मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
४४ | जगद्धरकृता | [ अङ्कः ३ पृ० प० ८२ ६ माधवः—अन्य एवाक्षुण्णः कथाप्रकारो भगवत्याः । ७ अदिदु० । ९ ०ख्खी । यतोऽधुना श० । ८३ १ मालती—(जनान्तिकम् ।) स० । २-३ ०आसङ्गन्तीए भअवदीए भीदाविदम्हि । ता किं दाणीं एत्थ पडिव- ज्जिस्सं । ८ ०वेअणाधिअदरम० । ९ ०णन्दइ केलिक- लाओ । केवलं कमलाअन्तकन्त० । स्वकार्यक्षमता, गर्भपदेन बाह्यान्तरभावनादृढतोक्ता । दावप्रेम्णा वनवह्निप्रीत्या चन्द्रकिरणान् बारंवारं श्रयति । एतेन चन्द्ररश्मीनां दाहकत्वमुक्तम् । अत्र प्रे- मपदेन नायिकानुरागस्य च विरोधिविमर्शशून्यत्वं तृतीयया चाङ्गसङ्गहेतुत्वं च ध्वनितम् । कीदृशः । सरसपद्मिनीपत्रमात्रान्तरितो ग्लायमानकायः । सर्वत्र मृत्यव इति योज्यम् । तथा च मरणाय कृतोद्यम इति भावः । यद्वा अन्तरायो मरणे विघ्नः । तत्र पद्मिनीपत्रहेतुलम् । तदिह चन्द्रापादादीनां कामोद्दीपकत- यानर्थहेतुत्वेन विप्रलम्भस्योत्कर्षः सूचितः । किं च मनोविकार इन्द्रियजन्य इ- त्यनेनेन्द्रियाणां शान्तिः कृता । नवचूतदर्शनेन नेत्रस्य चूतंरानन्दलमुकुलितत्वा- भ्यामतिदुःखदत्वम् । कोकिलरवाकर्णनेन श्रोत्रस्य । बकुलगन्धसंबन्धेन घ्राणस्य । वायुचन्द्रकरयोः स्पर्शेन त्वच इति ॥ १२ ॥ माधवः । अक्षुण्णोऽन्याननुभूतः कथाप्रकारः कथनक्रमः ॥ मालती । बालचूतदर्शनादेरतिपीडाकरत्वेन माल- त्यापि ज्ञानादेवमुक्तमिति भावः ॥ कामन्दकी । अन्यत्रेत्यादिना लघ्येव प्रथम- मनुरक्तोऽयमिति दर्शितम् । तपस्यनुकम्प्यः । 'तपस्वी तापसे चानुकम्प्ये च' इति विश्वः । अनेन वैदेशिकोऽयं वराक इति मयैतदुच्यते न कारणादित्युकम् । शक्यमिति । तथा च लमनुरागिणी भवेत्यर्थः ॥ मालती । अत्रात्मनो मम । किमपीत्यमङ्गलतयावचनीयं मरणमित्यर्थः । भीतायितेत्यत्राचारे क्यङ् । कि- मिति । तज्जीवनाय ममापि तत्रानुराग इति वक्तुमुचितमपि कुमारीत्वेनानुक्त- मतस्त्वं वदेति भावः । कामन्दकीं प्रति जनान्तिकमिदम् । माधवश्च गुप्तः ॥ माधवः । स श्रुत्वाह—दिष्ट्येत्यादि ॥ लवङ्गिका । अत्र एवंवादिनोत्यत्र कामावस्था गुरुजने लज्जया वक्तुमनर्हापि मालतीनिमित्तमाधवावस्थाश्रवणात्सापि तन्निमित्ता कथ्यत इति भावः । अस्माकं भर्तृदारिका परिजनं दुनोतीत्यन्वयः । आश्लिष्टं स्पृष्टम् । मुग्धो बालः । कन्दं बिसम् । बालकमलिनीमूलं मृदुतरं रवि- करस्पर्शानम्लानं च भवति । तदनेन दृष्टान्तेन निःसहलतनुत्वे अवयवानामुक्ते । तद्दशायामपि सौन्दर्यद्योतनाय सुन्दरपदम् । अधिकतररमणीयापीत्यनेन कामा- लिङ्गितकायस्य कान्तिप्रकर्ष उक्तः । अत एवापिविस्मये । अतिक्रान्तस्य सुख- जनकत्वेनैतस्येन दुःखजनकत्वे चित्रात् । दुःखप्रकारमाह—नाभीत्यादि । अत्र यत इत्याध्याहार्यम् । केलिः क्रीडा । कलाश्चतुःषष्टिः । यद्वा केलीनां कलां- शमात्रम् । कथं तर्हि दिनानि गमयतीत्याह—केवलमित्यादि । कमलयमानं
पृ० ५० ८४ २ ॰त्थम्मिअदि । जं च तस्सि जत्तादिअसे णिअ० । ३ ॰दंसणपडि० । ४ ॰भअवदो कामस्स विअ काम- काणणलंकारआरित्तसणो विवि० । ॰विब्भमाहिरामं अणुरूआणुराआणुबन्ध० । ६ ॰कोदूहलं समुल्लसिदस० । ७ पुलअडकम्पसुन्दरं आण० । ८ ॰विजम्भमाणुद्दाम- देहदाहदारुणं द० । प्रसारितम् । इदं भरतानुमतम् । यदाह—'अप्राप्ते च प्रिये कार्यः स्त्रीभिर्गण्डा- न्वितः करः' । पर्यस्तं क्षिप्तम् । निःस्यन्दः क्षरणम् । 'ईषदर्थे दराव्ययम्' इत्य- मरः । दलितं विकसितम् । माकन्दधूतः । पुष्पपरमत्र । 'माकन्दः सहकारे- ऽस्त्री' इति मेदिनी । एतेन वायोस्त्रैगुण्यमुक्तम् । यच्च प्रियसख्या यात्रादिने तस्य दर्शनसुखं समासाद
४६ जगद्धरकृता [ अङ्कः ३ पृ० ५० ८५ १ ०प्पफुरन्तकन्तदसणच्छदुच्छलन्तद० । मोत्तिआबलिक । २ ०पह्मलकन्तकपोल० । ईसविअसिअणि० । ०न्दम- न्दता० । ४ ०सुन्दरलाटपट्टणवचन्द० । ८ ०कदली- वत्तसंवाहणादिवा० । ९ ०जलद्वासअणीए उ० । १० ०सुहा सेअपञ्जरिदपाद० । ८६ १ ०मूलविसं० । २ ०णीसासवसवि० । ३ वरिणिहिदवे० ४ ०विसज्जिदुबिण्णदि० । कपोलपुलक एव वर्ण्यते कविसंप्रदायेनेत्यवधेयम् । मन्दतारं किञ्चिच्चलतारकम् । उत्तानमूर्ध्वविस्तृतम् । भावनोपनीतप्रिये लज्जादिदृक्षाभ्यामीषद्विकसितलम् । नि- ष्पन्दता मौग्ध्यात् । मन्दतारता नखदशनक्षतभावनया प्रियंप
अङ्कः ३ ] मालतीमाधवटीका । ४७ पृ० पं० ८६ ६ ॰णीसाससेसजीविदा किं० । ॰दामूढदाए पढमप्प० । ८ वावारं अह्मारिसं जणं क० । ९ ॰प्परिवेलवेसुअङ्गे । ८७ १ ॰स्स भविस्सदि । क० । २ ॰कोवोवराअप० । ४ ॰परिमलुग्गारसंवलणम० । ५-६ ॰मुहा वसन्तरअणी- परिणाहा अण० । ७ कामन्दकी—लवङ्गिके, यदि० । ८८ १ ॰एव हृदयोद्वेगो भ० ।
गलितो निःसृतः । अनेन युगपन्नासापुटनिःसरणमाह । मूर्च्छाविच्छेदे तथैव श्वा- सप्रवृत्तेः । जीवितेति । मोहे सखीजनसेकादिना मूर्च्छापगमे दीर्घनिःश्वासेन जीवतीत्यवधार्यत इत्यर्थः । किंकर्तव्येति । जीविता सती किं करोमीति न वेत्तीत्यर्थः । प्रथमेति । वयमेव प्रथमं म्रियामह इत्यर्थः । स्वयमनध्यवसायाल्ल- वङ्गिका कामन्दकीं पृच्छति—तस्मात्प्रेक्षतां भवतीति । पेलवं कोमलम् । दारुणत्वं देहदाहादिकारित्वात् । इमानि विभावरीमुखानि प्रियसख्याः कथ- मेवं भविष्यन्तीत्यन्वयः । उपरागो लौहित्यम् । पल्लवितः पल्लवाकारीकृतः । केरली केरलदेशस्त्री । तस्या अतिगौरत्वेन लौहित्यार्थ ग्रहणम् । उद्वेलन्पतन् । उद्दामदलितमतिदारितम् । इह दृष्टकेरलीकपोलसाम्येनोदितचन्द्रेण तिमिरावरण- नाशे रात्रेरुपक्रमः कथितस्ततश्चन्द्रस्य दुःसहता मालत्या ध्वनिता । परिमलितं कृ- तम् । निर्मन्थनं मर्दनम् । उद्गार उद्गमः । संवलनं मिश्रीभावः । मसृणं मन्दम् । मांसलः पुष्टः । धूमायितं धूमेनेवाकुलीकृतम् । परिणाह आभोगः ॥ काम- न्दकी । एवं श्रुत्वा कामन्दकी तटस्थेवाह—यदीत्यादि । यदि तद्विषयोऽनु- रागस्तदा गुणज्ञतायाः प्रत्युक्तमेतद्विशिष्टं फलम् । तदा सैव गुणं जानातीत्यर्थः । एतद्धीति पाठ एतद्गुणज्ञतायाः फलमेवेत्यर्थः । हिरवधारणे । इति नन्दितमानन्दं प्रापितमपि मे हृदयमस्या अवस्थया विदार्यते । एतदवस्थतया मरणमप्यस्याः संभाव्यत इति भावः ॥ १३ ॥ माधवः । स्थाने युक्तम् । स्थानेशब्दोऽत्र योग्य- वाची । ह्लासो हृदयशोषः । कामन्दकी । प्रकृतीत्यादि । अस्या वपुरिदं स्वभावसुन्दरं सौकुमार्यमेवैकः सारः स्थिरांशो यत्र तत् । एतत्सत्यं निश्चितम् । अयमेव कामचरितानुभावात्कामोऽप्ययं निर्दयः । अदोऽपि सत्यम् । पञ्चबाण इत्यनेनैकबाणापेक्षया दुःसहत्वमुक्तम् । अयमपि कालश्चलन्मलयानिलकम्पि- तचूतपुष्पशारचन्द्रभूषणश्च । कथमिति शिरश्चालने । हिमादेरपगमाच्चारु- चन्द्रत्वम् । तदीदृशेऽनर्थहेतौ कथमियं जीविष्यतीत्यहो प्रमादः । अत्र नाथपदेन चित्रगतस्यापि माधवस्य मालतीनाथत्वं ध्वनितम् ॥ १४ ॥ लवङ्गिका । विरचितेति हेतोः । जीवितफलक्लृप्ताज्जीवितम् । कार्यकारणयो-
४. अङ्क ९-१०: श्रीपर्वत गमन, सौदामिनी योगशक्ति, मालती-पुनर्मिलन एवं सर्व-कल्याण उपसंहार
१८ जगद्धरकृता [ अङ्कः ३
पृ० ५० ८९ १ माधवः—(सस्पृहम् ।)० । ७ ॰संकरघराधिवासिणो जणवदा० । ॰रम्भणवसंभरि० । ८ ॰पञ्जरणिबद्धसिङ्ख- लाणिरोहपडिभङ्गसंकलिदणिअलीला० । ९ ॰सुवेल्लन्त- बहलुत्तुङ्ग० । १० ॰न्तिअडम्बरुद्दा० । ९० १-२ ॰कन्दरो पअण्डवज्जणिघाददारुणचवेडामोडणपा- डिदाणेअणरतु० । ३ ॰दम्भपडिरवाभीअसाविदणट्ठ- विद्वाविदा० । ४ ॰कप्परक्रमणणिद्ददारिदज० । ५ ॰डूलो
रमेदात् । माधवः । स्तनांशुकापनयनेन व्यक्तस्तनदर्शनात्सस्पृहम् । जितमि- त्यादि । सखि बकुलमाले, त्वयेह भुवने जितम् । यतः प्रौढमृणालदण्डपा- ण्डुरमनोहरस्तनविस्तारविलासपताकेवास्या मालत्या वल्लभा जातासि । मालती- वल्लभत्वात्सखीत्युक्तम् । हृदयधारणेन वल्लभेत्युक्तम् । तथा च मालत्यालिङ्गनं तव संपन्नं न ममेति भावः ॥ १५ ॥ कलकलः कोलाहलः । पुनर्नेपथ्य इति । अत्रैष व्याघ्रः क्षुद्वयमविलासं कुरुते । सर्वं भक्षयतीत्यर्थः । मठाच्छात्रादिगृहात्रि- र्गत्य । कीदृशः । यौवनारम्भेण प्रवृद्धौ यौ दुःसहावक्षान्तिक्रोधौ तयोर्मिलनेन यो बलात्कारस्तेन विघटितं त्यक्तबन्धीकृतमुद्घाटितं मोटितं च यल्लोहपञ्जरं तत्र प्रतिबद्धशृङ्खलानिरोधप्रतिभङ्गो विपरीतभङ्गस्तेन संकलिता मिलिता या निजलीला तद्विलासपर्यन्तमुद्वेल्लन्कम्पमानोऽत एवोच्छलन्नूर्ध्वं गच्छन्यो बहल- तुङ्गलाङ्गूलः स्थूलोच्छितलाङ्गूलस्तस्य विस्तीर्णवैजयन्तिकासदृशप्रपञ्चेनोड्डामर उ- त्कटकठोराक्रियः शरीरसंनिवेशो यस्य सः । परगुणासहिष्णुतामर्षः । रोषः क्रोध एव । यद्वा स्थिरः क्रोध एवामर्षः । यदाह—'क्रोधः कृतापराधेषु स्थिरोऽमर्ष इति स्थितः । प्रतिकूलेषु तैक्ष्ण्यस्य प्रबोधः क्रोध उच्यते ॥' यद्वा अमर्षोऽक्षान्तिः । तत्क्षणं सतृष्णं कवलिता येऽनेकप्राणिशरीरावयवास्तेषां मध्ये कठोराणि यान्य- स्थीनि तेषां खण्डे खण्डने यटङ्कारो ध्वनिर्भेदस्तेन कटकटायमानाः करपत्रवत्क- ठिना या दंष्ट्रास्ताभिः कराळो भीषणो मुखकन्दर आस्यकुहरं यस्य सः । टङ्कारेण दुर्भेद्यत्वमुक्तम् । दुर्भेद्यप्रवृत्तौ दन्तानां कटकटाशब्दकरणं स्वभावः । विस्तीर्णला- ङ्गूलकन्दर इव कन्दरः । प्रचण्डवज्रप्रहारदारुणो यश्चपेटः पाणितलप्रहारस्तेन यदामो- टनं चूर्णनं तेन कवलिता आस्वादिता येऽनेकनराखुरङ्गाश्च तेषां जाङ्गलं मांसं तस्यो- द्गारेण प्रपूरणेन भरितो यो गलगुहागर्भस्तत्र गम्भीरो घर्घरो दीर्घमधुरो य उरलिर्ग- ल्गर्जितं तेन यो गल्हपूरणशब्दस्तस्य संदर्भेण समूहेन प्रतिरवाभोगः प्रतिशब्दवि- स्तारस्तेन भीषितो भयं नीतो नष्टो विद्राणो निष्ठापितो निष्ठापर्यन्तं लम्भितोऽशेषज- ननिवहो येन सः । कठोरनखकर्पराक्रमणेन निर्दयं दारितं यज्जन्तुशरीरं ततः प्रवृत्त- रक्तेन संजातरुधिरेण कर्दमीकृतो गतिपथो गमनवाटो येन सः । कर्पर इव कर्परः ।
अङ्कः ३ ] मालतीमाधवटीका । ४९ पृ० प० कुविअक० । ६ ०ता रक्खध जहासात्ति पिअसहीए मदअन्तिआए जीवि० । ९१ ६ माधवः—(ससंभ्रममुत्थाय ।) बुद्ध० । ९२ ४ माधवः—(साटोपं परिक्रामति ।) । ४-५ काम- न्दकी—अप्रमत्तो भूत्वा विक्रमस्व । ०खु जादो । (सर्वास्त्वरितं परिक्रामन्ति ।) ९३ ३ ०तदभिपाति० । ०युधः पूरुषात् । ६ ७ ८ काम- न्दकीमाधवौ—(सभयम् ।) दृढं च पशुना हतः । इतराः—अच्छाहिदं अच्छाहिदं । कामन्दकीमा- निम्नत्वात् । 'उरल्लिंर्गलगर्जितम्' इति रत्नकोशः । माधवः । मदयन्तिका- परिरक्षणत्वरयाह—कासाविति । मालती । अम्महे सभयहर्ष आश्चर्य वा । एषोऽपीहस्थ एव । अत्रापिर्विस्मये । यस्यावस्था भगवत्योक्ता, यन्निमित्ता वा ममेयमवस्था स एष इति भावः । स्वच्छन्दप्रियालोकनतुष्टस्य माधवस्योक्तिः— हन्तेत्यादि । अविरलेत्यादि । अयं श्लोको गद्यादिः । हन्त हर्षे । अचि- न्तिनोपस्थितदर्शनानन्दितलोचनयानया चक्षुषा पौण्डरीकेणेव दाम्ना स्रजाविरलं घनं यथा तथाहं नद्धो बद्धः । आवृत इति यावत् । कान्तालोकनेन सात्त्विकभावा- विर्भावात्सखीयास्तम्भं ज्ञात्वा नद्ध इत्युत्प्रेक्षितम् । अत्राविरलपदेन पौनःपुन्यं पुण्डरी- कपदेन श्वेतभागविभावनं च ध्वनितम् । दुग्धस्रोतसा दुग्धाम्भःप्रवाहेण निर्भरेण निरतिशयेन संसक्तेन वा स्रपित इवाहुत इवाहम् तथाविधालोकनजातो रोमाञ्च- तया स्रपितत्वेनोत्प्रेक्षितम् । अत्र निर्भरपदेन परिचयपर्यवसानतोक्ता । एवं च द्वाभ्यां नेत्रनैर्मल्यमुक्तम् । कृत्स्नो निःशेषोऽहं स्फारितेन विस्तारितेन चक्षुषा कब- लित इव पीत इव । स्फारितत्वेन कवलनयोग्यतोक्ता । कवलनेन बाह्यसंवेदना- भावात्प्रणय उत्प्रेक्षितः । सान्द्रेण निबिडेन सुधामयजलधरेण प्रसभं बलात्सिक्त- इवाहम् । आनन्दातिशयशालितयामृतसिक्तत्वेनोत्प्रेक्षा । तदिह माधवस्य परम- निर्वृतिसौख्यमुक्तम् । तत्र च प्रथमपदेन तारकातरलता, द्वितीयेन गोलकचाञ्च- ल्यम्, तृतीयेन पुटविस्तारो विलासश्च, चतुर्थेन चैतन्न्रयसंपत्तौ पुष्यवत्तोपपादनम्, तत्रापि मेघपदेन संतापशान्तिः, अमृतपदेन स्तम्भसंभावना, प्रसभपदेन तत्सं- गतिरेव विपत्प्रतीकार इति सूचितम् । सेचनपदेन तस्मिन्दरालोकनेऽसंपूर्णता- सान्द्रपदेन तात्कालिकसकलक्लेशविलयः सूचितः । स्रोतसां निर्झरेणेति पाठे निर्झ- रेण प्रवाहेणेत्यर्थः ॥ १६ ॥ बुद्धरक्षिता । कासाविति प्रश्नस्योत्तरमिदम् ॥ माधवः । साटोपं सावेगम् ॥ कामन्दकी । अप्रमत्तं सावधानम् । क्रियावि- शेषणमिदम् ॥ माधवः । रुधिरादिकं वीक्ष्य सभीभत्सं सगृध्रम् । अहह विस्मये
पृ० प० द्वौ—(सहर्षम् ।) प्रमथितश्च दंष्ट्रायुधः । इतराः— (सानन्दम् ।) दिट्ठिआ पडिहदं दुज्जादं ॥ १० ०त- लनिषक्तेन । ९४ २ ०रोसि । तदेहि तावत्पश्यामः । इति शार्दूलविद्रावणो नाम तृतीयोऽङ्कः । खेदे घृणायां च ॥ संसक्केत्यादि । नखायुधस्य व्याघ्रस्य मार्गः प्राचण्ड्यं रौद्रत्वं वहति । कीदृशः । संसक्तः संलग्नस्त्रुटितश्छिन्नो विवर्तितः खण्डखण्डीकृ- तोऽन्त्रजालमन्त्रसमूहस्तेन व्याकीर्णं व्याप्तं सद्यो हतत्वात्स्फुरत्किञ्चिच्चलदपवृत्तम- धोमुखं रुण्डखण्डं कबन्धरूपं शकलं यत्र सः । उरुबुकेति पाठ उरु महत् बुकमग्र- मांसम् । कीलालव्यतिकरेण रक्तसङ्गेन गुल्फदघ्नो गुल्फपरिमाणः पङ्कः कर्दमो यत्र । अत एव बीभत्सयोगित्वम् । 'कबन्धे रुण्डमस्त्रियाम्' इत्यमरः । 'कीलालं रुधिरे तोयम्' इति मेदिनीकारः । प्रमाणे द्वयच् । 'पङ्कः पापे च कर्दमे' इति विश्वः ॥ १७ ॥ वयमिति । वयमित्यादिना दंष्ट्रायुधपर्यन्तेन पृथ्वीच्छन्दसा श्लोकः स वाचनिकः । वयं तस्य व्याघ्रस्यातिदूरतः पशोः क्रमगता आक्रमणं प्राप्ताः । क- न्यका मदयन्तिका । कथं मकरन्दः कुतोऽपि स्थानादेत्यागत्य शीघ्रं मध्ये व्याघ्र- मदयन्तिकयोः स्थितः । तेन व्याघ्रेणावपातिताद्गृ
चतुर्थोऽङ्कः । पृ० प० ९५ ६ ॰पटाञ्चलेन वत्सौ वीजयन्तु । ९६ १ सहि लवङ्गिए, दि० । २ ॰भणामि पडिबुद्धो जेव ते पिअवअस्सो पडि० । भाओ मअरन्दो त्ति । ४ ॰जीवितवत्सा० । ११ ॰क्खु अण्णाणसेसु० । ९७ ७ ॰र्नर एव० । १३ ॰दिष्ट्या सुहृद्बुद्ध्या वर्धसे । १४ ॰सरः प्रीतिदायस्य । १७ कारुण्याद्विहित० । ९८ ८ ॰जाणादि महाभाअधेओ जणो अवसरे गुरुअरमणिज्जं मन्तिदुं । ७ ॰हविस्सदि । माधवः—वयस्य, का पुनर्ममाधिकोद्वेगहेतुर्वार्ता । १२ ॰यावः प्रमोदमि० । तत इति । संभ्रान्ता व्याकुला ॥ मदयन्तिका । अत्रापन्नामापद्गताम् ॥ मदयन्तिका । अम्महे हर्षे आश्चर्ये वा ॥ मालती । वर्धस इ
५२ जगद्धरकृता [ अङ्कः ४ पृ० पं० ९९ ६ °शिषां पहावेण। स०। ७ फलिदा णो०। ९ °क्खिदे दाणीं विवाहमहूसवं०। १० बुद्धरक्षिता—सहि, एहि गच्छम्ह। (इत्युत्तिष्ठतः ।)०। ११-१२ °जहा एदे हिअअभरिदुब्भित्तविह्मआणन्दसुन्दरं आन्दोलाअन्तधी- रपेरन्तमणो०। १०० २ °कन्दोट्टदामसरिच्छा कडकखविक्खेवा तहा तकेमि मणो। ३ °णिव्वृत्तसंबन्धा ए०। ४ नन्विमौ विलो- कनेन मानसं मुहुर्मुहुर्मोहनमनु०। ७ °स्तिमितलुलितं०। ८ °सृणं स्तम्भनि०। भेदम्। संभावयामः कारयामः। उत्सवपूर्वको हर्षः प्रमोदः। मदयन्तिका। मद्भ्रातृवधूर्भविष्यसीति भावः। कामन्दकी। नोशब्दोऽस्माकम
अङ्कः ४ ] मालतीमाधवटीका । ५३ पृ० प० १०१ १ वत्स इत इतः । ४ ०अणुऊलं भविस्सदि त्ति । ८ ०तिष्ठामव्याजं व्रज० । विधिः स्वास्थ्यं ध० । १०२ ५ (प्रकाशम् ।) पृच्छामि तावदायुष्मन्तम् । अपि भवा- नमंस्त यथा भूरि० । ८ ०स्थायाः परिहीयसे ।
दृष्टिरसूयायां जडतालस्ययोस्तथा' इति । दृष्टिद्वयेन सुरतप्रागवस्थोक्ता । प्रेम्णा उद्वेगादतिपरिपाकात्स्तिमितं स्थिरं लुलितमर्धमुकुलितं च । अर्धमुकुलितेयं दृक् । यदाह—'अङ्गादिश्वर्धमुकुला गन्धस्पर्शसुखादिषु । अर्धव्याकोपपद्माप्रप्रस्तार्ध- मुकुलैः पुटैः ॥ स्मृतार्धमुकुला दृष्टिः किञ्चित्कीलिततारका' । अनेन रताभोग उक्तः । नखदशनक्षतादिशङ्कया मानं सूचयति । किञ्चिदाकुञ्चिते आनमिते भ्रुवौ यत्र तत् । एकस्या एव भ्रुव उत्क्षेपणं कुञ्चनमिह । यदाह—'एकस्या एव उत्क्षेपो भ्रुवः कुञ्चनमुच्यते' । कोपे चास्य प्रयोगः । यदाह—'कोपे वितर्के हेलायां ली- लादौ सहजे तथा । दर्शने ग्रहणे चैव भ्रुवमेकां समुत्क्षिपेत् ॥' मानस्याल्पत्व- सूचनार्थमाङ्प्रयोगः । रतावसानमाह—हृदये हर्षानुभवेन मसृणं स्निग्धं मन्दं वा । रतान्ते लज्जामाह—स्तम्भं लज्जान्विततया परितोऽर्धपुटत्वात् । कथं पुनः संभोगो भावीति चिन्तया निष्कम्पम् । शून्यतया निष्कम्पं वा । तादृशं पक्ष्म यत्र तद्विच्छेदमाह—आकेकरमक्षि यत्र तत् । 'आकेकरा त्वरालोके विच्छेदे प्रोषितेषु च' इत्याद्युक्तम् । तदिहाकेकरलक्षण आकुञ्चितेत्यादि प्रथमपदेनोक्तम् । द्वितीयेन मुहुर्व्यावृत्ततारेत्युक्तम् । तृतीयेन हर्षितार्धेत्याद्युक्तम् ॥ २ ॥ मद- यन्तिका । अपिनाम संभावनायाम् । अव्ययसमुदायत्वात् । माधवः। करु- णावस्थामाह—चिरादित्यादि । चिराशङ्कित आशातन्तुर्मावतीप्राप्त्याशारूप- हृदयावलम्बनं संप्रति भिद्यताम् । बिसिनीसूत्रवद्भिदुरो भेदनस्वभावो यतः । भिदेः कर्मकर्तरिति कुरच् । संभूय त्रुटितत्वेन मृणालतन्तुसाम्यम् । नैराश्यान्म- रणमाह—आधिर्मनोव्यथा तद्रूपो व्याधिरनवच्छिन्नोऽत एव महान् । व्याप्नोतु । इह महत्त्वनिरवधिलाभ्यां मरणमाह । आशाच्छेदनान्तरं च मरणमुचितमेव । यदाह—'सर्वैः कृतैः प्रतीकारैर्यदा नास्ति समागमः । कामाग्निना समाप्तस्य जायते मरणं ततः ॥' स्त्रीहेतुमरणादधीरत्वमाशङ्क्यानुशोत्तरमाह । पारिलवधुरा चपलकक्षा सत्यं स्थितिं मयि बध्नातु । अभीष्टलाभेन विधिर्निराकुलो भवतु । मालतीं विना दुःसहवेदनादायी मनोभूः कृतकृत्यो भवतु । मरणादधिकं किं कर्तव्यमित्यर्थः । एतदुपालम्भगर्भं वच उद्वेगात् । यदाह—'इहाहचिन्तानिः- श्वासग्लानिखेदप्रजागरैः । रोदनैर्मन्दभणितैर्दैवोपालम्भनेन च ॥' इति । समा- नेत्यादि । वामारम्भे प्रतिकूले विधौ ममैषा परिणतिः पूर्वोक्ता युक्तैव । की- दृशस्य । तुल्यप्रीतिं दुष्प्रापं जनं याचितवतः । वामे हि विधौ सुलभमपि न लभ्यते किं पुनरसुलभमिति भावः । दृष्टकारणस्यानुपलम्भाद्दिघेर्वामत्वम् । अ-
न्द्रकान्ति कापि विगतकान्ति भवति । अथ च प्रातश्चन्द्रोपमया राघवनेर्विधिं प्रति मालतीकोपोऽपि सूचितः ॥ ४ ॥" Wait, in verse 4: "प्रातश्चन्द्रमसो यथैव रुचिरस्यालोकमात्रावधिः"! And who is "राघवनेर्विधिं"? Ah, "राघवनेर्विधिं" is in the print!
Now, what is verse 7 in Act 4? Let's check verse 5: कामन्दकी— "मा चेति..." "विवाहानिर्वोहे मरणरूपं शङ्कनीयं..." -> verse 5! "दयेत्यादि..." -> verse 6! Verse 6: "दयेत्यादि । हे भगवति, अस्मिन् शिशुजने बालजने माधवे मालत्यां च दया करुणा स्नेहो ममता च संसाराद्विरक्तमपि भगवत्याश्चित्तं द्रवयत्यार्दीकरोति ।... ॥ ६ ॥"
Now, what is verse 7? "माधवः । लोकयात्रा दर्शनादिकम् । अहो नु खलु भो इत्यव्ययसमुदायो निर्वेदे । सुहृदित्यादि ।" Aha! Verse 7 starts with "सुहृत्..."! Let's find the verse: "सुहृत्..." "एकत्रैव रसो रतिर्यस्यास्ताम् । यद्वा । एक एव
अङ्कः ४ ] मालतीमाधवटीका । ५५
पृ० प० १०६ १ ॰समारम्भसरिसो परिणा० । ३ इदो । (इति कामन्दक्या सह निष्क्रान्ते ।) ७॰विक्रयादन्यमुपा०।८॰मदयन्तिकायाः। १०७ ३ माधवः—सुलभैव बुद्धरक्षिताप्रियसखी भवतः । शयितां करोति । कीदृशः । अकाण्डादकस्माद्विवर्तनेनान्यथाभावेन विरुद्धवर्तनेन वा । दारुणो दुःखदायी सुहृदिव । यथा मित्रमानुकूल्यमुत्पाद्य सुखप्रदं सदकाण्ड एव विरुद्धाचरणान्मनःपीडां करोति तथेत्यर्थः ॥ ७ ॥ मालती । पुनर्दर्शनं न भवितेति भावः । अत एवैतावदित्यनेन करुणा । नयनानन्देत्यनेनानुरागः । मालती । अत्र पुरा विरहदशायां माधवप्रतिच्छन्दकादिदर्शनाद्धारितस्य जीवितस्य पर्यवसानं वृत्तमिति परिणतपदस्यार्थः । कापालिकत्वं नृशंसता । अघोरघण्टस्य सूचनमप्येतत् । माधवः । जन्मसाफल्यं मालतीप्राप्त्या । महामांसेति भाव्य- ङ्कसूचनम् । वीरहस्तान्मांसं गृहीत्वा वीरायाभिमतवरदानमिति श्मशानसिद्ध- योगिनीमतम् । यद्वा उभयथा मरणमुपस्थितम् । महामांसविक्रये मालतीला- भोऽपि शङ्क्यत इति तत्करणम् । मांसविक्रयस्य मकरन्दसंनिधावशक्यत्वान्म- करन्दं मदयन्तिकां प्रत्युत्कण्ठयति—वयस्येति । मदयन्तिकायाः कृत इति शेषः । यद्वा अधीगर्थेति कर्मणि षष्ठी । मकरन्दः । अथ किं स्वीकारे । तन्म इत्यादि । तन्मम चित्तं हरति यदेतादृशैरङ्गैर्मामालिङ्गितवती । सरसः सरक्तः प्रहारो यत्र तादृशं मामवलोक्य । अत एव त्वरयागणितं स्खलत् प्रश्रथदुत्तरीयं स्तनावरणवासो यस्याः सा । एतेन निरन्तरस्तनस्पर्शः सूचितः । अत एवान- न्दसंदोहदायित्वादमृतसिक्तैरिव । भयवत्त्वेन त्रस्तैकवर्षीयहरिणस्येव चञ्चला दृष्टिर्यस्याः सा । 'वर्षोऽब्दो हायनोऽस्त्री स्यात्' इत्यमरः ॥ ८ ॥ माधवः । त्रासेन तदालिङ्गनं न तु स्नेहादिति शङ्कापनोदाय दूतीसुलभतयानुरागमेवाह— सुलभेति । प्रमथेत्यादि । सा तवालिङ्गनं प्राप्यान्यत्र कथं रमताम् । अपि- तु नैव । इवशब्दोऽनवक्लृप्तौ । कुलीनैकमालिङ्ग्य नान्यत्र रमत इति भावः । कीदृशस्य । क्रव्यमाममांसमत्तीति क्रव्याद्व्याघ्रः । तं विनाश्य मरणकाले तां रक्षितवतः । एतेन कृतोपकारितोक्ता । अतोऽपि नान्यत्र रमते पद्माक्ष्याश्चक्षुषो- स्तथा तेन प्रकारेण त्वयि व्यापारश्च व्यक्तः स्नेहात्स्तिमितो मन्दोऽत एव रमणी- यश्चिरमभूत् । रागेण तया साभिलाषमालोकितोऽसीति भावः । एतेनानुराग उक्तः । यदाहानुरागप्रकरणे, 'तुल्यस्य कथामिक्षु सस्नेहं च निरीक्षते ॥' 'क्रव्यमामिषमुद्भासम्' इति हारावली ॥ मकरन्दः । पारा च सिन्धुश्च ते नद्यौ तयोः संभेदः संगमः । अवगाह्य विलोक्य । स्नात्वेति यावत् । क्लमशान्ति- हेतुतया महामांसादानहेतुतया च स्नानम् । माधवः । व्यतिकरः संगमः । जलेत्यादि । वधूर्नारीभिः सेविततटदेशः । कीदृशीभिः । जलेन निबिडित- मश्लक्ष्णं यद्वासस्तेन व्यक्तौ निम्नोनतौ जघनादिस्तनाद्यौ यासाम् । अत एव
५६ जगद्धरकृता [ अङ्कः ४ पृ० पं० अ० । १० मकरन्दः—तदुत्तिष्ठ । पारासिन्धु । माधवः—अय० । नद्योः संभेदः । १०८ ४ इति शार्दूलविभ्रमो नाम चतुर्थोऽङ्कः । स्नानमात्रोत्थिताभिः । मात्रपदेन स्नानार्द्रवस्त्रापरित्यागः सूचितः । अत एव चाह्लादहेतुतया स्नानमपि । तौ दृष्ट्वा तासां लज्जामाह मनोज्ञस्वर्णघटशोभावनाव- भोगः परिपूर्णता तयोरुच्चकुचयोस्तयोर्विनिहितौ दत्तौ हस्तावेव स्वस्तिकौ याभि- स्ताभिः । हस्ताभ्यां स्वस्तिकोऽन्योन्यवामदक्षिणविन्यासः । यदाह—'मणिबन्ध- विन्यस्तावरालौ स्त्रीप्रयोजितौ । उत्तानौ वामपार्श्वस्थौ स्वस्तिकः परिकीर्तितः ॥' अरालश्चैवम्—'आद्या धनुर्लताकारा कुञ्चितोऽङ्गुष्ठकस्तथा । शेषा भिन्नोर्ध्वव- लिता अरालेऽङ्गुलयः करे ॥' कन
तत इति । संप्रति प्रमथ्य क्रव्यादमित्यनेनाघोरघण्टकपालकुण्डलाप्रवेशे सू- चिते महामांसविक्रयप्रतिज्ञया च माधवस्य श्मशानप्रवेशे सत्यावतारः । आका- शयानेन प्रवेशो योगसिद्धिसूचनाय । भीषणा भयंकरी । उज्ज्वलवेषा विशुद्धश- रीरा । एतदपि योगिनीत्वादेव । षडधिकेत्यादि । स शक्तिनाथः शिवो ज- यति जययुक्तो भवति । कालसामान्ये भवदिति वक्तव्ये भाष्यकारवचनात्काल- त्रितयेऽपि वा लट् । श्मशाननाथस्य जयेन श्मशानसाधनसिद्धिः सूचिता । की- दृशः । अविचलितं निस्पन्दीभूतम् । विषयान्तरव्यावृत्तमिति यावत् । मनो येषां तैः साधकैर्मृग्यमाणोऽन्विष्यमाणः । अनेन ध्यानानुष्ठानमुक्तम् । यदाह—'रूप- वर्णप्रमाणाद्यं परिकल्प्य सुबुद्धिना । तथा ध्यायेत देवेशं यथा चित्तं स्थिरं भवेत् ॥' चित्तस्थैर्यं तु निर्विषयतयैव । यदाह—'मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धस्य विषयासङ्गि मुक्तेर्निर्विषयं मनः ॥' तथाच निराकारोऽप्ययं सहसैव न साक्षात्कारविषयो भवतीति न योग्यानुपलम्भमात्रेण निरस्य इत्यपि कटा- क्षितम् । शक्तिभिर्ब्राह्मीमाहेश्वरीकौमारीवैष्णवीवाराहीमाहेन्द्रीचामुण्डाचण्डिका- ख्याभिरष्टाभिः परितो नद्धो वेष्टितो भैरवमूर्तित्वात् । यद्वा शक्तिभिर्ज्ञानेच्छाप्रय- त्नात्मिकाभिः परिवृद्ध उपचितः । अत एव शक्तीनामणिमादीनां नाथः प्रभुः । अत एव जयति सर्वोत्कृष्टो वर्तते । कीदृशः । षट्सु कर्णनाभिहृत्कण्ठतालुभ्रू्म- ध्यवर्तिषु शिवशक्तिसंघट्टस्थानेषु नाडीसंघट्टेषु हृद्याद्यधिष्ठितप्राणविशेषचलनयोगा- च्चक्रेष्विव मध्येऽधिकं प्रधानं यद्दशनाडीचक्रमिडापिङ्गलासुषुम्णागान्धारीहस्तिजि- ह्वापूषालम्बुषाकुहूशङ्खिन्याख्या दशनाड्यो हृद्गतैकोत्तरशतसंख्यासु तिर्यगूर्ध्वो- धोगतनाडीषु प्रधानतमास्तासां चक्रं तस्य मध्ये पद्ममध्यवर्तिसूक्ष्माकाशदेशे प्रा- णाद्याधारे स्थित आत्मा कूटस्थो नित्यो यस्य स तथा । तत्र प्रमाणम्—'आशि- रःश्रवणं देहं यद्यपि व्याप्य तिष्ठति । तथाप्यस्य परं स्थानं हृत्पङ्कजसमुद्गकम् ॥' इति । स्थितिरपि तस्य तत्र परमात्मतत्त्वाविर्भाव एव । यद्वा । षड्भिरधिका दशनाड्यः षोडशसंख्यास्तासां चक्रं तत्रमध्ये स्थितश्चासावात्मा चात्मस्वरूपः । तदुक्तम्—'सर्वं शिवमयं मतम्' इति । यद्वा षडधिकं यद्दशनाडीचक्रम् । मतभेदे- नैते पक्षाः । हृदि हृत्पद्मे विनिहितरूपो ध्यानमूर्तिः सन्यस्तद्विदां शिवसाक्षात्का- रवतां सिद्धिदोऽणिमाद्यैश्वर्यप्रदः । अत्र मानम्—'ईश्वरः सर्वभूतानां हृद्देशे- ऽर्जुन तिष्ठति' । 'सकलं चिन्तयत्तस्मात्सिद्ध्यर्थं सततं शिवम् । ध्यानेन तत्परं गच्छेदैश्वर्यगुणाष्टकम् ॥ महिमा लघिमाणुत्वं प्राकाम्यं वशितेशिता । प्राप्तिः कामावसायित्वं शम्भोरैश्वर्यमष्टधा' । मृग्यमाणोऽप्ययं केनापि ज्ञायते न तु सर्वे- ण । यदाह—'यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः' इति । यद्वा तद्विदां ताः सिद्धीरुपायदेशकालप्रमाणेतिकर्तव्यताभिर्ये विदन्ति तेषां सिद्धिदोऽभिलषित- सिद्धिद इत्यर्थः ॥ १ ॥ आत्मनि योगसिद्धिमाह—नित्यमित्यादि । इयमह-
५८ जगद्धरकृता [ अङ्कः ५ पृ० प० ११० ५-६ अपि च । ६ ॰उल्लोलस्खलि॰ । मिदानीमभ्यागताभीष्टस्थानाभिमुखमागता श्रीपर्वतादित्याक्षेपात् । कीदृशी । बिम्बस्वरूपमात्मानं पश्यन्ती । लयवशाच्चित्तैकाग्रतया । अनेन सर्वेषां तत्प्रकाशो- ऽपास्तः । कीदृशम् । निलयमविनाशिनम् । न्यस्तानि देहे मन्त्रन्यासेनार्पितानि यानि षडङ्गानि हृदयशिरःशिखानेत्रकवचास्त्राणि तेषां चक्रे समूहे निहितमारोपितं मन्त्रन्यासेन । यदाह—'षडङ्गमेतत्कथितं सर्वसिद्धिप्रदायकम् । न्यसेद्वै भक्तियु- क्तात्मा साधको ज्ञानचिन्तकः ॥ त्रिकालमेककालं वा शरीरे विन्यसेद्बुधः' । अनेनाङ्गावरणमुक्तम् । नित्यन्यस्तेति पाठे निलयं प्रत्यहं न्यस्तानीत्यर्थः । हृत्पद्म- मध्ये हृत्कमलकर्णिकायां ध्यानाभ
:
It's मृगाङ्काश्नि-? Wait, 'श' + 'न' + 'ि' -> 'श्नि'?
Wait, look at 'श्नि': could it be 'श्लि'?
Wait, could it be "मृगाङ्क" + something?
Look at the characters:
मृ (mṛ)
गा (gā)
ङ्का (ṅkā)
then: an i-matra, over what? 'श' + 'च'? 'श्चि' (śc)? Or 'श्नि'? Or 'श्म'?
Wait, look at the bottom: a small loop to the right: looks like 'नि' or 'चि'.
Wait, look at the hyphen: there is a hyphen - at the end!
So the word continues on the next page!
Let's look at the letters: मृ - गा - ङ्का - ?
Could it be मृगाङ्काश्चि- (from मृगाङ्काश्चर्य or something)?
Wait, look at the letter: it has 'श' with a loop below, which is 'च' (श्च), so with i-matra it's 'श्चि'!
Wait, does it have 'च' or 'न'? 'श्च' has a horizontal oval loop. Here it has a loop hanging down.
Wait, let's compare with 'श्च' in line 18: 'हेतुश्च': 'श्च' has that exact same round loop!
Yes,
६० जगद्धरकृता [ अङ्कः ५
पृ० प० ११५ १ अतिमुक्तमङ्गयो० । ३ अपि कर्णजाह० । ४ तदङ्ग- परिवर्तमा० ।
रतिशया भा यत्र तादृशमाननं यस्य । अत एव हेयत्वार्थं मृगाङ्कपदेनोपन्यासः । यस्य वामः पाणिविनयं हरत्यपनयति । तत्र हेतुमाह । प्रविगलदसृक्पङ्कः स्रवद्रु- धिरकर्दमः । ललच्चञ्चलं नरजाङ्गलं महामांसं यत्र सः । न हि विनीतो रक्तं महा- मांसं च धारयति । अत्र पूर्वार्धेन ललितमुत्तरार्धेन विकटत्वमुक्तम् । अत एव व्यक्तसाहसः । महामांसधारित्वेन वीरबीभत्सरसावुक्तौ । यदाह—'उत्साहाद्यव- सायाद्विस्मयहर्षाच्च मोहाच्च । विविधाद्वन्धविशेषाद्वीररसो नाम संभवति ॥ अन- भिमतदर्शनेन च गन्धरसस्पर्शशब्ददोषैश्च । उत्तेजनैश्च बहुभिर्बीभत्सरसः समुद्भव- वति ॥' दधदित्यत्र 'नाभ्यस्ताच्छतुः' इति नुमो निषेधः । 'जङ्गलं निर्जनस्थाने त्रिलिङ्ग्यां पिशितेऽस्त्रियाम्' इति मेदिनीकारः ॥ ५ ॥ पणायिता विक्रेता । विगलितप्रायो भ्रष्टप्रायः ॥ व्योम्न इत्यादि । गगनस्योपान्ता ध्वान्तलताभिर्व्या- प्यन्ते । तमालपुष्पस्तबकपङ्क्तिभिरिव । एवं च पृथिव्युपान्तभागेन नूतने जले मज्जतीव । उत्प्रेक्षेयम् । त्रियामा रात्रिः । प्रारम्भे प्रदोषमात्रेऽपि नीलत्वं निजं वनेषु तरुणयति । कीदृशम् । वातानां समूहो वात्या तस्याः संवेगेन निवर्तनेन विष्वक् चतुर्दिशं वितता विस्तारिता वलयिता वलयाकारा स्फीता गभीरा या धूम्या धूमसमूहो नीहारो वा तत्सदृशम् । एवं चान्धकारोपमाद्गतप्राया संध्ये- त्यर्थः । 'धूम्या धूमसमूहेऽपि नीहारेऽपि निगद्यते' इति धरणिः ॥ ६ ॥ साशंसं सप्रार्थनम् । प्रेमेत्यादि । मुग्धदृशो मालत्यास्तास्ता अनुभूताश्चेष्टाः संभोगे चुम्ब- नादयो मयि पुनर्भूयासुः । 'चेष्टाविशेषाः संभोगे चुम्बनालिङ्गनादयः' इति कण्ठाभरणम् । कीदृश्यः । प्रथमं प्रेम्णा संभोगप्रीत्यार्दा इव तापशान्तिहेतुरोमाञ्चा- दिजनकत्वात् । ततो विश्वासमुपेत्य चित्तप्रसादस्पृशः । ततः परिचयात्सुखास्वा- दभेदादुद्भूतरागोद्रेकाः । निसर्गमधुराः सहजमनोज्ञाः । यास्वाशंसोपनीतास्वपि क्षणान्निरतिशयसुखघनो लयो लीनता भवति तासु चेष्टासु मनो लीयत इत्यर्थः । कीदृशः । अन्तःकरणस्य मनसो बाह्येन्द्रियव्यापारावरोधनशीलः । मालतीमय- त्वेन तन्मनो बाह्यविषये न व्याप्रियत इत्यर्थः । अत एवानेकशङ्कातङ्कसंकुलेऽपि तत्र स्थाने माधवस्य न साध्वसादिकमपीति भावः । यद्वा । तास्ताश्चेष्टा बकुलवीथ्यादिषु यास्तया कृतास्तास्ता मयि भवेयुः । तासामेव दुर्लभत्वादाशंसनीयता ॥ प्रथम- प्रीतिहेतुत्वादालिङ्गनमाशास्ते— अतिमुक्तेत्यादि । प्रियया सह तदङ्गपरिवृत्ति- मप्यहमाप्नुयाम् । तत्तस्या अङ्गे क्रोडे सर्वतोभावेन वर्तनम् । हृदयालिङ्गनमित्यर्थः । अपिर्भिन्नक्रमः । यद्वा तदङ्गे परिवर्तनमूर्ध्वाधःक्रमेण पुरुषायितमाप्नुयाम् । कीदृशः । प्रियया कर्णजाहे कर्णमूले विनिवेशितमाननं यत्र । ममापि सः । प्रथमपक्षे कर्ण- मूलेऽर्पितमाननं येन सः । 'तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ' इति मूले जाहच्प्रत्ययः । अतिक्रान्ता मुक्ता यया सातिमुक्ता । मुक्ता मुक्ताहा-
An exact, line-by-line transcription of the Sanskrit text from the image:
अङ्कः ५ ] मालतीमाधवटीका । ६३ पृ० प० ११६ ३ ॰धुना तत्संदर्शनेनातिखरोपोऽपि न विशे० । ४ ॰सं- भावितात्मजन्मनः संस्कारा० । ११७ १ ॰करोत्यन्तर्वृत्ति० । रमपास्य तदर्पणादतिक्रमः । यद्वा अतिमुक्तातिबिरला मालत्यवलोकव्याख्यानात् । एतादृशी या मद्ग्रथिता केसरावली तस्याः सतताधिवासेन सुभगः सुरभिरर्पित- स्तनौ यत्रेति क्रियाविशेषणम् । अविमुक्तेति पाठो न मनोहरः । अविमुक्तत्वादेव सतताधिवासस्य लब्धत्वात्सततग्रहणस्य व्यर्थत्वात् ॥ ८ ॥ संभूयेत्यादि । तस्या- स्तनमुखं पुनरपि पश्येयमित्येतदेव प्रार्थये । अङ्कप्राप्तेर्दुर्लभत्वादिति भावः । कीदृ- शम् । कामस्य मङ्गलार्थं गृहम् । तत्र कामो हृष्टो वसतीत्यर्थः । यद्
प्रकारानाह—लीनेव निहुतेव । यत्र यस्य संबद्धस्य न प्रत्यक्षोपलम्भस्तत्र तल्लीनामित्युच्यते । यथा पयसि लीनं लवणम् । सर्वत्रात्र लग्नस्य प्रकारभेदे- नोपमाभेदाः । पूर्वपूर्वापरितोषाद्वा । तथा हि । लीनस्याप्रतिभासात्स्पष्टप्रतिभा- सार्थमाह—प्रतिबिम्बितेव । यत्र स्वच्छद्रव्याभिहतं चक्षुः परिवृत्य द्रव्यानंतरं गृह्णाति तत्तत्र प्रतिबिम्बितमित्युच्यते । यथा स्फटिके रक्तपुष्पम् । प्रतिच्छायया वस्त्वन्तरसंसर्गाधीनत्वेनासाहजिकत्साहजिकत्वोपवर्णनायाह—लिखितेव । य- त्प्रशिथिलावयवसंयोगाश्रयेण द्रव्येण घनद्रव्योपरि संस्थानविशेषवनिर्मीयते तत्तत्र लिखितमित्युच्यते । यथा पत्रे लिपिः । लिखनस्य जलाद्युपनिपातविना- शितया न चिरस्थायित्वमतस्तदर्थमाह—उत्कीर्णरुपेव । यद्यत्र निबिडद्रव्ये तादृशेन किंचिदवयवविभागः क्रियते तत्तत्रोत्कीर्णम् । यथा टङ्कादिना शि- लादि । अस्याप्येकभागवृत्तितया सर्ववृत्तित्वार्थमाह—प्रत्युप्तेव प्रत्युप्तमर्धरोपि- तम् । यद्यत्र द्रव्यानंतरसंसर्गे तत्तत्र प्रत्युप्तम् । यथाङ्गुलीयके मण्यादि । अस्यापि शक्योद्धारत्वान्निबिडसंबन्धायाह—वज्रलेपघटितेव । यद्यत्र किंचिद्घ- नद्रव्याभिघातजन्यकर्मजन्यसंयोगविभागानाश्रयस्तत्तत्र वज्रलेपघटितम् । यथा हीरकादि । तथापि लेपस्य बहिर्वृत्तित्वादन्तःसंसर्गार्थमाह—अन्तर्निखातेव । यद्यत्र संबद्धमूर्ध्वाधःसंयोगादिना धृतं नोपलभ्यते तत्तत्र निखातमित्युच्यते । यथा भूमौ मूलकादि । निखातत्वं सर्वरोपणमुक्तमर्धरोपणमित्यनयोर्भेदः । निखात- स्यापि निर्बन्धातिशयेन शक्योद्धारतया विवेकादिदुःशक्यत्वार्थमाह—कामस्य पञ्चभिः शरैः कीलितेव । कीलितस्य प्रतिकीलनोद्धार्यतयाशक्योनमूलनायाह— चिन्तापरम्परासूत्रसमूहेन गाढं यथा स्यात्तथा स्यूतेव सीवनं प्रापितेव । जाल- निविडसीवनेनानुच्छेदनीयत्वमुक्तम् । इहोपाधेयाभेदेऽप्युपाधिभेदादपौनरुक्त्यमि- त्यवधेयम् । एकमेव हि वस्तु तत्तदुपाधिवैशिष्ट्याद्भिन्नबुद्धिविषयो यथा दण्डिकुण्ड- लिवादिः । यद्वा नोऽस्माकं चेतसि सा लग्ना दृढं संबद्धा । दृढसंबद्ध एव लग्न- पदार्थः । 'शरोलग्नः' इत्यादौ तथा दर्शनात् । दृढसंबद्ध एव नानाप्रकारेण स्थिरीक्रियते । कामबाणपञ्चकेन कीलितेव । चिन्ताप्रवाहरूपतन्तुसंतत्या स्यूतेव । ननु द्वयमप्यदो न युक्तम् । तया सद्धान्तस्य चैतन्यस्य संबन्धाभावात् । अतो विषयविषयिभावप्रकाशान्नमतभेदेनाह—लीनेवेति । लीनत्वं तदात्मतया संबद्धत्वम् । विषयविषयिणोस्तदात्मरूप एव संबन्ध इति योगाचारमतमनेनोक्तम् । प्रतिबि- म्बितेवेति सांख्यमतोपदर्शनम् । लिखितेवेति सौत्रान्तिकमतोपदर्शनम् । तत्र हि ज्ञानेन स्वीयाकारार्पणं विषये क्रियत इति तत्तदाकारस्याभिव्यक्तिः । शिलादौ तुरगादिवदिति लिखनसाम्यम् । उत्कीर्णरूपेति विषयाकारेण चैतन्यपरिणाम इहो- त्कीर्णरूपता । अत्र डिण्डिममतम् । प्रत्युप्तेवेति पूर्वरूपतिरोधानादन्यरूपार्विभावेन
अङ्कः ५ ] मालतीमाधवटीका । ६३ पृ० पं० ११९ ३ भवत्वाघोषयामि तावत् (उच्चैः ।) भोः । पूतं नि- र्व्याजं० । ७ ०दुत्तालवेतालमुक्तमु० । २२० ५ ०विघसैराघर्घरं क्र० । ८ ०शाचानाम् । एते हि० । ९ तपष्पृथुरस० । १० ०दार्य विवर्णदे० । सुवर्णरचितभाजनादाविव तत्तद्विषयाकारतया ज्ञानपरिणाम इति पातञ्जलमतम् । वज्रलेपघटितेवेति नैयायिकमतम् । तदीयतामात्ररूपो हि स्वभावभेदः प्रकाशस्य विषयविषयिभावः । अयं च तावद्वस्तुस्थिरतया वज्रलेपघटनातो न भिद्यते । अन्तर्निखातेवेति विज्ञानवादिमतोपदर्शनम् । अत्र हि विज्ञानस्यान्तर्निखननान्न बाह्यवस्तुस्थितिरिति । इहापि तथा । एते च विषयविषयिभावविकल्पाश्चिन्ता- प्रकारत्वान्माधवस्य चित्ते विपरिवर्तन्ते । एवं च चेतसा सह संबन्धः । पश्चा- त्कीलनेन वा सीवनेन वा गाढसंबद्धतां गता भवति लग्ना । ततश्च तद्दर्शनं महा- पुरुषानुभूतं तस्येति किमत्र चित्रमिति भावः । अत्र पञ्चभिरित्यनेन युगपत्काम- बाणविषयत्वमात्मनो निवेदयता दुःसहदशाशालित्वं सूचितम् । चेतोभुव इत्यनेन तत्प्रभवस्य तस्य मर्मज्ञता ध्वनिता । 'यथाशक्ति यथायुक्ति यथागति यथामति । यथाधीति यथानीति विवेचितमिदं मया' ॥ १० ॥ माधवः । कौणपनिकायो राक्षससमूहः । रौद्रता भीषणत्वम् ॥ पर्यन्तेत्यादि । तमः कर्तृ । चिताज्यो- तिषामौज्ज्वल्यं परभागतो गुणोत्कर्षाधानात्प्रकटयति व्यक्तीकरोति । तमसि संनिहिते सति तेजसां कान्त्युत्कर्षः स्फुट एवेति भावः । कीदृशं तमः । आ- भोगात्परिपूर्णतया भीमम् । चितालोकमण्डलस्य पर्यन्ते निकटदेशे प्रतिरोधन- शीलं मेदुरं स्निग्धं चयेन सङ्घेन स्त्यानं घनम् । यद्वा । पर्यन्ते यः प्रतिरोधोऽन्ध- कारस्य प्रसरणनिवारणं तेन मेदुरो मांसलो यश्चयस्तेन घनमित्यर्थः । कटाः शवाः पूतनाः श्मशानवासिनो राक्षसास्तत्प्रभृतयोऽन्येऽपि तत्रत्याः शृगालादयः किल्कि- लाकोलाहलैः किलकिलाहूपारावैः संराविणं परस्पराह्वानं कुर्वते । संमदाद्दर्पात् । उत्ताला उद्भटाश्चञ्चला वा । तालादुद्धता उत्तालाः । सुप्सुपेति समासः । तेनान्यो- न्यहस्ततालवन्त इति वा । संसक्ता मिलिता आकुलास्त्वरायुक्ताः केलयः क्रीडा येषां ते । यद्वा संसक्तत्वेनाकुला केलिर्येषां ते । संसक्त इति भावप्रधानम् । यद्वा संसक्ता कुलेन स्वयूथेन केलिर्येषां ते । त्रिपदबहुव्रीहावुत्तरपदत्वाभावान्न पुंवद्भावः । 'सान्द्रे स्निग्धे च मेदुरः' इत्यमरः । किलकिलेत्यव्यक्तशब्दः । अविभावितविशेषः श- ब्दसमूहः कोलाहलः । संपूर्वादीतेरभिविधौ भाव इन्गुण । तदन्तात्स्वार्थेऽण् । आदिष्ट- द्भिः । शवानां शब्दकरणं वेतालाधिष्ठानात् । रौद्ररस इह । तल्लक्षणं भरते—'इति रौद्रो रसो दृष्टो रौद्रैरेवाङ्गचेष्टितैः । शस्त्रप्रहारभूमिष्ठभयकम्पक्रियात्मकः ॥' इति ॥ ११॥ भो भो इत्यभिमुखीकरणरूपे संबोधने । निकेतनं गृहम् । अशस्त्रेत्यादि । अशस्त्रपूतं संमुखपतितस्य खर्गिणो मांसं शस्त्रपूतमतस्तेषामग्राह्यम् । इदमिति न