भारतकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

८ : मीमांसादर्शनम् [ सू० पुरुषाचरितोपन्यासद्वारा रोदनकर्तव्यतापरम् । अथ वा महतामप्येवंविधाः प्रमादाः संभवन्ति, तस्मात्प्रयत्नेन वर्जयितव्यमिति । अतो विधिप्रतिषेधयोर- स्फुटत्वादद्धर्माधर्मत्वेन निर्णये शक्त्यभावः । शास्त्रदृष्टविरोधादयश्च स्थिता एव । यत्तु भूतान्वाख्यानमात्रं यथावस्थितैः प्रतिपाद्यते, तत्र यद्यपि सत्यत्व- मस्त्येव । तथाऽपि न तेन प्रयोजनमित्यानर्थक्यम् । अपि च 'धूम एवाग्नेर्दि- वेत्यादीनां स्वार्थेऽप्यप्रामाण्यं वक्ष्यते । विध्येकवाक्यत्ववशेनैव तेषां रूपभङ्गः क्रियते । न च तस्यापि किञ्चित्प्रमाणमस्ति । भिन्नैरपि हि तैः किञ्चित्प्रतिपाद- यितुं शक्यमेव । न च तत्प्रतिपादयतां निष्प्रयोजनतेत्यविज्ञायमानप्रयोजन- वदर्थान्तरकल्पना शक्या । न हि लोष्टं पश्यतस्तद्दर्शनं निष्प्रयोजनमिति, सुवर्णदर्शनता कल्प्यते । सर्वाण्येव च प्रमाणान्युपयुज्यमानमनुपयुज्यमानं वाऽर्थमात्मगोचरतापन्नं गमयन्ति । तेनैव चैषां हानोपादानोपेक्षाबुद्धयः फलत्वेन वर्ण्यन्ते । अन्यथा ह्युपादानमेवैकं फलं स्यात् । अपि च प्रमाणोत्पत्त्युत्तरकालं प्रयोजनवत्त्वमप्रयोजनवत्त्वं वा विज्ञायते, न तु तद्वशेन प्रमाणोद्भूतिः । तस्माद्यो यद्रूपोऽर्थः प्रतीयते, स तथैव प्रयोजनवत्त्वमप्रयोजनवत्त्वं वा प्रतिपद्यते । न हि प्रयोजनवदेव प्रमातव्यमिति कश्चिन्नियमहेतुरस्ति । यत्रापि तावत्स्वाधीनः प्रमाणविनियोगः, तत्राप्येतद् दुर्लभं किमुताबुद्धिपूर्वनित्यावस्थितवेदोत्थापित- ज्ञानग्राह्ये । न च वेदस्य प्रयोजनवदर्थाभिधानशक्तिः प्रथममवधृता । अयमेव हि परीक्षाकालो वर्तते कीदृशं पुनर्ब्रवीतीति । तच्च विदित्वा यथानुरूपमनुष्ठातुं क्षमा वयम्, न तु वेदं पर्यनुयोक्तुम्, किमयं निष्प्रयोजनमभिदधाति तद्वाऽभिद- धत्किमर्थं प्रयत्नेन धार्यत इति । सर्वपुरुषाणां केवलं प्रतिपत्तृत्वेन पारतन्त्र्या- द्वेदग्रहणोत्तरकालं च परीक्षावसरात् । न ह्यनधीतवेद एवाऽऽदौ परीक्षितुं क्षमः । पश्चात्परीक्षमाणस्य तु नाबुद्धिपूर्वनिर्वृत्तमध्ययनं प्रकरणगत्न्यायेन निश्चय- हेतुर्भवति । तस्माद्यथैवाग्निहोत्रादिवाक्यानां गम्यमानप्रयोजनवत्त्वादानर्थक्यं निष्प्रमाणकमिति नाऽऽश्रीयते, तथैवेषां प्रयोजनवत्त्वं नाऽऽश्रयितव्यम् । न हि यथावगताभ्युपगमादन्यत्किञ्चित्साधीयः परोक्षकाणाम् । योऽपि च क्लेशेन स्तुतिनिन्दात्मकोऽर्थः कल्प्येत, स भावनयाऽशक्याऽनन्तःपातित्वान्न गृह्यते । तया चागृहीतं न विधिप्रतिषेधावाश्रयतः । तदानाश्रितं च दूरे पुरुषार्था- द्ध्रवतीति । अपि चैवंविधेषु स्तुतिनिन्दाकल्पनायामितरेतराश्रयप्रसङ्गः । स्तुतिनिन्दात्म- कत्वेनैव ह्येकवाक्यता, तया चानुन्मीलितस्तुतिनिन्दोत्प्रेक्षाश्रयणम् । न चान्य- तरमूलप्रसिद्धिरस्ति, यतो व्यवतिष्ठेत । तस्मात्पृथगवस्थितानां दृष्टवादानर्थक्य- मेवोपपन्नतरमिति । स एष वाक्यैकदेशस्येति । विध्युद्देशातिरिक्तस्य सिद्धान्ता- भिप्रायेणैकदेशत्वं न तु पूर्वपक्षे, भिन्नवाक्यत्वाभ्युपगमात् । अथ वा वाक्यानां

१ ] प्रथमाध्याये द्वितीयपादः ९ मध्य एकदेशाक्षेपः कतिपयानामित्यर्थः । तत्र यानि तावत्केवलविधियुक्तानि तेषु नैवाऽऽशङ्का । यान्यपि लिङादिमन्ति प्रागर्थवादेभ्यो विधिसमर्थानि, तैः संयुज्यार्थान्तरे स्तुतिस्तुत्यसम्बन्धे वर्तन्ते, तेषामर्थवादाभावे तन्मात्रमेव हीयते । न तु विधित्वेन पुरुषार्थताऽपि । यानि तु वर्तमानापदेशयुक्तानि स्तुतिनिरपेक्ष- विध्यसमर्थानि । यथा “यस्य खादिरः स्रुवो भवति, स च्छन्दसामेव रसेना- वद्यति”१, इत्येवमादीनि । तान्येकदेशद्वारेण समस्तान्याक्षिप्यन्ते ॥१॥ सर्वानवद्यकारिणी न्यायसुधा आनन्दात्मनि विश्ववैभवभवाविर्भावसम्भावितः । स्वेच्छाधीशसचिवः पुरन्दरपुरीशानः स्वयं खेलति ॥ तत्कारुण्यकटाक्षकुङ्मलकलाकान्तोदयाघूर्णितः । स्वात्मानन्दसुधाम्बुधिविजयते धीमान्महेन्द्रामृतः ॥ १ ॥ यद्यप्यूषरमुपेत्य गुरुणा बीजम्महेन्द्रामृतम् । क्षेत्रञ्चित्रमनेकधोरु फलति प्राप्यात्मनोऽनर्घ्यताम् ॥ यन्मेघस्रुतवाङ्निरन्तरसुधासारैः समासिञ्चितम् । सोऽयं सर्वसुहृज्जनार्दनजगज्जीयाज्जगन्मण्डनम् २ ॥ २ ॥ उमानन्दनमाराध्य शारदामीश्वरं गुरुम् ॥ कृत्स्नशास्त्रप्रसादेन व्याख्यास्ये तन्त्रवार्त्तिकम् ॥ ३ ॥ अत्र भाष्यकारेणार्थवादानुदाहृत्य किञ्चिद्धर्मं प्रमिमते, उत नेति विचारितम् । तदयुक्तम् । प्रथमपाद एव सर्वप्रामाण्यकारणनिरासेन सर्वात्मकवेदप्रामाण्यस्य सुस्था- पितत्वात् । अथ साध्यसाधनेतिकर्त्तव्यतान्वितभावनाप्रतिपादकपदसमुदायमात्रेण श्रेयः- साधनरूपधर्मप्रमितिसिद्धेः, तदतिरिक्तानां वायुक्षेपिष्ठादिपदानां धर्मप्रमितावनुपयोग- माशङ्कय, उपयोगोऽत्रोच्यते । ततो विधिमन्त्रनामधेयान्यप्युदाह्रियेरन् । धर्मप्रमित्य- नुत्पादकत्वेन चानुपयोगित्वे अर्थवादादेर्दोषाभावेऽपि प्रामाण्यायोगादयमेव विचारः प्राग्भावी स्यात् । चोदनासूत्रप्रतिज्ञातप्रामाण्यस्य विधिभागस्य प्रसिद्धधर्मसंयोगस्य परतः प्रामाण्यनिरासेन प्राक् प्रामाण्योक्तावर्थवादादिविचारोऽप्रतिज्ञातविषयत्वाद- सङ्गतः स्यादित्याशङ्काचतुष्टयं निराकर्तुमाह-सिद्धप्रमाणभावस्येति । तत्रार्थवादार्पित- प्राशस्त्यमन्त्रस्मारितनामधेयावच्छिन्नधात्वर्थानुरक्तभावनाविषयप्रवर्त्तकपरत्वेन चोदना- शब्दस्य मन्त्रार्थवादाद्युपेतमहावाक्यविषयत्वान्नजिज्ञासासूत्रेण चाध्ययनविधिदृष्टार्थताप्रति- पादनेन सकलवेदप्रामाण्योपक्षेपादौत्पत्तिकत्वादियुक्तिसाधारण्याच्च वेदमात्रप्रामाण्यस्य प्रतिज्ञापरत्वेऽपि, यागेन स्वर्गमित्यादिसाध्यसाधनभावप्रतिपादकशब्दाभावेन धर्मप्रमित्य- शक्तत्वादसम्भवदर्थविषयत्वमाशङ्कय धर्मप्रमितिशक्तिप्रदर्शनार्थत्वेन चोदनावत्सङ्कीर्त्तनो- १. तै० सं० ३ । २. इमौ श्लोकौ २ पु० न भवतः ।

१० मीमांसादर्शनम् [ सू० पपत्तेरुपदेशो हि भवतीति चोदनाख्योपदेशत्वस्य हेतुत्वेन भाष्यकृता व्याख्यातत्वाद्देद- वाकयानि धर्मे प्रमाणं चोदनात्वादिति प्रतिज्ञासूत्रार्थविधारणादर्थवादादिप्रामाण्यविचारस्य प्रतिज्ञासङ्गतिनिरूपणार्थं वेदग्रहणम्, सिद्धेऽपि सामान्यतो वेदप्रामाण्ये तद्विशेषस्यार्थ- वादादेस्तदसंभवाशङ्कानिरासार्थत्वेनास्य विचारस्यापौनरुक्त्यनिरूपणार्थं विवेककीर्त्तनम् । सिद्धग्रहणेन चैतद्दर्शयति । प्रमाकरणत्वं प्रमाणत्वम् । न च प्रथमे पादे धर्मप्रमोत्पत्तिसिद्धयङ्गीकारेण तत्र वेदस्य करणत्वमुच्यते । प्रत्यक्षादेस्तत्करणत्वनिषेधाच्छब्दस्य च प्रमाणान्तरादृष्टेऽर्थे कारणत्वासिद्धेः तस्मात्का- रणाभावेन धर्मप्रमानुत्पत्तिमाशङ्कय कारणान्तराभावेऽप्याकाङ्क्षासन्निधियोग्यता- सध्रीचीनपदार्थप्रतिपादनद्वारेणापौरुषेयत्वात्प्रमाणान्तरानपेक्षः स्यात् एव निरस्तदोषा- शङ्कस्य वेदस्य कारणत्वोपपत्तेर्धर्मप्रमारब्धकार्यसद्भावस्तत्र प्रतिपादितः, इह त्वर्थ- वादादिरूपस्य वेदभागस्य तत्राकरणत्वमाशङ्कय करणत्वं प्रतिपाद्यत इति स्पष्टमेवापौन- रुक्त्यं करणनिरूपणार्थे तु प्रथमपादे सत्युक्तप्रमाणभावस्येत्यवक्ष्यत् । धर्मप्रमाया वेद- कार्यत्वप्रतिपादनेन त्वर्थात्सिद्धयदपि वेदस्य करणत्वं संमुग्धरूपेणैव सिद्ध्येन्नार्थवादादि- विशेषरूपेनेति प्रतिपादयितुं सर्वश इत्युक्तम् । अर्थवादादिप्रामाण्यासद्धौ सर्वात्मकवेदप्रामाण्यासद्धेः संमुग्धाभिप्रायः सर्वशब्दो व्याख्येयः । परतः प्रामाण्यादिद्वारा अप्रामाण्ये सकलस्य वेदस्य निरस्तेऽप्यर्थवादादीनाम- बोधकत्वेनाप्रामाण्यमाशङ्कय धर्मबोधोपयोगित्वमिह प्रतिपाद्यमित्युपयोगशब्देनोक्तम् । अर्थवादोदाहरणं त्वानर्थक्यमतदर्थानामित्यविशेषश्रवणात् प्रदर्शनार्थम्, द्वारप्रविशेषप्रति- पादने चार्थवादमात्रस्य द्वारविशेषोऽत्राधिकरणे प्रतिपाद्यत इति दर्शयितुम् । सामान्य- तः स्तुत्युपयोगित्वासिद्धौ लाक्षणिकस्तुत्यादिद्वारविशेषस्याशक्यकल्पनत्वात्पूर्वं सामान्यो- पयोगे विचार्यें । सर्वेषामेवोदाहरणत्वमिति विध्यर्थवादमन्त्राणामित्यनेनोक्तम् । सिद्धे च धर्मप्रमाख्ये कार्ये कियतो वेदभागस्य तत्र कारणनेति विचारावसरो भवतीत्यधुनेत्यनेनोक्तम् । तस्मात्सर्वमदुष्टम् । श्लोकं व्याचष्टे—सामान्यत इति । यद्वा प्रतिपादितमपि सकलवेदप्रामाण्यमर्थवादादिष्वसम्भवादाक्षिप्येह समाधीयते इति । अन्यथा श्लोकं व्याचष्टे—अवधृतप्रामाण्यस्येति । अस्मिन्व्याख्याने सामस्त्यं सर्व- शब्दार्थः । विध्यर्थवादमन्त्राणामिति तस्यैव विवरणम् । विध्यादिग्रहणस्योपलक्षणत्वा- द्व्याख्याने नामधेयग्रहणम् । इह हि द्विपर्वाविचारः । पूर्वं तावदेषामक्रियार्थत्वेनानुपयोगमाशङ्कयाध्ययनविधि- बलाद्विधिना त्वेकवाक्यत्वादिति सूत्रावयवेन, तत्तुल्यं च साम्प्रदायिकमित्यनेन च सूत्रेण निराकृतं द्वारासंभवात् पुनरुज्जीव्यार्थवादानां तावत् द्वारविशेषोऽस्मिन्नधिकरणे चिन्त्यते । तस्मादनेन सूत्रेण सामान्यविशेषरूपेण पूर्वपक्षद्वयं तन्त्रेणोच्यते । आम्नायस्य

१ ] प्रथमाध्याये द्वितीयपादः ११ 'तद्भूतानां क्रियार्थेन समाम्नाय' इत्यनेन न्यायेन क्रियार्थत्वावधारणादर्थवादादीनां तदसम्भवादानार्थक्यम् । अथाप्यध्ययनविधिवलादेषां कथं चित्क्रियार्थत्वं कल्पयितु- मारभ्यते, तथाप्यर्थवादानां तावद् द्वारासम्भवाद् दुःपरिहरमानर्थक्यमिति । भाष्यमप्येव- मेव योज्यम् । सामान्योपयोगप्रतिपादनं विना विशेषोपयोगप्रतिपादनासम्भवस्य 'अतो यावद्वेद एव पुरुषार्थतया सकलमात्मानं न प्रतिपादयति, तावदप्रमाणमि'त्यत्र वक्ष्यमाणत्वात् । तदभिधीयत इत्यादिपूर्वपक्षभाष्यं व्याचष्टे—तत्रेत्यादिना प्रसिद्धमेवातदर्थत्वमित्यन्तेन । विध्युपयोगस्यापि पूर्वपक्षिणोऽनिष्टत्वात्साध्यसाधनेतिकर्त्तव्यतान्वितभावनाप्रतिपादक- पदसमूहपरो विधिशब्दः । चोदनोपदेशशब्दावपि तत्परौ पूर्वपक्षी मन्यते । यद्वैतद्ग्रन्थपर्यालोचनयार्थवादादीनामेवेहोपयोगश्चिन्त्यते । पूर्वं तु विधिग्रहणं न केवलं विधेरेवोपयोगः, किं त्वर्थवादादीनामपीत्येवं नेयम् । धर्माधर्मोपयोगिविचारो- पक्रमाद्धर्माधर्मविषयमेव प्रामाण्यमभिप्रेतम्; विधिनिषेधयोरेव चोदनोपदेशशब्दाभ्यां धर्मा- धर्मप्रामाण्याभिधानादतद्रूपस्यार्थवादादेर्न तत्र प्रामाण्यम्, नाप्यन्यत्र 'तद्भूतानां क्रियार्थेन समाम्नाय' इति सर्वस्य समाम्नायस्य क्रियार्थत्वावधारणेन भूतान्वाख्यानपरत्वानभ्युपग- मादित्यर्थः । न चैतत्प्रक्रियामात्रम्; किं तु न्याय्यमेवेति यथाक्रमं फक्किकाद्वयेनोक्तम् । 'उक्तमेवेति' अर्थेऽनुपलब्धे इत्यत्रेत्यर्थः । तदनेन क्रियेत्यादि समामन्तीत्यन्तो- भाष्यावयवो व्याख्यातः । तद्यानीत्यादिभाष्यं व्याचष्टे—तुमतश्चेत्याद्युक्तम् । कं धर्मं प्रमि- मीरन्निति काक्वा सूचितो ऽर्थो यथाश्रुतेत्यादिना प्रकाशितः । एवं सर्वेषामनुपयोगित्वे पूर्वपक्षिते अध्ययनविधिसामर्थ्योपबृंहितसिद्धान्तसूत्रगततु- शब्दोपक्षिप्तं तुल्यं साम्प्रदायिकसूत्रोपपादितपुरुषाार्थानुबन्धित्वनिर्वाहाय अध्याहारादि- नापि क्रियार्थत्वं यथासम्भवं कल्प्यमिति पूर्वविचारसिद्धान्तनिरूपणार्थमथोच्येतेत्यादिभाष्यं तद्व्याचष्टे—अथ कयाचिदिति । । द्वारविशेषानिर्द्धारणेन पुनः प्रत्यवस्थानाथं स कल्प्यमान इत्यादिभाष्यम् । तद्व्याचष्टे—एवमपीत्यादिनाऽनर्थक्यमित्यन्तेन । कः कल्प्येतेत्यनेनोक्त- मनवधारणं दर्शयितुमुद्भाष्यः प्रतिषेधाध्याहारोपन्यासः चिरवृत्तेष्टवियोगध्यानादिना रोदनादिशक्यताशङ्कापरिहाराय शास्त्रविरोधोपन्यासः । रोदनवपोत्खननदिङ्मोहेषु यथाक्रमं मङ्गलाचारात्मरक्षणप्राङ्मुखभोजनशास्त्रविरोधः । अश्रुणश्च रजतपरिणाम- विरुद्धसद्यःशोषदर्शनाद् दृष्टविरोधः । पुरास्य सम्वत्सराद् गृहे रोदनं भवतीत्यत्र फला- भावमादिशब्देनाह । धर्माधर्मपरत्वाभावेऽपि सिद्धार्थकथनेनानर्थक्योपसंहारानुपपत्ति- माशङ्क्योक्तम्—यत्तु भूतान्वाख्यानमात्रमिति । क्रियत इत्यस्मिन्नर्थे प्रत्ययेन विवक्षिते तदनुग्रहार्थं पाकं पचतीतिवत् प्रतिपाद्यत इतिधातुप्रयोगः । वायुक्षेपिष्ठादिवाक्यानां स्वार्थ- सत्यत्वेऽपि अनुवादमात्रत्वाद्, धूमादिवाक्यानां च स्वरूपेऽप्यसत्यत्वादानर्थक्यम् । एवमपि प्राशस्त्यादिलक्षणया क्रियार्थत्वसम्भवादानर्थक्योपसंहारो न युक्त इति सिद्धान्ति-

१२ मीमांसादर्शनम् [ सू० मतमाशङ्क्याह—विध्येकवाक्यत्ववशेन चेति । तत्र निरासहेतुमाह—न चेति । लक्षणयैक- वाक्यत्वकल्पने अन्योन्याश्रयापत्तेरिति भावः । श्रौतार्थाभिधानं तु भिन्नवाक्यत्वे ऽप्युप- पन्नमित्याह—भिन्नैरपीति । न च निष्प्रयोजनत्वप्रसङ्गभयेन प्रतीयमानविषयत्यागेन विषयान्तरकल्पनोचिता प्रत्यक्षादावदर्शनादित्याह—न चेति । ननु अस्तु प्रमाणान्तरे तथा- शब्दे तु प्रयोजनवत्त्वाय श्रौतार्थत्यागेनार्थान्तरकल्पना युक्ता, बहुक्षीरादिवाक्ये तथा दर्शनादित्याशङ्कयाह—सर्वाण्येवेति । सर्वमेव वस्तु स्वविषय एव व्याप्रियते, न हूर्णनाभः कदाचित्पदसूत्रं करोति । लौकिकवाक्ये तु प्रमाणं प्रत्यक्षादेरन्यथात्वकल्पनम् । तदभावे तत्रापि श्रौतार्थानतिक्रमादिति भावः । तार्किकस्थितिपर्यालोचनस्यापि न प्रयोजनानुसारेण विषयकल्पनोचितेत्याह—तेनैवेति प्रयोजनवत एव प्रमेयत्वे तस्य हानोपेक्षानुपपत्तेः प्रमाणानां त्रैफल्यं न स्यादित्यर्थः । अप्रतीयमानस्य च प्रयोजनवत्तया ज्ञातुमशक्यत्वात्तद्विषयत्वमशक्यनिरूपणमित्याह—अपि चेति । प्रयोजनानुसारेण प्रमाणविषयकल्पनं निराकृतमुपसंहरति तस्मादिति । प्रमातॄणां प्रयोजनवत्प्रमित्सायामपि प्रमाणशक्त्या नियममात्रमेयानियम इत्याह—न हीति । पुरुषाधीनेऽपि च चक्षुरादिव्यापारे प्रमेयानियमत्वात्स्वतन्त्रे वेदे का वार्त्तेत्याह— यत्रापीति । प्रमाणान्तरस्य प्रयोजनवद्विषयत्वानियमेऽपि वेदस्य शास्त्रत्वेन हितो- पदेशित्वात् प्रयोजनवद्विषयत्वनियमेन भाव्यमित्याशङ्कयाह—न चेति । कुतः प्रथममित्य- पेक्षिते परीक्षात इति दर्शयितुमाह—अयमेव हीति । शास्त्रत्वस्यैव प्रागसिद्धेरिति भावः । न च वेदस्य निष्प्रयोजनार्थाभिधायित्वं तथाभूतस्य चादरणीयत्वं पर्य्यनुयोज्यमित्याह-- तच्चेति । उभयत्र यथाक्रमं कारणमाह—सर्वेति । उत्तरकालतामुपपादयति न हीति । परीक्षणेन १ हि पुरुषाधीनप्रामाण्यापत्तेर्नध्येत्राऽऽदरमात्रेण प्रयोजनवत्त्वनिश्चय इत्याह— पश्चादिति । यथा दर्शपूर्णमासप्रकरणाधीतानामपि पूषाद्यनुमन्त्रणमन्त्राणां न तादर्थ्यनिश्चय इति दृष्टान्तार्थः । न चाग्निहोत्रादिवाक्येषु प्रयोजनवद्विषयत्वदर्शनाद्वेदवाक्यत्वेन वायु- क्षेपिष्ठादिवाक्येष्वपि तथानुमानं युक्तम् । प्रतीतिविरोधादित्यभिप्रायेणोपसंहरति—तस्मा- दिति । इह च यानि त्वतिरिक्तान्यर्थवादमन्त्रनामधेयानुपातीनीति सर्वेषां पूर्वनिर्दिष्टानां विध्येकवाक्यत्ववशेन चैतेषामित्यादिभिर्निर्दिष्टप्रतिनिर्दिष्टकैः सर्वनामभिः परामर्शाद्, धूम एवाग्नेर्दिर्वेत्यादीनामपीत्यत्राप्यादिशब्दस्योपक्रमवशेन सर्वविषयत्वात्सदृशविषयत्वे चार्थ- वादानामपि सर्वेषामपरामर्शापत्तेस्तुल्यहेतुत्वेन चैतावता ग्रन्थेन सर्वानुपयोगप्रतिपादन- १. अध्ययनोत्तरकालीनपरीक्षणेन अध्येत्रादरमात्रेण वा न प्रयोजनवत्त्वनिश्चय इत्याह परीक्षणेन हीति प्रथमपक्षे हेतुमाह पुरुषाधीनप्रमाण्यापत्तेरिति । द्वितीयपक्षे वार्त्तिक- कृतैव दृष्टान्त उक्तः यथा पूषाद्यनुमन्त्राणां दर्शपूर्णमासप्रकरणपाठे सत्यपि न तदङ्ग- त्वनिश्चयस्तादादरमात्रेण न प्रकरणेन न च लिङ्गनिश्चयादित्यर्थः ।

१ ] प्रथमाध्याये द्वितीयपादः १३ परतयैतद्भाष्यं व्याख्यातमिति गम्यते । मन्त्रेष्वपि१ च प्रयोगविध्येकवाक्यत्ववशेन पूर्वसाधनरूपलक्षणा सिद्धान्तिनोऽभिप्रेतैवेति, न तद्दर्शनेनाप्यर्थवादमात्रपरत्वनिश्चयः । व्याख्यातॄणां त्वर्थवादमात्रपरत्वेनेमं ग्रन्थं व्याचक्षाणानामभिप्रायं न विद्मः । इदानीमेतदेव भाष्यमर्थवादमात्रानुपयोगप्रतिपादनपरतया व्याचष्टे—योऽपि चेति । सर्वानुपयोगसाधारणोपपत्त्यनुकर्षणार्थश्चशब्दः । क्लेशेनेत्यप्रतीयमानैकवाक्यताकल्पनेने- त्यर्थः । कल्प्येतेत्यनेनैतद्दर्शयति न तावत्स्तुतिनिन्दे एव निरूप्येते गुणदोषवत्त्वप्रतिपादनं हि स्तुतिनिन्दाशब्दाभ्यामभिप्रेतम् । तत्र यदीष्टानिष्टफलत्वम्, विधिप्रतिषेधविषयत्वं वा विशिष्टेतिकर्त्तव्यताकत्वं२ वा गुणदोषवत्त्वं तदन्यतः सिद्धत्यान्नार्थवादापेक्षम् । न च वायुक्षेपिष्ठत्वादेर्गुणदोषवत्त्वं सर्वार्थवादाननुवृत्तेः श्रौतत्वाच्च तस्य, लाक्षणिकस्तुति- निन्दार्थत्वसिद्धान्तभङ्गापत्तेः । न चान्यौ गुणदोषौ निरूप्येते । प्ररोचना३ द्वेषजनकत्वेन च स्तुतिनिन्दयोरर्थवत्त्वं प्रयोजनवत्त्वमिष्यते । तन्न न तावदिच्छानिच्छे तच्छब्दवाच्ये विधिनिषेधावगतेष्टानिष्टफलत्वादेव तत्सिद्धेः । प्रवृत्तिनिवृत्तिप्रतिबन्धकविपरीतत्वेनाल- स्योत्साहभङ्गोऽपि४ न । प्रवृत्तिनिवृत्तिहेतुभूतविधिनिषेधसिद्धत्वात् । तस्मान्न स्तुति- निन्दाख्यः कश्चिदर्थः । न ह्यसावर्थवादगम्यो नापि तत्प्रयोजनमिति । एवं सिद्धान्त्य- भिमतविधिनिषेधापेक्षितप्ररोचनाद्वेषजनकस्तुतिनिन्दासमर्पकत्वेन विधिनिषेधाभ्यां ग्रहणे निराकृते । यदि भावनान्तर्गतः स्यात् ततस्तद्द्वारेण विधिनिषेधग्रहणात् पुरुषार्था- न्वयित्वं भवेत्तच्च नाशङ्क्यमेवेति भावः । अगम्यमानैकवाक्यत्वेष्वर्थवादेषु लाक्षणिकस्तुतिनिन्दार्थत्वकल्पने दुःपरिहरमितरेत- राश्रयत्वमित्याह—अपि चेति । एतच्च पूर्वं सर्वानर्थक्याय योजितमपीदानीमर्थवादानर्थ- क्याय प्रकटितमित्यपौनरुक्त्यम् । अर्थवादानर्थक्यमेवोपसंहरति—तस्मादिति । ‘तस्माद- नित्यमुच्यते’ इत्येतत्सूत्रावयवव्याख्यानपरं तस्मादित्यादिभाष्यं स्पष्टत्वान्न व्याख्यातम् । वृत्तिकारान्तरैरेतत्सूत्रमर्थवादाप्रामाण्येन तदेकवाक्यतया साकाङ्क्षत्वाद्दिग्ध्युद्धेशस्याप्य- प्रामाण्यापत्तेः । प्राभाकरैरपि सकलवेदाप्रामाण्यपरतया व्याख्यातं तन्निराकरणार्थं स एष इत्यादिभाष्यम् । तत्र पूर्वपक्षे ऽर्थवादानां भिन्नार्थत्वेनैकवाक्यत्वायोगादेकदेशशब्दो न युक्त इत्याशङ्क्याह—स एष इति । १. लक्षणया विध्येकवाक्यत्वशङ्कया अर्थवादमात्रपरत्वम्भाविष्यतीत्याशङ्क्याह मन्त्रेष्व- पीति । अर्थवादानामिव समभिव्याहारलक्षणैकवाक्यताबाधेऽपि प्रयोगविध्येकवाक्य- त्वमसत्येवेति चाह—प्रयोगेति । लिङ्गसमवायो हि विधिमन्त्रनामधेययोः-व्रीहीनव- हन्तीत्यादौ अक्रियार्थत्वादितिहेतोः स्तुत्यत्वादिति भावः । २. एकत्र प्रयाजादि परत्र खड्गोद्यमादि । ३. नापि स्तुतिनिन्दयोःप्रयोजनमित्याह-प्ररोचनेति । ४. न गुणदोषवत्त्वमित्यनुषङ्गः ।

१४ मीमांसादर्शनम् [ सू० व्याख्यानान्तरमाह—अथ वेति। एतच्च विभवार्थम्, न निर्द्धारण इति षष्ठीसमास- निषेधात्सम्बन्धमात्रषष्ठ्यां च मध्यशब्दानुपपत्तेः। कर्मधारयेऽप्येकदेशशब्दस्योपसर्ज- नत्वेन पूर्वनिपातापातादवयववाचित्वेन च कतिपयार्थत्वाभावात्। नन्वित्यादिवृत्ति- कारान्तराभिप्रायविवरणार्थं भाष्यम्। तस्योत्तरं—नैवेत्यादि। तस्यार्थः न तावत्सर्वो विध्युद्देशोऽर्थवादापेक्षः, शुद्धस्यापि वसन्ताय कपिञ्जलानालभत इत्यादेर्दर्शनात्कश्चिदेव तु वायव्यं श्वेतमालभेतेत्यादिस्तदपेक्षः, तस्यापि विधिविधेयसम्बन्धरूपावान्तरवाक्यार्थे- ऽर्थवादपदनिरपेक्षस्य स्तुतिस्तुत्यसम्बन्धात्मके महावाक्यार्थरूपेऽर्थान्तर एव तदपेक्षा। ततश्चैकदेशाक्षेपरूप एव तेषामाक्षेपः। अर्थवादाप्रामाण्येन महावाक्यार्थाविवक्षायामप्य- वान्तरवाक्यार्थविवक्षा दुर्निवारेति भावः ! तत्र कश्चिदिति काक्वा सूचितमर्थं दर्शयति— तत्रेति। भाष्यार्थं व्याचष्टे—यान्यपीति। विधिप्रत्ययशून्येषु तर्हि—समस्ताक्षेपः स्यादित्या- शङ्क्य सिद्धसाध्यतामाह--यानि त्विति। यद्वा ऽनेनावृत्त्या खण्डशो भाष्यं व्याख्यायते-कश्चित्पदसमूहो नैव भवति नाप्रमाणत्वेन शङ्क्यो भवतीत्यर्थः। कश्चित्वर्थवादपदैः संयुज्यार्थान्तरे वर्त्तते, तत्र तान्यर्थवादपदानि केवलान्याक्षिप्यन्ते। पुनस्तानीत्यादि शुद्धार्थवादविषयत्वेनैव व्याख्यातम्। यानि केवला- न्यर्थवादपदानि तच्छब्दान्निर्दिष्टानि, तानि समस्तान्याक्षिप्यन्त इति ॥ १ ॥ भावप्रकाशिका वेद में इष्ट फल के साधन के रूप में उपदिष्ट क्रिया ही धर्म है। अर्थात् वेदविहित याग, दान, होम आदि क्रिया ही धर्मं है, कारण इसी के द्वारा पुरुष अभिलषित श्रेय का लाभ कर सकता है। प्रथम पाद में इष्ट-फल-साधन वेद-विधि का प्रामाण्य प्रतिष्ठापित होने पर समग्र वेद का प्रामाण्य सूचित होता है। प्रथमाध्याय के द्वितीय पाद में केवल विधिवोधक वेदवाक्य का ही प्रामाण्य है, समग्र वेदवाक्य का नहीं—इस आशय से पूर्वपक्षी के मत का उत्थापन करते हुए महर्षि जैमिनि ने छः सूत्रों से पूर्वपक्ष का प्रतिपादन किया है। अनन्तर सिद्धान्ती ने “विधिना त्वेकवाक्यत्वात्” इत्यादि बारहसूत्रों से पूर्वोक्त पूर्वपक्ष का परिहार और सिद्धान्त का प्रतिपादन किया है। पूर्वपक्षी ने “अथातो धर्मजिज्ञासा” इस सूत्र के द्वारा वेदार्थरूप धर्म का विचार करना कर्तव्य है—यह कहा है। इस सूत्र के विषयीभूत “स्वाध्यायोऽध्येतव्यः” इस वेदवाक्य से अवगत होता है कि सम्पूर्ण वेद में पुरुषार्थ की प्राप्ति का साधन सूचित किया गया है। धर्म और अधर्म का स्वरूप अवगत कर अधर्म का परित्याग-पूर्वक धर्म का अनुष्ठान करने पर पुरुषार्थ की प्राप्ति हो सकती है। इसलिए विधि एवं निषेध ही पुरुषार्थ का साधन है, अतः विधि और निषेध क्रियास्वरूप है, अतः वेद के जिस अंश से क्रिया का प्रतिपादन नहीं है उन वेदांशों को अप्रामाणिक ही मानना उचित है। विधि, मन्त्र, नामधेय और अर्थवाद इन चार भागों में वेद विभक्त है। वेद का विधि

१ ] प्रथमाध्याये द्वितीयपादः १५ भाग ही साक्षात् सम्बन्ध से पुरुषार्थ के उपायों का निर्देश करता है, अतः क्रिया प्रतिपादन करनेवाले वेद के अंशों का ही प्रामाण्य सिद्ध होता है। उपक्रम, उपसंहार और अभ्यास भी क्रियाप्रतिपादक वेद अंशों का प्रामाण्य सिद्ध करता है। "चोदना- लक्षणोऽर्थे धर्मः" इससे उपक्रम कर "तस्य ज्ञानमुपदेशः" इस मध्यस्थ वचन से इसी अर्थ का अभ्यास किया है और "तद्भूतानां क्रियार्थेन समाम्नायः" इस वाक्य से उपसंहार किया है, अतः वेद के विधि अंश का ही प्रामाण्य अवगत होता है। वेद के जिन अंशों से क्रिया का प्रतिपादन नहीं है, वे अंश अनर्थक हैं, उनके प्रामाण्य मानने का कोई भी उचित तर्क या हेतु नहीं है। "आम्नायस्य" = आम्नाय (वेद) के "क्रियार्थत्वात्" विधि और निषेध रूप क्रिया के प्रतिपादन साधन होने से "अतदर्थानाम्" अतदर्थ अर्थात् क्रिया प्रतिपादन का साधन न होने से "आनर्थक्यम्" वे अंश निष्प्रयोजन हैं, "तस्मात्" इसलिए आनर्थ- क्यम् वे अंश निष्प्रयोजन हैं अर्थात् पौरुषेय वाक्यों के समान ही वे वेदवाक्य निष्प्र- योजन हैं "उच्यते" (यह) कहा गया है, क्योंकि, क्रियात्मक यागादिरूप धर्म का प्रतिपादन करना ही वेद का प्रयोजन है, इसलिए, वेद जिन अंशों से क्रिया का प्रतिपादन नहीं कर रहा है, उन वेदांशो को अनर्थक अर्थात् प्रयोजनशून्य मानना पड़ेगा और इसी कारण से वे वेदांश अनित्य अर्थात् पौरुषेय वाक्यों के समान अप्रामाणिक हैं। मन्त्र, नामधेय और अर्थवाद में अर्थवाद की आलोचना में प्रथमाध्याय का प्रथमपाद परिसमाप्त हो जाता है एवं अर्थवाद वाक्यों की विधिजन्य प्रवृत्ति के विषय में विशेष रूप से अपेक्षा होने से इस पाद में उसी का विचार आवश्यक है। सोऽरो- दीत् तद्रजतस्य रजतत्वम्" (तै० सं० १।५।१) वे रोएँ थे इसलिए वही रजत का रजतत्व है। "प्रजापतिरात्मनोवपामुदखिदत्" (तै० सं० २।१।१) प्रजापति ने अपनी वपा को (अपने हृदय से) बाहर किया। "देवा वै देवयजनमध्यवसाय दिशो न प्रजानन्" (तै० सं० ६।१।५) देवताओं ने देवयजन (देवपूजा, यज्ञ) का आरम्भ कर दिशा के निर्णय में समर्थ नहीं हुए, इत्यादि वेदवाक्य किसी प्रकार से क्रिया के प्रतिपादक नहीं हैं, अतः, इनको अनर्थक अर्थात् अप्रमाण मानना होगा। क्योंकि, इन वाक्यों का—रुद्र ने रोदन किया है, अतः, तुम लोग भी रोदन करो अथवा प्रजापति ने अपनी वपा अर्थात् हृदय का भेदन किया था। अतः, संसार के सभी वही करें। देवों का यज्ञ का अनुष्ठान करते हुए दिङ्मोह हो गया था, अतः संसार में भी वैसा होना उचित है—इत्यादि अर्थ नहीं हो सकते हैं। अतः, इस तरह के वाक्य अनित्य हैं। यद्यपि वेद अनादि हैं, वेदान्तर्गत सभी वाक्यों की स्वरूपतः अनित्यता नहीं हो सकती है तथापि ये वेद-वाक्य नित्य या सर्वकालीन धर्म और अधर्म के तत्त्वों का ज्ञापन नहीं करते हैं, अतः, ये पुरुषार्थ के साधन नहीं है, इसलिए लौकिक काव्यविद् के समान इन वाक्यों का प्रामाण्य नहीं है।

१६ मीमांसादर्शनम् [ सू० आचार्य शङ्कर और वाचस्पति के अनुसार इस सूत्र का तात्पर्य आचार्य शङ्कर ने भी इस सूत्र को पूर्व पक्ष के रूप में उपस्थापित कर "तत्तु समन्वयात्" (ब्र० सू० १-१-४) इस सूत्र में सिद्धान्त का प्रदर्शन किया है। कर्म मीमांसकों ने शङ्का की है कि शास्त्र प्रमाण के द्वारा ब्रह्म का प्रतिपादन होता है, किन्तु, यह किसी भी तरह सङ्गत नहीं है, क्योंकि, शास्त्र के द्वारा ब्रह्म का प्रतिपादन नहीं हो सकता है, कारण, महर्षि जैमिनि ने कहा है कि वेद कर्तव्य कर्मों का ही प्रतिपादन करता है, वेद के जिन अंशों से किसी भी तरह कर्तव्य कर्म का प्रतिपादन नहीं हो रहा है, वे अंश निरर्थक हैं अर्थात् उन अंशों का प्रयोजन = सार्थक्य सिद्ध नहीं किया जा सकता है, वेद के वे अंश अप्रामाणिक हैं। इन सूत्रों के द्वारा आचार्य जैमिनि ने यही सिद्ध किया है कि समग्र वेदशास्त्र किसी रूप में कर्तव्य कर्मों का ही प्रतिपादन करते हैं, कर्तव्य कर्मों का प्रतिपादन करना ही वेद का स्वभाव है। वेदान्त शास्त्र अर्थात् उपनिषद् हम लोगों के लिए किसी कर्तव्य कर्म का उपदेश नहीं करती है, अतः, उपनिषद् की कोई सार्थकता नहीं है, ये निरर्थक हैं। इसलिए, उपनिषद् के प्रामाण्य पर अवगत ब्रह्मतत्त्व भी निरर्थक हैं। फलतः, "अथातो ब्रह्मजिज्ञासा" (ब्र० सू० १।१।१) आदि सिद्ध ब्रह्मतत्त्व के प्रतिपादन के लिए निरर्थक है। महर्षि जैमिनि वेद के उपनिषद् भाग को सर्वथा निरर्थक नहीं मान सकते हैं, क्योंकि मीमांसा दर्शन के "अथातो धर्मजिज्ञासा" (जै० सू० १।१।१) इस प्रथम सूत्र के आधार पर समग्र वेद का अध्ययन प्रतिपादित कर वेदार्थज्ञान उसका फल सिद्ध किया है। "स्वाध्यायोऽध्येतव्यः" (तै० आ० २।१५।१) (वेद का अध्ययन अवश्य करना चाहिए) इस वेदवचन के द्वारा समग्र वेद का अध्ययन ही विहित है, उपनिषद् भाग से अतिरिक्त वेद भाग का ही अध्ययन करना चाहिए, कर्मकाण्ड ही सार्थक है, उपनिषद् भाग या ज्ञानकाण्ड क्रियार्थक नहीं है, इसमें क्रिया या कर्तव्य का प्रतिपादन नहीं है, अतः निरर्थक या निष्प्रयोजन है—यह प्रतिपादन नहीं है; वेद के अध्ययन से वेदार्थ का ज्ञान होता है, यही यदि 'स्वाध्यायोऽध्येतव्यः' इस वाक्य का अर्थ जैमिनि को अभिमत है, तो उपनिषद् अंश परित्याग कर वेद का अध्ययन करना चाहिए— यह अर्थ किस प्रकार अवगत होगा ? आशय यह है कि ब्रह्मसूत्र के तृतीय सूत्र "शास्त्रयोनित्वात्" (१।१।३) की व्याख्या के अनुसार इतना ही सिद्ध होता है कि शास्त्र ब्रह्म में प्रमाण है = शास्त्र- प्रमाण ब्रह्म है। ब्रह्म के शास्त्रप्रमाणकत्व की प्रतिज्ञामात्र इस वचन से की गई है, किन्तु, शास्त्रप्रमाणकत्व के लिए किसी हेतु का प्रदर्शन नहीं किया है। शब्द को ब्रह्म विषय में ज्ञापक मानने पर शब्द का प्रामाण्य ही नहीं हो सकता है, कारण, फलवत् अर्थ का प्रतिपादक होने पर ही शब्द का प्रामाण्य रहता है। 'ब्रह्म' सिद्ध

१ ] प्रथमाध्याये द्वितीयपादः १७ वस्तु है, इस सिद्ध वस्तु का बोधक वाक्य सर्वत्र फलवत् अर्थ का ही बोधक होगा— यह कोई आवश्यक नहीं है, कारण, कभी वह फलवत् अर्थ का बोधक हो सकता है और किसी स्थल में नहीं भी हो सकता है। जैसे—'नदी के तट पर फल हैं' यह शब्द सुनकर जो व्यक्ति फल का संग्रह करता है उसके लिए यह वाक्य फलवत् होगा और प्रमाण भी होगा, किन्तु, जो व्यक्ति उसका संग्रह नहीं करना चाहता है उसके लिए यह शब्द अर्थबोधक होने पर भी फलवत् नहीं होने से प्रमाण नहीं होगा। इसलिए सिद्ध वस्तु ब्रह्मबोधक वाक्य अर्थबोधक होने पर भी फलवत् नहीं हो सकते हैं, अतः, अप्रमाण भी हो सकते हैं। यह भी कहा जा सकता है कि रूपादिविहीन सिद्धवस्तु ब्रह्म के बोधक वाक्य से अवगत ब्रह्म यदि अन्य प्रमाण से गम्य होगा तो वेदान्तशास्त्रप्रमाणक ब्रह्म नहीं हो सकता है। यदि वह ब्रह्म अन्य प्रमाण से गम्य नहीं होता है तभी वह वेदान्त प्रमाण गम्य हो सकता है। यह सिद्ध ब्रह्म अन्य प्रमाण से वेद्य है या नहीं—यह जब तक निर्णीत नहीं हो जाता है, तब तक सिद्ध ब्रह्मबोधक वाक्य प्रमाण है या नहीं यह संशय उपस्थित रहेगा। इसी प्रसङ्ग में आचार्य शङ्कर ने शङ्का की कि ब्रह्म शास्त्रप्रमाणगम्य कैसे हो सकता है, क्योंकि वेद क्रिया अर्थ का ही बोधक है और अन्य अर्थ बोधक वेद वाक्य का अप्रामाण्य ही सिद्ध होता है। अतः, वेद ब्रह्म के प्रति प्रमाण कैसे हो सकता है ? फलतः ब्रह्म शास्त्रप्रमाणगम्य कैसे हो सकता है ? आचार्य वाचस्पति ने कहा है—जो शुद्ध-बुद्ध अर्थात् ज्ञानस्वरूप उदासीन स्वभाव अर्थात् निष्क्रिय है, वह उपेक्षणीय होता है, ब्रह्म भी ऐसा ही है, अतः, वह भी उपेक्ष- णीय है। यदि सिद्धवस्तु ब्रह्म वेदान्त से प्रतिपाद्य है तो वेदान्त किसी पुरुषार्थ का उपदेशक नहीं रहेगा। कारण, पुरुषार्थ से आशय है सुख साधन या दुःखनिवृत्ति साधन कर्म, किन्तु, वेदान्त ऐसे किसी पुरुषार्थ का उपदेश नहीं करता है, अतः, वेदान्त का क्या प्रयोजन है अर्थात् निष्प्रयोजन ही है। ब्रह्म सिद्धवस्तु है, अतः, प्रत्यक्ष आदि भी उसमें प्रमाण हो सकता है, अर्थात् प्रत्यक्ष आदि प्रमाण के द्वारा भी उसके स्वरूप की अवगति हो सकती है। ऐसी स्थिति में प्रत्यक्ष आदि प्रमाण से अवगत विषय में जैसे लौकिकवाक्य प्रमाण नहीं होता है, अपि तु, वह उसका अनुवादक ही होता है, फलतः, .वह अप्रमाण ही होगा, इस स्थिति में ब्रह्म प्रतिपादक शास्त्र भी अप्रमाण क्यों नहीं होंगे ? शास्त्र के द्वारा प्रतिपादित ब्रह्म सिद्ध वस्तु है, अतः, वह प्रत्यक्ष आदि प्रमाणों से ही गम्य वस्तु होगा। इसलिए सिद्धवस्तु का प्रमाण शास्त्र है यह कथन सङ्गत नहीं है। लौकिक वाक्य अन्य प्रमाणों से अवगत विषय का बोधक होने पर वह स्वतः प्रमाण नहीं होता है—यह सभी मानते हैं। वेदान्त की भी यही २

१८ मीमांसादर्शनम् [ सू० स्थिति है तो यह भी स्वतः प्रमाण१ नहीं होगा। इस प्रकार वेदान्त का अनपेक्षत्व लक्षण प्रामाण्य सङ्गत नहीं है। वेदान्त का अप्रामाण्य या अप्रयोजनीयता उचित नहीं है। 'वेदाध्ययन करना चाहिए' इस विधि के द्वारा समग्र वेद की प्रयोजनवत्ता सिद्ध है। अतः, वेदान्त को ब्रह्म बोधक न मानकर वेदविहित अग्निहोत्रादि रूप कर्म के लिए अपेक्षित कर्ता, देवता आदि वस्तुओं का प्रतिपादक मानना ही उचित है। यदि कर्मबोधक वेदांश के सान्निध्य का अभाव वेदान्त (उपनिषद्) में होने से कर्मपरक मानना उचित न हो तो उपासनादिरूप क्रियापरक मानने में क्या आपत्ति है? ऐसा मानने पर प्रत्यक्षादि प्रमाण से अनधिगतविषयक होने से अनपेक्षत्वरूप प्रामाण्य और सप्रयोजनत्व भी सिद्ध होता है। आचार्य के इसी अभिप्राय से आचार्य शङ्कर ने इस सूत्र का पूर्वपक्ष के रूप में उपस्थापन किया है। इस सूत्र में भामतीकार ने आनर्थक्य का अर्थ अप्रयोजनवत्त्व माना है और यह अप्रयोजनवत्त्व अनुवादक मानने पर ही सम्भव है। आपात दृष्टि से आनर्थक्य का अर्थ अभिधेयरहितत्व ही होता है अर्थात् किसी प्रकार अर्थ न होना एवं निष्प्रयोजनत्व। उपनिषद् का श्रवणकर किसी व्युत्पन्न व्यक्ति को अर्थ का बोध होगा ही तब उपनिषद् का कोई अर्थ नहीं है—यह कथन सङ्गत नहीं है। यही कारण है कि आनर्थक्य का अर्थ निष्प्रयोजनवत्त्व अर्थ किया है। फलतः, ब्रह्म शास्त्रप्रमाण- गम्य नहीं है—यही पूर्वपक्ष के रूप में आचार्य शङ्कर ने किया है। किन्तु, परमर्षि जैमिनि के द्वारा प्रदर्शित सिद्धान्त पक्ष के साथ आचार्य शङ्कर का ऐकमत्य नहीं है। अतः, इस विरोध का विश्लेषण "विधिना त्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः।" (जै० सू० १।२।६) इस सूत्र के विश्लेषण प्रसङ्ग में करूँगा ॥ १ ॥ शास्त्रदृष्टविरोधाच्च ॥ १.२.२ ॥ शा०—'स्तेनं मनः' 'अनृतवादिनी वाक्' इत्येवं जातीयकानां धर्मं प्रत्यप्रामाण्यम्, भूतानुवादात्। विपरिणामादिभिरपि कल्प्यमाने स्तेयं मृषोक्तं च कर्तव्यमित्यापतत्ति । तच्चाशक्यं स्तेयानृतवादप्रतिषेधमबाधमानेनानुष्ठातुम्। न च विकल्पः, वैषम्यात्। एकः कल्प्यो विधिः, एकः प्रत्यक्षः। अथ दृष्टविरोधः। 'तस्माद् धूम एवाग्नेर्दिवा ददृशे, नार्चिः। तस्मादर्चि- रेवाग्नेर्नक्तं ददृशे न धूमः' तस्माद् दृष्टविरुद्धं इति। 'अस्माल्लोकादुत्क्रम्याग्नि- १. प्रमाणसम्वादवाद या प्रमाणसंप्लववाद एवं प्रमाणासंप्लववाद या प्रमाणविसम्वाद- वाद। प्रथम मत में एक वस्तु में एक से अधिक प्रमाण रहने पर भी कोई भी अनुवादक या अनुवादकत्व निबन्धन अप्रमाण नहीं होता है। द्वितीय मत में एक से अधिक प्रमाण रहने पर जिस प्रमाण से जो प्रथम अवगत होता है वह प्रमाण ओर बाद में जिस प्रमाण से अवगत होता है उसमें अनुवादकत्व निबन्धन प्रमाण नहीं रहता है।

सूत्रकारेण हि सिद्धान्ते स्तेनं मनः इत्यादावभिहितस्य शास्त्रविरोधस्य

२ ] प्रथमाध्याये द्वितीयपादः १९ रादित्यं गतो रात्रावादित्यस्तम्' इत्येतदुपपादयितुमिदम् । उभयमपि दृष्टविरुद्ध- मुच्यते । तस्मान्नैवाऽवधारणा सिध्यतीति अपरो दृष्टविरोधः । न चैतद् विद्मो वयं ब्राह्मणा वा स्मोऽब्राह्मणा वा वचनम् प्रमाणम् तै० ब्रा० २।२।२, (गोप० ब्रा० पू० ५।२१) इति । अक्रियार्थत्वादनर्थकम् । अथायमर्थो नैवैतज्ज्ञायते, किं वा ब्राह्मणा वय- मुताब्राह्मणा वेति, प्रत्यक्षविरुद्धमप्रमाणम् । अपरः शास्त्रदृष्टेन विरोधः । को हि तद्वेद, यद्यमुष्मिँल्लोकेऽस्ति वा न वा, (तै० सं० ६।२।२, ६।१।१) इति । यदि प्रश्नोऽयम्, अक्रियार्थत्वादनर्थकः । अथानवकॢप्तिः, शास्त्रदृष्टेन विरोधः । अतः प्रत्यक्षविरुद्धमप्रमाणम् ॥ २ ॥ भा० वि०—सोऽरोदीदित्यादीनामानर्थक्ये हेत्वन्तरमाह—शास्त्रेति । तत्र सोऽरोदीदित्याद्युदाहरणानामतीतार्थविषयत्वेन योग्यानुपलब्ध्यभावात् स्वार्था- सत्यत्वानिश्चयेन तद्द्वारा विधिकल्पनायामपि धर्मं प्रत्यप्रामाण्यं शास्त्रदृष्टविरोधेन प्रसङ्गादुक्तमेव, तेन येषां स्वार्थेप्यसत्त्वं तेषां धर्मं प्रति प्रामाण्ये कैव कथेत्यभि- प्रेत्योदाहरणान्तरमाह—¹स्तेनमिति । अस्मिन्नप्युदाहरणे विधिकल्पनायां शास्त्र विरोधं दर्शयितुं यथा श्रुत्यप्रामाण्ये पूर्वसूत्रं योजयति-एवमिति । सिद्धरूपस्यैव मनसः स्तेनत्वस्य, वाचोऽनृतवादित्वस्य चानुवादादक्रियार्थत्वादप्रामाण्यमित्यर्थः । ननु तर्ह्यर्थाध्याहारादिना क्रियार्थत्वं कल्प्यतामित्याशङ्क्यैतत्सूत्रगतशास्त्र- विरोधं व्याचष्टे—विपरिणामेति । वाङ्मनसयोः प्राधान्यादितरेन्द्रियैरपि तच्च- रितमनुवर्तितव्यमिति वाक्यार्थः स्यात्, ततश्च निषेधशास्त्रविरोध इत्याह— तच्चेति । ननु पाक्षिकबधसंभवेऽपि नात्यन्तबाधः, विकल्पोपपत्तेः । विधेर्विशेषविषय- त्वान्निषेधस्य च सामान्यविषयत्वादतुल्यबलत्वेन विकल्पासंभव इति वाच्यम् । यथाकथञ्चिद्विधिशास्त्रार्थवत्त्वस्यैव विकल्पशब्देनाभिप्रेतत्वात् इत्यत आह— न चेति । विधिशास्त्रस्य कल्प्यत्वात्, कॢप्तं निषेधशास्त्रं विधिविषयमप्या- स्कन्दन् तत्कल्पनामेव निरुणद्धि इति विध्यनवकाश एवेत्यभिप्रेत्याह— वैषम्यादिति । तदेवाह—एक इति । अन्यो निषेधः प्रत्यक्षः कॢप्तः । सूत्रकारेण हि सिद्धान्ते स्तेनं मनः इत्यादावभिहितस्य शास्त्रविरोधस्य 'अप्राप्ताचानुपपत्तिरि'त्यादिनाऽकर्तव्यतापरत्वेन गुणवादत्वेन च परिहारमुक्त्वा, गुणवादनिमित्तं च रूपातप्रायादिति दर्शयित्वा, पुनस्तस्योदाहरणान्तरेऽव्याप्ति- माशङ्क्य, दूरभूयस्त्वादित्यनेन परिहरिष्यते, तदनुसारेण दृष्टविरोधादित्यवयवं व्याख्यातुमुदाहरति—अथ दृष्टिविरोध इति । उदाहरणगततच्छब्दार्थमाह— १. स्तेयमित्यादर्शकोशे पाठः ।

२० मीमांसादर्शनम् [ सू० अस्मादिति । यस्माद्दिवाग्निरादित्यं गच्छति, तस्मादेव धूम एवाग्नेर्दिवा ददृशे नार्चिः, यस्माच्च रात्रावादित्योऽग्निम्, तस्मादेवार्चिरेवाग्नेर्नक्तं ददृशे, न धूमः इत्येवमेतदुपपादयितुं यद्वैतद्वाक्यम्, तदिहोदाहरणमित्यर्थः । तदुपपादनद्वयोरपि सन्ध्ययोः देवताद्वयसन्निधानमुपपादनीयान्तरं सूचयितुं तावदित्युक्तम्, सूत्रावयवं योजयति—तदिति । ददृश इति लडर्थे लिट्प्रयोगाद् धूम एवार्चिरेवेति द्वयमपि दृष्टविरुद्धम्, रात्रिन्दिवं धूमार्चिषोर्दर्शनात् इत्यर्थः । ततश्च यदनेन वाक्येन प्रतिपाद्यते, दिवाग्निरादित्यमनुप्रविशति रात्रावादित्यस्तमिति तस्यावधारणा न सिध्यतीत्याह—तस्मादिति । ननु धूमगतभूयस्त्वाद्यभावाद्विवा वह्निदर्शनाभावाभिधानमित्ययुक्तम् । अस्यापि निमित्तस्य ब्राह्मण्यज्ञानाभावाभिधानेऽव्याप्तेरिति शङ्कानिरासार्थं “स्त्र्यपराधाद्” इत्यादिसूत्रं तदनुसारेणोदाहरणन्तरमाह—अपर इति । अस्या- प्यार्षेयवरणानुमन्त्रणविधिसन्निधिसाम्ना तस्यापि तत्स्तुत्यर्थत्वाप्रतीतेः न प्रामाण्यमित्याद्यसूत्रं तावद्योजयति—अक्रियेति । ननु मा भूत्क्रियार्थत्वेनार्थवत्त्वम्, स्वतन्त्रब्राह्मण्याज्ञानप्रतिपादनेनैवास्त्विति मन्वानश्चोदयति—अथेति । प्रत्यक्षाद्यवगतोत्पाद्योत्पादकसंबन्धस्मरणानुगृहीतेन्द्रि- येण ब्राह्मणत्वस्य प्रत्यक्षतोऽवगमात् तद्विरुद्धतदज्ञानवचनमप्रमाणमेवेति दूषयति— प्रत्येति । न च प्रत्यक्षेण सहाज्ञानवचनस्य विकल्पः, ज्ञानस्वरूपत्वेन विकल्प- विषयत्वादिति भावः, अत्राक्रियार्थत्वेनानर्थक्यं सिद्धं कृत्वैतत् । अतश्चाज्ञानम- प्रमाणमित्याह—अत इति । प्रत्यक्षज्ञानेनामुष्मिकफलवचनस्य दृढप्रतिपत्तिहेतुत्व- रूपं प्राबल्यं विकल्पाशङ्कानिराससूचितं यदि ब्राह्मण्यादेर्दुर्ज्ञानत्वादज्ञानवचनम्, तर्हि परलोकादौ तदभावज्ञानवचनानुपपत्तिमाशङ्कयाकालिकेप्सेति सूत्रं तदनुसारे- णोदाहरणान्तरमाह—शास्त्रेति । अस्मिन्नप्युदाहरणे प्रथमं तावदाद्यसूत्रं योज- यति—यदि हीति । प्रश्नज्ञानादिसूचकतया सिद्धार्थत्वेनाक्रियार्थत्वादानर्थक्य- मित्यर्थः । इदानीं शास्त्रदृष्टविरोधं प्रश्नपूर्वकं दर्शयति—अथेत्यादिना । अनव- कॢप्तिरनिश्चयोऽज्ञानम्, निश्चितवेदप्रामाण्याैरामुष्मिकफलस्य शास्त्रादेव ज्ञायमानत्वाच्छास्त्रदृष्टविरोधः, शास्त्रजनितेनामुष्मिकफलदर्शनेन विरोध इत्यर्थः ॥ २ ॥ त० वा०] वाङ्मनसयोर्विद्यमानमविद्यमानं वा स्तेयानृतवदनमुच्यमानं धर्मे स्वार्थेऽपि वा न प्रामाण्यं प्रतिपद्यते । अथ त्वध्याहारादिभिरेवं कल्प्येत वाङ्मन- सयोः सर्वशरीरेषु चेष्टाः प्रति प्राधान्यादितरभूतेन्द्रियैरपि तच्चरितमनुवर्तितव्य- मिति, ततः शास्त्रविरोधः । तत्रैतत्स्यात्—विहितप्रतिषिद्धत्वात् षोडश्यादिवद्विकल्प इति । इतरस्तु कल्पनीयकॢप्तत्वेन वैषम्यमाह । ननु चात्यन्तदुर्बलोऽपि विधिरस्त- दधीनात्मलाभेन प्रतिषेधेन तुल्यबलो भवतीति “प्रतिषेधः प्रदेशेऽनारभ्य विधाने

१ ] प्रथमाध्याये द्वितीयपादः २१ च”, (अ० १० पा० ८ अ० १) इत्यत्र वक्ष्यते । सत्यम् । यस्य शास्त्रमन्तरेणा- प्राप्तिरस्ति, तत्रैतदेवम् । यत्पुनरर्थप्राप्तं निषिध्यते, तत्र विध्यनभ्यनुज्ञयैव लब्धा- त्मानः प्रतिषेधा बलीयांसो भवन्तीति तत्रैव वक्ष्यते- “अर्थप्राप्तवदति चेद्” ति । स्तेयानृतवादयोश्च विनैव शास्त्रेण प्रवृत्तयोर्विधिनिरपेक्षोऽवस्थितः प्रतिषेध इति कल्प्यं विधिं बाधते । तस्मादानर्थक्यम् ॥ अतः परं स्वार्थेनैवाऽऽनर्थक्यं प्रतिपादयति । रात्रिन्दिवं धूमार्चिषोरपि दर्शनात् “धूम एवार्चिरेवेति” चैतद् द्वयमपि प्रत्यक्षविरोधादवधारणं न संभवति । अथ वा यदनेन प्रतिपाद्यते दिवाऽग्निरादित्यमनुप्रविशति रात्रावादित्योऽग्निमिति तदव- धारणं नोपपद्यते । पूर्वोक्तस्य हेतोरसिद्धत्वात् । ततश्चाग्निसूर्ययोर्नक्तन्दिवं व्यवस्थितज्योतिष्ट्वप्रतिपादनाय स्तुतिरप्यसत्यत्वान्नावकल्पत इत्येषा वाऽनव- धारणा । अथ वा सूर्यो ज्योतिरिति प्रातरयं मन्त्रोऽग्निर्ज्योतिरित्युेष सायमित्येषा मन्त्रयोरवधारणा न सिध्यति । अथ वा समस्तो वेदः प्रमाणमित्येषाऽवधारणा न सिध्यतीत्यभिप्रायः । शास्त्रविरोधो दृष्टविरोधद्वयं पुनः शास्त्रदृष्टविरोध इति यत् सदृशन्यायानि सन्ति, क्रमभेदेन चोद्यते तत्परिहारसूत्रक्रमभेदा- नुरोधेन । 'न चैतद्विद्म' इत्यार्षेयवरणशेषोऽभिमतः । स चायं क्रियातत्संबन्ध्यन- भिधानात्तद्विद्मत्वेनाप्रमाणम् । न हि ब्राह्मणत्वाज्ञानसंदेहविपर्ययाः ब्राह्मण- त्वादिविषये आक्षेपसमाधाने केनचिदंशेन कर्मण्युपयुज्यन्ते । न च प्रत्यक्ष- विरुद्धाः स्तुतिः संभवति । न च स्वतन्त्रब्राह्मणत्वाज्ञानप्रतिपादनेन प्रामाण्यम् । कथं पुनरयं दृष्टविरोधो यदा समानाकारेषु पिण्डेषु ब्राह्मणत्वादिविभागः शास्त्रेणैव निश्चीयते । नायं शास्त्रविषयो, लोकप्रसिद्धत्वाद् वृक्षत्वादिवत् । कथं पुनरिदं लोकस्य प्रसिद्धम् प्रत्यक्षेणेति ब्रूमः । कस्मात्पुनर्मातापतृसंबन्धानभिज्ञाश्चक्षुः संनिकृष्टेषु मनुष्येष्वनाख्यातं न प्रतिपद्यन्ते, शक्यभावात् । यथा वृक्षत्वं प्राग- भिधानव्युत्पत्तेः । नैतत्तुल्यम्, वृक्षत्वं प्रागभिधायकव्यापाराज्जात्यन्तरव्यवच्छिन्नं स्वव्यक्तिष्वनुगतं शाखादिमद्रूपेण दृश्यते । न तु ब्राह्मणत्वम् । अपि च व्युत्पन्न- शब्दोऽपि निमित्तान्तरादृते नैव प्रतिपद्यते । न चोपवीताध्ययनादिनिमित्तम्, वर्णत्रयसाधारणत्वात् । अध्यापनाद्यपि भिन्नाचारक्षत्रियवैश्यप्रतियोगित्वात्संदि- ग्धम् । सर्वं च दुष्टशूद्रेषु संभाव्यमानत्वादनििश्चितम् । यस्त्वविचारितसिद्धमेव प्रतिपद्येत, स शुक्तिकामपि रजतं मन्यमानः क्रीणीयात् । नैष दोषः । क्वचिद्धि काचिज्जातिग्रहणे इतिकर्तव्यता भवतीति वर्णितमेतत् । तेन यथैवाऽऽलोकेन्द्रिया- नेकपिण्डानुस्यूतिशब्दस्मरणव्यक्तिमहत्त्वसंनिकर्षाकारविशेषादयोऽन्यजातिग्रहणे- कारणम्, तथैवात्रोत्पादकजातिस्मरणम् । अयं चोत्पाद्योत्पादकसंबन्धो मातुरेव प्रत्यक्षः, अन्येषां त्वनुमानोपदेशाद्यवगतकारणं भवति । न चावश्यं प्रत्यक्षा- वगतमेव प्रत्यक्षनिमित्तं भवति, चक्षुरादेरनवतस्यापि निमित्तत्वदर्शनात् । आन्तरालिकस्मृतिव्यवहितमपि चेन्द्रियसंबन्धानुसारि प्रत्यक्षमित्येतत्साधितम् ।

२२ मीमांसादर्शनम् [ सू० न च यत्सहसा सर्वस्य प्रत्यक्षं न भवति, तन्निपुणतोऽपि पश्यतां न प्रत्यक्ष- मित्येतदप्युक्तमेव । स्त्र्यपराधात्तु दुर्ज्ञानोऽयं संबन्ध इति स्वयमेव वक्ष्यति । न च तावन्मात्रेण प्रत्यक्षता हीयते । न हि यदिगिरिशृङ्गमारुह्य गृह्येत, तद्- प्रत्यक्षम् । न च स्त्रीणां क्वचिद्व्यभिचारदर्शनात्सर्वत्रैव कल्पना युक्ता, लोक- विरुद्धानुमानासंभवात् । विशिष्टेन हि प्रयत्नेन महाकुलीनाः परिरक्षन्त्यात्मा- नमनेनैव हेतुना राजभिर्ब्राह्मणैश्च स्वपितृपितामहादिपारम्पर्याविस्मरणार्थं समूहलेखानि प्रवर्तितानि । तथा च प्रतिकुलं गुणदोषस्मरणात् तदनुरूपाः प्रवृत्तिनिवृत्तयो दृश्यन्ते । न च भर्तृव्यतिरेककृतेन वर्णसंकरोऽपराधेन जायते । दृश्यते ह्यपराधिनीनामपि स्वभर्तृनिमित्तः प्रसवः । तदपराधनिमित्तस्तु तासाम- शुभफलोपभोगो भवेत्, न त्वपत्यानां वर्णसंकरः । न च नियोगतो वर्णान्तरैरेव सह प्रमादः । सवर्णेन चोत्पादितस्य नैव वर्णान्तरत्वापत्तिः । संकरजातानामपि च पुनरुत्कर्षापकर्षाभ्यां सप्तमे पञ्चमे वाऽन्यतरवर्णापत्तिः स्मर्यते । तत्र त्वेता- वन्मात्रमागमकिं प्रत्येतव्यम् । न ह्ययं पुरुषेयत्तानियमो लौकिकप्रमाणगम्यः । तस्मात्सत्यपि सारूप्ये यथा केनचिन्निमित्तेन स्त्रोपुंस्कोकिलादिविभागज्ञानम्, तथैव दर्शनस्मरणपारम्पर्यानुगृहीतप्रत्यक्षगम्यानि ब्राह्मणत्वादीनीति, भवत्य- ज्ञानवचनस्य प्रत्यक्षविरोधः । येषामप्याचारनिमित्ता ब्राह्मणत्वादयस्तेषामपि दृष्टविरोधस्तावदस्त्येव, न त्वाचारनिमित्तवर्णविभागे प्रमाणं किंचित् । सिद्धानां हि ब्राह्मणादीनामाचारा विधीयन्ते, तत्रेतरेतराश्रयता भवेत् । ब्राह्मणादीना- माचारस्तद्वशेन ब्राह्मणादय इति । स एव शुभाचारकाले ब्राह्मणः पुनरशुभा- चारकाले शूद्र इत्यनवस्थितत्वम् । तथैकेनैव प्रयत्नेन परपीडानुग्रहादिकुर्वतां युगपद्ब्राह्मणत्वाब्राह्मणत्वविरोधः । एताभिरुपपत्तिभिस्तद्वयं प्रतिपाद्यते । न तप आदीनां समुदायो ब्राह्मण्यम्, न तज्जनितः संस्कारः । न तदभिव्यङ्ग्या जातिः । किं तर्हि ? मातापितृजाति- ज्ञानाभिव्यङ्ग्या प्रत्यक्षसमधिगम्या । तस्मात्पूर्वेणैव न्यायेन वर्णविभागे व्यवस्थिते, मांसेन शूद्रीभवतीत्येवमादीनि कर्मनिन्दावचनानि, अथ वा वर्णत्रय- कर्महानिप्रतिपादनार्थानीति वक्तव्यम् । पूर्ववच्चात्रापि क्लृप्तत्वात्प्रत्यक्षस्य, कल्प्येनाज्ञानविधिना सह विकल्पो न संभवति । अपि च तत्रानुष्ठानात्मकत्वा- द्वेदपि, न त्वत्र, वस्तुरूपाणामैकात्म्येनाविकल्प्यत्वात् । 'को हि तद्वेदेति पूर्ववदेवाज्ञानसंशयविपर्ययाणामनौपयिकत्वादानर्थक्यम् । निश्चितवेदप्रामाण्यैश्च त्रैविद्यवृद्धैर्विज्ञायमानत्वात्स्वार्थेऽप्यातर्थक्यम् विकल्पाभावश्चानन्तरोक्तवत् ॥२॥ न्या० सु०--अत्र भाष्यकारेण स्तेनं मन इत्याद्युदाहृत्य एवंजातीयकानां धर्मं प्रति अप्रामाण्यम्, भूतानुवादादित्युकम् । तदेवंजातीयकानि कं धर्मं प्रमिमीरन्नित्यनेन गतार्थ- त्वात्पुनरुक्तमित्याशङ्क्य व्याचष्टे--वाङ्मनसोरिति । अनेनैवं भाष्यं व्याख्यातं भूतशब्दः

२ ] प्रथमाध्याये द्वितीयपादः। २३ परमार्थवाची, यादृशं परमार्थतः प्रच्छन्नरूपतदौपचारिकं मनसःस्तेनत्वम्, प्रायिकं च वाचोऽ- नृतवादिनीत्वम्, तादृशानुवादमालोच्य धर्मं प्रत्यप्राण्यम्' अतथाभूतमुख्यरूपस्तेना- नृतवादिनोत्वकीर्त्तने तु स्वार्थेऽप्यप्रामाण्यमिति भूतानुवादादिति विशेषणोपादानसामर्थ्यात् सूचितम् । ततश्च पूर्वोदाहरणेष्वतीथार्थकीर्त्तनेन योग्यानुपलब्ध्यभावान्नस्वाथांसत्यत्वा- निश्चयेऽपि धर्मं प्रत्यप्रामाण्यमुक्तम् । इह तु स्वार्थेऽप्यसत्यत्वमित्यधिकार्थत्वादपौनरुक्त्य- मिति । अनेन चेहोदाहरणे पूर्वसूत्रमेवं योजितम् । मनसःस्तेनशब्दवाच्यपरस्वापहारित्वा- भावाद्वाचश्चानृतवदनकर्तृत्वभावावन्मुख्यरूपस्तेनानृतवादिनीत्वकीर्त्तने स्वार्थासत्यत्वादान- र्थक्यमभिधेय शून्यत्वं यथादृष्टार्थानुवादेऽप्यक्रियार्थत्वाद्वानर्थक्यं निष्प्रयोजनत्वमिति । अध्याहारादिभिस्तु क्रियार्थत्वकल्पने प्रतिषेधशास्त्रविरोधापत्तेरानर्थक्यमेव युक्तमिति, शास्त्रविरोधसूत्रव्याख्यानाथं विपरीणामादिभिरित्यादिभाष्यं तद्व्याचष्टे-अथ त्विति । न चेत्यादिभाष्यमाशङ्कापूर्वं व्याचष्टे - तत्रेति । अत्राशङ्कते-ननु चेति । पितृयज्ञे२ ऽतिदेशप्राप्तस्य होतृवरणस्य न होतारं वृणीत इति निषेधः श्रूयते । दर्शपूर्णमासयोश्चा- नारभ्य विधिप्राप्तस्य ये यजामहस्य नानुयाजेषु यजामहं करोतीति । तत्रानयोर्नित्यं बाधो विकल्पेन वेति निरूपणार्थं नञ् अयं प्रतिषेधार्थः, पर्युदासार्थो वेति चिन्तायां पूर्वपक्षयिष्यते । श्रुत्या नञः प्रधानभूतविधायकान्वयेन निषेधार्थत्वं प्रतीतमपि नेक्षेतेत्यत्र व्रतशब्दसामानाधिकरण्यादनङ्गीकृत्योपसर्जनोभूतधात्वर्थान्वयेन पर्युदासोऽङ्गीकृतः । न त्विह तथा, विकल्पपर्युदासे ऽप्यपरिहार्यः, तस्यापि पर्युदसनीयप्राप्तिसापेक्षत्वात् । अन्यथा 'न सौम्येऽध्वर' इत्यस्यापि पर्युदासत्वापत्तेः । किं चान्यत एव तदन्येषु प्राप्तेस्तदन्यमात्रसङ्कोचार्थत्वे च पर्युदासोपसंहारयोर- भेदापत्तेर्न पर्युदासाख्यविध्यन्तरोपपत्तिः । तस्मात्प्रतिषेध एवायम्, ततश्च विहितप्रतिषिद्ध- त्वाद्विकल्प इति तत्र प्राप्तिसापेक्षस्यापि सुरापानादिनिषेधवद्विशेषनिष्ठत्वाद् बलीयस्त्वं स्यादित्याशङ्क्य विशेषनिष्ठेनापि निषेधेनात्मलाभायोगापत्तेः सामान्यरूपस्यापि विधेः स्वविषयादपनेतुमशक्यत्वादनपनीतस्य च शास्त्रस्यात्यन्तबाधायोगाद्विकल्पो दुःपरिहर इत्युक्तम् । न तुल्यहेतुत्वादुभयं शब्दलक्षणमिति । सिद्धान्तस्तु कर्तव्यत्वप्रतिपादनात्मक- विधिविरोधित्वेनाकत्तंव्यत्वप्रतिपादनात्मकनिषेधे जाग्रति विकल्पापत्तेस्तत्परिहाराय पर्युदासो ऽत्राङ्गीक्रियते, तस्य विषयसमर्पणेनानुकूलतया विकल्पानासञ्जकत्वात्तन्मा- त्रसङ्कोचनार्थोपसंहारात्तदन्यमात्रसङ्कोचार्थस्य पर्युदासस्य स्पष्टं वैलक्षण्यमित्यनवद्यम् । परिहरति-सत्यमिति । दृष्टविरोधादीन्वक्ष्यमाणान्सर्वान्हेतूनभिधेयशून्यरूपानर्थक्य- प्रतिपादनपरतया सामान्यतो व्याचष्टे-अतः परमिति । अत्र भाष्यकारेण धूम एवाग्ने- दिवा दहशे नार्चिरित्यादिदृष्टविरो धोदाहरणं दर्शयित्वा, तस्माचैषावधारणा सिध्यती- त्युक्तम् । तद्धम एवार्ारिचेवेत्यवधारणानुपपत्त्युपसंहारार्थत्वेन तावद्व्याचष्टे-रात्रि- १. पूर्वोक्तविपरीतमिति भावः । २. चातुर्मास्ये साकमेधाख्ये तृतीये पर्वणि महापितृयज्ञादित्यर्थः ।

सूत्रक्रमेण भेदेन चेति विग्रहः । उदाहरणानेकत्वकारणत्वेन परिहारभेदोक्तिः ।

२४ मीमांसादर्शनम् [ सू० न्द्विमिति । यद्वैतदेवधारणद्वयानुपपत्त्युपसंहारस्य तस्मात् दृष्टविरुद्धमित्यनेनैव सिद्धत्वात्त- दुपपाद्यस्य यस्य दिवाग्निरादित्यं गतो रात्रावादित्यस्तमित्यवधारणद्वयस्यासिद्धिप्रतिपाद- नार्थमेतद्भाष्यमित्याह—अथ वेति । स्वरूपपरत्वस्य वा सिद्धान्तिनोऽनिष्टत्वात्तत्रा- सत्यत्वे ऽपि न कापि क्षतिरित्याशङ्क्य स्वार्थासत्यत्वे निरालम्बनस्तुत्यनुपपत्तिम्, तदनु- पपत्त्या वा तत्कल्प्यमन्त्रविध्यनुपपत्तिमेकदेशाप्रामाण्ये वा समस्तवेदप्रामाण्यावधारणा- नुपपत्तिं प्रतिपादयितुमेतदित्याह—तत्तत्रेति । एतच्च स्वार्थासत्यत्वप्रतिपादनस्य पूर्वं- पक्ष्यभिप्रेतधर्मप्रामाण्योपयोगित्वप्रदर्शनार्थं व्याख्यानत्रयम् । न त्वनन्तरनिर्दिष्टस्य स्तुत्या- दिरेवेति, सर्वनाम्ना निर्देशो युज्यते । एकैकोदाहर णे चोभयविरोधव्याख्यासिद्धेरूदाहरण- द्वयमनर्थकम् । अथ परिहारवैलक्षण्यादुदाहरणद्वयम् । तथापि शास्त्रविरोधोदाहरण- द्वयमुक्त्वा दृष्टविरोधोदाहरणं वाच्यम्, व्युत्क्रमे किं कारणमित्याशङ्कयाह—शास्त्रेति । प्रायादित्यनेनानृतवादिनीत्यालम्बने बाहुल्येऽभिहिते, धूम एवेत्यवधारणेऽपि भूयस्त्वा- ख्यस्य बाहुल्यस्यालम्बनत्वेन बुद्धिस्थत्वादनृतवादिनीत्वोदाहरणपरिहारानन्तरं धूमो- दाहरणपरिहारेऽपि भूयस्त्वशब्देनोक्तेनार्चिरित्यदर्शनोक्त्यालम्बनं च समीपगमनक्लेश- निबन्धने दुर्ज्ञेयत्वे दूरशब्देनोक्ते, ब्राह्मण्यज्ञानोक्तावपि स्त्र्यपराधनिवन्धनस्य दुर्ज्ञेयत्व- स्यालम्बनत्वेन बुद्धिस्थत्वात्तदनन्तर परिहार इति परिहारक्रमकारणम् । परिहाराणां सूत्रक्रमेण भेदेन चेति विग्रहः । उदाहरणानेकत्वकारणत्वेन परिहारभेदोक्तिः । 'न चैतद्विद्म' इत्यत्राक्रियार्थत्वादप्रमाणमिति भाष्यकारेणोक्तम् । तत्सिद्धान्त्यभिमत- स्तुत्यर्थत्वनिराकरणपरतया व्याचष्टे—न चैतदिति । आर्षेयप्रवरणशब्देनात्र 'प्रवरे प्रक्रि- यमाणे देवाः पितर' इति ब्रूयादित्यार्षेयवरणानुमन्त्रणविधिरभिप्रेतः । तेन चेहोदाहरणे- ऽनुमन्त्रणक्रियास्तुत्यप्रतीतेरानर्थक्यमित्याद्यं सूत्रं योजितम् । तदेवोपपादयति—न हीति । केन चिदंशेनेति—विधेयस्तुत्यंशेनान्यनिन्दांशेन वेत्यर्थः । यद्वा दृष्टविरोधित्वेनैव क्रिया- स्तुत्यर्थत्वासम्भवादानर्थक्यमनेनोक्तमित्येतदेव भाष्यमन्यथा व्याचष्टे—न चेति । अथाय- मर्थ इत्यनेनानर्थक्य एव दृष्टविरोधो हेतुरुक्तः । तद्व्याचष्टे—न चेति । चोदयति—कथं पुनरिति । शास्त्रेणेवेति । सवर्णायां स्वभार्यायामुत्पादितः सवर्ण एवासवर्णायां मूर्द्धा- वसिक्तादिः । परभार्यायां जीवत्पतिकायां कुण्डः, विधवायां गोलकः । पुनश्चोत्कर्षापकर्षा- भ्यामन्यतरवर्णापत्तिरित्यादिशास्त्रैकगोचरत्वान्न प्रत्यक्षगम्यमित्यर्थः । परिहरति—नाय- मिति । एतदेवाशङ्कापूर्वकं विवृणोति—कथं पुनरिति । आशङ्किता स्वाभिप्रायमावि- ष्करोति—कस्मात्पुनरिति । सत्यपीन्द्रियव्यापारे प्रतीत्यभावान्न ब्राह्मणत्वादेः प्रत्यक्षत्वं युज्यते । न चोत्पादकजातिज्ञानस्य सहकारित्वं सम्भवति, आत्माश्रयदोषापत्तेः । प्रागु- त्पादकजातिज्ञानादाप्तवाक्यजनितं ज्ञानं न प्रत्यक्षत्वेनाशङ्क्यमित्यनाख्यातग्रहणेनोक्तम् । यद्वानेन ग्रन्थेन ब्राह्मण्यादिजातिरपह्नूयते । सपिण्डानुवर्त्ती विजातीयेभ्यो व्यावृत्त आकारो जातिर्न च क्षत्रियादिभ्यो व्यावृत्तो ब्राह्मणेष्वनुवृत्तः कश्चिदाकारविशेषो माता- पितृसम्बन्धज्ञेनापि प्रतीयते । तस्माद् ब्राह्मणादिशब्दव्यपदेश्यमातापितृसन्तानजन्यत्वौ-

१ ] प्रथमाध्याये द्वितीय पादः २५ पाधिको ब्राह्मणादिशब्दः, न जातिवचनः । सन्तानस्य चानेकविप्रकृष्टकालपुरुषव्यासङ्गिनः प्रत्यक्षेण ग्रहीतुमशक्यत्वान्न तदुपाधिकस्य ब्राह्मण्यादेः प्रत्यक्षत्वं सम्भवतीति । आशङ्काभिप्रायं परिहर्त्तुं दूषयति—शक्त्यभावादिति । अयमाशयः मातापितृ- सम्बन्धज्ञस्यापत्ये ब्राह्मण्यादिप्रत्ययस्तावत्सन्देहबाधरहितः स्वसंवेद्यः । न च निर्विषयः प्रत्ययो ऽस्तीत्युक्तम् । न चास्य सन्तानविशेषजन्यत्वं विषयः, निरालम्बनशब्दप्रयोगा- योगेन जातिव्यतिरिक्तस्य सन्तानान्तरव्यावृत्तस्य विशेषस्यासम्भवात् न चास्मद्ग्राह्य- द्वित्रिसन्तानमात्रे सन्तानः समाप्यते । येन सम्बन्धिविशेषेणैव सम्बन्धः सन्तानविशेषेण सन्तानो विशेष्टुं शक्यते । यथा चैकदेशावस्थिता वृक्षा एव वनशब्देनोच्यन्ते । तथोत्पाद्यो- त्पादकक्रमेणावस्थिताः पुरुषा एव सन्तानशब्दवाच्याः । न सन्तानाख्यं किं चिद्वस्त्वस्ति । तस्मात्सर्वेषु ब्राह्मणेष्वनुस्यूतं प्रत्येकसमवेतं ब्राह्मणप्रत्ययविषयभूतं किं चिदवश्यमेष्टव्यम् । यच्चाकारविशेषो न प्रतीयत इत्युक्तम् । तत्र यद्याकारशब्देन संस्थानं मुद्रापरनामधेयम- भिप्रेतम्, ततस्तस्य जातित्वानङ्गीकाराददोषः । ब्राह्मणप्रत्ययवेद्यस्तु धर्मविशेषोऽनुभव- सिद्धत्वान्नापह्नवमर्हति । वृक्षत्वाद्यप्यनुभवारूढरूपातिरेकेण निरूपयितुमशक्यम् । शाखा- दिमद्रूपस्य संस्थानात्मकत्वेन जातित्वाभावात्संस्थानविशेषस्य हि प्रतिव्यक्तिविलक्षण- त्वात्संस्थानमात्रस्य त्वन्यजातीयेष्वपि समानत्वादवान्तरविशेषस्य चानिरूपणादवयवि- न्यासविशेषात्मकस्य संस्थानस्य निरवयवेष्वसम्भवाच्च संस्थानमाकारमुद्रापरनामधेयं जातिरिष्यते । तस्मात्समानाकारेष्वपि पिण्डेषु विलक्षणब्राह्मणप्रत्ययवेद्यब्राह्मण्यादि- जातिर्नापह्नोतुं शक्यते । न चासौ शास्त्रस्य विषयः । प्रमाणान्तरागृहीतायां जातौ अगृहीतसम्बन्धत्वेन ब्राह्मण्यादिपदार्थाज्ञानात् । ब्राह्मणाद् ब्राह्मण्यां यो जायते, स ब्राह्मण इति वाक्यार्थानवधारणात्सम्बन्धाग्रहणादेव नानुमेयत्वम्, सहस्रानुपपद्यमानार्थाभावादुप- मानार्थापत्त्यसम्भवात्पारिशेष्यात्प्रत्यक्षत्वम् । उत्पादकजातिज्ञानात्तु प्रागप्रतीतेस्तस्य सहकारित्वं कल्प्यते, जात्यभेदेऽपि व्यक्तिभेदेन जातिव्यक्तिसम्बन्धभेदादुत्पादकव्यक्ति- सम्बन्धितया जातिज्ञानमुत्पाद्य व्यक्तिसम्बन्धितया जातिज्ञाने कारणमित्यात्माश्रय- त्वाप्रसङ्गः । सहकार्यपेक्षत्वे ऽप्येन्द्रियकत्वाव्याघाते दृष्टान्तमाह—यथेति । शब्दोल्लेखप्रतीतौ१ चायं दृष्टान्तः । आशङ्किता तु वृक्षत्वस्य स्वरूपग्रहणे सहकार्यानपेक्षणाद्वैषम्यमाह—नैत- दिति । शब्दोल्लेखप्रतीतावपि२ शब्दातिरिक्तसहकार्यानपेक्षणादपरं वैषम्यमाह—अपि चेति । निमित्तान्तरग्रहणेनैतद्दर्शयति । प्रतीत्यन्यथानुपपत्त्या कल्प्यमानमपि शब्दाति- रिक्तसहकारिग्राह्यात् ब्राह्मणत्वादन्यत्कल्प्यम् । न चोत्पादकगतं ब्राह्मणत्वमुत्पाद्यगतात् ब्राह्मणत्वादन्यदित्येकस्य कर्मकरणत्वायोगाच्च तस्य सहकारित्वं युक्तमिति । उपवीतादीनां १. नन्वगृहीतसङ्गतिनापि समनस्केन्द्रियसन्निकर्षे वृक्षत्वं गृह्यत एव तत्त्वेन परं न गृह्यत इत्यत आह शब्दोल्लेखेति । वृक्षोऽयमिति शब्दोल्लेखप्रतीतिरित्यर्थः । २. वृक्षत्वज्ञाने शब्दातिरिक्तं सहकारि नापेक्ष्यते, ब्राह्मण्ये त्वपेक्षत इति वैषम्यमित्यर्थः ।

२६ मीमांसादर्शनम् [ सू० तु व्यभिचारात्सहकारित्वमनाशङ्क्यमेवेत्याह-न चेति । अध्यापनादीनां ब्राह्मणस्यैव विधानाद्व्यभिचारमाशङ्कयाह-अध्यापनाद्यपीति । क्षत्रियवैश्यौ प्रति युज्यत इति क्षत्रिय- वैश्यप्रतियोगिक्षत्रियवैश्यौ वा प्रतियोगिनौ प्रतिसंबन्धिनौ यस्येत्यर्थः । नन्वध्यापनादि- कारिणि लोके निर्विचिकित्सब्राह्मणप्रत्ययदर्शनात् न क्वचिद्व्यभिचारमात्रेणाप्रामाण्या- शङ्का युक्तेत्याशङ्कयाह-यस्त्विति । अध्यापनादीनां व्यभिचारित्वेन निर्विचिकित्स- प्रत्ययोत्पादकत्वं न युक्तमिति भावः । परिहर्त्ता तून्मीलितनेत्रस्य ब्राह्मणोऽयमित्यसन्दि- ग्धाबाधितपरोक्षप्रत्ययोत्पत्तेर्ब्राह्मण्यप्रत्यक्षत्वापद्भावयोगान्वयव्यतिरेकबलेनोत्पादकजाति- ज्ञानस्योक्तप्रकारेण परिहृतात्माश्रयदोषस्य सहकारित्वकल्पनैवोचितेत्यभिप्रायेणाह- नैष दोष इति । वृक्षे त्ववैषम्यलक्षणोऽध्यापनादिनिमित्तत्वासंभवलक्षणो वा न दोष इत्यर्थः । यदि चान्यजातिग्रहणे सर्वत्रैकरूपं सहकारि स्यात्, ततोऽत्र तद्वैषम्यस्य दोषत्वं शङ्क्येतापि । न त्वेतदस्ति । आकृतिवादे [तस्योपलक्षणं वापि क्वचित् केनचिदिष्यते] इत्यादिना जातिविशेषेषु यथादर्शनंविलक्षणसहकार्यभिधानादित्याह-क्वचिदिति । रूपादेर्गुणविशेषस्यैव सुवर्ण- त्वादिजातिग्रहणे सहकारित्वदर्शनान्न जातेः सहकारित्वं कल्पयितुं युक्तमित्याशङ्क्यान्य- त्राहृष्टमपीहैव प्रतीतिबलादवश्यं कल्पनीयमिति दर्शयन्नुपसंहरति-तेनेति । प्रतीति- बलादेव यथासम्भवं प्रत्यक्षानुमानाद्यवगतायाः सहकारित्वकल्पनं नायुक्तमित्याह- अयं चेति । न च प्रत्यक्षावगतमेव प्रत्यक्षज्ञाने कारणमिति नियमो युज्यते, चक्षुरादौ व्यभि- चारादित्याह-न चेति । न च जातिस्मरणव्यवधानमात्रेण चक्षुषोऽकारणत्वं वाच्यं प्रत्यक्षसूत्रे । तत्र शब्दार्थसंबन्धमित्यादिना १ स्मरणव्यवधानेऽप्यपरोक्षप्रतीतेः प्रत्यक्षत्वा- भिधानादित्याह-आन्तरालिकेति । न च मातापितृसंबन्धानभिज्ञाप्रत्यक्षत्वमात्रेण तदभिज्ञा प्रत्यक्षत्वम् । विमनस्का यदा केचिदित्यादिना २ निराकृतत्वादित्याह-न चेति । ननु स्त्रीव्यभि- चारशङ्कया मातापितृसंबन्धानिश्चयान्नापत्ये ब्राह्मण्यनिश्चयः कस्यचिदपि सम्भवतीत्या- शङ्कयाह-स्त्र्यपराधत्वादिति । स्त्रीणां स्वातन्त्र्यनिषेधाद्धूर्त्तादिभिः प्रयत्नेन रक्षणा- द्योग्यानुपलब्ध्या व्यभिचारशङ्कायाः परिहत्तुं शक्यत्वाद्, दुर्ज्ञानत्वमात्रं मातापितृसंब- न्धानभिज्ञस्य भवेन्न तु सर्वात्मना ज्ञानाभाव इत्यर्थः । एतच्च दुर्ज्ञानत्वादज्ञानवचनं गौणमिति स्त्र्यपराधेनेत्यत्र भाष्यकारो वक्ष्यतीत्याह-इति स्वयमेवेति । न च दुर्ज्ञान- त्वमात्रेणाप्रत्यक्षत्वं शङ्क्यम्, गिरिशृङ्गारोहणजन्यस्यापि दूरस्थपदार्थज्ञानस्य प्रत्यक्षत्व- सिद्धेरित्याह-न चेति । ननु स्त्रीणां प्रायेण चञ्चलत्वदर्शनात् न वै स्त्रैणानि सख्यानि १. स्मर्यते शब्दसम्बन्धो माभूत्प्रत्यक्षता तयोः । तदप्रत्यक्षभावेन न स्त्वर्थस्यापि वार्यते ॥ २. तत्र शब्दार्थसंबन्धप्रमातुः स्मरतोऽपि वा । बुद्धिः पूर्वे गृहीतार्थसन्धानादुपजायते ॥

२ ] प्रथमाध्याये द्वितीयपादः २७ सन्ति। शालावृकाणां हृदयान्येता स्त्रियः इति च वेदेऽनुवादात्सुरूपं वा कुरूपं वा पुमानित्येव भुञ्जत अशास्यं मन इत्यादिस्मृतेश्च। व्यभिचारस्वभावत्वावधारणाददृष्ट- व्यभिचारास्वपि स्त्रीत्वेन व्यभिचारोऽनुमास्यते पलाशत्वेनेव वृक्षत्वमित्याशङ्कयाह— न चेति। स्त्रीत्वस्य व्यभिचाराप्रयोजकत्वसूचनाथंनुमाने कल्पनाशब्दः। न च निर्मूलकत्वेन लोकस्याप्रामाण्यम्, प्रयत्नेन रक्षणे योग्यानुपलब्धेर्मूलत्वसम्भवादिति दर्श- यितुमाह--विशिष्टेन हीति। महाकुलीनानां पुरुषाणां स्त्रीरक्षणमेवात्मरक्षणम्, जायायां रक्ष्यमाणायामात्मा भवति रक्षित इति स्मरणात्। यद्वा दुष्कुलप्रसूतत्वं व्यभिचारशीलत्वे प्रयोजकम्, न स्त्रीत्वमिति दर्शयितुं महा- कुलीनत्वं स्त्रीणामुक्तम्। व्यभिचाराभावनिश्चयमेवाभियुक्तवृद्धव्यवहारेण द्रढयति-- अनेनैवेति। व्यभिचाराभावानिश्चये हि निर्मूलत्वात् पितृपितामहादिपरम्परालेखनात्मक- समूहलेख्यं व्यर्थं स्यादिति भावः। कुलपरीक्षापूर्वकेंदानींतनपुरुषगतविवाहादिव्यवहारेणापि तमेव द्रढयति--तथा चेति। एतावत्प्रयत्नान्वेषणे योग्यानुपलब्धिपूर्वकिया लोकप्रसिद्ध्या व्यभिचाराभावनिश्चयान्न स्त्रीत्वमात्रेणादृष्टव्यभिचारासु व्यभिचारानुमानं युक्तमित्युक्तम्। इदानीमनुमीयमानोऽपि व्यभिचारोऽनेकान्ततो वर्णसङ्करमापादयतीत्याह--न चेति। न च व्यभिचारोत्पन्न- त्वाभावेऽपि मातृव्यभिचारमात्रेणापत्ये वर्णसङ्करः शङ्क्यः। सावर्ण्योत्पत्तिकारणस्यो- त्पादकसंवर्णत्वस्याविघातादित्याह--तदपराधनिमित्तस्त्विति । व्यभिचारोत्पन्नस्यापि वर्णान्तरव्यभिचारानिश्चये वर्णसङ्करानिश्चय इत्याह--न चेति। ननु विन्नास्वेव विधिः स्मृति इत्यादिवचनाद्भर्तृव्यतिरिक्तसवर्णोत्पन्नस्यापि वर्णा- न्तरापत्तिः स्यादित्याशङ्कयाह--सवर्णेन चेति। गवाद्व्युत्पादकसजातीयापत्योत्पाद- कत्वदर्शनेनेहापि तथानुमानान्न वर्णान्तरापत्तिः सम्भवतीति ब्राह्मणादिविहितकर्म्मा- नधिकारप्रतिपादनपरं विन्नास्वितिवचनं व्याख्येयं कुण्डगोलकवचनमपि सत्येव ब्राह्मण्ये- ऽवान्तरसंज्ञाविशेषप्रतिपादनपरमिति उत्पादकासावर्ण्येऽपि क्वचिदन्यतरसवर्णोत्पत्ति- स्मरणान्नात्यन्तं तदुच्छेदः किमुत तत्सावर्ण्य इत्यतिशयार्थमाह--सङ्करजातानामपि चेति। एवं हि स्मर्यते । जात्युत्कर्षो युगे ज्ञेयस्सप्तमे पञ्चमे ऽपि वा। व्यत्यये कर्मणां साम्यं पूर्ववच्चाधरोत्तरमिति ॥ या० स्मृ० अस्यार्थः--क्षत्रियायां ब्राह्मणादुत्पन्ना कन्या मूर्धावसिक्ता ब्राह्मणाय दीयमाना मूर्द्धावसिक्तजातेरुत्कृष्टाम्१ कन्यां जनयति, सापि ब्राह्मणाय दीयमाना कन्यान्तरमेवेत्येवं पञ्चमे युगे पुरुषान्तरे ब्राह्मण्योत्पत्त्या जात्युत्कर्षः। एवं वाशब्दात् षष्ठे वैश्यायां सप्तमे शूद्रायामिति। मूर्द्धावसिक्तादिपुत्रपरम्परायास्तु क्षत्रियादिस्त्रीणां तथैव पञ्चमादिषु क्षत्रियादिजातीयापत्योत्पत्तेरपकर्ष इति पूर्ववच्चाधरोत्तरमित्युत्तरत्रातिदेशात्सूचितम्, १. ब्राह्मणजातितोरपकृष्टानित्यधिकम् २ पु०।