भारतकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

यहाँ प्रस्तुत पृष्ठ का संपूर्ण एवं शुद्ध देवनागरी पाठ (लाइन-दर-लाइन मार्कर सहित) दिया गया है:


श्री. ३ अ. ३ पान ५ हतः । तं जीवय गणेशान नोचेद्देहं त्यजाम्यहम् ॥५५॥ इति प्रार्थयमानं तं ज्ञात्वा शंभुं गजाननः । आत्मनामात्मरूपः स जीवयामास तं रविम् ॥५६॥ उत्थितं कश्यपस्यैवं पुत्रं दृष्ट्वा सुरर्षयः । हर्षितास्तं जयेति स्म गजानन जगुर्मुदा ॥५७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते सूर्यसंजीवनदानं नाम द्वितीयोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ सूर्य उवाच । ततो लोलार्कनामाऽहं काश्यां जातो महर्षयः । विस्मितो मानसेऽत्यंतं किमाधारमिदं भवेत् ॥१॥ अहमात्मा च सर्वेषामात्मनो मरणं कथम् । मृते मयि जगत् सर्वं केन जीवयुतं कृतम् ॥२॥ अहं च जीवितः केन नाहमात्मा शरीरिणाम् । मोहयुक्ततया व्यर्थं गर्विष्ठः संभवामि वै ॥३॥ अतोऽहं काननं यास्ये त्यक्त्वा सर्वं विशेषतः । यदाधारं भवेद्विश्वं तं भजिष्यामि नित्यदा ॥४॥ निःसृतोऽहं गृहं त्यक्त्वा तन्न मां विधिरब्रवीत् । सांत्वयित्वा स वेदानां वाक्यैः परमतत्त्ववित् ॥५॥ शृणु सूर्य रहस्यं यत् सर्वेभ्यः शांतिदायकम् । भवितासि ततः शांतः किमर्थं श्राम्यते सुधा ॥६॥ त्वमात्मा सर्वभूतानामात्माधारमिदं स्मृतम् । आत्मनो मरणं नास्ति ब्रह्मवेदे वदंति भोः ॥७॥ ब्रह्मणां पतिरूपेण संस्थितो गणनायकः । तस्मान्नानाविधानिह ब्रह्माणि प्रोद्भवंति वै ॥८॥ कश्यपात्मज सर्वत्र योगेन च स तिष्ठति । तस्मिन् स्थिते कथं विश्वं तन्नश्यति वदस्व माम् ॥९॥ त्वं कश्यपस्य पुत्रत्वं प्राप्तश्च वरदानतः । तत्राज्ञाना- वृतत्वेन पूजितो न गणाधिपः ॥१०॥ तेन विघ्नः समुत्पन्नो विपरीतमयः परः । आत्मनो मरणं पश्य तव प्राप्तं भजस्व तम् ॥११॥ तेन सर्वं शुभं पूर्णं भविष्यति रखे पुनः । योगशांतिधरस्त्वं वै गाणपत्यो भविष्यसि ॥१२॥ अर्यमोवाच । इति श्रुत्वा विधेर्वाक्यं विस्मितोऽहं वदामि तत् । ज्ञानार्थं गणराजस्य शृणुध्वं मे विचेष्टितम् ॥१३॥ अहो ब्रह्मंस्त्वया स्वामिन् बोधितोऽहं विशेषतः । संशयं तन्न जातं मे छेदयस्व पितामह ॥१४॥ योगशांतिधरः पूर्णो गणेशः परिकीर्तितः । करोति स कथं विघ्नं विकारीव वदस्व मे ॥१५॥ ब्रह्मोवाच । शृणु सूर्य महाप्राज्ञ वचः संशयनाशकम् । गणेशभक्तस्त्वं येन भविताऽसि महाप्रभो ॥१६॥ योगशांतिमयः पूर्णो गणेशश्चैव निश्चितम् । तेन नानाविधं विश्वं रचितं ब्रह्म मानद ॥१७॥ तत्र मायामयो मोहः सर्वत्र भ्रांतिदायकः । तेन भ्रांतिसमायुक्ते जगद्ब्रह्म बभूवतुः ॥१८॥ तयोर्मोहविनाशार्थं योगमार्गं गजाननः ।

[शीर्षक: ख. २ अ. ३ | पान ६]

चकार सर्वशांतेभ्यः शांतिदं योगसेवया ॥१९॥ तत्र तस्य कलांशा ये ब्रह्माकाराः शिवादयः । ब्रह्मभावेन गर्वेणाऽभवन् स्वब्रह्मणि स्थिताः ॥२०॥ तेभ्यः शांतिप्रदानार्थं विघ्नदाता गजाननः । भवते तेन ते सर्वे गर्वहीना भवंति वै ॥२१॥ गर्वहीनस्वभावेन योगमिच्छंति शाश्वतम् । मूलभूतं च सर्वेषां जगतां ब्रह्मणों रवे ॥२२॥ साधयित्वा महायोगं शांतिरूपा भवंति ते । तत्र विघ्नहरो ढुंढिस्तेषां भवति सर्वदा ॥२३॥ ततो विघ्नेश्वरं देवं भजंते शांतिधारकाः । योगशांतिमयं पूर्णं भक्तिभावसमन्विताः ॥२४॥ एतदर्थं गणेशानः कुरुते विघ्नमुत्तमम् । देवर्षीणां च साधूनां दुष्टानां नैव तादृशम् ॥२५॥ ब्रह्मणो गिरमाकर्ण्य प्रसन्नः सविता पुनः । विधिं जगाद योगार्थं सर्वज्ञं भक्तिसंयुक्तः ॥२६॥ सूर्य उवाच । वद ब्रह्मन् गणेशस्य प्राप्यर्थं योगमुत्तमम् । साधयित्वा गणेशोऽहं भविष्यामि विधे यतः ॥२७॥ ब्रह्मोवाच । सम्यक् पृष्टं त्वया वत्स त्वं जानासि विशेषतः । अपि तत् कश्यपाज्जातः सर्वं तेन सुविस्मृतम् ॥२८॥ अधुना शृणु सर्वं त्वं गाणेशं ज्ञानमुत्तमम् । साधयित्वा गणेशानः कालेन प्रबविष्यसि ॥२९॥ मायाशक्तिरसद्रूपा भेदाकारा महामते । जानीहि तत्र सर्वात्मा त्वं च सद्रूप उच्यसे ॥३०॥ तयोः स्रष्टा सदानंदो विष्णुः साम्यप्रधारकः । त्रिभिर्हीनः शिवो व्यक्तस्त्रिभिर्जानीहि संयुक्तः ॥३१॥ चतुर्णां चैव संयोगे स्वानंदः परिकीर्तितः । स्वानंदाच्च परब्रह्म संयोगात्मकमुच्यते ॥३२॥ स एव गणराजस्तु मायाखेलक उच्यते । संयोगाभेदभावेन जगति ब्रह्मणि स्थितः ॥३३॥ अयोगे मायया हीनो गणेशो ब्रह्मवाचकः । सर्वसंयोगहीनश्चा- समाधिसुखदायकः ॥३४॥ संयोगायोगयोर्योगे गणेशः शांतिवाचकः । योगशांतिप्रदः सोऽपि शांतीनां शांतिरुच्यते ॥३५॥ मनोवाणीमयं सर्वं गकाराक्षरवाचकम् । मनोवाणीविहीनं यत् तत् जानीहि णकारजम् ॥३६॥ तयोः स्वामी गणेशानो ब्रह्मणों ब्रह्म उच्यते । सामवेदे रवे पश्य तं भजस्व विधानतः ॥३७॥ द्विविधा तस्य माया वै सिद्धिर्बुद्धिश्च कथ्यते । ताभ्यां युक्तः खेलति स नानार्थे गणनायकः ॥३८॥ चित्तं पंचविधं पुत्र बुद्धिरूपं न संशयः । उच्यते सिद्धिर्ऐश्वर्यं भोग- भेदाय पंचसु ॥३९॥ तयोर्बिंबिस्वरूपं यज्ञेहि तद् योगसेवया । शांतियोगधरः पुत्र भविष्यासि न संशयः ॥४०॥ एवमुक्त्वा गणेशस्य ददौ मंत्रं षडक्षरम् । तस्मै सूर्याय पूर्णं स विधियुक्तं पितामहः ॥४१॥ विधिं प्रणम्य च वनं ययौ भानुः सुशोभनम् । तताप तप उग्रं स निराहारपरायणः ॥४२॥ जजाप हृदि संध्याय गणेशं मंत्रमुत्तमम् । एवं वर्षसहस्रेण प्रसन्नोऽभूद्गजाननः ॥४३॥ तं ययौ भक्तिभावेन सुप्रीतः सूर्यमादरात् । स्वगणैः सेवितः साक्षाद्बोधयामास विघ्नपः ॥४४॥

खं. ३ अ. ३ पान ७ गणेश उवाच । भो सूर्य वृणु मत्तस्त्वं वरान्नानाविधान् परान् । तान् दास्यामि महाभाग तपसा तोषितस्त्वया ॥४५॥ श्रुत्वा गणेशवाणीं स सविता बोधसंयुतः । दृष्ट्वा गणपतिं भक्त्या समुत्तस्थौ अमान्वितः ॥४६॥ तं प्रणम्यापूजयत् स यथाविधि गजाननम् । तुष्टाव सुमना भानुः पुरो बद्धांजलिः स्थितः ॥४७॥ भानुरुवाच । नमस्ते विघ्ननाथाय विघ्नकर्त्रे दुरात्मनाम् । भक्तानां विघ्नहर्त्रे ते गणेशाय नमो नमः ॥४८॥ चतुर्बाहुधरायैव मूषकवाहनाय ते । नागयज्ञोपवीताय नाभिशेषाय ते नमः ॥४९॥ महोदराय देवाय सिद्धिबुद्धियुताय ते । शूर्पकर्णाय सर्वाय चैकदंताय वै नमः ॥५०॥ गजवक्त्रधरायैव भालचंद्राय ते नमः । चिंतामणिधरायैव हृदये ते नमो नमः ॥५१॥ रक्तांबराय रक्ताय नानाभूषणशालिने । अमेयाय नमस्तुभ्यं नानालीलाकराय च ॥५२॥ अनाधाराय सर्वेषामाधाराय च ते नमः । स्वानंदवासिने तुभ्यमिक्षुसागर- खेलिने ॥५३॥ हेरंबाय नमस्तुभ्यं लंबोदर नमो नमः । जगतां ब्रह्मणां पात्रे ब्रह्माधीशाय ते नमः ॥५४॥ निराकाराय सर्वेश पालकाय नमो नमः । साकाराय च भो ढुंढे ताभ्यां योगाय ते नमः ॥५५॥ योगशांतिप्रदात्रे ते योगशांतिमयाय च । योगिभ्यो योगदात्रे ते योगेशाय नमो नमः ॥५६॥ एवं स्तुवति सूर्ये च भक्तिरससमन्विते । अकस्माद्बाष्पकंठः स सरोमांचो बभूव ह ॥५७॥ पुलकांकितदेहं तं दृष्ट्वा खिन्नमिव स्थितम् । जगाद गणनाथो वै सूर्य भक्तिरसप्लुतम् ॥५८॥ गणेश उवाच । त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् । भुक्तिमुक्तिप्रदं भानो मम प्रीतिविवर्धनम् ॥५९॥ यद्यदिच्छसि तत्तद्धै सफलं प्रभविष्यति । पठतां शृण्वतां चैव सदानंदप्रवर्धनम् ॥६०॥ त्वं तु मत्तो वरान् ब्रूहि तान् दास्यामि न संशयः । तपसा भावितोऽत्यंतं भृशं स्तोत्रेण तोषितः ॥६१॥ एवमुक्तो गणेशेन भानुर्भक्तिपरायणः । उवाच तं गणाधीशं हर्षनिर्भर- मानसः ॥६२॥ सूर्य उवाच । तुष्टोऽसि गणनाथ त्वं यदि दास्यसि मे वरम् । तदा भक्तिं दृढां ते वै देहि नाथ नमोऽस्तु ते ॥६३॥ अन्यं यदा स्मरामि त्वां तदा दर्शय रूपकम् । यद्यदिच्छामि तत्तन् मे सफलं भवतु प्रभो ॥६४॥ ओमित्युक्त्वा गणेशानस्तत्रैवांतरधीयत । सूर्यः खिन्न इवातिष्ठत्तत्रैवं वालखिल्यकाः ॥६५॥ ततस्तेन गणेशस्य स्थापिता मूर्तिरादरात् । ब्राह्मणैः सह भानुस्तां पूजयामास भक्तितः ॥६६॥ ततः स्वगृहमागत्य मूर्तिं कृत्वाऽहमादरात् । पूजयामि सदा देवं गणेशानं भजामि तम् ॥६७॥ एतत् सर्वं मदीयं वश्चेष्टितं कथितं द्विजाः । वालखिल्या महाभागाः किं भूयः श्रोतुमिच्छथ ॥६८॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते सूर्यवरप्रदानं नाम तृतीयोऽध्यायः ॥

खं. ३ अ. ४ पान ८ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । श्रुत्वा सूर्यचरित्रं ते गणेशभक्तिसंयुक्तम् । हृष्टास्तं वालखिल्या वै पप्रच्छुः पुनरादरात् ॥१॥ वालखिल्या ऊचुः । भानो त्वया महच्चित्रं कथितं चेष्टितं प्रभो । तव वाक्यामृतेनैव संतृप्ता भृशमुत्तमम् ॥२॥ अधुना ब्रूहि देवेश मोहपाशनिकृंतनम् । गणेशचरितं येन मोहहीना भवंति च ॥३॥ अहो मोहस्य माहात्म्यं येन संछादितो महान् । गणेशस्तेन संभ्रांता न विदुस्तं गजाननम् ॥४॥ मुद्गल उवाच । एवं पृष्टो महातेजा भानुस्तैः स महर्षिभिः । उवाच तान् प्रहृष्टात्मा गाणपत्यो महायशाः ॥५॥ भानुरुवाच । अत्र वः कथयिष्यामि इतिहासं पुरावभवम् । मोहासुरचरित्रं यद्गणेशज्ञानसंयुक्तम् ॥६॥ कदाचित्तारको नाम दैत्योऽभूद्दारुणः खलः । ब्रह्मणो वरदानेन त्रैलोक्याधिपतिः स्वयम् ॥७॥ सर्वदेवगणास्तेन मुनयश्च प्रपीडिताः । वनेषु भयसंत्रस्ता अवसन् दुःखभागिनः ॥८॥ ततो बहुगते काले देवाः सर्षिगणाः पुरा । शिवस्य ध्यानसंयुक्ताः शरणं पार्वतीं ययुः ॥९॥ शिववीर्यभवो देवः सेनाधीशो हनिष्यति । तारकं नात्र संदेहो ज्ञात्वा तां तुष्टुवुः पराम् ॥१०॥ महादेवो वने गत्वा तपसे संस्थितोऽभवत् । तत्र देवगणैर्युक्ता पार्वती तं ययौ द्विजाः ॥११॥ दृष्ट्वा ध्यानस्थितं शंभुं मोहार्थं तस्य सा सती । भिल्लीवेषं चकारैव ययौ तं शंकराश्रमम् ॥१२॥ इतस्ततश्च बभ्राम भिल्लीरूपा गुणाधिका । पुष्पाणां ग्रहणे सक्ता महामोहप्रवर्धिनी ॥१३॥ एतस्मिन्नंतरे तत्र त्यक्त्वा ध्यानं शिवः स्थितः । तेन दृष्टा महाभागा रूपयौवनशालिनी ॥१४॥ तां दृष्ट्वा सहसा शंभुर्मोहितो मायया भृशम् । आदिमायां ययौ तत्र कामविह्वलमानसः ॥१५॥ हावभावयुतां भिल्लीं दृष्ट्वा परममोहितः । तां धर्तुं स मनश्चक्रे तज्ज्ञात्वा साऽपलायत ॥१६॥ पृष्ठलग्नः स्वयं साक्षाच्छंकरो विव्हलो भृशम् । ततः सा यत्र तत्राऽस्य समीपे विचचार ह ॥१७॥ एवं मुहूर्तमात्रं वै नग्नः शंभुर्महर्षयः । बभ्राम तां प्रधर्तुं तु साऽस्य नो हस्तगाऽभवत् ॥१८॥ ततो वीर्यं पपातास्य शिवस्य परमाद्भुतम् । भिल्ली सांतर्दधे विप्राः शिवः शांतो बभूव ह ॥१९॥ तस्माच्छिवस्य वीर्याद्वै संभूतः पुरुषो महान् । मोहरूपो महोग्रः स चतुर्बाहुधरो बभौ ॥२०॥ वनेऽभूत् संस्थितस्तत्रैकाकी तेजस्विनां वरः । चारुरूपो महामानी सर्वावयवसंयुक्तः ॥२१॥ स तु कंदफलादीनि भक्षयामास यत्नतः । इतस्ततश्च बभ्राम गतो नानावनेषु वै ॥२२॥ शिवस्तत्र समासीनो बभूव भृशदुःखितः । ध्यानेन सकलं ज्ञात्वा देवीकृतविचेष्टितम् ॥२३॥ ततो क्रोधसमायुक्तः कामं सद्यो ददाह सः । स्वस्थानं प्रययौ शंभुः पार्वतीं तां ददर्श ह ॥२४॥ देवकार्यार्थमत्यंतं पार्वत्या प्रार्थितः प्रभुः । कामं सस्मार शंभुस्तं पुरोऽनंगं ददर्श सः ॥२५॥

Here is the complete Devanagari text transcription of the provided page, preserving the layout and line breaks with line numbers.

खं. ३ अ. ४ पान ९ प्रणिपत्य महेशानं स्तुत्वा रुद्रं महायशाः । अवदद्देहसंयुक्तं मां कुरुष्व महेश्वर ॥२६॥ कामस्य वचनं श्रुत्वा ददौ तस्मै सदाशिवः । एकाक्षरं गणेशस्य मंत्रं तं विधिसंयुक्तम् ॥२७॥ जगाद शंकरः काममनेनाराधय प्रभुम् । गणेशं तेन तेऽभीष्टं भविष्यति न संशयः ॥२८॥ नाशिकं स समागत्य सस्त्रीकश्च तताप ह । तपो गणपतिं ध्यायन् जपन् मंत्रपरायणः ॥२९॥ गतेषु वर्षसाहस्रेषु ययौ गणनायकः । तं कामं बोधयामास वरं वृणु हृदीप्सितम् ॥३०॥ दृष्ट्वा कामो गणेशनमुत्थाय प्रणतोऽभवत् । तुष्टाव तं गणेशनं भक्तिनम्रात्मकंधरः ॥३१॥ काम उवाच । गणेशाय नमस्तुभ्यं पाशांकुश- विधारिणे । दंताभयधरायैव मूषकध्वज ते नमः ॥३२॥ गजवक्त्राय देवाय शूर्पकर्णाय वै नमः । महोदराय पूर्णाय पूर्णानंदाय ते नमः ॥३३॥ सर्वाकाराय सर्वार्थ स्थूलसूक्ष्मादिभेदिने । गुणेशाय गुणानां ते चालकाय नमो नमः ॥३४॥ देहदेहिमयायैव प्रकृतेर्लयरूपिणे । विदेहाय स्वसंवेद्यपतये ते नमो नमः ॥३५॥ रजसा सृष्टिकर्त्रे ते सत्वतः पालकाय च । तमसा सर्वसंहर्त्रे कर्माकाराय ते नमः ॥३६॥ जगद्रूपाय वै तुभ्यं स्थावराय चराय च । अनाकाराय हेरंबाय ब्रह्मपतये नमः ॥३७॥ वेदायगम्यरूपाय योगेभ्यो योगदायक । किं स्तौमि त्वां गणाधीश अल्पज्ञोऽहं नमोस्तु ते ॥३८॥ अधुना मे वरं देहि गजानन दृढां पराम् । भक्तिं ते मे सुदेहं वै मां कुरुष्व महोदर ॥३९॥ एवमुक्त्वा नतोऽभूत् सस्त्रीकः कामः स तं द्विजाः । ततस्तं प्रत्युवाचाथ गणेशो भक्तवत्सलः ॥४०॥ गणेश उवाच । मदीया भक्तिरुग्रा वै भविष्यति रतेः पते । शिवदग्धश्च ते देहस्तथा कर्तुं न शक्यते ॥४१॥ मदीयवरदानेन शिवः सर्वार्थवानभूत् । अतस्त्वां भिन्नदेहं वै हितायाऽहं करोमि ते ॥४२॥ यौवनं स्त्री च पुष्पाणि सुवासानि महामते । गानं मधुरसश्चैव मृदुलांडजशब्दकः ॥४३॥ उद्यानानि वसंतश्च सुवासाश्चंदनादयः । संगो विषयसक्तानां नराणां गुह्यदर्शनम् ॥४४॥ वायुर्मृदुः सुवासश्च वस्त्राण्यपि नवानि वै । भूषणादिकमेवं ते देहा नाना कृता मया ॥४५॥ तैर्युतः शंकरादींश्च जेष्यसि त्वं पुरा यथा । मनोभूः स्मृतिभूरेवं त्वन्नामानि भवंतु वै ॥४६॥ त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् । दग्धमूले प्ररोहाणां कारकं प्रभविष्यति ॥४७॥ एवं गणेशवाक्यं स श्रुत्वा कामस्तमब्रवीत् । हितं सर्वं त्वया मे यत् कृतं नाथ विशेषतः ॥४८॥ तथापि पूर्ववद्देहं देहि ढुंढे नमोऽस्तु ते । दग्धोऽहं शंकरेणैवानंगं रक्षस्व विघ्नप ॥४९॥ मुद्गल उवाच । कामस्य वचनं श्रुत्वा भक्तिभावेन यंत्रितः । गणेशस्तमथोवाच तपसा तोषितं भृशम् ॥५०॥ गणेश उवाच । त्वया त्वघटितं प्रोक्तं तथापि त्वत्सुभक्तितः । संतुष्टोऽहं

प्रियं सर्वं करिष्यामि मनोभव ॥५१॥ यादवेषु स्वयं विष्णुः कृष्णो नाम्ना भविष्यति । लक्ष्मीर्वेषेण रुक्मिण्यास्तयोः पुत्रो भविष्यसि ॥५२॥ प्रद्युम्न इति विख्यातः सर्वमान्यः सुदेहभृत् । इयं ते वल्लभा तत्र भार्या देवी भविष्यति ॥५३॥ इत्युक्त्वा तं गणेशानः स्वानंदस्थो बभूव ह । जगाम कामः सस्त्रीको पुनः क्षेत्रे मयूरके ॥५४॥ तत्र यात्राविधानेन पूजयामास विघ्नपम् । वासार्थं गणनाथस्य तपस्तत्र चकार सः ॥५५॥ वर्षेणैकेन संतुष्टस्तं ययौ विघ्ननायकः । पूजितश्च स्तुतस्तेन प्रसन्नो वरदोऽभवत् ॥५६॥ जगाद कामस्तं देवं गणपं भक्तिसंयुक्तः । ज्ञात्वा नश्वररूपं यद्देहादिकमनुत्तमम् ॥५७॥ काम उवाच । भूस्वानंदमिदं क्षेत्रं तत्र वासं करोम्यहम् । स्थानं देहि गणाधीश तव सेवार्थमेव मे ॥५८॥ अत्रैव मरणेऽनाथ ब्रह्मभूतत्वमादरात् । ददासि त्वं गणेशान अतो मां पालय प्रभो ॥५९॥ ततस्तं गणनाथः सः तथेति प्रत्युवाच ह । शक्तिं पश्चिमद्वारस्थां तदोवाच च विघ्नपः ॥६०॥ त्वदीये वामभागे वै दक्षिणांगे जगन्मयि । रतिं कामं कुरुष्व त्वं क्षेत्रेऽस्मिन् वासकारणात् ॥६१॥ तथेति तत्र सस्त्रीकः कृतः कामः स मायया । उवास क्षेत्रे सेवार्थं मयूरे गणपस्य सः ॥६२॥ तदादि सर्वमान्योऽयं कामो जातो महर्षयः । त्रैलोक्यविजयी सर्वं मोहयामास निर्भयः ॥६३॥ एतत् कामस्य यश्चित्रं चरित्रं संशृणोति वै । पठेद्वा तस्य नैवं स्यात् काममोहः कदाचन ॥६४॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते कामचरितं नाम चतुर्थोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ ततः कामसमायुक्तः शंकरोऽभूत्तया सह । पार्वत्या पुत्रकामार्थं रेमे हर्षसमन्वितः ॥१॥ ततस्तस्य महेशस्य क्रीडतः प्रगतानि वै । वर्षाणि हि सहस्त्राणां षष्टिर्देवर्षिसत्तमाः ॥२॥ महामायायुतः शंभुर्न बुबोध दिवानिशम् । ततस्तस्य महेशस्य रतिभंगार्थमागताः ॥३॥ देवास्तैः प्रेषितो वह्निर्द्विजरूपधरो ययौ । भिक्षां देहि जगादासौ तच्छ्रुत्वा तौ समुत्थितौ ॥४॥ पपात भूतले वीर्यं शिवस्यैवोत्थितस्य च । तदेव पार्वती विप्रा ददौ वै भिक्षुकाय च ॥५॥ शिववीर्यं ततस्तेन प्राशितं दहनेन वै । अभवद्दाहसंयुक्तो गंगायामक्षिपत् स तत् ॥६॥ कार्तिक- स्नानकार्यार्थं कृत्तिकाभिर्महाद्भुतम् । षड्भिः समागताभिस्तत् पीतमाचमनेन वै ॥७॥ स्नात्वा स्वस्वगृहे ताश्च गताः

खं. ३ अ. ५ पान ११ सद्यः समुज्ज्वलाः । पतिभिः परवीर्येण युक्ताः संत्यजिता ययुः ॥८॥ शरस्तंबे महद्वीर्यं त्यक्त्वा स्नात्वा पुनर्गृहम् । ययुस्तत्र समुत्पन्नः षण्मुखो बालको बभौ ॥९॥ स दृष्टो गच्छता तत्र नारदेन शिशुः पुरः । ज्ञात्वा ध्यानेन कैलासे गतोऽभून् मुनिसत्तमः ॥१०॥ तत्र शक्त्यै स वृत्तांतं कथयित्वा महामुनिः । यदृच्छाविचरन् यातः पार्वती बालमाययौ ॥११॥ चकार बालमागृह्य स्तनपानं यशस्विनी । वह्निगंगाकृत्तिकाद्या मातरस्तस्य तं ययुः ॥१२॥ शिवेन मातरः सर्वाः सत्कृताः स्वगृहं ययुः । ब्रह्मेशाद्यैस्ततो देवैर्मुनिभिः सोऽभिषेकितः ॥१३॥ देवसेनापतित्वे स प्रययौ सेनया सह । प्रार्थित- स्तारकस्यैव नाशाय बलवान् स्वयम् ॥१४॥ स्कंदस्य तारकस्यैव युद्धं परमदारुणम् । संजातं च ततः स्कंदो भृशं शक्त्या जघान तम् ॥१५॥ संमूर्च्छितो महादैत्यः पुनः संज्ञायुतोऽभवत् । ताडयामास तं स्कंदं गदया क्रोधसंयुतः ॥१६॥ पतितं वीक्ष्य ते देवाः पलायनमकुर्वत । गृहीत्वा कार्तिकेयं तं दैत्यः स्वस्थानमाययौ ॥१७॥ तत ओषधिभिर्देवैः सावधानः कृतोऽभवत् । स्कंदः परमदुःखार्तः शंकरं शरणं ययौ ॥१८॥ जयोपायं वद ब्रह्मन् शिवशांतिप्रदं तथा । सर्वार्थसाधकं पूर्णं तं भजामि विशेषतः ॥१९॥ ततश्च शंभुना तस्मै गणेशस्य षडक्षरः । मंत्रो दत्तो विशाखाय ज्ञानं संकथितं परम् ॥२०॥ शंभुरुवाच । शृणु स्कंद महायोगं येन शांतो भविष्यसि । चित्ते चिंतामणिं ज्ञात्वा शांता जाता वयं पुरा ॥२१॥ यद्यच्चित्तेन वै पुत्र लभ्यते तत्प्रणश्वरम् । भवेज्जानीहि चित्तं ब्रह्माकारं योगसेवया ॥२२॥ अंतर्बाह्यादिभेदा ये ते सर्वे चित्तसंभवाः । ओंकारोऽर्थसमायुक्तश्चित्तरूपो न संशयः ॥२३॥ स्वकोत्थानं बभौ ब्रह्म परोत्थानकमेव च । चित्तरूपं विजानीहि बुद्ध्या मोहप्रदं कृतम् ॥२४॥ स्वानंदश्च निवृत्तिश्च चित्तरूपे न संशयः । बहुनाऽत्र किमुक्तेन चित्तं सर्वात्मकं बभौ ॥२५॥ ब्रह्माकारं च जानीहि जगदाकारकं तथा । चित्तं पंचविधं पुत्र जहि तद् योगसेवया ॥२६॥ चित्ते यद्बिंबितं ब्रह्म भवति भ्रमसंयुतम् । बिंबभावं परित्यज्य भव चिंतामणिः सुत ॥२७॥ चित्तं त्यक्त्वा महाभाग त्वन्न भिन्नो भविष्यसि । एतदेव परं ज्ञानं शांतिरूपं वदंति च ॥२८॥ रविरुवाच । शिवस्य वचनं श्रुत्वा तं प्रणम्य ययौ वनम् । कार्तिकेयः स विघ्नेशं ध्यायंश्च विधिपूर्वकम् ॥२९॥ षडक्षरविधानेन पूजति स्म निरंतरम् । मंत्रं जजाप वै स्कंदस्तताप तप उत्तमम् ॥३०॥ वायुभक्षः सदा भूत्वा जपध्यानपरायणः । दंडकारण्यदेशे स गजाननमतोषयत् ॥३१॥ ततो वर्षसहस्रेण शांतियोगमवाप ह । कार्तिकेयः स विघ्नेशमभजत्तदपि द्विजाः ॥३२॥ ततस्तुष्टो गणेशानो ययौ तं भक्तमुत्तमम् । तं दृष्ट्वा प्रणनामाथ पूजयन् भक्तिसंयुतः ॥३३॥

खं. ३ अ. ५ पान १२ ततस्तुष्टाव विघ्नेशं कार्तिकेयो महाद्युतिः। कृत्वा करपुटं विप्राः स्वानुभावपरायणः ॥३४॥ स्कंद उवाच। नमस्ते योगरूपाय संप्रज्ञातशरीरिणे। असंप्रज्ञातमूर्ध्न ते तयोर्योगमयाय च ॥३५॥ वामांगे आंतिरूपा ते सिद्धिः सर्वप्रदा प्रभो। आंति- धारकरूपा वै बुद्धिस्ते दक्षिणांगके ॥३६॥ माया सिद्धिस्तथा देवो मायिको बुद्धिसंज्ञितः। तयोर्योगे गणेशान त्वं स्थितोऽसि नमोस्तु ते ॥३७॥ जगद्रूपो गकारश्च णकारो ब्रह्मवाचकः। तयोर्योगे गणेशाननामा तुभ्यं नमो नमः ॥३८॥ चतुर्विधं जगत् सर्वं ब्रह्म तंत्रं सदात्मकम्। हस्ताश्चत्वार एवं ते चतुर्भुज नमो नमः ॥३९॥ स्वसंवेद्यं च यद्ब्रह्म तत्र खेलकरो भवान्। तेन स्वानंदवासी त्वं स्वानंदपतये नमः ॥४०॥ द्वंद्वं चरसि भक्तानां हृदि तेषां व्यवस्थितः। चौरवत्तेन तेऽभूद्वै मूषको वाहनं प्रभो ॥४१॥ जगति ब्रह्मणि स्थित्वा भोगान् भुंक्षे सुयोगगः। जगद्भिर्ब्रह्मभिस्ते तच्चेष्टितं ज्ञायते न च ॥४२॥ चौरवद्भोगकर्ता त्वं तेन ते वाहनं परम्। मूषको मूषकारूढ हेरंबाय नमो नमः ॥४३॥ किं स्तौमि त्वां गणाधीश योग- शांतिधरं परम्। वेदादयो ययुः शांतिमतो देवं नमाम्यहम् ॥४४॥ इति स्तोत्रं समाकर्ण्य गणेशस्तमुवाच ह। वरं वृणु महाभाग चेद्धि दास्यामि दुर्लभम् ॥४५॥ त्वया कृतमिदं स्तोत्रं योगशांतिप्रदं भवेत्। मयि भक्तिकरं स्कंद सर्वसिद्धिप्रदं तथा ॥४६॥ यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रयंत्रितः। पठते श्रृण्वते नित्यं कार्तिकेय विशेषतः ॥४७॥ एवं गणेशवाक्यं वै श्रुत्वा हर्षसमन्वितः। जगाद गणपं वाक्यं कार्तिकेयः स योगवित् ॥४८॥ स्कंद उवाच। किं वृणोमि गणेशान सर्वं आंतिमयं विभो। अतस्त्वदीयभक्तिं मे सुदृढां देहि विघ्नप ॥४९॥ जगाद गणराजः स ततस्तं भक्तवत्सलः। मदीया भक्तिरुग्रा ते भविष्यति सदाऽनघ ॥५०॥ तारकाद्यान् महादैत्यान् त्वमेव च हनिष्यसि। यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति ॥५१॥ एवमुक्त्वांतर्दधेऽसौ गणेशो भक्तमुत्तमम्। कार्तिकेयोऽभवत्तत्र संस्थितो गणपं स्मरन् ॥५२॥ ब्राह्मणैः स्थापयामास मूर्तिं गणपतेः पराम्। लक्षं विनायकं नाम्ना स चकार द्विजेरितः ॥५३॥ तस्य दर्शनमात्रेण वांछितं लभते नरः। तत्रैव मरणे प्राप्ते ब्रह्मभूतः स जायते ॥५४॥ ततो जगाम स्वगृहं कार्तिकेयः प्रतापवान्। देवैः सह जघानाऽसौ तारकासुरमुल्बणम् ॥५५॥ हत्वा तारकदैत्यं स गणेशक्षेत्रगोऽभवत्। तत्र विघ्नेशमत्यंतं भजते नित्यमादरात् ॥५६॥ इति स्कंदस्य माहात्म्यं कथितं सर्वदं परम्। पठते श्रृण्वते वापि ब्रह्मभूयकरं भवेत् ॥५७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते स्कंदमाहात्म्यं नाम पंचमोऽध्यायः ॥

यहाँ दी गई छवि का देवनागरी पाठ (ट्रांसक्रिप्शन) प्रस्तुत है:

॥ श्रीगणेशाय नमः ॥ बालखिल्या ऊचुः । श्रुतं सर्वं महाभाग भानो ब्रह्मप्रदायकम् । तथापि न वयं तृप्ता भवामोऽमृतपानवत् ॥१॥ अधुना ब्रूहि माहात्म्यं मोहस्य जगदीश्वर । शिववीर्यात् समुत्पन्नः किं चकार रखे वद ॥२॥ मुद्गल उवाच । मुनीनां वचनं श्रुत्वा तान् जगाद महामतिः । सूर्यः सर्वांतरात्मा च मोहस्य चरितं विधे ॥३॥ सूर्य उवाच । शिववीर्यात् समुत्पन्नो मोहः परमशोभनः । जगाम शरणं तत्र काव्यं वेदविदांवरम् ॥४॥ तं प्रणम्य जगदासौ वृत्तांतं सर्वमंजसा । स्वस्योत्पत्ति- स्वरूपं यद्विनीतात्मा विशेषतः ॥५॥ कथयित्वा पुनः प्राह स्वामिन् मां शाधि शिष्यकम् । त्वदधीनं विनाथं वै कार्यं वद महामुने ॥६॥ इति तस्य वचः श्रुत्वा शुक्रो दयासन्वितः । उपवीतादिकं सर्वं कारयामास दैत्यपैः ॥७॥ जृंभाय पुत्र- भावेन ददौ तं मोहमुल्बणम् । तत्र वेदादिकं तेनाधीतं सर्वं महर्षयः ॥८॥ प्रमादासुरनामा वै तस्मै पुत्रीं ददौ स्वकाम् । रूपलावण्यसंयुक्तां नाम्ना च मदिरां द्विजाः ॥९॥ मोहो नत्वा स्वतातं संगृह्य शुक्रान् महामनुम् । सूर्यस्य सवने गत्वा तताप परमं तपः ॥१०॥ ऊर्ध्वदृष्टि र्बबंधाऽसौ सूर्य ध्यायन् स मंडले । मंत्रं जजाप भावेन निराहारपरायणः ॥११॥ दिव्यवर्षसहस्रेण प्रसन्नोऽभूद्दिवाकरः । तं ययौ वरदानार्थं स्वभक्तं भक्तिभावितः ॥१२॥ अस्थित्वचासमायुक्तं मोहं दृष्ट्वार्यमा प्रभुः । विस्मितोऽभून् महद्धैर्यं दैत्यस्य परमाद्भुतम् ॥१३॥ बोधयामास तं शीघ्रं रविर्देववरः स्वयम् । वरं ब्रूहि महामोह प्रसन्नोऽहं ददामि ते ॥१४॥ श्रुत्वा मदीयवाक्यं स प्रबुद्धो सुरनायकः । पुरतो मां स्थितं वीक्ष्य प्रणनाम कृतांजलिः ॥१५॥ उत्थाय पूजयामास पैर्र्नानोपचारकैः । कृतांजलिः पुनर्नत्वा स तुष्टाव महर्षयः ॥१६॥ मोहासुर उवाच । नमः सूर्याय तपतां श्रेष्ठ ते सर्वरूपिणे । भानवे भास्करायैव रवये ते नमो नमः ॥१७॥ कर्मणां फलदात्रे ते कर्ममूल- धराय च । कर्माकाराय देवाय स्वात्मने ते नमो नमः ॥१८॥ नानाभेदधरायैव नानाभेदविवर्जित । सदामृतस्वरूपाय परमात्मन्नमोऽस्तु ते ॥१९॥ अनंतापाररूपाय जगज्जीवनमूर्तये । सत्याय सत्यपात्रे ते दिवाकर नमोऽस्तु ते ॥२०॥ त्रयीबोधाय ते त्रय्यै त्रयीकर्मप्रवर्तक । सर्वाहंकारमूलाय सदाहंकारनाशिने ॥२१॥ ज्ञानदात्रे प्रकाशाय प्रकाशानां विशेषतः । अनादये महेशाय परेशाय नमो नमः ॥२२॥ वृष्टिबीजाय सर्वेषां कालकर्मप्रवर्तक । मायाधाराय मायायाश्चाल- काय नमो नमः ॥२३॥ किं स्तौमि त्वां दिवानाध आत्माकारधरं प्रभो । तथापि ज्ञानप्रामाण्यात् संस्तुतोऽसि नमाम्यहम् ॥२४॥ यदि तुष्टोसि देवेश वरं दातुं समागतः । तदा मे मरणं स्वामिन्न भवेन्मां तथा कुरु ॥२५॥ नामरूपधरं सर्व तस्मान्

खं. ३ अ. ६ पान १४ मृत्युर्न मे भवेत् । राज्यं त्रैलोक्यसंस्थं यद्देहि तज्जगदीश्वर ॥२६॥ आरोग्यादिसमायुक्तां देहसत्तां महाप्रभो । सर्वातिगां च मे देहि संग्रामे विजयं तथा ॥२७॥ यद्यदिच्छामि देवेश तत्तन्मे सुलभं भवेत् । त्वदीयपादपद्मे ते भक्तिं देहि महाप्रभो ॥२८॥ एवमुक्त्वा महादेवं भास्करं प्रणनाम सः । उत्थाय तस्य सामीप्ये संस्थितो विनयान्वितः ॥२९॥ ततः स सविता तत्र विस्मितस्तमुवाच ह । त्वया यत् प्रार्थितं दैत्य तत् सर्वं लभसे महत् ॥३०॥ त्वया कृतमिदं स्तोत्रं मम प्रीति- विवर्धनम् । सर्वकामप्रदं चैव भविष्यति सुशृण्वते ॥३१॥ इत्युक्त्वांतर्दधे देवः सविता स्वस्थलं ययौ । दैत्योऽपि हर्षितो भूत्वा स्वगृहं प्रजगाम ह ॥३२॥ मातरं पितरं तत्र प्रणनाम महासुरः । सुहृदो मानयामास यथा संबंधपूर्वकम् ॥३३॥ ततः शुक्रं जगामाऽसौ तं प्रणम्य महासुरः । मोहः संकथयामास वृत्तांतं तस्य सन्निधौ ॥३४॥ उपचारैः प्रपूज्याऽसौ प्रणम्य स्वगृहं पुनः । आययौ हर्षसंयुक्तो नगरं निर्ममे ततः ॥३५॥ विषयावासकं नाम मुनिस्तस्य चकार वै । शुक्रः परमतेजस्वी तत्र वासं चकार सः ॥३६॥ असुरादय एवं वै वृत्तांतं यत्र तत्र ते । श्रुत्वा समागतास्तस्य नगरे चक्रिरे स्थितिम् ॥३७॥ चातुर्वर्ण्यसमायुक्तं नगरं शुशुभे द्विजाः । सर्वातिगं चानुपमं पृथिव्यां पूर्णभोगदम् ॥३८॥ ततो दैत्यगणाः सर्वे श्रेष्ठास्तत्र समागताः । शुक्रेण प्रेरितास्तं ते प्रणेमुर्भावसंयुताः ॥३९॥ प्रचंडश्चैव चंडश्च महाकालश्च वीर्यवान् । कालांतकादयश्चान्ये बहवो दैत्यनायकाः ॥४०॥ मिलिता दैत्यसंयुक्तास्तदाज्ञावशवर्तिनः । भूत्वा ते नगरे तस्य समीपे संस्थिता बभुः ॥४१॥ ततो द्विजैः स्वयं काव्यस्तं चकार महर्षयः । दैत्याधिपं स सिषेच तदर्थं राज्यसंपदि ॥४२॥ ततस्ते मुदिताः सर्वे दैत्याः स्वस्वस्थलं ययुः । मुख्यास्तत्र स्थिता विप्राः सेवार्थं लालसायुताः ॥४३॥ एवं मोहासुरः श्रेष्ठोऽसुराणां नायकोऽभवत् । तमाश्रित्य महादैत्या हर्षिता अचरन् धराम् ॥४४॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते मोहासुरराज्याभिषेको नाम षष्ठोऽध्यायः ॥

खं. ३ अ. ७ पान १५ ॥ श्रीगणेशाय नमः ॥ रविरुवाच । मदिरायां सुताः पंच तस्माद्दैत्यान् महाबलाः । तेजस्विनश्च पित्रा ते बभूवुः समशीलकाः ॥१॥ उग्रः क्रूरश्च मेधावी शोचनो हरणस्तथा । पंचैते शास्त्रसंपन्ना रेजुस्तन्नगरे द्विजाः ॥२॥ ततः किंचिद्गते काले राजा मोहासुरो द्विजाः । आह्वयामास दैत्येशान् सकलान् स्वनरैर्महान् ॥३॥ समागतानुवाचाऽथ वचनं हितकारकम् । दैत्येशान्नीतिसंयुक्तं सुखदं प्रीतिवर्धनम् ॥४॥ मोहासुर उवाच । भो भो दैत्याधिपाः सर्वे प्रचंडाद्या वचो हितम् । शृणुध्वं सकलं विश्वं जयेयमधुना किल ॥५॥ यदि स्वमानसे दैत्या हितं भवति चेत्तदा । सर्वेषां भवतां कार्यं कुर्वेऽहं नात्र संशयः ॥६॥ शुक्रेण पालिता यूयं तथाऽहमसुरेश्वराः । अजेयाः प्रभविष्यामो रवेश्च वरदानतः ॥७॥ ततस्ते तं नमस्कृत्य संजगुर्हर्षसंयुताः । महात्मानं महाभागं तपस्तेजःसमन्वितम् ॥८॥ दैत्येशा ऊचुः । सम्यग्विचारिताः स्वामिंस्तृप्ता वाक्यामृतेन ते । जेष्यामः सकलान् लोकांस्त्वदाज्ञावशगा वयम् ॥९॥ न ते पराक्रमे तुल्यो विश्वस्मिन् विद्यते प्रभो । अतो विष्णुमुखान् देवान् जेष्यामोऽन्यांश्च सांप्रतम् ॥१०॥ रविरुवाच । इति मोहासुरस्तेषां वचः श्रुत्वा प्रतापवान् । आज्ञापयच्च दैत्येशान् मुदा भवत दंशिताः ॥११॥ ते सर्वे युद्धमार्गज्ञा ययुस्तस्य प्रसन्निधौ । नानाशास्त्रधरा भूत्वा यममत्तुमिवोद्यताः ॥१२॥ तान् दृष्ट्वा हर्षितो दैत्यो वीर्यवांश्च महासुरः । रथसंस्थः स्वयं दैत्यैर्निजगाम स दंशितः ॥१३॥ चतुरंगचमूमध्ये रराज रथसंस्थितः । कालरुद्र इवाध्यक्षः सर्वेभ्यो भयदायकः ॥१४॥ स्वयं शुक्रेण संयुक्तः पृथिवी- जयनोद्यतः । असुरैः सहितः पूर्वं बभ्राम वसुधातले ॥१५॥ अपारा तस्य सेना सा छादयामास वै धराम् । चलनोत्थरजस्केन च्छादितो भास्कराऽभवत् ॥१६॥ कालरूपैर्महादैत्यैः प्रयोद्धुं भूमिमंडले । कः समर्थो भवेद्विप्रा जितं तैः स्वेन तेजसा ॥१७॥ सप्तद्वीपवतीं पृथिवीं जित्वा तेऽसुरसत्तमाः । ययुः सर्वे जयार्थाय देवान् विष्णुपुरोगमान् ॥१८॥ देवाः सर्वे समाश्रुत्य ससैन्यं चागतं द्विजाः । मोहासुरं भयोद्विग्ना इंद्रं ते शरणं ययुः ॥१९॥ इंद्रेण सहिताः सर्वे ब्रह्माणं प्रययुस्ततः । तेन सार्धं च कैलासे शंकरं शरणं ययुः ॥२०॥ शंकरेण युता देवा वैकुंठं केशवं ययुः । केशवेन युताः सर्वे भास्करं प्रययुस्ततः ॥२१॥ भास्करस्तानुवाचाऽथ भययुक्तान् सुरेश्वरान् । निःश्वस्य भयसंयुक्तो वचनं हितकारकम् ॥२२॥ भास्कर उवाच । मदीय- वरदानेन समर्थो दैत्यपुंगवः । मोहासुरश्च देवेंद्रस्तं जेतुं कः क्षमो भवेत् ॥२३॥ कर्मणां फलमुग्रं यच्च्यवते केनचिन्न तत् । अतो वयं वनेष्वद्य वसामो भयसंयुताः ॥२४॥ त्यक्त्वा राज्यादिकं सर्वं देहं रक्षामहे वयम् । पुण्यांते तस्य मृत्युर्वै भविष्यति

खं. ३ अ. ७ पान १६ न संशयः ॥२५॥ अन्यथा दैत्यभूपेंद्रो मोहदैत्यः प्रतापवान्। हनिष्यति स देवेंद्रं तस्मात् कुर्वंतु मे वचः ॥२६॥ एवं मदीयं वाक्यं वै श्रुत्वा प्राह बृहस्पतिः। सर्वनीतिविशेषज्ञो देवाचार्यो महायशाः ॥२७॥ बृहस्पतिरुवाच। शृणुध्वं देवराजानो वचनं हितकारकम्। भानुना भाषितं वाक्यं तन्नो भवति वै हितम् ॥२८॥ ततः सर्वेऽब्रुवन् देवाः साधु साधु त्वयेरितम्। भानुना च गुरोर्वाक्यं करिष्यामो वयं तथा ॥२९॥ एवं निश्चित्य देवेंद्र देवाः सर्वे ययुर्वनम्। गुहासु पर्वतोद्देशे संस्थिता भयसंयुताः ॥३०॥ मोहासुरोऽसुरैः सर्वैर्देवानां नगरेषु च। आययौ तत्र देवेंद्रान् स नापश्यत् सुहर्षितः ॥३१॥ तेषु दैत्यान् समास्थाप्य स्वयमैंद्रपदे स्थितः। दैत्यैः संसेव्यमानश्च बुभुजे भोगमुत्तमम् ॥३२॥ गंधर्वाप्सरसस्तस्य सेवां चक्रुर्भयाकुलाः। स्वर्लोकवासिनो नाना तथैव च महर्षयः ॥३३॥ ततोऽगाद्दैत्यपैः सर्वैः सत्यलोकं महाबलः। मोहासुरो द्विजास्तत्र न ददर्श पितामहम् ॥३४॥ शून्यं नगरमेवं तत् दृष्ट्वा हर्षसमन्वितः। ययौ वैकुंठमुग्रोऽसावदर्शत्तत्र तादृशम् ॥३५॥ ततः कैलासमागत्य शंकरेण विवर्जितम्। पुरं वीक्ष्य ययौ सोऽपि सौरलोकं महासुरः ॥३६॥ तत्रादित्यविहीनं च शक्तिलोकं तथा ययौ। दृष्ट्वा शक्तिविहीनं तं मुमुदे दैत्यनायकम् ॥३७॥ ततो दैत्येंद्रमुख्योऽसौ स्वसुतान् बलगर्वितान्। स्थापयामास देवानां नगरेषु विशेषतः ॥३८॥ कैलासेऽधिपतिं चक्रे ह्युग्रं पुत्रं महासुरः। विकुंठाधिपतिं तद्वत् क्रूरं दैत्यसमन्वितम् ॥३९॥ सौरलोकाधिपं मेधाविनं चक्रे च गर्वितम्। शक्तिलोके तथा सोऽपि शोचनं युद्धलालसम् ॥४०॥ सत्यलोकेऽधिपं चक्रे हरणं सर्वहारकम्। प्रचंडमुख्यकान् चक्र इंद्रलोकादिकाधिपान् ॥४१॥ कालांतकश्च पातालदेशेषु प्रेषितस्ततः। मोहासुरेण नागेंद्रं ययौ शेषं स सैनिकः ॥४२॥ कालांतकं दैत्यराजमागतं च हि नागराट्। विनयेन ययौ तं स साम चक्रे सुरेण वै ॥४३॥ एवं जिगाय ब्रह्मांडं स उग्रो दैत्यनायकः। मोहासुरो महावीर्यो मुमुदे दैत्यपैर्द्विजाः ॥४४॥ ततः स्वनगरे दैत्यो ययौ सर्वैः समन्वितः। विषयावासके तत्र पुरे स शुशुभे ततः ॥४५॥ तत्रस्थः प्रशासाऽसौ ब्रह्मांडं लोकसंकुलम्। राज्यं चकार दैत्येंद्रो दैत्येंद्रैश्च समन्वितः ॥४६॥ भोगान् स बुभुजे नाना ह्यतुलान् विषयप्रियः। दैत्यैः सह प्रगर्वेण कृतकृत्यममन्यत ॥४७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते मोहासुरविजयवर्णनं नाम सप्तमोऽध्यायः।

खं. ३ अ. ८ पान १७ ॥ श्रीगणेशाय नमः ॥ रविरुवाच । ततोऽतिगर्वितो मोहासुरो दैत्यः प्रतापवान् । देवानां जीवघातार्थं प्रयत्नं स चकार ह ॥१॥ तदर्थं प्रेषयामास दैत्यान् परमदारुणान् । कर्ममार्गस्य ते सर्वे चक्रुः खंडनमादरात् ॥२॥ स्वल्पकालेन भो विप्राः कर्महीनं महीतलम् । कृतं दैत्यैश्च सर्वत्र त्रासिताः कर्मकारकाः ॥३॥ वर्णाश्रमविहीनं तैः कृतं सर्वत्र भूतलम् । धर्ममूलं तथा नष्टं बभूव क्रमतः किल ॥४॥ न स्वाहा न स्वधा कुत्र प्रबभूव महर्षयः । मोहासुरस्य मूर्तिं ते स्थापयामासुरादरात् ॥५॥ दैत्यपास्तत्र लोकैर्वा पूजां सर्वत्र संमताम् । कारयामासुरुग्रैश्च दंडैः संताड्य मानवान् ॥६॥ ततो मुनिगणाः सर्वे भ्रष्टा जाता विशेषतः । मृताः केचित्तथाऽरण्ये गताः परमदारुणे ॥७॥ तत्र ते भयसंयुक्ताः क्रियां चकुर्महर्षयः । एवं धर्मस्य विच्छेदः कृतस्तेन सुरारिणा ॥८॥ ततो देवगणाः सर्वे भययुक्ता विशेषतः । उपोषणसमायुक्ता विचारं चक्रिरे द्विजाः ॥९॥ मिलिता मुनिभिः सार्धं मोहासुरविनाशने । न प्रापुर्देवविप्रेंद्रा उपायं सुखदं परम् ॥१०॥ ततस्तानर्यमा प्राह शृणुध्वं सुरसत्तमाः । मुनयश्च महाभागा वचो मे हितकारकम् ॥११॥ नामरूपधरं सर्वं तस्मान् मृत्युर्न वै भवेत् । मोहासुरस्य देवेंद्रस्तत्रोपायं वदाम्यहम् ॥१२॥ गणेश्वरस्य हस्तेन दैत्योऽयं प्रमरिष्यति । स्वयं योगमयः प्रोक्तस्तस्मात्तं प्रभजामहे ॥१३॥ स एव निजलोकस्थो निजबोधेन दैत्यपम् । हनिष्यति न संदेहः स्तूयतां स सुरेश्वराः ॥१४॥ सूर्यस्य वचनं श्रुत्वा देवा हर्ष- समन्विताः । विष्ण्वादयाश्च पुनस्तं ते जगुर्वचनमुत्तमम् ॥१५॥ देवा ऊचुः । सम्यगुक्तं त्वया भानो बुद्ध्या त्वमधिको मतः । सर्वेभ्यो जीवदाता भो जातोऽस्यत्र न संशयः ॥१६॥ ततो देवाश्च विप्राश्च तपसा गणनायकम् । आराधयन् प्रयत्नेन विघ्नवारणकारणम् ॥१७॥ एकाक्षरविधानेनापूजयंस्तं निरंतरम् । अजपन् मंत्रमाद्यं तु ध्यायंतो गणपं हृदि ॥१८॥ नानातपः- समायुक्ता उपोषणपरायणाः । ऋषयो देवदेवेशा विघ्नेश्वरमतोषयन् ॥१९॥ वर्षाणां शतकेष्वेवं गतेषु गणनायकः । आययौ तान् वरं दातुं भृशं भावेन तोषितः ॥२०॥ सौम्यतेजोयुतश्चैवाखुगः पूर्णो गजाननः । चतुर्बाहुर्दयापूर्णो महोदर- विराजितः ॥२१॥ एकदंतो विशालाक्षः शूर्पकर्णधरः प्रभुः । सिद्धिबुद्धिसमायुक्तो नाभिशेषविराजितः ॥२२॥ चिंतामणिं गले बद्ध्वा नागयज्ञोपवीतवान् । एवं समाययौ देवो देवर्षीणां पुरो विभुः ॥२३॥ तं दृष्ट्वा देवविप्रास्ते हर्षिता भक्तिसंयुताः । प्रणेमुः पूजयामासुर्यथाशास्त्रविधानतः ॥२४॥ ततस्तं तुष्टुवुः सर्वे कृतांजलय आदरात् । तद्दर्शनमहोत्साहा यथामतय भो द्विजाः ॥२५॥ देवर्षय ऊचुः । नमस्ते गणनाथाय महोदरस्वरूपिणे । अनाथाय च नाथाय सर्वेषां ते नमो नमः ॥२६॥

खं. ३ अ. ८ पान १८

अनादिसिद्धिनाथाय बुद्धिनाथाय ढूँढये । हेरंबाय स्वभक्तेभ्यः सर्वदाय नमो नमः ॥२७॥ चतुर्बाहुधरायैव शूर्पकर्णाय ते नमः । लंबोदराय विघ्नेश विघ्नवारण ते नमः ॥२८॥ गजाननाय देवायाऽखुवाहाय महात्मने । शेषनाभिस्थितायैकदंताय नमो नमः ॥२९॥ महागणापते तुभ्यं सर्वकारणकारण । भक्तवाञ्छाविघातानां हराय तु नमो नमः ॥३०॥ मायाश्रयाय मायायाधारकाय महाभुज । अभक्तकामदहनरूपाय च नमो नमः ॥३१॥ योगानां पतये तुभ्यं योगदात्रेऽव्ययाय ते । स्वानंदवासिने चैव योगाकाराय ते नमः ॥३२॥ सर्वेषां जठरेषु त्वं स्थित्वा भोगान् करोषि वै । भोक्ता त्वदुदरे वै न कोऽपि तेन महोदरः ॥३३॥ देहदेहिसमायोगे बोधब्रह्मणि संस्थितम् । को जानाति च तं देवं सोऽपि दर्शनतां गतः ॥३४॥ भक्तवत्सलभावेन प्रकटस्त्वं समागतः । वयं तेन कृतार्थाश्च देवदेवेश निश्चितम् ॥३५॥ वयं धन्या यतो दृष्टः सर्वोदर- विलासकृत् । महोदरः प्रसन्नात्मा साक्षाद्ब्रह्मपतिः प्रभुः ॥३६॥ किं स्तौमि त्वां गणाधीश वेदादीनां तथोदरे । संस्थितं प्रणमामस्तं योगगम्यं सनातनम् ॥३७॥ रविरुवाच । एवं स्तुतिं समाकर्ण्य प्रणयेन सुतोषितः । जगाद तान् गणेशानो भक्तिभावनियंत्रितः ॥३८॥ महोदर उवाच । वृणुध्वं सर्वदेवेशा मुनयश्च यथेप्सितम् । दास्यामि सकलं तद्वो भक्त्या स्तोत्रेण तोषितः ॥३९॥ भवत्कृतमिदं स्तोत्रं भवेन् मत्प्रीतिवर्धनम् । पठतां शृण्वतां देवाः सर्वसिद्धिप्रदायकम् ॥४०॥ इति तस्य वचः श्रुत्वा देवा मुनिगणैः सह । हर्षयुक्ताः प्रणम्यैनं जगुस्ते तं गणेश्वरम् ॥४१॥ देवर्षय ऊचुः । यदि प्रसन्नतां यातो देवदेवेश विघ्नप । तदा ते पादपद्मे नो भक्तिं देहि विशेषतः ॥४२॥ मोहासुरेण दुष्टेन स्थानभ्रष्टाः कृता वयम् । मुनयः कर्महीनाश्च जहि तं गर्वसंयुक्तम् ॥४३॥ ब्रह्मांडं विजितं तेन तत्र लोकाः सुदुःखिताः । कृतास्तान् सुखदाता वै भव स्वामिन्नमोऽस्तु ते ॥४४॥ तेषां वचनमाकर्ण्य तानुवाच तथेति ह । महोदरः प्रसन्नात्मा भक्तवत्सलभावतः ॥४५॥

॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते देवर्षिवरप्रदानं नामाष्टमोऽध्यायः ॥

खं. ३ अ. ९ पान १९ ░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░░ ॥ श्रीगणेशाय नमः ॥ रविरुवाच । ततो महोदरः क्रोधसमायुक्तः प्रतापवान् । परश्वादि स्वायुधानि दधानो प्रबभौ द्विजाः ॥१॥ मूषकोपरि संस्थाय देवर्षिगणसंयुतः । मोहासुरं निहंतुं स ययौ तन्नगरे प्रभुः ॥२॥ एतस्मिन्नंतरे तत्र समासीनो महासुरः । मोहो दैत्याधिपैः सर्वैर्वेष्टितः प्रबभौ द्विजाः ॥३॥ अकस्मान्नारदो दैत्यं ययौ गानपरायणः । तं दृष्ट्वा प्रणनामाऽथ मोहः सर्वसमन्वितः ॥४॥ समासीनं महादैत्यः पप्रच्छ विनयान्वितः । वद चित्रं मुने किंचित् भ्रमसि त्वं च सर्वगः ॥५॥ दैत्यस्य वचनं श्रुत्वा नारदस्तमुवाच ह । हर्षयुक्तः कथां पुण्यां दैत्यस्य विषरूपिणीम् ॥६॥ नारद उवाच । मोहासुर महाभाग शृणु मे वचनं हितम् । चित्रं वदामि यद् दृष्टं भावपूर्वेण चेतसा ॥७॥ देवैः संप्रार्थितो देवो मुनिर्भवनसंस्थितैः । महोदर- वधार्थाय तव दैत्यपतेऽधुना ॥८॥ स देवो मूषकारूढो वधार्थं ते समागतः । दशयोजनदूरस्थो बभूवासुर चाधुना ॥९॥ इत्युक्त्वा नारदस्तं स मौनभावपरायणः । बभूव दैत्यराजस्तु भयोद्विग्नस्तदाऽभवत् ॥१०॥ नियम्य दुःखमुग्रं स उवाच नारदं पुनः । मोहासुरो भयोद्विग्नो हृदयेन विदूयता ॥११॥ महासुर उवाच । शृणु नारद मे वाक्यं न मृत्युर्मे प्रवर्तते । नामरूपात्मकेभ्यश्च किं करिष्यति देवपः ॥१२॥ महोदरात्मको नाम रूपधारी समागतः । स देवं तं हनिष्यामि नात्र कार्या विचारणा ॥१३॥ तस्य दैत्याधिपस्यैतद्वचनं नारदो मुनिः । श्रुत्वोवाच महायोगी मोहासुरं विचारतः ॥१४॥ शृणु मोहासुर त्वं मे वचनं हितकारकम् । महोदरो नरो नैव न देवो न च राक्षसः ॥१५॥ नामरूपविहीनं यद्ब्रह्म वेदेषु कथ्यते । नामरूपमयं पूर्णं स एवायं समागतः ॥१६॥ हनिष्यति यदा क्रुद्धस्त्वां तस्माच्छरणं व्रज । महोदरं महाभागं तेन त्वं सुखमेष्यसि ॥१७॥ ततस्तं दैत्यराजः स जगाद भयसंकुलः । वद नारद योगज्ञ भ्रमनाशाय मे वचः ॥१८॥ नामरूपविहीनोऽयं कथ्यसे च महोदरः । समागतः कथं देही नामरूपसमन्वितः ॥१९॥ नामरूपमयं ब्रह्म नामरूपविवर्जितम् । सर्वत्रयोगभावेन तिष्ठत्यत्र न संशयः ॥२०॥ स्वपरभ्रांतिजो मोहो न कदा तत्र वर्तते । देवदैत्यादिभेदेषु समभावयुतं सदा ॥२१॥ अयं महोदरश्चैव देवपक्षविवर्धनः । दैत्यानां प्रवधार्थाय किमर्थं कुरुते मतिम् ॥२२॥ विपरीतमिदं विप्र वचनं ते च सांप्रतम् । भासते पश्य योगींद्र नुद मे संशयं प्रभो ॥२३॥ महोदरस्य मामन्यत् ब्रह्मर्षे वद चेष्टितम् । किंरूपः किंस्वभावश्च कस्यांशः किंपराक्रमः ॥२४॥ कुत्र वासकरः सोऽपि कीदृशं ब्रह्म तस्य यत् । एतत् सर्वं सुविस्तार्य ज्ञानं मे करुणानिधे ॥२५॥ भानुरुवाच । एवं पृष्टो महायोगी गाणपत्यः प्रतापवान् । मोहासुरं यथापूर्वं तं जगाद महासुरम् ॥२६॥

नारद उवाच । मोहासुर महाभाग मतिस्ते योगिसंमता । योगरूपं त्वया पृष्टं तेनाऽहं तोषितो भृशम् ॥२७॥ अतस्त्वां सकलं दैत्य कथयामि विशेषतः । शृणुष्वैकमना ढुंढेश्चेष्टितं योगदं परम् ॥२८॥ नामरूपमयं विद्धि जगत्सर्वं चतुर्विधम् । नामरूप- विहीनं यद्देहिरूपं जगद्धितम् ॥२९॥ तयोर्योगे च दैत्येंद्र बोधः सर्वत्र संमतः । ब्रह्म यद्वेदवादेषु कथ्यते विद्धि चेतसा ॥३०॥ तदेव नामरूपादियुक्तं भवति सर्वदा । तदेव नामरूपादि हीनं भवति सर्वदा ॥३१॥ तद्ब्रह्म पूर्णभावेन संस्थितं योग- वाचकम् । दैत्यपुंगव जानीहि तदेवाऽसौ महोदरः ॥३२॥ देहदेहिकृतो भोगः स्वस्वस्वानंददः परः । सर्वत्रगः स उदरे भुक्तभोगश्च कथ्यते ॥३३॥ उदरेन कृतो भोगो यदि बाह्यपरायणैः । तदा ते मरणैर्युक्ता भवंति स्वल्पकालतः ॥३४॥ स्वस्वानंदमयो भोगो भुज्यते सर्वभावतः । सर्वैर्ब्रह्माभिरत्यंतं जगद्द्भिश्चैव निश्चितम् ॥३५॥ भिन्नभोगश्च विश्वस्मिन्नात्मनि ह्यमृतात्मकः । एकभावमयो भोगो भोगयुक्तानुभौ मतौ ॥३६॥ देहेषु जठरं भिन्नं जठरं मतमात्मनि । एकभावात्मकं दैत्य जानीहि योगसेवया ॥३७॥ यदि भोगविहीनौ तौ विश्वात्मानौ महामते । विशेषतो यत्नवंतौ किमर्थं वै बभूवतुः ॥३८॥ नामरूपधरं विश्वं जातं भोगार्थमेव च । नामरूपविहीनं यद्देही जातस्तदर्थतः ॥३९॥ नास्ति भोगस्य चेच्छा चेत् किमर्थं द्विविधं भवेत् । अतो जानीहि दैत्येंद्र भोगयुक्तौ विशेषतः ॥४०॥ विश्वात्मनोश्च संस्थोऽयं जठरे गणनायकः । महोदराख्या संजाता तेन तस्य महात्मनः ॥४१॥ द्विविधस्य च दैत्येंद्र जठरं स्वल्पवाचकम् । स्वस्वभोगपरत्वाद्वै विचारय महामते ॥४२॥ सकलानां विशेषेणोदरेषु स सदा स्थितः । महोदरश्च तेनाऽयं कथितो वेदवादिभिः ॥४३॥ विश्वं देहमयं तस्य मस्तकं चात्मवाचकम् । तयोर्योगे गणेशोऽयं कथ्यते स गजाननः ॥४४॥ जायते सकलं यस्मादंते गच्छति यत्र च । दैत्यनायक जानीहि गजरूपं तदेव वै ॥४५॥ विश्वात्मानौ च संसृष्टौ ताभ्यां ज्ञानार्थमेव सः । तपसाऽऽराधितो देवो देहधारी बभूव ह ॥४६॥ न तस्य प्राकृतो देहः सर्ववत्पश्य दैत्यप । भुक्तिमुक्त्यर्थमेवं स स्वेच्छया देहभोगवत् ॥४७॥ स्वसंवेद्येन योगेन लभ्यते गणनायकः । तदेव नगरं तस्मात्तस्य जानीहि सर्वगम् ॥४८॥ सिद्धिर्भ्रांतिप्रदा माया ततो भ्रमति वै जनः । बुद्धिर्भ्रांतिधरा प्रोक्ता चित्तरूपा विशेषतः ॥४९॥ चित्तं पंचविधं प्रोक्तं तदैश्वर्यं भ्रमात्मकम् । त्यक्त्वा शांतिमवा- प्नोति योगीशो योगसेवया ॥५०॥ तस्मात्सिद्धेश्च बुद्धेश्च स्वामी प्रोक्तो महोदरः । तं भजस्व महादैत्य नोचेत्त्वां स हनिष्यति ॥५१॥ सुरासुरमयं तेन सृष्टं विश्वं विशेषतः । स्वस्वधर्मसमायुक्तं तेन खेलति विघ्नपः ॥५२॥ देवा दैत्यविनाशार्थं

खं. ३ अ. १० पान २१

यतंते स्म यदा प्रभो । तदा दैत्याय भवति सिद्धीशः सिद्धिदायकः ॥५३॥ देहधारी स्वयं भूत्वा वरदो भवति प्रभुः । असुरेभ्यो न संदेहस्तं जानीहि महोदरम् ॥५४॥ दैत्या देवविनाशार्थं यतंते सर्वभावतः । तदा देहधरश्चाऽयं हंति दैत्यान्न संशयः ॥५५॥ देवाः संख्यायुता वेदे वर्तते दैत्यनायक । वृद्धिक्षयविहीनत्वाद् हंति तान्न विशेषतः ॥५६॥ दैत्या अपाररूपाश्च वृद्धिक्षययुता मताः । तस्मात्तान् हंति वेगेन गणेशो ब्रह्मनायकः ॥५७॥ स्वस्वधर्मरता एते यदा खलु सुरासुराः । तदा तिष्ठत्ययं योगरूपश्च जठरे विभुः ॥५८॥ सर्वं ते कथितं दैत्य ब्रह्मभूतोऽयमुच्यते । तस्यांशैः सर्वमुत्पन्नं जगद्ब्रह्म च कथ्यते ॥५९॥ तस्मात्तं शरणं गच्छ यदि जीवितुमिच्छसि । भोगार्थं दैत्यराज त्वं मोक्षार्थं लालसा यदि ॥६०॥ एवमुक्त्वांतर्दधेऽसौ नारदः करुणानिधिः । गणेशगानसंयुक्तो वीणावादे प्रलालसः ॥६१॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते मोहासुरज्ञानप्रदानं नाम नवमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ रविरुवाच । गते मुनौ महाभागा मोहो जातः सुहर्षितः । विचारमकरोचित्ते नारदोक्तविचारवित् ॥१॥ एकांते संस्थितो दैत्यो गणेशध्यानतत्परः । महोदरस्य माहात्म्यं ज्ञात्वा मनसि हर्षितः ॥२॥ स शुक्रमुपसंगम्यकथयत् प्रकथानकम् । नारदोक्तं च काव्येन तेनैवं बोधितो द्विजाः ॥३॥ ततः स्वगृहमागत्य गणेशे मोहितोऽभवत् । मोहासुरश्च मोहेन वर्जितः प्रबभौ स्वयम् ॥४॥ एतस्मिन्नंतरे तत्र विष्णुः स्वयमुपाययौ । प्रेषितो गणराजेन सामार्थं दैत्यसन्निधौ ॥५॥ केशवं मानयामास मोहासुरः प्रतापवान् । अपूजयन् महादैत्यो निवेश्य शुभ आसने ॥६॥ पप्रच्छ तं महाविष्णुं किमर्थं त्वमिहागतः । वद विष्णो महाभाग कारणं ते करोम्यहम् ॥७॥ विष्णुरुवाच । महोदरः समायातो धर्मरक्षणतत्परः । देवैश्च मुनिभिः सार्धं तेनाऽहं प्रेषितोऽसुर ॥८॥ सामार्थं ते महाभागाऽसि धन्यो दैत्यनायक । मित्रभावं त्वया सार्धं स इच्छति महोदरः ॥९॥ देहदेहिमयं ब्रह्म तदेव गणनायकः । महोदरः समाख्यातो मुनिभिस्तत्त्वदर्शिभिः ॥१०॥ सर्वेषामुदरे स्थित्वा भोगान् सर्वान् भुनक्ति सः । महोदरश्च तेनाऽसौ वयं स्वल्पोदराः स्मृताः ॥११॥ नगरस्य पुरो राजन् दशयोजनदूरगः । संस्थितो देवविप्राद्यैः संस्तुतः प्रबभौ विभुः ॥१२॥ स उवाच तदेवाऽहं कथयामि शृणुष्व तत् । वचनं सर्वभावज्ञ

खं. ३ अ. १० पान २२


सर्वेभ्यः सुखदायकम् ॥१३॥ विरुद्धं त्यज दैत्येंद्र तिष्ठ स्थाने स्वके सुखम् । देवा हविर्भुजः संतु ब्राह्मणाः कर्मकारकाः ॥१४॥ तिष्ठंतु लोका वर्णाश्रमयुता दुःखवर्जिताः । एतत् कुरु महादैत्य नोचेद्युद्ध्यस्व दैत्यपैः ॥१५॥ एतत्ते कथितं वाक्यं गणेशेन विशेषतः । तत् कुरुष्व महाभाग भव मित्रं महात्मनः ॥१६॥ रविरुवाच । श्रुत्वा विष्णोर्वचो रम्यं तमुवाच महाबलः । मोहासुरः प्रसन्नात्मा सर्वेषां मोहकारकम् ॥१७॥ मोहासुर उवाच । सम्यग् ब्रवीषि विष्णो त्वं मदीयहितकारकम् । करिष्यामि तथा देवं मानयिष्ये महोदरम् ॥१८॥ एवमुक्त्वा स दैत्येंद्रानाहूयामास सत्वरम् । समागतानुवाचाथ विष्णुना कथितं वचः ॥१९॥ मोहासुरस्य वाक्यं तच्छ्रुत्वा ते दैत्यसत्तमाः। क्रोधयुक्ताश्च पातालं विविशुर्भयसंकुलाः॥२०॥ शुक्रेण सहितो मोहासुरो दैत्यः प्रतापवान् । विष्णुना च तथा विप्रा गणेशं शरणं ययौ ॥२१॥ समागत्य स दैत्येंद्रो ननाम स महोदरम् । भक्तिभावसमायुक्तः पूजयामास यत्नतः ॥२२॥ पूजयित्वा यथान्यायं पुनस्तं प्रणनाम सः । कृत्वा करपुटं मोहस्तुष्टाव च महोदरम् ॥२३॥ मोहासुर उवाच । नमस्ते ब्रह्मरूपाय महोदर सुरूपिणे । सर्वेषां भोगभोक्त्रे वै देहदेहिमयाय ते ॥२४॥ मूषकारूढदेवाय त्रिनेत्राय नमो नमः । चतुर्भुजाय देवानां पतये ते नमो नमः ॥२५॥ अनादये च सर्वेषामादिरूपाय ते नमः । विनायकाय हेरंब दीनपालाय वै नमः॥२६॥ गणेशाय निजानंदपतये ब्रह्मनायक । सिद्धिबुद्धिप्रदात्रे वै ब्रह्मभूताय वै नमः ॥२७॥ ब्रह्मभ्यो ब्रह्मदात्रे वै योगशांतिमयाय च । योगिनां पतये तुभ्यं योगिभ्यो योगदायक ॥२८॥ सिद्धिबुद्धिपते नाथ एकदंताय ते नमः । शूर्पकर्णाय शूराय वीराय च नमो नमः ॥२९॥ सर्वेषां मोहकर्त्रे वै भक्तेभ्यः सुखदायिने । अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥३०॥ मायाविने च मायाया आधाराय नमो नमः । मायिभ्यो मायया चैव भ्रांतिदाय नमो नमः ॥३१॥ किं स्तौमि त्वां गणाध्यक्ष यत्र वेदाः सहांगकाः । शांतिं प्राप्तास्तथापि त्वं संस्तुतोऽसि दयापरः ॥३२॥ धन्यौ मे पितरौ ज्ञानं तपः स्वाध्याय एव च । धन्यं वपुश्च देवेश येन दृष्टं पदांबुजम् ॥३३॥ इत्युक्त्वा प्रणनामाथ तमुवाच महोदरः । भक्तं भावयुतं दृष्ट्वा वचः परमशोभनम् ॥३४॥ महोदर उवाच । मोहासुर वृणुष्व त्वं वरं यं मनसीप्सितम् । दास्यामि भक्तिमोहेन मोहितोऽहं त्वयाऽधुना ॥३५॥ त्वां हंतुं क्रोधसंयुक्त आगतोऽहं न संशयः । शरणागतमेवं त्वां हन्मि नो भक्तिसंयुतम् ॥३६॥ मदीयं स्तोत्रमेतद्वै सर्वदं यत्त्वया कृतम् । भविष्यति जनायैव पठते शृण्वतेऽसुर ॥३७॥ मोहनाशकरं चैव भुक्तिमुक्तिप्रदं भवेत् । धनधान्यादिदं सर्वं पुत्रपौत्रसुखप्रदम् ॥३८॥


खं. ३ अ. ११ | पान २३

रविरुवाच । एवं गणेशवाक्यं स श्रुत्वा हर्षसमन्वितः । मोहासुर उवाचाऽथ निबद्धकरसंपुटः ॥३९॥ मोहासुर उवाच । महोदर नमस्तुभ्यं यदि दास्यसि मे वरम् । तदा ते पादपद्मे वै भक्तिं देहि दृढां प्रभो ॥४०॥ त्वदीयभक्तमित्रत्वं स्थानं भक्ष्यादिकं तथा । देहि मे देवदेवेश तत्र स्थास्यामि निश्चलः ॥४१॥ मोहासुरस्य तद्वाक्यं श्रुत्वा तं प्रत्युवाच ह । महोदरः प्रसन्नात्मा भक्तिभावेन तोषितः ॥४२॥ महोदर उवाच । मदीया भक्तिरुग्रा ते भविष्यति महामते । मदीयभक्त- मित्रत्वं प्राप्स्यसि त्वं न संशयः ॥४३॥ कर्मज्ञानादिभावेषु मदीयं पूजनं न हि । स्मरणं तत्र दैत्य त्वं भोगभोक्ता भविष्यसि ॥४४॥ स्वस्थाने तिष्ठ दैत्येंद्र स्वधर्मस्थितमादरात् । नरं मोहविहीनं च तं कुरुष्व भजस्व माम् ॥४५॥ तथेति गणपं मोहासुरो नत्वा प्रतापवान् । स्वस्थाने संस्थितो गत्वा शांतियुक्तो बभूव ह ॥४६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते मोहासुरशांतिवर्णनं नाम दशमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ रविरुवाच । गते मोहासुरे तत्र शांतरूपे सुरेश्वराः । सुरैश्च मुनिभिः सार्धं महोदरमपूजयन् ॥१॥ पूजयित्वा गणेशानं प्रणता भक्तिसंयुताः । तुष्टुवुस्ते विशेषेण हर्षयुक्ताः सुरर्षयः ॥२॥ सुरर्षय ऊचुः । अमेयमायामित- विक्रमाय निरंजनायाऽथ गणेश्वराय । अमायिने मायिकमोहनाय नमो नमस्तेऽस्तु महोदराय ॥३॥ मनोवचोहीन- तया स्थिताय मनोवचोयुक्तगजाननाय । अयोगसंयोगमयाय ढुंढे नमो नमस्तेऽस्तु महोदराय ॥४॥ विदेहरूपाय च बोधकाय तथाहि सोऽहंपदभोगकाय । सदा सुबिंद्वात्मकदेहगाय नमो नमस्तेऽस्तु महोदराय ॥५॥ गुणेशरूपाय सुषुप्तिकाय तथा सुसूक्ष्माय च जागृते ते । हरीश ब्रह्मादिषु संस्थिताय नमो नमस्तेऽस्तु महोदराय ॥६॥ शुभाशुभाकारधराय भूम्ने शुभाशुभादौ च सुपूजिताय । शुभाशुभे कर्मणि सिद्धिदाय नमो नमस्तेऽस्तु महोदराय ॥७॥ कर्त्रे सुपात्रे हरणाय कालप्रकाशरूपाय च भानवे ते । क्रियास्वरूपाय च शक्तिदाय नमो नमस्तेऽस्तु महोदराय ॥८॥ यमाय चंद्राय च वायवे वै कुबेररूपाय पुरंदराय । शिवाय वह्न्यात्मकनैर्ऋताय नमो नमस्तेऽस्तु महोदराय ॥९॥ अनंतरूपाय जलेशकाय प्रजापते रूपधराय पाशिन् । दिगीशपालाय दिशामयाय नमो नमस्तेऽस्तु महोदराय ॥१०॥ सुरासुराणां च समाय नित्यं सुरासुराकारधराय

खं. ३ अ. ११ पान २४

धात्रे। पिशाचगंधर्वमयाय यक्ष नमो नमस्तेऽस्तु महोदराय ॥११॥ धरास्वरूपाय जलप्रकाश जलस्वरूपाय च तेजसे ते। वाताय चाकाशमयाय धात्रे नमो नमस्तेऽस्तु महोदराय ॥१२॥ अनादिमध्यांतविहारकाय सदादिमध्यांतमयाय चित्रम्। तत्त्व- प्रकाशाय च तत्त्वमूर्ते नमो नमस्तेऽस्तु महोदराय ॥१३॥ नराय वर्णाश्रमसंस्थिताय द्विजस्वरूपाय नराधिपाय। वैश्याय शूद्राय तथाऽंतिमाय नमो नमस्तेऽस्तु महोदराय ॥१४॥ गुरोरधीनाय गृहस्थरूपवनस्थितायाऽथ परिव्रजाय। वर्णाश्रमैर्हीन- मयाय योगिन् नमो नमस्तेऽस्तु महोदराय ॥१५॥ वृक्षादिवीरुत्तृणसंस्थिताय धराधराकारमयाय देव। पशुस्वरूपाय च पक्षिणे ते नमो नमस्तेऽस्तु महोदराय ॥१६॥ रसस्वरूपाय रसाधिपाय तथाऽन्नरूपाय च जीवनाय। चराचराकारमयाय नाग नमो नमस्तेऽस्तु महोदराय ॥१७॥ वरांकुशाद्यैश्च सुचिह्नितायोंदुरुध्वजायाऽऽखुसुवाहनाय। त्रिनेत्रधाराय च शूर्पकर्ण नमो नमस्तेऽस्तु महोदराय ॥१८॥ स्वानंदलोकाधिप देवदेव सुसिद्धिबुद्धिप्रभवे परात्मन्। सदैकदंताय चतुर्भुजाय नमो नमस्तेऽस्तु महोदराय ॥१९॥ महोदरायादिसुपूजिताय सुवस्त्रसंभूषणभूषिताय। प्रमोदमौदादिगणैः स्तुताय नमो नमस्तेऽस्तु महोदराय ॥२०॥ सदामृताभेदमयेक्षुनीरसमुद्रलीलाकरकंजपाणे। गणेश हेरंब च भक्तपोष नमो नमस्तेऽस्तु महोदराय ॥२१॥ प्रविश्य विश्वोदरमेव भोगविहारिणे विश्वमयाय पूर्ण। विकारहीनाय सुबोधदाय नमो नमस्तेऽस्तु महोदराय ॥२२॥ अल्पोदरा देवमुखाश्च सर्वे स्वस्वप्रभोगे कुशलाश्च तेन। तेषु त्वमेवं सुखभोगकारिन् नमो नमस्तेऽस्तु महोदराय ॥२३॥ भानुरुवाच। एवं संस्तुवतां तेषां सुरर्षीणां महर्षयः। समुत्पन्नो भक्तिरसस्तेन ते नन्दतुः पुरः ॥२४॥ साश्रुनेत्रान् स रोमांचान् रुद्धकंठान् विशेषतः। तानुवाच स्वयं देवो भक्तान् वै भक्तवत्सलः ॥२५॥ गणेश उवाच। वरान् वृणुत देवेशा देवा मुनिगणास्तथा। भक्त्या स्तोत्रेण तुष्टोऽहं दास्यामि मनसीप्सितान् ॥२६॥ गणेशवचनं श्रुत्वा हर्षयुक्ताः सुरर्षयः। तं प्रणम्य महात्मानं द्विजा ऊचुर्महोदरम् ॥२७॥ देवर्षय ऊचुः। यदि तुष्टोऽसि देवेश तदा ते भक्तिमुत्तमाम्। देहि नो गणनाय त्वं तया तृप्ताः स्म सांप्रतम् ॥२८॥ त्वया शांतिधरो दुष्टः कृतो मोहासुरः प्रभो। तेन सर्वं जगत् पूर्णं वरैश्चापि प्रपालितम् ॥२९॥ अधुना तापसंहीनाः कृता गणपते वयम्। त्वं नाथोऽसि जगन्नाथ अनाथानां करोषि तत् ॥३०॥ एवमुक्त्वा गणेशानं प्रणेमुस्ते सुरर्षयः। तथेति तानुवाचैव गणेशोऽंतर्दधे द्विजाः ॥३१॥ देवाश्च मुनयः सर्वे स्वस्वस्थानं ययुस्ततः। स्वस्वधर्मरता लोका बभूवुर्विगतज्वराः ॥३२॥ एवं मोहासुरं विप्राः शांतिरूपधरं प्रभुः। चकार