचारि ; तथा हि ( हे ) उदार- दर्शने ! ते शिलं तपस्विनां अपि उपदेशतां गतम् ॥ ३६ ॥ NOTES :—रूपं—सौन्दर्य beauty पापवृत्तये—पापस्य वृत्तये ( आचरणाय ) पापवृत्तये for a sinful course of life The expression रूपं पापवृत्तये न means that beauty does not lead to a sinful course of life For similar idea Cf ‘ यत्राकृतिस्तत्र गुणाः वसन्ति । ’ ‘ रूपं शीलानुसारि । ’ and ‘ न ह्याकृतिः सुसदृशं विजहाति शीलम् ’ अव्यभिचारि— न व्यभिचरति इति अव्यभिचारि ( वि + अभि + √ चर् + णिनिः ) सत्यम् not false, unfalling उदारदर्शने—उदारं ( उत्कृष्टं ) दर्शनं ( रूपं ) यस्याः सा, तस्याः सम्बुद्धौ उदारदर्शने ( अति ) सुन्दरि ) O one of noble form Mallinath takes दर्शन in the sense of ‘ the eye ’, hence he has translated it by ‘ आयताक्षि ’ । शीलं—सदाचारः ( good ) conduct. तपस्विनां—( तपस् + विनिः ) for the ascetics. The suffix विनिः is added by ‘ अस्मायामेधास्रजो विनिः ’ पा० ५.२.१२१ । Mark the force of अपि । Parvati's conduct was not
( ६५ ) a guide only for ordinary people but for ascetics also. उपदेशतां—( उप + √दिश् + घञ् + ता ) उपदिश्यते अनेन इति उपदेशः, तस्य भावः उपदेशता, तां the state of a precept or rule 36 CHANGE OF VOICE — ( हे ) पार्वति, रूपेण पापवृत्तये न ( भूयते इति ) यद् ( जनाः ) ब्रुवन्ति तेन वचसा अव्यभिचारिणा ( भूयते ), यथा हि ( हे ) उदारदर्शने, ते शीलेन तपस्विनां अपि उपदेशता गता ॥ ३६ ॥ HINDI TRANSLATION :—हे पार्वति, यह जो कहा जाता है कि सुन्दरता पापाचरण का कारण नहीं होती, सत्य है, क्योकि हे सुन्दरि, तुम्हारा आचरण तपस्वियों को भी शिक्षा देने वाला है ॥ ३६ ॥ ENGLISH TRANSLATION .—O Parvati, the saying that beauty does not lead to a sinful course of life is not false, since, O thou of noble form, thy conduct has be- come as model even for the ascetics 36 PURPORT IN SANSKRIT :—‘ हे पार्वति ’ ‘ न सौन्दर्य पापस्य कारणम्, ’ अथवा ‘ न सुरुपाः पापमाचरन्ति ’ इति कथनं त्वां दृष्ट्वा मे सत्यमेव प्रतीयते, यतो यद्यपि त्वमत्यन्तं रूपवती तथापि तवाचरणमीदृशं यत्तपस्विभ्योऽपि शिक्षाप्रदमस्ति । तेऽपि तव चरित्रं दृष्ट्वा स्वानि चरित्राणि शोधयन्ति किमुत साधारण- जनाः ? ’ ॥ ३६ ॥ विकीर्णसप्तर्षिबलिप्रहासिभि- स्तथां न गाङ्गैः सलिलैर्दिवश्च्युतैः ।
( ६६ ) यथा त्वदीयैश्चरितैरनाविलै- र्महीधरः पावित एष सान्वयः ॥ ३७ ॥ विकीर्णेति । एष महीधरः हिमवान् । विकीर्णसप्तर्षिबलिप्रहा- सिभिः सप्त च ते ऋषयः । 'दिक्संख्ये संज्ञायाम्' इति समासः । विकीर्णैः पर्यस्तैः सप्तर्षीणां संबन्धिभिर्बलिभिः । पुष्पोपहारैः प्रहसन्ति तैः तथोक्तैः दिवः अन्तरिक्षात् च्युतैः गाङ्गैः सलिलैः तथा न पावितः । अनाविलै अकलुषैः त्वदीयै चरितैः यथा सान्वयः सपुत्रपौत्रः पावितः पवित्रीकृतः ॥ ३७ ॥ PROSE ORDER —एष महीधरः विकीर्णसप्तर्षिबलिप्रहा- सिभिः दिवः च्युतैः गाङ्गैः सलिलैः तथा न पावितः यथा अनाविलै त्वदीयै चरितैः सान्वयः ( पावितः ) ॥ ३७ ॥ NOTES —महीधरः—मह्याः ( भूमे ) धरः महीधरः a mountain. धरः ( धरतीति ) is formed from √धृ ' to support ' by adding कः by ' इगुपधज्ञाप्रीकिरः कः ' पा० ३ १.१३५ । i. e. the roots having इ, ई, उ, ऊ, ऋ, ॠ, लृ, or ॡ for their penultimate and ज्ञा, प्री and क take क in active voice विकीर्णसप्तर्षिबलिप्रहासिभिः । विकीर्णः—( वि √कॄ+क्त ) पर्यस्त scattered See notes on विशीर्ण in the Verse 28 above. सप्तर्षय.—सप्त च ते ऋषयश्च सप्तर्षय. the seven Rishis The compound is Karmadharaya, by ' दिक्संख्ये संज्ञायाम् ' पा० २.१.६१ । meaning that names of quarters and numerals form a Karmadharaya com- pound with any declinable word, but only when the whole compound is an appellation ( संज्ञा ) Here it is the proper name of a constellation of seven stars (Ursa
( ५७ ) Major ), named after seven sages. Their names are— 1 मरीचि 2 अङ्गिरस् 3 अत्रि 4 पुलस्त्य 5 पुलह 6 क्रतु and 7 वशिष्ठ । They reside in heaven and are often described as taking bath and offering flowers to the gods in the holy waters of the heavenly Ganges. Cf ‘ अत्राभिषेकाय तपोधनानां सप्तर्षिहस्तोद्धृतहेमपद्माम् । प्रवर्त्तया- मास किलानसूया त्रिस्रोतसं त्र्यम्बकमौलिमालाम् । ’ रघुवंशम् १३.५१ । बलिः—पुष्पोपहारः an offering ( of flowers ). ‘ करोपहारयोः पुंसि बलिः ’ इत्यमरः । प्रहासिभिः ( प्र + √हस् + णिनिः ) प्रहसन्तीति i e, shining, resplendent The flowers of offerings on account of their white colour are poetically regarded as the smiles of the waters of the Ganges. Some books read प्रभासिभिः and some others प्रवाहिभिः in place of प्रहासिभिः । The former will mean ‘resplendent’ and the latter ‘carrying’ विकीर्ण .. प्रहासिभिः—विकीर्णैः सप्तर्षीणां बलिभिः प्रहसन्तीति विकीर्ण- सप्तर्षिबलिप्रहासीनि, तैः which are resplendent ( lit. laughing ) with the offerings of flowers scattered by the seven sages. दिवः—स्वर्गात् from the heaven. Ablative is used in the sense of अपादान ( separation ). The waters of the holy Ganges are described in mythological books as falling from the heaven. च्युतैः— ( √च्यु+क्तः ) पतितैः dropped. The two adjectives— विकीर्णसप्तर्षिबलिप्रहासिभिः and दिवश्च्युतैः are meant to indicate the holy character of the waters of the Ganges. This makes the contrast more effective. गाङ्गैः—
( ६८ ) ( गङ्गा + अण् ) गङ्गाया इमानि गाङ्गानि, तैः of the Ganges तथा—तेन प्रकारेण in that way ; so much. पावितः—(√पू to purify + क्त ) Passive Past Participle. पवित्रीकृतः sanc- tified अनाविलैः—न आविलैः अनाविलैः not dirty , pure. Adjective of त्वदीयैः चरितैः It implies that Parvati's conduct is purer and more sanctifying than the waters of the Ganges The suggested figure of speech is व्यति- रेक, in which the standard of comparison is excelled by the thing compared त्वदीयैः—( युष्मद् + छ् —ईय् ) तव इमानि त्वदीयानि, तैः by your own The suffix छ् is added to युष्मद् by ‘वृद्धाच्छः’ पा० ४.२.११४। and युष्म of युष्मद् is changed to त्व by ‘प्रत्ययोत्तरपदयोश्च’ पा० ७२.९८। चरितैः—acts सान्वयः—अन्वयेन ( कुटुम्बेन ) सह इति सान्वयः with his family This verse contains a glowing tribute from Shiva for the righteous life of Parvati. 37. CHANGE OF VOICE:—एतं महीधरं विकीर्णसप्तर्षिबलि- प्रहासीनि दिवः च्युतानि गाङ्गानि सलिलानि तथा न पूतवन्ति, यथा अनाविलानि त्वदीयानि चरितानि सान्वयं ( पूतवन्ति )॥३७॥ HINDI TRANSLATION:—यह (हिमालय) पहाड़ सप्तर्षियों के द्वारा दिये हुए पुष्पों के उपहार से चमकते हुए, आकाश से गिरे हुए गङ्गा के पानी से उतना पवित्र न हुआ था, जितना तुम्हारे पवित्र आचरण ने इसे सकुदुम्ब पवित्र कर दिया है ॥ ३७ ॥ ENGLISH TRANSLATION —This mountain ( the Himalaya ) was not so sanctified by the waters of the Ganges, dropping from heaven and resplendent with
( ६६ ) the offerings of flowers scattered by the seven sages as he together with his family has been by thy pure, acts 37 PURPORT IN SANSKRIT :—पार्वत्याश्चरित्रं प्रशंसन्पुनरप्याह —हिमालयस्य पृष्ठे स्वर्गात् गङ्गाप्रवाहः पतति, स च स्वर्गा- त्पतनेन सप्तर्षीणां पूजापहारपुष्पाणां संसर्गेण चातिशयेन पावनः । परमयं हिमालया गङ्गायाः पवित्रजलैर्न तथा पवित्रीकृतो यथेदानीं तवाकलुषैश्चरित्रैः सकुटुम्बः पवित्रीकृतः । तव चरि- तानि पवित्रतायां तद्भाने च गङ्गाया जलान्यपि अतिशेरत इति भावः ॥ ३७ ॥ अनेन धर्मः सविशेषमद्य मे त्रिवर्गसारः प्रतिभाति भाविनि । त्वया मनोनिर्विषयार्थकामया यदेक एव प्रतिगृह्य सेव्यते ॥ ३८ ॥ अनेनेति । हे भाविनि प्रशस्ताभिप्राये । अनेन कारणेन धर्मः सविशेषं सातिशयं अद्य मे । त्रिवर्गसारः त्रयाणां धर्मार्थकामानां वर्गस्त्रिवर्ग । ‘ त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकैः ’ इत्यमरः । तत्र सारः श्रेष्ठः प्रतिभाति । यत् यस्मात् कारणात् मनोनिर्विष- यार्थकामया मनसो निर्विषयार्थकामौ यस्यास्तया त्वया एकः धर्मः एव प्रतिगृह्य स्वीकृत्य सेव्यते । यत्त्वयार्थकामौ विहाय धर्म एवावलम्बितः । अतः सर्वेषां नः स श्रेयानिति प्रतिपद्यत इत्यर्थः ॥ ३८ ॥ PROSE ORDER :—(हे) भाविनि अनेन अद्य मे धर्मः
( १०० ) सविशेषं त्रिवर्गसारः प्रतिभाति, यद् मनोनिर्विषयार्थकामया त्वया एक एव प्रतिगृह्य सेव्यते ॥ ३८ ॥ NOTES:—भाविनि—( भाव + इनिः + ङीप् ) प्रशस्तः भावः अभिप्रायः ) अस्या अस्तीति भाविनी, तस्याः सम्बोधने O one of excellent or noble thoughts Some books read भामिनि instead of भाविनि, which means a fortunate or passion- ate woman. This being out of place भाविनि is preferable to भामिनि। अनेन—by this, i. e. by seeing your pure conduct सविशेषं—विशेषेण सह इति सविशेषम् particularly; pre-eminently It is an adverb to त्रिवर्गसारः प्रतिभाति । त्रिवर्गसारः—त्रयाणां वर्गाणां समाहारः त्रिवर्ग ( धर्मार्थकामाः ) (द्विगुसमास ) त्रिवर्गे सारः त्रिवर्गसार the best of the group of the three, namely धर्म (righteousness) अर्थ (wealth) and काम (desire) त्रिवर्ग means the group of three things and it becomes चतुर्वर्ग if the fourth, namely मोक्ष (salvation), is added to it Cf 'त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकैः' इत्यमरः । These four things are, according to the Hindu scriptures, the objects to be acquired by human beings प्रतिभाति—ज्ञायते is known, appears √भा 'to shine' means 'to appear' when preceded by प्रति । मनोनिर्विषयार्थकामया । निर्विषयौ —निर्गतः विषयः ययोस्तौ which are not thought about, which are not the objects of मनसो निर्विषयौ अर्थः कामश्च (द्वन्द्वः ) यस्याः सा मनोनिर्विषयार्थकामा, तया whose mind is entirely free from all thoughts about अर्थ and काम । Parvati leading the life of an ascetic paid no heed to
( १०१ ) अर्थ and काम, but devoted herself solely to the acqui- sition of धर्म । एक एव—i e, धर्म एव । प्रतिगृह्य—( प्रति + √ग्रह् +ल्यप् ) स्वीकृत्य having accepted or selected. सेव्यते —आश्रीयते is followed 38 CHANGE OF VOICE :—( हे ) भाविनि, अनेन अद्य मे धर्मेण सविशेषं त्रिवर्गसारेण प्रतिभायते, यत् मनोनिर्विषयार्थकामा त्वं एकं एव प्रतिगृह्य सेवसे ॥ ३८ ॥ HINDI TRANSLATION :—हे श्रेष्ठ अभिप्राय वाली, इससे तो आज मुझे धर्म ही विशेषतया तीनो वस्तुओ ( धर्म, अर्थ, काम ) में श्रेष्ठ ज्ञात होता है, क्योंकि अर्थ और काम से रहित मन वाली तुम ( उसी ) एक को ग्रहण कर पालती हो ॥ ३८ ॥ ENGLISH TRANSLATION —O one of noble intentions, on account of this ( thy conduct ) Dharma strikes me pre-eminently as the best of the group of the three ( viz., Dharma, Artha and Káma ), since this only has been selected and followed by thee, whose mind is free from all thoughts of Artha ( wealth ) and Káma ( desire ) 38 PURPORT IN SANSKRIT :—हे श्रेष्ठाभिप्रायवति पार्वति ! यतस्त्वं बुद्धिमती धर्मार्थकामानां वर्गे अर्थकामावनादृत्य एकं धर्म- मेव कल्याणकरं स्वीकृत्य पालयसि अतोऽहमद्य त्वदाचरणं दृष्ट्वा मन्ये यदेषां त्रयाणां समूहे धर्म एव श्रेष्ठतम , अर्थकामानुसारिणी च लोकानां प्रवृत्तिरनुचिता ॥ ३८ ॥ प्रयुक्तसत्कारविशेषमात्मना न.मां परं संप्रतिपत्तुमर्हसि ।
( १०२ ) यतः सतां संनतगात्रि संगतं मनीषिभिः साप्तपदीनमुच्यते ॥ ३९ ॥ संप्रति मनोरथं जिज्ञासुः प्रस्तौति । प्रयुक्तेति । आत्मना त्वया प्रयुक्तः कृतः सत्कारविशेषः पूजातिशयो यस्य तं प्रयुक्तसत्कारविशेषं मां पर अन्यं संप्रतिपत्तुं अवगन्तुं न अर्हसि । हे संनतगात्रि संन- ताङ्गि । ‘अङ्गगात्रकण्ठेभ्यः’ इति वक्तव्यान् ङीप् । यतः कारणात् मनस ईषिभि मनीषिभिः विद्वद्भिः । शकन्ध्वादित्वात्साधु । सतां संगत सख्यं सप्तभिः पदैः आप्यते इति साप्तपदीनं सप्तपदोच्चारण- साध्यं उच्यते । तच्चावयोरुत्वत्कृतसत्कारप्रयोगादेव सिद्धमित्यर्थः । ‘साप्तपदीनं सख्यम्’ इति निपातनात्साधुः ॥ ३६ ॥ PROSE ORDER —आत्मना प्रयुक्तसत्कारविशेष मां परं संप्रतिपत्तुं न अर्हसि, (हे) संनतगात्रि, यतः मनीषिभिः सतां सङ्गतं साप्तपदीनं उच्यते ॥ ३६ । NOTES —आत्मना—स्वयं by thee thyself i e, not through any attendant or other person प्रयुक्तसत्कार- विशेषं—प्रयुक्तः (कृतः) सत्कारस्य विशेषो यस्मै स, तम् to whom special hospitality has been done परं—अन्यं a different person, a stranger संप्रतिपत्तुं—(सं प्रति+ √पद् + तुमुन्) बोद्धु to know; to regard. Infinitive of √पद् to go, but with प्रति ‘to know.’ संनतगात्रि—सं (सम्यङ्) नतानि गात्राणि यस्याः सा संनतगात्री, तस्याः सम्बो- धने संनतगात्रि (सुन्दराङ्गि) having the body bent or stooping; having rounded limbs; beautiful. ‘नतं चारु सन्नतम्’ इति भाजः । ङीष् is added to form the feminine by the vartika ‘अङ्गगात्रकण्ठेभ्यः वक्तव्यम्’ i e. of
( १०३ ) Bahuvrihi compounds having for their last members अङ्ग, गात्र or कण्ठ the feminine is formed either in आ or ई, thus the other form will be संनतागात्रा । मनीषिभिः —( मनीषा+इनिः ) मनीषा (बुद्धि ) एषामस्तीति मनीषिणः, तै मनीषिभिः (विद्वद्भिः) by the thoughtful; wise, or, मनस ईषिभिः, मनीषिभिः । For synonyms of मनीषा Cf. ‘बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः’ इत्यमरः । The suffix इनि is added by ‘व्रीह्यादिभ्यश्च’ पा० ५.२ ११६ । सतां—सज्जनानाम् of good people Genitive plu of सत्, which is declined as, सन्, सन्तौ, सन्तः । सन्तं, सन्तौ, सतः । सता, सद्ब्यां, सद्भिः etc सङ्गतम्—(सं+ √गम्+क्तः) सख्यम् Meeting friendship साप्तपदीनं— (सप्तपदं+खञ्—ईन ) सप्तानां पदानां समाहारः सप्तपदं (द्विगु- समासः ), सप्तपदेन (सप्तभिः पदैः वा ) अवाप्यने इति साप्त- पदीनम् । the word पद has two meanings, viz ‘a word’ and ‘a footstep’, so the expression means ‘which is formed by uttering seven words’ or ‘by walking over seven steps together’ i e., friendship. The word has lost the literal sense and is used for friendship. It is irregularly formed to indicate this meaning by साप्तपदीनं सख्यम्’ पा० ५ २ २२ । ‘सख्यं साप्तपदीनं स्यात्’ इत्यमरः । Cf. ‘संबन्धमाभाषणपूर्वमाहुः’ रघु० २ ३५ । and ‘सतां सप्तपदा मैत्री, सत्सतां त्रिपदा स्मृता । सत्ततामपि ये सन्तस्तेषां मैत्री पदे पदे ।’ Shiva means to say as Parvati and he had uttered a few words to each other they were friends and