भारतकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

यश्च व्याकुरुते वाचं यश्च मीमांसतेऽध्वरम् । तावुभौ पुरुषौ लोके पङ्क्तिपावनपावनौ ॥ वरं हि जातास्तिमयः गभीरे हि जलाशये । न मानवाः व्याकरणशुद्धिहीनमुखा भुवि ॥ ऐन्द्रं चान्द्रं च माहेशं दौर्गं कौमारमेवच । कालापं चैवाऽऽपिशलं कातन्त्रादिकमुच्यते ॥ अष्टादश पुराणानि चाष्टौ व्याकरणानि च । ज्ञात्वा सत्यवतीसूनुश्चक्रे भारतसंहिताम् ॥ 7 ननुचाशक्तिजा दोषाः प्रमादजनिताश्च ये । परिहर्तुमशक्यत्वान्न निषेध्या इति त्वसत् ॥ प्रमादमेव मा कार्षीः सामर्थ्याय यतस्व च । एवमर्थो निषेधोऽयं नाद्रियेतान्यथा ह्यसौ ॥ अन्ये सुखमुखारूढाः न क्लेशेन विवक्षवः । शक्ताश्चैवाप्रमत्ताश्च वदेयुरनिवारिताः ॥ अशक्तैर्नाशिताश्चान्ये दाक्षिण्याद्यनुवर्तनात् । जानन्तोऽपि प्रयुञ्जीरन् यदि शास्त्रं न वारयेत् ॥ तत्कथं नाम यत्किञ्चित् स्यादपभ्रंशकारणम् । दूरात्परिहरेयुस्तदिति यत्नो नियम्यते ॥ रीतिरेषा निषेधेषु चान्येषु परिगृह्यताम् । प्रमादश्चाप्यशक्तिश्च न पुरस्कृत्यतां बुधैः ॥

आर्याश्च म्लेच्छभाषाभ्यः कल्पयन्तः स्वकं पदम् पदान्तराक्षरोपेतं कल्पयन्ति कदांचन ॥ तस्माद्ये याज्ञिकैर्यैषां वैद्यैर्वार्था निरूपिताः । तेषां त एव शब्दानांमर्थाः मुख्या नचेतरे ॥ 8 भेदो नाम पदार्थानामवच्छेदः परस्परम् । संसर्गोऽपि पदार्थानामन्योन्येनानुरञ्जनम् ॥ स्वप्राधान्यात्पदार्थानां धर्मावेतावुभावपि । धर्मिभेदेन भिद्येते न ह्येकत्वमुपाश्रितम् ॥ अर्थैकत्वादेकवाक्यमित्यत्रेदं विचिन्तितम् । भाष्यवार्तिकयोः पूर्वमीमांसायां विलोक्यताम् । 9 नाम्नां द्विधैव संबन्धः सर्ववाक्येष्ववस्थितः । सामानाधिकरण्येन षष्ठ्या वा प्रतिपाद्यते ॥ सामानाधिकरण्यं च धर्मः शब्दगतः स्थितः । तस्य तात्पर्यविषयोऽप्यर्थस्ताच्छब्द्यमश्नुते ॥ सामानाधिकरण्यं तत्तादात्म्यमिति कीर्त्यते । विरोधैकान्तसिद्धान्ते तत्स्वरूपैक्यलक्षणम् ॥ तद्धि तावद्धर्मधर्मिजातिव्यक्त्यादिषूच्यते । धर्मधर्मिविभेदे तु सर्वथा नैक्यसंभवः ॥ धर्मभेदे तदायत्तो धर्मिभेदः व्यवस्थितः । स सिद्धान्तस्सौगतानामिति धीमद्भिनिश्चितः ॥

शब्दविभागः 439 तादात्म्यं तु विदुः केचित् ये भेदाभेदलक्षणम् । जातिव्यक्त्यादिषु तथा तादात्म्यमुपयन्ति ते ॥ अनेकान्तविदस्ते स्युः भाट्टास्तन्मार्गयायिनः । भर्तृप्रपञ्चादयश्च तन्मार्गस्य प्रवर्तकाः ॥ धर्मधर्म्यादिषु भिदावादिभिस्तार्किकैः मतः । धर्म्यैक्ये धर्मयोर्भेदः धर्मैक्येऽपि च धर्मिणोः ॥ विशिष्टयोरप्यभेदः तथा शुद्धविशिष्टयोः । तत्सिद्धान्ते तु तादात्म्यं वदितुं बहुधोचितम् ॥ सामानाधिकरण्येन चैवं तादात्म्यलक्षणम् । ऐक्यं त्रिधा विशुद्धैक्यं विशिष्टैक्यं भिदाऽभिधा ॥ अखण्डरसवस्त्वैक्यं चतुर्धाचोपपादितम् । सत्यादिशोधकवचस्स्वतद्व्यावृत्तिमार्गतः ॥ तत्त्वमस्यादिवाक्येषु चान्वयेनोपलक्षणात् । सर्वं खल्विदमित्यादौ मिथ्यार्थारोपणेन तु ॥ ज्योतींषि विष्णुरित्यादौ बाधया चोपपादितम् । ययाकयाऽपि विधया निर्विशेषं सुरक्षितम् ॥ ऐक्याध्यासापवादाश्च विशेषणविशेष्यता । सामानाधिकरण्यं च चतुर्धेत्यप्यवादिषुः ॥ विप्रो ब्राह्मण इत्यादौ विशुद्धैक्यं व्यवस्थितम् । इदं रजतमित्यादौ अध्यासस्स्याद्विवक्षितः ॥

देह आत्मेत्यादिदेशे त्वपवादः प्रकीर्त्यते । नीलमुत्पलमित्यादौ स्याद्विशेषणतेति च ॥ सविशेषब्रह्मविदः तत्त्वत्रयविदश्च ये । सर्वत्र तेषां तादात्म्यं विशिष्टाद्वैतलक्षणम् ॥ अविरोधान्तरङ्गत्वजातिभोगाद्यभेदतः । एकोक्तिरपृथक्सिद्धेः देशकालदशादिभिः ॥ परिणामविदो ये च भेदाभेदविदोऽपि च । अनेकान्तविदां तेषां तत् भेदाभेदलक्षणम् ॥ संप्रदायप्रभेदेन विवक्षाभेदतोऽपिवा । वेदान्तिनां भिदा तत्र विश्रुतेत्युपरम्यते ॥ 10 चतुर्विधस्तथा भेदः पूर्वस्त्वात्यन्तिको मतः । औपाधिको द्वितीयस्स्यात् तृतीयः पारिणामिकः । वैवर्तिकश्चतुर्थस्स्यात् अभेदोऽपि चतुर्विधः । अखण्डत्वं च तादात्म्यं वैशिष्ट्यं चौपचारिकम् । अतश्च बाधाद्ब्रह्मैक्यात् आत्मत्वादुपचारतः । तच्चतुर्धा जगद्ब्रह्मसामानाधिकरण्यगीः ॥ स्वभावाच्च विवर्ताच्च संकल्पात्परिणामतः । चतुर्विधं कारणत्वं वादिभिस्तैर्विकल्प्यते ॥ तथा कूटस्थशब्दार्थः चतुर्धा परिदृश्यते । कूटस्थो निर्विकारस्स्यात्तथा साधारणोऽपिचं ॥

वेदवादः 44 मायाध्यक्षोऽथवा ज्ञेयः राशिवत्स्थित एववा । योगवृत्त्यैव कूटस्थपदमेवं विकल्प्यते ॥ (90) वेदवादः. 1 कूटस्थनित्यवर्णानां राशिर्वेदोऽभिधीयते । क्रमः प्रवाहानित्यस्स्यादिति मीमांसका विदुः ॥ क्रमावच्छिन्नवर्णौघस्सदा सर्वज्ञबुद्धिगः । कूटस्थनित्यं वेदाख्यं तत्त्वं श्रीमध्वसम्मतम् ॥ सृष्टिकाले च वर्णानामुत्पत्तिं प्रलये पुनः । विनाशं केचिदिच्छन्ति सैषा कल्पान्तनित्यता ॥ वर्णस्याशुविनाशोऽपि क्रमे स्वातन्त्र्यभङ्गतः । वेदनित्यत्ववादस्स्यादिति साधारणी सृतिः ॥ 2 अथान्येषां वैदिकानामभिप्रायस्य संग्रहः । अयमेषः तत्त्वविद्भिः विनिर्णीतः प्रकाश्यते ॥ वेदो हि नित्योऽभिप्रायः कश्चित्स्यात्पारमेश्वरः । श्रुतिस्स्मृतिर्ममैवाज्ञेत्यादि मानं परश्शतम् ॥ तदभिव्यञ्जके वाक्ये वेदशब्दः प्रयुज्यते । प्रयुज्यते चाप्यर्थे हि वेदविच्छास्त्रविद्यथा ॥ यज्ञेन वाच इतिच बह्वृचैः पठ्यते श्रुतिः । हृदयेनाभ्यनुज्ञात इत्येषा मानवी स्मृतिः ॥

442 मानमेयरहस्यश्लोकवार्तिके हृदयं वेद इतिच भाष्यं मेधातिथोरिह । महतां हृदयं वेद इत्यप्याह कुमारिलः ॥ महत्परिग्रहो ह्येष विशेषो ह्यागमान्तरात् । एकस्य प्रतिभानं तु कृतकान्न विशिष्यते ॥ अपिचोदयनाचार्यैः यन्न्यायकुसुमाञ्जलौ । उत्पत्तितो वाऽभिव्यक्तितो वाऽभिप्रायतोऽपिवा अनवच्छिन्नवर्णानां नैरर्थक्यमितीरितम् । तत्र नैयायिकमतमुत्पत्तिपदसूचितम् ॥ मीमांसकमतं चाथाभिव्यक्तिरिति कथ्यते । अस्वातन्त्र्यं हि रचनाविशेषे हि तदाशयः ॥ अथाभिप्रायत इति तदौपनिषदं मतम् । सर्वार्थसिद्धौ वेदान्ताचार्योक्तिरवबुध्यताम् ॥ एतदेवहि वेदस्यापौरुषेयत्वनित्यते । प्राक्प्रागुच्चारणाधीनोच्चार्यमाणत्वमेव तत् ॥ नह्येकरूपवाक्यस्य प्रवाहानादितां विना । प्रतिपद्यामहे वेदवाक्येष्वन्यामनादिताम् ॥ प्रतिकल्पं चैकरूपाभिसन्धिः परमेश्वरः । वाक्यं वदत्येकरूपमिति वेदस्य नित्यता ॥ नैतावताऽऽज्ञारूपत्वं वेदवाक्ये विहन्यते । द्योतयत्येव हि विभोरभिप्रायं सनातनम् ॥

अन्यथा करणे शक्तोऽप्येतं नान्यथयत्यसौ । धाता यथा पूर्वमिति स्वयमेवोपदिश्यते ॥ अव्यवस्थितशङ्काऽपि दूरेणोत्सार्यते ततः । सर्वेभ्यो वत्सलतरं शास्त्रमित्यपि कीर्त्यते ॥ वर्णं पदं वा वाक्यं वा स्फोटं तदतिरेकि वा । तत्त्वान्तरं वेति बुधाः जानते ये तु वैदिकाः ॥ प्रमाणानि पुनर्यानि ज्ञायन्ते तत्र भूरिशः । सर्वेषामत्र तात्पर्यमिति सामान्यनिर्णयः ॥ ३ नित्यत्वादेरसिद्धत्वात्, अभ्युपेत्योच्यतेऽथवा । सुतरामप्रमाणत्वं वक्तृप्रामाण्यवर्जनात् ॥ परिग्रहाच्च महतां प्रामाण्यमिह दुर्वचम् । ज्ञापकश्चायमप्यर्थः कारके संगतिः कुतः ॥ कोऽयं महाजनो नाम किमाचारः किमास्पदः । किंसंख्यः किंसमाचार इति व्याख्यातुमर्हसि ॥ महाजनगृहीतत्वं पित्राद्यनुगमादि च । बौद्धाः द्वीपान्तरापेक्षं वदन्त्येव स्वदर्शने ॥ प्रमाणान्तरदृष्टं हि शब्दोऽन्यं प्रापयेत्सदा । स्मृतिवच्च स्वयं तस्य प्रामाण्यं नोपपद्यते ॥ नूनं तत्रानुभूतोऽसावित्याप्तोक्तिनिबन्धना । बुद्धिरस्साक्षाददृष्टेऽपि युक्ताऽर्थे पुरुषोक्तिः ॥

44 मानमेयरहस्यश्लोकवार्तिके नात्मीयादन्यदीयाद्वा प्रत्यक्षादेर्विना क्वचित् । वचसस्सत्यता दृष्टा तथा स्याच्चोदनास्वपि ॥ तेन सत्यपि विज्ञाने प्रतिभादेर्यथैव हि । स्वातन्त्र्यान्न प्रमाणत्वं तथा वेदेऽपि दृश्यताम् ॥ स्वर्गयागादिसंबन्धविषया चोदना मृषा । प्रत्यक्षाद्यगतार्थत्वात् ईदृग्बुद्धादिवाक्यवत् ॥ यद्वाऽऽप्तेनाप्रणीतत्वात् बालोन्मत्तादिवाक्यवत् । व्योमादिवच्च नित्यत्वात्प्रामाण्यस्य निराकृतिः ॥ यदिवा पुरुषाधीनप्रामाण्यास्सर्वचोदनाः । स्वतो वा न प्रमाणं स्युः वाक्यत्वात्पुरुषोक्तिवत् ॥ प्रामाण्यं वा नरापेक्षं सर्वशब्देषु गम्यताम् । शब्दैस्संबध्यमानत्वात् अप्रामाण्यं यथैव हि ॥ न स्याद्वक्तृगुणानां चेत् वचःप्रामाण्यहेतुता । तद्दोषैरप्रमाणत्वं किमित्यस्य भविष्यति ॥ ततश्च पुरुषाभावात्सति वा शुद्ध्यसंभवात् । निर्मूलत्वादप्रमाणत्वं चोदनायां न युज्यते ॥ एवंस्थिते तु वेदस्य सतिवाऽसतिवा नरे । प्रामाण्यं दुर्लभमिति शङ्कायामिदमुच्यते ॥ 4 स्वतस्सर्वप्रमाणानां प्रामाण्यमिति गम्यताम् । नहि स्वतोऽसती शक्तिः कर्तुमन्येन शक्यते ॥

तस्माद्बोधात्मकत्वेन बुद्धेः प्राप्ता प्रमाणता । अर्थान्यथात्वहेतूत्थदोषज्ञानादपोद्यते ॥ अप्रामाण्यं त्रिधा भिन्नं मिथ्यात्वाज्ञानसंशयैः । वस्तुत्वाद्विविधस्यात्र संभवो दुष्टकारणात् ॥ पौरुषेये तु वचने प्रमाणान्तरमूलता । तदभावे हि तद्दुष्येत् इतरन्न कदाचन ॥ कर्तृमत्त्वे तु वेदस्य सम्यङ्गिथ्यात्ववादिभिः । कर्ता गुणाश्च दोषाश्च महाजनपरिग्रहः ॥ एवमादि विना युक्त्या कल्प्यं, मीमांसकैः पुनः । इदानीमिव सर्वत्र दृष्टान्नाधिकमिष्यते ॥ तेन नाप्तोपदेशत्वं न स्यादागमलक्षणम् । नाप्तस्य संभवो वेदे, लोके नाप्तात्प्रमाणता ॥ स्वतः सर्वप्रमाणत्वं नचेत्स्याद्दोषदर्शनम् । तेनैव सर्वाक्षेपाणां निवारणमिति स्थितम् ॥ (91) वेदवैलक्षण्यवादः. 1 वेदाद्बुद्धागमस्यायं विशेषस्तन्त्रवार्तिके । निरूपितो विस्तरशः तत्संक्षेपोऽवधार्यताम् ॥ यदेव भवतां गोत्रं तदस्माकमपीतिवत् । आहुः स्वागमनित्यत्वं परवाक्यानुकारिणः ॥

महाजनगृहीतत्वं पित्राद्यनुगमादि च । तेऽपि द्वीपान्तराक्षेपं वदन्त्येव स्वदर्शने ॥ संप्रदायविरुद्धं तद्वचनं ह्यवधार्यते । बुद्धोपदिष्टो धर्मोऽयं अनित्यं सर्वसंस्कृतम् ॥ क्षणिकास्सर्वसंस्काराः अस्थिराणां कुतः क्रियाः । बुद्धिबोध्यं त्रयादन्यत् संस्कृतं क्षणिकं च तत् ॥ नच शब्दार्थसंबन्धकूटस्थत्वमनिच्छताम् । नित्यता व्यवहारस्य निराधाराऽवकल्पते ॥ शब्दादिषु विनश्यत्सु व्यवहारः क्व वर्तताम् । २ स्थितैषां धर्मतेत्येतत् अर्थशून्यमतो वचः ॥ एषेत्यपि न निर्देष्टुं शक्या क्षणविनाशिनी । किमुत स्थितया साकं एषेत्यस्यैकवाक्यता ॥ तस्मान्नागमनित्यत्वं शब्दानित्यत्ववादिनाम् । नच पुंवचनं सर्वं सत्यत्वेनावगम्यते ॥ वागिह श्रूयते यस्मात्प्रायादनृतवादिनी । तस्मादपौरुषेयैव नित्या भवति नेतरा ॥ ३ यद्धेतुदर्शनं तन्त्रवार्तिके विशदीकृतम् । तदेव चाप्युदयनः व्याचख्यौ कुसुमाञ्जलौ ॥ सम्यङ्निरूपिता न्यायपरिशुद्धौ पदव्यसौ । तत्संक्षेपोऽप्यत्र किंचित्क्रियते सुधियां कृते ॥

वेदवैलक्षण्यवादः 447 नैव शब्दे स्वतः दोषाः प्रामाण्यपरिपन्थिनः । सन्ति किन्तु स्वतस्तस्य प्रामाण्यमिति हि स्थितिः ॥ वक्तुराशयदोषेण केषुचित्तदपोद्यते । अङ्गुल्यग्रे हि मातङ्गयूथमित्येवमादिषु ॥ नित्ये हेतुगुणापेक्षा वेदे नास्तीशबुद्धिवत् । हेत्वभावान्न दोषश्चेद्वक्तृभावादिहापि नः ॥ अकारणं यथा ज्ञानं प्रामाण्यमधिगच्छति । अकारणं तथा वाक्यं स्वतःप्रमितिकारणम् ॥ यदि हेतुगुणाभावादप्रामाण्यं प्रसज्यते । तदीश्वरप्रामायामप्यनिवार्यमिदं भवेत् ॥ अज्ञातकर्तृको वेदो यथा गन्धर्वभाषितम् । अप्रामाण्यपदं तद्वत् शङ्का स्यादिति चेन्न तत् ॥ महत्परिग्रहादेवानाप्तकर्तृकता स्वयम् । शङ्काकलङ्कसंबन्धं नार्हतीति विदां मतम् ॥ बाह्यागमेऽपि बहुलमहाजनपरिग्रहः । परिग्रहविशेषोऽतो महत्स्विह विवक्षितः ॥ विशेषस्तु मतो हेतुदर्शनादर्शनादितः । अनन्यगतिकैः स्वैररसिकैः जीविकार्थिभिः ॥ कुहकैर्वञ्चितैश्चात्र प्रसिद्धो हि परिग्रहः । प्रतिमाजल्पनं शाखाभङ्गः पाषाणपाटनम् ॥

448 मानमेयरहस्यश्लोकवार्तिके इत्येताभिः कुत्सिताभिस्सिद्धिभिः वञ्चिताः परे । वैपरीत्यं सुप्रसिद्धमिह वैदिकदर्शने ॥ वञ्चनापटुभिः वेदविद्भिरैते प्रतारिताः । इति चेत, किं वञ्चयन्ति स्वात्मानमपि केवलम् ॥ यैश्च सर्वे पटुप्रज्ञाः लोका जाताः प्रतारिताः । प्रतारका इति कथं उन्नीतास्तेऽपि च त्वया ॥ लोकोत्तरपटुप्रज्ञो भवानेव महीतले । सर्वप्रतारकैरेतैरपि नैव प्रतार्यसे ॥ अनुष्ठानप्रवाहोऽयं स्यादेवान्धपरंपरा । इत्यसत्, तत्प्रमाणादेः बाधादीनामदर्शनात् ॥ धर्मबुद्धयैव निरुपाधिक एष परिग्रहः । इति त्वदुक्त्यैव सिद्धेः किमस्माभिरिहोच्यताम् ॥ अनादिनिधने चास्मिन् संप्रदाये चलत्यथ । प्रक्रियान्तरमाश्रित्य प्रतिच्छन्दप्रवर्तनात् ॥ प्रतारका भवन्तीति श्रुतिस्मृतिविनिश्चितम् । युक्तिमच्चैतदित्यत्र संक्षिप्ता दिक्प्रदर्शिता ॥ 4 तुल्ययोगक्षेमतया वेदवज्जगतोऽपिच । अकर्तृ ता स्यादिति चेत् न कुलालादिदर्शनात् ॥ नचात्र वर्णनित्यत्वं वेद नित्यत्वकारणम् । काव्यादिष्वपि तुल्यत्वात् किंत्त्वीदृक्क्रमयोगिता ॥ :

तत्र पुंयत्नानंघृत्वमास्त यद्यपि यः पुनः । उच्चारणे स्वातन्त्र्यस्याभावस्साऽपौरुषेयता ॥ 5 वेदतः पौरुषेयत्वशङ्का वेदेन शाम्यति । हेत्वन्तरसमुद्भूता हेत्वन्तरनिवारिता ॥ युगान्तेऽन्तर्हितान् वेदान् सेतिहासान् महर्षयः । लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा ॥ धर्ममूलं वेदमाहुः ग्रन्थराशिमकृत्रिमम् । तद्विदां स्मृतिशीले च साध्वाचारं मनःप्रियम् ॥ यावत्प्रभावाः श्रूयन्ते ऋष्याद्या वेदराशिषु । तादृशा एव सृज्यन्ते वेदान् दृष्ट्वा स्वयंभुवा ॥ अनधीत्यैव वेदानाभाविर्भावयितृत्वतः । तपसा प्राप्य संस्कारात्तत्सूक्तत्वादिसंभवः ॥ तपःप्रभावान्मन्त्राणां ऋषिदर्शनसंस्कृतेः । शक्तिराधीयते काचित् यथाऽस्माकमधीतितः ॥ अर्थावबोधकत्वं तु शब्दशक्त्याऽन्यशब्दवत् । ऋषिदर्शनतोऽधीतेरपि शक्त्यन्तरोद्भवः ॥ अपूर्वकार्यनिष्पत्तावुपकुर्यादिदं ततः । काठकादिसमाख्याया निमित्तं चेदमेववा ॥ प्रकृष्टं वा प्रवचनं तत्सिद्धा वेदनित्यता । मन्त्रब्राह्मणयोर्वेदनामधेयं च विश्रुतम् ॥ M.R. 57

450 मानमेयरहस्यश्लोकवार्तिके 6 हितानुशासनं वाक्यं विधिरत्र विवक्षितः । लिङ्वाच्योऽपूर्व इत्यत्र ख्यातो व्युत्पत्त्यसंभवः । विमर्शात्सिद्धिरितिचेत् विमर्शः स्मृतिरेव हि । अस्तु वा कार्य एवादौ व्युत्पत्तिः व्यवहारतः ॥ अन्वयव्यतिरेकाभ्यां शब्दशक्तिर्विविच्यते । प्रयुज्यन्ते सिद्धपराः वक्तृभिर्हि कथा यथा ॥ प्रतिष्ठा देशभेदश्च छागादिर्वा घृताञ्जनम् । यातनासाधनत्वं च गृह्यते विध्यपेक्षितम् ॥ प्रतीता देवताप्रीतिः अपूर्वमुपकल्प्यताम् । लिङो वाच्यतया द्वारं स्वरूपाद्वा किमन्यतः ॥ विग्रहो हविरादानं युगपत्कर्मसन्निधिः । प्रीतिः फलप्रदानं च देवतानां न विद्यते ॥ इति वादो भवेदर्थचार्वाकमतिमूलकः । अनचिद्देवतापक्षे शाब्दमार्गक्रमस्त्वयम् ॥ किमर्थं किं केन कथं वेति स्याद्धि चतुर्विधा । आकाङ्क्षा तत्रचाद्यायाः पूर्तिस्स्वर्गादिना मता। देवतां प्रीणयेदित्येतया शाम्यत्यनन्तरा । ज्योतिष्टोमेनेति नामधेयात्केनेति शाम्यति ॥ कथमित्यस्य शान्तिस्तु समानैवोभयोरपि । विशेषतश्च पुरुषः चोदनाशब्दसूचितः ॥

वेदवैलक्षण्यवादः 451

श्रुतिस्स्मृतिर्ममैवाज्ञा यस्तामुल्लङ्घ्य वर्तते । आज्ञाच्छेदी मम द्रोहीत्येवं भगवतोदितम् ॥ ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः । श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः॥ 7 श्रुतिमूलतयैवैताः स्मृतयो यान्ति मानताम् । श्रुत्यैव निर्णये किंवा स्मृतिभिश्चेति चेन्न तत् ॥ दुर्बोधा वैदिकाश्शब्दाः प्रकीर्णत्वाच्च ये खिलाः । तज्ज्ञैस्त एव स्पष्टार्थाः स्मृतितन्त्रे प्रतिष्ठिताः॥ इति प्राह मरीच्याख्यः देवलस्य वचः पुनः । सत्यप्यस्मिन् धर्मशास्त्रे गृह्यापेक्षां प्रदर्शयेत् ॥ मन्वादयः प्रयोक्तारो धर्मशास्त्रस्य कीर्तिताः । तत्प्रयुक्तप्रयोक्तारः गृह्यकारास्तु मन्त्रतः ॥ वेदा अनन्तास्संकीर्णाः विकीर्णाश्च क्वचित्तथा । उत्सन्नाश्च कदाचित्स्युः मन्वाद्याः कृत्स्नवेदिनः ॥ 8 श्रुतिस्मृतिविरोधे तु विकल्पं केचिदूचिरे । भ्रमसंभवतः श्रुत्या स्मृतिबाधं परे विदुः ॥ विरोधे तत्त्वविषये बाध एव विवक्षितः । विकल्पासंभवाद्वस्तुष्विति विद्वद्विनिश्चितः ॥

452 मानमेयरहस्यश्लोकवार्तिके

स्मृतिद्वयविरोधे तु व्यवस्था स्यात्परिग्रहात् । मन्वादीनां स्मृतिष्वेव केचिच्छ्लोका अपस्मृतिः । इति शाबरसिद्धान्तः कुमारिलमतं त्विदम् । बुद्धागमः पाञ्चरात्रागमाद्यास्स्युरपस्मृतिः ॥ इति विज्ञायते तत्र प्रत्युक्तिरियमुच्यते । नच क्वचित् स्मृतेर्बाधे सर्वानार्श्वाससंभवः ॥ बाधकादर्शनाद्धेतुदोषक्लृप्तेरयोगतः । परिग्रहविशेषेण श्रुतिमूलत्वकल्पनात् ॥ विस्रम्भहेतुस्संवादः क्वचिद्वाह्यागमेऽस्त्यपि । भूयश्श्रुतिविरोधेन वैदिकैरपरिग्रहः ॥ 9 पाञ्चरात्रागमस्त्वेकायनवेदान्तमूलकः । श्रुतिमूलमिदं तन्त्रं प्रमाणं कल्पसूत्रवत् ॥ वेदत्वं नात्र संदिग्धं यं वाकेष्विति च स्मृतेः । ऋग्वेदपाठे पठितं व्रतमेतत्सुदुश्चरम् ॥ इति सेश्वरमीमांसासंप्रदायस्य संग्रहः । असौ नातीव विच्छिन्नोऽनूद्यते च परैरपि ॥ इत्थं हि शतदूषण्यां तृतीये भङ्गे ईर्यते । सोऽनुवादो दैवविदः इति माण्डूक्यकारिका ॥ भवेद्वाऽप्यथवाऽन्यद्वा विपश्चिद्भिः विमृश्यताम् । विचारस्यावश्यकत्वं न्यायशुद्धौ समर्थितम् ॥

10 ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः । पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः ॥ इत्येतत्कोशसंत्यागाभिप्रायं नार्थगोचरम् । निष्पन्नयोगपुरुषविषयं वा विदुर्बुधाः ॥ शास्त्रज्ञानं बहुक्लेशं बुद्धेश्चलनकारणम् । उपदेशाद्धरिं बुध्वा विरमेत्सर्वकर्मसु ॥ इत्येतत्तीव्रसंयोगवतामेवाविपश्चिताम् । अलसानामास्तिकानां विस्रम्भायेति निर्णयः ॥ (92) शास्त्रवादः 1 चोदना चोपदेशश्च विध्युद्देशो विधिस्तथा । नियोगो वेद आदेशः शास्त्रं चैकार्थवाचिनः ॥ प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा । पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते ॥ शासनाच्छंसनाच्चैव शास्त्रमित्यभिधीयते । पुराणे इतिच प्राह श्रीपराशरमाधवः ॥ 2 सूत्रं तु त्रिविधं प्रायः पूर्वाचार्यैर्निरूपितम् । उपदेशात्मकं त्वाद्यं व्याख्यानं तदनन्तरम् ॥ उपपादनशास्त्रं स्यात्तृतीयं न्यायपूर्वकम् । अथ शब्दानुशासनमथ योगानुशासनम् ॥

454 मानमेयरहस्यश्लोकवार्तिके इत्याद्यारम्भकं शास्त्रमुपदेशात्मकं मतम् । धर्मं व्याख्यास्याम इति तथाऽथो यज्ञमित्यपि । तथाऽथातो दर्शपूर्णमासावित्यादि यत्पुनः । एवमाद्यारम्भशास्त्रं भवेद्व्याख्यानलक्षणम् ॥ अथातो धर्मजिज्ञासाऽथातो ब्रह्मेतिपूर्वकम् । जिज्ञासाघटितं शास्त्रं न्यायशास्त्रं प्रचक्षते ॥ यथोपदेशं च तथा यथामूलं यथामति । बोद्धव्यमिति भेदेन शास्त्रभेदः प्रवर्तते ॥ 3 पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ याज्ञवल्क्यस्मृतिस्त्वित्थं, तथैव ह्याश्वमेधिके । अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ॥ पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश । इतिच श्रूयते, तत्राप्यधिकं राणके यथा ॥ आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः । अर्थशास्त्रं तुरीयं स्यात् विद्या ह्यष्टादश स्मृताः । 4 विभजन्ते त्रिधा केचित् मन्त्रब्राह्मणमादिमम् । इतिहासपुराणं च द्वितीयं परिकीर्तितम् ॥ धर्मशास्त्रं तृतीयं स्याद्विषयाणां व्यवस्थया । यज्ञो मन्त्रब्राह्मणस्य विषयस्सर्वसम्मतः ॥

शास्त्रवादः 455 इतिहासपुराणस्य लोकवृत्तं हि गोचरः । धर्मशास्त्रे पुनर्लोकव्यवहारव्यवस्थितिः ॥ अपवर्गपरीक्षायामैकाश्रम्यस्य खण्डने । गौतमीयन्याभाष्ये एवं वात्स्यायनोऽब्रवीत् ॥ धर्मशास्त्रं तु सकलं पूर्वभागोपबृंहणम् । पुराणं चोपनिषदामिति केचिद्विविश्चते ॥ पुराणं धर्मशास्त्रं च सर्वं सर्वोपबृंहणम् । तत्स्मृत्यनवकाशेति बादरायणनिर्णयः ॥ 5 आन्वीक्षकी त्रयी वार्ता दण्डनीतिश्च शाश्वती । विद्याश्चतस्र एवैता लोकसंस्थितिहेतवः ॥ आन्वीक्षकीत्यात्मविद्या धर्माधर्मौ त्रयीस्थितौ । अर्थानर्थौ च वार्तायां दण्डनीतौ नयानयौ ॥ इति कामन्दकी प्राहाथात्मविद्या विचार्यते । प्रदीपस्सर्वविद्यानामुपायस्सर्वकर्मणाम् ॥ आश्रयस्सर्वधर्माणां विद्योद्देशे प्रकीर्तिता । इत्युक्त्याऽऽन्वीक्षकी विद्यैवात्मविद्येति तन्मतम् ॥ एतमर्थं मनुरपि सप्तमे प्राह तद्यथा । त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिं च शाश्वतीम् ॥ आन्वीक्षकीं चात्मविद्यां वार्तारम्भांश्च लोकतः । सत्यप्येवं मनोर्व्याख्याकाराणां हृदये पुनः ॥

456 मानमेयरहस्यश्लोकवार्तिके आन्वीक्षिक्या विभेदेन त्वात्माविद्या प्रतीयते । विस्तरस्यानवसराद्विमृशन्तु बुधास्त्विदम् ॥ 6 अस्त्यत्र कश्चिद्विशेषः विद्याधीरोदितो यथा । विद्यास्थानेषु धर्म्येषु गणितो न्यायविस्तरः ॥ स चाक्षपाद एवेति नियन्तुं नैव शक्यते । नच सर्वं सूत्रबद्धं विद्यास्थानमितीष्यते ॥ नचैक एव ह्येकस्य विद्यास्थानस्य सूत्रकृत् । नचास्ति राज्ञामाज्ञाऽत्र सूत्रकृदृषिरित्यपि ॥ सूत्रकृद्यदि सर्वज्ञः ऋषिसकल इष्यते । वार्तिकादेरनारम्भप्रसङ्गो दुर्निवारणः ॥ धर्मं व्याख्यातुकामस्य षट्पदार्थोपवर्णनम् । सागरं गन्तुकामस्य हिमवद्भ्रमनोपमम् ॥ कणान्वा भक्षयेत्कामं माहिषाणि दधीनि वा । युक्तियुक्तं तु गृह्णीमः नतु तद्वाक्यगौरवात् ॥ स्मृतिसूत्रप्रवाहोऽयमनादिर्धर्ममण्डले । यथालोकं यथावेदं लौकिके वैदिकेऽपि वा ॥ यो वक्ता स परिग्राह्यः प्राक्तनोऽद्यतनोऽपिवा । तदर्वाग्भिः तथाऽऽचार्यैः प्रमाणादिविचारणा ॥ प्रणिन्ये बहुधां तैस्तैः यथेष्टं मतमास्थितैः । इत्यादिः विस्तरो न्यायपरिशुद्धावुदीक्ष्यताम् ॥