भारतकोश
संग्रह पर लौटें

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

( ४ ) कामदेव को जलाने वाले शिव के द्वारा निष्फल इच्छा वाली पार्वती ने अन्दर से (अपनी) सुन्दरता की निन्दा की, क्योंकि सुन्दरता वही है जिसके द्वारा प्यारे का सुख मिले ॥ १ ॥ ENGLISH TRANSLATION :-Parvati, baffled in her hopes by Shiva who, thus, burnt the mind-born (Cupid) in her presence, cursed her beauty in her heart: for beauty has for its fruit good fortune as regards one's beloved. 1. PURPORT IN SANSKRIT :- शिवेन मदनदहनं रत्या च तत्कृते कृतं विलापं दर्शयित्वा कविकालिदासः शिवमभिमुखीकर्त्तुं पार्वत्या कृतं तपो वर्णयितुं श्लोकेऽस्मिन् तपोबीजं गौरी- नैराश्यं दर्शयति—यदा हि शिवेन स्वतृतीयनेत्राग्निना पार्वत्याः प्रत्यक्षमेव कामः भस्मसात्कृतस्तस्याः शिवपरिणयविषयिका- भिलाषा समूलं नष्टा। एवञ्च शिवेन नाकृष्टचित्तमात्मनः सौन्दर्यं पार्वती निन्दति स्म, यतः वल्लभस्य प्रेम तज्जनितं सुखञ्च सौन्दर्यस्य फलम्। यद्रूपं भर्त्रे न रोचते तन्निरर्थकमेव इति मत्वा सात्मानं धिक्कृतवती ॥ १ ॥ इयेष सा कर्तुमवन्ध्यरूपतां समाधिमास्थाय तपोभिरात्मनः। अवाप्यते वा कथमन्यथा द्वयं तथाविधं प्रेम पतिश्च तादृशः ॥ २ ॥ इयेषेति। सा पार्वती समाधिम् एकाग्रताम् आस्थाय अवलम्ब्य तपोभिः वक्ष्यमाणनियमैः करणभूतैः आत्मनः स्वस्य अवन्ध्यरूपतां सफलसौन्दर्यं कर्त्तुं इयेष इच्छति स्म। तपसा शिवं वशीकर्तुमुद्युक्ते- त्यर्थः। अन्यथा ततोऽन्यप्रकारेण कथं तत् द्वयं अवाप्यते। किं

( ५ ) द्वयम् ? तथाभूता विधा प्रकारो यस्य तत् तथाविधं प्रेम स्नेह । येनार्द्धाङ्गहरा हरस्य भवेदिति भावः । तादृशः पतिश्च । यो मृत्युञ्जय इति भावः । द्वयमेव खलु स्त्रीणामपेक्षितं यद्भर्तुर्वल्लभ्यं जीवद्भर्तृ- कत्व चेति । तच्च तपश्चर्यैकसाध्यमिति निश्चिकायेत्यर्थः। अत्र मनुः— ‘ यद्दुष्करं यद्दुरापं यद्दुर्गं यच्च दुस्तरम् । तत्सर्वं तपसा प्राप्यं तपो हि दुरतिक्रमम् ॥’ इति । PROSE ORDER —सा समाधिमास्थाय तपोभिः आत्मनः अवन्ध्यरूपतां कर्त्तु इयेष । वा अन्यथा तथाविधं प्रेम तादृशः पतिश्च ( इति ) द्वयं कथ अवाप्यते । NOTES :—समाधि—( सं + आ + √धा + किः ) Intense contemplation ( of any particular object so as to identity the contemplator with the object meditated upon ) This is the eighth and last stage of Yoga. Here it may also mean silence or a vow of intense devotion ( for Shiva ), or, a rigid rule of conduct आस्थाय—(आ + √स्था + क्त्वा—ल्यप् ) अवलम्ब्य taking re- course to तपोभिः—by means of austerities, the observ- ance of which warrants all sorts of success Cf The shloka of Manusmriti quoted above by Mallinatha. Decline तपस् as तपः, तपसी, तपांसि । तपः, तपसी, तपांसि । तपसा, तपोभ्याम् etc, अवन्ध्यरूपतां—न वन्ध्यं अवन्ध्यं Not barren, fruitful अवन्ध्य रूपं ( सौन्दर्य ) यस्याः सा अवन्ध्य- रूपा, तस्याः भावः अवन्ध्यरूपता, ताम् such as whose beauty was fruitful or it may be taken as न वन्ध्य अवन्ध्यं, अवन्ध्यं च तद्रूपं, अवन्ध्यरूपं तस्य भावः, ताम् a fruitful beauty इयेष— Perfect Third Person Singular of √इषु इच्छायाम् to wish.

( ६ ) For purposes of the सार्वधातुक लकारs it becomes इच्छ्, e.g., इच्छति (लट्) इच्छतु (लोट्) etc. अन्यथा—otherwise i. e., without resorting to penances. तथाविधं–तथा तादृशी विधा प्रकारो यस्य तत् of that kind. That is, such love by which she could become Shiva’s wife. प्रेम—स्नेहः love. Decline as प्रेम, प्रेमणी-प्रेम्णी, प्रेमाणि । प्रेम, प्रेमणी-प्रेम्णी, प्रेमाणि । प्रेम्णा, प्रेमभ्यां, प्रेमभिः । etc. तादृशः -( तत् + √ दृश् +कञ्) of that sort, i. e., like Shiva, who is superhuman and who is known as मृत्युञ्जय, conqueror of death. According to Mallinatha women aspire for two things with regard to their husbands, viz., first, undiminished and constant love from them and secondly, longivity for their husbands. These two things are suggested respectively by तथाविधं प्रेम and तादृशः पतिः । अवाप्यते— ( अव + √ आप् + य + लट् ) लभ्यते is obtained. It is Passive Pres. ( लट् ) Third Person Singular. Some editions read अवन्ध्यकामतां for अवन्ध्यरूपतां and तत् कथं for वा कथं । CHANGE OF VOICE :—तया समाधिमास्थाय तपोभिरात्म- नोऽवन्ध्यरूपता कर्तुं ईषे ; वा अन्यथा तथाविधं प्रेम तादृशं पतिं च द्वयं कथं अवाप्नोति ? ॥ २ ॥ HINDI TRANSLATION :—उसने ( पार्वती ने ) ध्यान लगा कर तपस्या के द्वारा अपने सौन्दर्य को सार्थक करने की धारणा की। नहीं तो उस प्रकार का स्नेह और वैसा स्वामी और किसी प्रकार से कैसे मिल सकता है ? ॥ २ ॥ ENGLISH TRANSLATION :—She wished to make her

( ७ ) beauty fruitful by austerities, having recourse to con- templation; how can otherwise be secured the two things—such love and a husband of that sort? 2. PURPORT IN SANSKRIT :—स्वरूपस्य निष्फलतामनुभूय पार्वती सौन्दर्यं शिवाकर्षणे सफलीकर्त्तुं तप आचरितुं निश्चित- वती । उपायान्तरमपश्यन्ती तपसा शिवमभिमुखीकर्त्तुमुद्यताभूदि- त्यर्थः । कथं तपः साहाय्यं कामयाञ्चकारेति विषये कविः कथयति— महादेवसदृशो वल्लभो यो हि मृत्युञ्जयः कथ्यते, तादृशोऽनुरागश्च येन सा शिवस्य पत्नी स्यात् तपस्यां विना कथं संभवति । अन्य- प्रकारेण दुर्लभं वस्तु तपसैव प्राप्यत इत्यर्थः ॥ २ ॥ निशम्य चैनां तपसे कृतोद्यमां सुतां गिरीशप्रतिसक्तमानसाम् । उवाच मेना परिरभ्य वक्षसा निवारयन्ती महतो मुनिव्रतात् ॥ ३ ॥ निशम्येति । मेना मेनका च गिरीशप्रतिसक्तमानसां हरासक्तचित्तां तपसे तपश्चरणाय कृतोद्यमां कृतोद्योगां सुतां निशम्य श्रुत्वा एनां पार्वतीं वक्षसा परिरभ्य आलिङ्ग्य महतः मुनिव्रतात् तपसः निवा- रयन्ती उवाच । मुनिव्रतादित्यत्र यद्यपि मुनिव्रतस्य मेनकाया अनीप्सितत्वात् ‘वारणार्थानामीप्सितः’ इति नापादानत्वं तथापि कृतोद्यमामिति मानसप्रवेशोक्तत्वात् ‘ध्रुवमपायेऽपादानम्’ इति अपादानत्वमेव स्यात् । यथाह भाष्यकारः—‘यच्च मिथ्या संप्राप्य निवर्त्तते तच्च ध्रुवमपायेऽपादानम् इति प्रसिद्धम्’ ॥ इति ॥ PROSE ORDER :—मेना च गिरीशप्रतिसक्तमानसां एनां सुतां तपसे कृतोद्यमां निशम्य वक्षसा परिरभ्य महतः मुनिव्रतात् निवार- यन्ती उवाच ।

( ८ ) NOTES :—मेना—Name of the wife of Himalaya and the mother of Parvati. She is also known as मेनका। गिरीशप्रतिसक्तमानसाम्। गिरीश—( गिरि+ईश ) गिरेः ईशः the lord of the mountain ( Kailasha), i. e., Shiva. A name of Shiva. Cf. ‘ गिरीशो मृडः ’ इत्यमरः। प्रतिसक्त— ( प्रति+√ सञ्ज्+क्तः) अनुरक्त devoted or attached to. गिरीशे प्रतिसक्तं मानसं यस्याः सा whose mind was fixed upon Shiva. एनां—इमाम् ‘द्वितीयाटौस्स्वेनः’ । पाणिनि२.४.३४. optionally prescribes the substitution of एन for इदम् and एतद् in Acc. Instrumental, Sing. and Genitive and Locative Duals when there is अन्वादेश i. e., their proper forms have already been used in a previous clause. तपसे—For austerities. Dative Sing. of तपस्, The Dative is used by ‘ क्रियार्थोपपदस्य च कर्मणि स्थानिनः।’ पाणिनि २.३.१४. i. e., the object governed by an Infinitive Mood not actually used but implied is put in the Dative. Here तपसे is equal to तपः कर्तुम्। कृतोद्यमां—कृतः उद्यमो यया सा तां who was determined or resolved ( to practise penances ). निशम्य—आकर्ण्य having heard. वक्षसा—by her bosom. Decline as वक्षः, वक्षसी, वक्षांसि । वक्षः, वक्षसी, वक्षांसि । परिरेभ्य—( परि +√ रभ्+ल्यप् ) आलिङ्ग्य having embraced. Absolutive form of √रभ् ( रभस्ये ) to act rashly or to long for ; with परि it means ‘ to embrace ’ and with आ ‘ to begin ’. मुनिव्रतात्—मुनेः व्रतात् मुनिव्रतात् the vow of ascetics, i. e., penances. Here the Ablative Case should

( ६ ) have been enjoined by, ‘वारणार्थानामीप्सितः’ पाणिनि १ ४ २७। ६, from which one is kept off is also put in the Ablative, but according to Mallinath as penance is not what was desired ( ईप्सित् ) by Mena, so this rule is not applicable in this case and the Ablative has been used on account of ध्रुवमपायेऽपादानम्’ पा० १ ४ २४ । ६, the noun from which the motion, real or conceived, takes place is put in the Ablative case But according to some other commentators the former rule is applicable in the present case निवारयन्ती--( नि + √वृ + णिच् + शत्तृ + ङीप् ) warding off उवाच—said Perfect of √ ब्रू or √वच् to speak Some edition give गिरीशं प्रतिसक्त० for गिरीशप्रतिसक्त० CHANGE OF VOICE :—मेनया गिरीशप्रतिसक्तमानसामेनां सुतां तपसे कृतोद्यमां निशम्य वक्षसा परिरभ्य महतो मुनिव्रतात् निवारयन्त्या ऊचे ॥ ३ ॥ HINDI TRANSLATION :—मेना, महादेव में आसक्त चित्त वाली उस ( अपनी ) पुत्री को तप करने को उद्यत सुन कर, ( उसे ) छाती से लगाकर कठिन तप ( करने ) से रोकती हुई, बोली ॥ ३ ॥ ENGLISH TRANSLATION —Mena, hearing that her daughter, who had set her heart on Shiva, was deter- mined to practise penance, clasped her to her bosom, and, warding her off from the great vow of ascetics, spoke to her ) 3 PURPORT IN SANSKRIT :—यदा हि पार्वत्याः जननी मेना- श्रृणोत् यन्महादेवेऽत्यन्तमनुरक्ता पार्वती तपस्यया तमनुनेतुं कृत-

( १० ) निश्चया तदा सा महद्दुःखमवाप, पार्वतीं च स्वोरस्यालिङ्ग्य तपोविषयकं निश्चयं त्यक्तुमुपदिदेश ॥ ३ ॥ मनीषिताः सन्ति गृहेषु देवताः तपः क्व वत्से क्व च तावकं वपुः। पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः ॥ ४ ॥ सामान्यनिषेधमुक्त्वा विशेषनिषेधमाह । मनीषिता इति । हे वत्से । मनस ईषिता इष्टाः मनीषिताः । शकन्ध्वादित्वात् साधुः । देवताः शर्वादयः गृहेषु सन्ति । त्व तान्नाराधयेतिशेषः । तपः क्व । तवेदं तावकम् । ' युष्मदस्मदोरन्यतरस्यां खञ् ' इत्यण्प्रत्यय । ' तवकममकावेकवचने ' इति तवकादेशः । वपुः च क्व । तथा हि पेलवं मृदुत्वं शिरीषपुष्पं भ्रमरस्य भृङ्गस्य पदं पदस्थिति सहेत । पतत्रिणः पुनः पक्षिणस्तु पदं न सहेत । अतिसौकुमार्याद्दिव्योप- भोगयोग्यं ते वपुर्न दारुणतपः क्षममित्यर्थः । अत्र दृष्टान्ता- लङ्कारः ॥ ४ ॥ Prose Order :—वत्से, मनीषिताः देवताः गृहेषु सन्ति, तपः क्व, तावकं वपुश्च क्व ? पेलवं शिरीषपुष्पं भ्रमरस्य पदं सहेत, पतत्रिणः पुनः न ॥ ४ ॥ Notes :—मनीषिताः—मनसः ईषिताः मनीषिताः desired; wished , such as the mind would long for. ईषिताः is Past Part. from √ ईष् गतिहिंसादर्शनेषु ' to see ' Here the Compound is of मनस् and ईषित, in which the final vowel with the following consonant ( अस् ) of मनस् merges into the following word according to ' शकन्ध्वा-

( ११ )

दिषु पररूपं वाच्यम् ।' or, according to some it could be expounded as मनीषा ( धारणा ) संजाता येषु ते । मनीषा + इतच् । In that case इतच् will be added to मनीषा by the rule ' तदस्य संजातं तारकादिभ्य इतच् ' पा०५ २ ३६ ; i e इतच् is affixed to तारका and other words in the sense of ' that is obtained or possessed by. ' देवताः-प्रतिमारूपेषु वर्त्तमानाः सौभाग्यप्रदा इन्द्राण्याद्याः ; i e, idols of deities such as Indrani, who can bestow good luck on you Mena means to say that Parvati should worship those deities instead of trying to appease Shiva क्व-where ? क्व is formed from किम् by adding अत् to it and chang- ing it into क्व by the rules ' किमोऽत् ' पाणिनि ५ ३. १२ and ' क्वाति ' ७ २ १०५. respectively क्व ..क्व-It implies excessive incongruity, and lit it means ' where is the one and where is the other ' or ' how distant is one from the other', or 'how unequal the two are ' The repetition of क्व shows the great disparity between two things. Cf ' क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ' रघुवंशम् १. २ । ' क्व भूपतीनां चरितं क्व जन्तवः ' किरातार्जुनीयम् १ ६ । तावकं -त्वदीयं yours, thine. तव इदं तावकम् । First अण् suffix is added to युष्मद् by ' युष्मदस्मदोरन्यतरस्यां खञ् ' पा०४ ३ १ (युष्मद् +अण् ) and then तवक is substituted for it by ' तवकममकावेकवचने ' पा० ४. ३. ३ ( तवक +अण्=तावकम्) । The alternative form, when खञ् is added instead of अण्, is ताव- कीनम् । Similarly are formed मामक and मामकीनम्

( १२ ) from अस्मद् । वपुः—body. Decline as—वपुः, वपुषी, वपूंषि । वपुः, वपुषी, वपूंषि । वपुषा etc. पेलवम्—मृदु tender. शिरीषपुष्पम् — the flower of शिरीष ( सिरस—हिन्दी ) is well-known for its softness and is often used as standard of comparison ( उपमान ) to indicate that quality. पदं—पदन्यासं placing of feet ; sitting. सहेत— may bear. Potential ( विधिलिङ् ) of √ सह् ‘to bear,’ which is an आत्मनेपदी root. पतत्रिणः—( पतत्र+इनिः ) पतन्तं त्रायन्ते इति पतत्राणि । पतत्राणि means wings, because they keep birds from falling : then, पतत्राणि सन्ति येषां ते पतत्रिणः पक्षिणः those possessed of wings, i. e., birds. The suffix इनि is added by ‘अत इनिठनौ’ पा० ५. २. १ १५ । The verse provides a good example of दृष्टान्त अलङ्कार which is defined as ‘दृष्टान्तस्तु स्वधर्मस्य वस्तुनः प्रतिबिम्बनम्’ साहित्यदर्पण । CHANGE OF VOICE :—वत्से ! मनोपिताभिः देवताभिः गृहेषु भूयते; तपसा क्व, तादृकेन वपुषा च क्व ( भूयते ) ? पेलवेन शिरीष- पुष्पेण भ्रमरस्य पदं सह्येत पतत्रिणः पुनः न ॥ ४ ॥ HINDI TRANSLATION :—पुत्रि, मन से चाहे जाने योग्य देवता ( हमारे ) घर में हैं ; कहाँ तो यह ( कठोर ) तप और कहाँ तुम्हारा ( कोमल ) शरीर ! सिरस का कोमल फूल भौरें के पैर ( रखने ) को तो सह सकता है परन्तु पक्षी के नहीं ॥ ४ ॥ ENGLISH TRANSLATION :—In the house are such deities as your mind would long for. Child, how widely different are penance and thy body ? The delicate

( १३ ) Shirisha flower may bear (the stroke of) feet of a bee, but not that of a bird. 4. PURPORT IN SANSKRIT:—व्रताचरणान्निवारयन्ती मेना- कथयत्—बाले, पार्वति; अस्माकं वेश्मन्येवानेका इष्टा इन्द्रागयाद्याः सौभाग्यप्रदाः देवतास्सन्ति; तासामाराधनयैव तेऽभीष्टप्राप्तिर्भवितुं शक्या, अतस्त्वं ता आराधय । तव कायस्त्वतिकोमलः तपोऽनुष्ठा- नञ्चातिकठिनम् । न ते देहस्तत्सोढुं क्षमः । तथा हि—कोमलं शिरीषस्य कुसुमं भ्रमरस्य पदस्थितिं भारं वा सोढुं शक्नोति महतः पत्त्रिणो भारं तु कथमपि न । तव शरीरं शिरीषपुष्पतुल्यं तपस्तु महापत्तिभारतुल्यं, अतस्त्वं तपः करणाद्विरम ॥ ४ ॥ इति ध्रुवेच्छामनुशासती सुतां शशाक मेना न नियन्तुमुद्यमात् । क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाभिमुखं प्रतीपयेत् ॥ ५ ॥ इतीति । इति एवम् अनुशासती उपदिशन्ती मेना ध्रुवेच्छां स्थिरव्यवसायां सुतां पार्वतीम् उद्यमात् उद्योगात्तपोलक्षणात् नियन्तुं निवारयितुं न शशाक समर्था नाभूत् । तथा हि । ईप्सितार्थस्थिरनिश्चयं ईप्सितार्थे इष्टार्थे स्थिरनिश्चयं मनः निम्ना- भिमुखं पयः च कः प्रतीपयेत् प्रतिकूलयेत् । प्रतिनिवर्तयेदित्यर्थः । निम्नप्रवणं पय इवेष्टार्थाभिनिविष्टं मनो दुर्वारमितिभावः । अत्र- दीपकानुप्राणितः अर्थान्तरन्यासोऽलङ्कारः । PROSE ORDER :—इति अनुशासती मेना ध्रुवेच्छां सुतां उद्यमाद् नियन्तुं न शशाक । ईप्सितार्थस्थिरनिश्चयं मनः निम्ना- भिमुखं पयश्च कः प्रतीपयेत् ॥ ५ ॥ कु० सं०—३

( १४ ) Notes :—इति—in this way, i. e., as mentioned in the previous two verses अनुशासती—advising, instruct- ing. (अनु + √शास् + शतृ + ङीप्) Present Part of √शास् to teach शास्ति (लट्), शशास (लिट्), अशिषत् (लुङ्)। ध्रुवेच्छां-ध्रुवा (निश्चला) इच्छा यस्या, तां whose desire was inflexible. उद्यमात्—from the attempt or determination. नियन्तु—(नि + √यम् + तुमुन्) to check तुमुन् is the sign of Infinitive, added by ‘तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्’ पा० ३.३.१० न शशाक—was not able Perfect (लिट्) of √शक् ‘to be able’ शक्नोति (लट्) शक्ष्यति (लृट्) अश- कत् (लुङ्) ईप्सितार्थस्थिरनिश्चयम्। ईप्सित—desired. (√आप् + सन् + कः) Desiderative (सन्नन्त Past Part of √आप् to obtain The आ of √आप् is changed to ई by ‘आप् ज्ञपि ऋधां ईन्’ पा० ७.४ ५५। ईप्सिते अर्थे स्थिरः निश्चयः यस्य तत् whose determination is firm for the desired object It is an Adjective of मनः। निम्नाभिमुखं—निम्ने अभिमुखं or निम्नस्य अभिमुखं flowing towards low ground. पयः—water. प्रतीपयेत्-विपरीतं कर्तुं शक्नुयात् Can turn back. It is Potential (विधिलिङ्) Third Pers Sing. from √प्रतीपय्, a Denominative verb (i. e., a verb formed from a noun—नामधातु) from प्रतीप। प्रतीप (प्रति + आप + अ) is formed by changing आ of आप् into ई by ‘द्वयन्तरुपसर्गेभ्योऽप ईत्’ पा० ३.६ ६७ Similarly are formed द्वीप, अन्तर्रीप, समीप etc. The chief figure of speech in the stanza is अर्थान्त- रन्यास which means supporting a particular case by a

( १५ ) general truth. In the verse first two lines contain a particular statement and the latter two a general one. It is very often used by Kalidasa. Some books read स्थिरेच्छां for ध्रुवेच्छाम् । CHANGE OF VOICE —इति अनुशासत्या मेनया ध्रुवेच्छा सुता उद्यमात् नियन्तु न शेके । ईप्सितार्थस्थिरनिश्चयं मनो निम्नाभिमुखं पयश्च केन प्रतीप्येयाताम् ? ॥ ५ ॥ HINDI TRANSLATION :—इस प्रकार उपदेश देने वाली मेना स्थिर इच्छा वाली (अपनी) पुत्री को (उसके) निश्चय से न हटा सकी । चाही हुई वस्तु के लिये दृढ निश्चय वाले मन को और नीचे की ओर जाते हुये जल को कौन पलट सकता है ? ॥ ५ ॥ ENGLISH TRANSLATION —Mena, thus exhorting, could not ward off her daughter, who was firm in her desire, from her resolve who can turn back a mind of fixed determination for (the achievement of) a desired object, or water flowing towards a low ground ? PURPORT IN SANSKRIT —मेना पार्वतीं निवारयितुमत्यन्त- मयतत विविधप्रकारेण च तामुपदिदेश परन्तु स्वोद्देश्ये सफलतां नाप्रात् यतो गौरी तपोऽनुष्ठाने शिवानुनये च कृतनिश्चयासीत् । तथा हि—प्राप्तव्ये वस्तुनि गूढमभिनिविष्टं मनो नीचैर्गच्छज्जल वा विरुद्धं कर्त्तुं प्रवाहितु वा न शक्यते ॥ ५ ॥ कदाचिदासन्नसखीमुखेन सा मनोरथज्ञं पितरं मनस्विनी । अयाचतारण्यनिवासमात्मनः फलोदयान्ताय तपःसमाधये ॥ ६ ॥

( १६ ) कदाचिदिति । अथ कदाचित् मनस्विनी स्थिरचित्ता सा पार्वती मनोरथज्ञं अभिलाषज्ञं पितरं हिमवन्तं आसन्नसखीमुखेन आसन्नसखी आप्तसखी सैव मुखं उपायः । 'मुखं निःसरणे वक्त्रे प्रारम्भोपाययोरपि' इति विश्वः । तेन । फलोदयान्ताय फलोदयः फलोत्पत्ति अन्तोऽवधिर्यस्य तस्मै तप समाधये तपोनियमार्थं आत्मनः स्वस्य अरण्यनिवासं वनवासं अयाचत । 'दुहाच्'— इत्यादिना द्विकर्मकत्वम् । PROSE ORDER :—कदाचित् मनस्विनी सा मनोरथज्ञं पितरं आसन्नसखीमुखेन फलोदयान्ताय तपःसमाधये आत्मनः अरण्य- निवासं अयाचत ॥ ६ ॥ NOTES —कदाचित्—Once ; on some opportune occasion. मनस्विनी—( मनस् + विनिः + ङीप् ) प्रशस्तं मनः विद्यते अस्याः सा full of sense ; intelligent, i e, who knew when and how to make a request. Or, here, as Mallinatha comments, स्थिरचित्ता who was firm-minded; who was determined to achieve her object at any cost. Cf 'महाकार्ये कृताद्योगो विघ्नैराहतमानसः । प्रारब्धं न त्यजति यः स मनस्वीति कथ्यते ।' विनि is added by 'अस् माया मेधा स्रजो विनिः' पा० ५ २ १२१ । मनोरथज्ञं—( मनोरथ + √ज्ञा + कः ) जानाति इति ज्ञः , मनोरथस्य ज्ञः मनोरथज्ञः तं who knew her desire. ज्ञः is formed from √ज्ञा by add- ing कः to it by 'इगुपधज्ञाप्रीकिरः कः' पा० ३.१ १३५ । पितरं—हिमवन्तम् Himavat This is the secondary object ( गौण कर्म ) of अयाचत which governs two objects आसन्नसखीमुखेन—( आ + √सद् + कः ) आसन्नायाः सख्याः मुखेन ( तत्पुरुष ) or आसन्ना चासौ सखी आसन्नसखी ;

( १७ ) आसन्नमखी एव मुखं ( उपाय. ) तेन ( कर्मधारय ) through a confidant friend आसन्नसखी lit means a friend sitting near, but the sense is ' a reliable friend, or a friend who was in her confidence' मुखं means साधनं ; उपायः Cf, ' मुख निःसरणे वक्त्रे प्रारम्भोपाययोरपि ' इति विश्वः । फलोदयान्ताय-फलस्य उदयः ( प्राप्ति ) अन्तः यस्य, तस्मै i. e. which will last till its fruit is achieved. तपः समाधये— तपसः समाधिः तपः समाधिः, तस्मै तपो नियमार्थम् to perform austere penance. Or, तपसि समाधिः तपः समाधिः, तस्मै for contemplation. In former case समाधि means नियम ( a rigid rule of conduct ) and in the latter ध्यान ( contemplation ) ' समाधिर्ध्याननीषाकनियमेषु समर्थने ' इति विश्वः । The Dative is used for a noun expressive of the purpose for which any thing is done ( तादर्थ्ये चतुर्थी वाच्या ) or, it is used for the object governed by an infinitive not actually used ( तपः समाधिं कर्त्तुम् ) as in case of तपसे in stanza 3 above अरण्यनिवासं— अरण्ये निवास residence in forest This is the Principal object ( प्रधान कर्म ) of अयाचत । अयाचत—begged It is Imperfect ( लङ् ) of √याच् to beg, which governs double accusatives according to the following Karika— ' दुह् याच् पच् दण्ड् रुधि प्रच्छि चि ब्रू शासु जि मन्थ् मुषाम् । कर्मयुक् स्यादकथितं तथा स्यान्नी ह कृष् वहाम् ॥' CHANGE OF VOICE: -कदाचिन्मनस्विन्या तया मनोरथज्ञः पिता आसन्नसखीमुखेन फलोदयान्ताय तप समाधये आत्मनोऽ- रण्यनिवासं अयाच्यत ॥ ६ ॥

( १८ ) HINDI TRANSLATION :- एक बार दृढ़ निश्चय वाली उस ( पार्वती ) ने एक अभिन्नहृदया सहेली के द्वारा ( अपने ) पिता जी से, जो उसकी इच्छा से परिचित थे, फलप्राप्ति पर्यन्त तप करने के लिये अपने आप वन में रहने की आज्ञा माँगी ॥ ६ ॥ ENGLISH TRANSLATION - Once, that firm-minded girl, through a close friend, begged of her father, who knew her desire, her residence in the forest in order to per- form penance till their fruition 6. PURPORT IN SANSKRIT :- गौर्याः पिता तस्या अभिप्राय- मजानात्, परं सा तदाज्ञां विना वनं गन्तुमनुचितमिति निश्चित्य स्वपितुरनुज्ञां स्वयमेव ग्रहीतुमशक्नुवती निजाभिन्नहृदयसखीद्वा- रेणाभीष्टलाभपर्यन्तं तपश्चरितुं वने वसति स्वपितरं ययाचे ॥ ६ ॥ अथानुरूपाभिनिवेशतोषिणा कृताभ्यनुज्ञा गुरुणा गरीयसा । प्रजासु पश्चात्प्रथितं तदाख्यया जगाम गौरी शिखरं शिखण्डिमत् ॥ ७ ॥ अथेति। अथ गौरी अनुरूपाभिनिवेशतोषिणा अनुरूपेण योग्येन अभिनिवेशेन आग्रहेण तुष्यतीति तथोक्तेन गरीयसा पूज्यतमेन गुरुणा पित्रा कृताभ्यनुज्ञा तपः कुरु इति कृतानुमतिः सती पश्चात् तपःसिद्धयुत्तरकालं प्रजासु जनेषु तदाख्यया तस्या गौर्याः संज्ञया प्रथितम् । गौरीशिखरमिति प्रसिद्धमित्यर्थः । शिखण्डिमत् । न तु हिंस्रप्राणिप्रचुरमिति भावः शिखर शृङ्गं जगाम ययौ ॥ PROSE ORDER :- अथ गौरी अनुरूपाभिनिवेशतोषिणा

( ११ ) गरीयसा गुरुणा कृताभ्यनुज्ञा पश्चात् प्रजासु तदाख्यया प्रथितं शिखण्डिमत् शिखरं जगाम ॥ ७ ॥ NOTES :—गौरी—पार्वती known so because of her brilliant complexion अनुरूपामिनिवेशतोषिणा । अनुरूपः— रूपस्य योग्य सदृशो वा अनुरूपः ( अनुकूलः ) worthy of one. अभिनिवेशः—( अभि + नि + √विश् + घञ् ) intentness or determination (to effect a purpose or attain an object). It also means devotion or love. तोषिणा—who was satisfied Instrumental Sing of तोषिन् ( √तुष् + णिनिः ) । अनुरूपेण अभिनिवेशेन तुष्यति इति अनुरूपामिनिवेशतोषी तेन who was satisfied with her determination worthy of her गरीयसा—अतिशयेन गुरु. गरीयान, तेन, by the highly venerable; exalted. Instrumental Sing of गरीयस् (गुरु+ ईयसुन् ) comparative degree of गुरु । Decline as गरीयान्, गरीयांसौ, गरीयांसः । गरीयांसं, गरीबांसौ, गरीयसः । To form comparative and superlative degrees of adjectives तरप् or ईयसुन् and तमप् or इष्ठन् are respectively added by ' द्विवचनविभज्योपपदे तरप् ईयसुनौ ' पा० ५ ३ ५७ । and; अति- शायने तमप् इष्ठनौ ' पा० ५ ३.५५ । गुरुणा—पित्रा by the father Cf. ' गुरु गीष्यति पित्राद्यौ ' इत्यमरः । कृताभ्यनुज्ञा— कृता ( दत्ता ) अभ्यनुज्ञा ( अनुमतिः ) यस्यै यस्या. वा सा To whom consent or permission had been granted. अनुज्ञा —( अनु + √ज्ञा + अङ् ) permission. पश्चात्—afterwards i. e. when Parvati had finished her penance प्रजासु— जनेषु among the people. तदाख्यया—तस्याः (गौर्याः) आख्यया (संज्ञया) तदाख्यया after her name Cf गौरीशिखर,

( २० ) name of a peak of the Himalayas आख्या is formed from √चक्षिङ्+थ, चक्षिङ् being replaced by √ख्याञ् by ‘चक्षिङः ख्याञ् २.४.५४. प्रथितं—(√प्रथ्+क्तः) प्रसिद्धं known शिखण्डिमत्। शिखण्डिन्—(शिखण्ड+इनिः) शिखण्डः (शिखा) अस्य अस्तीति one having a crest i e., a pea-cock. शिखण्डिमत्—(शिखण्डिन्+मतुप्) शिखण्डिनः (मयूरा ) सन्ति अस्मिन् इति abounding in pea-cocks This shows the absence of poisonous serpents and other ferocious beasts The suffix मतुप् is added by ‘तदस्यास्त्यस्मिन्निति मतुप्’ पा० ५ २ ९४ in the sense of ‘it has that or that is in it’ शिखरं—a peak जगाम—गता resorted to Perfect (लिट् ) √of गम् to go Cf in this connection—‘गौरी विजयया सख्या जयया च सुनेत्रया। साकं सखीभ्यां सुमुखी सा गौरीशिखरं ययौ। चकार वसतिं यस्माद्गौरीशिखरमुच्यते ॥’ शिवपुराण । Change of Voice :—अथ गौर्या अनुरूपामिनिवेशतोषिया गरीयसा गुरुणा कृताभ्यानुज्ञया पश्चात् प्रजासु तदाख्यया प्रथितं शिखण्डिमत् शिखरं जग्मे ॥ ७ ॥ Hindi Translation:—तदनन्तर (उसके) योग्य निश्चय से सन्तुष्ट हुए, पूज्य पिता से आज्ञा दी जाती हुई गौरी मोरो से युक्त (हिमालय की एक) चोटी पर गई, जो कि बाद में जनता में उसी के नाम से प्रसिद्ध हुई ॥ ७ ॥ English Translation —Being permitted by her highly venerable father, who was satisfied with her determination worthy of her, Gaurī resorted to a peak,

bounding in peacocks, which afterwards came to be known by her name among the people 7. Purport in Sanskrit :—पार्वत्याः पिता स्वदुहितुर्मन- स्तद्योग्येऽर्थे लग्नं ज्ञात्वा संतुष्ट आसीत्, अतस्तेन सा वनं गन्तुमनुज्ञाता । साऽपि पितुरनुमतिं संप्राप्य मयूराद्यहिंस्रप्राणि- समन्वितं शान्तमेकं हिमवतः शृङ्गं तपः कर्त्तुं प्रययौ, यच्च शेखरं तपोऽवसाने तस्या नाम्नैव 'गौरीशिखरं' इति प्रसिद्धं जातम् ॥ ७ ॥ विमुच्य सा हारमहार्यनिश्चया विलोलयष्टि प्रविलुप्तचन्दनम् । बबन्ध बालारुणबभ्रु वल्कलं पयोधरोत्सेधविशीर्णसंहति ॥ ८ ॥ विमुच्येति । अहार्यनिश्चया अनिवार्यनिश्चया सा गौरी विलो- लयष्टिप्रविलुप्तचन्दनम् विलोलाभिः चलाभिः यष्टिभि प्रतिसरैः प्रविलुप्तं प्रमृष्टं चन्दनं स्तनान्तरगतं येन त तथोक्त हारं मुक्तावलीं विमुच्य विहाय बालारुणबभ्रु बालार्कपिङ्गल पयोधरोत्सेधविशीर्ण- संहति पयोधरयोः स्तनयोः उत्सेधेन उच्छ्रायेण विशीर्णा विघटिता संहति अवयवसंश्लेषो यस्य तत्तथोक्तं वल्कलं कण्ठलम्बि स्तनोत्तरीयभूतं बबन्ध । धारयामासेत्यर्थः । Prose Order —अहार्यनिश्चया सा विलोलयष्टिप्रविलुप्त- चन्दनं हारं विमुच्य बालारुणबभ्रु पयोधरोत्सेधविशीर्णसंहति वल्कलं बबन्ध ॥ ८ ॥ Notes:—अहार्यनिश्चया—न हार्यः ( अत्याज्यः ) निश्चयो यस्याः सा whose determination was unalterable, i e, of firm resolution हार्य—( √हृ+ण्यत् ) which can be

१. सर्ग २-३ (देवता प्रार्थना व कामदेव दहन)

( २२ ) removed or given up विलोत्तयष्टिप्रविलुप्तचन्दनम् । यष्टि— a string of pearls of a necklace ( हार की लड़ियाँ— हिन्दी ) प्रविप्लुत—( प्र+वि+√लुप्+क्तः ) wiped away ; removed विलोलाभिःयष्टिभिः प्रविप्लुतं चन्दनं येन तम् which wiped away the sandal-paste ( from her breast ) by its tremulous strings of pearls An Adj of हारम्, the necklace विमुच्य—( वि+√मुञ्च्+ल्यप् ) त्यक्त्वा having given up This indicates Parvati's determination to lead a simple and hard life in accordance with the spirit of penance बालारुणबभ्रु—बालः ( नवोदितः ) चासौ अरुणः ( सूर्यः ) बालारुण , स इव बभ्रु ( पिङ्गलम् ) which was tawny like the morning sun बभ्रु—deep brown ; reddish brown. The compound which is कर्मधारय is an Adjective of वल्कलं and so is in Accusative Sing. पयोधरोत्सेधविशीर्णसंहति । पयोधरः—धरतीति धरः (√धृ+ अप्) पयस ( दुग्धस्य ) धरः पयोधरः breasts उत्सेध—( उत् +√सिध्+घञ् ) height ; elevation विशीर्णा—( वि+√शॄ +क्तः) विघटिता broken or made less thick ; shattered. Past Part of √शॄ to tear to pieces क्त is changed to न and ultimately to णा । संहति—अवयवसंश्लेषः Compact- ness ( वल्कल का गाढ़ापन—हिन्दी ) पयोधरयो उत्सेधेन विशीर्णा संहतिः यस्य तत् पयोधरोत्सेधविशीर्णसंहति the compactness of which was broken by the elevation of her breasts It is also an Adjective of वल्कलम् । वल्कल—bark ; skin of a tree. बबन्ध—tied ; put on. Perfect of √बन्ध् to tie

( २३ ) In this and the following three stanzas the poet describes how did Parvati adopt the various things, one after the other, necessary for a person practising penance. CHANGE OF VOICE :—अहार्यनिश्चयया तया विलोलयष्टि- प्रलुप्तचन्दनं हारं विमुच्य बालारुणबभ्रु पयोधरोत्सेधविशीर्णसंहति वल्कलं बबन्धे ॥ ८ ॥ HINDI TRANSLATION:—उस अटल निश्चय वाली (पार्वती) ने हिलती हुई लड़ों से (छाती में लगे) चन्दन पोंछने वाले हार को उतार कर, प्रातः कालीन सूर्य के समान कपिश, स्तनो की ऊँचाई से छिन्न अवयव वाली (तनी हुई) पेड़ो की छाल धारण कर ली ॥ ८ ॥ ENGLISH TRANSLATION —She, whose determination was unalterable, having taken off her necklace, which wiped away the sandal-paste (on her breast) by its tremulous strings, put on a bark-garment, tawny like the morning sun (and) the compactness of which was loosened by the elevation of (her) breasts. 8 PURPORT IN SANSKRIT : —निश्चलनिश्चया पार्वती भूष- णानि महार्घवस्त्राणि च परित्यज्य तपोऽनुकूलं वेषं परिधत्ते स्म । आदौ तया मौक्तिको हारः परित्यक्तः, यस्तस्याः स्तनयोरन्तरालेऽ- लम्बन्त यश्च तयोश्चन्दनलेपं प्रामाष्ट । शरीराच्छादनाय चोद्यत्सूर्यपिङ्गलं वल्कलं धृतं, यस्यावयवानां कुचकाठिन्याच्छैथिल्यं जातम् ॥ ८ ॥