भारतकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

प्रकरणपठितस्यापि तस्य स्वरूपे कार्यं चानुपयोगादध्ययनेनैव फलवत्कर्म्मावबोधं

इत्यादिना धर्म्मजातस्य सम्प्रदायार्थत्वस्मरण।दित्यर्थः पुरुषार्थत्वं तु निष्प्रमाणक- मित्याह—स्वर्गादिति । नन्वध्ययनस्वरूपे, तत्कार्ये च ग्रहणे धर्म्मजातस्यानुपयोगात्तत्पूर्व्व- कज्योतिष्टोमादिकर्म्माङ्गत्वं भविष्यत्यत आह—न चास्येति । एतच्च द्वादशाधिकरण- सिद्धमुक्तं तत्र ह्याध्यायानध्ययनाय द्वादशाध्यायाधिकरणार्थं संग्रहादिधर्म्मजातस्याध्ययन- प्रकरणपठितस्यापि तस्य स्वरूपे कार्यं चानुपयोगादध्ययनेनैव फलवत्कर्म्मावबोधं भावयेदित्यध्ययननियमस्याना रभ्य विहितस्याप्यध्ययन जनितज्ञानोपस्थापितज्ञेयकर्म्माङ्गतया सामर्थ्योपबृंहितेन सन्निधिनावधारणात्, तद्द्वारा कर्म्माङ्गत्ववावगतेरमावास्यादौ कर्म्माङ्ग- भूतयाज्यानुवाक्यादिमन्त्रोच्चारणं न कार्यमिति । मन्त्राणां कर्मसंयोगे स्वधर्मेण प्रयोगः स्यात्, धर्म्मस्य तन्निमित्तत्वादितिसूत्रेण पूर्वपक्षयित्वा प्रकरणेनाध्ययनाङ्गतयाऽवधारि- तस्यान्यार्थत्वे प्रमाणाभावादविघ्नपरिसमाप्त्यर्थत्वेन तदुपयोगसम्भवात्कर्म्माङ्गत्वाभावेन कर्म्मकालेऽध्यायानध्ययनादिधर्म्मनादरेणामावास्यादावपि कर्म्माङ्गमन्त्रोच्चारणं कार्यं- मिति विद्यां प्रतिविधानाद्वा, सर्व्वकालं प्रयोगः स्यात् कर्म्मार्थत्वात्प्रयोगस्येति सूत्रेण सिद्धान्तयिष्यते । केनोपकारेणाध्ययनाङ्गत्वं कर्म्मजातस्येत्यपेक्षायामविघ्नार्थत्वं भाष्य- कृतोक्तमुपपादयति--सम्प्रदायाङ्गत्वेऽपि चेति । विघ्ने सत्यध्ययनेनाक्षरग्रहणस्य कर्त्तुम्- शक्यत्वात्, तत्सिद्ध्यर्थमविघ्नमेवापेक्षितम्—तादर्थ्यस्मरणाच्चेति । ‘अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी । ब्रह्माष्टमौ पौर्णमास्यौ तस्मात्ताः परिवर्जयेत् ॥’ इत्यादिना धर्म्मजातस्याविघ्नार्थत्वस्मरणादित्यर्थः । प्रकरणावगताध्ययनाङ्गत्वा- न्यथानुपपत्त्याप्यविघ्नोऽर्थतोऽवसीयत इत्याह—न हीति । एतदेव प्रपञ्चयति—यदि तावदिति । नन्वध्ययनजनितज्ञानसाध्यकर्म्मानुष्ठानजन्या- पूर्वार्थत्वेऽपि धर्म्मजातस्य व्रीहिसाध्ययागापूर्वत्वेऽपि प्रोक्षणस्य व्रीह्यर्थत्वाविघातवदध्यय- नाङ्गत्वाविघातः स्यादत आह—अथ पुनरिति । व्रीहीणां यागापूर्वार्थत्वात्तदुत्पत्त्युपयोगि- प्रोक्षणादिधर्म्मग्राहकत्वं युक्तम् । अध्ययनस्य क्रत्वनङ्गत्वान्न तत्साम्यमिति भावः । कः पुनरध्ययनस्याविघ्नेनोपकारो जन्यत इत्यपेक्षायामक्षरग्रहणाख्यकार्ययोग्यतालक्षणमुपकारं दर्शयितुमाह—तस्मादिति । तुल्यसाम्प्रदायिकत्वस्य प्रकृतानर्थक्यनिराकरणोपयोगितां दर्शयति—न चेति । न चाध्ययनादिधर्मनियमस्मृतेर्निर्मूलत्वेनाप्रामाण्यं शङ्क्यम्, स्मृत्य- धिकरणे स्मृतीनां वेदमूलत्वस्य वक्ष्यमाणत्वादित्याह—नियमस्मृतेश्चेति । तुल्यसाम्प्रदायि- कत्वसाधितसामान्योपयोगोपसंहारपूर्वकं तस्य पूर्वसूत्रोक्तस्तुत्यर्थत्वलक्षणविशेषोपयोग- सिद्धयुपयोगितामाह—स चेति । अत्रैवार्थे स्मरणं च दृष्टमित्यादिभाष्यं योजयति— स्मरणं चेति । इतिकरणः प्रभृत्यर्थः, तत्र स्मरणं च दृष्टमिति वेदशब्दत्वाभिधाने योजितम् ; अतो न प्रमादपाठ इति सामान्योपयोगोपसंहारे इतिकरणः, तस्य विशेषो- पयोगित्वे यस्मान्न प्रमादपाठः । अतः कारणात्प्रयोजनविशेषापेक्षायां सामर्थ्यात्स्तुत्यर्थतार्थ- वादानां सिध्यतीतिकरणो हेत्वर्थे व्याख्येय इत्यर्थः ।

९२ मीमांसादर्शनम् [ सू० साम्प्रदायिकशब्दो वा धारणाऽध्ययनपरतयानेन भाष्येण व्याख्यायत इत्याह-अत वेति । यत्त्वस्मिन्व्याख्याने पुरुषाधीनप्रामाण्यप्रसङ्गादित्यादिना दूषणं पूर्वसूत्रव्याख्योप- क्रमेऽभिहितम्, तत्परिहरति-सम्भाव्यते चेति । पूर्वोक्तमध्ययनविधिप्रमाणकं सर्वस्य यदस्य प्रयोजनवदर्थपर्यवसायित्वमेतत्सूत्राऽढं कर्तुमध्ययनविधिपरतया साम्प्रदायिकशब्दं स्वयं व्याचष्टे-तुल्यं चेति । उनयोरपि व्याख्यायोरतत्सूत्रोक्तस्य सामान्योपयोगस्य पूर्वसूत्रोक्त- विशेषोपयोगसिद्धयर्थत्वप्रतिपादनार्थमतो नेत्यादिभाष्यमिति दर्शयितुं ग्रन्थशेषः ॥ ८ ॥ भा० प्र०-यह सन्देह स्वाभाविक है कि विधिवाक्य न रहने पर अर्थवाद वाक्य सप्रयोजन नहीं हो सकते हैं, और प्राशस्त्यज्ञापक अर्थवाद वाक्यों की सहायता के बिना भी विधिवाक्य प्रवृत्ति-जनक हो सकता है, क्योंकि, बाद में किसी कारण से पुरुष की प्रवृत्ति कुण्ठित होने पर भी विधिवाक्य के सुनने पर प्रथम प्रवृत्ति उत्पन्न होती है । ऐसी स्थिति में अर्थवादों को प्रमाद से पठित मानने पर भी कार्य चल सकता है, क्योंकि पूर्वोक्त रीति से अर्थवाद वाक्यों के प्रति अनेक आपत्तियाँ उत्थापित हो सकती हैं । इसी आशङ्का के उत्तर में कहा गया है-"तुल्यं तु साम्प्रदायिकम्" । साम्प्रदायिक अर्थात् अनध्याय आदि नियमों का पालन करते हुए गुरु शिष्य क्रम में वेद का अध्ययन आ रहा है, अर्थवाद भी इसी रूप में अध्ययन का विषय है और अर्थवाद वाक्यों का वेदत्व भी सभी ने दृढ़तापूर्वक स्वीकार किया है । अतः, अर्थवाद वाक्य को प्रामादिक पाठ नहीं कहा जा सकता है । अनवधानतावश वेदाध्ययन के मध्य में अर्थवाद वाक्यों ने स्थान प्राप्त कर लिया है-यह नहीं कहा जा सकता है । इसलिए अर्थवाद प्रमादवश पठित होने से अप्रमाण है-यह नहीं कहा जा सकता है । तुल्य = समान या एक रूप । च शब्द का अर्थ हेतु है । साम्प्रदायिक=गुरु शिष्य परम्परा से प्राप्त अध्ययन । अर्थात् अर्थवाद वाक्य भी गुरु शिष्य परम्परा क्रम में विद्यात्मक वेद के अध्ययन के समान है । अथवा अर्थवाद भी विधि के समान ही वेद के ही अन्तर्गत होने से उनका अप्रामाण्य नहीं कहा जा सकता है ॥ ८ ॥ अप्राप्ता चानुपपत्तिः प्रयोगे हि विरोधः स्याच्छब्दार्थ- स्तवप्रयोगभूतस्तस्मादुपपद्येत ॥१.२.९॥ शा० भा०-अपि च यैषाऽनुपपत्तिरुक्ता शास्त्रदृष्टविरोधादित्येवमाद्या सा, सोऽरोदीदित्येवमादिषु न प्राप्नोति । कुतः ? प्रयोगे हि स्तेयादीनामुच्यमाने विरोधः स्यात् । शब्दार्थस्तवप्रयोगभूतः । तस्मादुपपद्यते-स्तेनं मनोऽनृतवादिनी वागिति ॥ ९ ॥ भा० वि०-एवं सूत्रद्वयेन स्वसिद्धान्तकथनेनानर्थक्यसूत्रोक्तदोषं निरस्योत्तर- सूत्रोक्तदोषान्तरपरिहारार्थमप्राप्ता चेत्यादिसूत्रम् । तत्र न केवलं स्तुत्यर्थत्वेनानर्थक्य-

९ ] प्रथमाध्याये द्वितीयपादः ९३ परिहार एव त्वदुक्तदोषान्तराप्राप्तिश्चेति च शब्दं व्याकुर्वन् प्रतिज्ञां व्याचष्टे— अपि चेति । यद्यपि पूर्वं स्तेयादिवाक्यमुदाहृत्य शास्त्रदृष्टविरोधो दर्शितः, तथापि सोऽरोदीदित्यादिष्वपि सो विशेषादनुसन्धेयः इति वक्तुमाह—सोऽरो- दीदिति । प्रश्नपूर्वकं प्रयोगे हीत्यादीत्यादिहेतुं व्याचष्टे—कुत इत्यादिना प्रयोगः अनुष्ठानः, कर्त्तव्यतेति यावत् । तस्मिन् हि प्रयोगे स्तेयादोनां रोदनवपोत्खनन- दिङ्मोहस्तेयानृतवदनादीनाम् उच्यमानेकल्प्यमाने शास्त्रदृष्टविरोधः स्यात् न चासौ कल्प्यत इत्यर्थः । ननु श्रुतस्यार्थस्य प्रयोजनवत्त्वाय विधिः कल्पनीय इत्याशङ्कयापाकरणार्थं शब्दार्थस्त्वप्रयोगभूत इतीदं व्याचष्टे शब्दार्थ इति । सूत्रे तुशब्दश्शङ्काव्यावर्त्तकः, वाच्यार्थविषयोऽर्थशब्दः तेषु सोऽरोदीदित्यादिषु प्रयुज्यतेऽनेनेति व्युत्पत्त्या प्रयोजन-प्रयोगः, विवक्षितश्चार्थः प्रयोजनं भवतीति लक्षणया प्रयोगशब्देन विवक्षितत्वमुक्तम् प्रयोगमप्राप्तोऽप्रयोगभूतः अविवक्षित इत्यर्थः । एतदुक्तं भवति विवक्षितार्थस्य हि प्रयोगवत्त्वसिद्धयेऽध्याहारादिनानुष्ठान- कल्पना अयं तु न विवक्षितः, तेन कल्पकाभावान्नाध्याहारादिभिर्विधिकल्पनेति, यस्मान्न विधिकल्पना, तस्मान्न शास्त्रदृष्टविरोधादीत्युपसंहारभागं व्याचष्टे— तस्मादिति । स्तेयादिवाक्यं रोदनादिवाक्यस्याप्युपलक्षणं गुणवादस्त्वित्यनेन त्रयोऽर्थाः सूचिताः । तत्र प्रथमं तावच्छब्दार्थस्त्वप्रयोगभूत इत्यन्तेन विवक्षयार्थभावना- नुपयोग उक्ते कथं नामोपयोगः इत्यपेक्षायां गुणस्य वाद इति षष्ठीसमासाश्रयणेन स्तुत्यर्थत्वं सिद्धान्तसूत्रोक्तं पूर्वसूत्रनैराकाङ्क्ष्यात्यनेन स्मारितम्, तत्रापि स्वार्था- सत्यत्वे कथं स्तुतिरित्त्यपेक्षायां गुणाद्वाद इति पञ्चमीसमासाश्रयणेन स्वार्थं- सत्यत्वानादरोऽप्यनेनाभिधीयते, तथा भवतु स्तुत्यर्थत्वम्, तथापि कथं क्वचित् विधेयस्तुतिपरत्वम् अविधेयगतायाः स्तुतेः भिन्नविषयत्वादित्यपेक्षायां गौण्या- वृत्त्याप्यनेनोच्यते ॥ ९ ॥ त० वा०—उक्तदोषपरिहारोऽतः परम् । शास्त्रदृष्टविरोधिका याऽत्रानुपपत्ति- र्विधिकल्पनायामुक्ता तामस्मत्पक्षमप्राप्तां मन्यामहे । अथवेदं स्तुतिव्याख्यानं तामनुपपत्तिमप्राप्तमिति व्याख्येयं येषां ह्रस्वः पाठः । प्रयोगे ह्यनुष्ठाने रोदनवपोत्खननदिङ्मोहस्तेयानृतवादादीनां कल्प्यमाने विरोधः स्यात् । अस्माकं तु पुनर्य एषां शब्दानां श्रोतोऽर्थः, स नैव विवक्षितः । न चाध्याहारादिभिर्विधिः, किं तर्हि ? स्तुतिमात्रं विवक्षितः । न च तद्विरुध्यते । तस्मादुपपद्येत ।

९४ मीमांसादर्शनम् [ सू० अथ वा शब्दार्थस्त्विति विधायकशब्दानुग्रहार्थः सन्नयमर्थवादो न स्वार्था- नुष्ठानेन सम्बध्यते, प्रयोगमप्राप्तोऽप्रयोगभूतस्तस्मादुपपद्येत । त्रयोऽत्र पाठाः । अप्राप्तां चानुपपत्तिमित्यत्र मन्यामह इति वाक्यशेषः, अप्राप्तं चानुपपत्तिमित्यपरः, तत्रास्मद्व्याख्यानमित्यध्याहारः । अप्राप्ता चानुपपत्तिरित्यपरः तत्रास्मत्पक्षे विज्ञायेति ॥ ९ ॥ न्या० सू०-सूत्रद्वयेनैव सिद्धान्तसिद्धेरुत्तरसूत्रानर्थक्यमाशङ्क्य पूर्वपक्षनिराकरण- परतया सामान्यतो व्याचष्टे— उक्तेति । अप्राप्तामनुपपत्तिमिति द्वितीयान्तं पदद्वयं साकाङ्क्षत्वादध्याहारेण व्याचष्टे-शास्त्रेति । ह्रस्वपाठे अन्यथाध्याहारमाह-अथ वेति । प्रयोगे हीति सूत्रावयवव्याख्याभाष्ये स्तेयादीनामित्यादिशब्देन पूर्वोपन्यस्तस्य रोदनादेरपि ग्रहणमिति व्याचष्टे-प्रयोगे हीति । सूत्रशेषं व्याचष्टे—अस्माकं पुनरिति । श्रौतार्थाभिप्रायोऽर्थशब्दः प्रयुज्यतेऽनेनेति व्युत्पत्त्या प्रयोजनवचनः प्रयोगशब्दः अविवक्षितस्वार्थः प्रयोजनं न भवतीत्यप्रयोगशब्देना- विवक्षितत्वमुक्तम् । नन्वनुष्ठानविवक्षायां विरोधापत्तेस्तत्परिहारार्थं तस्यैवाविवक्षा वाच्या । न श्रौतार्थाविवक्षात आह—न चेति । अतः शब्दार्थे चशब्दः, निपातानामनेकार्थत्वात् । विवक्षितत्वे हि श्रौतस्यार्थस्य प्रयोजनवत्त्वसिद्धयेऽध्याहारादिनानुष्ठानकल्पना स्यात्; यतःस्वसौ न विवक्षितः अतः कल्पकामावान्नाध्याहारादिभिर्विधिकल्पनेत्यर्थः । अनेन चानुष्ठानाविवक्षार्थं श्रौतार्थाविवक्षेत्युक्तम् । किं तर्हि विवक्षितमित्यपेक्षायामुत्तरसूत्रे वक्ष्य- माणं स्तुत्यर्थत्वमाकाङ्क्षानिवृत्तयेऽभिहितम् । ननु स्तुतेरपि श्रौतार्थकत्प्यत्वादविवक्षितस्य चासत्यत्वेन कल्पकत्वायोगात्तद्विवक्षा- पत्तेरपरिहार्यो विरोधोऽत आह--न चेति । असत्येनापि स्तुत्येनापि स्तुत्युपपत्तेर्वक्ष्य- माणत्वान्नास्मत्पक्षे श्रौतार्थविवक्षापत्तिरिति भावः । स्तुत्यर्थत्वमेव वाशब्दार्थस्त्वित्यनेनो- च्यत इत्यन्यथा व्याचष्टे--अथ वेति । तदानुष्ठानवचन एव प्रयोगशब्दः प्राप्तशब्दार्थे च भूतशब्द इति, न स्वार्थानुष्ठानेनेत्यादिनोक्तम् । ननु भाष्यकारेणाप्राप्ता चाऽऽनुपपत्तिरिति प्रथमान्तमेव पदद्वयं पठितम्, कथं भवतान्यदेव पाठद्वयं व्याख्यातमत आह-त्रयोऽत्रेति । पाठत्रयविवेकार्थं पूर्वोक्तवाक्यशेषस्मरणायोत्तरो ग्रन्थः ॥ ९ ॥ भा० प्र०-अर्थवाद वाक्य प्रमादपठित अर्थात् वेद से बहिर्भूत नहीं है—इसका युक्तिपूर्वक विवेचन कर पूर्वपक्षियों के द्वारा उत्थापित विरोध का परिहार प्रदर्शित किया जा रहा है । पूर्वपक्षी ने "शास्त्रदृष्टविरोधाच्च" इस सूत्र से जिस दोष का आपादन किया है—वह ठीक नहीं है । कारण, अर्थवाद का स्वार्थ में तात्पर्य नहीं है । "सोऽरोदीत्" "प्रजापतिरात्मनो वपामुदखिदत्", "दिशो न प्राजानन्", "स्तेनं मनः, अनृतवादिनी वाक्", इत्यादि अर्थवाद वाक्य यदि स्वार्थबोधित क्रिया को कर्तव्य के रूप में सूचित

१० ] प्रथमाध्याये द्वितीयपादः ९५ करते तब इन अर्थवादों से रोदन, अपनी वपा का छेदन, दिङ्मोह, स्तेय या मिथ्या- वादन आदि कर्तव्य के रूप में बोधित होते । तभी पूर्वपक्षी के द्वारा कथित दोष सङ्गत होता और शास्त्रदृष्टविरोध का कथन सङ्गत होता । किन्तु रोदन आदि अर्थवाद के शब्दों का अर्थ मात्र होता है । इस प्रकार अर्थवाद के अर्थ अविवक्षित हैं, क्योंकि, अर्थवाद स्वार्थ में तात्पर्य रहित है । इसलिए, जिस रूप में अर्थवाद वाक्यों की सप्रयोजनता का निर्देश पूर्वक प्रामाण्य का स्थापन किया है—वह सर्वथा युक्तियुक्त ही है । अर्थवाद वाक्यों का तात्पर्य-निरूपण किया जा रहा है । 'अप्राप्ता'=प्राप्त नहीं, 'च' और, "अनुपत्ति" शास्त्रदृष्टविरोधरूप युक्तिहीनता, "प्रयोगे" क्रिया का विधायक होने पर, "शब्दार्थः" शब्द का स्वार्थ, 'तु' किन्तु, 'अप्रयोगाभूत'' क्रिया का विधायक नहीं है, "तस्मात्" इसलिए, "उपपद्यते" युक्तियुक्त होता है । अर्थवाद वाक्यों का जिस रूप में अर्थ का निर्देश किया गया है, उससे मेरे पक्ष में किसी प्रकार युक्ति का विरोध सिद्ध नहीं हो रहा है । क्योंकि, अर्थवाद यदि अपने अर्थभूत क्रिया का प्रतिपादक होता, तब विरोध होता, किन्तु, अर्थवाद स्वार्थ- बोधित क्रिया का प्रतिपादक नहीं है, अतः, जिस रूप में उनकी सप्रयोजनता से प्रामाण्य का निर्देश किया गया है, वह उपपन्न होता है ॥ ९ ॥ गुणवादस्तु ॥१.२.१०॥ शा० भा०--यदुक्तं विधेयस्य प्ररोचनार्था स्तुतिरिति । तदिह कथमवकल्प्येत यत्रान्यद्विधेयमन्यच्च स्तूयते । यथा वेतसशाखायाऽवकाभिश्चाग्निं विकर्षतीति वेतसावके विधीयेते । आपश्च स्तूयन्ते-आपो वै शान्ता इति । तदुच्यते । गुणवादस्तु । गौण एष वादो भवति, यत्संबन्धिनि स्तोतव्ये संबन्ध्वन्तरं स्तूयते । अभिजनो ह्येष वेतसावकयोः । ततस्ते जाते । अभिजनसंस्तवेन चाभिजातः स्तुतो भवति । यथाऽश्मकाभिजनो देवदत्तोऽश्मकेषु स्तूयमानेषु स्तुतमात्मानं मन्यते । एवमत्रापि द्रष्टव्यम् । अथ सोऽरोदीदिति कस्य विधेः शेषः । तस्माद् बर्हिषि रजतं न देयमित्यस्य । कुतः। साकाङ्क्षत्वात्पदानाम् । सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वमित्यत्र स इति प्रकृतापेक्षः । तत्प्रत्ययात् । तस्य यदश्रुवशार्यंतेति तस्येति पूर्वप्रकृतापेक्ष एव । उपपत्तिश्चोपरितनस्य, यो बर्हिषि रजतं दद्यात्पुराऽस्य संवत्सराद् गृहे रोदनं भवतीति । अस्य हेतुत्वेनायं प्रतिनिर्दिश्यते- 'तस्माद्बर्हिषि रजतं न देयमिति' । एवं सर्वाणि साकाङ्क्षाणि कथं विधेरुपकुर्वन्तीति ? गुणवादेन । रोदनप्रभवं रजतं वर्हिषि ददतो रोदनमापद्यते । तत्प्रतिषेधस्य गुणो यदरोदनमिति । कथं पुनरुदत्यरोदीदिति भवति, कथं वाऽनश्रुप्रभवे रजतेऽश्रुप्रभवमिति वचनम्,

९६ मीमांसादर्शनम् [ सू० पुराऽस्य संवत्सरादसति रोदने कथं रोदनं भवतीति ? तदुच्यते । गुणवादस्तु । गौणा एते शब्दाः । रुद्र इति रोदननिमित्तस्य शब्दस्य दर्शनाद्यदरोदीदित्युच्यते । वर्णसारूप्यान्निन्दन्नश्रुप्रभवमप्यश्रुप्रभवमित्याह । निन्दन्नेव च धनत्यागे दुःख- दर्शनात्पुराऽस्य संवत्सराद् गृहे रोदनं भवतीत्याह । तथा यः प्रजाकामः पशुकामो वा स्यात्स एतं प्राजापत्यं तूपरमालभेत इत्याकाङ्क्षितत्वादस्य विधेः शेषोऽयं स आत्मनो वपामुदक्खिददिति । कथं गुणवादः । इत्थं नाम, नाऽसम्पशवो यदात्मनो वपामुदक्खिददिति । एतच्च कर्मणः सामर्थ्यं यदग्नौ प्रहृतमात्रायां वपायामजस्तूपर उदगात्, इत्थं बहवः पशवो भवन्तीति । कथं पुनरनुत्खिन्नायां वपायां प्रजापतिरात्मनो वपामुदक्खिद- दित्याह । उच्यते । असद् वृत्तान्तान्वाख्यानं स्तुत्यर्थेन प्रशंसाया गम्यमानत्वात् । इहान्वाख्याने वर्तमाने द्वयं निष्पद्यते-यच्च वृत्तान्तज्ञानम्, यच्च कस्मिंश्चित्प्ररो- चना द्वेषो वा । तत्र वृत्तान्तान्वाख्यानं न प्रवर्तकं न निवर्तकं चेति प्रयोजना- भावादनर्थकमित्यविवक्षितम् । प्ररोचनया तु प्रवर्तते द्वेषाच्चिन्निवर्तत इति तयो- विवक्षा । वृत्तान्तान्वाख्यानेऽपि विधीयमाने आदिमत्तादोषो वेदस्य प्रसज्येत । कथं पुनरिदं निरालम्बनमन्वाख्यायत इति । उच्यते । नित्यः कश्चिदर्थः प्रजापतिः स्याद् वायुराकाश आदित्यो वा स आत्मनो वपामुदक्खिददिति-वृष्टिं, वायुं, रश्मिं वा । तामग्नौ प्रागृह्लात्, वैद्युते आर्बसे लौकिके वा । ततोऽज इत्यन्नम्, बीजम्, विरुद् वा । तमालभ्य-तमुपयुज्य प्रजाः पशून्प्राप्नोतीति गौणाः शब्दाः । आदित्यः प्रायणीयश्चरुरादित्य उदयनीयश्चरुरित्यस्य विधेः शेषो, देवा वै देवयजनमध्यवसाय दिशो न प्राजानन्नित्याकाङ्क्षितत्वात् । सर्वव्यामोहानाभा- दित्यश्चरुर्नाज्ञायिता अपि दिङ्मोहस्येति स्तुतिः । कथमसति दिङ्मोहे दिङ्मोह- शब्द इति । उच्यते । अप्राकृतस्य बहोः कर्मसमूहस्योपस्थितत्वाद गौणो मोह- शब्दोऽग्रधारणावकाशदानादिभिर्ज्ञापयतीति गौणता ॥ १० ॥ भा० वि०-तत्र भाष्यकारः-एषामर्थानां पूर्वसूत्रसङ्गतिं क्रमं चानाहत्यानन्त- रोक्तेऽर्थे सूत्रं व्याख्यातुं वृत्तानुवादपूर्वकं शङ्कामाह-यदुक्तमिति । सिद्धान्तसूत्र इति शेषः इहेत्युक्तं विषयं दर्शयति-यत्रेति । ननु कुत्रैवं भिन्नविषयत्वं विधिस्तुत्यो- रत आह-यथेति । सूत्रमुत्तरत्वेनावतारयति-तदुच्यत इति । गुणाद्वाद इति । पञ्चमीसमासं दर्शयन्व्याचष्टे-गौण इति । एष वाव इत्येतद्विवृणोति-यदिरिति सम्बन्धिनि वेतसावकारूपे विकारे स्तोतव्ये सम्बन्धन्तरमब्रूया प्रकृतिः स्तूयते यदेषः स्तुतिवादी गौण औपचारिक इत्यर्थः, प्रकृतिविकारभावमुपपादयति- अभिजन इति । अभिजायतेऽस्मादिति व्युत्पत्त्योत्पत्तिस्थानम् अभिजनः एष

सूत्रं योजयितुं पृच्छति—अथेति । यद्यविवक्षितस्वार्थाः सोरोदीदित्येवमादयो

१० ] प्रथमाध्याये द्वितीयपादः ९७ अनासक्तोऽर्थः तत्र हेतुस्ततः इति जायते दृश्यते यत इति शेषः । ततः किम् ? अत आह—अभिजनेति । एतदेव दृष्टान्तेनोपपादयति—यथेति । काश्मीरशब्दो जनपदविशेषवाची, एवमिति । वेतसशाखया वकाभिश्चाग्निं विकर्षति, आपो वै शान्ताः, शान्ताभिरेवास्य शुचं शमयति इति श्रूयते । तदा वेतसावकयोः विधेयत्वेन स्तुत्यङ्गत्त्वम् तदर्थैवापां स्तुतिरिति निश्चयाच्छान्ताभिरिति सहयोग- तृतीयाश्रयेणाद्भिः सहचरितो वेतसावकारूपो विकारः प्रकृतिगुणेन शान्तत्वा- दस्य यजमानस्य शुचं दुःखं शमयतीति वेतसावकयोरेवानेन स्तुतिरित्यर्थः, एवमन्तिमेऽर्थे सूत्रं योजयित्वा आदिममध्यमयोरप्यर्थयोः सोऽरोदीदित्युदाहरणे सूत्रं योजयितुं पृच्छति—अथेति । यद्यविवक्षितस्वार्थाः सोरोदीदित्येवमादयो नार्थभावनाङ्गम्, ततो अर्थवादा वक्तव्याः, न च विध्येकवाक्यत्वं विनार्थवादत्व- मिति वाच्यो विधिशेषाभाव इत्यर्थः । यज्ञकर्मणि रजतदाननिषेधशेषत्वेन निन्दार्थवादत्वं समर्थयन्नाह—तस्मादिति । शेषशेषिभावे प्रमाणं पृच्छति— कुत इति । उत्तरमाह—साकाङ्क्ष्यत्वादिति । अवान्तरपदवर्गाभिप्रायः पदशब्दः बहुवचनेन तेषां प्रत्येकं साकाङ्क्षत्वमुक्तम् अन्यथा हि पुरास्य संवत्सराद् गृहे रोदनं भवतीत्येतावत्तैव निषेधसिद्धेरितरानर्थक्यात् प्रत्येकं साकाङ्क्षत्वमुप- पादयति—सोऽरोदीदित्यादिना । देवासुरा संयत्ता आसन्, ते देवा विजयमुप- यन्तो नौवामं वसु न्यदधत, इदमुनो भविष्यति, यदि नो जेष्यन्तीति, तदग्निरभ्य- कामयत, तेनापाक्रामत्, तद्देवा विजित्याववरुत्समाना अन्वायन् तदस्य सहसा दित्सन्तेत्यत्र प्रकृतो योऽग्निः, तदपेक्ष इत्यर्थः कुतः ? तत्प्रत्ययादिति । स इत्युक्ते तस्य प्रकृतस्य प्रत्ययात् प्रतीयमानत्वादित्यर्थः । यद्वा स इत्यस्य सर्वनामस्थपाठात् कथं प्रकृतापेक्षत्वमित्याशङ्क्याह— तत्प्रत्ययादिति । सर्वनामतच्छब्दादेशेन स इत्यनेन स्थानिनस्तच्छब्दस्य प्रत्ययादित्यर्थः । ततश्च देवासुरादिवाक्येन सहरोदनवाक्यस्यैकवाक्यत्वं सिद्ध- मिति भावः—तस्येति । तथोत्तरस्मिन् अपि वाक्ये तस्य प्रकृतस्य रुदतो रुद्र- स्याग्नेः यदश्रु पतितम् तद्रजतमभवदित्यत्र तस्येतिशब्दः प्रकृतापेक्षः, ततश्च तस्यापि पूर्वेणैकवाक्यतेति भावः, सर्वस्यास्य सन्दर्भस्य निन्दावाक्येनैकवाक्यत्व- माह—उपपत्तिश्चेति । उपरितनस्थेयमुक्तेति शेषः । च शब्दो हेतौ यस्मादिय- मुपपत्तिः, तस्मादुपपादकस्योपपाद्येनैकवाक्यता युक्तेत्यर्थः कोऽसावुपारितनो ग्रन्थः यमाह—यो बर्हिषीति । ननु रजतस्याश्रुकार्यत्वेऽपि रोदनोत्पादकत्वे कारणाभावात् कथमियमुप- पत्तिरत्त आह—हेतुत्वेनेति । अयमिति रोदनप्रभवत्वरूपोऽर्थः । कारणानुरूप- त्वात् कार्याणाम्, रजतस्य च रोदनमृकाश्रुप्रभवत्वात् तद्दानाद्रोदनोत्पत्तिरिति ७

९८ मीमांसादर्शनम् [ सू० हेतुत्वेन निर्देशादुपपत्तिरेवेयमित्यर्थः । सोपपत्तिकस्य निन्दावाक्यस्य निषेध- वाक्यैकवाक्यत्वम् दर्शयितुम् पुनर्निषेधवाक्यं पठति—तस्मादिति । तच्छब्दस्यो- पपत्तिकनिन्दापरामर्शकः सापेक्षत्वेनैकवाक्यत्वं निगमयति—एवमिति । ततश्च विध्येकवाक्यत्वादर्थवादत्वोपपत्तिरिति भावः । साकाङ्क्षत्वमङ्गीकृत्योपकारा- भावेन विध्येकवाक्यत्वमाक्षिपति—कथमिति । यद्यपि निन्दानिषेधयोरेवेह साकाङ्क्षत्वेनोपकारकत्वेन चैकवाक्यत्वं व्युत्पाद्यते, तथापि सर्वोदाहरणाना- मेकवाक्यत्वसाधारणोऽयं ग्रन्थ इति सूचयितुमुपलक्षणार्थं विधिग्रहणम् । आदिमेऽर्थे सूत्रं योजयन्नुत्तरमाह—गृहेति । हि शब्दः प्रसिद्धौ प्रसिद्धं हि बहुक्षीरादिवाक्यस्य गुणवादेन विधिशेषत्वम्, तद्वदत्रापि रोदनोत्पादकगुणवादेन निन्दाया निषेधशेषत्वमित्यर्थः । निन्दामेवोपपादयति—रोदनेति । दोषसङ्कीर्त्त- नात्मकत्वान्निन्दायाः गुणशब्दानुपपत्तिमाशङ्क्याह—तदिति । निवृत्तिफले हि निषेधे निन्दार्थमुच्यमाना दोषा गुणा एव निवृत्त्युपयोगित्वादित्याशयः । निरालम्बननिन्दानुपपत्त्या निषेधशेषत्वमाक्षिपति—कथं पुनरिति । न खल्वग्नि- ररोदीदित्यत्रेदमेव वाक्यं प्रमाणम्, अस्य निषेधशेषत्वाभ्युपगमात्, प्रमाणा- न्तराभावात् च रोदनमकुर्वति तस्मिन् कथम् रोदीति शब्दः रोदनकर्तृत्त्ववाची शब्द इत्यर्थः । तस्य यदश्रु तद्रजतमित्यस्यापि निरालम्बनत्वादाह—कथं देति । एवमुपपादकवाक्यस्य निरालम्बनत्वमुक्त्वोपपाद्यास्यापि तदाह—पुरेति । मध्यमेऽर्थे सूत्रं योजयन्नुत्तरमाह--तदुच्यत इति । गुणाद्वादो गुणवाद इति व्याचष्टे--गौण इति । एष अरोदीदित्यादिः तत्रारोदीदित्यस्य तावदालम्बन- माह—रुद्र इति । रोदनं निमित्तं यस्येति विग्रहः, रुद्रशब्दस्तावदग्नौ प्रसिद्धः-- "त्वमग्ने रुद्रो असुरो महोदिवः, रुद्रो वा एष, यदग्निः ।" इति मन्त्रब्राह्मणयोः प्रयोगदर्शनात्, तत्र च रोदिते रोदनार्थत्वाद्वप्रत्ययस्य च कर्त्रर्थत्वात् रोदनकर्तृवाची रुद्रशब्दोऽगम्यते । तस्मात् सिंहगुण इव देवदत्तः सिंहशब्देन रुद्रशब्देनाग्निर्विषयीक्रियमाणोऽरोदीदित्युच्यत इत्यर्थः, अश्रुप्रभव- वचनस्यालम्बनमाह वर्णति । वर्णसारूप्याच्छुक्लत्वादिलक्षणादश्रुप्रभवमित्याह । प्रकृतिविकारयोरेव प्रायस्सारूप्यदर्शनात्, इह च सारूप्यादुत्प्रेक्षया प्रकृति- विकारभावमाहेत्यर्थः । किमर्थं निन्दन्निन्दाहेतोः निन्दार्थमिति यावत्, पुरास्येत्यस्यापि सालम्बन- माह—निन्दन्निति । लोके हि धनत्यागनिमित्तमत्यन्तोदारस्यापि गृहजनः पीड्यते, तेन धनत्यागसामान्याद्रोदनोपन्यासो गौणः न मुख्यः । निन्दार्थत्वेन च मुख्यार्थाभावो न दोष इत्यर्थः ।

१० ] प्रथमाध्याये द्वितीयपादः ९९ वपोत्खननवाक्येऽपि द्वेधा सूत्रं योजयितुं विध्येकवाक्यत्वं तावदाह-तथेति । रोदनवाक्यस्य निषेधशेषत्वदृष्टान्तार्थस्तथाशब्दः 'स आत्मन' इत्यादि तूपरमा- लभेतेत्यस्य विधेश्शेषः तेनाकाङ्क्षितत्वादिति योजना । ननु कथमस्य विध्यपेक्षितार्थविषयत्वम्, येन तदाकङ्क्षितत्वं स्यादिति चोदयति—कथमिति । सूत्रेणोत्तरमाह—इत्थं नामेति । विशिष्टफलत्वादिदं कर्म. स्वावयवोत्कर्तनेनापि कृतम्, तत्कर्तव्यं धनसामादिनेति किमु वक्तव्यमित्यर्थः । तामग्नौ प्रागृह्णादिति वाक्योक्तं गुणान्तरमाह—एतच्चेति । एतत् एतादृशं प्रहृतमात्रायां प्रक्षिप्तमात्रायां ······· 'प्रभूतपश्वादिफलत्वमनेनोक्तमिति हृदयम् । इदानीमस्मिन्नुदाहरणेऽन्यथा सूत्रं व्याख्यातुं निरालम्बनस्तुत्यनुपपत्तिं शङ्कते--कथमिति । पूर्ववत्प्रमाणाभावादनुत्खिन्नायामित्यर्थः, उपलक्षणञ्चैतत् उत्तरवाक्यानामपि निरालम्बनत्वेन क·······वक्तवाभावस्य यथा सोऽरोदी- दित्यादीनां गौणोऽर्थ आलम्बनम्, नैव प्रजापतिवपाखननादिवाक्यानां लभ्यते, तेनार्थान्यत्वात् स्तुतिलक्षणया प्ररोचनानुपपत्तिरित्यभिसन्धिः । किमिदमसत्तार्थेन स्तुत्यसंभवचोद्यम् ? किंवा निरालम्बनान्वाख्यानानुपपत्ति- चोद्यम् ? तत्राद्यं परिहरति--असद्दिति । स्तुत्यर्थेनोपयुज्यत इति शेषः । कुत इत्यत आह—प्रशंसेति । यद्यर्थवादावगतस्यार्थस्य प्ररोचनहेतुत्वं ततोऽर्थाभावेन प्राशस्त्यलक्षणाभावात् सा न स्यात् शब्द एव त्ववान्तरव्यापारीकृतार्थ- प्रत्ययः प्ररोचयति, ततश्च विनाप्यर्थं तत्प्रत्ययेनैव प्राशस्त्यावगमात् प्ररोचना- सिद्धिरित्यभिसंहितम् । ननु प्राशस्त्यवदर्थवादस्यापि गम्यमानत्वात् कथमभावः तत्राह-इह त्विति । अर्थवादमात्रोक्तिः प्ररोचनेति वृत्तान्तज्ञानजनितप्राशस्त्याप्राशस्त्यज्ञानाभ्यां प्ररोचनाद्वेषावित्यर्थः । ततः किम् ? अत आह--तत्रेति । अविवक्षितं वृत्तान्त- रूपेऽर्थे इति शेषः, नैतद् वृत्तान्तपरमिति यावत्, प्रवृत्त्यादिप्रयोजनत्वात्, प्ररोच- नादिपरत्वं तु न युक्तमित्याह--वृत्तान्तेति । अन्वाख्यापन इति अन्वाख्यानम् । वृत्तान्तरूपेऽन्वाख्याने विधीयमाने=तात्पर्येण प्रतिपाद्यमाने वेदस्यादिमत्तादोषः आदिमतोऽर्थस्य प्रतिपादनादित्यर्थः, अतश्चाविवक्षितवैवार्थं तज्ज्ञानादेव प्राशस्त्यसिद्धेः प्ररोचनासिद्धिरिति समुदायार्थः । नन्वस्त्वर्थज्ञानमात्रस्य स्तुत्युपयोगित्वम्, निरालम्बनं तु ज्ञानमन्वाख्यानं वा न संभवतीति द्वितीयं शङ्कते--कथमिति । इदमन्वाख्यानमन्वाख्यायते क्रियत इत्यर्थः । निरालम्बनत्वमात्रमेवमपि कथञ्चित् परिहर्तुं शक्यमित्युत्तर- माह—नित्य इत्यादिना । "प्रजापतिर्वा इदमेक आसीत्" इत्यादौ प्रजापतिशब्दः प्रजा पातीति व्युत्पत्त्या विकल्पेन वाय्वादिवचन इत्यर्थः, स आत्मन इत्यत्र

१०० मीमांसादर्शनम् [ सू० वपाशब्दस्यालम्बनमाह—स इत्यादिना । वायोः प्रजापतेर्वृष्टिवर्पामध्यवर्ती सारविषयत्वाद्वपाशब्दस्य वायुमध्यवर्तित्वात् तद्धेतुकत्वाच्च वृष्टेः तथाकाशस्य वायुर्वपा । अवकाशाभावे वायोरप्रवृत्तेस्तन्मध्यवर्तित्वाद्वयुरहितस्यापवरका- काशस्यो दुःखोत्पादकत्वेन तत्सारत्वाच्च । तथादित्यस्य रश्मिर्वपा रश्मेरा- दित्यावयवत्वेन तन्मध्यवर्तित्वाद्राश्म्यायत्तत्वेन प्रकाशस्य सारत्वाच्चेत्यर्थः । तामग्नावित्यस्यालम्बनमाह-तामग्नावित्यादिना । तत्रापि यथाक्रमं विद्युदग्नौ वृष्टेर्वपायाः प्रक्षेपकल्पना तस्याविन्धनत्वप्रसिद्धेः, आर्बीसे शारीरे जाठरे अग्नी वायोर्निक्षेपकल्पना आन्तरत्वसामान्यात्, लौकिके अग्नौ रश्मेर्वपाया निक्षेप- कल्पना, आदित्यो वा अस्तं यदग्निमप्रविशतीति श्रुतेः स्वरूपेण चादित्यस्य स्वर्गस्थस्य भूमिष्ठाग्निप्रवेशासंभवात्, रश्मिद्वारा तत्प्रवेशोपपत्तेश्चेत्यर्थः । ततोऽ- जस्तूपर इत्यस्यालम्बनमाह—तत इति । अजत्वमन्नादीनां सामान्याकारेण द्रष्टव्यम्, तत्र व्रीह्यादिरूपस्यान्नस्य विद्युद्वृष्टिसंयोगाज्जन्यऊष्मणोदकेन च विना तज्जन्यादर्शनादूष्मणश्च तेजो गुणत्वात् विद्युतश्च तेजस्त्वादुपचारा- त्तज्जन्याभिधानम्, वायुजाठराग्निसंयोगाच्चरमधातुरूपस्य बीजस्य जन्यजाठ- राग्निपाचितस्यान्नरसस्य व्यानाख्येन वायुना विण्मूत्रादिभ्यो विविक्तीकृतस्य चरमधातुरूपेण परिणामात् बीजकारणत्वं जाठरादेः रश्मिलौकिकाग्निसम्बन्धा- द्वीरुधन्म उष्मजन्यत्वेन व्रीह्यादिवत् भौमाग्निजन्यत्वात्, निदाघकालजन्यत्वेन च वीरुधां रश्मिजन्यत्वावगमादित्यर्थः । निगमयति—इत्येधमिति । शब्दाः प्रजापतिशब्दप्रभृतयः, तं स्वायै देवताया आलभेत, ततो वै स प्रजाः पशूनसृजतेत्यस्यालम्बनमाह-तन्निति । आलभ्येत्यस्य व्याख्यानमुपयुज्येति प्राप्येत्यर्थः । असृजतेत्यस्यालम्बनमुक्तम् । प्राप्नुवन्तीति सर्वप्रजानां व्रीह्यादिपरिणामप्रभवत्वादन्नस्य तद्धेतुत्वं बीजादेस्तु स्पष्टमेव प्रजादि- कारणत्वं तेनालभेतेत्यादयोऽपि शब्दा गौणा एवेत्यर्थः । दिङ्मोहोदाहरणेऽपि सूत्रं योजयितुं विधिशेषत्वं तावदाह—आदित्य इति । कर्मसु कौशलेन दीव्यन्तीति देवा=ऋत्विजः, देवयजनं=यज्ञभूमिः । भवतु विधि- शेषत्वम्, तथापि कथं स्तुतिरित्याशङ्क्य गुणवादादित्याह—सर्वेति । प्रमाणान्त- रानिवर्त्योऽपि हि दिङ्मोह आदित्यचरुणा निवर्त्यते, किमुतान्ये व्यामोहा इति व्यामोहनिर्वर्तकत्वेन स्तुतिरित्यर्थः, निरालम्बनस्य दिङ्मोहपदस्य कथं स्ताव- कत्वमित्याह—कथमिति । सूत्रेणोत्तरमाह-अप्राकृतस्येति । प्रकृतावनभ्यस्तस्या- नेकस्य कर्मराशेर्बुद्धौ सन्निहितत्वात् कथमेनमविदितं करिष्याम इत्याकुलोभाव- सम्भवेन लौकिका इव कर्तव्यतामूढाः ऋत्विजोऽप्याकुलत्वसामान्यात् गौण्यावृत्त्या दिङ्‌मूढा इत्युच्यन्त इत्यर्थः ।

१० ] प्रथमाध्याये द्वितीयपादः १०१ नन्वेवं ‘दिशो न प्राजानन्’ इति दिङ्मोहाभिधानस्य सालम्बनत्वेऽपि पथ्यां स्वस्तिमयजन् प्राचीमेव दिशं प्राजानन्, अग्निना दक्षिणा, सोमेन प्रतीचीम्, सवित्रोदीचीम्, दित्योर्ध्वमिति दितेर्दिग्भेदज्ञापकत्वोक्तेः किमालम्बनमत आह— अवधारणेति । अवधारणार्थमवकाशदानमवधारणावकाशदानम्, आदिशब्देन तत्फलप्रणिधानविचारावुक्तौ, प्रायणीयायां हि दर्शपूर्णमासविकृतौ प्रायः प्राकृतान्यभ्यस्तान्येव कर्माण्येव क्रियन्ते, ततश्च तत्समय एव भविष्यत्स्व- नभ्यस्तेषु कर्मस्ववधारणार्थं प्रणिधानादिसम्भवात् प्रायणीयायां चादित्यः प्रायणीय इत्यादित्यचरुविधानाददितिः ज्ञापयतीति गौण औपचारिक एष- वाद इत्यर्थः ॥ १० ॥ त० वा०—यत्र तावद्विधिस्तुत्योरेकविषयता तत्रोपपद्यतां नाम सम्बन्धः, विषयनानात्वे तु कथमिति ? गुणादित्याह । यत्क्रियायाः संबन्धिनि स्तोतव्ये, तत्संबन्ध्यन्तरं स्तूयते । अथ वा यद्विकारे प्रकृतिसंबन्धिनि विधानार्थं स्तोतव्ये, तत्संबन्ध्यन्तरं प्रकृतिः स्तूयते । तत्र तद्द्वारेणापि लोके वेदे च स्तुतिसिद्धेः प्रकारान्तरता । तस्माददोषः । एतस्यास्तु स्तुतेरर्थमुपरिष्टाद्वक्ष्यति शान्ताभिरद्भिः संबद्धो विकारः शान्तिहेतुर्भवन्द्यजमानस्य कष्टं शमयतीति । गुणवादसूत्रेण शुद्धेनैव तावद्रोदनाद्युदाहरणत्रयपरिहारः । शेषसूत्राण्यप्ये- तदुक्तोपपादनार्थतया संभन्त्स्यन्ते । तत्रोदाहृतानां गौणतानिमित्तं किंचिदिहैव वक्ष्यते, परं तु तत्सिद्धिसूत्रे । सोऽरोदीदिति साकाङ्क्षत्वेनैकवाक्यता विधिस्तु- त्योः प्रत्यवयवं कथ्यते । स इति प्रकृतापेक्षः । कुतः ? तत्प्रत्ययात् । तद्धि प्रकृतं प्रतीयते । अथ वा तच्छब्दस्य प्रकृतग्राहित्वं प्रसिद्धम् । स इत्युक्ते तच्छब्दप्रत्ययात्स एवार्थः । एवं तस्य यदश्रु, तद्रजतमिति संबन्धः । सर्वा नेयमुपरितनस्य निन्दा- ग्रन्थस्योपपत्तिरिति तदनन्तरं तदभिधानमुपपद्यते । कोऽसौ ग्रन्थः ? तं दर्शयते । यो बर्हिषि रजतं दद्यात्पुराऽस्य संवत्सराद् गृहे रोदनं भवेदिति । केन हेतुना तदेवं भवतीति ? तदुपपाद्यते, कारणानुरूपत्वात्कार्यस्य, रोदनप्रभवरजतदाना- द्रोदनोत्पत्तिस्तस्मान्न देयमिति सकलमदानस्योपपत्तिरिति । निन्दया तच्छेषत्व- मर्थवत् । गुणवादस्तु शब्दालम्बनं रुद्रशब्दोत्थापितविज्ञानवशेन रोदनसामा- न्यतोऽदृष्टकल्पना । अश्रुुणश्च शौक्ल्याद्यदि नामैतत्कठिनं भवेत्ततो रजतसदृशं भवेदित्युत्प्रेक्ष्य तत्प्रभवनिन्दा । धनत्यागेनात्यन्तोदारस्यापि गृहजनः पीड्यत इति तत्सामान्याद्वा रोदनोपन्यासः । एवं येन केनचिदालम्बनेन निन्दाविज्ञानो- त्पत्तिः प्रतिषेधोपकारिणीति, मुख्यार्थाभावेऽप्यदोषः ।

१०२ मीमांसादर्शनम् [ सू० एवं वपोत्खननादिवाक्ययोजना। स्वात्मवपोत्कर्तनेनापि हि विशिष्टप्रयोज- नार्थं कर्माणि क्रियन्ते, किमुत बाह्यधनत्यागेनेति स्तुतिः। यथा नेत्रमप्युद्धृत्यायं ददातीति लोकेऽपि त्यागिनं स्तुवन्तीति। वृत्तान्तपर्यवसायी च वेदस्तत्र प्रामाण्यमप्रतिपद्यमानः स्तुतौ सत्यत्वान्नान्यत्रान्वेषणमर्हतीति निष्प्रयोजनो- पाख्यानसत्यतया नार्थेन। शब्दभावनाङ्गं वार्थवादाः। सा च प्रवृत्तिविज्ञान- मात्रेणैवोपयुज्यते, नार्थेन। अर्थात्मिकायां तु सर्वत्राविसंवादः सिद्ध एव। अथोच्येत असदन्वाख्यानेन स्तुतिनिन्दात्वमिति सुतरां तत्र प्रतीयते। कामं परमार्थे वक्तारो भवन्ति काऽत्र स्तुतिर्निन्दा वा, सत्यमेवैतदिति। असत्ये तु यस्मादन्यत्र दुष्टमप्यवधृतमिह गुणवन्तमिति ब्रवीत्यतो नूनं मे प्ररोचयति, तथा गुणवन्तं सन्तं निन्दति निवर्तयितुमिति। ततश्चैवं विदित्वा यो यस्यानति- क्रमणीयः, तदनुरोधेन स तथा प्रवर्त्तते। वेदश्च प्रमाणमिति स्थितम्। तेन प्रवृत्तिनिवृत्यनुग्रहणीये स्वसंवेद्येऽर्थे पुंसः प्रशस्ताप्रशस्तज्ञाने भवतः। इह ते वेदेनोत्पादिते। तस्मात्तदनुरूपं व्यवहर्त्तव्यमिति। लोकेऽपि यां क्रियां फलान्तर- युक्तां मेधादिहेतुत्वेनाऽऽसां मन्यन्ते तस्यां कञ्चित्प्रवर्त्तयन्तस्तदभिप्रेतं सौभाग्यादि- फलमसत्यमप्युपन्यस्य नियुञ्जते। तत्प्रवृत्तश्चेतरोऽपि क्रियाश्रयं फलं प्राप्नोति। यद्यपि च प्रतिपत्ता जानाति नैतदत्र पारमार्थिकं फलं मदभिप्रायानुसारेणैतै- रुपन्यस्तं सर्वथा त्वपुरुषार्थे मां न प्रवर्त्तयन्ति, तदसत्यं नामैतत्किमप्यन्यद- वाप्स्यामीति ज्ञात्वाऽनुतिष्ठति। एवं वेदेऽपि विधिना तावत्फलमवगमितमर्थ- वादात्स्वसत्येन नाम प्ररोचयन्तु न तद्गते सत्यासत्यत्वे किञ्चिद् दूषयतः, प्रवर्त्तनमात्रोपकारित्वात्। यत्तु परस्ताद्विवक्ष्यति, तद्विधेरुपरीगतमिति निश्चित्य नैव विद्वांसो न प्रवर्त्तन्ते। तरमादुपाख्यानासत्यत्वमतन्त्रम्। न हि शुक्तिकादृष्टसत्यरजतो यदि रजतान्तरं तद्देशे लभते ततोऽभिसंधीयते। शुक्ति- कावस्तु किञ्चिदालम्बनं श्रुतिसामान्यमात्रेण सर्वत्र योजनीयम्। यथेह महाभूतानि प्रजाः पान्तीति प्रजापतित्वेनोच्यन्ते। वाय्वादीनां यथा- संख्येन मध्यवर्त्तिनः सारावृष्ट्यादयो वपाः, तामग्नाविति तेनैव क्रमेण वैद्युते वृष्टिम्, अर्बीसे शरीरान्तर्वर्त्तिनि वायुमन्तश्चरत्वसामान्याद्रश्मिं लौकिके तदाप्यायनात्तस्य। ततोऽज इति बीजादीनां सामान्येनानादित्वादजत्व- प्रसिद्धेः तमालभ्य प्राप्य प्रजाः पशूनाप्नोति। सर्वप्रजानां व्रीह्यादिपरिणाम- प्रभवत्वादित्यालम्बनम्। एतस्मिंस्तु प्रक्रमे सत्यं सालम्बनता, किं तु स्तुतित्वमेव हीयते। अतः स्तुतित्वात्यागेनैव स्वार्थसत्यतां वर्णयामः। मन्त्रार्थवादेतिहासप्रामाण्यात्सृष्टि- प्रलयाविष्येते, तत्र सृष्ट्यादौ प्रजापतिरेव योगी तस्मिन्काले पुण्यकर्मोद्भवमभ्युप-

१० ] प्रथमाध्याये द्वितीयपादः १०३ गमेन पशूनामभावात्स्वमाहात्म्येनाऽऽत्मन एव पशुरूपमभिनिर्माय वपोत्खननादि कृतवान्, ततोऽसमाप्त एव कर्मणि तूपरः पशुरुत्थित इतीदृशमिदं कर्म प्रत्या- सन्नफलम् । एवं च महता यत्नेन प्रजापतिना चरितमिति सर्वं सत्यमेव । प्रति- सृष्टि चर्तुलिङ्गन्यायेन तुल्यनामप्रभावव्यापारवस्तुत्पत्तेर्नानित्यताप्रसङ्ग इति । कर्मसु कौशलेन दीव्यन्तीति देवा ऋत्विजः, ते देवयजनाध्यवसानान्तरं दर्शपूर्णमासयोरनभ्यस्तं सौमिकं कर्मराशिमालोक्य कथमविदितं करिष्याम इत्याकुलीभावसामान्याद्दिङ्मोहाभिधानम् । तथा च लोके कर्तव्यतासु दिशो मे परिभ्रमन्तीति वक्तारो भवन्ति । तत्र तद्व्युदासेनादितियागः प्रशस्यते । कथं तु तद्व्युदसनम् । अवधारणावकाशदानात् । यावद्धि प्रायणीयायां प्राकृतानि समभ्यस्तानि कर्माणि क्रियन्ते, तावदितरेषु भविष्यत्सु प्रणिधानं भवति, अन्यथा सर्वस्मिन्नप्राकृते निरवकाशत्पादनवधारणं स्यात् । तेनाऽऽदित्येनैवैतज्ज्ञापितमिति मोहापनयेन स्तुतिः ॥ १० ॥ न्या० मू०-यदा शब्दार्थस्त्वप्रयोगभूत इत्यनेन श्रौतार्थाविवक्षोक्ता, तदा गुणस्य वाद इति षष्ठीसमासाश्रयणादन्येन स्तुत्यर्थत्वं सिद्धान्तसूत्रोक्तं पूर्वसूत्रे नैराकाङ्क्ष्याय स्मार्यते, स्वार्थसत्यत्वे वा कथं स्तुतिरित्यपेक्षायां गुणाद्वाद इति पञ्चमीसमासाश्रयणेन स्वार्थसत्य- त्वानादरोऽभिधीयते । यदा तु स्तुत्यर्थत्वमेव शब्दार्थस्त्वित्यनेनोक्तम्, तदा विधिस्तु यो- भिन्नविषयत्वे कथं विधायकानुग्रहार्थत्वमर्थवादस्येत्याशङ्कानिराकरणार्थमेतत्सूत्रमिति भाष्यकारेण व्याख्यातम् । तत्र भिन्नविषयत्वे स्तुत्यर्थत्वःसम्भवपरिचोदनादेकविषयत्वे स्तुतित्वं पूर्वपक्षिणोऽभिमतमिति कस्यचिच्छङ्का स्यात्, ततश्च 'सोऽरोदीदित्यादिसम्भव- चोद्यानुपपत्तिरित्याशङ्क्य अभ्युपेत्यवादमात्रेणेतरत्राङ्गीकृत्य भिन्नविषयत्वे तावत्परिचोद- नेति व्याचष्टे—यत्र तावदिति । गौण इति तद्धितं पञ्चमीसमासप्रदर्शनपरतया व्याचष्टे--गुणादिति । उपचारश्चात्र गुणशब्देनाभिप्रेतः, यत्सम्बन्धिनीति सम्बन्धिशब्दः क्रियापेक्षः, प्रकृत्यपेक्षो वेति द्वेधा व्याचष्टे—यत्क्रियाया इति । अभिजनसंस्तवेन चेत्यादिभाष्यार्थमाह-यत्रेति । अभिजायते अस्मादितिव्युत्पत्त्योत्पत्तिस्थानमभिजनशब्देनोच्यते । अश्मकशब्दो जनपदविशेषवाची । कीदृशी स्तुतिरित्यपेक्षामाह—एतस्यास्त्विति । 'वेतसशाखयाऽवकामिश्राग्निं विकर्षति, आपो वै शान्ताः शान्ताभिरेवास्य शुचं शमयतीति श्रूयते । तत्र वेतसावकयोर्विधेयत्वेन स्तुत्यर्हत्वात्तदर्थे वाऽपां स्तुतिप्रतीतेः शान्ताभिरिति सहयोगे तृतीयाश्रयणेनाद्भिः सहचरितः सम्बन्धो वेतसावकीरूपो विकारः प्रकृतिगुणयोगेन शान्तत्वादस्येति सर्वनामो- पात्तस्य यजमानस्य कष्टपरपर्यायां शुचं शमयतीति वेतसावकयोरनेन प्रकारेण स्तुतिरित्यर्थः । रोदनाद्युदाहरणत्रये केवलमेव गुणवादसूत्रं स्तुत्यसम्भवपरिहारार्थतया भाष्यकृता व्याख्यातम् । तस्य गुणवादप्रकारशेषाणानिरूपणेनासामर्थ्यमाशङ्क्याह—गुणवादेति ।

१०४ मीमांसादर्शनम् [ सू० रोदननिमित्तस्य शब्दस्य दर्शनादित्यादिनोक्तस्तत्सिद्धिकरत्त्वादिः प्रकारविशेषो यावत्त- त्सिद्धिसूत्रे वक्ष्यमाणतया नालोच्यते, तावच्छुद्धेनेवेति तावच्छब्दस्यार्थः । स्तेनाद्युदाहरणे- ष्वपि तर्हि सूत्रान्तरानर्थक्यं स्यादत आह—शेषेति । ननु तत्सिद्धिसूत्रेण गुणवादप्रकारविशेषनिरूपणे स्तेनाद्युदाहरणेष्वपि शुद्धस्य गुणवाद- सूत्रस्य स्तुत्यसम्भवपरिहारसामर्थ्यादिनिरूपणे वा रोदनाद्युदाहरणेष्वप्यसामर्थ्यात्किं कृतेयं व्यवस्थेति आह—तत्रेति । यद्यपि तत्सिद्ध्यादीनां षण्णामेव गौणवृत्तिप्रकारत्वात्सर्व- प्रकारविशेषनिरूपणं तत्र करिष्यते, तथाप्यस्मिन्नुदाहरणेऽयं प्रकार इति स्तुत्युदाहरण- निष्ठतया सूत्रेणानिरूपणात्किंचित्सारूप्याद्युदाहृतानां स्तेनं मन इत्यादीनां सम्बन्धितयैहै- वोच्यते स्वप्राधान्येन तु तत्र सर्वं गौणतानिमित्तं वक्ष्यत इति, प्राधान्यवाचिना परशब्देनोक्तं गौणवृत्तिलक्षणकथनमात्रपरत्वात्तत्सिद्धिः सूत्रस्येति भावः । रोदनार्थवादे च गुणवादसूत्रयोजनार्थं विध्येकवाक्यत्वं विनार्थवादान्वयायोगात्पूर्वं विध्येकवाक्यत्वमेव साकाङ्क्षत्वे भाष्ये सोऽरोदीदित्यादिना प्रश्नपूर्वकं भाष्यकृतोपपादितं तद्व्याचष्टे—सोऽरोदीदिति । यद्यपि निन्दानिषेधयोरैकवाक्यत्वम्, तथापि सर्वोदाहरण- गतानामाकाङ्क्षाहेतुकविध्येकवाक्यत्वप्रतिपादकभाष्याणां साधारणोऽयं व्याख्याग्रन्थ इति सूचयितुमुपलक्षणार्थं विधिस्तुत्योरित्युक्तम् । प्रत्यवयवमित्यनेन पदानामिति बहुवचनार्थो दर्शितः । अन्यथा हि पुरास्य संवत्सराद् गेहे रोदनं भवतीत्यनेनैव निन्दासिद्धेः शेषपदाना- मानर्थक्यं स्यात् । अवान्तरपदवर्गाभिप्रायाश्चात्र पदशब्दः । एतदर्थवादोपक्रमस्य 'देवासुराः संयत्ता आसन्ते देवा विजयमुपयन्तोऽग्नौ वामं वसुसन्न्यदधतेदमुनो भविष्यति यदि नो जेष्यन्तीति, तदग्निन्र्यंकायत तेनापाक्रामत्ते देवा विजित्यावरुरुत्समाना अन्वायन् तदस्य सहसादित्सन्तेत्यस्याप्येकवाक्यत्वसिद्धयर्थमरोदीदित्यादि' भाष्यं व्याचष्टे—स इतीति । स इत्युक्ते तस्य प्रकृतस्य प्रत्ययादित्यर्थः । यद्वा स इत्यस्य सर्वनामस्वपाठात्कथं प्रकृतापेक्षत्वमित्याशङ्क्य सर्वनामतच्छब्दादेशेन स इत्यनेन स्थानिनस्तच्छब्दस्य प्रत्ययादित्यन्यथा व्याचष्टे—अथ वेति । तद्रजतमित्यस्य भाष्यकारेणानुपन्यासात्स्वयं तत्सम्बन्धं दर्शयति—एवमिति । उपपत्तिश्चेति भाष्यं व्याचष्टे—सर्वा चेति । उपरितनस्येत्युक्तेऽप्युपरितनग्रन्थोपन्यासस्य प्रयोजनमाह— कोऽसाविति । हेतुत्वेनेतिभाष्यं व्याख्यातुमाशङ्कते—केनेति । रजतदानस्य रोदनोत्पादकत्वे को हेतुरित्यर्थः । उत्तरत्वेन भाष्यं व्याचष्टे—तदुपपाद्यत इति । भाष्येऽयमिति पूर्वोक्त- रोदनप्रभवत्वरूपार्थपरामर्शः । पूर्वोपन्यस्तस्य निषेधस्य पुनरुपन्यासे प्रयोजनमाह— तस्मादिति । कथं विधेरुपकुर्वन्तीति पृष्ट्वा गुणवादेनेत्यादिनोक्तत्वेन गुणवादसूत्रं भाष्यकृता योजितं तद्व्याचष्टे—निन्दयेति । दोषसङ्कीर्त्तनात्मकत्वान्निन्दाया गुणशब्दानुपपत्तिमाशङ्क्य तत्प्रतिषेधस्येत्यादिभाष्यकृतोक्तं कथं पुनरित्यादिना निरालम्बनस्तुत्यनुपपत्तिमाशङ्कया-

१० ] प्रथमाध्याये द्वितीयपादः १०५ लम्बनाभिधानपरतया पुनरेतदेव सूत्रं योजितम् । तद्व्याचष्टे-गुणवादश्चेति । अरोदीदित्य- स्यालम्वनप्रतिपादनार्थं रुद्र इत्यादिभाष्यं व्याचष्टे — रुद्रशब्देति । रोदिते रोदनार्थंस्वा- द्रक्प्रत्ययस्य च कर्त्रर्थत्वाद्रोदनकर्तृवाची रुद्रशब्दो व्याकरणादवगम्यते । तस्य च त्वमग्ने रुद्रो असुरो महो दिव इत्यादावग्नौ प्रयोगदर्शनाद्रुद्रो वा एष यदग्निरिति चार्थवाददर्शना- द्रुद्रमग्नि द्विजाः प्राहुरिति—चारण्यकपर्वणि 'कुमारसम्भवोपाख्यानदर्शनात् । प्रस्तरे यजमानकार्यकर्तृत्ववत्तत्कार्यकारित्वेन रोदनकर्तृत्वकल्पनेत्यर्थः । तैत्तिरीयशाखागतार्थ- वाददर्शनादग्नौ रुद्रशब्दोऽस्माभिर्व्याख्यातः । अन्येषां तु कपर्दिनीं रुद्रशब्दं व्याचक्षाणामभिप्रायं न विद्मः । अश्रुप्रभवत्वाभि- धानालम्बनप्रतिपादनार्थं वर्णसारूप्यादितिभाष्यं व्याचष्टे — अश्रुगश्चेति । यदि नामेत्यनेन द्रवत्वमात्रेण वैलक्षण्यमित्युक्तम् । अनेन चान्यत्र प्रकृतिविकारयोः सादृश्यदर्शनादिहापि सादृश्येन प्रकृतिविकारभावोत्प्रेक्षा दर्शिता । रोदनं भवतीत्यस्यालम्बनाभिधानार्थं निन्दन्ने- वेति भाष्यं व्याचष्टे—धनत्यागेनेति । नन्वेवमपि मुख्यस्यार्थस्यासत्यत्वात्तल्लक्षिता निन्दाप्यसत्या स्यादत आह--एवमिति । नाविनाभावेनोपाख्यानादेर्मुख्यस्यार्थस्य स्तुति- निन्दालक्षकत्वम्, किन्तु विधिनिषेधापेक्षितस्तुतिनिन्दारूपार्थप्रतिपादनोपायमात्रत्वेनोपाख्या- नार्थवादैः प्रतिपाद्यते । न चोपायमात्रत्वेन कल्पितस्यासत्त्वं तद्वाराथं प्रतिपत्तेर- सत्यत्वं प्रतिपादयति । क्विब्यादेरसत्यत्वेऽपि तद्द्वारस्य शब्दान्वाख्यानस्य सत्यत्वदर्शना- दिति भावः । वपोत्खननार्थवादस्य विध्येकवाक्यत्वप्रतिपादनार्थं तथेत्यादिभाष्यं व्याचष्टे—एवमिति । कथं गुणवाद इत्यनेन कीदृशी स्तुतिरिति पृष्ट्वेत्थं नामेत्यादिना स्तुतिस्वरूपं भाष्यकृता दर्शितं तद्व्याचष्टे—आत्मेति । ईदृश्यपि स्तुतिर्भवतीति दर्शयितुं दृष्टान्तमाह—यथेति । कथं पुनरित्यनेनासद्वृत्तान्तान्वाख्यानानुपपत्तिमाशङ्क्योच्यत इत्यादिना किमराताऽर्थेन स्तुत्यसम्भवाभिप्रायेयमाशङ्का, निरालम्बनान्वाख्यानासम्भवाभिप्रायो वेति विकल्प्य, आद्ये कल्पे तावदपारमार्थिकस्याप्युपायत्वं क्विबादिवत्सम्भवतीत्युक्तम् । तदुपपादयति - वृत्तान्तेति । अनेन चोपाख्यानानामसत्यत्वेऽपि तत्रार्थवादानामतातपर्यात्तातपर्यंगोचरीभूते च प्राशस्त्याप्राशस्त्यरूपेऽर्थे सत्यत्वान्न तावदप्रामाण्यापत्तिरित्युक्तम् । कथं पुनरसत्यस्य पारमार्थिकस्तुतिनिन्दोपायत्वमित्याशङ्कयाह—शब्दभावनाङ्गं वेति । अयमाशयः धूमा- देर्ज्ञानापेक्षत्वेऽपि अर्थरूपेण कारणत्वात्तस्य चार्थभावेऽपि तद्विषयत्वरूपेण सत्यत्वाद्रज्जु- सर्पज्ञानस्येव भयकारणत्वं युक्तमेवोपायत्वमिति । अर्थसत्तानपेक्षत्वप्रदर्शनायैव सा चेत्या- द्युक्तम्—प्रवर्तेऽहमिति । विज्ञानोत्पादे यः शब्दस्य व्यापारः, स एव शब्दभावनांशब्दे- नोच्यते । एवंविधविज्ञानोत्पादकत्वमेव शब्दस्य प्रवर्त्तकत्वम्, न तु वाद्यादिवदौदसीन्य- प्रच्यावकत्वम् । तथोक्तम्—प्रवर्त्तेंऽहमिति ज्ञानं येन शब्देन जन्यते । स चोदनोच्यते यद्वा प्रवर्त्तनफला मतिः ॥ इति ।

१०६ मीमांसादर्शनम् [ सू० तदेवात्र प्रवृत्तिविज्ञानशब्देनोक्तम् । तन्मात्रेण शब्दभावनोपयुज्यते प्रवर्तेऽहमिति विज्ञानं यावता प्रवर्त्स्यन्त्योत्पाद्यते, तावन्मात्रेण पर्यवस्यति नातिरिक्त मपेक्षत इत्यर्थः । तच्चार्थसत्तानपेक्षात्प्राशस्त्यज्ञानमात्रात्सिद्ध्यतीति दर्शयितुं नार्थेनेत्युक्तम् । केचित्तु प्रकृतोपयोगानुसारेणैवं व्याचक्षते । तत्प्रवृत्त्यङ्गभूतप्राशस्त्यविज्ञानमात्रेण सोपयुज्यते । प्रवृत्त्युत्पादे समर्था भवतीति । नन्वेवं सत्युपाख्यानवत्स्वर्गयागादिसाध्यसाधनभावसङ्कीर्त्तनस्यापि प्रवर्त्तनोपाय- मात्रत्वापत्तेरसत्यता स्यादत आह-अर्थात्मिकायां त्विति । उपाख्यानानामपुरुषार्थो- पयिकत्वेन वेदस्य तत्राव्यापारात्प्रमाणान्तरानुपलब्धेश्चासत्यत्वं ज्ञातम् । साध्यसाधनभावे तु वेदस्य व्यापाराभावे निष्फलत्वापत्तेरतुल्यत्वम् । वेदप्रतीतस्यापि तु प्रत्यक्षविरोधे असत्यता स्यात् न त्वसावस्तीत्यविसंवादग्रहणेनोक्तम् । शब्दभावनायामपीतिकर्त्तव्यताभूत- प्राशस्त्यज्ञानोपायमात्रे कस्मिंश्चिद्विसंवादः, न तु पुरुषप्रवृत्तिविधिज्ञानप्राशस्त्यज्ञानरूपे साध्यसाधनेतिकर्त्तव्यतांशे । अर्थभावनायां त्वितिकर्त्तव्यतोपायेऽपि द्रव्यदेवतादौ न विसंवाद इति सर्वत्रेत्यनेनोक्तम् । एतदेव प्रश्नपूर्वकं विवृण्वन्नाह-अथेति । उत्तरमाह-सुतरामिति । स्वार्थसत्यत्वेन तात्पर्यशङ्कायां स्तुतिपरत्वान्निश्चयादिति भावः । एतदेवोपपादयति-काममिति । इति ब्रवीतीतिकरणोऽर्थवादगताभिधानप्रकारनिर्देशार्थः । अनेन वपोत्खननादिना प्रकारेण गुणवन्तमर्थं ब्रवीतीत्यर्थः । नन्वर्थसत्तानपेक्षप्राशस्त्यज्ञानमात्रात् प्रवृत्तावनासक्तेनापि प्रवृत्तिः स्यात् । अत आह-ततश्चेति । नन्विष्टानिष्टप्राप्तिपरिहारहेतुत्वादाजादेरनतिक्रम- णीयत्वं स्यात् वेदस्य, तत्कथम् ? अत आह-वेदश्चेति । इष्टानिष्टसाधनबोधकत्वाद्वेदोऽप्य- नतिक्रमणीय इति भावः । ततः किमिति चेदत आह-तेनेति । येन कारणेन वेदः प्रमाणम्, तेन कारणेन तदनुरूपं व्यवहर्त्तव्यमित्यर्थः । प्राशस्त्याप्राशस्त्यज्ञानयोरसत्योपायकत्वेना- सत्यत्वादनादरमाशङ्क्योपायासत्यत्वेऽपि वेदकृतत्वेनानयोः सत्यत्वं दर्शयितुम्-प्रवृत्ती- त्याद्युक्तम् । ये इह विधेयनिषेधार्थविषये प्राशस्त्याप्राशस्त्यज्ञाने भवतः, ते वेदेनोत्पादिते यस्मात्; तस्मात्तदनुरूपमिति यस्माच्छब्दाध्याहारेण योज्यम् । ज्ञानोत्पत्तौ विप्रतिपत्तिं निराकर्त्तुम्-स्वसंवेद्यत्वमुक्तम् । वेदादरणीयत्वाय प्रवृत्तिनिवृत्त्यनुग्राहकत्वाभिधानम् । अनुग्राहकत्वोपपादनाय पुंग्रहणम्, न चैतदलौकिकमित्याह-लोकेऽपीति । प्रवर्त्त्याभिप्रेत- सौभाग्याद्यपेक्षया वपाभक्षणादिक्रियाफलस्य मेधादेः फलान्तरत्वामभिधानम् । तदित्यव्ययं पञ्चम्यर्थे नियोगं परामृशति, तस्मान्नियोगात्प्रवृत्तः क्रियाश्रयं तन्निमित्तं मेधादिफलं प्राप्नोतीत्यर्थः । ननु सौभाग्यादेरपारमार्थिकत्वं यो न जानाति, स एव प्रवर्त्तताम् । यस्तु प्ररोच्यमानः स्वाभिप्रेतफलासत्यत्वं जानाति, स कथं तदुद्देशेन प्रवर्त्तत इति । तदाह- यद्यपि चेति । तदसत्यत्वेऽपि आप्ताभिप्रेतफलानुमानेन प्रवर्त्तत इत्यर्थः । तत्प्रकृते योज- यति-एवमिति । ननु यदि प्ररोचनावगतफलानुसारेण न प्रवृत्तिः, किमुद्दिश्य तर्हि प्रवृत्ति-

१० ] प्रथमाध्याये द्वितीयपादः १०७ रिति तन्नाह—यत्त्विति । परस्तादनुष्ठानोत्तरकालं यत्फलं भविष्यति, तत् विधेरुपगतमिति¹ विध्याश्रयं तत्प्रमाणकमित्यर्थः । उपसंहरति—तस्मादिति । प्रमाणान्तरेष्वपेक्षितार्थ- लाभेनोपायासत्यत्वं व्यवहारं दर्शयतीत्याह—न हीति । शुक्तिकामदृष्टं सत्यं पारमा- र्थिकं रजतं येन स तथोक्तः, विफलारम्भताभिसन्धानम् । अथालम्बनसद्भावात्तत्र व्यव- हारसिद्धिः, तदत्रापि समानमित्याह—शुक्तिकावत्त्विति । कथं पुनरनुखिन्नायामित्यस्यैव चोद्यस्येह निरालम्बनान्वाख्यानासम्भवाभिप्रायकत्वं कथं पुनर्निरालम्बनमन्वाख्यायत इत्य- नेनाशङ्क्यं नित्यः कश्चिदित्यादिना भाष्येण त्रिविधालम्बनाभिधानेन निराकृतम् । तद्व्या- चष्टे—यथेहेति । यथेत्यनेनासद्वृत्तान्तान्वाख्यानं स्तुत्यर्थेनेत्यादेः परिहारस्य सर्वसदन्वा- ख्यानविषयत्वं सूचितम् । अत एव पूर्वपक्तिकायां सर्वत्रेत्युक्तम् । व्याख्यात्रयस्य निरूपणम् वृष्ट्यादीनां वपात्वं मध्यवर्त्तित्वसारत्वलक्षणगुणयोगेनोपपादयति—वाय्वादीनामिति । वृष्ट्युत्पत्त्यवसानयोर्वाय्वायत्तत्वात्तन्मध्यवर्त्तित्वं सनेम्यभवं मरुतो जुनन्तीत्यादौ च वृष्टि- हेतुत्वेन वायुस्तुतौ । तत्सारत्वं वृष्टेः । अवकाशाभावे वायोरवृत्तेस्तन्मध्यवर्त्तित्वं । वायु- रहितस्य चापवरकाद्याकाशस्योष्मदुःखोत्पादकत्वात् । तत्सारत्वं रश्मेरादित्यावयवत्वात् । तन्मध्यवृत्तित्वं रश्म्यायत्तत्वाच्च प्रकाशकत्वस्य तत्सारत्वम् । तामग्नावित्यादिभाष्यं व्याचष्टे—तामग्नाविति । वैद्युतस्याबिन्धनत्वप्रसिद्धेस्तत्र वृष्टेर्निक्षेपकल्पना । ऋषीस- शब्दस्य शरीरवाचित्वात्तदन्तर्वर्त्यग्निरार्षीसोऽभिधीयते तस्मिन्वायोर्निक्षेपकल्पनाया- मालम्बनमन्तश्चरत्वसामान्यम्, आदित्यो वाऽस्तं यदग्निमनुप्रविशतीत्यादि दर्शनात् । स्वरूपेण स्वर्गस्थस्यादित्यस्य भूमिष्ठाग्निप्रवेशायोगाद्रश्मिप्रवेशकल्पना । बीजादिष्वज- शब्दप्रयोगे निमित्तमाह—ततोऽज इति । व्रीह्यादेरन्नस्योष्मणा विनाऽप्ररोहाद्दर्शनात्तस्य च तेजोगुणत्वादाम्नयो ह्योषधय इति च लिङ्गादग्न्युदकसंयोगजत्वावगतेस्तत्सामान्यात् वृष्टिवैद्युतसंयोगस्य कारणत्वाभिधानम् । जाठराग्निपाचितस्यान्नरसस्य व्यानाख्येन वायु- विशेषेणाबीजभूतेभ्यो विण्मूत्रादिभ्यो विविक्तीकृतस्य चरमधातुरूपेण परिणामाद्वायोर्बीज- कारणत्वाभिधानम् । वीरुधादेर्व्रीह्यादिवदेव भौमाग्निजन्यत्वान्निदाघकाले च प्ररोहदर्शने- नादित्यरश्मिजन्यत्वावगमाद्रश्म्यग्निसंयोगजन्यत्वं लभेः प्राप्तौ स्मरणात् । तदर्थतयोपयु- ज्येति पदं व्याचष्टे—तमालभ्येति । अन्नादिसेवनस्य प्रजापशूत्पत्तिकारणत्वाभिधाना- लम्बनमाह—सर्वप्रजानामिति । तन्निरासः एतच्च व्याख्यानत्रयं वैकल्पिकं युगपद्दर्शितम् । तद् दूषयति—एतस्मिंस्त्विति । प्रक्रमो रीतिर्व्याख्यानप्रकार इति यावत् । एवशब्देन स्तुतिसिद्धयर्थं सालम्बनत्वानुरोधेन प्रधान- भूतस्तुतिबाधोऽङ्गगुणविरोधन्यायाद्युक्त इति सूचितम् । १. रुपरोति २ पु० पा० ।

१०८ मीमांसादर्शनम् [ सू० स्वमतेन व्याख्यानम् स्वमतेन व्याख्यातुं प्रतिजानीते—अत इति । सृष्ट्यादिविषयमेतदुपाख्यानं व्याख्यातुं तदनङ्गीकारादनुपपत्तिमशङ्क्याह— मन्त्रेति । वस्तुवृत्त्या सृष्टिप्रलयाभावेऽपि मन्त्रादि- व्याख्यालम्बनत्वेनोपायमात्रतया तदङ्गीकरणमिति भावः । व्याख्यानमाह - तत्रेति । आत्मनः पशुरूपनिर्माणशक्तिद्योतनार्थं योगिग्रहणं पुण्यकर्मणामेव मन्वादीनां सृष्ट्यादावु- द्भवः पुराणादिष्वभ्युपगम्यते । यद्वा पुण्यस्यैव कर्म्मणः फलदानायोद्भवः । 'अरोगः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः । चतुष्पात्सकलो धर्मः सत्यं चैव कृते युगे ॥' इति स्मरणात् । ततोऽजस्तूपर उदगादित्यत्र तत इति पञ्चम्यानन्तर्यप्रदर्शनार्थेति व्याचष्टे—तत इति । वपापुरोडाशाङ्गप्रचारात्मकत्वात्पशुयागस्य वपाप्रचारमात्रेणा- समाप्तिः । आनन्तर्याभिधानस्य स्तुत्युपयोगमाह—ईदृशमिति । वपोत्खननाभिधानस्योप- योगमाह—एवं चेति । सालम्बनत्वाभिप्रायः सत्यशब्दः । प्रसङ्गाद्वृत्तान्तान्वाख्यानेऽपि- त्याद्यधस्तनभाष्यं दूषयति—प्रतिसृष्टि चेति । दिङ्मोहोदाहरणे देवशब्दालम्बनमाह-- कर्म्मस्थिति । के त इत्यपेक्षायामृतृत्विजस्त- इत्युक्तम् । दिङ्मोहशब्दालम्बनाभिधानार्थमप्राकृतस्येति भाष्यं व्याचष्टे—देवयजनेति । देवयजनं यज्ञभूमिः । दृष्टश्च लोके व्याकुलीभावे दिग्भ्रमव्यपदेश इत्याह - तथा चेति । अदितेर्ज्ञापकत्वाभिधानस्यालम्बनप्रतिपादनार्थमवधारणेति भाष्यं व्याचष्टे—तत्रेति । कथमदितियागेनावधारणस्यावकाशो दीयते । अत आह— यावद्धीति । दर्शपूर्णमासाविद्वा सोमेन यजेतेतिदर्शपूर्णमासानन्तरं सोमयागस्तस्य चापूर्वत्वाददर्शपूर्णमासयोरनभ्यस्तस्याङ्ग- जातस्योपस्थापनाद्यामोहमात्रं प्रायणीयेष्टापनीयते । सा हि सोमस्याङ्गं दर्शपूर्णमास- योश्च विकार इति पूर्वाभ्यस्तदर्शपूर्णमासिकर्त्तव्यतानुष्ठानेन करिष्यमाणेषु कर्म्मस्ववधानं भवतीति भावः । पथ्यां स्वस्तिमयजम्प्राचीमेव तया दिशं प्राजानन्नग्निना दक्षिणाम्, सोमेन प्रतीचीं, सवित्रोदीचीम्, अदित्योर्ध्वमिति मोहापनयेन स्तुतिः ॥ १० ॥ भा० प्र०-यदि पूर्वपक्षी यह कहें कि जिस स्थल में अन्य की विधेयता एवं अन्य का प्राशस्त्य कहा जाता है, वहाँ व्यधिकरणता दोष प्राप्त होने से अर्थवाद वाक्य विधेय विषय की परोचना नहीं कर सकता है । ऐसी स्थिति में विधि के साथ एकवाक्यता न होने से अर्थवाद वाक्य का प्रामाण्य भी नहीं हो सकता है—इसी आशङ्का के उत्तर में सूत्रकार ने “गुणवादस्तु” यह सूत्र कहा है । इस सूत्र में प्रयुक्त “तु” शब्द के द्वारा पूर्वपक्षी की आशङ्का का निवारण किया गया है । इन स्थलों में गुण के समान ही विवक्षा रहती है । जैसे “वेतसशाखया अवकाभिश्च अग्निं विकर्षति” इस वाक्य में बेतस शाखा विधेय है । किन्तु, इसके परवर्ती “आपो वै शान्ताः” इस अर्थवाद वाक्य में जल को शान्त कहकर प्रशंसा की गई है । जैसे कोई व्यक्ति काञ्ची देश में पूर्वजों की

१० ] प्रथमाध्याये द्वितीयपादः १०९ परम्परा क्रम से निवास कर रहा है, यह जानकर उसके सम्बन्ध में कुछ कहने के उद्देश्य से यदि काञ्ची देश की प्रशंसा करता है, तब उस देश की प्रशंसा से उस व्यक्ति के द्वारा उसकी ही प्रशंसा अवगत होती है, वैसे ही इस स्थल में भी जल का शान्तत्व कथन जल में उत्पन्न वेतस शाखा की ही प्रशंसा की गई है। वेतस एवं अवका शान्त स्वभाव जल से उत्पन्न होने से स्वयं शान्त स्वभाव है, इसीलिए वह यजमान के भी अनिष्ट की शान्ति करने में समर्थ हैं—यही प्रकृत में अर्थवाद का तात्पर्य है। इसी प्रकार “बर्हिषि रजतं न देयम्” (तै० सं० १।५।१।२) इस वाक्य में बर्हि नामक यज्ञ में रजत के दान का निषेध किया गया है, इसी के बाद “सोऽरोदीत् यद- रोदीत् तद्रुद्रस्य रुद्रत्वम् । तस्य यदश्रु शीर्यन्ते” इत्यादि अर्थवाद में कहा गया है कि उसने (रुद्र ने) रोदन किया, यही रुद्र का रुद्रत्व है, अर्थात् इसीलिए वह रुद्र है, रोदन काल में जो अश्रुपात हुआ; वही रजत है। इसका आशय यह है कि जो व्यक्ति बर्हिः याग में रजत दक्षिणा के रूप में देता है उसके घर पर वर्ष के भीतर ही ऐसा अनिष्ट होता है, जिससे निश्चित रूप में उसको रोदन करना पड़ता है। इस प्रकार इसके द्वारा रजत के दान की निन्दा कर रजत को दक्षिणा के रूप में न देने की प्रशंसा की गई है। “यः प्रजायाकामः यः पशुकामः स्यात् स एतं प्राजापत्यमजं तूपरमालभेत”, (तै० सं० २।१।१।४,५) यह विधिवाक्य कहा गया है “प्रजाकामी एवं पशुकामी व्यक्ति प्रजा- पति देवता के उद्देश्य से तूपर अर्थात् शृङ्गहीन छाग के द्वारा यज्ञ करे”। इसी के बाद श्रुति में कहा गया है—“प्रजापतिरात्मनो वपामुदखिदत्”। इससे पूर्व में पशु नहीं था, अतः प्रजापति ने पशु के स्थानपर हृदय के मेदा को काटकर अग्नि में आहुति की और इस कर्म का ऐसा सामर्थ्य है कि अग्नि में पशु की वपा की जगह पर अपने वपा की आहुति देने के साथ ही साथ तूपर अज एवं अन्य पशु भी उत्पन्न हुए। यह घटना सत्य हो या असत्य इससे कुछ होना नहीं है। क्योंकि, अत्यन्त काल्पनिक वस्तु के द्वारा भी प्रशंसा या निन्दा करना आज भी लोक व्यवहार में प्रसिद्ध है। प्रकृत में इसके द्वारा यहो कहा गया है कि कर्म शीघ्र फल देता है, अथवा इसका यह तात्पर्य है कि विशिष्ट प्रयोजन की सिद्धि के लिए जब अपनी वपा का छेदनकर भी कर्म का अनुष्ठान किया गया तब धन आदि बाह्य पदार्थों के व्यय से तो वह कर्तव्य ही है। लोकव्यवहार में भी ऐसा कहा जाता है कि जीवन विसर्जन कर भी मानमर्यादा की रक्षा करूँगा तब रुपये पैसे की क्या बात है, प्रकृत में भी यही समझना चाहिए। इसी प्रकार “आदित्यः प्रायणीयश्चरुः” (तै० सं० ६।१।५।१) इत्यादि में आदित्य देवता के उद्देश्य से जो प्रायणीय आदि नामक यज्ञ के चरु का विधान किया गया है, उसी के साथ “देवा वै देवयजनकाले दिशो न प्रजानन्” यह श्रुति कही गई है। देवताओं को भी देवयज्ञ करते समय दिङ्मोह हुआ था, किन्तु, अदिति देवता के सामर्थ्य से उन देवताओं का मोह दूर हो गया, अतः, सोमयाग अनेक कर्मकलापों का सङ्कुल है। इसलिए

११० मीमांसादर्शनम् [ सू० यजमान की इसमें भ्रान्ति या भूल होना स्वाभाविक है । किन्तु, अदिति देवता सम्बन्धी प्रायणीय एवं उदयनीय याग के चरु करने पर अदिति देवता के प्रभाव से यजमान का भ्रम दूर होगा । इस प्रकार इन स्थलों में गुणवाद ही विवक्षित है । जिस स्थल में कोई गुण विशेषगत सादृश्य का उल्लेख कर अर्थविशेष का आरोप किया जाता है, उसको वहाँ गुणवाद कहा जाता है । प्रथम अध्याय के चतुर्थ पाद के तत्सिद्धिजातिसारूप्य- प्रशंसा भूमलिङ्गसमवाया इति गुणाश्रयाः (१।४।२३) इस सूत्र के विश्लेषण में गुणवाद का व्याख्यान किया जायेगा ॥ १० ॥ रूपात् प्रायात् ॥ १.२.११ ॥ शा० भा०—हिरण्यं हस्ते भवति, अथ गृह्णातीति साकाङ्क्षत्वादस्य विधेः शेषः—स्तेनं मनः, अनृतवादिनी वागिति । निन्दावचनं हिरण्यस्तुत्यर्थेन यथा- किमृषिणा, देवदत्त एव भोजयितव्यः । कथं पुनरस्तेनं मनो निन्दितुमपि स्तेन- शब्देनोच्यते, वाचं चाननृतवादिनीमप्यनृतवादिनीति ब्रूयात् । गुणवादस्तु रूपात् । यथा स्तेनाः प्रच्छन्नरूपा । एवं च मन इति गौणः शब्दः । प्रायाच्चा- नृतवादिनी वागिति ॥ ११ ॥ भा० वि०—यद्यप्यप्राप्ता चेत्यादिना सूत्रद्वयेनार्थभावनाङ्गत्वनिरासेनार्थ- वादानां गुणवादेन शब्दभावनाङ्गत्वमुक्तम्, तथाप्युदाहृतेष्वेव केषुचिद्वाक्येषु गौणतानिमित्तगुणविशेषदर्शनायोत्तरसूत्रसन्दर्भः, तत्र पूर्वोक्तदृष्टविरोधोदाहरणे तावदाह—रूपात्प्रायादिति । तत्र स्तेयानृतार्थवादस्याकाङ्क्षत्वेन हिरण्यहस्त- धारणपूर्वकत्वविशेषत्वं तावदाह—हिरण्यमिति । ननु स्तेयाद्यर्थवादेन वाङ्मनसयोः निन्दा क्रियते, कथं विधिशेषत्वं तत्राह—निन्देति । सर्वक्रियाङ्गत्वेनात्यन्तान्तरङ्गभूतयोरपि अनयोः स्तेयादि धर्मत्त्वेन दूर एव हिरण्यादूनत्वमिति निन्दावचनं स्तुत्यर्थत्वेन न निषेधार्थतया सन्निहितविध्याकाङ्क्षितस्तुतिपरत्वेन तदेकवाक्यत्वे संभवति निषेधकल्पनानुपपत्तेः । यथा अनाहुतिर्वैजर्तिलाश्च गवीधुकाश्चेत्यस्य सन्निहित- पयोहोमस्तुत्यर्थत्वेन तदेकवाक्यत्वसंभवे न निषेधकल्पना तद्वदित्यर्थः, निन्दत्वेन प्रतीयमानमपि न तत्परं, किं तु स्तुत्या विधिपरं दृष्टमित्युदाहरति—यथेति । ननु निन्दितमपि कथमस्तेनं मनः स्तेनशब्दो ब्रूयात्, ऋतवादिनीं च कथं वाचमनृतवादिनीति ब्रूयात्, निरालम्बतवायत्तेरिति चोदयति—कथं पुनरिति । पूर्वसूत्रेणोत्तरमाह—गुणेति । कोऽसौ गुण इत्याशङ्क्य यथाक्रममुदाहरण- द्वयेऽपि रूपातप्रायादिति च योजयति—यथेति वागिति । गौणइत्यनुषङ्गः स्तेन- धर्मस्याप्रत्यक्षस्य मनसि भावात् गौणः स्तेनशब्दः, प्रायिकत्वेन च वाचोऽनृत- वादिनीत्वोक्तिरित्यर्थः ॥ ११ ॥