मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
२४ ] प्रथमाध्याये तृतीयपादः ५०७
तथा हि—लोकप्रसिद्धशब्दार्थवशं शास्त्रं प्रवर्तते ।
अतो न लौकिकेष्वस्मात्साध्वसाधुत्वनिर्णयः ॥ ६८३
वाक्यार्थेषु हि श्रुतिस्मृत्याचारविरोधदर्शनाद्वलाबलामानुपूर्व्येणावधृतम् इह
न तु, विपरीतक्रमत्वात् ।
लोकादेवाधिगन्तव्या शब्दानां साध्वसाधुता ।
वाचकावाचकत्वेन सा च नित्यं व्यवस्थिता ॥ ६८४
ध्वनिमात्राप्रसाधूनि वर्णा वा केवलात्मनाम् ।
संघातॊऽर्थानपेक्षो वा मातृकाद्युपदेशवत् ॥ ६८५
तेन भेरीशङ्खादिशब्दा गकारकादयः प्रत्येकम्, तद्वर्गा वाऽनर्थकत्वादपशब्दा
इति लोकव्यवहारादेवार्थं न साधयन्तीत्यसाधवो गम्यन्ते । गाव्यादयः पुनर्ग-
वादिवदेव साधयन्त्यर्थम्, तेभ्योऽपि वा शीघ्रतरं प्रसिद्धतरत्वादर्थप्रतीतिमुत्पाद-
यन्तीति, सत्यप्येकविषयानेकशब्दत्वे हस्तकरपाण्यादिशब्दवदर्थसाधनत्वात्साधुत्वे-
नावधार्यन्ते ।
ततश्चावाचकत्वेन यद्यसाधुत्वमुच्यते ।
तस्य लोकविरुद्धत्वान्न ग्राह्यत्वं प्रतीयते ॥ ६८६
अदृष्टविषया चेत्स्यादेतेषां साध्वसाधुता ।
वेदवाक्यैरनिर्दिष्टा न साऽस्त्यन्यप्रमाणिका ॥ ६८७
प्रत्यक्षेण तावदुभयत्राप्यविशेषेण वर्णाः शुद्धाः प्रतीयन्ते । न तद्गते, तत्स-
मुदायगते वा साधुत्वासाधुत्वे । न वाऽनुभूतसम्बन्धादनुमीयेते । तन्निराकर-
णाच्च तत्पूर्वकपुरुषवचननिराक्रियाऽपि सिद्धा । वेदवचनं पुनर्वस्तुस्वरूप-तद्गत-
गुणदोषान्वाख्यानपरं विधिप्रतिषेधानपेक्षं नैव किंचित्प्रमाणत्वेन संभवति ।
साधुत्वासाधुत्वयोरनुष्ठानात्मकत्वाद्विधिप्रतिषेधविषयत्वम् । अभिधानकरणभूत-
योर्विधेयत्वसंभव इति चेत् ?
न । प्रतिशब्दमनन्तविधिप्रतिषेधवाक्यानुमानकल्पनानुपपत्तेः ।
यो हि प्रतिपदं पाठं साधूनां नाध्यवस्यति ।
विधिवाक्यानि तावन्ति स कथं प्रतिपत्स्यते ॥ ६८८
अपशब्दाश्च शब्देभ्यो भूयस्त्वेन व्यवस्थिताः ।
न कलञ्जादिवत्तेषां प्रतिषेध्यत्वसंभवः ॥ ६८९
व्रीह्यादीनि हि कलञ्जादीनि च नियतजातिगुणादिरूपेण परिज्ञायमानप-
रिमाणत्वाद्विधिप्रतिषेधगोचरीभवन्ति१ न तु गवादिगाव्यादीनां जातिरूपेण,
व्यक्तिरूपेण वा विधिप्रतिषेधावुपपद्येते ।
१. पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव । शल्यकः श्वाविधो गोधा शशः कूर्मश्च
पञ्चमः । वा० रा० कि० का० सर्गं १७ । श्लो० ३७ । अभिधाभावनेति मु० पु० पा०
५०८ मीमांसादर्शनम् [ सू०
न तावत्साध्वसाधुत्वे जातिगुणाद्यात्मकसामान्यरूपेण सर्वव्यक्त्यनुगते विज्ञा-
येते, यदालम्बनो द्वावेव विधिप्रतिषेधावनुमीयेयातां-साधुभिर्भाषित, नासाधु-
भिरिति ।
अविभक्ता हि शब्दत्वजातिः शब्दापशब्दयोः ।
न त्ववान्तरसामान्ये केचिद्गर्गद्वयस्थिते ॥ ६९०
तेन यद्येकैका व्यक्तिर्विधीयेत, प्रतिषेध्येत वा ततो यावत्पदं वाक्यान्य-
नुभिमानस्त्रैलोक्यपूरणादप्यधिकानि स्मृतिमूलभूतानि वेदवाक्यान्यनुमिमीते । न
च तावतां कोटिशतभागोऽप्याम्नातुं शक्यते । न चानाम्नातस्य स्मृतिमूलत्वम् ।
नित्यानुमेयश्रुतिमूलप्रतिषेधात् ।
न च वाचकत्वावाचकत्वनिबन्धनौ विधिप्रतिषेधौ संभवत-सर्वेषां वाच-
कत्वात् ।
वाचकैर्भाषितव्यं हि प्राप्तत्वान्न विधीयते ।
अवाचकनिषेधश्च नाऽप्राप्तेरवकल्पते ॥ ६९१
न ह्युदकं पिबेदग्निं न पिवेदिति च विधिप्रतिषेधौ संभवतः । अवश्यं च
व्याकरणस्मृतिमूलभूतसाधुविधिश्रुतिः असाधुप्रतिषेधश्रुतिः उभयं वा संयोग-
पृथक्त्वात् कल्पनीयम् । त्रिष्वपि च पक्षेषु साध्वनुशासनमात्रमेव सौकर्यादाश्रितम् ।
यदि ह्यपशब्दप्रतिषेधमूलं व्याकरणम्, ततस्तेषां बहुत्वादव्यवस्थितरूपत्वाच्च न
स्वरूपमवगन्तुं शक्यत इति 'पञ्च पञ्चनखा भक्ष्या' इति स्मृतिन्यायेनानुगतविपरीत-
भाषणप्रतिषेधोऽर्थापत्तिसिद्धः स्मर्यते । साधुविधिपक्षे तु त एव स्मर्त्तव्या । उभय-
पक्षे तु तदनुगमादेवेतरसिद्धेः प्रतिषेधविषयज्ञानोपपत्तिः । स एष व्याकरणस्य
न पक्षत्रयेऽप्येकानुगमनिवन्धनत्वात्कथंचित्संक्षेपोऽवकल्पते । ननु प्रतिशब्दं विधि-
प्रतिषेधावकॢप्तिः, अनन्तवाक्यपाठासंभवात् । इष्टासंभवदर्शनार्थमेव होलाकाधि-
करणेऽभिहितम् । न तस्याऽऽकृतिवचनता न्याय्या, न व्यक्तिवचनतेति । तस्माद-
संभवन्मूलत्वादपस्मृतिः ।
अथ प्राप्तश्च योऽर्थः स्यान्न स शास्त्रस्य गोचरः ।
सिद्धः शब्दप्रयोगश्च लोकादेवार्थलक्षणः ॥ ६९२
कात्यायनवार्तिकावलम्बनेन शङ्का
अथार्थलक्षणत्वेऽपि शास्त्रेण धर्माय प्रयोगनियममात्रप्रायोगोत्पत्तिशास्त्रत्वं
स्यादिति । तदनुपपन्नम् । नियमा१विषयासंभवात् ।
यस्य ह्यनियता प्राप्तिस्तच्छास्त्रेण नियम्यते ।
नित्यप्राप्तप्रयोगस्तु न शब्दो नियमास्पदम् ॥ ६९३
१. क. (टिप्पण्यां) प्रयोगनियमेति पाठः ।
२४ ] प्रथमाध्याये तृतीयपादः ५०९
यस्याप्यत्यन्तमप्राप्तिस्ततोऽन्यो न नियम्यते ।
तव चात्यन्तमप्राप्तिर्गव्यादेः प्राप्तता मम ॥ ६९४
तेन पक्षद्वयेऽपि नियमानुपपत्तिः ।
कीदृशश्चात्र नियमः कल्प्येत - किं साधुभिरेव भाषितव्यम्, उत साधुभि-
र्भाषितव्यमेवेति ।
यदि साधुभिरेवेति नासाधोरप्रसङ्गतः ।
नियतं भाषितव्यं चेन्मौने दोषः प्रसज्यते ॥ ६९५
यदि ह्येकार्थाः साध्वसाधवो विकल्पेन प्राप्नुयुः ततः साधुनियमावकाशः
स्यात् । तन्मते तु पुनः--
अत्यन्तावाचकत्वात्तु नैवासाधुः प्रसज्यते ।
यन्नि१वृत्तिफलः साधोनियमोऽत्रार्थवान्भवेत् ॥ ६९६
अथ प्रमादाशक्ति२कृतप्रसङ्गनिवृत्तिनियमं प्रयुञ्जीत । तदसत् ।
न हि शास्त्रशतेनापि प्रमादाशक्तिकारितात् ।
निवर्त्यन्ते प्रयोक्तारः प्रयोगादिति दृश्यते ॥ ६९७
दृष्टोऽप्यशब्दानामर्थाभिधाने प्रयोग इति चेत् ?
उच्यते - अन्योऽप्यक्षिनिकोचादेः प्रयोगोऽर्थेषु दृश्यते ।
तन्निवृत्तिफलः कश्चिन्नियमो न च दृश्यते ॥ ६९८
न च नियमानां प्रतिपक्षनिवृत्तिः प्रयोजनम् । परिसंख्याप्रयोजनत्वात् ।
न चायं परिसंख्याविषयो युज्यते । युगपत्प्राप्त्यभावात् ।
न वा दृष्टार्थतैवास्य प्रयोगस्योपपद्यते ।
न हि दृष्टनिराकाङ्क्षाददृष्टमपि गम्यते ॥ ६९९
न हि तादृशेष्वदृष्टकल्पनायामर्थापत्तिः प्रभवति । परार्थत्वाच्च फलश्रुतेरर्थ-
वादत्वम् । न चासति फले शक्यमपूर्वं कल्पयितुम् ।
नियमापूर्वस्य निरासः
न चेदं नियमापूर्वमाश्रितं भवेति गम्यते ।
शब्दार्थश्रोतृतद्बुद्धिवक्तृच्चारणगोचरे ॥ ७००
शब्दस्य तावदत्यन्तपरार्थदृष्टार्थत्वान्नापूर्वेण कश्चिदुपकारः । सत्यपि चाभि-
धानकर्मत्वेनार्थस्य प्राधान्ये, दृष्टार्थेषु लोकव्यवहारेषु विनाऽप्यपूर्वेणाङ्गभावाद-
पूर्वोपकारानुपयोगः । श्रोतुः पुर्ननियमविधिसंस्पर्शानन्तर्गतत्वादेवासंस्कार्यत्वम् ।
बुद्धयोश्च क्षणिकत्वान्न कालान्तरावस्थाय्यपूर्वाधारत्वोपपत्तिः ।
१. क. यस्मिन्वृत्तिफलः । २. शक्तिभूत ।
सूत्र-वार्त्तिक-भाष्यकाराणां प्रयोजनविगानेनाप्रामाण्यम्
५१० मीमांसादर्शनम् [ सू०
वक्ता तु१ भाषणे सर्वो गुणभूतो विधीयते ।
न तस्य नियमापूर्वसंस्कार्यत्वनिरूपणम् ॥ ७०१
न प्रधानपदं चात्र विद्यते स्वर्गकामवत् ।
न च षष्ठ्युक्तसम्बन्धात्स्वामित्वेन प्रधानतः२ ॥ ७०२
यत्तु दिङ्नियमापूर्वं भोजनादिषु कल्पितम् ।
पुरुषार्थक्रियाद्वारं तदर्थं तत्प्रतीयते ॥ ७०३
न चेहोच्चारणमुच्चारयित्रर्थम्, येन भोजनादिसमत्वं प्रतिद्येत । स्वरूपेण
पुनर्भङ्गित्वाद् बुद्धिवदेवासंस्कार्यम् ।
एवं चावेदमूलत्वान्न धर्मनियमार्थता ।
युक्ता शब्दस्मृतेर्वक्तुं न चास्याः शाखता स्वयम् ॥ ७०४
तदुक्तं 'प्रयोगशास्त्रमिति चेन्नासन्नियमात्' इति ।
वेदवत् स्वातन्त्र्येण प्रामाण्यनिरासः
नहि व्याकरणादीनां वेदत्वेन स्वतन्त्रता ।
पुरुषाधीनवृत्तेश्च सापेक्षस्याप्रमाणता ॥ ७०५
सर्वत्र हि 'पौरुषेयाद्वचनादेवमयं पुरुषो वेदेति प्रत्ययः' तेन कर्त्रभिप्रायप्रका-
शनमात्रोपयुक्तत्वाद्द्व्याकरणेनैव शब्दगतसाध्वसाधुविभागः प्रतीयते ।
न च स्मृत्यन्तरं किंचिद् दृष्टं तत्कार्यगोचरम् ।
दृढं श्रुत्यनुमानं स्याद्येनोपनयनादिवत् ॥ ७०६
व्याकरणस्मृतेः धर्मशास्त्रैस्तुल्यत्वम्
प्रायेण मनु-गौतम-वसिष्ठादिप्रणीताः समानेष्वर्थेषु धर्मसंहिता वर्तन्ते ।
तेनाविगानात्ताभ्य एव श्रुतयः स्वनुमानाः । न च व्याकरणस्य ताभिः समा-
नार्थत्वम् ।
सूत्र-वार्त्तिक-भाष्यकाराणां प्रयोजनविगानेनाप्रामाण्यम्
परस्परेण चाऽऽचार्या विगीतवचनाः स्थिताः ।
सूत्रवार्तिकभाष्येषु किं तत्राध्यवसीयताम् ॥ ७०७
न तावत्सूत्रकारेण किंचिदुक्तं प्रयोजनम् ।
कथं चैतावति ग्रन्थे स्यात्प्रयोजनविस्मृतिः ॥ ७०८
येष्वपि तद्ग्रन्थेषु विस्रष्टान्यादित एवाऽऽरभ्य प्रयोजनानि ज्ञायन्ते । न चैषां
श्रवण-ग्रहण-धारणेपु महान्खेदस्तेष्वपि जिज्ञासूत्साहार्थं पूर्वं प्रयोजनान्येव
१. क. कुभाषणे । २. क. प्रधानता ।
२४ ] प्रथमाध्याये तृतीयपादः ५११
निबध्यन्ते 'धर्मं व्याख्यास्यामः (वे. द. १ १-१'), यज्ञं व्याख्यास्यामः (आप० परि०
सू. १-१) इत्येवमादिभिः । इह पुनरत्यन्तकष्टं व्याकरणं प्रणयता सूत्रकारेण
धर्मार्थकाममोक्षाणां न कस्यचित्प्रयोजनत्वमाश्रितम् । न च सर्वप्रधाने वस्तुन्य-
नादरो युक्तः । सुज्ञातत्वं पुनरीदृशम्, येनाद्यापि विवदन्ते ।
धर्मश्च फलसंबद्धं कर्म यागादि वर्ण्यते ।
न च व्याकरणे किंचित्तादृक्कर्मोपदिश्यते ॥ ७०९
धर्मत्वं यच्च विज्ञान-शास्त्रपूर्वप्रयोगयोः ।
यथेष्टं वर्णितं तच्च न शास्त्रसदृशं मतम् ॥ ७१०
शास्त्रार्थो हि निरूपितरूपो भवति । इह च ज्ञानधर्मत्वमुपन्यस्य, अधर्मप्रस-
ङ्गभीतेन शास्त्रपूर्वप्रयोगेऽभ्युदय इति वार्तिककारेणोक्तम् । भाष्यकार आह—
अथ वा पुनरस्तु ज्ञाने धर्मः (पस्पशाह्निक. १-१-१) इति । न चैवमनियमेन
धर्मत्वावधारणं युक्तम् १ ।
संबद्धयोश्च धर्मत्वं यदेकस्यावधार्यते ।
तदेतरत्तदर्थत्वान्न धर्मत्वेन गम्यते ॥ ७११
ज्ञानप्रयोगयोरन्योन्यतरस्यानुनिष्पादितत्वेन उपसंहारः
तदिह यदि तावज्ज्ञानमेव धर्मत्वेनावधारितम्, ततो लोकप्रसिद्धस्यैव प्रयोगस्य
ज्ञानात्तु निष्पादितत्वेन सत्यामप्युपकारनिवृत्तौ वाजिनादिवत्प्रयोजकत्वाभावः ।
शास्त्रपूर्वकप्रयोगपक्षे तु ज्ञानस्य तदङ्गत्वेन निराकाङ्क्षभूतत्वात् । असत्यां प्रयो-
जनान्तराकाङ्क्षायां यद्यपि कांचित्फले श्रुतिर्भवेत् साऽपि 'द्रव्यसंस्कारकर्म' २
४-३-१ इत्यनेन न्यायेनऽर्थवादतया ज्ञायते । न हि समानाध्वनोः परस्मिन्फलवति
ज्ञाते पूर्वस्यापि फलवत्ता ज्ञायत इति वर्णितमेतत् "योऽश्वमेधेन यजते य उ
चैनमेवं वेद" इति ।
किं च—आदिमत्त्वाच्च धर्मत्वं नैव ज्ञातप्रयोगयोः ।
न हि व्याकरणापेक्षा वर्तते वैदिकी श्रुतिः ॥ ७१२
यन्नाम ज्ञानं नित्येन वेदेनैव क्रियते, तत्र तत्पूर्वकप्रयोगविधानं फलायोप-
पद्यते । व्याकरणज्ञानं तु पौरुषेयम्, ग्रन्थाधीनत्वान्मन्त्रार्थवादगतानित्यसंयोगपरि-
हारन्यायेनानादिवेदविषयत्वेन नावधार्यते ।
व्यवहारनित्यतया कण्ठस्थनित्यतया वेदस्य नित्यत्वनिरासः
न च व्याकरणं नित्यं कथंचिदवगम्यते ।
कर्तृस्मृतिद्रढिम्ना हि नित्यपक्षनिराक्रिया ॥ ७१३
१. क. उक्तम् । २. क. कर्मस्वित्यनेन ।
५१२ मीमांसादर्शनम् [ सू०
अथापि व्यवहारनित्यतान्यायेन पौरुषेयव्याकरणपरम्पराऽनादिः कल्प्येत,
तथाऽपि ‘उक्तं तु शब्दपूर्वत्वम्’ (१-१-२९) इत्यस्य न्यायस्य स्थितत्वात्। अनेक-
पुरुषकृतमपि सव्याकरणं वेदालम्बनत्वं न प्रतिपद्यते ।
न च व्याकरणत्वाख्या जातिः काचिद्व्यवस्थिता ।
अनित्ये वाक्यसंघाते सा जातिः क्वाऽवतिष्ठताम् ॥ ७१४
पातञ्जलभाष्यानुसारेणाशङ्का-निरासौ
अथ ‘लक्ष्यलक्षणे व्याकरणम्’ (प. आ.) इति सत्यपि लक्षणांशकृत्रिमत्वे
लक्ष्यांशेन नित्येन विधिरुपपत्स्यत इति ।
तदनुपपन्नम् । कुतः—
अत्यन्तभिन्नरूपत्वाल्लक्ष्याणां लक्षणादिना ।
नैकमालम्बनं किंचिद्विधेरस्तीत्युदाहृतम् ॥ ७१५
ननु वेद¹ एव व्याकरणनित्यत्वं दृश्यते । यथाऽऽह—‘तस्मादेषा व्याकृता
वागुद्यत’ (तै. सं. ६.४.७) इति । नैतदस्ति ।
व्याकृता सम्प्रदायेन वाणी नित्यैव वैदिकी ।
अनूदितोच्यमानेयं कर्मस्वाध्यायकालयोः ॥ ७१६
अव्याकृताया हि लौकिक्या वाचः शिष्याचार्यसम्बन्धेन स्वरवर्णमात्रा-
क्रमैरविप्लुत रूपैर्निरूपिताकारैरेव वैदिकी व्याकृतेत्युच्यते। तस्माच्च मन्त्रब्राह्मणा-
त्मिकायाः कर्मसु, ज्ञाने, प्रयोगे च धर्मोऽस्त्येव । यदपि च एकः शब्दः सम्यग्
ज्ञातः सुप्रयुक्तः शास्त्रान्वितः स्वर्गे लोके कामधुग्भवति (म. भा. ६.१.८४) इति ।
तदपि स्वाध्यायप्रशंसाशेषभूतमेव । “अहरहः स्वाध्यायमधीयीत” इत्यत्र
‘अप्येकामृचम्, यजुः, साम वा’ इत्येतदवश्यकर्तव्यतानियमार्थमुक्तम् ।
योऽपि मन्त्रं समस्तं हि न धीयीताप्यशक्तितः ।
तस्य शास्त्रान्वितः शब्द एकोऽपि स्वर्गकामधुक् ॥ ७१७
शास्त्रान्वित इति च यथास्वाध्यायमनुगत इत्यर्थः । सम्यक्प्रयुक्त इति
चोपनयनोपसदनगुरुशुश्रूषादर्भपवित्रपाणित्वादीतिकर्तव्यतोपपन्नतवाश्रयेणोक्तम् ।
यदपि च “तस्माद् ब्राह्मणेन न म्लेच्छितवै नापभाषितवै², म्लेच्छो ह वा एष
यदपशब्दः” इति, तत्संप्रदायागतवैदिकशब्दविनाशप्रतिषेधार्थमेव । वैदिकाच्चा-
पेतत्वाल्लौकिकस्यापशब्दत्वं संभवति ।
१. क. वेदे । २. क. “नापभाषितवा” इति ।
२४ ] प्रथमाध्याये तृतीयपादः ५१३
सुज्ञानं च। न लौकिकादप्येतोऽपशब्दो नाम कश्चिदस्ति । गव्यादीनामपि
शब्दानां श्रोत्रग्राह्यत्वेन शब्दशब्दवाच्यत्व-शब्दबुद्धिग्राह्यत्वशब्दत्वानुगम-
दर्शनात् । अथाप्यवश्यं लौकिकादप्येतोऽपशब्द आश्रयणीयः । अथाऽपि
“न म्लेच्छभाषां शिक्षेत” इत्येवमादिस्मृत्यनुसरणेन हिमवद्विन्ध्यान्तराल-
कृष्णमृगसंचारणाद्युपलक्षितधर्माधिकृतार्यावर्तनिवासिव्यतिरिक्तबर्बरादिभाषागतस्य
म्लेच्छितत्वसमानाधिकरणापशब्दत्वज्ञानात्तेन भाषणं प्रतिषिध्यते । युक्तं च
तस्याशेषतदीयाचरणवत्परिहरणीयत्वम्, न त्वार्यावर्तनिवासिप्रयुक्तेषु गव्यादिषु
म्लेच्छतिधात्वर्थानुगमः कश्चित् । येन तदनाचारितत्वेनापवृत्तवदपशब्दत्वं
निरूप्यते ।
यदपि च "आहिताग्निरपशब्दं प्रयुज्य प्रायश्चित्तीयां सारस्वतीमिष्टिं
निर्वपेत्” इति तदप्यनूत्वादवैदिकशब्दविनाशम्लेच्छभाषाप्रयोगाश्रयमेव
वेदितव्यम्, न तु व्याकरणानुगतव्यतिरिक्तशब्दप्रयोगविषयम् । तथा हि—
कथं नामेदृशात्कार्यात्सर्व एवाऽऽहिताग्नयः ।
प्रवर्तेरन्कथं१ चान्यैर्न निन्द्येरन्नशिष्टवत् ॥ ७१८
प्रायेण हि शिष्टानां धर्माचारप्रणितचेतसां कश्चिदेव प्रमादादल्पोऽनाचारो
भवति । गव्यादिशब्दप्रयोगेषु पुनर्न केषांचिदप्यनाचारबुद्धिः । न च कलञ्जा-
दिभक्षणवद्विचिकित्सा,२ गर्हा वा दृश्यते न चाऽऽहिताग्निसहस्रेऽप्येकस्त्वदभि-
मतसाधुशब्दैरेव व्यवहरमाणो दृश्यते ।
कल्पसूत्रकारादीनामपशब्दप्रयोगवर्णनम्
कल्पसूत्रस्मृतिग्रन्थमीमांसागृह्यकारिणः ।
शिष्टा दृष्टाः प्रयुञ्जाना अपशब्दाननेकंशः ॥ ७१९
'समानमितरच्छद्येनेन' इत्यादितकारान्तप्रथमान्तनपुंसकप्रयोगेषु मशकेन
तत्र तत्र प्रयुक्तम्, 'समानमितरं ज्योतिष्टोमेन' 'समानमितरं गवा ऐकाहिकेन'
इति सूत्रकारेणाप्यभिहितम् । “अहीने बहिष्पवमानैः सदसि स्तुवीरन्” इति
कर्त्रभिप्रायक्रियाफलवर्जितेऽप्यृत्विक्कर्तृके स्तवने 'यजन्ति याजका' इतिवत्परस्मैपदे
प्रयोक्तव्ये व्याकरणमनपेक्ष्याऽऽत्मनेपदं प्रयुक्तम् । तथाऽऽश्वलायनेन “प्रत्यसित्वा
प्रायश्चित्तं जुहुयुः” इति समासेऽपि ल्यप्न प्रयुक्तः । आज्येनाक्षिणी आज्य
इत्यसमासेऽपि प्रयुक्तः ।
१. क. प्रवर्त्येरन् । २. क. मक्षणवच्चिकित्सा ।
३३
५१४ मीमांसादर्शनम् [ सू०
तथा शिक्षायां नारदेन “प्रत्युषे ब्रह्म चिन्तयेत्" इति गाव्यादिशब्दतुल्य
एव प्रयुक्तः ।
तथा मनुनाऽपि “ज्ञातारः सन्ति मेत्युक्त्वा" इत्यत्र सन्ति म इत्युक्तेति
वक्तव्ये व्याकरणमनपेक्ष्यैव संहिता कृता ।
तथा मीमांसायामपि 'गव्यस्य च तदादिषु' इति गोविकारावयवविषयसाधु-
प्रयोगयोग्यः शब्दोऽन्यत्रैव गवामयने प्रयुक्तः । तथा 'द्यावोस्तथेति चेत्' इति
द्यावापृथिव्योरिति वक्तव्ये लक्षणहीनमेव बहु प्रयुक्तम् ।
तथा गृह्यकारेण मूर्धन्यभिघ्राणमिति वक्तव्ये मूर्धन्यभिजिघ्राणमित्यविषये
जिघ्रादेशः प्रयुक्तः । कार्त्स्न्येऽपि व्याकरणस्य१ निरुक्ते हीनलक्षणाः प्रयोगा बहवो
यद्वद् ब्राह्मणो ब्रवणादिति । संवत्सरं शाशयाना२ इत्येतन्मन्त्रगतमण्डूकविषय-
ब्राह्मणशब्दनिर्वचने क्रियमाणे वचनशीलत्वनिमित्तां दर्शयता । ब्रुवो वचिरिति
वच्यादेशमकृत्वैव ब्रवणादिति प्रयुक्तम् ।
इतिहासपुराणयोः अपशब्दप्रदर्शनम्
अन्तो नास्त्यपशब्दानामितिहासपुराणयोः ।
तथोभाभ्यादिरूपाणां३ हस्तिशिक्षाधिकारिणाम् ॥ ७२०
युगपदुभाभ्यां दन्ताभ्यां यः प्रहारः स उभाभ्य इति सर्वैः पालकार्यराजपुत्रा-
दिभिर्व्याकरणानपेक्षमेव प्रयुक्तम् ।
वेदेऽपि अपशब्दप्रयोगदर्शनम्
वेदेष्वपि प्रयोगास्ते भूयांसोऽध्येतृसंमताः ।
सामान्यं छान्दसं वाऽपि येषां नास्त्येव लक्षणम् ॥ ७२१
न हि ते सुप्तिङुपग्रहादिव्यत्ययेन ‘नापि कतिपयाधिकारदृष्टेन बहुलं छन्दसि'
इत्यनेन सिध्यन्ति । तद्यथा ‘मध्यं आपस्य तिष्ठति नीचीन वारं वरुणः कबन्धम्'
इति । न ह्यपामित्यस्य नित्यस्त्रीलिङ्गबहुवचनविषयव्यञ्जनान्तप्रातिपदिकपर-
षष्ठ्यन्ताख्यानादापस्येत्येतद्रूपं लक्षणानुगतं दृश्यते । नापि द्वारशब्दस्य
स्थाने लाटभाषातोऽन्यत्र वारशब्दः संभवति । तेनानारभ्य एवायम्, विषय-
व्याप्त्यसंभवात् ।
शब्दानुगमरूपोऽर्थो यत्र व्याकरणं कृतम् ।
येऽपि व्याकरणस्यैव परे पारे प्रतिष्ठिताः ॥ ७२२
१ क. व्याकरणस्यापि । २ क. संवत्सरंशयाना । ३ क. तथोमाभ्यो द्विरूपाणां ।
सूत्र-वार्तिक-भाष्येषु दृश्यते चापशब्दनम् ॥ ७२३
२४ ] प्रथमाध्याये तृतीयपादः ५१५
व्याकरणसूत्र-वार्तिक-भाष्येषु अपशब्दवर्णनम्
सुतरां तेऽपि गाव्यादितुल्यानेव प्रयुञ्जते ।
सूत्र-वार्तिक-भाष्येषु दृश्यते चापशब्दनम् ॥ ७२३
अश्वारूढाः कथं चाश्वान्विस्मरेयुः सचेतनाः ।
सूत्रे तावत् 'जनिकर्तुः प्रकृतिः' (पा० सू० १।४।३०) इत्यत्र हि द्वावपशब्दौ
जनिशब्देन हि इक्शितपौ धातुनिर्देश इत्यनेन लक्षणेनान्वितो धातुरेव निर्दिश्यते ।
न च तस्य कर्तुः प्रकृतेरपादानसंज्ञेष्यते । जायमानस्य पुनरर्थस्य जनिशब्दो
वाचक तया नैव लक्षणेनानुगतः । तेनायं दरिद्र इवाश्वशब्दो जनिमात्रवाचित्वा-
त्तदर्थं प्रत्यसाधुरेव विज्ञायते । तथा 'तृजकाभ्यां कर्तरि' (पा० सू० २।२।१५)
इति प्रतिषिद्धषष्ठीसमासप्रयोगाद् व्याकरणफलपरित्यागः । एवं 'तत्प्रयोजक.'
(पा० सू० १।४।५५) इति प्रतिषिद्ध एव समासः ।
तथा वार्तिकेऽपि 'दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात्सिद्धम्' इति । तथा
'आन्यभाव्यं तु कालशब्दव्यवायात्' इति । अत्र क्लेशेन समासं कल्पयित्वा, ततः
समाससंज्ञा गुणवचनसंज्ञायां बाधितायां 'गुणवचनब्राह्मणादिभ्यः (पा० सू०
५।१।१२४) इति लक्षणेनासंसृष्ट एव ष्यञ्प्रयुक्तः ।
भाष्येऽप्यविरविक्न्यायेनेतिद्वन्द्वगर्भे तत्पुरुषे पूर्वसमासपूर्वपदस्थायाः सुपः
'सुपो धातुप्रातिपदिकयो' (पा० सू० २।४।७१) इति प्रत्यक्षोपदिष्टोऽपि लुङ्
न कृतः । तथा 'अन्यथा कृत्वा चोदितमन्यथा कृत्वा परिहारः' इति ।
'अन्यथैवं कथम्' इत्यन्वाख्यातसाधुत्वोऽपि णमुलू न प्रयुक्तः । न चैषां निपातनैः
साधुत्वसिद्धिः ।
कुतः-येषामनुगमो नास्ति ते सिध्येयुर्निपातनेः ।
अन्यथानुगतानां तु प्रयोगं बाधते स्मृतिः ॥ ७२४
स्मृत्याचारविरोधे हि स्मृतिरेव बलीयसी ।
प्रत्यक्ष प्रतिषेधाच्च जनिकर्त्रादिसाधुता ॥ ७२५
प्रत्यक्षश्रुतिविरोधे तु लक्षणरहितस्यापि प्रयोगादेव शिष्टाचारभूतादवय-
वानुगमस्मृतिमनुमाय निपातनात्साधुत्वसिद्धिः । न च लक्षणशब्दानां स्वात्मनि
क्रियाविरोधादात्मार्थत्वाभावाद्वा लक्षणानुपतिरनादरणीया ।
प्रदेशान्तरसिद्धेन लक्षणेनानुगम्यते ।
देशान्तरस्थितः शब्दो लक्ष्यभूतोऽन्यशब्दवत् ॥ ७२६
तथा च 'कृत्वं कस्मान्न भवति' वृद्धिरादैच् (पा० सू० १।१।१) इति । कोऽयं
शब्दः' इत्यादिषु लक्षणानुगमादरः सर्वत्राऽऽश्रितः । यदि च लक्षणशब्देषु लक्षणं
५१६ मीमांसादर्शनम् [ सू०
न प्रवर्तेत, ततः सर्वं व्याकरणमपशब्दैरेव निबद्धं स्यात् । अर्धवैशसदर्शनात्तु
प्रमाणत्वहानिः ।
अथोच्येत यज्ञप्रयोगविषय एव साधुभाषणनियमः, न सूत्रकारव्याख्यानादि-
क्रियास्विति । तदसत्, स्वर्गे लोके कामधुगिति फलवत्त्वोपन्यासात् । सारस्वतीष्टि-
विधावाहिताग्निग्रहणार्थवत्त्वात्१ । इतरथा ह्याहिताग्निरेव यज्ञेष्वधिक्रियत इति,
तद्गोचरेऽपशब्दप्रयोगे निष्प्रयोजनमेवाऽऽहिताग्निग्रहणं२ भवेत् ।
योऽपि च ज्योतिष्टोमप्रकरणे वाजसनेयिनां 'तस्माद् ब्राह्मणो न म्लेच्छेत्'
इति प्रतिषेधः कर्माङ्गत्वेन ज्ञायते । सोऽपि गुरुसम्प्रदायक्रमागतमन्त्रप्रयोगविनाश-
विषय एव, म्लेच्छभाषाप्रतिषेधार्थो वेति पूर्ववदेव नेतव्यः ।
यदपि च 'केषां शब्दानाम्' इति प्रश्नानन्तरं 'लौकिकानां वैदिकानां च'३
इति विवेककथनम्, तदपि बहूनां तावत्प्रत्यक्षप्रत्यभिज्ञानाल्लोकवेदयोरभेदे सति
स्तोकप्रविभागापेक्षं नैवेदमत्यन्तभेदाश्रयसदृशमभिधीयमानं शोभते । न च
लौकिकमध्ये गौरश्वः पुरुषो हस्तीत्येवमादयः सर्वे वेदसाधारणाः, वेदादेव वोद्धृत्य
लोकेन प्रयुक्ता उदाहर्तुं न्याय्याः । य एव हि भाषायामित्येव स्मर्यन्ते, न च
क्वचिदपि वेदे दृष्टपूर्वा इत्येवं संभावयितुं शक्यन्ते, त एवोदाहर्तव्याः ।
वैदिकोदाहरणेष्वपि च लोकप्रसिद्धा एव शमादय उदाहृताः । न च वाक्योदा-
हरणेन लौकिकेभ्यो भिद्यन्ते । वाक्यानां व्याकरणेनान्वाख्यानात् । अतश्छान्द-
सान्येव कानिचित् 'गृभ्णामि' 'दत्वायाथ' इत्येवमादीन्युदाहर्तुं योग्यानि । न 'शं
नो देवी' इत्येवमादीनि४ । छान्दसोदाहरणं च कुतः ? 'सिद्धे' 'लोकत'५ इत्यनेन
प्रत्यासन्नेनैव व्याहन्येत । यदि च लौकिकानामन्वाख्यानं क्रियेत, ततः सुतरां
गव्यादय एवान्वाख्येयाः तेषां व्यवस्थितं लौकिकत्वम्, वेदेष्वप्रयोगात् । पुनरध्ये-
तृभिर्वेदादेवोद्धृत्योद्धृत्य६ प्रयुक्ता इति शक्यं वक्तुम् ।
तथा च मनुनाऽप्युक्तम् ।
वेदशब्देभ्य एवाऽऽदौ पृथक् संस्था विनिर्ममे इति ।
दृश्यन्ते चाद्यत्वेऽपि श्रोत्रिया लौकिकेऽप्यर्थे विवक्षिते तद्रूपासमानार्थ-
न्सकलमन्त्रानप्युदाहरन्तः,७ किमङ्ग पुनः पादान्पदानि वा । न चाऽऽश्रितप्रतिपद-
१ क. विधिः । २ क. निःप्रयोजन ।
३. म० भा० पस्प० । ४ क. रित्येव ।
५. सिद्धे शब्दार्थसम्बन्धे, लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमो यथा लौकिक-
वैदिकेषु इति महाभाष्यवार्तिके ।
६ क. गवादयः पुनः । ७ क. हरतः ।
२४ ] प्रथमाध्याये तृतीयपादः ५१७
पाठानां वैदिकानां लक्षणेन कार्यम् । न चैषां गुरुमुखात्साधीयो लक्षणमस्ति
‘दृष्टानुविधित्वाच्छन्दसः’ इति स्वयमेव लक्षणस्याऽऽम्नानाधीनत्वेन मन्दप्रयोज-
नत्वमुक्तम् ।
यथैव लोकसिद्धत्वात्कृष्यादेर्लक्षणं वृथा ।
तथैव वेदसिद्धानां शब्दानां लक्षणं वृथा ॥ ७२७
अन्यसिद्धैर्वेदरक्षादिप्रयोजन-निराकरणम्
रक्षाद्यपि यदत्रोक्तमन्वाख्यानप्रयोजनम् ।
न तदप्यन्यतः सिद्धेरल्पसिद्धेस्ततोऽपि वा ॥
शिष्याचार्यसम्बन्धो हि महान्वेदरक्षाहेतुः, व्याकरणानधीयानस्यापि वेद-
क्रमस्याध्ययनेनैव रक्ष्यमाणत्वात् । तद्विनाशेऽपि च विशिष्टतरदोषप्रसङ्गात् ।
उक्तं च—
निराकाङ्क्षीभवेल्लक्ष्यं येन तन्नाम लक्षणम् ।
शतांशमात्रसिद्धौ तु तेन मन्दं प्रयोजनम् ॥ ७२८
समाम्नायप्रसिद्धेऽपि सामवेदेऽस्ति लक्षणम् ।
तद्युक्तं कृत्स्नसिद्धित्वात्कर्तव्यार्थेन चार्थवत् ॥ ७२९
औच्छिक्थ्ये हि सर्वाणि सामपर्वाणि यथाक्रमं लक्षणेनानुगतानि । ततश्च
समस्तसामरूपसिद्धेर्निराकाङ्क्षत्वं भवति । ब्राह्मणविधिवशेन च, ऋगन्तरसंचार-
णायां प्रस्तावादिपञ्चधाविभागेन लक्षणोपयोगः । पदानुगममात्रनिवृत्तव्यापारेण
तु व्याकरणेन विशिष्टपदरचनात्मकवाक्यसंघातरूपाणामसंभवत्कर्तव्यपदवाक्यानां
मन्दमिव रक्षितव्यं दृश्यते ।
लक्षयेद्यः समाम्नायात्पदवाक्यक्रमान् बहून् ।
स लक्षयेत्तरामल्पं प्रकृतिप्रत्ययक्रमम् ॥ ७३०
वेदरक्षाया इहाध्यार्थिभिरेव सम्भवात् व्याकरणस्य नैष्फल्यम्
किं च—यदि व्याकरणाद्रक्षां मन्वीरन्वेदवादिनः ।
वैयाकरणगेहेषु छिन्द्युस्ते वेदसंशयान् ॥ ७३१
कक्षावलम्बनं नित्यं को नाम करकं वहन् ।
तमनादृत्य शौचार्थमन्यतः कर्तुमर्हति ॥ ७३२
लोके यस्य यदर्थत्वमाप्ता वा यत्र ये मताः ।
तेन तेभ्यश्च तद्वस्तु यथावदवगम्यते ॥ ७३३
आयुर्वेदं चिकित्सासु प्रायेण विनियुज्यते ।
व्याधितत्त्वौषधज्ञानं वैद्येभ्यश्चोपलभ्यते ॥ ७३४
५१८ मीमांसादर्शनम् [ सू०
न तु वेदाध्यायिनां कदाचिदप्यभियुक्ततरसहाध्यायिव्यतिरेकेण वेदवर्णपद-
वाक्याज्ञानसन्देहविपर्ययव्यावृत्तौ व्याकरणम्, वैयाकरणा वोपयुज्यन्ते ।
सहाध्यायिभिरेवातो वेदः कात्स्न्येन रक्ष्यते ।
स्वराक्षरविनष्टोऽपि द्वेषादन्यैर्न मृष्यते ॥ ७३५
तस्मात्प्रीतैरुपायैर्द्विष्टैः कारुणिकादिभिः ।
न विनाशयितुं वेदो लभ्यते तेन रक्ष्यते ॥ ७३६
तस्माद्वेदरक्षार्थं तावन्नाध्येयं व्याकरणम् ।
काव्यप्रयोगनियमोत्पत्त्यशास्त्रत्वाच्च व्याकरणस्य वैयर्थ्यम्
लोके तु सर्वभाषाभिरर्था व्याकरणादृते ।
सिध्यन्ति व्यवहारेण काव्यादिष्वप्यसंशयम् ॥ ७३७
यदि तु संव्यवहारवाक्येष्वनुपयुज्यमानमपि काव्यनाटकलक्षणप्राकृतव्याकरण-
द्विपदी-रासकादिलक्षणन्यायेन संस्कृतकाव्योपयोगार्थं व्याकरणमाश्रीयेत १ तथाऽपि
काव्यप्रयोगनियमोत्पत्त्यशास्त्रत्वाद्यथेष्टभाषाभिः प्रबन्धकरणसम्भवाच्छब्देषु न
व्यवस्था स्यादित्युरुच्यते ।
काव्यशोभास्वपि त्वेतन्नैवातीवोपयुज्यते ।
वैयाकरणदोषाद्धि कष्टाञ्शब्दान्प्रयुञ्जते ॥ ७३८
न च लक्षणमस्तीति प्रयोक्तव्यमलौकिकम् ।
लोकसिद्धप्रयोगे तु लक्षणं स्यादनर्थकम् ॥ ७३९
तेन लोकेऽपि न कदाचिद् व्याकरणेन शब्दरक्षा ।
ऊहस्याप्यन्यतस्सिद्धत्वाद् व्याकरणस्यानुपयोगः
ऊहार्थमपि शब्दानां न व्याकरणमर्थवत् ।
ऊहस्याप्यन्यतः सिद्धेरूह्यानूह्यविभागवत् ॥ ७४०
तथा च—मुख्यदृष्टार्थतास्वार्थसमवेतार्थतादिभिः ।
प्रयुक्ताः प्रकृतौ मन्त्रा गताः कार्यातिदेशतः ॥ ७४१
विकारेऽथ निषिद्धोहाः कार्यापिन्नेषु पञ्चधा ।
अर्थान्तरेष्वपूर्वार्थद्वारेणोहं व्रजन्ति नः ॥ ७४२
एतावत्यन्यतो यस्य विना व्याकरणान्मतिः ।
जायेत स कथं तत्र पदं योग्यं न लप्स्यते ॥ ७४३
१ क. माश्रियेत ।
२४ ] प्रथमाध्याये तृतीयपादः ५१९
वेद एव हि सर्वेषामादर्शः सर्वदा स्थितः ।
शब्दानां तत उद्धृत्य प्रयोगः सम्भविष्यति ॥ ७४४
अथ वा योऽपि गव्यादिर्लोकेिनार्थे प्रयुज्यते ।
सोऽप्यर्थद्वारतः प्राप्तप्रयोगः केन वार्यते ॥ ७४५
देवतापदानि तावत्—'विधिशब्दस्य मन्त्रत्वे भावः स्यात्' १०-४-२३
इत्येतेन न्यायेन सर्वानिव साध्वसाधुत्वसम्मतानपर्यायानपरित्यज्य विधिगतप्रयोगानु-
सरणेनैव तद्वाक्यशेष-वाक्यान्तराधिगतार्थाभिधानरूपेण प्रयुज्यन्ते, तेषु ह्यस्त्येव
कर्माभिधानार्थमेव प्रयोगोत्पत्तिशास्त्रत्वम् । यानि तु द्रव्य-तद्गुणादिपदानि
सन्निहितार्थपर्यवस्थापितसमस्तरूपाणि प्रयोगवचनगोचरमिच्छन्ति, तेष्वसन्निहि-
तार्थपदन्निवृत्तिन्यूनसाकाङ्क्षमन्त्रवाक्यनिराकाङ्क्षीकरणाय स्मृतेऽप्यर्थे प्रयुज्य-
मानेषु प्रयोगोत्पत्त्यशास्त्रत्वान्न व्यवस्था स्यादित्युच्यते । प्रकृतौ हि मन्त्राणां
प्रयोगोत्पत्तिः शास्त्रवती । विकृतौ—पुनरर्थवशाद्भवन्ती न व्याकरणानुगते-
ष्वेवावतिष्ठते । व्याकरणस्याप्यसम्भाव्यमानमूलशास्त्रस्य कृतकाविधायकेष्ट्युप-
संख्यानाद्यावापोद्वापसूत्रप्रत्याख्यानानवस्थितप्रमाणत्वस्य यथारुचिविकल्पितप्रकृति-
प्रत्ययपरिमाणादिदोषग्रस्तस्य निश्चितस्मर्यमाणपाणिन्यादिमतसापेक्षस्य नैवानादि-
यज्ञगतशब्दप्रयोगनियमोत्पत्तिशास्त्रत्वमवकल्पते ।
तेनोहे कर्मकर्माङ्गवाक्यार्थज्ञानकौशलैः ।
लोकवेदप्रयोगाच्च सिद्धे व्याकरणेन किम् ७४६
मन्त्रेषु व्याकरणेनोहकरणमशक्यमित्यत्र प्रमाणोपन्यासः
अपि च व्याकरणेनोहकरणमशक्यमेवेति मन्वानैष्टीकाकारैरप्युक्तम्—
अङ्गानि ज्ञातिनामान्युपमा चेन्द्रियाणि च ।
एतानि नोहं गच्छन्ति अध्रिगौ१ विषमं हि तत् ॥ इति । ७४७
प्रयोजनवत्वे प्रमाणत्वेनोपन्यस्तस्यागमस्य निरासः
आगमो यस्तु निर्दिष्टः प्रयोजनविवक्षया ।
कर्मणां नोच्यते तत्र किं वेदाध्ययनं फलम् ॥ ७४८
सर्वस्य हि ह्यनुष्ठातव्यस्याऽऽगमो मूलत्वेनाऽऽख्यायते, न प्रयोजनत्वेन ।
अथैतेनैव युक्तं स्यादागमोक्तं प्रयोजनम् ।
तदप्यसदनाम्नानान्निष्कारणतयाऽपि च ॥ ७४९
१. दैव्याः शमितार आरमध्वमित्यादिः पशुविशसनप्रैषमन्त्रोऽध्रिगुशब्दवत्त्वेनाध्रिगुरि-
त्युच्यते ।
५२० मीमांसादर्शनम् [ सू०
निष्कारणषडङ्गवेदाध्ययनोपन्यासेन हि सुतरां व्याकरणस्य निष्प्रयोजनत्व-
मुक्तम् ।
आगमो वेदवाक्याच्च नान्यः कश्चन विद्यते ।
कथं चाऽऽदिमतां सिध्येद्वेदेनाऽनादिना विधिः ॥ ७५०
तस्मात् 'स्वाध्यायोऽध्येतव्यः' इत्येतत्केवलवेदाध्ययनविधानं शतपथादिषु
दृष्टम्, उपपन्नं च, निःस्यार्थालम्बनत्वात् । व्याकरणाद्यङ्गाध्ययनविधानं पुनर्न
कस्यांचिच्छाखायां श्रूयते । न चाऽऽदिमदर्थविषयं सदनादित्वाधीनं वेदत्वम्,
प्रमाणत्वं वा लभते ।
न चं वेदाङ्गभावोऽपि कश्चिद् व्याकरणं प्रति ।
तादर्थ्यनियवाभावाद् बुद्धादिवचनेष्विव ॥ ७५१
श्रुतिलिङ्गादिभिस्तावत्तादर्थ्यं नास्य गम्यते ।
अकृत्रिमस्य वा कश्चित्कृत्रिमोऽवयवः कथम् ॥ ७५२
आगमस्य श्रुत्याद्यङ्गताबोधकप्रमाणपरत्वेन व्याख्यानम्
तस्मादवयवविषयमेवैतदेदं वर्णयितव्यम् ।
षडङ्गो वेद इत्युक्तं श्रुतिलिङ्गाद्यपेक्षया ।
तैः षड्भिः प्रविभक्तः सन् स हि कर्मविबोधनः ॥ ७५३
ननु बाह्याङ्गानपेक्षत्वे वेदस्वरुपान्तर्गतश्रुत्याद्यपेक्षया विशेषणमनर्थकं
प्रसज्यते ।
तथा हि—सम्भवव्यभिचाराभ्यां स्याद्विशेषणसम्भवः ।
श्रुत्याद्यव्यभिचारात्तु तैरङ्गैः किं विशेष्यते ॥ ७५४
उच्यते—यस्तानि प्रविभक्तानि हेतुरूपफलैः पृथक् ।
ज्ञात्वाऽधीते स एवाऽस्य विधेरर्थं करोति नः ॥ ७५५
अधिगन्तव्य इत्येतदध्येय इति चोच्यते ।
तेन श्रुत्यादिमान्वेद्यो वेदितव्यो विधेरतः ॥ ७५६
ध्यायतेरेव वा रूपं ध्येय इत्येतदाश्रितम् ।
श्रुत्यार्पितस्वार्थः स ध्यातव्यः सदा द्विजैः ॥ ७५७
ततश्च मीमांसाद्वारा वेदार्थानुचिन्तनविधिरेवायमिति ज्ञायते, न व्याकरणा-
ध्ययनविधिः ।
वेदागमशिक्षाद्यङ्गपरत्वेन द्वितीयं व्याख्यानम्
वेदे व्याकरणাদীनि सन्त्येवाभ्यन्तराणि नः ।
भवेद्वा तदभिप्राया षडङ्गाध्ययनस्मृतिः ॥ ७५८
२४ ] प्रथमाध्याये तृतीयपादः '२१
'तद्दध्नो दधित्त्वम्' इत्येवमादीनि हि वैदिकार्थवादान्तर्गतान्येव हि निरुक्त-
व्याकरणादीनि । तैः सह विधायको वेदोऽध्येतव्य इति स्मृत्यर्थो भवेत् ।
प्रातिशाख्यपरत्वेन तृतीयं व्याख्यानम्
प्रातिशाख्यानि वा यानि स्वाध्यायवदधीयते ।
गृह्यमाणतदर्थत्वादङ्गत्त्वं तेषु वा स्थितम् ॥ ७५९
व्याकरणस्य प्रयोगशास्त्रत्वमाशंकानिरासौ
यानि हि वेदव्यापारपराण्येव, तेषु लिङ्गेन शक्यमङ्गत्त्वमध्यवसातुम् । नतु
कतिपयस्पृष्टवेदवाक्योदाहरणच्छद्ममात्रेषु पाणिनिप्रभृतिप्रणीतेषु प्रातिशाख्यानीव
प्रयोगशास्त्राणीति चेत् । ने । तेषां पदस्वरूपेष्वेव व्यापारात् । पाणिनीयादिषु हि
वेदस्वरूपवर्जितानि पदान्येव संस्कृत्य संस्कृत्योत्सृज्यन्ते । प्रातिशाख्यैः
पुनर्वेदसंहिताध्ययनानुगतस्वरसन्धिप्रयत्नविवृतिपूर्वाङ्गपराङ्गाद्यनुसरणाद्भेदाङ्गत्व-
माविष्कृतम् ।
पूर्वोक्तेनानुसंधानमागमस्य च नास्ति ते ।
आगमोऽध्ययनप्रायः प्राक्च शब्दानुशासनम् ॥ ७६०
ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येय' इति विहिते ज्ञाने धर्मः,
शास्त्रपूर्वप्रयोगेऽभ्युदय इति च व्याहताभिधानम् ।
व्याकरणस्य शब्दापशब्दज्ञानं प्रयोजनमित्यस्य निरासः
यदपि च शब्दापशब्दज्ञानलाघवं प्रयोजनत्वेनोपदिष्टम्, तत् निराकृतप्रयोज-
नान्तरस्य लाघवमात्रमेवावशिष्यते - इति सत्यमेवोक्तम् ।
गौरवस्यैवोपचारेण लाघवकथनमिति उपहासकथनम्
यदि वा गौरवस्यैव लघुत्वमुपचर्यते ।
विपर्ययापदेशेन शूर कातरशब्दवत् ॥ ७६१
लोकप्रसिद्धानामेव शब्दानामत्यन्तविषमधातुग्गणोणादिसूत्रादिभिरलौकिक-
संज्ञा-परिभाषानिबद्धप्रक्रियैरनवस्थितस्थापनाक्षेपसिद्धान्तविचारैः क्लेशेनान्तं
गत्वा यथावस्थितानुवादमात्रमेव क्रियते । तत्रापि चोदाहरणव्यतिरिक्तेषु कस्य-
चिदेव लक्षणयोजनसामर्थ्यं दृश्यते । तेनात्यन्तगुरुः सन्नयमुपायस्तुत्यर्थमेव लघु-
रित्युपचरितः ।
भर्तृहरिणा वाक्यपदीयेऽभिहितस्यार्थस्य निरासः
यदपि केनचिदुक्तम्-
तत्त्वावबोधः शब्दानां नास्ति व्याकरणादृते ॥ इति । ७६२
तद्रूपरसगन्धस्पर्शेष्वपि वक्तव्यमासीत् ।
१ म. भा. पस्पशाह्निके ।
५२२ मीमांसादर्शनम् [ सू०
को हि प्रत्यक्षगम्येऽर्थे शास्त्रतत्त्वावधारणम् ।
शास्त्रलोकस्वभावज्ञ ईदृशं वक्तुमर्हति ॥ ७६३
अत एवं श्लोकस्योत्तरार्धं वक्तव्यम् ।
तत्त्वावबोधः शब्दानां नास्ति श्रोत्रेन्द्रियादृते ॥ इति । ७६४
न ह्यत्र कश्चिद्विप्रतिपद्यते, बधिरैश्चैवमदृष्टत्वात् ।
पञ्चमस्यासन्देहप्रयोजनस्य निरासः
असन्देहश्च वेदार्थे यदप्युक्तं प्रयोजनम् ।
तदप्यसद्यतो नास्मात्पदवाक्यार्थनिर्णयौ ॥ ७६५
यतः पदार्थसन्देहास्तावद्बहवो वृद्धव्यवहारादेव निवर्तन्ते । शेषाश्च निगम-
निरुक्त-कल्पसूत्र-तर्काभियुक्तेभ्यः सर्वेषामर्थप्रतिपादनपरत्वात् । व्याकरणेन पुनर-
तन्त्रीकृत्यार्थं पदस्वरूपमात्रेऽन्वाख्यायमाने दूरादपेतमेवार्थज्ञानम् । तथा हि—
धातुभ्यः कल्पिते नाम्नि क्रियायोगोऽनुगम्यते ।
न चाभिधानवेलायां तत्प्रतीतिर्मनागपि ॥ ७६६
‘गमेर्डो’ ( उ० सू० २३५ ) इत्येतद्व्युत्पत्त्यनुसारी हि गन्तृमात्रमेव गोशब्द-
वाच्यमध्यस्येत् । जातिशब्दश्चायं वृद्धव्यवहारेऽवस्थितः । यत्र प्रसिद्धस्त-
त्रान्वाख्यातव्यः ।
तथा च—
कुशलोदारशब्दादेर्यवित्यनुगमस्थितः ।
न तावत्येव शब्दार्थप्रसिद्धिर्व्यवतिष्ठते ॥ ७६७
अश्वकर्णादिकर्णादौ समासानुगमे सति ।
अपेतावयवार्थोऽर्थो दृश्यते वृत्तशब्दवत् ॥ ७६८
एवं राजन्यशब्दादेरयतत्त्वाद्यनादरः ।
व्याक्रियाविपरीतोऽपि स्थितो लोकप्रसिद्धितः ॥ ७६९
वेदविरुद्धार्थे व्याकरणस्याप्रामाण्यमिति प्रतिपादनम्
तथा वेदविरुद्धेऽर्थे दृष्टं शब्दानुशासनम् ।
तत्तथा यदि गृह्येत वेदाङ्गत्वं विरुध्यते ॥ ७७०
‘कलेर्ढक्’ (पा० सू० ४-२-८-) ‘वामदेवाड्ड्यौ’ (पा० सू० ४-२-९) इति
कलिवामदेवदृष्टसामाभिधानप्रतिपत्तिर्व्याकरणस्य भवति । वेदे तु ‘ततो वसु
वामं समभवत्, तस्माद्द्वात्रदेवत्यम्’ । ‘यदकालयत्, तत्कालेयस्य कालेयत्वम्’
इत्याद्यर्थव्युत्पत्तिदर्शनं व्याकरणानुसारिणीं प्रतिपत्तिं बाधंत ।
२४ ] प्रथमाध्याये तृतीयपादः ५२३
तथा कल्पसूत्रकारैः कृष्णंशंवासः । कृष्णवलक्षे अजिने इत्येवमादिषु कृष्ण-
दशादिविवरणाश्रयणाद्व्याकरणशतेनाप्यनवगता अर्था वेदार्थवित्परम्पराप्राप्ता
वेदवाक्यपौर्वापर्यावगतयूपादिशब्दार्थाश्च व्याख्यायन्ते । यथा चैवमादिषु व्याकर-
णानपेक्षाणामेव निःसंशयार्थप्रतिपत्तिः तथा स्थूलपृषत्यादिशब्दार्थेष्वपि व्याख्यातृ-
परम्परैव निर्णयक्षमेति, न व्याकरणमपेक्षितव्यम् ।
वाक्यार्थनिर्णयेऽपि व्याकरणस्यानुपयोगवर्णनम्
किं च-वाक्यार्थेषु च सन्देहा जायन्ते ये सहस्रशः ।
नेषां व्याकरणात्कश्चित्पूर्वपक्षोऽपि गम्यते ॥ ७७१
यदि वेदार्थसंदेहप्रयोजनं व्याकरणं भवेत् ततः किमर्थवादा स्वतन्त्राः
कञ्चिदर्थं प्रतिपादयन्ति, अथ विधिशेषभूताः ? तथा किमूर्गवरोधनमौदुम्बरत्वस्य
फलम्, उत प्रशंसार्थमुपात्तमिति । तथा हेतुविधि-हेत्वर्थवाद-मन्त्रप्रयोगदृष्टा-
दृष्टार्थत्वादिषु, ग्रहै कत्वविवक्षादिषु च सन्देहानपनयेत् । अथैवमादिषु मीमांसा-
सिद्धत्वाद्याकरणेऽनुपन्यासः ततः कल्पसूत्रकारवचनसिद्धकतिपयस्थूलपृषत्याद्यर्थ-
निर्णयप्रयोजनता सुतरां नाऽऽश्रयणीया ।
व्याख्यानादेव सन्देहनिवृत्तेः नहि संदेहादवेद इति निरूपणम्
अपि च--लक्षणोत्थेऽपि सन्देहे व्याख्यानादेव निर्णयः ।
वेदशब्देष्वपि व्याख्या नैव दण्डैर्निवार्यते ॥ ७७२
'व्याख्यानतो विशेषप्रतिपत्तिः'१ इत्यनयैव परिभाषया न हि सन्देहादलक्षण-
मितिवन्न हि सन्देहादवेद इत्यपि शक्यं वक्तुम् ।
न चागृहीतशब्दार्थैः कैश्चिद् व्याकरणाश्रयात् ।
व्याख्यातुं शक्यते वेदो यतः स्यात्तेन निश्चयः ॥ ७७३
यथैवावस्थितो वेदस्तथा व्याख्याऽपि सर्वदा ।
स्वरादर्थनिश्चय इत्यस्य निरासः
अतः स्थूलपृषत्यादिव्याख्या व्याकरणादृते ॥ ७७४
न च लोके प्रयुक्तानां पदानां दृश्यते स्वरः ।
व्यवहाराद्वहिर्भूतात्स्वरान्नातोऽर्थनिश्चयः ॥ ७७५
वृद्धव्यवहाराधीनं शब्दार्थविधारणम् । तत्र च समासान्तोदात्तत्व-पूर्वपद-
प्रकृतिस्वरत्वादिप्रयोगविभागाभावान्न तत्कृतार्थविशेषव्यवस्था ।
१. महाभाष्य ( प्रत्याहाराह्निके लण्सूत्रे )
५२४ मीमांसादर्शनम् [ सू०
यत्र त्वस्ति स्वरज्ञानं वेदवाक्येष्वविश्रुतम् ।
तत्र नैव पदार्थानामवधारणसंभवः ॥ ७७६
तत्रापि निर्णयो यः स्यादर्थप्रकरणादिभिः ।
तत्र तैरेव सिद्धत्वान्न स्वरस्याभिधां गता ॥ ७७७
तेनादृष्टार्थ एवायं स्वरपाठोऽवगम्यते ।
सर्वदा ब्रह्मयज्ञाङ्गद्रव्ययज्ञजपेषु च ॥ ७७८
व्याकरणानुगमोऽपि चास्य यदि नाम कथंचित्तदुपयोगार्थ एव भवेत् । न तु
लौकिकप्रयोगार्थः, अत्यन्ताप्रयुक्तत्वात् ।
न च व्याकरणोक्तेन स्वरेणार्थस्य निर्णयः ।
शब्दानुशासनं ह्येतद् दृष्टं नाऽर्थानुशासनम् ॥ ७७९
तस्मादसन्देहार्थमपि नाध्येयं व्याकरणम् । न ह्येतदर्थनिश्चयाङ्गभूतस्वर-
विशेषप्रयोगोत्पत्तिशास्त्रम् ।
आनुषङ्गिकाणां त्रयोदशानां प्रयोजनानां निरासः
यान्यपि च 'इमानि भूयः शब्दानुशासनस्य प्रयोजनानि' इत्येवमुपन्यस्तानि ।
तेषामपि कानिचित्प्रयोजनत्वयोग्यान्येव न संभवन्ति । कानिचित्प्रयोनाभासानि ।
कानिचिदप्रमाणकानि ।
अपि च—अर्थवत्त्वं न चेज्जातं मुख्यैर्यस्य प्रयोजनैः ।
तस्यानुषङ्गिकेष्वाशा कुशकाशावलम्बिनी ॥ ७८०
तत्र यस्तावत् तेऽसुरा इत्याद्यसुरपुराकल्पार्थवादप्रक्रमेऽपशब्दप्रतिषेधः प्रयो-
जनत्वेनोपन्यस्तः, स यथावस्थितस्तथोक्तं प्राक् । दुष्टः शब्दः इत्यत्रापि बहुजन-
प्रसिद्धशिक्षाकारपठितमन्त्रपदोद्धारेण शब्दपदं प्रक्षिपता स्वपक्षानुरागो दर्शितः ।
दुष्टमन्त्रप्रयोगे त्विष्यत एव यजमानस्य प्रत्यवायः, 'यदृचोता जहाति, वाग्वि
तद्यजमानं जहाति' इत्येवमादिभिः सर्वर्त्विक्प्रयोज्यमन्त्रविनाशेषु यजमा-
नगामिदोषदर्शनात् । तथा 'इन्द्रशत्रुर्वर्धस्व' इति मन्त्रप्रयोगविनाशदोष
एवोदाहृतः । यत्तु निरुक्ते 'यदधीतमविज्ञातं निगदेनैव शब्द्यते' १ ।
इत्युक्तम्, तदस्माभिः प्रथमसूत्र एवाऽथशब्दं व्याचक्षाणैः स्नानस्मृतिक्रमकारणत्वे-
नोपवर्णितम् 'अनतिक्रामन्तो वेदमर्थवन्तं सन्तममनर्थकमवकल्पयेम, २ दृष्टो हि
तस्यार्थः कर्मावबोधनम्' इति । ततश्चाव्याख्यातेन वेदेनार्थप्रकाशनाकरणात्
'न तज्ज्वलति कर्हिचित्' इति । सत्यमेवैतत् । न तु व्याकरणस्य तत्रोपयोगः ।
कर्मप्रयोगोत्पत्तिं प्रत्यशास्त्रत्वात् । शब्दशास्त्रमेतदिति चेत् ? तेष्वपि पूर्वोक्तेन
१ क. शक्यते । २ क. मनर्थकं कल्पयेम ।
२४ ] प्रथमाध्याये तृतीयपादः ५२५
निर्मूलत्वेन न व्यवस्था स्यात् । तस्मात्कल्पसूत्र-निरुक्त-मींसानामेवाधीतमन्त्र-
ब्राह्मणार्थविज्ञानोपयोगक्षमत्वादेतत्प्रयोजनं युक्तम्, न तु व्याकरणस्य ।
यस्तु प्रयुङ्क्ते इत्येतदपि मन्त्रब्राह्मणशब्दस्य सम्यक्प्रयोगप्रयोजनमेव
विज्ञायते । यथासमाम्नातादन्यथाकरणाच्च 'दुष्यति चापशब्दैः' इति ।
स्वाध्यायाध्ययनाध्यापनयजनयाजनगतवेदशब्दाविनाशेऽपि 'यदृत्वो यज्ञ आतिं-
भियात्' इति । एतद्वचनादवगतदोषानुवादोऽपीत्यवगम्यते । वाग्योगविदिति च
बहुलोकव्यवहारदर्शनाद्विदितपदपदार्थसम्बन्धः पुमान्, ब्राह्मणवाक्येषु चोद्दिश्य-
मानोपादीयमानगुणप्रधानादिनिरूपणावधृतवचनव्यक्तिविशेषो मन्त्रेषु चावगत-
चोदितस्वार्थपरार्थप्रकाशनार्हत्वानर्हत्वविदेव१ च वाग्योगविदित्युच्यते, न
वैयाकरणः वैयाकरणस्यैवंविधप्रयोगोत्पत्त्यशास्त्रत्वात् ।
यदप्यविद्वांस इति प्रत्यभिवादे नामान्त्यस्वरप्लुतानभिज्ञनिन्दावचनम्,
तत्प्लुतस्य त्रिमात्रस्य लोकप्रसिद्धत्वान्मन्वाद्युपदिष्टनामान्त्यप्रयोगसिद्धौ लब्धायां
तत्प्रयोगोत्पत्त्यशास्त्रत्वम् । न च तावता मन्वादिभिरनेन चोदाहृतेन श्लोकेन
प्रकृतिप्रत्ययादिविभागद्वारेण शब्दापशब्दविवेकज्ञानम्, २ तदुपयोगो वाऽऽश्रीयते ।
यच्च प्रजायाः सविभक्तिकाः कर्तव्याः इति, तद्याज्ञिकोपदेशसिद्धत्वाद्
ब्राह्मणे च षड्हविभक्तयः 'अग्निर्वृत्राणि जङ्घनत्' 'अग्निं वो वृत्रहन्तमम्'
'अग्निनाऽग्निः समिध्यते' इत्येवमादिविभक्तिप्रयोगदर्शनादन्तरेणापि
व्याकरणम् । वैभक्तिकमात्रा लोचनापि वा सा विभक्ति.कप्रयाजप्रयोगसिद्धेर-
शास्त्रं व्याकरणम् ।
'यो वा इमां पदशः स्वरशोऽक्षरशो वाचं विदधाति, स आर्त्विजीनो भवति'३.
इति सम्यग्वेदाध्याय्येवमभिधीयते ।
तथा 'चत्वारि वाक्परिमिता पदानि' इति यानि तावदोंकारमहाव्याहृत्यादि-
चतुष्टयबाहुल्यप्रयोजनानुसरणेन नैरुक्तैरप्यक्षरवर्णसाम्यान्निर्वू यादितिवत्प्रपञ्चि-
तानि, न तत्र व्याकरणस्य कश्चिदधिकारः । यत्तु नामाख्यातोपसर्गनिपातचतुष्ट-
यानुगतं वैयाकरणमतमाश्रितम्, तदपि चतुष्टयस्य लोकसिद्धत्वादेव नातीव
व्याकरणापेक्षम् । एतद्विषयत्वे च वर्ण्यमाने 'तुरीयं वाचो मनुष्या वदन्ति'
इत्यसम्बद्धमेव स्यात्, चतुर्णामपि पदजातानां मनुष्यैरूच्यमानत्वात् । तस्मादय-
मस्य मन्त्रस्यार्थः पौर्वापर्यसंगतो वर्ण्यते । 'चत्वारि वाक्परिमिता पदानि' इति
यैर्वाक्यद्यते गम्यते तानि चत्वारि प्रत्यक्षानुमानोपमानार्थापत्त्याख्यानि प्रमाणान्य-
१ क. चोदिताचोदित । २ क. (टिप्पण्यां) शब्दविवेकज्ञानमिति पाठः ।
३. महाभाष्ये पस्पशाह्निके ऋ० सं० (१-१६४-४५) ।
५२६ मीमांसादर्शनम् [ सू०
भिधीयन्ते । तत्र यानि प्रतोकविधिप्राकृतवैकृतवाक्यसारूप्यदृष्टानुपपद्यमानादि-
प्रभवैरनुमानोपमानार्थापत्त्याख्यैस्त्रिभिर्गम्यन्ते, तानि तत्सिद्धत्वादेव नेङ्गयन्ति
नोच्चारयन्ति । यस्तु भागस्तैरशक्यः प्रतिपादयितुम्, तं तुरीयं प्रत्यक्षसमधि-
गम्यमध्येतारो मनुष्या वदन्ति समामनन्तीत्यर्थः । षट्प्रमाणीमध्याच्च प्रमाणद्वयं
वाक्पदत्वादपोद्धृतम् । अभावस्तावदभावविषयत्वादेव वाक्पदं न भवति ।
आगमस्य पुनर्वर्णात्मकत्वात्पद्यमानवागाश्रितस्य पदत्वाश्रयणमनुपपन्नम् । प्रत्यक्ष-
पक्षनिक्षिप्तत्वात्पृथक्त्वेनानिर्देशः ।
चत्वारिशृङ्गा इत्यस्य१ तु विषुवति होतुराज्ये प्रयुक्तस्य योऽर्थः स, मन्त्रा-
धिकरणे व्याख्यातः । न चात्र काचिद् व्याकरणापेक्षा ।
यत्तु चत्वारि पदजातानि शृङ्गाणीत्येवमादिसंख्यासामान्यमात्रेण कर्मविनि-
योगानपेक्षमर्थान्तरं वर्ण्यते, तद्व्याकरणकृतवाक्कौशलमात्रम् । तादृशं च
वैशेषिकादिष्वपि तदभियुक्तैः शक्यं योजयितुमित्यनादरणीयम् ।
'उतत्वः पश्यन्'२ इत्यपि लोक-निरुक्त-कल्पसूत्र-मीमांसाश्रयोत्पन्नपदार्थ-
वाक्यार्थज्ञानप्रशंसार्थ एव मन्त्रो विज्ञायमानो न व्याकरणमाद्रियते ।
एवं 'सक्तुमिव तितउना' इत्येषोऽप्यविप्लुतस्वाध्यायाध्ययननिर्मलवेदाक्षरार्थ-
ज्ञानप्रशंसार्थं पूर्ववदेव वर्णनीयः ।
'आहिताग्निरपशब्दं प्रयुज्य' इति, व्याख्यातमेव तत् ।
यदपि नामकरणे, घोषवदाद्यन्तरन्तस्थं३ द्विचतुरादिवर्णकृदन्तपरिगृहीतद्धित-
वर्जनवचनम्, तत्कृत्तद्धितसंज्ञयोर्व्याकरणेऽपि पूर्वप्रसिद्धयोरेवोपादानाद्वर्णपरि-
माणस्य च प्रत्यक्षपूर्वकस्मृत्यधीनत्वाद् घोषवत्त्वादीनां च शिक्षाप्रातिशाख्येष्व-
नुक्रमणात्सर्वैश्च श्रोत्रियैरक्लेशेन नामकरणान्न व्याकरणं नाम प्रयोगोत्पत्तिशास्त्र-
त्वेनापेक्षणीयम् ।
'सुदेवो असि वरुण' इत्यत्र यद्यपि तावत्सप्तविभक्तय एव सप्त सिन्धव इति
व्याख्यायन्ते, तथाऽपि तासां विभक्तिसंज्ञामात्रं व्याकरणेन क्रियते, प्रसिद्धमेव वा
गृह्यते । यानि तु प्रयोगरूपाणि तानि लोके वेदे च विभागशः प्रत्यक्षाण्येवेति,
न व्याकरणापेक्षयैवमभिधीयन्ते४ । यदा पुनः सप्त सिन्धवो५ नद्य एव ।
यज्ञर्त्विग्यजमानप्रशंसापक्षे वा सप्त होत्रागता वाचः । सप्त सामस्वरगतास्तद्भूक्ति-
गता वा परिगृह्यन्ते, तदैतिहासिकयाज्ञिकगोचरापन्नत्वादविषय एव व्याकरणस्य ।
१. ऋ० सं० (४-५८-३) । २. ऋ० सं० (१०-७१-४) ।
३ क. दाद्यन्तरं तस्य । ४ क. मभिधीयते । ५ क. सिन्धवोजनद्य ।