भारतकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

७१४ मीमांसादर्शनम् [ सू० माना जा सकता है । व्यक्ति में शक्ति मानने पर 'गाय लाओ' यह सुनकर सन्देह भी होगा, किस वर्ण की गौ को लाऊँ और शाब्द ज्ञान संशयात्मक उत्पन्न नहीं होता है । अपि तु निश्चयात्मक ही होता है, किन्तु व्यक्ति में शक्ति मानने पर यह सन्देह स्वाभाविक है । जाति को शब्द का अभिधेय मानने पर गो शब्द को सुनने के बाद गो जाति- विषयक प्राथमिक ज्ञान निश्चयात्मक ही होगा । इसके बाद विशेष स्वरूप अज्ञात होने से संशय होगा कि किस वर्ण की गौ लाऊँ, इसलिए भी व्यक्ति शब्द का वाच्य नहीं है । नैयायिकों के मत में विशिष्ट में शक्ति मानी जाती है, यह भी ठीक नहीं है । अर्थात् जाति विशिष्ट व्यक्ति शब्द का वाच्य नहीं हो सकती है । क्योंकि यह स्वरूप मानने पर व्यक्ति विशेष्य है, जाति उसका विशेषण है, ऐसी स्थिति में विशेषण का प्रथम ज्ञान हुए बिना विशिष्ट बुद्धि नहीं हो सकती है । क्योंकि दण्डी पुरुष को देखकर प्रथम में ही 'यह दण्ड' इस प्रकार ज्ञान नहीं होता है, अपि तु उसके हाथ में जो दण्ड है उसका प्रथम ज्ञान होने के बाद ही दण्ड, पुरुष एवं दोनों के सम्बन्ध ज्ञान के बाद दण्डी यह बोध होगा । अतः, जाति-विशिष्ट-व्यक्ति में शक्ति मानने पर जाति-विशिष्ट-व्यक्ति की प्रतीति से पूर्व जाति का ज्ञान आवश्यक है, और शब्द शक्ति के आधार पर प्रथम जाति के ही बोधगम्य होने पर अभिधा व्यापार के द्वारा पुनः व्यक्तिरूप विशेष्य का बोध नहीं हो सकता है, क्योंकि अनुभवसिद्ध यह नियम सकलजन स्वीकृत है कि 'शब्दबुद्धि- कर्मणां विरम्य व्यापाराभावः' अर्थात् शब्द, ज्ञान और कर्म का व्यापार निवृत्त होने पर पुनः उसकी प्रवृत्ति नहीं हो सकती है । अत एव विशिष्ट प्रतीति के स्थल में व्यक्ति का विशेषण जो जाति उसी को शब्द का अभिधेय मानने पर अभिधा शक्ति के विरत व्यापार होने पर जाति-विशिष्ट-व्यक्ति शब्द का वाच्य नहीं हो सकती है । इसीलिए, कुमारिल भट्ट ने कहा है— "विशेष्यं नाभिधा गच्छेत् क्षीणशक्तिर्विशेषणे" शब्द की अभिधाशक्ति के द्वारा जाति रूप विशेषण को अवगत कराने के बाद व्यक्तिरूप विशेष्य उसका वाच्य नहीं हो सकता है, तब लक्षणा वृत्तिरूप व्यापारद्वारक व्यापार से शब्द से व्यक्ति की भी प्रतीति में कोई बाधा नहीं है । आकृति की वाच्यता मीमांसकों की केवल उत्प्रेक्षामात्र नहीं है, अपितु यह अन्वय- व्यतिरेक सिद्ध है । क्योंकि उच्चारण करने पर गो व्यक्ति की प्रतीति होती है—यह सभी लोगों का अनुभव सिद्ध विषय है । व्यक्ति की प्रतीति शब्द से होती है या आकृति से उत्पन्न होती है—यह सन्देह का विषय है । यह भी देखा जाता है कि शाब्द ज्ञान न होने पर भी जो आकृति अर्थात् जाति का अनुभव करता है उसके साथ व्यक्ति का भी अनुभव करता है । किन्तु मानसिक दुर्बलता आदि किसी कारण से आकृति जिसके ज्ञान का

३४-३५ ] प्रथमाध्याये तृतीयपादः ७१५ गोचर नहीं होता है उनके ज्ञान का गोचर व्यक्ति भी नहीं होगा, अतः अन्वय व्यतिरेक से यह सिद्ध होता है कि आकृति के ज्ञान से ही व्यक्ति की प्रतीति होती है । ऐसी स्थिति में व्यक्ति को शब्द का अभिधेय न होने से आकृति को ही शब्द का वाच्य अर्थ मानना उचित है । क्योंकि, शब्द के श्रवण के बाद आकृति का बोध होने पर व्यक्ति का भी ज्ञान होता है । "आकृतिः" = आकृति अर्थात् जाति, "तु" - पूर्व पक्ष की निवृत्ति के लिए है, "क्रियार्थत्वात्" = क्योंकि क्रियार्थता अर्थात् कर्मसम्पादन रूप प्रयोजन रहने से, स्थान- स्थान में कर्मसम्पादन प्रयोजन होने से व्यक्ति शब्द का अभिधेय होने पर वह सम्पन्न नहीं हो सकता है, अतः, आकृति अर्थात् जाति ही शब्द का वाच्य अर्थ है ॥ ३३ ॥ न क्रिया स्यादिति चेदर्थान्तरे विधानं न द्रव्यमिति चेत् ॥ ३४ ॥ शा० भा०-अथ यदुक्तं न क्रिया सम्भवेद् 'व्रीहीन् प्रोक्षति' इति । न द्रव्यशब्दः स्यात्, 'षड् देया' इति । अन्यदर्शनवचनं च न स्यात्, अन्यं¹ तद्रूप- मिति । तत् परिहर्तव्यम् ॥ ३४ ॥ तदर्थत्वात् प्रयोगस्याविभागः ॥ ३५ ॥ शा० भा०-आकृत्यर्थत्वाच्छब्दस्य यस्या व्यक्तैराकृत्या सम्बन्धः तत्र प्रयोगः प्रोक्षणं हि द्रव्यस्य कर्तव्यतया श्रूयते । कतमस्य ? यद् यजतिसाधनम् । अपूर्वप्रयुक्तत्वात्तस्य, नाऽऽकृतेः । अशक्यत्वात्¹ । तत्र व्रीहिशब्द आकृतिवचनः प्रयुज्यते प्रोक्षणाश्रयविशेषणाय । स ह्याकृतिं प्रत्याययिष्यति, आकृतिः प्रतीता सती प्रोक्षणाश्रयं विशेषयतीति । तेनाऽऽकृतिवचनं न विरुध्यत इति । एवं षड् देया गावो दक्षिणा इति दक्षिणाद्रव्ये संख्यायाः प्रयोक्तव्ये³ गाव इत्याकृतिवचनो विशेषकः । तथा अन्यमिति विनष्टस्य प्रतिनिधेरन्यत्वसम्बन्धः । तत्र पशुशब्द आकृतिवचन आकृत्या⁴ विशेषयतीति । तस्माद् गौरश्व इत्येव- मादयः शब्दा आकृतेरभिधायका इति सिद्धम् ॥ ३५ ॥ क. उत्तरम् आकृति- शक्त्यधिकरणम् । ॥ इति श्रीशबरस्वामिनः कृतौ⁴ मीमांसाभाष्ये प्रथमस्याध्यायस्य स्मृतिपादोऽयम् तृतीयः पादः ॥ ————— १ ब. अधान्यं । १. ब. अशक्तत्वात्तत्र । २. ब. संख्यायायोक्तव्ये । ३. आकृत्यविशेषयतीति । ४. ब. स्वामिः कृत पु० पा० ।

भा० वि०—प्रथमेनेतिचेदित्यनेनाकृतिवचनत्वपक्षं परामृश्य न क्रिया स्यादि- त्यादिना पूर्वपक्षहेतुत्रयं प्रयोगचोदनाभावादिरूपमनुभाष्यत इति व्याचष्टे— अथ यदुक्तमित्यादिना । अद्रव्यशब्दत्वादिति सूत्रेण द्वितीयतयोक्तं हेतुं न द्रव्यमिति चेदिति तृतीयतया अनूदितमपि स्वयं द्वितीयतया व्याचष्टे—न द्रव्य- शब्दः स्यादिति । अनेन संख्यापदस्यानुषङ्गोऽपि सूचितः । अन्यदर्शनादिति तृतीयतयोक्तमर्थान्तरविधानमिति द्वितीयतया अनूदितं च हेतुं न स्यादिति पदद्वयानुषङ्गेण तृतीयतया व्याचष्टे--अन्यदर्शनेति ॥ ३४ ॥ भा० वि०--अनूदितस्य हेतुत्रयस्य परिहार्यतामुक्त्वा परिहारसूत्रमादत्ते— तदित्यादिना । तत्र न क्रिया स्यादित्यनूदितप्रयोगचोदनाभावनिराकरणपरतया तावद्व्याचष्टे--आकृत्यर्थत्वादित्यादिना । प्रयोगः अनुष्ठानम् । एवं चशब्दस्य न्यायेनाकृत्यर्थत्वावधारणादालम्भनादिक्रियाया द्रव्ये प्रयोगस्यानुष्ठानस्याविभागः आकृत्या सह सम्बन्धविशेषः कारणमिति सूत्रं योजितम् । नन्वाकृतिपक्षे तस्या एवापूर्वसाधनत्वापत्तेः कथं तत्सम्बन्धिन्यां व्यक्तौ प्रोक्षणादिप्रयोगः, तत्राह—प्रोक्षणं हीति । ननु द्रव्याणामाकृतिसम्बन्धिनामनेकत्वात् कस्येत्यनध्यवसायः स्यादिति पृच्छति—कतमस्येति । व्रीहिभिर्यजेतेति यागसाधनत्वेन विहितान् व्रीहीनुद्दिश्य प्रोक्षणादीनां विधानान्नानध्यसाय इति परिहरति--यजति यागसाधनमिति । कस्माद्यागसाधनस्य द्रव्यस्यैवेति नियम इत्यपेक्षायां तस्यैव यागद्वारा अपूर्व- साधनत्वात् तत्प्रयुक्तत्वाच्च प्रोक्षणादीनामित्याह—अपूर्वेति । द्रव्यस्यैवेत्यस्य व्यावत्र्यमाह--नाकृतेरिति । अशक्यत्वादिति । त्यक्तुमशक्यत्वेनापूर्वसाधना- सामर्थ्यादित्यर्थः । नन्वेवमपूर्वीयत्वेन व्यक्तेरेव प्रोक्षणादिसम्बन्धे किमाकृत्यभिधानेनेति, तत्राह—तत्र व्रीहिशब्द इति । एतदेव विवृणोति—स इति । तेन यत्र व्यक्तेरेव प्रयोगान्वयः तत्रापि तत्प्रयोगितयाकृत्यभिधानं न विरुध्यत इति निगमयति— तेनेति । न द्रव्यमितिचेदित्येतदुत्तरत्वेनापि तदर्थत्वादित्यादि सूत्रं व्याचष्टे—तथा षड् देयाः इत्यादिना । तत्र व्यक्तेरेव संख्यान्वयेऽपि तद्विशेषणतया आकृति- वचनमविरुद्धमित्यर्थः । अत्र त्वाकृत्यर्थत्वाच्छब्दस्य षडादिसङ्ख्याया अपि द्रव्ये प्रयोगस्य प्रकर्षकर्तृत्वेन विशेषणत्वेन प्रयोगस्याविभागः सम्बन्धः कारणमिति सूत्रं व्याख्येयम्, अर्थान्तरविधानं न स्यादित्यउत्तरत्वेनापि व्याचष्टे--तथान्यमितीति । नष्टस्य पशोः प्रतिनिधित्वेन य उपात्तः तस्यैवान्यत्वादिसम्बन्धेऽपि तद्विशेष- कत्वेनाकृतिवचनं न विरुध्यत इत्यर्थः । अत्रापि न्यायेनाकृत्यर्थत्वाच्छब्दस्य प्रतिनिहिते द्रव्यान्तरेऽन्यत्वादिधर्मवति प्रयोगस्यानुष्ठानस्याविभागस्सम्बन्ध-

३४-३५ ] प्रथमाध्याये तृतीयपादः ७१७ विशेषः कारणमिति सूत्रयोजना द्रष्टव्या । उक्तेनैवागृहीतविशेषणन्यायेन गुण- क्रियादिशब्दानां तद्वाचित्वमपि सिद्धं कृत्वोपसंहरति--तस्मादिति । एवं प्रस- ङ्गागतं पदानामाकृत्यर्थविचारं परिसमाप्य, प्रकृतं स्मृत्याचारोपस्थापितश्रुति प्रामाण्यमुपसंहरति--इतीति ॥ ३५ ॥ ॥ इति श्रीमन्नारायणामृतपूज्यपादशिष्यश्रीगोविन्दामृतमुनिविरचिते शाबर- भाष्यविवरणे प्रथमाध्यायस्य तृतीयः पादः समाप्तः ॥ त० वा०-ये त्वाऽऽलम्भनादिचोदनाभावादयो 'न क्रिया स्यात्' इत्येत- त्सूत्रानुभाषिताः पूर्वपक्षोक्ता हेतवः तेषां सर्वेषामनेन सूत्रेण परिहारोऽभि- धीयते-- अविभागादित्यस्य चतुर्धा व्याख्यानम् 'तदर्थत्वात्प्रयोगस्याविभागः' इति । तदर्थत्वात्--अपूर्वार्थत्वाद्धालम्भनप्रोक्ष- णाद्यङ्गानामपूर्वसाधने प्रयोगेन भवितव्यम्, द्रव्यं चापूर्वसाधनम्, यागेन स्वसि- द्ध्यर्थमाक्षिप्तत्वात्, नाऽऽकृतिः समर्थत्वात्, तदभिधानं तु द्रव्यनियमार्थं प्रति- पत्तव्यम्, न स्वार्थम् । जातेरनपेक्षितत्वाददृष्टार्थत्वप्रसङ्गात्साधनत्वाप्रतीतेश्च । यदपि जातेः प्रातिपदिकाभिहितायाः करणत्वं प्रतीयते, तदपि द्रव्यनियाम- कत्वेनैव, न साक्षादयो ग्यत्वात् । तेनाऽऽकृत्यभिधानस्य द्रव्यनियमार्थत्वाद् द्रव्ये वाऽऽलम्भनप्रोक्षणसंख्याकार कसामानाधिकरण्यादिसंभवाददृष्टता । तदाह- प्रयोगस्याविभाग इत्याकृतिपक्षेऽप्या लम्भनादिप्रयोगस्य द्रव्यादविभक्ततैवेति । अथवाऽऽकृत्यभिधानस्य द्रव्यनियमार्थत्वा दुक्तवत्प्रयोगस्याविभाग इति । यद्वा । आकृतिव्यक्त्योरत्यन्तभेदा भावात्कदाचिद् व्यक्तिरूपेण द्रव्यमभि- धीयते, कदाचित्सामान्यरूपेण यथा--विवक्षितम् । तथा--शब्दस्योभयरूप- वस्त्वर्थत्वाद् व्यक्त्यभिधानेऽपि न प्रयोगस्य विभागः नानारूपतेति । जातेर्वा व्यक्तितोऽत्यन्तभेदाभावाद्, व्यक्तौ कृता धर्मा जातौ कृता एव भवन्तीति, न प्रयोगस्य विभागेन प्रयोजनमिति ।- यद्वा । आकृतिव्यक्त्योरुभयोर्यागार्थत्वाद्धर्माणां च यत्र क्वचन यागसाधने कृतानां प्रयोजनवत्त्वादद्रव्यादविभक्तेति । तस्मादाकृतिपक्षेऽप्या लम्भनादिसंभवादाकृतिरेव शब्दार्थ इति सिद्धम् ॥३४-३५॥ (इति आकृत्यधिकरणम् ॥ ९ ॥) ॥ इति श्रीभट्टकुमारिलस्वामिकृतौ मीमांसावार्तिके प्रथमस्याध्यायस्य तृतीयः पादः ॥

७१८ मीमांसादर्शनम् [ सू० न्या० सु०-तस्मादित्युपसंहारभाष्यम् । व्यक्त्यभिधाने निरस्तेऽपि, सम्बन्धाभिधानादिपूर्वपक्षाणामनिरस्तत्वात्परिशेषासिद्धेर- युक्तमाशङ्क्य, समर्थयते एवमिति । 'न क्रिया स्यादिति चेदर्थान्तरे विधानं न द्रव्यमिति- चेदिति सूत्रं प्रथमं वेति चेदिति सूत्रावयवेनाकृत्यभिधानपक्षपरामर्शादाकृतिवाचिताया- मालम्भनादिक्रिया न स्यात्, अन्यं तद्गुणं तद्वयसमालभेतेति चार्थान्तरे आलम्भनविधानं न स्यात् । षड् देया इति च द्रव्याश्रयस्य संख्यालक्षणस्य वाचकः षडिति शब्दो न स्यादिति, पूर्वपक्षसूत्रार्थानुभाषणार्थत्वेनाथ यदुक्तमित्यादिभाष्येण व्याख्याय, तत्परिहारार्थ- त्वेन तदर्थत्वात्प्रयोगस्याविभाग इति सूत्रं व्याख्यातुं सङ्क्षेपेणानुसन्धत्ते - घे त्विति । भाष्यकृतेदं सूत्रं न्यायेन शब्दस्याकृत्यर्थत्वावधारणादालम्भादिक्रियाया द्रव्ये प्रयोगस्या- नुष्ठानस्य षडादिसंख्यायाश्च द्रव्ये प्रकर्ष कत्वेन विशेषकत्वेन योग्यस्यान्वयस्योपाकृतपशुना सैव प्रतिनिहिते द्रव्यान्तरे प्रयोगस्यानुष्ठानस्याविभागो द्रव्यस्याकृत्या सम्बन्धः कारणम् । जातिवाचिनोऽपि शब्दस्य लक्षणया व्यक्तिपरत्वादविरोध इत्याशय इत्येवं व्याख्यातम् ॥ ३४ ॥ न्या० सु० - तत्स्पष्टत्वाद्व्याख्याय स्वयमन्यथा व्याचष्टे - तदर्थत्वादिति । प्रयुज्य- मानक्रियाप्रयोजनत्वेनानिर्दिष्टमप्यपूर्व बुद्धिस्यत्वात्तच्छब्देन परामृश्याऽपूर्वार्थत्वादालम्भना- देराकृतिपक्षेऽपि प्रयोगस्यानुष्ठानस्याविशेष इति व्याख्येयमित्यर्थः । नन्वाकृतिपक्षे तस्या एवापूर्वसाधनत्वावगतिः कथं पक्षद्वये प्रयोगस्य विशेष इत्या- शङ्कयाह - द्रव्यं चेति । यागद्वारा पश्वादेरपूर्वसाधनत्वम्, न चाकृतिर्निष्क्रियत्वात्त्यक्तुं योक्तुं शक्येत्यर्थः । किमर्थं तर्ह्याकृत्यभिधानमत आह-तदभिधानं त्विति । नन्वदृष्टार्थत्वेनैव तर्ह्याकृतेः प्रोक्षणादिवदपूर्वसाधनत्वं भविष्यतीत्याशङ्कय क्रियारूपाया जातेस्तद्द्वारमन्त- रेण।दृष्टसाधनत्वा - प्रतीतेरित्युक्तम् । नन्वाकृतेः साधनत्वाभावे पशुना यजेतेत्यादि- करणनिर्देशो न युज्यत इत्याशङ्कयाह - यदपोति । अनुपात्तस्य द्रव्यस्य क्रियासाधनशक्तेर- नवधारितविशेषस्य चोपादानायोगादाकृत्या च विना द्रव्यविशेषानवधारणाद् द्रव्यविशेषा- वच्छेदकत्वेनैवाकृतेः करणत्वम्, न साक्षादित्यर्थः । अत्रादिसूत्रं योजयति - तेनेति । न द्रव्यमित्यनुभाषणसूत्रगतेन द्रव्यशब्देन बुद्धिस्थं द्रव्यं तच्छब्देन परामृश्यत इति भावः । प्रयोगस्याविभाग इति सूत्रावयवव्याख्यानार्थं 'द्रव्ये वे'त्युक्तम्, तमेवावतारणपूर्वकं व्याख्यातार्थे योजयति- तदाहेति । आकृतिपक्षेऽपि प्रयोगस्याविशेष इत्येवमेव वात्राप्यपूर्वार्थत्वादिति पूर्वव्याख्याभवदुत्तरात्रयवो योज्य इत्याह - अथ वेति । व्यक्त्या- कृत्योस्त्वभेदविवक्षायां भेदानामेव वायं प्रत्येकं सर्वेषां वाचक इति पूर्वप्रस्थानोक्तन्यायेन पक्षद्वयेऽपि व्यक्त्यभिधानाविशेषात्स्वरूपेणैवासौ वाच्या, जात्यात्मना वेत्येतावन्मात्रस्य विचारार्थत्वात्सिद्धान्तेऽपि क्रियाद्युपपत्तेस्तुल्यत्वाद्यदि परं जात्यात्मना व्यक्त्यभिधानपक्षे निर्धारितविशेषव्यक्त्युपादानासम्भवात् क्रियाद्यनुपपत्तिर्वाच्या । तच्च स्वरूपेणाप्येकव्यक्त्या-

३४-३५ ] प्रथमाध्याये तृतीयपादः ७१९ मिधाने तदुत्पत्तेः प्रागुत्तरकालं च क्रियानुपपत्तेः सर्वव्यक्त्यभिधाने च सर्वोपादानशक्तेः कदाचिदपि क्रियानुष्ठानासम्भवेनानिर्धारितविशेषव्यक्त्यभिधानस्यावश्याङ्गीकार्यत्वा- तुल्यमित्येतदर्थप्रतिपादनाय अन्यथासूत्रं व्याचष्टे—यद्वेति । द्रव्यशब्दवाच्याया व्यक्तेरुभय- रूपत्वेऽपि व्यावॄत्ताकारतात्र व्यक्तिरूपशब्देनाभिमता । पक्षविकल्पार्थी कदाचिच्छब्दौ । अस्मिन्नपि व्याख्याने पूर्वप्रकृतद्रव्यपरामर्शिनं तच्छब्दमभिप्रेत्यानुवृत्तव्यावृत्तोभयरूपवद- निर्धारितविशेषद्रव्यार्थत्वाच्छब्दस्य पूर्वपक्षेऽपि प्रयोगस्यानुष्ठानस्य निर्द्धारितविशेषव्यक्ति- विषयत्वायोगान्न विभागो व्यादृश्यतेति योजयितुम्—शब्दस्येत्युक्तम् । यद्वा जातिश्च व्यक्तिश्च तामस एवार्थ इत्येवं तदर्थत्वादिति सूत्रावयवेनैव जाति- व्यक्त्योरत्यन्तभेदाभावोऽभिधीयते । ततश्चाकृतौ विहितस्यालम्भादिप्रयोगस्य विभागो निष्कृष्टाकृतिविषयता नास्तीति न क्रियानुपपत्त्यादिदोषापत्तिरिति चतुर्थी व्याख्यामाह— जातेरिति । भेदेऽपि आकृतिव्यक्त्या न क्रिया स्यादित्यनुभाषणसूत्रनिर्दिष्टां क्रियां तच्छब्देन परामृश्याप्याकृतानवच्छिन्नव्यक्त्युपादानाभावेन आकृतिनिरपेक्षयां व्यक्त्या साधनत्वा- योगेन उभयोरन्योन्यापेक्षयोर्यागापूर्वसाधनत्वावसायात्साधनत्वापेक्षायाः शक्तेरपि साधन- शक्तत्वाच्च । धर्म्माणां कर्मसम्बन्धे च शेषिसाहित्यस्याविवक्षितत्वेनैकत्रापि कृतानामुप- कारकत्वोपपत्तेरपूर्वसाधनव्रीहिष्विव विहितानां धर्माणं यवेष्वाकृतावपि विहितानां व्यक्तावनुष्ठानोपपत्तेर्व्यक्त्याकृत्योर्द्वयोर्यागापूर्वार्थत्वाच्चाकृतौ विहितस्यालम्भादिप्रयोगस्य व्यक्तिविषयत्वाद्विभागो भेदो नास्तीति नाकृत्यभिधानपक्षे क्रियानुपपत्तिरितिसूत्रं व्याख्येय- मित्याह—यद्वेति । तस्मादित्यपसंहारभाष्यं व्याचष्टे--तस्मादिति । सास्नाद्येकार्थसम्बन्धि- गोत्वमात्रस्य वाचकः गोशब्द इति विज्ञातमन्वयव्यतिरेकिगमित्यनेन न्यायेनान्वयव्यतिरेक- बलेनैवाकृत्यभिधानस्याविचारितसिद्धत्वात्प्रयोगचोदनाद्यनुपपत्तेस्तदसम्भवाच्छङ्कामात्रां निरा- कत्तुमेतदधिकरणमिति सूचयितुम्--आकृतिपक्षेऽपीत्युक्तम् ।।३५।। ।। इति श्रीमत्त्रिकाण्डमीमांसामण्डनप्रतिवसन्तसोमयाजिभट्टमाधवात्मजभट्टसोमेश्वर- विरचितायां तन्त्रवार्त्तिकटीकायां सर्वानवद्यकारिण्यां न्यायसुधाख्यायां प्रथमस्याध्यायस्य तृतीयः पादः समाप्तः ।। भा० प्र०--जाति के अभिधेय होने पर जिन दोषों की सम्भावना "प्रयोगचोदना- भावात्" "अन्यदर्शनात्" एवं "अद्रव्यशब्दात्" इन तीन सूत्रों से प्रदर्शित की है; उसी की आशङ्का से यह कहा गया है । कारण, सिद्धान्ती इसका समाधान नहीं करते हैं वरन्, इसका उल्लेख मात्र किया जाता है । "क्रिया" = प्रोक्षणादिक्रिया, "न स्यात्"= नहीं हो सकती है, "इति चेत्" = यदि यह कहा जाय कि, "अर्थान्तरे विधानम्" = अन्य अर्थ का विधान अर्थात् नष्ट द्रव्य के स्थान में अन्य द्रव्य के स्थान पर अन्य द्रव्य का विधान नहीं हो सकता है।

७२० मीमांसादर्शनम् [ सू० अतः, ‘'न द्रव्यम्'' = अर्थात् द्रव्य नहीं है आकृति होने से लिङ्ग, संख्या आदि गुणों का अन्वय नहीं हो सकता है। ‘'इति चेत्'' = यदि यह कहा जाय ॥ ३४ ॥ भा० प्र०—पूर्वं पक्ष की आशङ्का के उत्तर में सिद्धान्तियों ने कहा है कि शब्द का वाच्य जाति को मानने पर कोई भी अनुपपत्ति नहीं हैं। क्योंकि जाति और द्रव्य का अत्यन्त भेद नहीं हैं, इसलिए द्रव्य का ही प्रोक्षण आदि होगा। यदि यह कहा जाय कि जाति को क्यों वाच्य कहा जायगा ? इसके समाधान में कहना है कि ‘'तदर्थत्वात्'' जाति के निर्देश के साथ द्रव्य का उल्लेख होने पर उसका अन्यथा नहीं हो सकता है। एक जातीय द्रव्य के स्थान में स्वेच्छापूर्वक अन्य जातीय द्रव्य का व्यवहार नहीं किया जा सकता है। एवं ‘'श्येनचितं चिन्वीत'' इत्यादि क्रिया के भी लोप की सम्भावना नहीं है। इस कारण से अभिधान अर्थात् शब्द के द्वारा द्रव्य का नियम अर्थात् व्यवस्था करने के लिए जाति को ही अभिधेय कहा गया है। अतः, ‘'व्रीहीन् प्रोक्षति'' इस स्थल में प्रोक्षण क्रिया का आश्रय जो व्रीहि द्रव्य उसी को व्रीहित्व जाति विशेष माना गया है। इस प्रकार ‘'षड् देयाः'' इस स्थल में संख्या रूप गुण का आश्रय जो गोव्यक्ति उसको गोत्वजाति विशेष माना गया है। इस प्रकार ‘‘यदि पशुरुपाकृतः पलायेत तदा अन्यं पशुमालभेत'' इस स्थल में भी पशु शब्द के द्वारा पशुत्व जाति अभिहित होने से विनष्ट पशु व्यक्ति का जो अन्य प्रतिनिधि होगा उसी का विशेष निर्देश किया जाता है। अन्य स्थल में भी इसी प्रकार अवगत करना चाहिए। अतः, शब्द का अभिधेय आकृति या जाति होने पर व्यक्ति उससे अभिन्न नहीं है अथवा लक्षणा से व्यक्ति का बोध होने से व्यक्तिरूप द्रव्य ही लिङ्ग, संख्या, कारक आदि का आश्रय होता है। उसमें लिङ्ग, संख्या आदि का सामानाधिकरण्यरूप से अन्वय होने में कोई बाधा नहीं है। इसीलिए आकृति ही पदार्थ अर्थात् शब्द का वाच्य अर्थ है। ‘‘तदर्थत्वात्'' = तदर्थता अर्थात् द्रव्य की नियमार्थता के कारण अर्थात् द्रव्य की विशेष रूप में व्यवस्था करना रूप प्रयोजन होने से, आकृति ही शब्द का वाच्य है। ‘प्रयोगस्य' = प्रयोग का अर्थात् प्रोक्षण आदि क्रिया का, ‘अविभागः' = द्रव्य से विभाग = विच्छेद नहीं है, अर्थात् द्रव्यादि में ही प्रोक्षण आदि क्रियायें होती है। द्रव्य की व्यवस्था करने के लिए ही शब्द के द्वारा आकृति को विषय किया गया है। आकृति से द्रव्य का विभाग अर्थात् भेद नहीं होने से प्रोक्षण आदि क्रियायें भी द्रव्य की ही होती है, किन्तु वह द्रव्य से विच्छिन्न नहीं होता है ॥ ३५ ॥ ॥ इति श्रीगोस्वामिदामोदरलालात्मजमहाप्रभुलालगोस्वामिविरचितभावप्रकाशिकायां प्रथमाध्यायस्य तृतीयः पादः समाप्तः ॥

मीमांसादर्शनस्थश्लोकानां सूची अ अथ त. वा. ३२४ अकर्तृक त. वा. ४५९ अथ प्रवृत्तिः न्या. सु. ६१ अकः सवर्ण ,, २९६ अथ वा ,, ५१९ अक्रियत्वाच्च ,, ६७८ अथ वा ,, ४५७ अवके चेन्मधु शा. भा. ३२ अथ आयुर्वेदो न्या. सु. ३७९ भा. प्र. ३४ अथ प्राप्तश्च त. वा. ५०८ अग्रया न्या. सु. ६१५ अथ त्रिचतुरा ,, ५२९ अग्नि त. वा. ४६९ अथवा सा ,, २८६ अग्निहोत्रं न्या. सु. २९९ अथ व्याकरणोत्पन्नं ,, ५२८ अग्नेः त. वा. ४६८ अथ संस्थान ,, ६२९ अग्नीषो ,, ३२३ अथ वोक्तेन ,, ६७५ अङ्गानि ,, ५१९ अथ सम्बन्धि त. वा. २९३ अणिमा न्या. सु. ६१३ अथ प्रवृत्तं न्या. सु. ६१ अज्ञात्वा ,, ६१ अथापि ,, ६४ अतः त. वा. ४२० अथापि त. वा. ४२४ अतश्चा ,, ५७३ अथापि ,, ५९४ अतश्चा ,, ३७१ अथानिष्पन्न न्या. सु. ६३ अत एवेष्ट न्या. सु. ६४ अथाव्यापार ,, ६३ अतश्च त. वा. ४७४ अथानुष्ठे ,, ६३ अतश्चैवे ,, ३२८ अर्थ त. वा. ५१९ अतश्च ,, ६३३ अर्थापत्त्या ,, २५० अतश्च ,, ५९३ अदुष्ट ,, ५०७ अतः परिमिते ,, ३७५ अदुष्टेन ,, २८३ अतो विगान ,, ५३० अदूर ,, ५२७ अत्रचाऽऽकृति ,, ६२७ अधिगन्तव्य ,, ५२० अत्र श्रयोऽर्थि ,, ५९१ अध्यारोप्य ,, ४१९ अत्यन्त ,, ५१२ अध्यारोप्येत ,, २९२ अत्यन्ता ,, ५०९ अनन्य ,, ३५७ ४६

७२२ मीमांसादर्शनम् अनवस्थित ,, ४१८ अपि वा ,, ३५७ अनाख्येय ,, ४८९ अपि वा ,, ९९५ अनादित्वं ,, ५३० अपूर्वं ,, ६७५ अनिश्चितेऽपि ,, ६७५ अपूर्वं ,, ६७५ अनुष्ठेयत्वरूपं न्या. सु. ६२ अपोद्धा ,, ५२९ अनुमान त. वा. ४८४ अप्रमाण्यपदं ,, २९२ अनुयोगेषु ,, ४५७ अप्रायश्चित् न्या. सु. ५५८ अनुच्चारणकाले ,, ३२१ अप्रमाण्यं त. वा. ४५४ अनूद्यमान ,, ३७२ अप्रति ,, ६३१ अनेन ,, ४७१ अबुद्धिपूर्वता ,, ४७४ अनैकाचि ,, ५७२ अभावः ,, ६७९ अन्तर्देशा ,, ३३५ अभियुक्त ,, ४२० अन्तरीयो ,, ३२३ अभिधातु न्या. सु. ६१ अन्तो ,, ५१४ अभेद ,, ६७७ अन्यथो ,, ५७४ अभेदे त. वा. ६२४ अन्यवेश्म ,, ४८३ अभोजन ,, ३२६ अन्यावय ,, ५२९ अमावस्या भा. वि. ८९ अन्वा ,, ५३० अमूर्तं त. वा. ६३४ अन्यथा ,, ४८४ अरोगाः न्या. सु. १०८ अन्येऽपि ,, ५९२ अम्लेच्छ ,, ५५८ अन्ये ,, ६२८ अर्थबोधानपेक्षा न्या. सु. ६०० अन्येऽपि ,, ५९२ अर्थसत्यं त. वा. ५७३ अन्योऽप्य ,, ५०९ अर्थवत्त्वं ,, ५२४ अपत्य न्या. सु. ३८६ अर्थवाद् ,, ४२३ अपशब्दा त. वा. ५०७ अर्थभेदे त. वा. ६७७ अपभ्रंशेषु त. वा. ५९० अर्थेन ,, ५३० अपभ्रंशा ,, ५७३ अलौकिके ,, ६७७ अपराघस्य ,, ५७३ अविभक्ता ,, ५०८ अपर्याय ,, ६२८ अविरोधे ,, २८३ अपि ,, ४८७ अविद्वांसः न्या. सु. ५६१ अपि ,, ४५७ अविज्ञातार्थं त. वा. ६७८ अपि वा ,, ६३५ अविप्लुतश्च ,, ४१८

मीमांसादर्शनस्थश्लोकानां सूची ७२३ अविरोधे ,, २८५ आचार्य " ४५६ अविरोधेऽपि ,, २८६ आज्ञादिस्तु न्या. सु. ६१ अविनष्टे " ५७३ आत्मा ,१ ६०१ अशक्तेन " ५१२ आत्मेऽङ्गत्व त. वा. १९६ अशाब्दं " ६७८ आदितश्च , ५८८ अशास्त्र " ५३१ आदिमत्त्वाच्च " ५११ अश्वकर्णा " ५२८ आदिमात्रमपि , ४६९ अश्वबालादि " ६७८ आद्यं सूत्रद्वयं " ४८३ अश्वारूढाः " ५१५ आद्ये प्रपाठके " २९१ अष्टमे न्या. सु. ६९० आनन्दा न्या. सु. ९ अष्टाङ्गुल " ३११ आपद्धर्मा त. वा. ३२४ .अष्टौपक्ष्य त. वा. ६८०' आर्यावर्ते " ४३४ असता " ६७८ आर्याश्च " ४३४ असंभावित " ५९५ आर्या " ४१९ असन्देह " ५२८ आयुर्वेदं " ५१७ असाधु " ४६८ आर्थे " ६९७ असावित्य " १९६ आर्षे " ४५६ अस्त्यर्थ " ६३० आविर्भाव न्या. सु. ६४६ अस्मदीय ': ४६८ आशिष्य त. वा. ५३० अस्तिक्षीरा " ६३१ आश्रयाणां " ४३६ अस्तु वा " ४९८ आश्रयी येन " ७०१ अस्तित्व " ६३१ आह " ३७० अहृत्वा " ३७० इ आ इच्छात्व न्या. सु. ६४ इतश्च त. वा. ३२० आकाशे त. वा. ५२८ इतरेण गतेन " २८५ आकृति " ६३५ इतिहास " ४७५ आकृते " ६७६ इतिहासपुराणं " ६११ आख्यात " ६७४ इत्थं च " २९१ आख्याहि " ४९६ इद्रुगेवं " ४५८ आगमो वेद " ५२० इदं च " ३६८ आगमोयस्तु " ५१५ इदं सज्जं न्या. सु. ३८१

७२४ मीमांसादर्शनम् इदानीं त. वा. ४९६ एकमूल्यव्यवस्था ,, २८३ इन्द्र न्या. सु. २३० एकरात्रे ,, ३२३ इयत्ता त. वा. ३५७ एकशब्द ,, ४०४ इयं ,, ६७५ एकशक्त्य ,, ५८२ इह ,, ४९४ एकशो. ,, ४७० इह त्वल्पेन ,, ३१३ एकस्य च यदा ,, ५९५ इह पक्ष ,, ७०३ एकस्य वा ,, २८८ इह षट् ,, ३३९ एकान्तिकं ,, ५२८ इहैका ,, ४६७ एकाहाच्छु ,, ३३३ उ एतत्सर्वं न्या. सु. ६४ उक्तमर्थं त. वा. ४५९ एतदेव त. वा. ३५८ उच्यते ,, ६३३ एतत् ,, ६२३ उत त्व न्या. सु. ५६३ एतदेवा न्या. सु. ३९५ उत्पाद त. वा. ५१८ एत एव त. वा. ३३० उत्ताने ,, ६७९ एत एव ,, २८७ उपनीय ,, ४७६ एतच्चिन्ता ,, ६७६ उपपन्नतरं ,, ३२० एतावत् ,, ५१८ उपकुर्वाण ,, ३२६ एते ,, ६२६ उपमानं न्या. सु. २५० एतेन ,, ४५७ उभयोरप्रमाणत्वं त. वा. २८८ एतेन ,, ३६५ उमानन्द न्या. सु. ९ एवं सत्येव ,, ६२५ ऊहार्थं त. वा. ५१८ एवं हिरण्य ,, ६२५ एव च ,, ४२२ ऋ एवं प्रतिपत्त्येव ,, २८८ ऋतु न्या. सु. ३८६ एवं ,, ६७६ ऋत्विग्भ्यो त. वा. २८४ एवं प्राक् ,, ३२३ एवं च विद्वद्वचनाद् ,, ३६६ ए एवं सति व्यवस्थान् ,, ५७३ एकत्व त. वा. ६२४ एवं नानोप ,, ४३३ एकत्वे ,, ६७७ एवं शब्द स्वरूपस्य ,, ६२७ एकत्वेऽपि ,, ६७७ एवं साधुत्व ,, ५३० एकं विनाऽप्य ,, ३२४ एवं प्रत्येक ,, ५२७

मीमांसादर्शनस्थश्लोकानां सूची ७२५ एवं च ,, ४५७ कल्पकारा ,, ४७६ एवं व्यवस्थितान् ,, ४८४ कल्पसूत्र स्मृति ,, ५१३ एवं सर्व वदार्थनान् ,, ६३४ कल्पसूत्राण्यु ,, ४५३ एवं चावेद ,, ५१० कल्पादान ,, ४७५ एवं समस्त ,, ४७१ कस्येष्टमित्य न्या. सु. ६३ एवं तु न्या. सु. ६३ कःयच्चिज्जायते त. वा. ३६३ एवं राजन्य त. वा. ५२२ कः पुनः ,, ६७४ एवं हिरण्य ,, ६५८ का गतिः ,, ४५५ एवमादिषु ,, ४२३ कामं न ,, ४५५ एवंचे ,, ४८३ कार्मी न च क्रिया न्या. सु. ६२ एते चा ,, ६२७ कार्यं च वेदे न्या. सु. ७२ एष जायेत ,, २८७ कार्यंलिङादिवाच्यं ,, ६२ एपेत्यपि ,, ४६८ कार्य सामर्थ्यं त. वा. ६३३ ऐक्ष्व्यौ ,, ४२२ कालसम्बंधतो ,, ६३ कालान्तरेऽपि त. वा. २९२ क कालोह्यं ,, ३५८ कक्षा त. वा. ५१७ कालेयत्ता ,, ३५८ कठमेत्रा ,, ३२१ काल्प ,, ४३६ कथं ,, ३४७ कालोऽपि ,, ३५८ कथं वा ,, २९४ का वा ,, ३४५ कथं नामे ,, ५१३ का वा धर्मक्रिया ,, २८४ कथं लक्षण ,, ६७५ काव्यशोभा ,, ५१८ कदाचित् ,, २८२ किंमाकृतेः ,, ६८० कन्यकानां ,, ३६४ किमालोच्य ,, ४६९ करणानामा न्या. सु. १९६ किंकर्त्तव्यम् ,, २८९ कर्त्तव्यत्वा न्या. सु. ६३ किं च ,, ३७४ कर्मकाले त. वा. १९६ किं च देव त. वा. ४७० कर्मणा ब्राह्मण ,, ४५७ किं च कर्मणा ,, १२४ कर्मणा येन ,, ३२५ किंजातिरेव ,, ६८० कर्म ,, ५२८ किं तावद् ,, ४८३ कर्मभ्य सा ,, ४७५ किंतु ,, २९० कर्तृ ,, ४७१ किं तावत् ,, २८२ कलिकलुष ,, ३२९ किं च भ्रान्त्या ,, २८३

७२६ मीमांसादर्शनम् किं वा ,, ४५३ गावी त. वा. ५३० किं युक्तम् ,, ३४८ गुहा न्या. सु. ५६१ किं लोक ,, ६१३ गोत्वस्य त. वा. ६६१ कुतः ,, ६३३ गोत्वा ,, ६३२ कुमारी न्या. सु. ३८६ गोड़ी ,, ३६८ कुर्यादि त. वा, ४८९ गीर्णं ,, ४२४ कुशवेष्ट न त. वा. ३२२ गौर्ना ,, ६३० कुशलो ,, ५२२ गौरित्येव ,, ६७४ केचिद् ,, ५८७ ग्रन्थान्तरे ,, १९१ के शिष्टा ,, ३६२ ग्रस्तं ,, ५७४ को मूढो ,, ४७० ग्रहणो ,, ५२१ कोहि ,, ५२२ च क्रत्वर्थात् ,, ५९३ चतुर्विधेः त. वा. ६७४ क्रत्वर्थं ,, ५९२ चत्वारि न्या. सु. ५६३ क्रियायां ,, ६३ चत्वारि ,, २२६ क्रियातिरिक्त न्या. सु. ६२ चत्वारि भा. प्र. २२६ क्रीतराजक त. वा. ३२२ चत्वारि न्या. सु. ५६२ क्रुद्धो ,, ५९४ चिरेणापि त. वा. २८५ कृता ,, ४५८ चोदना लक्षणे ,, ४५८ कृतर्वैक ,, २९६ चोदितं ,, ४३५ कृत्यात्मभावना न्या. सु. ६३ चोदितं वा ,, ४३५ क्लेशप्रायं त. वा. ३२३ ज क्वचित् ,, ३२० जीवनात्थ त. वा. ३३७ क्वचित् ,, ४२१ जातिकारक ,, ६८० क्वचिद्दत्तं ,, १८४ जातिव्यक्ति ,, ६८० क्षुते न्या. सु. ३७७ जातिव्यक्तिवि ,, ६८० ग जात्युत्कर्षो न्या. सु. २७ गत्रादिषु त. वा. ५२७ ज्ञाता त. वा. ४०५ गर्दभः न्या. सु. ६०१ त गवया त. वा. ५३० तच्चातिशय त. वा. ३५२ गवये न्या. सु. ५६८ तञ्च ,, ४७३

मीमांसादर्शनस्थश्लोकानां सूची ७२७ ततश्च ,, ३२२ तत्र शब्दः न्या. सु. ६१ ततश्च तुल्य ,, ३२७ तत्र प्रवृत्ति ,, ६१ ततश्च निगमा ,, ४३४ तत्र प्रयोग त. वा. ६९२ ततश्च पौरुषेय ,, ४६७ तत्र दीर्घाविधि ,, ३२४ ततश्च प्रागवस्था , ४७१ तत्र यद्यपि ,, २९५ ततश्च त्वत्प्रयुक्तो ,, ५७४ तत्र स्पर्शनस्य ,, २९६ ततश्च पूर्वविज्ञानं ,, २९१ तत्रान्यतः ,, २९६ ततश्च वेद ,, ४५५ तत्राऽऽह ,, ४०४ ततश्चा ,, ५०७ तत्रापि वेदमूल ,, ३२१ तच्छासत्य ,, ४६९ तत्रापूर्वस्य न्या. सु. ६२ ततः साधनं न्या. सु. ६३ तत्रापि त. वा. ५२४ ततस्त्वदु त. वा. २९० तत्रैक ,, ४९१ ततोऽर्थ ,, २८९ तत्रैवं ,, ३२६ ततो ,, १९६ तथाऽयं ,, ४२२ तत्तथैवानुमन्तव्यं ,, २८४ तथाऽति ,, ३६१ तत्तथैव ,, ४३५ तथाऽपि ,, ४७५ तत्तर्थवा ,, ३४५ तथाऽपि न्याय ,, ४१९ तत्तु नैवं ,, ६२९ तथावीतय ,, ४७० तत्तु कक्ष्या ,, ६३० तथा व्याकरणा ,, ५९६ तत्त्वावबोधः ,, १२२ तथाऽव ,, ४५७ तत्त्वा ,, ५२१ तथा वा ,, ३६६ तत्संपर्कं ,, ३६६ तथा काष्ठ ,, २९४ तत्प्रत्यक्ष ,, २८५ तथा बहिर ,, ५९४ तत्साम ,, ५८७ तथा तद् ,, २८७ तत्र ,, ४२३ तथा वेद ,, ५२२ तत्र शाक्यैः ,, ४६८ तथा च ,, ३२४ तत्र नोत्सर्गं ,, २८६ तथा च तद्धि ,, २९४ तत्र प्रयोक्तृ ,, ४३३ तथा श्रुति ,, २९६ तत्र यः ,, ३६५ तथेहापि फला ,, ४८८ तत्र किं ,, ४१९ तथेहापि ,, २९३ तत्र किं तुल्य ,, ४२२ तथैव ,, ४५८ तत्र यस्य ,, ४२० तन्नास्या न्या. सु. ६१

७२८ मीमांसादर्शनम् तन्मन्त्रे त. वा. ४७२ तस्माद्य न्या. सु. १६३ तपो न्या. सु. ३७७ तस्मात्ता त. वा. ४५४ तयोर्विशेषं भा. वि. ८८ तस्माद्यान्येव ,, ३६१ तदन्ता त. वा. २९६ तस्माद्यथैव ,, ४३६ तदन्यगतित्वेन ,, २८८ तस्मादनियम ,, ५२८ तदर्थंपरयातां ,, १९६ तस्मात्कारण ,, २९३ तदर्थविषये ,, २८५ तस्माद् दृष्ट ,, ५७४ तदा का ,, ३२२ तस्मान्यदु त. वा. ४१९ तदा किं नाम ,, २८४ तस्माद्धर्षं ,, ४५८ तदा तन्म ,, ३२२ तस्मादा ,, ३५९ तदा नान्यौ ,, ४१९ तस्मादु ,, ४२३ तद्यथा ,, ३६५ तस्माल्लोक ,, ३४५ तद्यस्या ,, ३५७ तस्माल्लोकाय ,, २८४ तद्यद्यवैदिकं ,, २८४ तस्माद्वि ,, ५५६ तद्युक्तं ,, ६७८ तस्मान्न ,, ५८६ तद्व्यापारा न्या. सु. ६१ तस्मै ,, ५८९ तद्रूपत्वात् ,, ६२ तस्य द्वाविंश न्या. सु. ६०१ तदसत्यं त. वा. ६७८ तस्यापि त. वा. ४३३ तयोर्था ,, ६७४ तस्य वीरस्य न्या. सु. ३८१ तयोः शीघ्रण ,, २८५ तस्याश्चकर्म ,, ६३ तर्केण ,, ५८८ तस्याश्च सर्वं त. वा. ४०५ तस्माच्छ ,, ३७५ तस्य स्यात् ,, २८५ तस्माच्छा ,, ४२४ तस्य ह्यर्थप्रती न्या. सु. ६१ तस्मात् ,, ५८२ तादृशं त. वा. ४३५ तस्मात्कर्म ,, ४५७ तान्यमूलं ,, २८५ तस्मादपि ,, ४७६ ताल्वादि ,, ५२९ तस्माद्यथा ,, २८३ .तावल्ल ,, ४२१ तस्मात्सर्वत्र ,, २८६ तावेव ,, ६७८ तस्मात्पील्वा ,, ४२० तासामपि ,, ४५४ तस्मात्पर्याय ,, ५३१ तिर्यंग्यवोदराण्य न्या. सु. २७५ तस्माद्धर्मप्रयोगस्य ,, ४५९ तुल्यं त. वा. ५०३ तस्मात्प्रीतेरु ,, ५१८ तुल्यकक्ष ,, २८७ तस्मानम्लेच्छ ,, ४३४ ते कल्पा ,, ४५४

मीमांसादर्शनस्थश्लोकानां सूची ७२९ ते च सर्वे ,, ६८० तेनैषां ,, ४५८ ते चान्यत्रापि ,, ६२९ तेनैकत्र ,, २९६ तेन तद्वचन ,, ४०४ तेनोहे ,, ५१९ तेन द्वचन्त ,, ४२१ तेभ्यश्चेतप्रसरो ,, २८४ तेन प्रयोग ,, ४५९ तेषां ,, ३६० तेन तान्येव ,, ४५८ तेषां विपरि न्या. सु. ४०२ तेन तद्वाक्य ,, ३६१ तैरप्य त. वा. ४०५ तेन तेष्वप्य ,, ४७२ त्रयीमार्गस्य ,, ३२९ तेन यद्यपि ,, ३२८ त्रिधैव ,, ४८७ तेन प्रयोगशास्त्रत्वं ,, ४५८ त्रिवृच्च ,, ४२२ तेन प्रतीत ,, ६७७ त्रिवृच्छब्दः ,, ४२४ तेन तत्सर्वदा ,, २८६ त्रिश्रुतौ न्या. सु. ६०१ तेन प्रत्यक्षा ,, ३२९ तृष्णाच्छेदो त. वा. २८६ तेन नैव ,, ३२७ तृतीया न्या. सु. ५५८ तेन सर्वैभाषित ,, ५३० तृतीयो त. वा. ५९२ तेन यस्य ,, २८८ त्यक्तलज्जं ,, ४६८ तेन लोके ,, ६२४ तेन शब्दार्थ ,, ६२४ द तेन त्रयी ,, ५९४ ददातु त. वा. २८४ तेनाऽऽसां ,, २८३ दन्तै ,, ३६६ तेनात्र यदि ,, ३२७ दन्तजाते ,, ३३४ तेनाऽऽसां यदि ,, २८३ दन्तजातानु ,, ३२४ तेनाऽपूर्वा ,, ६३३ दशाहां ,, ३३३ तेनाऽऽचार ,, ४२२ दर्शितेष्वपि ,, ६२७ तेनात्मनि न्या. सु. ६२ देवत्वं ,, ४६९ ते नाना त. वा. ५२८ देवदत्ता ,, ५७३ तेना ,, ५२४ देवब्राह्मण ,, ३६५ तेनानेकप्र ,, ५८२ देशधर्मानु ,, ४८३ तेनार्थं ,, ३२१ देशश्च ,, ४९६ तेनेष्टसाध न्या. सु. ६४ दुष्टकारण ,, ३६३ तेनाभिधान ,, ६१ दुष्टः न्या. सु. ५५९ तेनर्ते त. वा. ३२४ दुष्टार्थ त. वा. ४६९

७३० मीमांसादर्शनम् दुष्टार्थेषु ” ५२८ न च लोके ” ५२३ दूरात् ” ५९२ न च सर्वत्रसिद्धत्वे ” ६२५ दीक्षितान्नम ” ३२५ न च शब्दार्थ ” ४६८ द्रव्यादीनां ” ६२८ न च शीघ्र ” २८९ द्राह्यायणीय ” ४५४ न च सर्वा ” ६५८ द्रौप न्या. सु. ३८७ त च शब्दप्रयोगा ” ५३१ द्वित्रेष्व त. वा. ४३४ न च व्याकरण ” ५१२ दृश्यमाना ” ३७४ न च स्मृति ” ३७४ दृष्टे ” ५९२ न च स्वरूप न्या. सु. ६१ दृष्टमाचरणं ” ४९३ न च वर्णा त. वा. २९५ द्वाभ्यां ” ३५१ न च व्याकरणो ” ५२४ द्वितीयेन ” २९० न च लक्षण ” ५१८ ध न च तां ” ५२७ धर्म त. वा. ४६८ न च शाखान्तरो ” ३३० धर्मश्च ” ३२५ न च स्थल ” ५२९ धर्मत्वेन ” ३६३ न च स्मृत्य ” ५१९ धर्मत्वंयच्च ” ५११ न च पुंवचनं ” ४७६ धर्मंप्रति ” २६६ न च प्रमेय ” ३५८ धर्मबुद्ध्या ” ३७३ न च तेषां ” ३६३ धर्मशास्त्रपदं ” ४५७ न च ज्ञान ” ५९७ धर्मश्च ” ५११ न च वेदाङ्ग ” ५२० धर्मसाधन ” ५९५ न च भिन्न ” ६७९ धर्मा ” ५७३ न च विज्ञायते ” २४९ धर्मे ” ४३४ न च व्याकरणं ” ५२१ धर्माय ” ५९६ न चा ध्यारोप्य ” २९६ धातुभ्यः ” ५२२ न चा गृहीत ” ५२३ धर्मावुच्चारण ” ६७९ न चा धिको ” ५९५ ध्वनि ” ५०७ न चा नुदिति ” ३२३ ध्वल्पं ” ४६० न चायमपि ” ३२३ ध्यायतेरेव ” ५२० न चार्थ ” ४३७ न न चारय ” ३७२ न च शाखान्त त. वा. ३३० न चाल्प ” ४०५

मीमांसादर्शनस्थश्लोकानां सूची ७३१ न चावान्तर ,, ६२९ नवाऽऽनु न्या. सु. २४९ न चास्य न्या. सु. ६१ न वाऽऽगमने ,, २४९ न चैतस्मान त. वा. ६२७ न वा त. वा. ५०९ न चेदं ,, ५०९ न वैतच्छ ,, ३६० न चैभि ,, ४५८ न शास्त्र ,, ३७४ न चैषा ,, ५९८ न शास्त्रपरिमाण ,, ३५१ न ञ् न्या. सु. ३९५ न संस्थानं ,, ६२८ न जात्या त. वा. ४६९ न सिद्धम ,, ४३३ न तावद् ,, ५२७ न हि गोत्व ,, ६६१ न ताभ्यामति न्या. सु. ६३ न हि शास्त्र ,, ५०९ न तावत् त. वा. ५१० न हि केचित्स ,, ३७३ न तावदनृषिः ,, ४५५ न हि प्रमादपाठत्वं ,, २९५ न तु स्मृतेः त. वा. २९० न हि तत्रैकरूपत्वे ,, २८९ न तोयं ,, २८६ न हि हस्तिनि ,, २८५ न त्वा ,, ३७४ न हि व्याकरणादीनां ,, ५१० नत्वत्रो ,, ४८७ न हि दृशो ,, ३७४ न त्वर्था ,, ६३२ न ह्येतद्यजमानस्य ,, ३२३ ननु पुंलिङ्ग ,, ३७० नाना ,, ४१९ ननु शास्त्रार्थं ,, ३६४ नान्यत्वं ,, ६७९ ननु ,, ५९१ नादो न्या. सु. ६०१ ननु चाशौच ,, ३२३ नाम च त. वा. ५८१ ननु च ,, २९१ नामान्तरे ,, ५८१ ननु श्रुत्य ,, २९२ नामाख्यातपदे ,, ६७५ ननु चाऽऽकति ,, ६७५ नावान्तर न्या. सु. २०७ ननु गौरिति ,, ६७६ निरुक्तादेश्च त. वा. ४३६ न मांसभक्षणे ,, ३२५ निरुक्तव्या ,, ४३४ नन्वमेध्येन ,, २९४ निरुक्तव्याक्रि ,, ४३३ नन्वेवमपि ,, ७०० निरुक्तव्याक्रियाद्वारा ,, ४३३ न पश्चाच्छ ,, २९० नित्यं ,, ६३४ न प्रधानपदं ,, ५१० नित्यत्वे ,, ४७४ न प्रयोगा ,, ४२० नित्यनैमित्तिकै न्या. सु. ६१५ न वर्धयेत्तथाहानि ,, ३२४ नित्यमेवा त. वा. ३५८ नियमार्थं ,, २८८

७३२ मीमांसादर्शनम् नियमः ,, ५९१ पश्चमेन ,, ४७४ नियोगेन ,, ६२६ पठ्यमान ,, २९२ नियोज्यश्च न्या. सु. ६२ पदात् ,, ६२७ निराकाङ्क्ष ,, ५१६ पदार्था ,, ४३५ निराकरण ,, ६८० पत्रोर्ण ,, ४३६ निराधारत्व ,, २८५ पदार्थत्वेन ,, ३५८ निर्गतेष्वपि ,, ४९६ परत्रा ,, ५९४ निर्ज्ञाते ,, ५८७ परस्पर ,, ०९५ निर्वोढव्येह ,, २८४ परस्परविरुद्धत्वं ,, २८३ नेयम ,, ६२१ परस्परेण ,, ५१० नेष्टिक ,, ३२६ परस्परविरुद्धे ,, २९५ नैकस्मादपि न्या. सु. ६१४ परलोक ,, ३२९ नैतद्युक्तं ,, ६२ पराधीन ,, २८७ नैतदेव त. वा. ३७२ परोऽवधिः ,, ३२५ नैतदेवं ,, ४२३ परिमाणमपि ,, ३५८ नैतेषां ,, ४५५ परिनिष्ठित ,, ३२७ नैतत्तुल्य ,, ४९४ परिशब्दोऽपि ,, ३२२ नैराकाङ्क्ष्यात् ,, २८५ परेण ,, ४६७ नैव ,, ३६४ पशुहिंसा ,, ३६३ नैव तावच्छ्रुति ,, ३६४ पापक्षयो ,, ३२३ नैव व्रीहिभिरिष्टं ,, २८८ पारतन्त्र्या न्या. सु. २४८ नैव तावच्छ्रुतिस्मृत्योः,, ३५७ पाश्चात्य ,, ३२६ नैव म्लेच्छ ,, ५९३ पाषण्डिनां ,, ३४३ नैवा ,, ६३२ पिकादिशब्द ,, ४३५ नैवो ,, ४१९ पुनर्जात्या त. वा. ६२६ नैष न्या. सु. ३८७ पुनर्वायु ,, ६२८ नोपादेय त. वा. ३७२ पुराणन्याय न्या. सु. ३७९ न्यूना ,, ४३४ पुराणन्याय ,, ४०१ पुराणं ,, ३०० प पुराणं त. वा. ५९५ पक्ता ,, ५१० पुरुषा ,, ५०३ पक्षो योऽङ्गीकृतो त. वा. २८४ पुरुषस्य ,, २९४

मीमांसादर्शनस्थश्लोकानां सूची ७३३ पुरुषान्तर ,, २९२ प्रथमं न्या. सु. ५५८ पुंस्त्वद्व् ,, ६२८ प्रदानानि त. वा. ३६४ पूर्वप्राप्तौ ,, २९१ प्रदेशान्तर ,, ५१५ पूर्वसामान्य ,, ६८४ प्रपाठ ,, ४६९ पूर्वपक्षेऽपि ,, ६८० प्रमाण ,, ४१८ पूर्वविज्ञान न्या. सु. २४९ प्रमाणं ,, ५९५ पूर्वोक्तेनैव त. वा. २९४ प्रमाणत्वं ,, २८७ पूर्वोक्तेन ,, ५२१ प्रमाणपदवीं ,, २८७ पूर्वोक्तेनैव " ६७८ प्रमादमेव ,, ५९१ प्रकृति ,, ५८७ प्रमाणत्वा ,, २९३ प्रकृते त. वा. ६७६ प्रभुः ,, ३१५ प्रणमामि भा. वि. ४ प्रवृ ,, ३२४ प्रतिकञ्चुक त. वा. ३६० प्रयाजादि ,, १९६ प्रतिमन्व ,, ३६० प्रयोगस्य ,, ६७५ प्रतिभान्त्यः न्या. सु. २६९ प्रयोगान्तरकाले ,, २८७ प्रतिज्ञा ,, ३१३ प्रयोजनं ,, ६२३ प्रतिज्ञां त. वा. ३६१ प्रयोग ,, ६२४ प्रवर्त्तकं न्या. सु. ६३ प्रवर्त्तेऽहमिति न्या. सु. १०५ प्रतिष्ठित ,, ४२१ प्रवर्त्तको ,, ६० प्रतिपत्ता ,, ५८२ प्रविप्रक्ता त. वा. ६२९ प्रतिषेधो ,, ३७२ प्रवृत्तेरात्म न्या. सु. ६२ प्रतिसिद्धा ,, ३२६ प्रसरं न त. वा. २८४ प्रद्वेषा ,, ४६७ प्रसिद्ध ,, ५९४ प्रत्यय त. वा. ४२१ प्रसिद्धो ,, ४३६ प्रत्यक्ष ,, ६२५ प्राक् ,, ३२२ प्रत्यक्ष ,, ६७९ प्रागुङ् ,, ५०२ प्रत्यक्ष त. वा. ४५४ प्राग्देशो ,, ५०३ प्रत्यक्षमनुमानं न्या. सु. २६८ प्राच्या ,, ४८३ प्रत्ययेन ,, ६३ प्राच्येषु ,, ४०६ प्रत्यक्षानुपलब्धे ,, २४९ प्राति ,, ५२० प्रत्ययस्थापि ,, ६७४ प्रामाणम्यते ,, २९५ प्रत्ययार्थस्या ,, ७६४ प्राप्तेषु ,, ३५८ प्रोक्षणं ,, ६७६