मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
Here is the line-by-line transcription of the Sanskrit text from the image:
पंचमोऽङ्कः । १२५ करालायतनाच्चायमुच्चरन्करुणध्वनिः । विभाव्यते ननु स्थानमनिष्ठानां तदीदृशम् ॥ २१ ॥ भवतु । पश्यामि । (इति परिकामति ।) (ततः प्रविशतो देवतार्चनाव्यग्रौ कपालकुण्डलाघोरघण्टौ कृतवध्यचिह्ना मालती च ।) मालती-हा ताद णिकरुण, एसो दाणिं दे णरेन्द्रचित्तारा- हणोबअरणं जणो विपज्जइ । हा अम्ब, हिअए हदासि दुवारदेव- दुव्विलसिदेण । हा मालदीमअजीविद्दे, मह कल्लाणसाहणेकसुहसअ- १. हा तात निष्करुण, एष इदानीं ते नरेन्द्रचित्ताराधनोपकरणं जनो विपद्यते । हा अम्ब, हृदये हतासि दुर्वारदैवदुर्विलसितेन । हा मालतीमय- जीविते, मम कल्याणसाधनैकसुखसकलव्यापारे भगवति कामन्दकि, चिरस्य निश्चेष्टत्वं गतिं गमनं स्खलयति । ततश्चायमत्रार्तनादसमुद्भवप्रकारः को वा भवेत् । किमेतत् । किं मालत्येव केनचिद्दुर्लभसिद्धिसाधकेन मायाविना विविध- जीवोपहारप्रियलप्रसिद्धायाः सकलसाधकाभिमतसिद्धिप्रदानदक्षायाः संनिहिताय- तनवर्तिन्याः करालाख्याया महाकाल्या उपहारीकर्तुं मायाबलादानीता संनिहित- मथा करुणं क्रन्दति, उत तन्नादसद्दशो वान्यदीयोध्वनिरिति प्रकारे वितर्कः। यद्यन्यदीयोऽयं ध्वनिस्तर्हि ममोत्पन्नं मनोविदलनाश्रमणपाण्ड्याद्यवयवविषादगात्र- स्तम्भादिकं किंनिमित्तकं स्यात् । न ह्यन्यदीयव्यसनानममैषा दुःसहवेदना भवि- तुमर्हति । तेन 'प्रमाणमन्तःकरणप्रवृत्तयः' इति न्यायेन प्रियायां एवैष आर्तध्व- निरिति मन्ये । सा हि मम बहिश्चराः प्राणा इति तद्विपत्तिसंभावनयैव ममैषा दशेति निश्चयगर्भो माधवस्य वितर्को युज्यत एवैषः ॥ २० ॥ प्रियाया एव केन- चित्काल्या उपहारीकृताया एष ध्वनिरिति कुत इत्यत आह-करालेति । करालाख्यायाः काल्याः स्थानादुच्चरन्नुद्गच्छन्करुणध्वनिरिव विभाव्यते । तत्खल्वी- दृशानां जीवोपहारादीनामनिष्ठानां स्थानम् । तस्मात्संभावितमेवैतदित्यर्थः ॥२१॥ एवं विमृश्य कर्तव्यं निश्चिनोति-भवतु मया यथाभ्यूहितं तथैव भवतु । तथापि पश्यामि कालीस्थानं करुणध्वनिमूलं च प्रत्यक्षीकरोमि । यदि वस्तुतः प्रियेव त- न्मूलम्, तदा मत्प्राणव्ययेनापि यदि सा विपदो निस्तारयितुं शक्यते, तर्हि त- त्राणत्राणेन संपूर्णसंप्राप्तजीवितफलो भवेयम् । यदि न शक्यते, तदापि तत्रैव विसृज्य प्राणान्प्रियतमां लोकान्तरे वा समासादयेयमित्यभिप्रायः । मालती । हा तात निष्करुण, एष इदानीं ते नरेन्द्रचित्ताराधनोपकरणं जनो विपद्यते । हा अम्ब, हृदये हतासि दुर्वारदैवदुर्विलसितेन । 'मत्स्नेहमये' इति हृदयविशेषणं क्वचित्पठ्यते । तत्र तात, त्वं निष्करुणः किंतु (अम्बा) मद्गतस्नेहेति मद्योग- शोकज्वलनान्न जीविष्यतीत्येतदेव मे दुःखनिमित्तम्, न तु मत्प्राणवियोगः ।
१२६ मालतीमाधवे ल्लावारे भअवदि कामन्दइ, चिरस्स जाणाविदासि दुक्खं सिणेहेण । हा पिअसहि लवङ्गिए, सिविणअवसरमेत्तदंसणा अहं दे संवुत्ता । माधवः—हन्त, संप्रति निरस्त एव मे संदेहः । तदपि नाम जीवन्तीमेनां संभावयेयमिति । (झटिति परिक्रामति ।) कापालिकौ—देवि चामुण्डे भगवति, नमस्ते । सावष्टम्भनिशुम्भसंभ्रमनमद्भूगोलनिष्पीडन- न्यञ्चत्कर्परकूर्मकम्पविगलद्ब्रह्माण्डखण्डस्थितिः । पातालप्रतिमल्लगल्लविवरप्रक्षिप्तसप्तार्णवं वन्दे नन्दितनीलकण्ठपरिषद्यक्तं तव क्रीडितम् ॥ २२ ॥ ज्ञापितासि दुःखं स्नेहेन । हा प्रियसखि लवङ्गिके, स्वप्नावसरमात्रदर्शनाहं ते संवृत्ता । तस्य माधवमल्लभमानाया मम संमतत्वादिति भावः । हा मालतीमयजीविते मम कल्याणसाधनैकसुखसकलव्यापारे । मत्परिणयनिष्पादनमेवैकं सुखं साध्यत्वेन फलं यस्य स तादृशः सकलो व्यापारो यस्या इति विग्रहः । भगवति कामन्दकि, चिरस्य ज्ञापितासि दुःखं स्नेहेन । मयि स्नेह एव तव दुःखहेतुर्जात इत्यर्थः । हा प्रियसखि लवङ्गिके, स्वप्नदर्शनमात्रांहं ते संवृत्ता । माधवः । हन्तेति खेदे । सत्यं प्रियतमैव बधार्थमानीता केनचिदिति मज्जीविततरोर्मूले कुठारोऽन- र्थाय व्यापारित इति भावः । 'हन्तेति हर्षे' इति व्याख्यानमसंगतम् । जीवित- सर्वस्वभूतायास्तस्या वध्यशूलारोपणसमये कोऽत्र हर्षस्यावकाशः । न च प्रिया मया मोचयिष्यत इति निश्चयस्तु तदानीमस्ति जीवनस्यैव संदिग्धत्वादत एवाह—अपि नाम जीवन्तीं संभावयेयमिति । सर्वथा तन्मरणेनापि ममापि प्राणत्यागो निश्चितः । तथापि जीवन्तीमेव तां संदर्शनसंभाषणरक्षणप्रयत्नव्या- पारैर्यदि संभावयामि तदा जीवितसाफल्यं स्यादित्याशंसा । अपि नामेति निपा- ताभ्यामपि संभावनातौत्सुक्यं द्योत्यते । यच्चात्र निपातसमुदायस्यावधारणपरत्व- मुक्त्वा जीवन्तीमेवैनां संभावयेयमिति जीवन्त्येव वर्तत इति व्याख्यानम्, तदपि प्रकृताननुगुणत्वा...हेयम् । नहीदानीमपि तस्या जीवनं निश्चितं तन्निश्चये वा संभावयेयमित्याशंसायां लिङ्शब्दः कथं घटत इत्यलम् ॥ कापालिकौ । कपालकुण्डलाघोरघण्टौ । 'पुमान्स्त्रिया' इत्येकशेषः । देवीत्यादि । रक्षोपहारं पुरतः संनिधाप्य स्तुतिनमस्कारपूर्वकं निवेदयेदिति देव्याः स्तुतिः क्रियते— सावष्टम्भेति । सावष्टम्भः सावलेपो यो निशुम्भः पादघातलक्षणपरिभवस्त- त्संभ्रमेण । 'निशुम्भनिर्भर—' इति पाठे निशुम्भेन निर्भरमतिमात्रं नमद्यद्भूगोलं भुवः संस्थानं तेन यन्निष्पीडनमत्तिभारत्वेन दुर्वहतया बहनशक्त्यवसादनं तेन न्यञ्च- न्नवनमन्कर्परः पृष्ठास्थिकटाहो यस्य तादृशस्य कूर्मस्य पृष्ठाद्विगलन्ती तत्कम्पेन स्रंसमाना ब्रह्माण्डखण्डस्य स्थितिर्यस्मिन्क्रीडिते तत्तथा । पातालस्य प्रतिमल्लयोः
अपि च । प्रचलितकरिकृत्तिपर्यन्तचञ्चन्नखाघातभिन्नेन्दुनिष्यन्दमानामृत- श्च्योतजीवत्कपालावलीमुक्तचण्डाट्टहासत्रसद्भूरिभूतप्रवृत्तस्तुति । श्वसदसितभुजङ्गभोगाङ्गदग्रन्थिनिष्पीडनोत्फुल्लफुल्लत्फणापीठनि- र्यद्विषज्योतिरुज्जृम्भणोड्डामरव्यस्तविस्तारिदोःखण्डपर्यासितक्ष्मा- धरम् ॥ ज्वलदनलपिशङ्गनेत्रच्छटाभारभीमोत्तमाङ्गाभ्रमिप्रस्तुतालातचक्र- क्रियास्यूतदिग्भागमुत्तुङ्गखद्वाङ्गशृङ्गध्वजोद्धूतिविक्षिप्ततारागणम् । प्रमुदितकटपूतनोत्तालवेतालतालस्फुटकर्णसंभ्रान्तगौरीघना- श्लेषहृष्यन्मनस्त्र्यम्बकानन्दि वस्ताण्डवं देवि भूयादरिष्ट्यै च हृष्ट्यै च नः ॥ २३ ॥ (इत्यभिनयतः ।) प्रतिभटयोः । अधोभुवनकुहरसदृशयोरित्य
: १३८ मालतीमाधवे माधवः — (विलोक्य ।) हा धिक् प्रमादम् । न्यस्तालक्तकरक्तमाल्यवसना पाषण्डचण्डालयोः पापारम्भवतोर्मृगीव वृकयोर्भीरुर्गता गोचरम् । सेयं भूरिवसोर्वसोरिव सुता मृत्योर्मुखे वर्तते हा धिक्कष्टमनिष्टमस्तकरुणः कोऽयं विधेः प्रक्रमः ॥ २४ ॥ कपालकुण्डला— तं भद्दे सर दयितोऽत्र यस्तवभू- दद्य त्वां त्वरयति दारुणः कृतान्तः । मालती— हा देव माहव, परलोअगदो वि तुब्भेहिं सुमरि- दव्वो अअं जणो । ण हु सो उवरदो जस्स वल्लहो सुमरेदि । १. हा देव माधव, परलोकगतोऽपि युष्माभिः स्मर्तव्योऽयं जनः । न खलु स उपरतो यस्य वल्लभः स्मरति । तथोत्तुङ्गस्य खट्वाङ्गस्य शिखरमेव ध्वजस्तस्योद्धूतिमिरुदूनेनैर्नििक्षिप्ता विशीर्णा- स्तारगणा यत्र तत् । तथा प्रमुदितानां कटपूतनानां पिशाचविशेषाणामुत्तालानां प्रचण्डानां वेतालानां मेतालानां च तालैः करतलद्वयास्फालनैः स्फुटत्कर्णा विदलच्छ्रवणकुहरा अत एव संभ्रान्ता या गौरी तस्या घनाश्लेषेण गाढालिङ्गनेन हृष्यन्मनसस्त्र्यम्बकस्यानन्दोऽत्रास्तीति तत्तादृशमिति दण्डकः । 'नौ रः' इति वचनात् ॥ २३ ॥ माधवः । मालतीमेव वधार्थमानीतां दृष्ट्वा हा धिगिति । प्रमादं पित्रोः कामन्दक्यादीनां चानवधानतां धिक् । यदियमनेन नृशंसेन कैरप्यनालक्षिता वधार्थमानीता वध्यवेषभूषिता चेति भावः । तदेवाह—न्य- स्तेति । न्यस्तमनुलिसमलक्तकं यस्याः सा चासौ रक्तमाल्यवसना च पापानां पापकारिणामारम्भो मारणं कर्मानयोरस्तीति तद्वतोः । पाषण्डौ बौद्धावेव चण्डालकर्मकारित्वात्तत्सहकारित्वाच्च । तयोः । 'पुमान्स्त्रिया' इत्येकशेषः । वृकयोर्व्याघ्रादिक्रूरसत्त्वयोर्मृगी हरिणीव गोचरं विषयं गता । भीरुः स्वभावेनैव । वसोर्दिवाष्टवसुष्वन्यतमसदृशस्य । यद्वा वसोमेरिव पराक्रमसंपन्नस्य देवतुल्य- स्यापि भूरिवसोरमात्यस्य सुता मृत्योर्मुखे वर्तते । हा खेदे । धिगिति । ममेतः परं जीविताशामिति शेषः । कष्टमिदमनिष्टमापतितम् । अस्तकरुणः कृपाहीनो विधेः प्रक्रम आरम्भः कोऽयम् । कथमत्यन्तानुचितमेवारब्धं दैवहतकेनेत्यर्थः । हा धिक्कष्टमनिष्टमिति पदानामतीवार्थभेदाभावेऽप्यनुकम्पातिशयद्योतनार्थत्वान्न पौनरुक्त्यशङ्केति ध्येयम् । यदाह—'अनुकम्पातिशये यदि कश्चिन्निबध्यते । न दोषः पुनरुक्त्यादौ प्रत्युतेयमलंक्रिया ॥' इति ॥ २४ ॥ कपालकुण्डला— तं भद्र इति । अत्र मरणसमये यस्तव दयितोऽभीष्टो देवोऽभूत्तं स्मर । मरणदशायामिष्टदेवतास्मरणममुत्राम्युदयायेत्यागमः । अद्येति । मृत्युः संनि- हित इत्यर्थः ॥ मालती । हा देव माधव, परलोकगतोऽपि स्मर्तव्योऽयं
पञ्चमोऽङ्कः । १२९ कपालकुण्डला—हन्त, माधवानुरक्तेऽयं तपस्विनी । अघोरघण्टः—(शस्त्रमुद्यम्य ) चामुण्डे भगवति मन्त्रसाधनादा- वुद्दिष्टामुपनिहितां भजस्व पूजाम् ॥ २५ ॥ माधवः—(सहसोपसृत्य खङ्गं प्रकोष्ठेन निक्षिप्य ।) आः कापालि- कापसद दुरात्मन्, अपेहि । प्रतिहतोऽसि । मालती—(सहसावलोक्य ।) परित्ताअदु महाभाओ । (इति माधवमालिङ्गति ।) माधवः—महाभागे, न भेतव्यम् । मरणसमये त्यक्ताशङ्कं प्रलापनिर्गल- प्रकटितनिजस्नेहः सोऽयं सखा पुर एव ते । सुतनु विसृजोत्कम्पं संप्रत्यसाविह पाप्मनः फलमनुभवत्युग्रं पापः प्रतीपविपाकिनः ॥ २६ ॥ १. परित्रायतां महाभागः । जनो युष्माभिः देवेत्यनेन त्वमेव ममेष्टदेवतारूपः । तन्मरणदशायामपि त्वा- मेव स्मरिष्यामि । जन्मान्तरे वा त्वत्समागमो मे भूयादिति भावः । न खलु स उप- रतो यस्य वल्लभो जनः स्मरति । यस्येतीयं कर्मणि षष्ठी । प्रियतमस्मृतिगोचरस्य जनस्य निरन्तरं तन्मनसि स्थित्या नोपरतिरित्यर्थः ॥ हन्तेति विषादे । तपस्विन्य- नुकम्पार्हा । इयं माधवेऽनुरक्ता सती । तदिदानीं सोऽत्रैव महामांसस्य विक्रयार्थं पर्यटति । दैवादागत्य मोचयेद्वा तदा कष्टं मन्त्रसाधनप्रत्यूहः संभावित इति वि- षादः ॥ 'तं भद्रे' इति श्लोकस्योत्तरार्धम्—चामुण्डे भगवतीति । मन्त्रसाधन- स्याद्यावुपक्रमसमय उद्दिष्टं संकल्पितामिदानीं तत्पर्यवसान उपनिहितां समर्पितां पूजां बलोपहारं भजस्वेति ॥ २५ ॥ माधवः । खड्गं कापालिकस्योद्यतं प्रको- ष्ठेन मणिबन्धेन विक्षिप्यापसार्य । अपेह्यपसर । प्रतिहतोऽसि वैपरीत्येन त्वमेव हतोसि । मालती । परित्रायतां महाभागः ॥ माधवः । मरणसमय इति । त्यक्ताऽऽशङ्का यस्मिन्कर्मणि तत्तथा प्रलापेऽनर्थकवचोजल्पने इदानीमेवैनं संहरिष्यामीत्येवंरूपे निर्गलो निष्प्रतिरोधः । महानुभावाः खलूपकारं कुर्वन्त्येव न तु वचनपूर्वकं कुर्वन्तीति वचनस्यानर्थक्यम् । यद्यप्येवं करिष्यामीति न वक्तव्यं केवलं कर्तव्यमेव, तथापीदृश्यां दुर्दशायां प्रियायाः प्राणत्राणेन मज्जन्मनोऽतीव साफल्यमासादितमिति हर्षभरवशेन मनस्यवधारितलाघवशङ्कामपि विसृज्यान- र्थकमेव किंचित्प्रलपितमिति भावः । तथा प्रकटितो निजः सहजः स्नेहो येन सोऽयं ते सखा पुरत एव वर्तते । अतः सुतनु उत्कम्पं भयनिमित्तं वेपथुं विसृज
येथे दिलेले पृष्ठ संस्कृत नाटक मालतीमाधव चे आहे. खालीलप्रमाणे त्याचे ओळ-दर-ओळ संपूर्ण लिप्यंतरण आहे:
१३० मालतीमाधवे अघोरघण्टः—आः, क एष पापोऽस्माकमन्तरायः संवृत्तः । कपालकुण्डला—भगवन्, स एवास्याः स्नेहभूमिः कामन्दकी- सुहृत्पुत्रो महामांसस्य पणयिता माधवः । माधवः—(सास्रम् ।) महाभागे किमेतत् । मालती—(चिरादाश्वस्य ।) महाभाज, अहं वि ण आणामि एत्तिअं जाणामि । उवरिअलिन्दं एव पसुत्ता इह पडिबुद्धास्मि । तुम्हे उण कहिं । माधवः—(सलज्जम् ।) त्वत्पाणिपङ्कजपरिग्रहधन्यजन्मा भूयासमित्यभिनिवेशकदर्थ्यमानः । भ्राम्यन्मांसपणनाय परेतभूमा- वाकर्ण्य भीरु रुदितानि तवागतोऽस्मि ॥ २७ ॥ १
पञ्चमोऽङ्कः। १३१ मालती—(अपवार्य १) कहं मम कारणादो एव्व एदं अप्पाणि- रपेक्खं परिक्कमन्दि। माधवः—अहो नु खलु भोः, तदेतत्काकतालीयं नाम। संप्रति हि राहेश्चन्द्रकलामिवाननचरीं दैवात्समासाद्य मे दस्योरस्य कृपाणपातविषयादाच्छिन्दतः प्रेयसीम् । १. कथं मम कारणादेवैत आत्मनिरपेक्षं परिक्रामन्ति। मनुष्यजातिवाचित्वम् । संज्ञायामिति वा ङह्प्रत्ययः ॥ २७ ॥ मालती— अपवार्येति । 'अपवारितकं कार्यं त्रिपताकेन पाणिना' इत्युक्तव्रीडाहर्षातिशय- गोपनात्मकस्य व्यभिचारिणोऽनुभावोऽपवारणम् । कथं मम कारणादेवैत आत्मनि- रपेक्षं परिक्रामन्ति । मम स्त्रीमात्रस्यैव कृते महत्कार्यमुद्दिश्य कर्तुमात्मनिरपेक्ष- मेतत्कर्म कथमनेनारब्धम् । तदत्राहमेवापराधिनो या साहसेनापि नैनं समागते- त्यहो मे दारुणं चित्तमिति भावः । माधवः । अहो नु खलु भोः । एतद्व्याख्यातं प्राक् । तदेतदिति । तदेतत्प्रियाया दर्शनं काकतालीयं नाम । दैवात्काकागमन- समये तालफलपतनसदृशमित्यर्थः । स्वरूपसिद्धिस्तु 'इवे प्रतिकृतौ' इतीवार्थप्रकरणे 'कुशाग्राच्छः' इत्यतश्छ इत्यनुवर्तमाने 'समासाच्च तद्विषयात्' इति तच्छब्देने- वार्थः परामृश्यते । इवार्थविषयात्समासादिवाऽर्थे छो भवतीति सूत्रार्थः । ननु स- मासेनेव तद्विषयेणेवार्थोभिधानात्किं प्रत्ययेनेति चेन्मैवम् । समासविषयादिवाऽर्था- दन्यस्मिन्निवार्थे प्रत्ययोत्पत्तिः । तथा हि यादृच्छिकं काकागमनं तालपतनं च । तेन पतता तालेन काकवधः कृतः । माधवस्य यदृच्छया तत्रागमनम्, मालत्या अपि तत्र तथैवागमनं च काकागमनतालपतनमिवेति विगृह्यात्सादेव वचना ज्ज्ञापकात्समासः । वृत्तिविषये च काकतालशब्दावागमनपतनक्रियावाचिनौ भवतः । ततः काकतालशब्दात्पतता तालफलेन काकवधसदृशं यदृच्छागतेन माधवेन कापालिकं हत्वा प्रियारक्षणमस्मिन्निवार्थे च्छः । काकतालीयमिवातर्कि- तोपनतं चित्रकरणमिति शब्दार्थः । सुप्सुपेति समासः । अन्यस्य विशेषवि- धानस्य चाभावास्य चैवंविधा गतिरनेकविषयत्वादित्यलम् । संप्रतीत्युपस्कारः । राहोरिति । राहोरानने चरतीत्याननचरी । ताम् । तन्मुखागतामित्यर्थः । 'चरेष्टः' इत्यधिकरण उपपदे टप्रत्ययः । टित्त्वान्डीप् । तादृशीं चन्द्रकलामिव प्रेयसीम् । प्रियशब्दात् 'द्विवचनविभज्योपपदे तरबीयसुनौ' इतीयसुन् । तस्मि- न्परतः 'प्रियस्थिर-' इत्यादिना प्रियशब्दस्य प्रैत्यादेशः । 'उगितश्च' इति ङीप् । दैवाद्यदृच्छया समासाद्य प्राप्य दस्योरश्वोरख्यास्य कापालिकापसदस्य कृपाणपात- विषयात्तत्खङ्गपतनगोचरादाच्छिन्दतः प्रसद्यापहरतो मे मम चेत आह्लादकत्व- मियं राहोरिवातिक्रूरस्य दस्योः कृपाणपातविषयमिन्दुकलेव सौकुमार्यातिशय-
११२ मालतीमाधवे आतङ्काद्विकलं द्रुतं करुणया विक्षोभितं विस्मया- त्क्रोधेन ज्वलितं मुदा विकसितं चेतः कथं वर्तते ॥ २८ ॥ शालिनी प्रियतमा प्राप्ता । यदि मम क्षणमात्रमितः परं विलम्बोऽभविष्यत्, महfilter/अनर्थ आपत्स्यत इत्येवंरूपाद्भयानक रसस्थायीभावात् । 'भयं चित्तस्य वैक्लव्यं रौद्रसंज नितं विदुः' इत्युक्तलक्षणाद्भयाद्विकलमितिकर्तव्यतामूढम् । तथा करु- णया क्षणव्यवधानेऽपि परासुरेवेयं तन्मृतेव पुनरुत्पन्नेवेयं प्रियायास्तादृगवस्था- विभावनाजनितया करुणया शोकरसस्थायीभूतया द्रुतं विलीनम् । तथा विस्म- यादहो दैवविलसितस्याचिन्त्यमहिमत्वं यदद्यैव महामांसविक्रयार्थमागमनं तत्रैव काकतालीयन्यायेनेहागमनं प्रियासंप्राप्तिरिति महदिदं चित्रमित्येवंरूपादद्भुत- रसस्थायिनः 'विस्मयश्चित्तविस्तारः पदार्थातिशयादिभिः' इत्युक्तलक्षणाद्विक्षोभितं जनिताद्भुतरसम् । तथा क्रोधेन कथमयं पापकारी निरपराधिनीं त्रिभुवनरत्न- भूतामिमामपीदानीं हन्तुं समुद्यतः, तस्मादवश्यमेष हन्तव्य इत्येवंरूपाद्रौ- द्ररसस्थायिना 'प्रतिकूलेषु तैक्ष्ण्यस्य प्रकर्षः क्रोध इष्यते' इत्येवंलक्षणेन ज्वलितं रौद्ररसेनोद्दीपिनम् । तथा मुदा मत्प्राणेभ्योऽपि गरीयसीं प्रियां परिरक्ष्य कृतार्थो भवामीत्यादिबहुप्रकारया रत्या मनःप्रसादरूपया प्रधानशृङ्गाररसस्थायिन्या विकसितं रसास्वादेन विस्तारमुपगतम् । कथं केन प्रकारेण वर्तते । कथंचिद्दे- तादृशी दशास्येति निरूपयितुं न शक्यत इति भावः । अत्र च प्रबन्धप्रवृत्ता माधवस्य मालतीगोचरा रतिः प्रेयसीमिति निर्दिनेनालम्बनविभावेन विभाव्यमाना तदवलोकनादिभिरुद्दीपिता मनोविकासप्रियवचनतद्रक्षणव्यापारादिभिरनुभावैर्वा- ङ्मनःशरीरारम्भरूपैरनुभाव्यमाना तद्दर्शनजनितैर्मदश्र महर्षचिन्तास्मृत्यादिभिर्व्य- भिचारिभिरुपचिता रसतामापन्ना प्राधान्येन ध्वन्यते । तदङ्गतया तु राहोराननचरीं चन्द्रकलामिवेत्युपमासूचितभीषणाकारकापालिकालम्बनस्तत्स्वरूपविभावनोद्दीपित आतङ्कपदनिर्दिष्टभयस्थायी विकलपदसूचितमनोवैक्लव्यतदनुगुणशरीरवागारम्भा- नुभावस्तन्नियत कम्पशङ्कानिर्वे दग्लानिजाड्यदीनतावेगविषादोन्मादचिन्तामोहादि- भिर्व्यभिचारिभिः प्रतीयमानैरुपचितो भयानक रसः । तथा दस्योः कृपाणपा- तविषयादिति सूचितमृतप्रायप्रियतमालम्बनस्तद्दुर्दशापरिभावनोद्दीपितः करुणयेति निर्दिष्टः शोकस्थायीभावो द्रुतमिति निर्दिष्टचित्तद्रवीभावतदुचितशरीरवागारम्भा- नुभवतन्नियताश्रुवैवर्ण्य वैस्वर्यजाड्यवेगमोहोन्मादविषादादिभिर्व्यभिचारिभिः प्र- तीयमानैः परिपोषं गतः करुणरसश्च । तथा दैवादासाद्येति सूचितयादृच्छिकसमा- गमालम्बनतद्धेतुविधिवैचित्र्यपरिशीलनोद्दीपितो विस्मयादिति निर्दिष्टोऽद्भुतस्थायी- भावो विक्षोभितमिति मनोविक्षोभतदुचितशरीरवागारम्भानुभावस्तन्नियतस्तम्भ- प्रलयस्वेदहर्षगर्वस्मृतिवितर्कविबोधचिन्तादिभिर्व्यभिचारिभिरुपचितोऽद्भुतरसश्च । तथाच्छिन्दत इति सूचितः प्रियावधोद्यतो हन्तव्य इत्यालम्बनस्तद्वीरात्मविम- र्शनोद्दीपितो ज्वलितमिति मनोज्वलनतदुचितवागारम्भानुभावतन्नियतस्तम्भरो- माञ्चस्वेदहर्षावेगभ्रमोन्मादमदहर्षचापल असूया श्रमामर्षादिभिर्व्यभिचारिभिः सर्वत्र कथं वर्तत इत्यनेन सूचितैरुपचितो रौद्ररसश्चैते रसा अङ्गभावापत्तयैव दूरतो
अघोरघण्टः—अरे ब्राह्मणडिम्भ, व्याघ्राघातमृगीकृपाकुलमृगन्यायेन हिंसारुचेः पाप प्राण्युपहारकेतनजुषः प्राप्तोऽसि मे गोचरम् । सोऽहं प्राग्भवतैव भूतजननीमृध्नोमि खड्गाहति- व्यस्तस्कन्धकबन्ध रन्ध्ररुधिरप्राग्भारनिष्यन्दिना ॥ २९ ॥ माधवः—आः दुरात्मन्पाखण्डचण्डाल, असारं संसारं परिमुषितरत्नं त्रिभुवनं निरालोकं लोकं मरणशरणं बान्धवजनम् । निरस्तपरस्परविरोधाः प्रधानरसापेक्षयाऽविरोधाः । प्रधानरसपरिपोषापेक्षयान्यू- नरसपरिपोषत्वेन श्लाघनीयौचित्यनिबन्धना व्यतिकराह्वयया शोभनाह्वयया च मेलनगत्या शृङ्गारेण सह संकीर्त्यन्ते । यथाह—'समकालसमुत्पन्नैस्त्रिभिर्द्वाभ्या- मथापि वा । रसैश्चेद्यतिकीर्येत समव्यतिकरः स्म
१४४ मालतीमाधवे अदपं कंदर्पं जननयननिर्माणमफलं जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः ॥ ३० ॥ व्यवसायक्रियायाः सर्वत्रान्वयात्क्रियादीपकं च वाच्यालंकारौ । चन्दनचामीक- रादीनां न वस्तुतः सारत्वम्, किंतु पामरजनप्रसिद्धयैव । इयमेव सारभूतेत्यपह्नवः, सर्वसारवस्तूपमानानि यानि तेभ्योऽपि सारभूतेयमेवेति व्यतिरेकश्च व्यङ्ग्याविति सर्वत्र द्रष्टव्यम् । तथा त्रिभुवनं त्रयाणां भुवनानां समाहारस्त्रिभुवनम् । 'पात्रा- दिभ्यः प्रतिषेधो वक्तव्यः' इति वचनात् 'द्विगोः' इति ङीप् भवति । परिमुषितं लुण्ठितं रत्नं यस्य तत्कर्तुम् । सत्स्वपि कौस्तुभकनकादिषु न ते रत्नवत्त्रिभुवनम् । न च तानि वस्तुनो रत्नानि । अविवेकिनां तु तत्र रत्नत्वव्यपदेशः समीचीनव- स्तूपमानत्वप्रसिद्धिश्च । इयमेव त्रिभुवनस्य सकलरत्नातिशायिगुणशालिन्येकं रत्नमिति निगीर्याध्यवसानम् । तां हन्तुं प्रवृत्तः रत्नशून्यमेव जगत्कर्तुं प्रवृत्तोऽसी- त्यर्थः । अलंकारयोगः पूर्ववत् । तथा लोकं प्रमाणषट्कपथपथिकं प्रपंचं निरालोकं प्रकाशशून्यं केवलमन्धकाराक्रान्तं कर्तुम् । न खलु सौरादिभिरालोकैः सालोकोयं लोकः । तेषां जडरूपाणां प्रकाशान्तरप्रकाश्यत्वेनाभासत्वात् । अनयैव पुनरानन्दै- करससंविन्मयप्रकाशात्मिकया त्रिभुवनभवनलोकोत्तररत्नप्रदीपकलिकया समुद्भा- सितोऽयं ससूर्यचन्द्रादितेजस्को लोकः । तदिमां निर्वापयितुकामः जगदन्धं कर्तु- कामोऽसीत्यर्थः । तथा बान्धवजनं सकलमपि बन्धुवर्गमेतदेकजीवितं मरणमेव शरणमेतद्विपत्तिजनितशोकनिराकरणसमर्थं यस्य तत्तादृशं कर्तुम् । इदं चावान्तर- वाक्यं सहचरभिन्नम् । इह हि महावाक्यरूपे श्लोकोऽसारं संसारमित्यादिभिर- वान्तरवाक्यैर्मालत्याः सकललोकातिशायिलावण्यादिगुणशालित्वेन सर्वपदार्थो- त्कर्षत्वं तदन्वयव्यतिरेकाभ्यामेव लोकस्योपादेयत्वान्वयव्यतिरेकौ चेत्येतावद्भङ्गि- वैचित्र्येण प्रौढोक्तियुक्त्या च निरूप्यते । तत्र चानेन वाक्येन मालत्या उत्कर्षो न प्रतिपाद्यते । बान्धवा हि काणकुब्जदुःशीलापत्यनाशेऽपि मरणशरणा भवन्ति न च तदन्वयाल्लोकस्योपादेयता कदाचित् । नापि तद्व्यतिरेकादनुपादेयत्वम् । बहुतरश्रेष्ठवस्तुप्रचुरत्वादेव तदुपादानसिद्धेः । तत्तद्यावदुत्कर्षप्रतिपादकवाक्य- मध्ये तद्विजातीयतया सहचरैर्भिन्नं तन्निकृष्टत्वाद्विरुद्धमिदं वाक्यं षाण्मासि- कमुक्ताफलप्रथितहारलतामध्ये बराटिकेव नायकत्वेन निवेशनं नार्हति प्रक- मभङ्गश्च स्यात् । प्रक्रान्तातिशयोक्त्याद्यलंकाराणामुपर्युपरि निबद्धानामकाण्डे विच्छेदात् । केचित्तु जनमित्युदासीनवाचिना जनशब्देन माधवः प्रेयसीवि- नाशदुःखोत्तारोपायान्तरमपश्यन्तं मरणमेव तदुपायत्वेनाधिगच्छन्तमात्मानं निर्दिशति । तेन तन्नाशे स्वस्य मरणमेवेति तल्लावण्यातिशयप्रकाशनान्नोक्तदोष इति व्याचक्षते । तदसत् । बान्धवजनमित्युक्ते स्वनिर्देशस्य कथंचिदप्यप्रतीतेः प्रतीतो वा नैतावता तस्या उत्कर्षः । सर्वो रागान्धः सहृदयाभिमतमेव वस्त्व- धमभूतमपि सर्वलोकोत्तरमित्यभिमन्यते । तथा हि—'या यस्याभिमता लोके सा तस्याधिकरूपिणी' इति । अत एव चक्रवाकोऽपि स्वप्रियाविरहे जगदेव शू-
अपि च रे रे पाप, प्रणयसखीसलीलपरिहासरसाधिगतै- र्ललितशिरीषपुष्पहणनैरपि ताम्यति यत् । वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैष भुजः ॥ ३१ ॥ न्यामाकलयंस्तानेव लोकोत्तरसौन्दर्यशालिनीं मन्यत इति तिर्यक्ष्वपि प्रसिद्धम् । न चात्रापि माधवाभिमानमात्रसिद्धमेव तस्या लोकोत्तरत्वमिति वाच्यम् । मा भूत् प्रबन्धरसास्वादयितॄणां सहृदयानामन्यथाभावप्रतीत्यानीविस्रंसफुरणाह्लादास्वाद- भङ्गः । न च स्वाभिमानेन तस्याः श्लाघ्यत्वेऽपि न तावता तत्सत्त्वासत्त्वाभ्यां जगतोऽस्ति कश्चिद्विशेष इत्युपेक्षणीयमेवैतत् । अतो 'विधिविलसितं सर्वम- फलम्' इति पठनीयमिति कुन्तकप्रभृतयः काव्यतत्त्वज्ञाः सहृदयाः । एवं हि नावद्यलेशोऽ
१३६ मालतीमाधवे अघोरघण्टः—आः दुरात्मन्, प्रहर प्रहर । नन्वयं न भवसि । मालती—पंसीद णाह साहसिअ, दारुणो क्खु अअं हदासो । ता परित्ताअसु मं । णिवत्तअदु इमादो अणत्थसंकटादो । कपालकुण्डला—भगवन्, अप्रमत्तो भूत्वा दुरात्मानं व्यापारय । माधवाघोरघण्टौ—(मालतीकपालकुण्डले प्रति ।) अयि भीरु, धैर्यं निधेहि हृदये हत एष पापः किं वा कदाचिदपि केनचिदन्वभावि । सारङ्गसंहतिविधाविभकुम्भकूट- कुट्टाकपाणिकुलिशस्य हरेः प्रमादः ॥ ३२ ॥ १. प्रसीद नाथ साहसिक, दारुणः खल्वयं हताशः । तत्परित्रायस्व माम् । निवर्ततामस्मादनर्थसंकटात् । णाधिगतैः स्वेच्छयैव लब्धैर्ललितैरतिसुकुमारैः शिरीषकुसुमैर्नूनैरपि किं पुनर- न्येन कठिनद्रव्येण । यद्वपुस्ताम्यति सद्य एव म्लायते तत्र वपुषि वधाय शस्त्र- मुपक्षिप्ततः पातयतस्तव शिरस्रकस्मादेव निपाती यमदण्डः कालदण्ड इवैष भुजो वामबाहुः पतत्विति समुद्दीपितक्रोधस्य माधवस्य रौद्ररसोचितो वागारम्भः ॥ ११ ॥ अघोरघण्टः । प्रहर प्रहरेति । पश्यामि तव पौरुषमित्युपहास- गर्भोक्तिः । अयं न भवसीति माधवस्यैव संनिहितत्वेनोपचारात्पुरोवर्तिलधर्मि- प्राधान्येनेदंशब्देनोच्यते । अन्योन्यमन्योन्यवधस्य निष्पन्नप्रायतया निश्चितत्वा- दूतेमानसामीप्येन लडभयत्रापि ॥ मालती । प्रसीद नाथ साहसिक, दारुणः खल्वयं हताशः । तत्परित्रायस्व माम् । निवर्ततामस्मादनर्थसंकटात् । न मम स्त्रीमात्रस्य कृते सकललोकमौलिना त्वया साहसमाचरणीयम् । यतोऽयं दारुणः किं कुर्याद्वा । तन्निवर्तस्वेति भावः ॥ कपालकुण्डला । अप्रमत्तः सावधानः ॥ माधवो मालतीमघोरघण्टश्च कपालकुण्डलामेकेनोभाभ्यां पाठ्येनोभयत्रापि तुल्या- र्थेन श्लोकेन समाश्वासयन्तौ युगपदेवाहतुः—माधवाघोरघण्टौ । अयि भीरु, इति संबोधनमिदमुभयोरुभे प्रति । धैर्यमिति । हे भीरु स्त्रीस्वभावसुल- भसाध्वसे, हृदये धैर्यं निधेहि, मा कातर्यं गमः । हत एष पाप इत्युभाभ्यामु- भयोर्निर्देशः । हत एव । कथमत्रापि मम प्रमादमाशङ्कसे । पश्य कदाचित्केन- चिद्वा सारङ्गसंहतिविधौ हरिणसंहरणकृत्य इभकुम्भानां कूटस्य सङ्घस्य कुट्टाकः कुट्टनशीलः । 'जल्पभिक्षुकुट्टलुण्ठवृङः षाकन्' इति ताच्छील्ये षाकन्प्रत्ययः । पाणिकुलिशस्य पाणिरैव कुलिशं कुलिशमिव पाणिर्यस्य तादृशस्य हरेः प्रमादः किमन्वभावि । न केनचिदनुभूतमित्यर्थः । अत्र क्षुद्रविपक्षपथे मम प्रमादो न संभवतीति तदसंभवलक्षणे वाक्यार्थे हरिणपतेर्हरेः प्रमादासम्भवलक्षणो वाक्या- र्थोऽध्यारोप्यमाणः सारङ्गवधे सिंहस्य प्रमादसंभवेन ममाप्येतद्वधे प्रमादसंभाव- नेत्युपमानोपमेयभावं परिकल्पयतीति 'असंभवद्धर्मसंबन्ध उपमा परिकल्पिता'
(नेपथ्ये कलकलः । सर्व आकर्णयन्ति ।) भो भो मालत्यन्वेषिणः, इयममात्यभूरिवसुमाश्वासयन्त्यप्रति- हतप्रज्ञाचक्षुर्भगवती कामन्दकी समादिशति, पर्यवष्टभ्यतामेतत्क- रालायतनम् । नाघोरघण्टादन्यस्सात्कर्मैतद्दारुणाद्भूत । न करालोपहाराच्च फलमन्यद्विभाव्यते ॥ ३३ ॥ कपालकुण्डला—भगवन्, पर्यवष्टब्धाः स्मः । अघोरघण्टः—संप्रति विशेषतः पौरुषस्यावसरः । मालती—१हा ताद, हा भअवदि । माधवः—भवतु बान्धवसंस्थामेनां विधाय तत्समक्षमेनं व्या- पादयामि । (मालतीमन्यतः प्रेषयन्परिक्रामति ।) (माधवाघोरघण्टावन्योन्यमुद्दिश्य ।) आः, रे रे पाप, कठोरास्थिग्रन्थिव्यतिकरघणात्कारमुखरः [L1
१३८ मालतीमाधवे निरातङ्कः पङ्केष्विव पिशितखण्डेषु निपत- न्नसिर्गात्रंगात्रं सपदि लवशस्ते विकिरतु ॥ ३४ ॥ (इति निष्क्रान्ताः सर्वे ।) इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे पञ्चमोऽङ्कः । जाते— रे रे इति । कठोरेति । कठोराः कठिना येऽस्थिग्रन्थयः कीकसकूटानि तैः सह व्यतिरेकेण तदभिघातेन जनितो यो घणात्कारोऽनुकरणशब्दस्तेन मुखरः तथा खराणां स्नायूनां छेदेन क्षणमात्रं जनितो वेगस्य व्युपरमो विश्रा- न्तिर्यस्य सः । तथा पिशितखण्डेष्वस्थिस्नायुरहितेषु मांसखण्डेषु पङ्केष्विव निरा- तङ्को निष्प्रतिरोधो निपतन्नेवंविधोऽसिः सपदि ते गात्रं गात्रं प्रत्यङ्गं लवशः खण्डशः कृत्वा विकिरतु दिक्षु विक्षिपतु । बीभत्सोपस्कृतो रौद्ररसो व्यज्यते ॥ ३४ ॥ प्रत्यक्षयुद्धवर्णनस्य निषिद्धत्वान्नोक्तम् । तत्फलमग्रे सूचयिष्यते । यदुक्तम्— 'दूराध्वानं वधं युद्धं राज्यदेशादिविप्लवम् । संरोधं भोजनं स्नानं सुरतं चानुलेपनम् ॥ अम्बरग्रहणादीनि प्रत्यक्षाणि न निर्दिशेत् ॥' इति ॥ ३४ ॥ युद्धार्थं निष्क्रान्ताः ॥ यथामति मयाख्यातो भवभूतेरिहाशयः । तत्सर्वार्थपरिज्ञाने समर्थास्तु सचेतसः ॥ इति श्रीमद्भारद्वाजकुलतिलकपर्वतनाथयायजूकनन्दनत्रि- पुरारिसूरिविरचितायां मालतीमाधवभावदीपिकायां पञ्चमाङ्कविवरणम् ॥
Here is the line-by-line transcription of the page into Devanagari Markdown:
षष्ठोऽङ्कः । (ततः प्रविशति कपालकुण्डला ।) कपालकुण्डला—आः पाप दुरात्मन्, मालतीनिमित्तं विनि- पातितास्मद्गुरो माधवहतक, अहं त्वया तस्मिन्नवसरे निर्दयं निघ्न- त्यपि स्त्रीत्यवज्ञाता । (सक्रोधम्।) तदवश्यमनुभविष्यसि कपालकु- ण्डलाकोपस्य फलम् । शान्तिः कुतस्तस्य भुजङ्गशत्रो- र्यस्मिन्निबद्धानुशया सदैव । जागर्ति दंशाय निशातदंष्ट्रा- कोटिर्विषोद्गारगुरुर्भुजङ्गी ॥ १ ॥ (नेपथ्ये ।) भो राजानश्चरमवयसामाज्ञया संचरध्वं कर्तव्येषु श्रवणसुभगं भूमिदेवाः पठन्तु । अनाहार्यगुणोदारमनागन्तुकभूषणम् । अयत्नसिद्धसारस्यामाध्रये सहजां गिरम् ॥ [L
१४० मालतीमाधवे चित्रं नानावचननिवहैश्चेष्टतां मङ्गलेभ्यः प्रत्यासन्नस्त्वरयतितरां जन्ययात्राप्रवेशः ॥ २ ॥ यावच्च संबन्धिनो न परापतन्ति तावद्द्रुतसया मालत्या नगरदेव- तागृहविभ्रममङ्गलाय गम्यतामित्यादिशति भगवती कामन्दकी । अन्यच्च गृहीतविशेषमण्डनः प्रतीक्ष्यतामानुयात्रिको जन इति । कपालकुण्डला—भवतु । इतो मालतीविवाहपरिकर्मसत्वरप्र- तिहारजनसहस्रसंकुलात्प्रदेशादपक्रम्य माधवापकारं प्रत्यभिनिविष्टा भवामि । (इति निष्क्रान्ता ।) इति शुद्धविष्कम्भः । कलहंसः—(प्रविश्य ।) आणत्तोम्हि णअरदेवदागब्भगहरवट्टिणा मअरन्दसणाहेण माहवेण जाणीहि दाव इदोमुहं प्पउत्ता मालदी ण वेत्ति । ता जाव णं आणन्दिस्सं । १. आज्ञप्तोऽस्मि नगरदेवतागर्भगृहवर्तिना मकरन्दसनाथेन माधवेन जानीहि तावदितोमुखं प्रवृत्ता मालती न वेति । तथावदेनमानन्दयिष्यामि । ध्वम् । विप्राश्च श्रुतेः श्रवणस्य सुभगं यथा स्यात्तथा पठन्तु । आशीर्वादमन्त्रा- निति शेषः । नानावचननिवहैः संस्कृतप्राकृतादिनानाभाषाविशेषैः सहितं चित्र- माश्चर्यकारि गीतवाद्यनृत्तादिकं मङ्गलेभ्यो मङ्गलार्थम् । तादर्थ्ये चतुर्थी । चेष्टतां व्याप्रीयताम् । ततो जन्यानां वरसंबन्धिनां जनानाम् । 'जन्याः स्निग्धा वरस्य ये' इत्यमरः । यात्राया वरगृहद्वधूगृहगमनक्रियायाः प्रवेशः प्राप्तिस्त्वरयति । त्वरां जनयतीत्यर्थः ॥ २ ॥ न परापतन्ति न समागच्छन्ति । गृहीतं सविशे- षमण्डनं येन । सम्यगलंकृत इत्यर्थः । आनुयात्रिको मालत्या अनुचरो जनः प्रतीक्ष्यतां परिपाल्यताम् । शीघ्रमाहूयतामित्यर्थः । यद्वानुयात्रिको वरानुगामी तत्सुहृज्जनः । गृहीतं सविशेषमण्डनमाभरणवस्त्रादिकं यस्मात्स तादृशः प्रतीक्ष्य- तामभ्युद्गमनादिना संभाव्यतामिति ॥ कपालकुण्डला—भवत्वित्यादि । तेन नेदानीं मालत्यपहरणं शक्यमिति भावः । आकुलाज्जनसंमर्दान्माधवस्याप- कारो मालत्यपहरणरूपस्तं प्रत्यभिनिविष्टा दृढतरप्रयत्ना भवामि । इति निष्क्रा- न्ता । इति शुद्धविष्कम्भः ॥ कलहंसः । आज्ञप्तोऽस्मि नगरदेवताया गर्भ- गृहवर्तिना मकरन्दसनाथेन माधवेन जानीहि तावदितोमुखं प्रवृत्ता मालती न वेति । तथावदेनमानन्दयिष्यामि । इतोमुखं प्रवृत्ता मालतीति प्रियनिवेदने- नेति शेषः । अनेन वाक्येन माधवमकरन्दयोः कृत्रिमपरिणयार्थं छद्मना नगर- देवतागर्भगृहे पूर्वमेव प्रविश्य निलीयावस्थानसूचनादभूताहरणं नाम गर्भ-
षष्ठोऽङ्कः । २४१ (ततः प्रविशतो माधवमकरन्दौ ।) माधवः— मालत्याः प्रथमावलोकनदिनादारभ्य विस्तारिणो भूयः स्नेहविचेष्टितैर्मृगदृशो नीतस्य कोटिं पराम् । अद्यान्तः खलु सर्वथास्य मदनायासप्रबन्धस्य मे कल्याणं विदधातु वा भगवतीनीतिर्विपर्य्येतु वा ॥ ३ ॥ मकरन्दः—कथं भगवत्याः सा मेधाशक्तिर्विपर्य्येष्यति । कलहंसः—(उपसृत्य ।) १णाह, दिट्ठिआ वड्ढसि । पउत्ता खु इदोमुहं मालदी । माधवः—अपि सत्यम् । मकरन्दः—किमश्रद्दधानः पृच्छसि । न केवलं प्रवृत्ता प्रत्या- सन्ना च वर्तते । तथा हि । अस्माकमेकपद् एव मरुद्विकीर्ण- जीमूतजालरसितानुकृतिर्निनादः । १. नाथ, दिष्ट्या वर्धसे । प्रवृत्ता खल्वितोमुखं मालती । संध्यङ्गमुक्तम् । यथा—'अभूताहरणं तस्याद्वाक्यं यत्कपटाश्रयम्' इति । इद- मेव तयोः प्रवेशकं च ॥ माधवः—मालत्या इति । मदनायासप्रबन्धस्य सरव्यथानुबन्धस्य सर्वथाद्य खल्वितो मालतीलाभान्यतरकोटिपरिच्छेदेन पर्यव- सानं भविष्यतीत्येष तत्त्वार्थकीर्तनान्मार्गो नाम गर्भसंधेरङ्गमुक्तम् । यथा— 'तत्त्वार्थकीर्तनं मार्गः' इति । कथमत्रान्यतरकोटिपरिच्छेद इत्यपेक्षायां भग- वतीप्रयुक्तोपायसिद्ध्यासद्धिभ्यामित्याह—भगवत्याः कामन्दक्या नीतिः कृत्रिम- विवाहरूप उपाये कल्याणं मालतीपाणिग्रहणरूपं वा विदधातु । तथा सति तत्प्राप्त्यैव मदनायासस्यान्तो भविष्यति । अथवा मद्भाग्यवैकल्याद्विपर्यंतु विप- रीता भवतु । तथापि प्रयुक्तोपायभङ्गादुपायन्तराभावाच्च तदलाभनिश्चये ध्रुवं मम विपत्तिरित्याश्रयान्तराभावादेव मदनायासस्यान्तो भविष्यतीत्यर्थः । कीदृ- शस्य मदनायासस्येत्यपेक्षायां तावदाह—मालत्याः प्रथमदर्शनक्षणादारभ्य विस्तारिणः प्रवर्धमानस्य । तथा मृगदृशस्तस्याः स्नेहसूचकैर्विचेष्टितैः साभिप्राया- वलोकनादिभिः परां निरतिशयां कोटिं प्रकृष्टतां नीतस्येति योज्यम् । एषा प्राप्त्याशा नाम तृतीया कार्यावस्था । यथा—'उपायापायचिन्ताभ्यां प्राप्त्याशा प्राप्तिसंभवः' इति ॥ ३ ॥ मकरन्दः । विपर्येष्यति विपरीता भविष्यति ॥ कलहंसः । नाथ, दिष्ट्या वर्धसे । प्रवृत्ता खल्वितोमुखं मालती । माधवः । अपि सत्यं किं सत्यमितोमुखं प्रवृत्तेत्यसंभावयतः प्रश्नः ॥ मकरन्दः। अश्रद्दधानो विश्वासरहितः । अस्माकमिति । महता प्रबलपवनेन विकीर्णं विशकलीतं
१४२ मालतीमाधवे गम्भीरमङ्गलमृदङ्गसहस्रजन्मा शब्दान्तरश्रवणशक्तिमपाकरोति ॥ ४ ॥ तदेहि । जालमार्गेण पश्यामः । (तथा कुर्वन्ति ।) कलहंसः—णाह, पेक्ख । इमे दाव उप्पडिअराअहंसविब्भ- माभिरामचामरसमीरणुव्वेलिअकदलिआवलीतरङ्गिदुत्ताणगणअङ्गणस- रोणिरन्तरुद्दण्डपुण्डरीअविब्भमं वहन्दो मङ्गलधवलातपत्तणिवहा दीसन्ति । इमाओ सविलासकवलिअतम्बूलाहिपूरिअकवोलमण्डला- भोअवइअरक्खलिअमहुरमङ्गलगिअबद्धकोलाहलेहिं विविहरणा- लंकारकिरणावलीविडम्बिअमहेन्दचापविच्छेदविच्छुरिअणहत्थलेहिं वारसुन्दरीकदम्बएहिं अज्झासिआओ कणन्तकणअंकिंकिणीरणिअ- झणझणकारिणीओ करिणीओ । १. नाथ, पश्य । इमे तावदुत्पतितराजहंसविभ्रमाभिरामचामरसमीरणो- द्वेलकदलिकावलीतरङ्गितोत्तानगगनाङ्गणसरोनिरन्तरोद्दण्डपुण्डरीकविभ्रमं व- हन्तो मङ्गलधवलातपत्रनिवहा दृश्यन्ते । इमाः सविलासकवलितताम्बूलाभिपू- रितकपोलमण्डलाभोगव्यतिकरस्खलितमधुरमङ्गलोद्गीतबद्धकोलाहलैर्विविधरत्ना- लंकारकिरणावलिविडम्बितमहेन्द्रचापविच्छेदविच्छुरितनभःस्थलैर्वारसुन्दरीक- दम्बकैरध्यासिताः क्वणत्कनककिंकिणीरणितझणझणत्कारिण्यः करिण्यः । यज्जीमूतजालं तद्वत्सितानुकारी गम्भीरो यो मङ्गलार्थ मृदङ्गसहस्रजन्मा निनादः सोऽस्माकमेकपद् एव स्वव्यतिरिक्तशब्दश्रवणसामर्थ्यं निरस्यति । मत् समीपमाग- च्छेत्यर्थः ॥ ४ ॥ कलहंसः । नाथ, पश्य । इमे तावन्मङ्गलधवलातपत्रनिवहा दृश्यन्त इत्यन्वयः । कीदृशाः । उत्पतितानां राजहंसानां विभ्रमेणेव विभ्रमेणाभि- रामाणां चामराणां समीरणेनोद्वेलोर्ध्वं चरन्ती या कदलिकावली पताकापंक्तिस्तया तरङ्गितं संजाततरङ्गं यदुत्तानं गगनाङ्गणं नभोभाग एव सरस्तत्र निरन्तराणां सान्द्राणामुद्दण्डपुण्डरीकाणां यो विभ्रमस्तं वहन्तो बिभ्राणाः । अत्र गगनाङ्गण- स्योत्तानत्वं गाम्भीर्यद्योतनार्थम् । गम्भीरे सरसि पुण्डरीकाणामुद्दण्डकाण्डा भवन्ति नान्यत्र । सविलासेति । सविलासं कवलितेन ताम्बूलेनाभिपूरितस्य कपोल- मण्डलस्याभोगेन विस्तारेण यो व्यतिकरः संपर्को गीताक्षराणां तेन स्खलितं यन्मधुरं मङ्गलार्थमुद्गीतं गौरीकल्याणादि गानं तेन बद्धः कोलाहलो येन तैः । विविधानां रत्नालंकाराणां किरणावलीभिर्विडम्बिता अनुकृता ये महेन्द्रचापविच्छे- दास्तैर्विच्छुरितं व्याप्तं नभःस्थलं गगनस्थलं येषां तैर्वारसुन्दरीकदम्बकैरध्यासिताः
षष्ठोऽङ्कः । १४३ (माधवमकरन्दौ सकौतुकं पश्यतः ।) मकरन्दः—स्पृहणीयाः खल्वमात्यभूरिवसोर्विभूतयः । तथा हि प्रेङ्खद्भूरिमयूरमेचकचयैरुन्मेषिचाषच्छद- च्छायासंवलितैर्विवर्तिभिरिव प्रान्तेषु पर्यावृताः । व्यक्ताखण्डलकार्मुका इव भवन्त्युच्चैर्विचित्रांशुक- प्रस्तारस्थगिता इवोन्मुखमणिज्योतिर्वितानैर्दिशः ॥ ५ ॥ कलहंसः—कहं ससंभमअणेअपडिहारमण्डलाबज्जिओज्जलकण- अकलधौअपङ्कलित्तचित्तवेत्तलदापरिक्खित्तरेहारइअमण्डलो दूरसंठिदो परिअणो । एसा अ बहुलसिन्दूरणिअरसंझाराओपरत्तमुहमहुरघो- लन्तणक्खत्तमालाभरणधारिणी करेणुरअणिं अलंकरन्ती इदो एव १. कथं ससंभ्रमानेकप्रति
१४४ मालतीमाधवे कोऊहलुप्फुल्लमुहसमत्थलोअदिस्सन्तमणहरप्पण्डुरपरिक्खामदेहसो- हाविभाविआणङ्गवेअणा पुढमचन्दलेहाविब्भमं वहन्दी किंचिअन्तरं पसरिदा मालदी । मकरन्दः—वयस्य, पश्य । इयमवयवैः पाण्डुक्षामैरलंकृतमण्डना कलितकुसुमा बालेवान्तर्लता परिशोषिणी । वहति च वरारोहा रम्यां विवाहमहोत्सव- श्रियमुदयिनीमुद्भूतां च व्यनक्ति मनोरुजम् ॥ ६ ॥ कथं निषादिता गजवधूः । माधवः—(सानन्दम् ।) कथमवतीर्य भगवती लवङ्गिकाभ्यां प्रवृत्तैव । (ततः प्रविशति कामन्दकी मालती लवङ्गिका च ।) कामन्दकी—(सहर्षमपवार्य ।) पाण्डुरपरिक्षामदेहशोभाविभावितानङ्गवेदना प्रथमचन्द्रलेखाविभ्रमं वहन्ती किंचिदन्तरं प्रसृता मालती । अत एव विशेषणद्वयस्य सामर्थ्यात्प्रथमचन्द्रलेखायाः प्रतिपच्चन्द्रकलाया विभ्रमं वहन्ती किंचिदन्तरं परिजनमण्डलादपसृत्यान्यदेशं प्रसृता मालती । कथमन्य- विभ्रममन्या वहेदित्यसंभवधर्मयोगात्संध्यारागोपरक्ततारावलीविभूषितरज