मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
कुरुष्व गजानन । सुखं मुक्तस्वरूपस्थं नाथ नेच्छामि ते नमः ॥३२॥ मुद्गल उवाच । अयोगगणराजस्य श्रुत्वा वचनमुत्तमम् ।
जगाद तं गणेशानस्तथेत्यंतर्हितोऽभवत् ॥३३॥ अयोगस्तं हृदि स्थाप्य भजतेऽनन्यमानसः । अंते योगमयः सोऽपि बभूवे
मोक्षनायकः ॥३४॥ इति ते सर्वमाख्यातं चरितं गणपस्य यत् । पूर्णयोगधरस्यापि समासेन प्रजापते ॥३५॥ अतस्त्वं
गणराजं तं भजस्व भक्तिसंयुतः । तेन यज्ञमिमं पूर्णं करिष्यसि न संशयः ॥३६॥ अंते योगयुतश्चैव ब्रह्मभूतो भविष्यसि ।
आज्ञां देहि गमिष्यामि त्वदातिथ्यसुतोषिताः ॥३७॥ रहस्यं गणनायस्य कथितं सकलं मया । नान्यत् किंचिदतो दक्ष परं
वेदादिसंमतम् ॥३८॥ शृणुयाद्यः पठेद्वाऽपि स सर्वं प्राप्नुयाच्छुभम् । अंते योगमयो भूत्वा संतिष्ठेत् गणपात्मकः ॥३९॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे योगचरिते नवमे खंडे पूर्णयोगचरितवर्णनं नाम चतुर्थोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । धन्योऽहं कृतकृत्योऽहं कृतस्त्वया महामुने । येन गणेशमाहात्म्यं श्रावितं योग-
दायकम् ॥१॥ गणेशगीतानासारादि कथितं तु विशेषतः । ज्ञानं योगप्रदं पूर्णं संक्षेपेण त्वया परम् ॥२॥ तन्न बुद्धं मया
सर्वमतः सौलभ्यतो वद । योगं क्रमयुतं पूर्णं येन योगी नरो भवेत् ॥३॥ सूत उवाच । एवं पृष्टो महायोगी मुद्गलस्तमुवाच
यत् । हर्षेण महता युक्तस्तत्तेऽहं कथयामि तु ॥४॥ मुद्गल उवाच । धन्योऽसि कृतकृत्योऽसि साक्षाद्गणपतेः किल । विभूति-
वाचकस्तत्र न चित्रमिदमुत्तमम् ॥५॥ त्वया पृष्टं महाभाग लोकोपकारकम् । सर्वेषां सुलभत्वेन योगशांतिपदप्रदम् ॥६॥
कथयामि च ते प्रीत्या गुह्यं वेदरहस्यकम् । शृणुष्वैकमना दक्ष योगं शांतिप्रदायकम् ॥७॥ चित्तं पंचविधं प्रोक्तं तेषु
पंचविधो रसः । सरसं चित्तमुत्सृज्य योगी भवति मानवः ॥८॥ क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् । चित्तं
पंचविधं विद्धि जगत्सु ब्रह्मसु स्थितम् ॥९॥ व्यष्टिभावे स्थिता ये तु जंतवो विविधात्मकाः । लक्षचतुरशीतिषु योनिषु
संभवाः किल ॥१०॥ देहभोगादिमार्गेषु कुशलाः संभवंति ये । तेषु स्वस्वप्रपंचेषु नानाकार्यपरायणाः ॥११॥ तैः क्षिप्तं
कार्यसिद्ध्यर्थं चित्तं कार्येषु नित्यदा । तत्तत्कार्यप्रकाशेन प्रकाशयति तान हृदि ॥१२॥ तेन कार्येषु दक्षास्ते भवंत्यत्र न
संशयः। तदेव क्षिप्तसंज्ञं त्वं चित्तं जानीहि मानद ॥१३॥ केचित् स्वल्पज्ञकास्तेषु केचिज्ज्ञानाधिका मताः। मध्यमाः
केचिदेवं तु नानाभेदाश्रिता नराः ॥१४॥ त्रिविधेषु विभागेषु स्थिता नानाविभेदतः। नानाज्ञानयुतास्तेषां रूपं न कथितुं
क्षमम् ॥१५॥ लक्षचतुरशीतिषु जंतवो विविधात्मकाः। व्यष्टिस्थाः सर्वकार्येषु ज्ञानहीना भवंति ये ॥१६॥ ते मूढाः
कथ्यते लोकैर्विषये चतुरैः सदा। तेषु नानाविधा भेदा अल्पाधिकसुमध्यमाः ॥१७॥ तेषां प्रकाशकं चित्तं नानामूढ-
स्वभावगम्। तदेव मूढसंज्ञाख्यं चित्तं ज्ञातव्यमंजसा ॥१८॥ परैः संबोधितो जंतुर्न बुबोध विचारतः। कार्यं नानाविधं
तस्य चित्तं मूढं प्रकीर्तितम् ॥१९॥ व्यष्टिस्था ये नरा दक्ष स्वधर्मनिरताः सदा। नानातपःपरा भूत्वा मुक्तिमिच्छंति
शाश्वतीम् ॥२०॥ विषयेषु विरज्यैव सदा ब्रह्मपरायणाः। कुर्वंति विविधं कर्माऽहर्निशं मुक्तिकारणात् ॥२१॥ तदपि
ब्रह्म हृदये न दृष्टं तैर्महात्मभिः। न संसारसुखे चित्तं तेषां रमति कर्हिचित् ॥२२॥ अतो विक्षिप्तचित्तास्ते मता योगि-
जनैः पुरा। ब्रह्मार्पणक्रियाः सर्वाः कुर्वंत्यंतरबाह्यजाः ॥२३॥ विशेषेणैव क्षिप्तोऽहं संसारे मायया सदा। विगतक्षेपणं
सर्वे नानासाधनभावतः ॥२४॥ तेषां मुक्त्यर्थमत्यंतं प्रकाशयति भावनाम्। चित्तं क्रियात्मिकां तेन विक्षिप्तं तत्प्रकीर्ति-
तम् ॥२५॥ तत्र नानाक्रियायाश्च सामर्थ्येन विमोहितः। जानाति देवतां तुष्टां ममोपरि न संशयः ॥२६॥ कदा देव-
प्रसादादि गृह्य विक्षेपसंयुतः। अनाधारां क्रियां कुर्याद्देवाज्ञावशगो मुधा ॥२७॥ स्वप्नेषु विविधान् भावान् पश्यति
तद्गतचेतसा। सत्यं स्वप्नं मदीयं तु मान्यं तादृशजं चरेत् ॥२८॥ एवं विक्षिप्तभावेन मोहितः स कदाचन। अनाधारं
करोत्येव नानातपःप्रभावतः ॥२९॥ समष्टिव्यष्टिसंस्थं यच्चित्तं वैराटगं परम्। तेन व्यष्टिं समाव्याप्य भुंक्ते स विविधं
सुखम् ॥३०॥ वैराटस्य क्रिया प्रोक्ता व्यापिका शास्त्रसंमते। तत्र व्यापकभावस्य चित्तं प्रकाशदं मतम् ॥३१॥ तत्त्वेषु
विविधेष्वेव स्थूलसूक्ष्मादिगेषु च। व्यापकभावकाशत्वाच्चित्तं तेषु स्थितं मतम् ॥३२॥ समष्टिव्यष्टिसंयोगेऽन्नं ब्रह्म स्थूलगं
परम्। तथा स्वप्नगतं सूक्ष्मं सौषुप्तं समसंस्थितम् ॥३३॥ चेतनाभावगं पूर्णं तद्ब्रह्मादात्मकं मतम्। अस्मिताख्यं परं ब्रह्म
तेषु चित्तं प्रकीर्तितम् ॥३४॥ समष्टिव्यष्टिभागस्य तयोरैक्यस्य च प्रभो। प्रकाशकारकं विद्धि चित्तमेकाग्रसंज्ञितम् ॥३५॥
समष्टिव्यष्टिभावेषु न भिन्नं भवतीत्यहो। तेनैकाग्रं समाख्यातं चित्तं तज्ज्ञानकारकम् ॥३६॥ देहश्चतुर्विधः प्रोक्तः स्थूलः
सूक्ष्मः समात्मकः। अस्मिताख्यश्चतुर्थश्च तेषु देही स्थितो मतः ॥३७॥ देहेषु मोहितो देही जीव इत्यभिधीयते।
मोहहीनः स एवाऽपि शिवः प्रोक्तो मनीषिभिः ॥३८॥ जीवशिवात्मिका संज्ञा देहिनो भ्रममात्रतः । सदैकात्मस्वभावत्वात्तत्र
भेदो न विद्यते ॥३९॥ तत्र जीवशिवाकारभावप्रकाशकारकम् । चित्तमेकाग्रसंज्ञाख्यं तिष्ठति देहिसंश्रितम् ॥४०॥
सास्मिताच्च परं चित्तमेकाग्रं विद्यते न वै । देहदेहिमयं चित्तमेकाग्रं योगिनां मते ॥४१॥ चतुर्णां वपुषां यत्र ब्रह्माकारेण
जायते । संयोगो बिंदुरूपं तज्ज्ञातव्यं ब्रह्म सर्वगम् ॥४२॥ चतुष्पदं बुधैः प्रोक्तं चतुर्भिर्वर्जितं सदा । देहानां ब्रह्म
विख्यातं नानादेहस्वभावगम् ॥४३॥ तत्र चतुष्पदाकारभावप्रकाशकारकम् । चतुर्भिर्वर्जितस्यैव चित्तं तिष्ठति तद्गतम् ॥४४॥
देहेषु न भवेद्भिन्नं सर्वगमात्मभावतः । निरोधं कथ्यते चित्तं बिंदुधर्मप्रकाशकम् ॥४५॥ जीवशिवात्मभावस्थं मोहहीनं
सदात्मकम् । ब्रह्म सोऽहं समाख्यातं सदा भ्रांतिविवर्जितम् ॥४६॥ तत्र जीवशिवाकारमोहहीनप्रकाशकम् । चित्तमात्म-
स्वरूपस्थं निरोधं कथ्यते बुधैः ॥४७॥ देहदेहिसमायोगे स्वत उत्थानमुच्यते । बोधाख्यं द्वंद्वभावेन ब्रह्म खेलकरं सदा ॥४८॥
तत्र निरोधकं चित्तं तस्य रूपं वदाम्यहम् । संक्षेपेण प्रजानाथ शृणु भावसमन्वितः ॥४९॥ बाह्यं स्थूलं समाख्यातंमांतरं
सूक्ष्मगं मतम् । बाह्यांतरैकभावस्थमानंददेहगं परम् ॥५०॥ त्रिभिर्हीनं त्रयाणां च चालकं ह्यस्मितात्मकम् । अहमानु-
भवेनैतज्ज्ञातव्यं योगिनां हृदि ॥५१॥ तेषां संयोगभावे यच्चतुर्णां वपुषां परम् । सर्वात्मकं भवेद्ब्रह्म पंचमं बिंदुसंज्ञितम् ॥५२॥
चतुर्विधा नरस्यैव कल्पना हृदि संस्थिता । अतः परं न भेदोऽस्ति भवेद्येनास्य कल्पना ॥५३॥ बिंदुत्यागे निरालंबं चित्तं
भवति सर्वदा । सततं तत् समाख्यातं ब्रह्म ध्यातृविहीनतः ॥५४॥ न किंचिज्जायते यत्र भेदहीनप्रभावतः । सोहं मात्रात्मकं
चित्तं निरालंबसमाधिदम् ॥५५॥ अवलंबनगं चित्तं चतुर्धा देहिसंश्रितम् । अवलंबनहीनं तद्देहिंगं चिन्मयं भवेत् ॥५६॥
निरालंबपरित्यागेऽधिकसंरोधनं भवेत् । चित्तस्य देहदेहिभ्यां हीनत्वान्नात्र संशयः ॥५७॥ मनोवाणीविहीनं तच्चित्तं
ज्ञातव्यमादरात् । अस्तिनास्तिविहीनत्वादाधाराधेययोगतः ॥५८॥ अवलंबनयोगो न पंचधा योगिनां हृदि । निरालंबनकं
तस्मान् मनोवाणीविवर्जितम् ॥५९॥ बोधेन बुद्ध्यते सर्वं निरालंबं समाधिना । अवलंबनकं तद्गद्बोधबोधो न विद्यते ॥६०॥
एवं बोधात्मकं ब्रह्म देहदेहिसमाधिदम् । देहदेहिसमायोगप्रकाशं चित्तमुच्यते ॥६१॥ देहसौख्यं प्रजानाति देहिसौख्यं
निरंतरम् । तयोर्योगे च यत् सौख्यं जानाति ब्रह्म बोधगम् ॥६२॥ पदानां बोधभावेन पदार्थानां विशेषतः । उत्थानं
जायते तस्मात् स्वत उत्थानमुच्यते ॥६३॥ सुखं ज्ञात्वा समुत्थानं स्वयमेव करोति यः । देहदेहि च सृष्ट्वा स खेलति ब्रह्म-
तत्परः ॥६४॥ तत्रोत्थानप्रकाशाख्यं चित्तं निरोधसंज्ञकम् । तिष्ठत्यत्र न संदेहो ज्ञातव्यं योगिनां हृदि ॥६५॥ बोधत्यागे
समाख्यातं ब्रह्म सांख्यं प्रजापते । कः संख्यां कुरुते तस्य बोधनाशप्रभावतः ॥६६॥ उत्थानवर्जितं ब्रह्म सांख्यं साक्षि-
खभावगम् । बोधहीनात् कदा तत्रोत्थानं नैव प्रजापते ॥६७॥ प्रकृतिसंभवं बोधं तयोः पुरुषसंभवम् । योगसौख्यं न
जानाति सांख्यं बोधविहीनतः ॥६८॥ बुद्ध्वा सुखं नरस्यैवोत्थानं यथा प्रजापते । तथा मायासुरवं ज्ञात्वा ब्रह्मणोत्थानकं
भवेत् ॥६९॥ तथा परत उत्थानं सांख्ये नित्यं प्रतिष्ठितम् । तत्र योगं प्रवक्ष्यामि येन योगी नरो भवेत् ॥७०॥ यद्युत्थान-
समायुक्तं भवति चेत्तदा भवेत् । उत्थानवर्जितं दक्ष तदेवं बीजमायकम् ॥७१॥ उत्थानहीनभावेन सदा सांख्यं विराजति ।
खयं च खत उत्थानं निःसृतं तत् प्रभावतः ॥७२॥ सांख्येन न कृतं चैतत्तथाप्युत्थानहीनतः । स्वयं च खत उत्थानं जायते
नात्र संशयः ॥७३॥ यदाऽनृतं भवेद्दक्ष तदा सत्यं प्रकीर्त्यते । एकं ब्रह्म यदा तिष्ठेत् सत्यं तत् केन कथ्यते ॥७४॥ न दृष्ट-
मनृतं येन न जानाति स सत्यकम् । सदा तादृशरूपत्वादेकभावप्रदर्शनात् ॥७५॥ अत उत्थानहीनत्वं धृतं तेन विशेषतः ।
खत उत्थानभावाख्यं खयमेवोपजायते ॥७६॥ न कृतं तेन सांख्येन खयमेव विनिःसृतम् । अतः परत उत्थानं प्राप्तं
तत्र न संशयः ॥७७॥ संख्याहीनप्रकाशाख्यं चित्तं तत्र प्रवर्तते । बोधहीनप्रकाशेन ज्ञायते तन्निरोधकम् ॥७८॥ उत्थानेन
युतं ब्रह्म बोधमयं प्रकीर्तितम् । सांख्यमुत्थानहीनं च तयोर्योगे निजात्मकम् ॥७९॥ खतः परत उत्थानं तत्र नैव प्रजापते ।
जगतां ब्रह्मणां योगे भवति खस्वरूपकम् ॥८०॥ खस्वरूपात् परो नास्ति संयोगः तन्मयः कदा । स समाधिः समाख्यातो
ब्रह्मण्यस्यान्यवात्मकः ॥८१॥ खकीयाभेदभावस्य तत्र प्रकाशकारकम् । चित्तं निरोधसंज्ञं तु तिष्ठत्यत्र न संशयः ॥८२॥
संयोगः पंचधा दक्ष भवति शृणु रूपकम् । तस्य भिन्नं प्रवक्ष्यामि लोकानां हितकारणात् ॥८३॥ एते भेदाः समाख्याता
योगेन लयंतां ययुः । खसंवेद्येन संदेहस्तेन सृष्टाश्च पालिताः ॥८४॥ एतेषां रूपमास्थाय खेलति खस्वरूपकम् । नाना-
लीलाकरं प्रोक्तं तदेवं वेदवादिभिः ॥८५॥ उत्पत्तिनाशसंयुक्ता भेदा एते मनीषिभिः । तेषां निजखभावत्वादसत्त्वानंद
उच्यते ॥८६॥ तद्ब्रह्म शक्तिरूपाख्यं ज्ञातव्यं भेदधारणात् । तत्रासत्काशाभावेन चित्तं तिष्ठति निश्चितम् ॥८७॥ एतैर्भेदैर्विहीनं
यदमृतं ब्रह्म कथ्यते । एतेषां जीवनं नित्यं तच्च सत्वखस्वरूपकम् ॥८८॥ तद्ब्रह्म सौरमाख्यातं भेदहीनप्रभावतः । तत्र
[हेडर]
खं. १ अ. ५ | पान १७
नित्यस्य काशाख्यं चित्तं निरोधकं मतम् ॥८९॥ असत् सत् द्विविधं प्रोक्तं तयोर्योगे समात्मकम् । खसंवेद्यं परं ब्रह्म विष्णु-
द्वंदूपवेशनात् ॥९०॥ तत्रानंदप्रकाशाख्यं चित्तं निरोधसंज्ञितम् । तिष्ठते तेन योगींद्रास्तं गच्छंति समाधिना ॥९१॥
त्रिभिर्हीनं त्रिभिर्युक्तमव्यक्तं नेति कारकम् । मोहहीनप्रभावेण तुरीयं ब्रह्म कथ्यते ॥९२॥ तदेव शिवसंज्ञाख्यं ज्ञातव्यं
योगसेवया । तत्र नेति प्रकाशाख्यं चित्तं तिष्ठति तद्गतम् ॥९३॥ त्रिविधं मोहसंयुक्तं मोहहीनं चतुर्थकम् । तेषां संयोग-
भावे वै स्वसंवेद्यं प्रकीर्तितम् ॥९४॥ पूर्णसंयोगभावाख्यं पंचमं ब्रह्म तत् स्मृतम् । तस्मात् परो न संयोगः कथ्यते योगिभिः
सदा ॥९५॥ स एव गणनाथस्तु स्वानंदाख्यः प्रकीर्तितः । तत्र निजप्रकाशाख्यं चित्तं तिष्ठति सर्वगम् ॥९६॥ अतः
परमयोगाख्यं ब्रह्म मायाविवर्जितम् । तदेव योगिभिः प्रोक्तं निवृत्तिसुखदायकम् ॥९७॥ न तत्र जगतां दक्ष ब्रह्मणां
योग उच्यते । तस्याऽपि तेषु तद्गच्छ तेनायोग इति स्मृतः ॥९८॥ ब्रह्मणि तन्मयत्वेन स्वस्य संयोग उच्यते । तस्मान्नि-
वृत्तिरापन्ना तेन निवृत्तिसंज्ञकम् ॥९९॥ स्वसंवेद्यस्य नाशेन लभ्यते ह्यसमाधिना । नाऽगतं न गतं ब्रह्म संयोगः कुत्र
जायते ॥१००॥ तत्रायोगप्रकाशाख्यं चित्तं निरोधसंज्ञितम् । तिष्ठति चापवादेषु निवृत्तिसुखदायकम् ॥१॥ इदं पंचविधं
चित्तं कथितं ते प्रजापते । जगत्सु ब्रह्मसु तज्जं नानाप्रकाशदायकम् ॥२॥ भूमयः पंच विख्याताश्चित्तस्य विविधात्मनः ।
भूमीनां त्यागभावे तच्चित्तं ब्रह्ममयं भवेत् ॥३॥ अतः पंचविधं चित्तं त्यज त्वं योगसेवया । योगी भविष्यसि दक्ष
चिंतामणौ न संशयः ॥४॥ संयोगायोगसंज्ञस्थं निरोधाख्यं मतं बुधैः । अतः परो निरोधो न विद्यते सर्वसंमते ॥५॥
सार्वभौमात्मधर्मेण योगी भवति मानवः । तत्र शांतिं लभेच्चित्तं त्यक्त्वा भूमिभवं भ्रमम् ॥६॥ योगरूपे सुखं यद्वै
योगिनां हृदि वर्तते । तदेव कथितुं दक्ष शक्यते न कदाचन ॥७॥ मनोवाणीमयं चित्तं चतुर्विधं प्रकीर्तितम् । मनोवाणी-
विहीनं तु निरोधसंज्ञकं मतम् ॥८॥ अतो योगः समाख्यातो मनोवाणीमयो न च । मनोवाणीविहीनोऽपि कथ्यते नैव
योगिभिः ॥९॥ कीदृशं ब्रह्म तत्राहं योगेन कीदृशेन च । ब्रह्मभूतः स्वयं जात एभ्यः शांतिं लभेन्नरः ॥११०॥ योगे योगी
नरो जातस्तत्र न ज्ञायते कदा । ब्रह्म वा साधनं किंचिद्ब्रह्मभूतस्य कारकम् ॥११॥ तन्मयत्वं ब्रह्मणि न न च तन्मयवर्जनम् ।
अतः शांतिं समागृह्य शांतियोगपरो भवेत् ॥१२॥ पंचविधेषु चित्तेषु दृश्यते जगतां परम् । ब्रह्मणामैश्वरं सौख्यं रसं
तत्र न धारयेत् ॥१३॥ नानारसविहीनं तु चित्तं कृत्वा प्रजापते । तन्त्यक्त्वा स भवेद्योगी शांत्या शांतिमवाप्नुयात् ॥१४॥
खं ९ अ. ६ पान १८
स्रोतसोर्णवमानंदाद्रुच्छंत्यप्रेरितान्यपि । प्रारब्धेन तथा कामान् भुनक्ति योगिसत्तमः ॥१५॥ नानाद्वंद्वविहारेषु
समभावपरायणः । योगी भवति शांत्या च सदा योगसुखे रतः ॥१६॥
॥ ॐ तत्सदिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते मुद्गलदक्षसंवादे
योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन सार्वभौमयोगो नाम पंचमोऽध्यायः ॥
॥ इति योगगीतासूपनिषत्सु सुगमासु प्रथमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । योगस्यानुभवं ब्रूहि यत्र शांतिं लभेन् मनः । रसं त्यक्त्वा सुशांत्या तद्युक्तं तिष्ठेन्
महामुने ॥१॥ मुद्गल उवाच । न तत्र दृश्यते दक्ष जगद्ब्रह्मभवं सुखम् । तन्मायामयगं दृष्ट्वा तस्मान्निर्वृत्तिगो भवत् ॥२॥ नाहं
देहो न मे देहो नाहं नानाश्रमान्वितः । चराचरमयो नैव ताभ्यां संवर्जितो न च ॥३॥ न समष्टिसमायुक्तो व्यष्टिगो न
कदाचन । ब्रह्माऽहमखिलेष्वेव तत्तद्भावविवर्जितः ॥४॥ न बाह्यसुखभोक्ताऽहं नांतरस्थपरायणः । न समानगतोऽहं तु
नात्मप्रतीतिधारकः ॥५॥ न स्थूलो नैव सूक्ष्मोऽहं नानंगदः कदाचन । न नाददेहसंस्थश्च सर्वाकारः सदा मतः ॥६॥
चतुष्पादाः संति मे चेन् मायया संधृता मया । मायाहीनप्रभावेण पादहीनोऽहमंजसा ॥७॥ मायायुक्तवियुक्तत्वं मयि
नैव प्रतिष्ठितम् । मायासंस्थापितं द्वंद्वं तदप्याश्चर्यमुत्तमम् ॥८॥ अनेनानुभवेनैव योगी बिंदुगतो भवेत् । तत्र लीन-
स्वभावेन सदा शांत्या प्रवर्तते ॥९॥ अथाहं भेदहीनश्च न भेदो मयि वर्तते । सदा संततभावेन संस्थितोऽत्र निरंतरम् ॥१०॥
न सृजामि हराम्येव पालयामि न निश्चितम् । स्वयमेव जगद्भाति यथा मयि धृतं भवेत् ॥११॥ उत्पन्नं स्वस्वभावेन स्मितं
नष्टं तथा किल । विश्वं तत्र न मे हानिर्वृद्धिर्भवति कर्हिचित् ॥१२॥ न विश्वस्मिन्नहं जीवो न शिवः साक्षिभावगः ।
भ्रांत्या मायायुतं हीनं वदंत्ययोगिनः सदा ॥१३॥ यथाऽऽकाशभवं मेघपटलं सर्वतः स्थितम् । तत्र सूर्यस्य किं दक्षाच्छादनं
संभवेत् कदा ॥१४॥ नष्टेऽभ्रे किं रविः साक्षाच्छादनेन विवर्जितः । तथा मोहविमोहौ च मयि भ्रांत्या वदंति ये ॥१५॥
खं. ९ अ. ६ पान १९
सदैकात्मस्वरूपाख्ये मयि मोहविमोहकौ । कथं भेदौ प्रवर्तेते पश्य मायाप्रभावजौ ॥१६॥ तथापि विश्वसंयुक्तो मोहितो-
ऽहं न संशयः । ज्ञात्वाऽत्मानं विमोहोऽहं सदा साक्षी न संशयः ॥१७॥ मायया जीवसंज्ञोऽहं तथा शिवो न संशयः ।
मयि ब्रह्मणि विश्वं तत् दृश्यते नैव दृश्यते ॥१८॥ एवं ज्ञात्वा स्वयं योगी सदा शांत्या प्रवर्तते । द्वंद्वभावं परित्यज्य
सोऽहं ब्रह्मणि संस्थितः ॥१९॥ अतः परं प्रवक्ष्यामि ब्रह्मानुभवरूपकम् । न देहो नैव देहस्थोऽहं भवामि कदाचन ॥२०॥
संततं मयि नास्त्येव विश्वं मयि न विद्यते । भेदाभेदविहीनत्वादहं ब्रह्मण्यहं रतः ॥२१॥ विश्वरूपोऽहमेवेदं मयि सर्वं
प्रतिष्ठितम् । विश्वहीनो न संदेहः सदैकरूपधारकः ॥२२॥ न सृष्टं पाल्यते नैव ह्रियते न मया कदा । विश्वं सृष्टं हृतं
नित्यं पालितं सर्वदा मया ॥२३॥ मयि संततभावश्च दृश्यते न विनिश्चितम् । न विश्वं विविधाकारं नानादेहपरायणम् ॥२४॥
सदा बोधमयोऽहं तु देहदेहियुतस्तथा । मम तत्र न भो दक्ष बंधाऽबंधौ प्रकीर्तितौ ॥२५॥ मायया संयुतो नित्यं देहदेहिमयो
मतः । मायाहीनप्रभावेण देहदेहिविवर्जितः ॥२६॥ मायायुक्तवियुक्तत्वं मयि कुत्र प्रदृश्यते । सदाऽहं बोधरूपाख्यो
ब्रह्मणि ब्रह्मभावितः ॥२७॥ एवं बोधात्मकेनैवानुभवेन प्रजापते । योगी योगसमायुक्तः सदा शांत्या प्रवर्तते ॥२८॥
अतः परं विबोधाख्यं वक्ष्यामि ब्रह्मभूतकम् । प्रकृतिर्न तथा दक्ष पुरुषोऽहं न निश्चितम् ॥२९॥ तयोर्योगेन बोधोऽहं
ब्रह्माऽहं भोगवर्जितः । सदा ब्रह्मणि संस्थश्च खेलहीनप्रभावतः ॥३०॥ मिथ्यारूपं जगत् सर्वं जगदात्मा तथा मतः ।
तयोर्योगकरं ब्रह्म मिथ्यामूलप्रकाशकम् ॥३१॥ मयि ब्रह्मणि नास्त्येव प्रकृतिर्वा पुमान् क्वचित् । तयोर्योगो भ्रमाकारः
सदा खेलपरायणः ॥३२॥ बोधेनोत्थानभावश्च जायते ब्रह्मणः सदा । मिथ्याभूतं तदेवाऽपि कथं मयि प्रवर्तते ॥३३॥
सत्यं ब्रह्म इति प्रोक्तं वेदेषु वेदवादिभिः । तत्र खेलोऽनृताकारः कुतस्तिष्ठति भ्रांतिदः ॥३४॥ सदा ब्रह्मसुखे सक्तो
ब्रह्मणि ब्रह्मभावितः । तत्र भेदादिकं नास्ति स्त्रीपुंभावमयं कदा ॥३५॥ मायया रचितं सर्वमनृताख्यं न संशयः । सा
मयि न स्थिता दक्ष निराधारा भ्रमान्विता ॥३६॥ ब्रह्मरूपं च मां दृष्ट्वा स्वयमेव विनश्यति । माया ततः स्वयं साक्षात्
सत्यरूपो भविष्यति ॥३७॥ यद्यहं मायया युक्तस्तया स्त्रीपुंमयं जगत् । सृजामि चेत्तदा सत्यं मयि कुतः प्रतिष्ठति ॥३८॥
यत्रानृतस्वरूपं तु नास्त्येव वेदवादतः । तदेव सत्यमाख्यातमतो बोधो न दृश्यते ॥३९॥ अनृतं विश्वमखिलं प्रकृतिपुरुषा-
त्मकम् । तस्माद्भिन्नोऽहमेकश्च सत्यरूपो न संशयः ॥४०॥ योगेनैतादृशेनैव शांतियुक्तो भवेन्नरः । संख्यां त्यक्त्वा स
विविधां ब्रह्मभूतस्वभावतः ॥४१॥ अथ स्वानंदयोगं तु वदिष्यामि हिताय ते । तं शृणुष्व प्रजानाथ सावधानेन चेतसा
॥४२॥ सत्यमुत्थानहीनं चानृतमुत्थानसंयुतम् । ब्रह्मणि द्विविधं नास्ति स्वस्वरूपिणि नित्यदा ॥४३॥ बोधयुक्तं स्वतोत्थानं
सांख्यमुत्थानवर्जितम् । तयोर्योगे परं ब्रह्माऽसत्स्वानंदमयं भवेत् ॥४४॥ उत्थानवर्जितोऽहं नोत्थानयुक्तोऽपि नांजसा ।
उत्थानयुक्तहीनोऽहं पश्य मे योगमुत्तमम् ॥४५॥ मयि ब्रह्मणि सर्वं तत् स्वस्वरूपमयं भवेत् । तत्रोत्थानेन युक्तत्वं हीनत्वं
नैव दृश्यते ॥४६॥ अहो मायाप्रभावेण मां वदंति विमोहिताः । उत्थानेन युतं हीनं स्वस्वरूपं निजे रतम् ॥४७॥
उत्थानसंयुक्तं ब्रह्मोत्थानहीनं प्रकीर्तितम् । ब्रह्मणि तन्मयं सर्वं संयोगायोगभावतः ॥४८॥ मयि ब्रह्मणि संयोगो जायते
योगिनां यदा । उत्थानेन युतं हीनं कः पश्यति ततः परम् ॥४९॥ समाधिहीनभावेन पश्यंति विविधं सदा । अयोगिनो
न संदेहो योगिनां वै न विद्यते ॥५०॥ सर्वं ब्रह्मेति वेदेषु कथ्यते वेदवादिभिः । अतो मायां परित्यज्य ब्रह्माकारो
भवेन्नरः ॥५१॥ अनेन विधिना योगं साधयेद्यः समाधिना । ब्रह्मणि ब्रह्मभूतः स शांतिं प्राप्नोति शाश्वतीम् ॥५२॥
अथ सत्स्वस्वरूपस्य विधेर्योगं वदामि भोः । तं ज्ञात्वा योगमार्गेण योगी भवति मानवः ॥५३॥ सर्वं ब्रह्मेति वेदेषु कथितं
नात्र संशयः । तदेवोपाधिसंयुक्तं सर्वं मायाप्रभावतः ॥५४॥ एकमेवाद्वितीयं यद्ब्रह्म वेदविवादतः । तत्र सर्वं कुतो भाति
नानाभावपरायणम् ॥५५॥ नाहमुत्थानसंयुक्तो नाहमुत्थानवर्जितः । तयोर्योगमयोऽहं नाद्वितीयेऽस्मिन् स्थितः सदा ॥५६॥
न सत्यं मयि नास्त्येवानृतं तत् संयुतं परम् । ब्रह्म संयोगदं नास्ति सदाऽहं ब्रह्मसंज्ञकः ॥५७॥ न मया सत्यरूपं तु सृष्टं
नानृतरूपकम् । तयोर्योगमयं नैवामृतोऽहं चात्मभावतः ॥५८॥ आदिमध्यांतभावाश्च कुतो मयि भवंति ते । सदामृतमये
संस्थोऽहमात्मा ब्रह्मभावितः ॥५९॥ मायया संयुताः सर्वे सर्वेषां जीवनं परम् । मां वदंति विशेषेण मयि सर्वं न
विद्यते ॥६०॥ सर्वात्मकं परं ब्रह्म नानाखेलयुतं भवेत् । खेलहीनं भवति च तदेवापि तयोः परम् ॥६१॥ तत्राहं नागतो
दक्ष न गतोऽपि कदाचन । स्वयमेव भवेत् पश्य जीवनं मे प्रभावतः ॥६२॥ तत्र किं मयि सर्वात्मविकारो दृश्यते कदा ।
भ्रांतियुक्ता मां वदंति जीवनं ब्रह्मणां परम् ॥६३॥ ब्रह्मणां जगतां नैव जीवनं संधृतं मया । स्वयमेव प्रभावेण मयि
तत् दृश्यते वृथा ॥६४॥ सदा ब्रह्मणि संस्थोऽहं भेदाभेदादिवर्जितः । अद्वितीयप्रभावेणात्माऽहं पूर्णस्वभावतः ॥६५॥
अनेन योगमुख्येन योगी संजायते नरः । ब्रह्मणिब्रह्मभूतत्वाच्छ्रांतियुक्तो भवेत् सदा ॥६६॥ अतः परं समाख्यं यद्ब्रह्मानु-
खं. ९ अ. ६ | पान २१
भवरूपकम् । कथयामि महाप्रीत्या येन योगी भवेन्नरः ॥६७॥ नाहं सर्वात्मको दक्ष नाहमात्मात्मकः कदा । आनंदोऽहं
तयोः साम्ये ब्रह्मणि ब्रह्मभावतः ॥६८॥ मया मायाबलेनैव सर्वात्मकं प्रतिष्ठितम् । एकमेवाद्वितीयाख्यं तयोः साम्येऽहमा-
स्थितः ॥६९॥ ब्रह्मणि सर्वभावश्च भावहीनं कुतो भवेत् । अमृतं मृतमूलं यन्नास्त्येव मयि सर्वदा ॥७०॥ अनंतलीलया
युक्तं लीलाहीनं न विद्यते । मयि लीलायुतं हीनं वर्तते पश्य मे महः ॥७१॥ अखंडरूपभावेन संस्थितोऽहं सदाऽमलः ।
नानाविकारहीनत्वाद् द्वाभ्यां हीनोऽहमंजसा ॥७२॥ ब्रह्मणि सर्वभावश्च वर्तते नात्र संशयः । सदात्मभावस्तत्रैव साम्यं
वेदे ततः स्मृतम् ॥७३॥ यद्यत् संकथ्यते वेदे तेषु ब्रह्म स्थितं मतम् । न वर्ण्यते तथा तत्र न तद्ब्रह्ममयं किल ॥७४॥
अतः समं समाख्यातं ब्रह्म वेदविवादतः । आनंदमुभयानंदादासमंताद्विचारय ॥७५॥ आनंदोऽहं न संदेहो ब्रह्म ब्रह्मसु
संस्थितम् । अनेनानुभवेनैव शांतियुक्तो नरो भवेत् ॥७६॥ अतस्ते व्यक्तसंज्ञस्थं कथयामि प्रजापते । ब्रह्मानुभवमाहात्म्यं
येन योगी भवेन्नरः ॥७७॥ अहमव्यक्तरूपश्च त्रिभिर्हीनः सदा मतः । त्रिषु मोहविहीनोऽहं त्रिनेतिकारकः परः ॥७८॥
सर्वात्मकं मयि नास्ति तथाऽमृतमयं न च । साम्यं स्वाधीनसंज्ञेऽथ ब्रह्मणि नंदनात्मकम् ॥७९॥ उत्थानयुक्तहीनाख्यो मोहः
सर्वमये स्थितः । सदाऽमृतमयो मोहोऽखंडब्रह्मणि कथ्यते ॥८०॥ नंदनं सर्वभावेषु समत्वान्मोहरूपकम् । सदा स्वाधीनता
तेषु कुतस्त्रिषु भवेत् किल ॥८१॥ त्रिभिर्युक्तोऽहमत्यंतं तदपि त्रिविमोहतः । भिन्नः सदा त्रयाणां तु नेति कर्ता-
हऽमंजसा ॥८२॥ नानाभावसमायुक्तं भावहीनं ततः परम् । साम्यमुभयगं तेभ्यः परोऽव्यक्तस्ततः स्मृतः ॥८३॥ सृष्ट्वाऽहं
त्रिविधां मायां तत्र खेलकरो मुदा । मोहहीनोऽहं तदपि मायायाः स्वप्रभावतः ॥८४॥ मदाज्ञया त्रयं नित्यं चलत्यत्र न
संशयः । स्वस्वव्यापारसंयुक्तं स्वाधीनोऽहं प्रभावतः ॥८५॥ त्रयाणामंतरे प्रज्ञस्तिष्ठाम्यत्र न संशयः । ममांतरे कोऽपि न वै
प्रेरकः साधुसत्तम ॥८६॥ स्वस्वभावेषु नित्यं तु प्रेरकस्त्रिषु संस्थितः । तथापि नैव मे मोहो नाहं प्रेरक उच्यते ॥८७॥
अहमव्यक्तरूपश्च वेदे संकथितो मतः । नेह नानास्तिभावाख्यः सदा नानात्रिवर्जितः ॥८८॥ नेह नानाप्रमाणेनाऽव्यक्तं
ब्रह्म सनातनम् । तदेवाहं सुखे सक्तः सदा ब्रह्मणि योगतः ॥८९॥ सर्वेषां नेति कर्ताऽहं महादंडधरः प्रभुः । नेति कर्ता
नास्ति मे कस्तेनाव्यक्तोऽहमंजसा ॥९०॥ मनोवाणीविहीनोऽहमव्यक्तः परमो मतः । अनेनानुभवेनैव शांतिं प्राप्नोति
मानवः ॥९१॥ अथ पूर्णनिजानंदानुभवं शृणु सौख्यदम् । येन स्वानंदसंयुक्तो भविष्यसि महामते ॥९२॥ अहं ब्रह्ममयः
खं. ९ अ. ६ पान २२
साक्षात् मयि मोहविवर्जितम् । कुतो मोहयुतं ब्रह्म निजरूपे भवेत् कदा ॥९३॥ महावाक्ययुता वेदा यदा लीनाः
समाधिना । तदा स्वानंदगाः प्रोक्ताः पश्य वेदे महात्मभिः ॥९४॥ अहंभावयुतो जंतुर्मायया तुर्यभावया । मोहहीनश्च
युक्तश्च भवति भ्रमभावतः ॥९५॥ चतुर्विधं मया सृष्टं नानाभावपरायणम् । भावहीनं समानं चाव्ययं तेषु स्थितेन
वै ॥९६॥ ब्रह्मदोषविहीनं तु दोषयुक्तं प्रकीर्तितम् । साम्यं नेतिमयं वेदे चतुर्हीनपरं भवेत् ॥९७॥ स्वानंदे तन्मयो योगी
भवते यः समाधिना । न पश्यति पुनर्ह्यत्र चतुर्षु मोहितात्मसु ॥९८॥ समाधिना युतो योगी निजरूपे लयं
गतः । न पुनर्दर्शनं तस्य तेषां तत्र प्रवर्तते ॥९९॥ कीदृशोऽहमिमां मायां यस्त्यक्त्वा योगसंयुतः । ब्रह्मणि ब्रह्मभूतः
स भवति स्वस्वरूपिणि ॥१००॥ यदा ब्रह्मणि योगेन तन्मयो भवति स्वयम् । स्वपरादिकमेवेदं पुनर्वद कुतः
प्रभो ॥१॥ अहं ब्रह्मेति यत् प्रोक्तं पश्य वेदे विचारतः । तेनैव कृतकृत्यः स भवति योगसेवया ॥२॥
एवं संयोगयोगेन भवेत् ब्रह्मणि तन्मयः । शांतियुक्तः स वै साक्षात् वर्तते शांतिधारकः ॥३॥ अतः परमयोगाख्यं वदामि
योगमुत्तमम् । तत्रानुभवमात्रेण शांतियुक्तो नरो भवेत् ॥४॥ अहं ब्रह्मेति यत् प्रोक्तं कुतस्तत्र भवेदिदम् । तन्मयत्वं
प्रजानाथ ब्रह्म ब्रह्मणि संस्थितम् ॥५॥ ब्रह्म वाणीविहीनं च मनोगतिविवर्जितम् । तदेव नागतं कुत्र न ब्रह्मणि गतं
पुनः ॥६॥ यदा भिन्नं विहारेषु संसक्तं जायते परम् । तदा योगेन स्वानंदयुक्तं भवति नान्यथा ॥७॥ ब्रह्म ब्रह्मणि संस्थं
च नागतं न गतं मतम् । कुतो योगेन तत्रैव तन्मयो जायते नरः ॥८॥ सदाऽहं ब्रह्मरूपश्च न मायासंगुतः कदा । भ्रांत्या
मां नैव जानंति स्वमहिम्नि स्थितं परम् ॥९॥ सर्वसंयोगयोगाख्या माया नानाभ्रमात्मिका । मयि ब्रह्मणि सा कुत्र
तिष्ठति ब्रह्मवर्जिता ॥११०॥ यथा मरीचिसंस्थं च तोयं व्यर्थभ्रमप्रदम् । तथा मयि महामाया व्यर्था संयोगधारिका ॥११॥
ब्रह्मदोषविहीनं तु वेदे संकथितं पुरा । तदेव मायया युक्तं कथं भवति मोहितम् ॥१२॥ भ्रांतियुक्तं सुयोगेन भ्रांतिहीनं
भवेत् कथम् । ब्रह्ममायायुता मूर्खा वदंति ब्रह्मवर्जिताः ॥१३॥ अतोऽहं नागतः पश्य जगत्सु ब्रह्मसु प्रभुः । न ब्रह्मणि
गतस्तत्र पुनर्योगस्य सेवया ॥१४॥ ब्रह्मणि विविधाकारा माया नैव प्रतिष्ठति । मायायां नैव तद्ब्रह्म ह्यपवादप्रभावतः ॥१५॥
अयोगस्त्रिविधः प्रोक्तो मृदुमध्याधिमात्रतः । तेषां भेदं प्रवक्ष्यामि मायामूलनिकृंतनम् ॥१६॥ स्वतोत्थानभ्रमं त्यक्त्वाऽहं
ब्रह्म ह्यपवादतः । यस्तिष्ठति नरः सोऽपि मृदुयोगयुतो मतः ॥१७॥ परतोत्थानजं दक्ष भ्रमं त्यक्त्वा ह्ययोगतः । तिष्ठति
[Header]
खं. ९ अ. ६ पान २३
[Main Text]
मध्यगः सोऽपि मतो योगस्य सेवया ॥१८॥ स्वतः परत उत्थानहीनं संयोगधारकम् । ब्रह्म तस्य भ्रमं त्यक्त्वा तिष्ठति
सोऽधिमात्रगः ॥१९॥ नाऽऽगतोऽहं यदा भ्रांत्या जगत्सु ब्रह्मसु भ्रमन् । तदा मे गमनं कुत्र योगेनैव भविष्यति ॥२०॥
ब्रह्मभूतस्वभावेन स तिष्ठति नरोत्तमः । निवृत्तियोगमाश्रित्य सदा शांत्या प्रवर्तते ॥२१॥ अधुना पूर्णयोगस्यानुभवं ते
वदाम्यहम् । योगी येन नरो भूत्वा तिष्ठति गणपप्रियः ॥२२॥ नाहं न ब्रह्म वेदेषु कथितं भेदभ्रांतिदम् । ब्रह्मणि द्विविधं
दक्ष कुतो भवति चित्तगम् ॥२३॥ अहं चित्तमयश्चैव ब्रह्म चित्तमयं तथा । चित्तं पंचविधं त्यक्त्वा योगी भवति
मानवः ॥२४॥ जगद्रूपं महच्चित्तं ब्रह्मरूपं तथा मतम् । जगतां ब्रह्मणां संयोगायोगं चित्तमुच्यते ॥२५॥ भ्रांतियुक्तं
भवेच्चित्तं नानामायाविमोहितम् । योगसेवापरं चित्तं भ्रांतिहीनं तथा भवेत् ॥२६॥ अहं कुतस्तथा ब्रह्म कुतस्तयोश्च
योगतः । अभेदः सर्वगं चित्तं क्रीडत्यत्र न संशयः ॥२७॥ नाहं सर्वत्र योगेन संयोगाभेदभावतः । तिष्ठामि चित्तमोहेन
वदंत्ययोगिनो मुधा ॥२८॥ ब्रह्म ब्रह्मणि संस्थं यन्नागतं न गतं कदा । अयोगधारकोऽहं न चित्तं तदेव संमतम् ॥२९॥
धर्ममिच्छति चित्तं च भ्रमयुक्तं तथार्थकम् । कामं मोक्षं ब्रह्मभूतं पंचभूमिप्रभावतः ॥३०॥ चित्तं त्यक्त्वा महायोगी पंच-
रूपं सुशांतिगः । ब्रह्मभूतो भवेन्नूनं चिंतामणिः प्रकथ्यते ॥३१॥ चित्तरूपा महाबुद्धिस्तत्र भ्रांतिप्रदायिका । सिद्धिस्तयोः
पतिः साक्षात् क्रीडति स्वेच्छयाऽपरः ॥३२॥ तं ज्ञात्वा ब्रह्मभूतश्च भवत्यत्र न संशयः । सिद्धिबुद्धिमयं सर्वं त्यक्त्वा योगी
प्रजापते ॥३३॥ नैव ब्रह्मणि संयोगो नायोगो वर्तते कदा । सिद्धिबुद्धिभ्रमेणैव परं वाञ्छति तत्पतिः ॥३४॥ गणेशोऽहं न
संदेहो कुतो मयि भवेदिदम् । सिद्धिबुद्धिकृतं सर्वं तेन योगी स जायते ॥३५॥ सिद्धिबुद्धिसमायुक्तो ब्रह्मभूतो नरो
भवेत् । शांतियोगेन शांतिस्थो वर्तते नित्यमादरात् ॥३६॥ ब्रह्मणि योगभावेन मायायुक्तविहीनता । शांतिं प्राप्तः स्वयं
त्यक्त्वा योगं योगी स जायते ॥३७॥ एतादृशभवेनैवानुभवेन युतं परम् । चित्तं भ्रांतिभवं सर्वं रसं त्यक्त्वा सुतिष्ठति ॥३८॥
योगे रससमायुक्तं सदा भवति तत्परम् । निश्चलं शांतिसंयुक्तं मायामलविवर्जितम् ॥३९॥ एतत्ते कथितं सर्वमनुभवभवं
सुखम्। यज्ज्ञात्वा ब्रह्मभूतः स तिष्ठत्यत्र न संशयः ॥१४०॥ शृणुयाद्यः पठेद्वाऽपि योगानुभवरूपगम् । माहात्म्यं स
लभेत् सर्वं वाञ्छितं शांतिमाप्नुयात् ॥१४१॥
॥ ॐ तत्सदिति श्रीमद्दांत्ये पुराणोपनिषदि श्रीमद्मौद्गले महापुराणे नवमे खंडे योगचरिते मुद्गलदक्षसंवादे
योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन योगिचित्तानुभबशांतिसुखवर्णनयोगो नाम षष्ठोऽध्यायः ॥
॥ इति योगगीतासूपनिषत्सु सुगमासु द्वितीयोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । स्थितिं वद महायोगिन् जीवन्मुक्तस्य सौख्यदाम् । शुभाशुभकृतं तेन कुत्र गच्छति
तत्परम् ॥१॥ कायिकं वाचिकं मानसिकं सांसर्गिकं प्रभो । कर्म योगिकृतं सर्वं कीदृशं तस्य का गतिः ॥२॥ मुद्गल उवाच ।
जीवन्मुक्तः स्वयं योगी स्वेच्छाचारी भवेत् सदा । प्रारब्धप्रेरितः साक्षाद् वर्तते नित्यमादरात् ॥३॥ स्वयं ब्रह्मणि संस्थश्च
बिंबं चित्ते प्रतिष्ठति । योगिनस्तत्कृतं सर्वं न कदा बंधदं भवेत् ॥४॥ नरवत् सर्वकर्ताऽपि तथाऽपि दोषवर्जितः । ब्रह्मणि
ब्रह्मभूतत्वाच्छुभाशुभविवर्जितः ॥५॥ प्रारब्धेन स्वयं योगी प्रेरितः पुण्यमाचरेत् । तीर्थयात्रादिकं सर्वं यज्ञदेवार्चना-
दिकम् ॥६॥ सदा शौचसमायुक्तो नित्यं धर्मपरायणः । तथापि पुण्यजं भोगं भुनक्ति नैव निश्चितम् ॥७॥ अथवा पूर्वजेनैव
प्रारब्धेन नियंत्रितः । पापानि नित्यमानंदात् प्रकुर्याद्विविधानि सः ॥८॥ ब्रह्महत्यादिकं सर्वं मातृगमनकादिकम् । मद्य-
पानादिकं चौर्यं प्रकुर्याद् दैवयोगतः ॥९॥ एवं पापसमाचारो यदि तिष्ठति मानवः । योगी पापफलं नैव भुनक्ति नरवत्
कदा ॥१०॥ पूर्वजन्मार्जितेनैव प्रारब्धेन प्रजापते । कारितं योगिना तत्र तेन किंचित् कृतं न च ॥११॥ मरणे या मतिः
प्राप्ता तादृशीं लभते गतिम् । नरो ह्ययोगयुक्तो यो योगी ब्रह्मैव जायते ॥१२॥ इदं संशयनाशार्थं कथितं ब्रह्मणः सुत ।
योगिनां कर्मजं सर्वं माहात्म्यं लेशतो मया ॥१३॥ योगी योगसमायुक्तो न पापानि कदाचन । चरति धर्मनिष्ठः स
भवत्यत्र न संशयः ॥१४॥ लोकोद्धारकराः सर्वे योगिनः परिकीर्तिताः । नाचदंति कदा पापमहिंसादिसमन्विताः ॥१५॥
खं. ९ अ. ७ पान २५
फलहीनस्वभावेन धर्मं चरति नित्यदा । योगी लोकोपकारार्थं स्वयं ब्रह्मपरायणः ॥१६॥ कदाचित् पूर्वसंस्कारात् पापं तेन
कृतं परम् । न तन्न पापयुक्तोऽसौ तदर्थो वर्णितः पुरा ॥१७॥ किमर्थं प्राणिनां योगी दुःखदायकमाचरेत् । पापं पापसमा-
युक्तो न भवेन्निश्चितं पुरा ॥१८॥ सर्वत्र गणनांथं स पश्यत्यनन्यचक्षुषा । पुण्येन सुखसंयुक्तं विश्वं भवति तच्चरेत् ॥१९॥
प्रारब्धं योगिनां दक्ष न भवेत् पापकारकम् । पुण्यचेष्टासमायुक्तं तेषां प्रारब्धमंजसा ॥२०॥ योगार्थं धर्मसंयुक्तो ब्रह्मा-
र्पणविधानतः । यतते जन्मसु प्राज्ञस्तदा योगी भवेन्नरः ॥२१॥ तस्य प्रारब्धकं दक्ष कुतो दुर्बुद्धिदायकम् । भवति च
महायोगी धर्मयुक्तो भवेत् सदा ॥२२॥ अथ योगिजनानां ते स्थितिं वदामि सर्वदा । क्रमयुक्तो यथा योगी भ्रांतो नैव
भवेत् कदा ॥२३॥ साधयित्वा महायोगं चित्तनिरोधकारकम् । पंचविधं परित्यज्य चित्तं योगी भवेन्नरः ॥२४॥ चित्ते
चिंतामणिं ज्ञात्वा सचित्तः सहसा गतः । तदाकारः स वै योगी तत्र ब्रह्मणि संरतः ॥२५॥ प्रारब्धं योगिनां नास्ति भोगदं
शास्त्रसंमतम् । यदा हठयुतो योगी भवेत् प्रारब्धचालकः ॥२६॥ देहपातं प्रकुर्याच्चेदात्महत्यां लभेन्न च । आयुष्रा
संयुतो वाऽपि देहं त्यजति निश्चितम् ॥२७॥ तथापि योगसंयुक्तो न देहं त्यजति प्रभुः । न प्रारब्धमतिक्रम्य करोति
किंचिदंजसा ॥२८॥ शांतियुक्तस्वभोवन तिष्ठत्यत्र न संशयः । यद्भावि तद्भवत्येव मायामोहविवर्जितः ॥२९॥ देहपातेन
किं ग्राह्यं देहरक्षणतस्तथा । रचितं गणनाथेन सदा भवतु तादृशम् ॥३०॥ एवं निश्चित्य चित्तेन शांतियुक्तस्वभावतः ।
आचरेद्योगसंयुक्तः स्वधर्मे संस्थितां क्रियाम् ॥३१॥ वर्णाश्रमयुतो योगी भवेद्यदि स सर्वदा । तदा स्वधर्मजं कुर्यात्
कर्म निःसंगभावतः ॥३२॥ देहः कर्ममयः प्रोक्तस्तस्थोऽकर्मी कुतो भवेत् । व्यवस्थासंभवं कर्म कृतं भवति न ह्यपि ॥३३॥
यदि कर्म परित्यज्य तिष्ठेद्योगपरायणः । तदा देहनिपातेन युक्तो भवेन्न संशयः ॥३४॥ अन्नभक्षणरूपं यद्भवति कर्म
निश्चितम् । जागृत्स्वप्नादिकं सर्वं त्यक्त्वा जीवति तत्कथम् ॥३५॥ क्रियतेऽनेन यत्किंचित् सा क्रिया परिकीर्तिता । अतः
कर्ममयो देहस्तेन धर्मं समाचरेत् ॥३६॥ देहत्यागे समुद्युक्तो यदि योगी भवेत् प्रभो । सहने द्वंद्वभावस्य न समर्थः स
वै स्मृतः ॥३७॥ अशांतिसंयुक्तः सोऽपि योगहीनो यथा नरः । तथा द्वंद्वं समालोक्य सहने न समर्थकः ॥३८॥ गणेशेन
कृतं तस्येच्छया सर्वं च यद्भवेत् । भवतु तादृशं सर्वं सहे नित्यं सुशांतिगः ॥३९॥ स योगी शांतिहीनो न प्रभवेत्
क्वचिदंजसा । ब्रह्मभूतो महाश्रेष्ठः पावनः सर्वदेहिनाम् ॥४०॥ अतो वर्णाश्रमस्थो यो योगी भवेत् स तत् क्रियाम् ।
ख. १ अ. ७ पान २६
ब्रह्मार्पणतया कुर्याद् हृदि ध्यात्वा गजाननम् ॥४१॥ यदि स्वधर्मसंयुक्तं कर्म नैव समाचरेत् । तमक्रियं समालोक्यान्थे
त्यजेयुः स्वधर्मकम् ॥४२॥ अतो लोकोपकारार्थं योगी कर्म समाचरेत् । अन्यान् कर्मयुतान् कुर्यात् स्ववशान् धर्म-
पालकः ॥४३॥ सर्वेभ्यश्चाधिको योगी कुर्यात् सत्कर्म धर्मदम् । तादृशं कर्म सर्वेऽपि करिष्यंति विशेषतः ॥४४॥ तेन
प्रामाण्यमानंदात् कृतं कर्म प्रजापते । तदेव सर्वलोकाश्च मान्यं कुर्वंति निश्चितम् ॥४५॥ ब्रह्मार्पणतया कर्म बंधदं न
भवेत् कदा । ब्रह्मप्राप्तिकरं तस्य फलं प्रोक्तं मनीषिभिः ॥४६॥ योगिभिश्च कृतं कर्म लोकसंग्रहकारणात् । असक्तमनसा
नित्यं नैमित्तिकं न बंधदम् ॥४७॥ सदा ब्रह्ममयत्वेन तेन किंचित् कृतं न च । देहस्वभावजो भावो भवेदस्य निरं-
तरम् ॥४८॥ अन्यं मार्गं प्रवक्ष्यामि ये निंदंति स्तुवंति तम् । योगिनं पापभोक्तारो भवंति पुण्यभोगिनः ॥४९॥ योगिना
यत् कृतं पापं तत् स्प्रष्टुं न क्षमं कदा । निंदकांस्तत् समाश्रित्य प्रतिष्ठेत्तस्य नित्यदा ॥५०॥ योगिना यत् कृतं पुण्यं तदेव
तं न संस्पृशेत् । स्तुवतस्तान् समाश्रित्य नित्यं तिष्ठेत् स्वभावजम् ॥५१॥ अतो न योगिनां निंदां कदा कुर्याद्विचक्षणः ।
सेवां समाचरेत्तेषां तेन सौख्ययुतो भवेत् ॥५२॥ वने यदि स्थितो योगी प्रारब्धेन नियंत्रितः । फलादिकं तत्र भुंजन्
शांत्या तिष्ठेत् स नित्यदा ॥५३॥ तत्र निंदाकरास्तस्य तथा सेवाकरा न च । एक एव महायोगी शुभाशुभं समाचरेत् ॥५४॥
तदेव देहपातेऽस्य योगिनश्च मृतं भवेत् । शुभाशुभं निराधारमुपोषणसमन्वितम् ॥५५॥ एतत्ते कथितं दक्ष ब्रह्मीभूतस्य
चेष्टितम् । कर्म योगमयं पूर्णं श्रवणाच्छुभदं भवेत् ॥५६॥ अथ योगं प्रवक्ष्यामि ज्ञानात्मकमहं परम् । योगिभ्यः सुखदं
पूर्णं शांतियुक्तं विशेषतः ॥५७॥ देहः कर्मात्मकः प्रोक्तस्तत्र योगं समाचरेत् । ब्रह्मार्पणतया कर्म चाचरन् शांति-
धारकः ॥५८॥ ज्ञानं स्फूर्तिमयं प्रोक्तं हृदि तिष्ठति सर्वदा । विवेकात्ममयं तत्र ज्ञानयोगं समाचरेत् ॥५९॥ हृदि यच्चद्
भवेज्ज्ञानं नानायोगार्थसौख्यदम् । अथवा विषयार्थानां बोधकं तत् स संत्यजेत् ॥६०॥ उत्पत्तिनाशसंयुक्तं ज्ञानं
विषयबोधकम् । ब्रह्म सौख्यप्रदं ज्ञानं योगभूमिप्रभावजम् ॥६१॥ उपाधिसंयुतं चैकमनुपाधियुतं परम् । तच्च्यक्त्वा
योगसंयुक्तो भवेद्योगी महायशाः ॥६२॥ ज्ञानानां सकलानां च योगे ज्ञानमयः स्मृतः । योगस्तत्र भवेल्लीनो ब्रह्मीभूत-
स्वभावतः ॥६३॥ ब्रह्मणि ब्रह्मीभूतोऽहं मम ज्ञानं कुतो भवेत् । नानाभ्रांतिकरं हृत्स्थं त्यक्त्वा ब्रह्मपरो भवेत् ॥६४॥ अनेन
विधिना सर्वं ज्ञानं त्यक्त्वा हृदि स्थितम् । शांतियुक्तः स्वयं योगी तिष्ठेद्ब्रह्मपरायणः ॥६५॥ न कर्ताऽहं कदाचिद्वै कारयिता
खं. ९ अ. ७ पान २७
न निश्चितम् । मायामोहयुता मां ते वदंति कर्मकारिणम् ॥६६॥ अहं साक्षी शरीरस्य यद्देहेन कृतं भवेत् । तन्मया न कृतं
क्वापि ब्रह्माहं परतः परः ॥६७॥ यद्यत् स्फूर्तिर्भवेन् मे वै सा माया भ्रांतिदायिका । न तस्यां संस्थितो जीवः सदा
साक्षिस्वभावतः ॥६८॥ न मोहेन समायुक्तो न कदा मोहवर्जितः । मायया मां वदंत्येव ह्ययोगिनो न संशयः ॥६९॥
एवं सदा महायोगी साक्षिवत्संस्थितो भवेत् । हृदयज्ञानयोगस्थस्त्यक्त्वा स्फूर्तिभवं भ्रमम् ॥७०॥ सर्वत्र रसहीनं
यन् मनस्तस्य महात्मनः । शांत्या युक्तं भवेद्दक्ष ब्रह्मीभूतस्य नित्यदा ॥७१॥ एष ते कथितो योगो ज्ञानात्मको विशेषदः ।
साक्षिवद्देहसंस्थः स मया तिष्ठति लेशतः ॥७२॥ अतः परं समं योगं शृणु स्थितिपरायण । यं ज्ञात्वा ब्रह्मभूतो यः
शांतिहीनो भवेन्न सः ॥७३॥ देहः कर्मत्रयस्तत्र कर्मयोगं समाचरेत् । मनो विवेकरूपं तु साक्षित्वं तत्र संचरेत् ॥७४॥
अहं ब्रह्म यदा दक्ष कुतस्तत्र भवेदिदम् । द्वंद्वरूपं विशेषेण तस्य वक्ष्यामि रूपकम् ॥७५॥ देहः कर्ममयः प्रोक्तो विवेकः
कर्मवर्जितः । द्वंद्वं ज्ञात्वा महायोगी समयोगं समाचरेत् ॥७६॥ देहे कर्ममयोऽहं तु हृदि साक्षी तथाऽमलः । उभयोर्योग-
भावेन भवति किंचिदंजसा ॥७७॥ यदा विवेकहीनश्चेत् देहः किं तु करिष्यति । देहहीनं मनस्तद्वज्ज्ञानदं कस्य वा
भवेत् ॥७८॥ आनंदमयभावेन संस्थितोऽहं तदात्मकः । उभयत्र ततः स्वस्वव्यापारं कुरुतः परौ ॥७९॥ देहे कर्ममयोऽहं
वै हृदि विवेकधारकः । द्विविधां रच्यतां मायां सदानंद Robertoधर्मगः ॥८०॥ तयोः समानभावेन संस्थितोऽहं न संशयः ।
अनुपाधेरुपाधेश्च वर्जितो ब्रह्मसंज्ञितः ॥८१॥ अतः समं समाश्रित्य बाह्यांतरैकभावतः । यादृशं संस्थितं ब्रह्म
तादृशं तत्र चाचरेत् ॥८२॥ देहे कर्मकरो भूत्वा हृदि साक्षिमयो भवेत् । उभयं तत् परित्यज्यानंदावस्थां समा-
चरेत् ॥८३॥ यद्यदुभयभावाख्यं नानाभेदमयं परम् । तत्र योगमयो भूत्वा तिष्ठेदानंदसंयुतः ॥८४॥ आनंदानां समायोगे
ब्रह्मानंदः प्रकीर्तितः । उभयेषां प्रजानाथ तादृशं चाचरेद्बुधः ॥८५॥ मदीयसंयोगेनोभयं प्रवर्तते सदा । उभयं चाचरेत्
सर्वमुभाभ्यां वर्जितोऽपि सः ॥८६॥ इयमानंदरूपाख्या कथिता योगिभिः पुरा । ब्रह्मीभूतः समास्थाय तिष्ठेत्तां शांति-
संयुतः ॥८७॥ अतः परं प्रजानाथावस्थां शृणु सुखप्रदाम् । सहजाख्यां महायोगी चाचरेत्तां विशेषतः ॥८८॥ देहः कर्म-
मयः प्रोक्तस्तत्र योगं समाचरेत् । ब्रह्मार्पणतया नित्यं कर्मणां योगिसत्तमः ॥८९॥ हृदि साक्षिस्वभावेन तिष्ठेत्तयोः
परे ततः । समभावं समाश्रित्य त्रिषु त्रैधं प्रकीर्तितम् ॥९०॥ तेषु विस्मृतिभावेन भ्रांत्या वा विस्मृतं भवेत् । विपरीतं
भवेद्वाऽपि ततः खेदं न धारयेत् ॥९१॥ त्रिविधं मायया युक्तं पराधीनं प्रकीर्तितम् । तुर्यं स्वाधीनरूपाख्यं प्रोक्तं शास्त्रेषु
सर्वदा ॥९२॥ तुर्येच्छया त्रिधा भूतं चलत्यत्र न संशयः । स्वस्वप्रारब्धसंयुक्तं सदा भ्रांतमिव स्थितम् ॥९३॥ न कस्याहं-
कृतिस्तस्य तुरीयस्य कदाचन । यादृशं कुरुते कर्म तादृशं फलमश्रुते ॥९४॥ अतः प्रारब्धयोगेन विस्मृतोऽहं स्थितिं पराम् ।
योगरूपां च तुर्येण प्रेरितः सर्वधारिणा ॥९५॥ अथवा ज्ञानमोहेन विपरीतं कृतं मया । त्यक्त्वा योगस्थितिं पूर्णां प्रारब्धं
तत्र मुख्यकम् ॥९६॥ प्रारब्धधारकं प्रोक्तं तुरीयं नात्र संशयः । तस्येच्छया च यज्जातं तदेवं योगदं भवेत् ॥९७॥ पराधीनो-
ऽहमत्यंतं तुर्येच्छया समन्वितः । करोमि कर्म साक्षित्वमानंदं वा न संशयः ॥९८॥ सदा स्वाधीनभावेन तिष्ठति ब्रह्म
तुर्यगम् । तुरीयैः खेलकं प्रोक्तं तस्य किं बंधनं भवेत् ॥९९॥ यज्जातं तत्कृतं तेन तुरीयेण न संशयः । तत्र कुत्र स्थितोऽहं
तु स्वेच्छया क्रीडति प्रभुः ॥१००॥ इयं तु सहजावस्था कथिता ते प्रजापते । यज्जातं तन्न सा प्रोक्ता न कृता तदपि
ह्यहो ॥१॥ यत्कृतं सह जातेन स्वयमेव प्रवर्तते । योगस्तेन समाख्याता सहजा तुर्यसंज्ञिता ॥२॥ अतः परं ब्रह्मभूतं
स्वानंदाख्यं प्रकीर्तितम् । तत्र योगस्वरूपाख्यां स्थितिं शृणु सुखप्रदाम् ॥३॥ स्वाधीनं तुर्यभावाख्यं पराधीनं त्रिधा मतम् ।
तेषां योगे निजात्मस्थो भवेद्योगी निजात्मसु ॥४॥ त्रिविधं खेलरूपं तु तुर्यः खेलक उच्यते । तयोर्योगे प्रजानाथ
स्वानंदस्थो भवेन्नरः ॥५॥ ब्रह्मणि ब्रह्मभूतस्य योगिनश्च कुतो भवेत् । स्वाधीनं तु पराधीनं मायायुक्तं न
संशयः ॥६॥ योगस्थितिं समाश्रित्य बुधश्चत्वारि चाचरेत् । तेषां संयोगरूपेण तिष्ठेत्तेषु महात्मवान् ॥७॥
कर्मयोगं समाश्रित्य देहचेष्टां समाचरेत् । ज्ञानयोगं तथाऽऽश्रित्य साक्षित्वं चाचरेत् बुधः ॥८॥ समयोगं समाश्रित्य
आनंदं आचरेत् परम् । सहजं स समाश्रित्य विपरीतेन शोकभाक् ॥९॥ चतुर्भिः संयुतो भूत्वा चतुर्भिर्वर्जितस्तथा ।
तिष्ठेद्योगमयीं दक्षावस्थामाश्रित्य सर्वदा ॥११०॥ अवस्था निजरूपे तु कुतोऽवस्थाप्रधारकः । तयोर्योगे योगमयी व्यवस्था
ते प्रकीर्तिता ॥११॥ चतुर्मयी चतुर्हीना योगावस्था प्रकीर्तिता । योगिभिस्तां समाश्रित्य शांतिहीनो भवेन्न सः ॥१२॥
अधुना शृणु योगस्थामवस्थां द्वितीयां पराम् । अयोगधारिकां पूर्णां सदा निवृत्तिदायिकाम् ॥१३॥ ब्रह्मणि ब्रह्मभूतो
यो योगी तां संश्रयेत् पराम् । यदा निवृत्तिसंयुक्तः शांतिहीनो भवेन्न सः ॥१४॥ ब्रह्मणि ब्रह्मसंस्थं तन्नागतं
न गतं पुनः । मायायां ब्रह्मभूतो योऽवस्थाया धारकः कुतः ॥१५॥ यत् कुर्यात् कारयेच्च तत्र नैवावलोकयेत् ।
खं. ९ अ. ७ पान २९
मायामयं विनिश्चित्य पंचकं पंचकेषु गम् ॥१६॥ नाहं पंचकगश्चैवै तत्स्तकृतमंजसा । कुतो मयि प्रदृश्येताधार्यनिवृत्तिगो
भवेत् ॥१७॥ जीवनं मरणं जन्म योगो योगात्मिका परा । अवस्था मे कुतो मायामोहयुक्तं स्मृतं बुधैः ॥१८॥
अथ योगमयीं पूर्णामवस्थां शृणु मानद । संयोगायोगहीनां तां यथा शांतो भवेन्न सः ॥१९॥ ब्रह्मणि ब्रह्मभूतोऽहं
मयि मायामयं परम् । पंचकं च कुतो भाति मायाहीनमयोगकम् ॥२०॥ विधिनिषेधसंयुक्तं चित्तं भवति सर्वदा ।
विधिनिषेधहीनं तु तदेवं जायते मुधा ॥२१॥ देहेन कर्मयोगश्च ज्ञानगो हृदि जायते । उभयत्र समश्चैव तुर्येषु
सहजात्मकः ॥२२॥ सर्वसंयोगभावेषु स्वानंदाख्यः प्रवर्तते । निवृत्तिषु ह्ययोगाख्यो योगेषु शांतियोगकः ॥२३॥ एवं
नानाविधं योगं समास्थाय महामतिः । योगी शांत्या समातिष्ठेद्ब्रह्मभूतोऽपि निश्चितम् ॥२४॥ योगस्थितिः समाख्याता
ब्रह्मभूतसुखप्रदा । अनेन विधिना देहनिर्वाहो योगिनां भवेत् ॥२५॥ वर्णाश्रमस्थितो योगी चाचरेत् स्थितिमुत्तमाम् ।
लोकसंग्रहकार्यार्थमसक्तस्तत्फलादिषु ॥२६॥ यदा वर्णाश्रमं त्यक्त्वा पंचमाश्रमधारकः । न तस्य स्थितिरूपं तु कदाचिन्नात्र
संशयः ॥२७॥ विधिनिषेधहीनोऽयं विनायको भवेत् सदा । यद्यत् कुर्यात् स तत् सर्वं योगरूपं भवेत् सदा ॥२८॥ यदि
स्थितिसमायुक्तो वेदादिषु प्रमाणतः । तदा विधियुतः सोऽपि भवेत् पश्य प्रजापते ॥२९॥ यदा स्थितिविहीनोऽयं तिष्ठेत्
संकथितं परम् । वेदेषु स निषेधेन तदा युक्तो भवेत् परः ॥३०॥ अतः स्थितियुतो योगी स्थितिहीनो यथारुचि । वर्णाश्रमान्
परित्यज्य तिष्ठेद्विनायको यथा ॥३१॥ शांत्या नित्यं चरेत् सर्वं मनसीप्सितमंजसा । विधिनिषेधहीनश्च ब्रह्मणि
रसधारकः ॥३२॥ एतत् सर्वं समाख्यातं योगिनां चेष्टितं महत् । ब्रह्मभूतात् परं पूर्णं चरेदेवं निरंतरम् ॥३३॥ शृणुयाद्यः
पठेद्वाऽपि स सर्वं हीप्सितं लभेत् । अंते योगमयो भूत्वा तिष्ठेत् स गणपे रतः ॥३४॥
॥ ॐ तत्सदिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते मुद्गलदक्षसंवादे
योगामृतार्थशास्त्रे योगस्थितिवर्णनयोगो नाम सप्तमोऽध्यायः
॥ इति योगगीतासूपनिषत्सु सुगमासु तृतीयोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । योगशांतिं समाश्रित्य योगमभ्यस्य नित्यदा । ब्रह्मणि ब्रह्मभूतः स योगभ्रष्टः कथं
भवेत् ॥१॥ मायामयं जगत् सर्वं नानाभ्रमसमन्वितम् । ज्ञात्वा स्वयं पुनर्भ्रष्टः कौतुकं वद मे मुने ॥२॥ मुद्गल उवाच ।
ब्रह्मणि ब्रह्मभूतस्य योगिनो बिंबसंस्थितम् । बुद्धौ तस्यां विमोहेन मोहयुक्तं प्रजापते ॥३॥ दृष्ट्वा नानाविधान् भोगान्
स्वयं मोहेन मोहितः । तेषु भूत्वा रसयुतो तानिच्छति निरंतरम् ॥४॥ तत्र तस्य हृदि दक्ष विवेकः संस्थितो भवेत् ।
तस्य रूपं प्रवक्ष्यामि शृणु बुद्धिविशारद ॥५॥ अहं ब्रह्मणि योगेन ब्रह्मीभूतो न संशयः । पापपुण्यादिकं मे न शुभा-
शुभकृते भवेत् ॥६॥ यदा भोगं परित्यज्य तिष्ठामि नित्यमादरात् । तदा योगस्य वृद्धिर्मे न भविष्यति निश्चितम् ॥७॥
यदा नित्यं प्रभूंजाने भोगान्नानाविधान् परान् । पापपुण्यमनादृत्य तदा योगक्षयो न च ॥८॥ अतोऽहं योगमुत्सृज्य
किमर्थं दुःखसंयुतः । तिष्ठामि शांतिमाश्रित्य विधिनिषेधसंयुतः ॥९॥ एवं मनसि संधार्य योगी भोगेषु लालसः ।
विविधेष्वेव भवति रसयुक्तः क्रमेण सः ॥१०॥ अयं मोहः समाख्यातो योगिहृद्भ्रांतिदायकः । तेन शांतिं परित्यज्य
पापपुण्यपरो भवेत् ॥११॥ ततः कामं समाश्रित्य देहसौख्यप्रदायकम् । इच्छेत् स विविधान् भोगान् पुण्यपापपरायणः ॥१२॥
भोगार्थं यतमानस्य योगिनः क्रमभावतः । तत्र विघ्नः कृतः केन ततः क्रोधयुतो भवेत् ॥१३॥ येन विघ्नः कृतस्तेषु भोगेषु
तस्य भोगिनः । तं शत्रुं स हि जानाति भिन्नभावपरायणः ॥१४॥ ततो ह्यज्ञानसंभूतिः क्रमेणोत्पद्यते परा । योगिनश्च
तया युक्तो हंतुं तं यतते सदा ॥१५॥ शत्रुशिक्षार्थमर्थान् स नानाभावसमन्वितः । संपाद्य तं तु निर्जित्य भोगान् भुंक्ते
प्रयत्नतः ॥१६॥ स्वपरज्ञानहीनत्वं गतं तस्य प्रजापते । तदेवाज्ञानसंभूतिः शत्रुमित्रप्रदर्शिनी ॥१७॥ ततः शांतेः क्रमेणास्य
विस्मृतिर्जायते परा । तया युतः स्वयं देहं मन्यते सत्यरूपकम् ॥१८॥ देहे संतोषमापन्ने कृतकृत्यमिव स्थितम् । मन्यते
विपरीते स आत्मानं भाग्यवर्जितम् ॥१९॥ ततो योगं परित्यज्य स्वयं बिंबी प्रजायते । बिंबे तन्मयभावेनागमिष्यति न
संशयः ॥२०॥ एवं क्रमेण योगी स शांतिहीनस्वभावतः । सदा तिष्ठति तं योगं नाश्रयते कदाचन ॥२१॥ सुखयुक्ते शरीरे
स सुखयुक्तो भवेत् स्वयम् । दुःखयुक्ते तथा दुःखी नानाभावपरायणः ॥२२॥ लेशमात्रमयं शांतिं लभते न कदांचन ।
असंतोषयुतो नित्यं भ्रमते भोगलिप्सया ॥२३॥ भोगार्थं विविधान्येव नित्यं पापानि चादरात् । चरते सर्वपुण्यानि
विधिनिषेधवर्जितः ॥२४॥ वर्णाश्रमयुतो योगी स्वधर्मं त्यज्य नित्यदा । पापं चरति वा पुण्यं स्वधर्मैः संयुतः कदा ॥२५॥
खं. ९ अ. ८ पान ३१
योगान् भुंक्ते विशेषेण मोहयुक्तो निरंतरम् । योगभ्रष्टोऽयमाख्यातस्त्यक्त्वा योगं नरो भवेत् ॥२६॥ हृदि तस्य विवेकश्च
सदा तिष्ठति मोहदः । पुण्यपापविहीनोऽहं ब्रह्मैव ब्रह्मभावितः ॥२७॥ अंते स नरकान् गच्छेदू द्वंद्वदुःखप्रदायकान् ।
यातनां घोररूपां तु पतेद्भुक्त्वा धरातले ॥२८॥ दक्ष उवाच । योगभ्रष्टगतिं ब्रूहि योगींद्र दयया पराम् । कथं नरकगो भूत्वा
यातनां प्राप्नुयात् परम् ॥२९॥ कर्मफलपरित्यागादिहजन्मधरः कथम् । संभवेदद्विस्मयो भाति चेष्टितं योगिनः परम् ॥३०॥
मुद्गल उवाच । ब्रह्मणि ब्रह्मभूतस्य पुनर्विषयसेवनात् । ब्रह्मणो भक्तिहीनस्यांते स्थानं न भवेत् किल ॥३१॥ अपारपुण्य-
योगेन ब्रह्मणि देहिनः कदा । रसोत्पत्तिर्भवेद्दक्ष सर्वश्रेष्ठस्य योगदा ॥३२॥ देहविषयसंयोगाद् द्वंद्वभावपरात्मनः ।
नानापापादियोगेन पुण्यं स्वल्पं प्रहीयते ॥३३॥ मृतोऽयं शिवलोके वै वैकुंठे सौरशाक्तयोः । ब्रह्मण इंद्रलोके वा पतेदंते
न संशयः ॥३४॥ शोकहर्षप्रदं विश्वं नानाद्वंद्वसमन्वितम् । नरको नात्र संदेहो योगिनां शास्त्रसंमतम् ॥३५॥ उत्पत्तिनाश-
संयुक्तं त्यक्त्वा ब्रह्मपरायणः । ब्रह्मणि ब्रह्मभूतः स पुनर्द्वंद्वपरो यतः ॥३६॥ वैकुंठादिपदे संस्थो द्वंद्वं भुंक्ते निरंतरम् ।
उत्पत्तिनाशसंयुक्तं नानाभोगपरायणः ॥३७॥ अतो योगी प्रजानाथ स्वर्गारुह्यान्रकान् परान् । भुक्त्वा द्वंद्वमयान् पश्चादिह
जन्मधरो भवत् ॥३८॥ भवेद्योगिकुले तस्य जन्म वा तापसे कुले । ऋद्धिमतां स तत्रापि पुनर्योगं चरिष्यति ॥३९॥
पूर्वसंस्कारयोगेन न भोगे स रमेत् कदा । चित्तं तस्य महायोगी प्रभवेत् स्वल्पयोगतः ॥४०॥ पुनर्न योगभ्रष्टः स
संभवेद्ब्रह्मणः सुत । शांत्यायुक्तस्वभावेन शरीरं पोषयेन् मुदा ॥४१॥ अंते ब्रह्मणि योगी स तदाकारो भवेत् परम् ।
योगसंस्कारपुण्येन स्थितिं लब्ध्वा महामतिः ॥४२॥ एतत्ते कथितं पूर्णं योगभ्रष्टस्य चेष्टितम् । किं पुनः श्रोतुमिच्छा ते वद
धातर्वदाम्यहम् ॥४३॥
॥ ॐ तत्सदिति श्रीमद्दांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे
योगभ्रष्टचरितनिरूपणं नाम अष्टमोऽध्यायः ॥
॥ इति योगगीतासूपनिषत्सु सुगमासु चतुर्थोऽध्यायः ॥
खं ९ अ. ९ पान ३२
॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । चित्तं चंचलमप्यंतं विषयेषु परायणम् । दुर्ग्रहं शांतिसंयुक्तं न भवेन् मुनिसत्तम ॥१॥
अतो योगस्य प्राप्त्यर्थं सिद्ध्यर्थं सुगमं ततः । उपायं वद चित्तस्य जयार्थं वाऽपरं प्रभो ॥२॥ मुद्गल उवाच । पंचचित्तेषु
यद्बिंबं स्थितं भ्रांत्या समन्वितम् । चिंतामणेः समाख्यातं तस्यैव भजनं चरेत् ॥३॥ तेन चित्तं जयेद्योगी नान्यं पश्यामि
भो विधे । विना चित्तजयं योगदायकं नात्र संशयः ॥४॥ दक्ष उवाच । सुगमं वद मार्गं मे सर्वेभ्यो ब्रह्मदायकम् । संसेव्य
जंतवः सर्वे ब्रह्मीभूता भवंति वै ॥५॥ मुद्गल उवाच । अज्ञानेन समायुक्तो नरो विषयलंपटः । शिश्नोदरपरो नित्यं योगं
नेच्छति कर्हिचित् ॥६॥ तस्य सकामिकं कर्म सुखदं बोधयेत् परम् । अलभ्यप्रापकं हृद्यमाचरेल्लोभसंयुतः ॥७॥
अलभ्यलभ्यलोभेन त्यक्त्वा पापं महाखलः । सत्कर्मनिरतो भूत्वा चरेत् पुण्यं निरंतरम् ॥८॥ ततस्तेनैकभावेन पापं
नश्येन्निरंतरम् । शुद्धोऽत्यंतं नरः कुर्यात् कर्म कामयुतं परम् ॥९॥ समाप्नुयात्ततोऽलभ्यं हृद्यं चेत् पुनरेव सः । विश्वासेन
समायुक्तः कुर्यात् कर्म विशेषतः ॥१०॥ अथवा नैव संप्राप्तमलभ्यं तेन तं तदा । उपादिशेद्विशेषेणाधिकं सत्कर्म चाचर ॥११॥
अनंतजन्मभिः पापं त्वया कृतमसंशयम् । अपारमंतरायो भवति ते तद्विघातकम् ॥१२॥ एवं कर्मपरः सोऽपि दुःखितो-
ऽत्यंतमाचरेत् । पापनाशार्थमानंदात्तेन शुद्धांतरो भवेत् ॥१३॥ सकामिकपरस्यास्य कर्मात्यंतप्रभावतः । तस्य बुद्धिर्भवेत्
दक्ष निःकामिकपरायणा ॥१४॥ जन्ममृत्युप्रदा भोगा भुक्ता विविधजन्मसु । अपारसुखदं ब्रह्म न प्राप्तं देहधारिणा ॥१५॥
अलभ्यं न मया प्राप्तं प्रारब्धाधीनतोऽथवा । प्रारब्धं चालितुं कोऽपि न समर्थो भविष्यति ॥१६॥ अतो निःकामिकं कर्म
करोमि नित्यमादरात् । जन्ममृत्युविहीनोऽहं भविष्यामि न संशयः ॥१७॥ ब्रह्मसुखमपारं यल्लब्ध्वा ब्रह्मपरायणः ।
ब्रह्मीभूतो भविष्यामि यत्नं करोमि तत्परः ॥१८॥ एवं धार्य परित्यज्य कामान् सेवेत् स पंचकान् । देवान् गणेशमुख्यांश्च
मुक्तिमार्गपरायणः ॥१९॥ सालोक्यादिभवं सौख्यमिच्छति नित्यमादरात् । क्रमेण तपसा युक्तो प्रभवेन् मानवस्ततः ॥२०॥
विभूतिर्ब्रह्मणः प्रोक्ता नानारूपा प्रजापते । तत्र तस्य रमेच्चित्तमैश्वर्यैर्युक्तभावतः ॥२१॥ इमे समर्थरूपा वै ब्रह्मणः
परमात्मनः । अंशतेजोधरास्तस्य सर्वाधीशा भवंत्यतः ॥२२॥ एवं सर्वत्र संचिंत्य तेषां पूजापरो भवेत् । लभेत्तत्
कृपया दक्ष चित्तशुद्धिं नरोत्तमः ॥२३॥ विचारेण गणेशानं ज्ञात्वा संपूर्णमंजसा । सर्वपूज्यादिचिह्नैस्तं श्रेष्ठं तत्र रतो
भवेत् ॥२४॥ ज्ञात्वा स्वानंदनाथं तं स्वानंदार्थं विशेषतः । प्रभजेद्गणराजं स निष्कामभक्तिसंयुक्तः ॥२५॥ ततोऽहर्निशमत्यंतं