मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
अन्तर्दधुस्ततः सर्वे हृष्टाः स्थानं ययुः स्वकम् ॥८॥ एवं सर्वैः पुरा साधो ब्रह्मयज्ञः कृतोऽभवत् । तेन संशयहीनास्ते भजंते गणनायकम् ॥९॥ एतत्ते कथितं पूर्णयोगशांतिप्रदं परम् । सर्वमान्यं विशेषेण भज तं गणनायकम् ॥१०॥ सुबोध उवाच । एवमुक्त्वा महायोगी शुकश्चांतर्हितोऽभवत् । प्रह्लादो भक्तिसंयुक्तो भजते गणनायकम् ॥११॥ संश्रुतं मातुरुदरसंस्थेन सकलं ततः । मया धृतं विशेषेण तदेवं योगदायकम् ॥१२॥ पूर्वपुण्यबलेनैव स्मृतिर्मेऽत्र प्रसंस्थिता । जनितोऽहमतो विप्रा भजामि गणनायकम् ॥१३॥ एतत् सर्वं मया प्रोक्तं यत्पृष्टं गुरुमुख्यकाः । अतो मे मोहदां विद्यां मा वदेत दयायुताः ॥१४॥ श्रीकृष्ण उवाच । सुबोधस्य वचः श्रुत्वा ब्राह्मणा हर्षसंयुताः । ऊचुस्तं योगनिपुणं भावज्ञा भावसिद्धये ॥१५॥ विप्रा ऊचुः । सुबोध यत्त्वया प्रोक्तं तत्तथा न तदन्यथा । तथापि शृणु वत्स त्वं हितकारकमुत्तमम् ॥१६॥ पितामहो महाभाग दुर्बुद्धिस्ते महासुरः । गणेशेन हतो रोषाद्देवपक्षप्रधारिणा ॥१७॥ तं द्वेष्टि गणराजं च पिता ते पितृवत्सल । पितृद्रुहं ततस्त्वं तं त्यज विघ्नेशमादरात् ॥१८॥ नोचेत्त्वां ते पिता पुत्र हनिष्यति न संशयः । तस्मादाग्रहमत्यंतं मा कुरुष्व महामते ॥१९॥ असुराणां कुले पश्य जनिस्तव हितावहा । स्वकुलस्थस्य मार्गस्य सेवनं कुरु सर्वदा ॥२०॥ तेषां वचनमाकर्ण्य सुबोधो रक्तलोचनः । जगाद तान् द्विजांस्तत्र वचनं धर्मसंयुक्तम् ॥२१॥ सुबोध उवाच । सर्वत्र योगरूपेण गणेशस्तिष्ठति द्विजाः । स्वस्वधर्मनियंताऽसौ नानाक्रीडापरायणः ॥२२॥ स्वर्गे देवा नराः पृथ्व्यां पाताले तेन दैत्यपाः । स्थापिताः स्वस्वमार्गेषु स्थातव्यं तैर्हितेप्सुभिः ॥२३॥ पितामहश्च मे विप्रास्त्रिलोकी राज्यमुत्कटम् । चकार धर्महीनः स तस्मात्तेन हतो बलात् ॥२४॥ पिता मेऽपि तथा विप्रा धर्महीनतया स्थितः । तं हनिष्यति वेगेन गणेशो नात्र संशयः ॥२५॥ अतः किं गणराजेन विपरीतं कृतं द्विजाः । स्वधर्मस्य प्रियेणैव मां वदेत विशेषतः ॥२६॥ सर्वेषां हितकर्ताऽसौ विघ्नराजो न संशयः । तं भजिष्यामि यत्नेन त्यक्त्वा स्वपितरं खलम् ॥२७॥ गणेशं भजमानं मां वधिष्यति यदा खलः । तदेव मरणं श्रेष्ठं ब्रह्म- भूयप्रदं भवेत् ॥२८॥ मशके कुपिते किं वै गृहं त्यक्त्वा मनीषिणः । तिष्ठंति ब्राह्मणाः सर्वे मां वदेत हि सांप्रतम् ॥२९॥ बुद्धेः पतेर्गणेशस्य सत्ता सर्वत्र वर्तते । सिद्धेः पतेर्न संदेहः किं करिष्यति मां पिता ॥३०॥ स्वधर्मः सर्वभूतानां धर्म- कामार्थमुक्तये । ब्रह्मभूयार्थमत्यंतं गणेशभजनात्मकः ॥३१॥ तं तादृशं स्वधर्मं किं त्यक्त्वा विषयलंपटः । भविष्याम्य- सुराधीनो ब्राह्मणाः कुलपांसवः ॥३२॥ न ब्राह्मणा भवंतोऽपि विषयेषु परायणाः । त्यक्त्वा धर्मं स्थिता अत्र दैत्याधीना
न संशयः ॥३३॥ गणेशभजने सक्ता ब्रह्मभूयपरायणाः । ब्राह्मणास्ते मताः शास्त्रे किं मां वदथ बालिशाः ॥३४॥ श्रीकृष्ण उवाच । शुक्रशिष्यान् प्रजानाथ एवमुक्त्वा महामतिः । सुबोधो गणनाधस्य भजने तत्परोऽभवत् ॥३५॥ नमो गणेशाय नमो महात्मने नमः परेशाय परात्पराय ते । अनादिमध्यांतमयाय ढुंढये नमो नमो विघ्नपते सुशांतिद ॥३६॥ एवं विवदमानं तं ज्ञात्वा काव्यस्य शिष्यकाः । भयभीता विशेषेण ज्ञानारिं ते ययुः प्रभो ॥३७॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते शुक्रशिष्यसुबोधसंवादो नामाष्टचत्वारिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ श्रीकृष्ण उवाच । काव्यशिष्या गतास्तत्र यत्र दैत्याधिपोऽभवत् । सभासनस्थमूचुस्तं दृष्ट्वा भयसमन्विताः ॥१॥ शुक्रशिष्या ऊचुः । ज्ञानारे शृणु वाक्यं नो दारुणं विपरीतगम् । पुत्रस्तेऽभून् मदोत्सिक्तः सर्वदा- ऽस्मानुपेक्षते ॥२॥ उल्लंघ्य सर्वमस्माभिः कथितं जातिदूषणम् । करोति स्वमतेनायमन्यान् संबोधयंस्तथा ॥३॥ पितृहंतार- मत्यंतं सदा स्मरति भक्तितः । तिरस्कृत्य महाराज त्वामस्मान्नात्र संशयः ॥४॥ अतः कथयितुं याताः शिक्षयस्व स्वपुत्रकम् । वयं शिक्षयितुं शक्ता नाविनीतं महामते ॥५॥ श्रीकृष्ण उवाच । तेषां वचनमाकर्ण्य क्षोभितो दैत्यनायकः । प्रेषयामास दूतं स पुत्रमानेतुमंतिके ॥६॥ दूतेनागतमेवं तं पुत्रं दृष्ट्वा महासुरः । उवाच कृतवंतं तं प्रणामं क्रोधसंयुक्तः ॥७॥ ज्ञानारिरुवाच । किं तिरस्कृत्य रे वत्स गुरून् स्मरसि तद्वद । हितं ते हृदये किं च वर्तते कुलपांसन ॥८॥ पितुर्वचनमाकर्ण्य क्रोधयुक्तः सुबोधकः । उवाच पितरं भ्रांतं मायया गणपस्य सः ॥९॥ सुबोध उवाच । सर्वेषां कुलदेवं च सर्वेषां हितकारकम् । भुक्ति- मुक्तिप्रदं तात भजामि गणनायकम् ॥१०॥ ब्रह्मविष्णुवादिभिर्देवैः कश्यपादिमुनीश्वरैः । पूजितं कुलवृद्ध्यर्थं योगशांत्यर्थ- मादरात् ॥११॥ कश्यपात् वयमुत्पन्ना देवा दैत्यास्तथा नराः । जंतवो विविधाश्चैव तेषां स्वामी तथाऽभवत् ॥१२॥ भजामि गणनांथं वै अतोऽहं सर्वभावतः । तमनादृत्य दैत्येश न सिद्धिं लभते पुमान् ॥१३॥ तस्य तद्वचनं श्रुत्वा क्रोधयुक्तो महासुरः । जगाद तं धर्मराजमुखादनलमुद्वमन् ॥१४॥ ज्ञानारिरुवाच । अस्माकं शत्रवो देवा दैत्यानां नात्र संशयः । सुरासुराश्च वेदेषु प्रोक्ताः पश्य सुदुर्मते ॥१५॥ तत्राप्ययं पितृहंता मम तं भजसे मुधा । बालभावे मया ज्ञातं चेष्टितं ते
खं. ३ अ. ४९ पान १०७ रिपुश्रितम् ॥१६॥ बालं मत्वा न दुष्ट त्वां हतवान् कृपया शठ । अधुना तादृशं मत्वा न मुंचामि कदाचन ॥१७॥ त्यज शत्रुं महामूर्ख नोचेद्धन्म्यधुना किल । एवमुक्त्वा खड्गहस्तो दुद्राव स्वसुतं नृप ॥१८॥ ततस्तं दैत्यराजं स उवाच तनयो वचः । किं धर्षयसि मां तात भ्रांतिभावेन मोहितः ॥१९॥ सर्वसत्ताधरः प्रोक्तो वेदेषु गणनायकः । तस्य सत्तां परित्यज्य किं मां हंसि त्वमेव च ॥२०॥ सुरासुरमयः साक्षाद्गणेशो नात्र संशयः । उद्धतं हंति वेगेन नानारूपधरः प्रभुः ॥२१॥ ब्रुवंतं स्वसुतं दृष्ट्वा भयहीनं युधिष्ठिर । क्रोधयुक्तः स्वयं तत्र संस्थितो दैत्यनायकः ॥२२॥ दूतानाज्ञापयामास शस्त्रास्त्रैः स्वसुतस्य सः । वधार्थं ते दैत्यगणाः क्रोधयुक्ता बभूविरे ॥२३॥ नानानादयुताः सर्वे नग्नशस्त्रधरा ययुः । हंतुं तं तानथो दृष्ट्वा सुबोधो निर्भयो बभौ ॥२४॥ गणेशभजने सक्तो बभूव न चचाल ह । देहप्रारब्धभावेन भवेत्तन् मे गजानन ॥२५॥ विघ्नेश हेरंब जयाखिलेश स्वानंदवासिन् जय वक्रतुंड । नाथोऽसि सर्वत्र जगत् सुढुंढे लंबोदर ब्रह्मसुते नमो वै ॥२६॥ इत्याद्यैर्विविधैर्वाक्यैर्गणेशमभजत् सुतः । तं तथा क्रोधसंयुक्ता जघ्नुर्दैत्या महाबलाः ॥२७॥ नानाशस्त्रनिपातैस्तेऽस्त्रैः सर्वत्र युधिष्ठिर । गणेशस्तस्य देहस्थो निष्फलांस्तांश्चकार ह ॥२८॥ क्रोधानलेन सर्वान् स दाहयामास विघ्नपः । ततः पलायनं चक्रुर्दैत्याः प्राणपरीप्सया ॥२९॥ तत् दृष्ट्वा परमाश्चर्यं ज्ञानारिः क्रोधमूर्च्छितः । श्रेष्ठानाज्ञापयामास वधाय स्वसुतस्य वै ॥३०॥ चतुरंगबलैर्युक्ता दैत्येशास्तं समाययुः । अमोघास्त्रैः सुबोधं ते जघ्नुः परमदारुणाः ॥३१॥ गणेशभक्तिं तां सोऽपि चक्रे वै निर्भयो दृढाम् । जय देवेश विघ्नेश महोदर नमोऽस्तु ते ॥३२॥ तस्य देहान् महानग्निः शस्त्रघातच्छलेन सः । समुत्पन्नः प्रजज्वाल दैत्येशान् क्षणमात्रतः ॥३३॥ ते मेघास्त्राणि ससृजुस्तैर्न शांतो बभूव ह । ददाह सकलांस्तत्र प्रलयाग्निसमश्च तान् ॥३४॥ मृताः सर्वे सुराणां वै नायकास्तत्र भूमिप । ज्ञानारिः परमाश्चर्ययुक्तोऽभूत् खेदसंयुतः ॥३५॥ प्रधानैः स विचार्यैवं पुत्रं तत्याज तत्क्षणात् । शुक्रं तपसि तिष्ठंतं ज्ञात्वा क्रोधं नियम्य च ॥३६॥ मेधावी स यदा शुक्र आगमिष्यति वै गृहे । तदा तेन समायुक्ता हनिष्यामः सुबोधकम् ॥३७॥ एवं निश्चितसंकल्पाः स्थितास्ते दैत्यनायकाः । ज्ञानारिः स तथा चक्रे हृदयेन विदूयता ॥३८॥ सुबोधो गणपं तत्राऽभजत् सोऽनन्यमानसः । निर्भयो दानवान् सर्वान् तृणीकृत्य विशेषतः ॥३९॥ ततस्तेन सुबोधेन दैत्यपुत्रा युधिष्ठिर । शिक्षिताः प्रत्ययं दृष्ट्वा तथा गणपमाभजन् ॥४०॥ सत्यं गणेशमाहात्म्यं महत्तन्नात्र संशयः । संदश्य दैत्यभूपाला मृताः कक्षवदप्यहो ॥४१॥ एवं विचार्य सर्वत्र बाला
पान १०८
विघ्नेशमादरात् । अभजन् सर्वभावेन तिरस्कृत्य गुरोः सुतान् ॥४२॥ यत्र तत्र गणेशस्य कीर्तनं ह्यर्चनादिकम् । अकुर्वन् दैत्यपुत्रास्ते सुबुधेन समन्विताः ॥४३॥ नमो नमो विघ्नपते गणेश सदा स्वसंवेद्यपुरे निवासिन् । अनादिमध्यांतविहीनकाय सुशांतिदात्रे जय सर्वपूज्य ॥४४॥ एवं दृष्ट्वा स सर्वत्र ज्ञानारिः क्रोधमादधे । सहने न समर्थोऽभून् मतिं चक्रे वधाय वै ॥४५॥ हनिष्यामि सुतं दुष्टं वरयुक्तप्रभावतः । न मे मृत्युर्भवेन्नूनमिति व्यवसितोऽभवत् ॥४६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते सुबोधभक्तिवर्णनं नामैकोनपंचाशत्तमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ श्रीकृष्ण उवाच । अधुना शृणु धर्मज्ञ देवादीनां वनेषु वै । यज्जातं तत् प्रवक्ष्यामि पूर्णानंदस्य चेष्टितम् ॥१॥ विष्णुमुख्यान् सुरानाह पूर्णानंदः प्रतापवान् । किमर्थं दुःखसंयुक्ता भवंतः सर्वजंतुभिः ॥२॥ ज्ञानारिणा कृतं सर्वं जगत् स्थावरजंगमम् । दुःखयुक्तं विशेषेण तं हनिष्यामि निश्चितम् ॥३॥ मयि पुत्रत्वमापन्ने दुर्लभं किं भविष्यति । तस्माद्देवगणैस्तात गच्छ वैकुंठमादरात् ॥४॥ ज्ञानारिः पुत्रनाशार्थं यतते चाधुना प्रभो । तस्य पुत्रो महाभक्तो मदीयो नात्र संशयः ॥५॥ भक्तरक्षार्थमेवाहं गमिष्याम्यधुना स्वयम् । तं हत्वा सुखमेष्यामि स्वभक्तद्वेषिणं खलम् ॥६॥ चराचरमयात्तस्य भयं नास्ति कदाचन । चराचरमयं सर्वं त्रैगुण्यं नात्र संशयः ॥७॥ अतो द्वंद्वविहीनेन तं रूपेण महासुरम् । हनिष्यामि स्वभक्तार्थं पश्य मे त्वं कुतूहलम् ॥८॥ एतस्मिन्नंतरे चैव ज्ञानारिः खड्गमादधौ । सुबोधं हंतुमत्यंतं क्रोधयुक्तो युधिष्ठिर ॥९॥ ज्ञानारिं तादृशं दृष्ट्वा सुबोधो भक्तिसंयुतः । गणेशस्य जगादाऽपि तच्छृणुष्व युधिष्ठिर ॥१०॥ सुबोध उवाच । अहंकारेण संयुक्तस्तात त्वं मायया भृशम् । न जानासि गणेशानं चित्ते संस्थितमेव ते ॥११॥ चिंतामणिः स वेदेषु कथितो वेदवादिभिः । तं गच्छ शरणं तात नोचेत्त्वं वै मरिष्यसि ॥१२॥ न ते भयेन भावेन त्यजेयं विघ्ननायकम् । किमु श्राम्यसि मूर्ख त्वं सत्ताधारं न पश्यसि ॥१३॥ इति पुत्रं ब्रुवंतं स जघान दृढरोषतः । खङ्गेन तीक्ष्णधारेण स खङ्गो निष्फलोऽभवत् ॥१४॥ ततो नानास्त्रवर्षैस्तमवर्षद्दैत्यनायकः । तानि निष्फलरूपाणि बभूवुश्च युधिष्ठिर ॥१५॥ अश्मस्त्रादीनि शस्त्राणि निष्फलानि महासुरः । वीक्ष्य विस्मितचित्तोऽसौ मल्लयुद्धोद्यतोऽभवत् ॥१६॥ पुत्रं पादे शिलायां
खं. ३ अ. ५० पान १०९ स संगृह्याऽऽस्फालयद्यदा । तावत् स्वयं पपातैव मूर्च्छितस्ताडितोऽभवत् ॥१७॥ अदृश्यरूपभावेन हतो विघ्नविनाशिना । पुनः संज्ञासमायुक्तोऽपश्यत्पुत्रं सुदुर्मतिः ॥१८॥ गणेशभजने सक्तं वीक्ष्य विस्मितमानसः । विचारं हृदये सोऽपि चकार परमाद्भुतम् ॥१९॥ अहो मां को जघानैवं न पश्यामि महारिपुम् । केन मार्गेण मे पुत्रं हनिष्यामि कुलांतकम् ॥२०॥ पुत्रस्य मरणार्थाय यतेऽहं विविधं सदा । तदर्थं दैत्यनाथाश्च सुहृद्भिरभवन् मृताः ॥२१॥ अहं किं वा मरिष्यामि हनिष्यामि सुतं नु वा । अधुना किं मया कार्यमेवं व्यवसितोऽभवत् ॥२२॥ ततस्तेन वधार्थाय प्राप्तं ज्ञानं विशेषतः । पुत्ररक्षाकरं चादौ हन्मि पश्चात् सुतं खलम् ॥२३॥ मृतो रक्षाकरस्तस्य रक्षिता न भविष्यति । पुत्रस्य तेन मृत्युं मे गमिष्यति सुतोऽधुना ॥२४॥ एवं निश्चितसंकल्पो जगाद क्रोधसंयुतः । पुत्रं सुबोधनामानं मोहेनामोहितोऽसुरः ॥२५॥ सुबोध कुत्र ते रक्षिता विशेषेण वर्तते । तमानय महादुष्टं हनिष्याम्यधुना शठ ॥२६॥ ततस्तं मोहितं प्राह सुबोधः करुणायुतः । तात पश्य हृदिस्थं तं चित्तवृत्तिप्रचालकम् ॥२७॥ वैरभावं परित्यज्य तथाऽहंकारमद्य वै । शरणं गच्छ विघ्नेशं ब्रह्मभूतो भविष्यसि ॥२८॥ सर्वत्र संस्थितं पश्य स्वामिनं मे गजाननम् । तं हंतुमुद्यतस्त्वं वै मरिष्यसि न संशयः ॥२९॥ ततस्तं प्रत्युवाचेदं ज्ञानारिर्वचनं नृप । दर्शयस्व महाभाग तं भजिष्यामि निश्चितम् ॥३०॥ एवं कपटभावेन सुबोधं स जगाद ह । सुबोधस्तं गणेशानं सस्मार पितृकारणात् ॥३१॥ ततस्तं मूषकारूढो विष्णुपूत्रः समाययौ । तमन्वयुर्द्विजा देवा भयभीता युधिष्ठिर ॥३२॥ आकाशे गूप्तरूपेण मुनयो देवतागणाः । संस्थिता अभवंस्तत्र पश्यंतश्चेष्टितं प्रभोः ॥३३॥ सुबोधस्य समीपे तं संस्थितं गणनायकम् । पश्यन् क्रूरो महादुष्टो ज्ञानारिर्हर्षितोऽभवत् ॥३४॥ सुबोधस्तं प्रणम्यादौ स्तुत्वा च विविधैः स्तवैः । उवाच पितरं योगी पश्य तात गजाननम् ॥३५॥ सुबोधस्य वचः श्रुत्वा क्रोधयुक्तो महासुरः । अमोघं सर्वसंहारकारकं शस्त्रमाददे ॥३६॥ एतस्मिन्नंतरे तत्र पूर्णानंदो हृदि स्थितः । जीवभावं स दैत्यस्य कर्षयामास भूमिप ॥३७॥ ततः स पतितो भूमौ गतचैतन्यकोऽञ्जसा । हाहाकारं प्रचक्रुस्ते दैत्याः पातालमाययुः ॥३८॥ ततस्ते देवविप्राद्या नभःस्थाः सहसाऽऽगताः । प्रणम्य तुष्टुवुस्तं वै पूर्णानंदं गणेश्वरम् ॥३९॥ स्तुवतां पश्यतां भूप सुबोधं गृह्य विघ्नपः । अंतर्धानं चकाराऽपि सर्वे खिन्ना इवाऽभवन् ॥४०॥ लक्ष्मीनारायणश्चैव मूर्च्छितौ धरणीतले । पेततुर्दुःखसंयुक्तौ पूर्णानंदवियोगतः ॥४१॥ द्विमुहूर्तात् प्रबुद्धौ तौ ततो हृदि तयोः प्रभुः । प्रकटोऽभूदुवाचाऽथ मूर्तौ मां भजतं युवाम् ॥४२॥ न वियोगो भवेत्तत्तौ
यहाँ दिए गए पृष्ठ का मूल पाठ (पंक्ति-दर-पंक्ति), श्लोक-संख्या सहित संस्कृत मूल, अन्वय, हिन्दी अनुवाद तथा अध्याय-समाप्ति (पुष्पिका) प्रस्तुत है:
[पृष्ठ ११०]
मूल पाठ (Line-by-Line Transcription):
पश्यतं बुद्धिचालकम् । एवमुक्त्वांतर्दधेऽसौ हृदिस्थो गणनायकः ॥४३॥ ततस्तौ दुःखसंयुक्तौ चक्रतुः परमाहृतौ । लक्ष्मीनारायणौ मूर्तिं भक्त्या प्रभजने रतौ ॥४४॥ एवं महोदरः सर्वप्रदाता वै प्रतापवान् । हर्ता च ब्रह्मभूतोऽसौ
ब्रह्मभूयप्रदो मतः ॥४५॥ शिवविष्ण्वादिभिर्देवैः सेवितो भक्तिभावतः । मुनिभिर्योगिभिर्नानाजंतुभिर्नात्र संशयः ॥४६॥ तं भजस्व महीपाल विघ्नहीनो भविष्यसि । स्वधर्मस्थो महाभाग शांतियोगमवाप्स्यसि ॥४७॥ मुद्गल उवाच । एवं नारायणं
तं स ब्रुवंतं धर्मपालकः । युधिष्ठिर उवाचाऽथ प्रेमयुक्तो महामतिः ॥४८॥ युधिष्ठिर उवाच । कृष्ण कृष्ण महाप्राज्ञ कथां ब्रह्मप्रदायिनीम् । सर्वकामप्रदां पूर्णां वदस्यत्र न संशयः ॥४९॥ त्वदीयसंगयोगेन मया ज्ञातो गजाननः । वद त्वं तस्य
मंत्रं मे सस्त्रीकाय सबंधवे ॥५०॥ स तस्मै देवकीपुत्रो ददौ मंत्रं षडक्षरम् । देवेशो धौम्यमुखतस्तथा सर्वेभ्य आदरात् ॥५१॥ मुद्गल उवाच । पांडवा द्रौपदीयुक्तास्तेन मंत्रेण विघ्नपम् । अभजन् भक्तिसंयुक्ताश्चतुर्थीव्रतकारकाः ॥५२॥ ततो दुःखविहीनास्ते
सूर्यात् प्राप्य यथेप्सितम् । स्थालीस्थमन्नमत्यंतं पोषयामासुरग्रजान् ॥५३॥ वनस्थाः दुखहीनाश्च भ्रमंतस्ते समाययुः । व्यासेन वासुदेवेन युताः स्वानंदके पुरे ॥५४॥ मयूरेशं च तत्रैवाऽपूजयन् भक्तिसंयुताः । पांडवेशं समास्थाप्य श्राद्धं चक्रुः पितुस्ततः
॥५५॥ तत्र पिंडप्रदानेन पांडुं स्वर्गस्थमादरात् । नानासुहृद्गणैर्युक्तं समानेतुं ययुर्गणाः ॥५६॥ गाणेशेन विमानेन स्वानंदे ब्रह्मरूपिणम् । चक्रुर्दक्ष महाभाग महिम्ना क्षेत्रजेन ते ॥५७॥ गुप्तरूपेण वर्षं ते निर्विघ्ना अवसंस्ततः । पश्चात् प्राकट्यमास्थाय
सस्त्रीकाः पांडवा ययुः ॥५८॥ हत्वा दुर्योधनं वीराः ससैन्यं कर्णसंयुतम् । राज्यं प्राप्याऽभजंस्ते तं गणेशं सर्वनायकम् ॥५९॥ एवं युधिष्ठिरेणैवाराधितः स महोदरः । मोहशून्यस्वभावेन योगिना शांतिधारिणा ॥६०॥ पूर्णानंदावतारो महोदरांतर्गतः
स्मृतः । एवं नानावतारैश्च कुरुते क्रीडनं स्वयम् ॥६१॥ तेषां कथितुं पुण्यं चरित्रं न प्रशक्यते । वर्षाणामयुतैर्दक्ष मया केनापि निश्चितम् ॥६२॥ इदं युधिष्ठिरस्यैव चरित्रं पापनाशनम् । शृण्वते पठते वाऽपि तस्मै सर्वार्थदं भवेत् ॥६३॥
`` ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते युधिष्ठिरचरितं नाम पंचाशत्तमोऽध्यायः ॥
श्लोकवार अन्वय एवं हिन्दी अनुवाद
श्लोक ४३ (उत्तरार्ध) – ४४
पश्यतं बुद्धिचालकम् । एवमुक्त्वांतर्दधेऽसौ हृदिस्थो गणनायकः ॥४३॥ ततस्तौ दुःखसंयुक्तौ चक्रतुः परमाहृतौ । लक्ष्मीनारायणौ मूर्तिं भक्त्या प्रभजने रतौ ॥४४॥
- अन्वय: बुद्धिचालकं पश्यतम्। एवम् उक्त्वा असौ हृदिस्थः गणनायकः अन्तर्दधे। ततः तौ लक्ष्मीनारायणौ दुःखसंयुक्तौ परमाहृतौ (परमाह्लादितौ) भक्त्या मूर्तिं चक्रतुः प्रभजने रतौ (च अभवताम्)।
- हिन्दी अनुवाद: "तुम दोनों अपनी बुद्धि को प्रेरित करने वाले मुझे ही देखो"—ऐसा कहकर सबके हृदय में स्थित वे गणनायक गणेशजी अन्तर्धान हो गए। तदनन्तर वे लक्ष्मीनारायण विरह-दुःख से युक्त होकर भी परम प्रसन्न हुए और भक्तिपूर्वक श्रीगणेश की मूर्ति बनाकर उनके भजन-पूजन में लीन हो गए।
श्लोक ४५ – ४७
एवं महोदरः सर्वप्रदाता वै प्रतापवान् । हर्ता च ब्रह्मभूतोऽसौ ब्रह्मभूयप्रदो मतः ॥४५॥ शिवविष्ण्वादिभिर्देवैः सेवितो भक्तिभावतः । मुनिभिर्योगिभिर्नानाजंतुभिर्नात्र संशयः ॥४६॥ तं भजस्व महीपाल विघ्नहीनो भविष्यसि । स्वधर्मस्थो महाभाग शांतियोगमवाप्स्यसि ॥४७॥
- अन्वय: एवं प्रतापवान् महोदरः वै सर्वप्रदाता, हर्ता, ब्रह्मभूतः असौ ब्रह्मभूयप्रदः मतः। शिव-विष्णु-आदिभिः देवैः, मुनिभिः, योगिभिः, नाना-जन्तुभिः भक्तिभावतः सेवितः, अत्र संशयः न। हे महीपाल! तं भजस्व, विघ्नहीनः भविष्यसि। हे महाभाग! स्वधर्मस्थः (त्वं) शांतियोगम् अवाप्स्यसि।
- हिन्दी अनुवाद: (श्रीकृष्ण कहते हैं—) इस प्रकार महाप्रतापी महोदर गणेश ही सबको सब कुछ देने वाले, संकटों को हरने वाले, परब्रह्म स्वरूप और ब्रह्मभाव (मोक्ष) प्रदान करने वाले माने गए हैं। शिव, विष्णु आदि देवताओं, मुनियों, योगियों और नाना प्रकार के प्राणियों द्वारा वे भक्तिभाव से सेवित हैं; इसमें कोई संशय नहीं है। अतः हे राजन्! तुम उन्हीं का भजन करो, तुम विघ्नों से मुक्त हो जाओगे तथा अपने धर्म में स्थित रहकर शांतियोग को प्राप्त करोगे।
श्लोक ४८ – ५०
मुद्गल उवाच । एवं नारायणं तं स ब्रुवंतं धर्मपालकः । युधिष्ठिर उवाचाऽथ प्रेमयुक्तो महामतिः ॥४८॥ युधिष्ठिर उवाच । कृष्ण कृष्ण महाप्राज्ञ कथां ब्रह्मप्रदायिनीम् । सर्वकामप्रदां पूर्णां वदस्यत्र न संशयः ॥४९॥ त्वदीयसंगयोगेन मया ज्ञातो गजाननः । वद त्वं तस्य मंत्रं मे सस्त्रीकाय सबंधवे ॥५०॥
- अन्वय: मुद्गलः उवाच—एवं ब्रुवन्तं तं नारायणं सः धर्मपालकः महामतिः युधिष्ठिरः अथ प्रेमयुक्तः उवाच। युधिष्ठिरः उवाच—हे कृष्ण! हे कृष्ण! हे महाप्राज्ञ! अत्र ब्रह्मप्रदायिनीं सर्वकामप्रदां पूर्णां कथां वदसि, न संशयः। त्वदीय-सङ्ग-योगेन मया गजाननः ज्ञातः। मे सस्त्रीकाय सबन्धवे तस्य मन्त्रं त्वं वद।
- हिन्दी अनुवाद: मुद्गल ऋषि बोले—भगवान् नारायण के ऐसा कहने पर, धर्मरक्षक और महाबुद्धिमान् युधिष्ठिर ने प्रेमपूर्वक उनसे कहा। युधिष्ठिर बोले—"हे कृष्ण! हे महाप्राज्ञ! आपने ब्रह्मपद देने वाली और समस्त कामनाओं को पूर्ण करने वाली यह पावन कथा कही, इसमें कोई संशय नहीं। आपके सत्सङ्ग के प्रभाव से मैंने गजानन के स्वरूप को जान लिया है। अब मुझे, मेरी पत्नी (द्रौपदी) तथा भाइयों सहित उनका वह षडक्षर मंत्र बताइए।"
श्लोक ५१ – ५४
स तस्मै देवकीपुत्रो ददौ मंत्रं षडक्षरम् । देवेशो धौम्यमुखतस्तथा सर्वेभ्य आदरात् ॥५१॥ मुद्गल उवाच । पांडवा द्रौपदीयुक्तास्तेन मंत्रेण विघ्नपम् । अभजन् भक्तिसंयुक्ताश्चतुर्थीव्रतकारकाः ॥५२॥ ततो दुःखविहीनास्ते सूर्यात् प्राप्य यथेप्सितम् । स्थालीस्थमन्नमत्यंतं पोषयामासुरग्रजान् ॥५३॥ वनस्थाः दुखहीनाश्च भ्रमंतस्ते समाययुः । व्यासेन वासुदेवेन युताः स्वानंदके पुरे ॥५४॥
- अन्वय: सः देवकीपुत्रः देवेशः तस्मै तथा धौम्यमुखतः सर्वेभ्यः आदरात् षडक्षरं मन्त्रं ददौ। मुद्गलः उवाच—द्रौपदीयुक्ताः ते पाण्डवाः तेन मन्त्रेण भक्तिसंयुक्ताः चतुर्थीव्रतकारकाः (सन्तः) विघ्नपम् अभजन्। ततः दुःखविहीनाः ते सूर्यात् यथेप्सितं प्राप्य स्थालीस्थम् अत्यन्तम् अन्नं अग्रजान् पोषयामासुः। वनस्थाः दुःखहीनाः भ्रमन्तः ते व्यासेन वासुदेवेन युताः स्वानन्दके पुरे समाययुः।
- हिन्दी अनुवाद: देवेश्वर देवकीपुत्र श्रीकृष्ण ने युधिष्ठिर को तथा कुलगुरु धौम्य के माध्यम से सभी पांडवों को आदरपूर्वक गणेशजी का षडक्षर मंत्र दिया। मुद्गल ऋषि बोले—द्रौपदी सहित सभी पांडव उस मंत्र से भक्तिपूर्वक चतुर्थी का व्रत करते हुए विघ्नहर्ता गणेश का भजन करने लगे। इसके पश्चात् वे दुःखों से मुक्त हो गए और सूर्यदेव से मनवांछित (अक्षय) पात्र प्राप्त कर उसके अन्न से ब्राह्मणों व श्रेष्ठजनों का पोषण करने लगे। वन में रहते हुए दुःखों से रहित होकर वे व्यासजी और वासुदेव श्रीकृष्ण के साथ 'स्वानंदपुर' तीर्थ में पहुँचे।
श्लोक ५५ – ५७
मयूरेशं च तत्रैवाऽपूजयन् भक्तिसंयुताः । पांडवेशं समास्थाप्य श्राद्धं चक्रुः पितुस्ततः ॥५५॥ तत्र पिंडप्रदानेन पांडुं स्वर्गस्थमादरात् । नानासुहृद्गणैर्युक्तं समानेतुं ययुर्गणाः ॥५६॥ गाणेशेन विमानेन स्वानंदे ब्रह्मरूपिणम् । चक्रुर्दक्ष महाभाग महिम्ना क्षेत्रजेन ते ॥५७॥
- अन्वय: तत्र एव भक्तिसंयुताः मयूरेशम् अपूजयन्। पाण्डवेशं समास्थाप्य ततः पितुः श्राद्धं चक्रुः। तत्र आदरात् पिण्डप्रदानेन स्वर्गस्थं नानासुहृद्गणैर्युक्तं पाण्डुं समानेतुं गणाः ययुः। हे दक्ष! गाणेशेन विमानेन स्वानन्दे ब्रह्मरूपिणं ते क्षेत्रजेन महिम्ना (पाण्डुं) महाभागं चक्रुः।
- हिन्दी अनुवाद: वहाँ पांडवों ने भक्तिपूर्वक 'मयूरेश' (गणेशजी) की पूजा की। फिर 'पाण्डवेश' नामक गणेश की स्थापना कर अपने पिता पाण्डु का श्राद्ध किया। वहाँ आदरपूर्वक पिंडदान करने से, स्वर्ग में स्थित महाराज पाण्डु को उनके सभी सुहृदों सहित लेने के लिए गणेशजी के गण पहुँचे। हे दक्ष! वे गण पाण्डु को गाणेश-विमान में बैठाकर स्वानंदलोक ले गए और उस क्षेत्र की महिमा से उन्हें ब्रह्मरूप बना दिया।
श्लोक ५८ – ५९
गुप्तरूपेण वर्षं ते निर्विघ्ना अवसंस्ततः । पश्चात् प्राकट्यमास्थाय सस्त्रीकाः पांडवा ययुः ॥५८॥ हत्वा दुर्योधनं वीराः ससैन्यं कर्णसंयुतम् । राज्यं प्राप्याऽभजंस्ते तं गणेशं सर्वनायकम् ॥५९॥
- अन्वय: ततः ते गुप्तरूपेण एकं वर्षं निर्विघ्नाः अवसन्। पश्चात् प्राकट्यम् आस्थाय सस्त्रीकाः पाण्डवाः ययुः। वीराः ससैन्यं कर्णसंयुतं दुर्योधनं हत्वा राज्यं प्राप्य ते सर्वनायकं तं गणेशम् अभजन्।
- हिन्दी अनुवाद: इसके पश्चात् वे पांडव एक वर्ष तक अज्ञातवास में निर्विघ्न रहे। तत्पश्चात् प्रकट होकर द्रौपदी सहित सभी वीर पांडवों ने कर्ण और सेना सहित दुर्योधन का वध किया और अपना राज्य प्राप्त करके उन सर्वनायक गणेशजी का निरंतर भजन किया।
श्लोक ६० – ६३
एवं युधिष्ठिरेणैवाराधितः स महोदरः । मोहशून्यस्वभावेन योगिना शांतिधारिणा ॥६०॥ पूर्णानंदावतारो महोदरांतर्गतः स्मृतः । एवं नानावतारैश्च कुरुते क्रीडनं स्वयम् ॥६१॥ तेषां कथितुं पुण्यं चरित्रं न प्रशक्यते । वर्षाणामयुतैर्दक्ष मया केनापि निश्चितम् ॥६२॥ इदं युधिष्ठिरस्यैव चरित्रं पापनाशनम् । शृण्वते पठते वाऽपि तस्मै सर्वार्थदं भवेत् ॥६३॥
- अन्वय: एवं शान्तिधारिणा मोहशून्यस्वभावेन योगिना युधिष्ठिरेण एव सः महोदरः आराधितः। पूर्णानन्दावतारः महोदरान्तर्गतः स्मृतः। एवम् असौ स्वयम् नानावतारैः क्रीडनं कुरुते। हे दक्ष! तेषां पुण्यं चरित्रं मया केनापि वर्षाणाम् अयुतैः कथितुं न प्रशक्यते, निश्चितम्। इदं पापनाशनं युधिष्ठिरस्य चरित्रं शृण्वते पठते वा अपि तस्मै सर्वार्थदं भवेत्।
- हिन्दी अनुवाद: इस प्रकार परम शांति धारण करने वाले और मोहरहित योगी युधिष्ठिर ने उन महोदर गणेश की आराधना की। पूर्णानंद के अवतार महोदर गणेश सबके अंतःकरण में विद्यमान कहे गए हैं। वे स्वयं नाना अवतार धारण करके लीला करते हैं। हे दक्ष! उनके पवित्र चरित्र का पूरा वर्णन दस हज़ार वर्षों में भी मेरे या किसी के द्वारा नहीं किया जा सकता, यह निश्चित है। युधिष्ठिर का यह पापनाशक चरित्र जो भी सुनता या पढ़ता है, उसे यह समस्त पुरुषार्थों (धर्म, अर्थ, काम, मोक्ष) को प्रदान करने वाला होता है।
अध्याय पुष्पिका (Colophon):
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते युधिष्ठिरचरितं नाम पंचाशत्तमोऽध्यायः ॥५०॥
- अनुवाद: इस प्रकार श्रीमुद्गल महापुराण के तीसरे खंड के अंतर्गत महोदर-चरित्र में "युधिष्ठिर-चरित" नामक पचासवाँ (५०वाँ) अध्याय समाप्त हुआ।
सं. ३ अ. ५१ पान १११ ॥ श्रीगणेशाय नमः॥ मुद्गल उवाच। महोदरस्य क्षेत्रं यद्दक्षिणस्यां दिशि स्थितम् । देवैश्च मुनिभिस्तत्र स्थापितो गणनायकः ॥१॥ दशयोजनविस्तारस्तस्य क्षेत्रस्य मानद । महोदरश्च तन्मध्ये चतुरस्रे स्थितोऽभवत् ॥२॥ स्वस्वखंडेषु सर्वत्र द्वीपेषु मुनिभिः पुरा । स्थापितो दक्षिणस्यां स दिशि ब्रह्ममयः प्रभुः ॥३॥ तत्र देवाद्यः सर्वे ऋषयो योगिनस्तथा। तीर्थानि क्षेत्रमुख्यानि संस्थितानि भवंति च ॥४॥ समुद्रे स्नानकर्त्तारः स्वस्वतीर्थेषु नित्यदा । गणेशानं भजंतस्ते परस्परहिते रताः ॥५॥ नानारूपाणि ते सर्वे महोदर कृतानि च । चेष्टितानि स्मरंतो वै हृष्टरोमाण आभवन् ॥६॥ सिद्धिबुद्धियुतं तं ते मूषकं पुरतः स्थितम् । दूर्वादिभिः पूजयंति विशेषेण प्रजापते ॥७॥ भाद्रशुक्लचतुर्थीजस्तत्र मुख्यो महोत्सवः। वर्षमध्ये वै भवति भक्ता यात्रां प्रकुर्वते ॥८॥ ततो महोदरस्यैव दर्शनेन हृदीप्सितम् । लभते मानवः सर्वं स्मरणेन तथा विभोः ॥९॥ क्षेत्रे मरणतो दक्ष ब्रह्मभूतो भवेन्नरः । अष्टौ विनायकाः प्रोक्तास्तेषां क्षेत्राणि सर्वदा ॥१०॥ ब्रह्मभूतमयान्येव तेषु सर्वे शिवादयः । संस्थिता भक्तिकार्यार्थं ज्ञातव्यं विबुधैः सदा ॥११॥ त्रैलोक्ये श्रेष्ठरूपा ये शेषादय उदाहृताः । ते सर्वे निवसंत्यत्र क्षेत्रेष्वष्टसु निश्चितम् ॥१२॥ तत्र गाणेशतीर्थं महोदरस्य च हर्षदम् । स्नानेनात्रकृतेनैव पुमान् सर्वार्थ- सिद्धिभाक् ॥१३॥ विष्ण्वादिषु तथाऽन्येषु तीर्थेषु च विशेषतः। गणेशक्षेत्रगेष्वेव स्नानमात्रेण देहिनाम् ॥१४॥ तत्तत पदप्रदानि स्युस्तेषामंते प्रजापते । ब्रह्मभूता भविष्यंति स्वानंदे वासकारिणः ॥१५॥ अन्यदेवस्य भक्ता ये क्षेत्रे गाणेशके मृताः। तस्य देवस्य लोके ते गमिष्यंति न संशयः ॥१६॥ महालये त्रयो देवा लयं गच्छंति चेत् प्रभो । तदा ते निजलोके वै गमिष्यंति सुखप्रदे ॥१७॥ क्षेत्रे मरणसंस्काराद्ब्रह्मभूता भवंति च । अतो नरेण तद्भक्त्या गाणेशं सेव्यमादरात् ॥१८॥ यत्र कुत्र स्थिता भक्ता ये भजंति महोदरम् । ते सर्वे ब्रह्मभूता वै ज्ञातव्याः पावना नृणाम् ॥१९॥ कुर्वंति ये शिवादीनां भजनं जन्मजन्मसु । तेन संस्कारयोगेन गाणेशास्ते भवंति वै ॥२०॥ गाणेशान्न परं ब्रह्म कथितं सर्वसंमतम् । अतो गणेशभक्ता ये ब्रह्मभूताश्च ते मताः ॥२१॥ इदं महोदराख्यानं कथितं ते प्रजापते । सर्वसिद्धिप्रदं पूर्णं समासेन यथामति ॥२२॥ शृणुयाद्यो नरो भक्त्या श्रावयेद्वा पठेद्यदि । अंते स ब्रह्मभूतश्च भविता नात्र संशयः ॥२३॥ अनेन न समं किंचित् त्रिषु लोकेषु विद्यते । सर्वदं मानवादीनां ब्रह्मादीनां च योगिनाम् ॥२४॥ व्रतानि विविधन्नाना कुरुते मानवोत्तमः। अस्य श्रवणमात्रेण तत् फलं लभते प्रभो ॥२५॥ नानातीर्थेषु यः स्नायात्तर्पयेद्देवतादिकान् । यथाशास्त्रं फलं तस्य तदस्य
यहाँ दिए गए पृष्ठ का पंक्ति-दर-पंक्ति देवनागरी लिप्यंतरण प्रस्तुत है:
श्रवणाल्लभेत् ॥२६॥ क्षेत्रेषु भक्तिसंयुक्तो नरो वासं करोति यः । विधिवद्धर्मशीलज्ञस्तत् फलं श्रवणाल्लभेत ॥२७॥ यज्ञैर्नाना- विधैर्दक्ष दृष्ट्वा देवान् यथार्थतः । यत्फलं लभते मर्त्यस्तदस्य श्रवणात् फलम् ॥२८॥ इष्टापूर्तादिकं सर्वं यः करोति नरोत्तमः । अस्य श्रवणतः सद्यस्तत्फलं लभते पुमान् ॥२९॥ बहुनाऽत्र किमुक्तेन ब्रह्मभूयप्रदं भवेत् । श्रवणेन न संदेहो धर्मकामार्थ- मोक्षदम् ॥३०॥ पुत्रपौत्रादिकं सर्वं धनं धान्यं विशेषतः । राज्यमश्वादिकं सर्वं लभते श्रवणेन च ॥३१॥ महोदरस्य माहात्म्यं गृहे संलिखितं भवेत् । न तत्र राक्षसादिभ्यश्चोराग्न्याथाद्भयं भवेत् ॥३२॥ ग्रहरोगदिका पीडा पूजनेन च नश्यति । पुस्तकस्यास्य भो दक्ष नात्र कार्या विचारणा ॥३३॥ इच्छंति जंतवो यद्यदस्य श्रवणकारकाः । तत्तन् महोदरः सुप्रीतो ददाति प्रतापवान्॥३४॥ वाचकं परितोष्यैव लभते तत्क्षणात् फलम् । गणेशसन्निधाने च श्रवणेन न संशयः ॥३५॥ पतिता उद्धरिष्यंति श्रवणेनास्य निश्चितम् । किं पुनर्भावसंयुक्ता ब्रह्मभूता भवंति चेत् ॥३६॥ नानेन सदृशं कुत्र वर्तते ब्रह्मगोलके । साक्षाद्योगपतिर्यत्र वर्ण्यते स महोदरः ॥३७॥ इति ते कथितं सर्वं संक्षेपेण मया प्रभो । महोदरस्य माहात्म्यं श्रोतुमिच्छसि किं पुनः ॥३८॥ सूत उवाच । एवमुक्त्वा महायोगी मुद्गलो विरराम ह । तदेतत् कथितं सर्वं मया ते नात्र संशयः ॥३९॥ सर्वमान्यं विशेषेण मतमान्यं महामते । वेदादीनां तथा सारं ज्ञातव्यं ब्राह्मणा इदम् ॥४०॥ नानाशास्त्र- पुराणानि मंथयित्वा महामुनिः । व्यासः संकथयामास मह्यं ब्रह्मप्रदं प्रभुः ॥४१॥ न गणेशात् परं ब्रह्म न गणेशात् परं तपः । न गणेशात् परं कर्म ज्ञानं न गणपात्परम् ॥४२॥ त्यक्त्वा गणेशमेकं यो नरः कर्मपरायणः । ब्रह्मज्ञानादिकं सर्वं साधयेच्चेत् सुनिष्फलम् ॥४३॥ सिद्धेः पतिं परित्यज्य सिद्धमिच्छति शाश्वतीम् । फलहीनः स्वभावेन नारकी जायते नरः ॥४४॥ बुद्धेः पतिं परित्यज्य स्थिरबुद्धिं य इच्छति । न योगं लभते सोऽपि भस्मनि प्रहुतं यथा ॥४५॥ सर्वपूज्योऽयमेकश्च सर्वादिः सर्वभावनः । तं भजध्वं विशेषेण द्विजा वेदादिसंमतम् ॥४६॥ कथितं सर्वसारं ते महोदरकथानकम् । किं श्रोतुमिच्छसि प्राज्ञ वद शौनक ते नमः ॥४७॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते श्रवणफलवर्णनं नामैकपंचाशत्तमोऽध्यायः ॥ ॥ इति तृतीयः खंडः समाप्तः ॥
॥ इति श्रीमुद्गलपुराणे तृतीयः खंडः समाप्तः ॥
॥ अथ श्रीमुद्गलपुराणे चतुर्थः खंडः प्रारभ्यते ॥
खं. ४ अ. १ पान १
॥ श्रीगणेशाय नमः ॥ शौनक उवाच । त्वया सूत महाप्राज्ञ महोदरचरित्रकम् । कथितं शांतिदं मोहनाशकं संश्रुतं मया ॥१॥ तथा तृप्तिं न याम्येव पायं पायं सुधामिव । नानेन सदृशं किंचिच्छांतिदं विद्यते द्विज ॥२॥ अतो गजाननस्यापि चरित्रं वद विस्तरात् । सर्वज्ञस्त्वं महाभाग मतोऽस्माभिर्न संशयः ॥३॥ मुद्गलस्य च दक्षस्य संवादं वद मानद । किं पृष्टं ब्रह्मपुत्रेण दक्षेणाग्रे सुबुद्धिना ॥४॥ सूत उवाच । शृणु भार्गव विप्रेंद्र महाज्ञानकरं प्रभो । गजाननस्य माहात्म्यं कथयामि यथा श्रुतम् ॥५॥ श्रुत्वा महोदराख्यानं नानाख्यानसमन्वितम् । मोहनाशकरं दक्षो हर्षितो ह्यभवन् मुने ॥६॥ मुद्गलं पुनरप्याह योगींद्रं वेदपारगम् । विनयेन समायुक्तो गणेशज्ञानलालसः ॥७॥ दक्ष उवाच । महोदरस्य माहात्म्यं श्रुतं भक्तियुतेन भोः । तेनाऽऽनंदसमायुक्तः कृतोऽहं योगिना त्वया ॥८॥ अधुना वद विप्रेश गजाननचरित्रकम् । कीदृशोऽवतरद्देवः कीदृशं ब्रह्म तत्र च ॥९॥ किमर्थं देहधारी स बभूव मुनिसत्तम । किं कर्मा किं गुणज्ञश्च वद सर्वं महामते ॥१०॥ पूर्वपुण्यप्रभावेण संगतिस्ते प्रजायते । धन्योऽहं सर्वभावेन शृणोमि च कथां शुभाम् ॥११॥ सूत उवाच । दक्षेणैवं महायोगी स पृष्टो बुद्धिशालिना । तं प्रत्युवाच भावज्ञो गाणपत्यपरायणः ॥१२॥ मुद्गल उवाच । शृणु दक्ष महाभाग धन्योऽस्यत्र न संशयः । कथां वर्धयसि प्राज्ञ गाणेशीं योगदां पराम् ॥१३॥ तव भावेन संतुष्टो वदामि सकलं प्रभो । गजाननस्य माहात्म्यं योगशांतिपदप्रदम् ॥१४॥ सांख्यं ब्रह्म विदेहाख्यं कथितं योगिभिः परम् । तदेव गजवक्त्रं वै जानीहि त्वं प्रजापते ॥१५॥ बिंदुब्रह्मात्मको देहः सोऽहं वक्त्रं प्रकीर्तितम् । तयोरभेदको बोधो बभावेव स देहवान् ॥१६॥ त्रिविधेषु स्थितो देवो तथापि तद्विवर्जितः । विदेहो गजवक्त्रश्च शोभत सांख्यधारकः ॥१७॥ बोधत्यागे महाभाग कः संख्यां कुरुते वद । ब्रह्मणां तेन सांख्यं तद्ब्रह्म वेदे प्रकाशितम् ॥१८॥ लोभासुरविनाशाय प्रकटोऽभूद्गजाननः । देवैर्विप्रैः प्रजानाथ प्रार्थितो भक्तिलालसः ॥१९॥ चतुर्थ्यां मध्यगे भानौ देहधारी समागतः । सा तिथिः परमा तस्य प्रीतिदा संबभूव वै ॥२०॥ सूत उवाच । इति श्रुत्वा वचो रम्यं दक्षो हृष्टमना मुने । जगाद मुद्गलं विप्रं चतुर्थीज्ञानसिद्धये ॥२१॥ दक्ष उवाच । का चतुर्थी तिथिः प्रोक्ता शुक्ला कृष्णा वद प्रभो । गणनाथप्रियाऽत्यंतं बभूव कथमेव सा ॥२२॥ पुनः पुनस्त्वया ब्रह्मन् कथितं तद् व्रतं शुभम् । अतो ब्रूहि चतुर्थ्यास्त्वं माहात्म्यं सकलं परम् ॥२३॥ दक्षस्य वचनं श्रुत्वा हर्षयुक्तो महामुनिः । मुद्गलस्तमथोवाच चतुर्थीसंभवां कथाम् ॥२४॥ मुद्गल उवाच । संक्षेपेण प्रवक्ष्यामि चतुर्थ्याश्च चरित्रकम् । गणनाथप्रियं पूर्ण
पान २
ज्ञास्यसि त्वं प्रजापते ॥२५॥ पुरा सृष्टिं स सृष्ट्वा वै ब्रह्मा लोकपितामहः । स्थितानां तत्र जंतूनां कालार्थं स दधे मनः ॥२६॥ नानाकार्यप्रसिद्धयर्थं संचिंत्य गणपं हृदि । अभवद्ध्यानमास्थाय संस्थितश्चितयान्वितः ॥२७॥ ततस्तस्य शरीराद्धे निःसृता प्रकृतिः परा । महामाया तिथीनां सा जननी कामरूपिणी ॥२८॥ चतुष्पदां तथा दक्ष चतुर्हस्तां सुशोभनाम् । चतुर्मुखयुतां वीक्ष्य हर्षितोऽभूत् प्रजापतिः ॥२९॥ ततः सा तं नमस्कृत्य तुष्टाव जगदीश्वरम् । नानास्तोत्रैः प्रसाद्यैनमुवाच घननिःस्वना ॥३०॥ प्रकृतिरुवाच । तवांगानिःसृतां मां त्वं विद्धि ब्रह्मांडनायक । आज्ञां कुरु पितर्मा च कुर्वेऽहं भावयंत्रिता ॥३१॥ स्थानं देहि तथा भक्ष्यं नानाभोगादिकं प्रभो । मह्यं देव दयासिंधो नमस्ते परमेश्वर ॥३२॥ तस्यास्तद्वचनं श्रुत्वा तां जगाद प्रजापतिः । सृष्टिं गणेशं संचिंत्य विचित्रां कुरु मानदे ॥३३॥ स तस्यै गणनाथस्य ददौ मंत्रं षडक्षरम् । सविधिं सा नमस्कृत्य ययौ तं वनमादरात् ॥३४॥ तताप तप उग्रं सा नासाग्रनयना सती । गणेशं हृदि संध्याय जजाप मंत्रमुत्तमम् ॥३५॥ प्रजापते गते वर्षसहस्रे तु गजाननः । आययौ तां महाभागामगदद्भक्तवत्सलः ॥३६॥ गणेश उवाच । वरान् वृणु महाभागे बहून् मनसि वाञ्छितान् । निराहारेण संतुष्टो ददामि तपसा च ते ॥३७॥ तस्य तद्वचनं श्रुत्वा हर्षिता प्रणनाम तम् । गजाननं प्रसंपूज्य तुष्टाव च कृतांजलिः ॥३८॥ प्रकृतिरुवाच । नमस्ते विघ्ननाथाय गणेशाय परात्मने । अनाथाय विशेषेण सर्वनाथाय ते नमः ॥३९॥ नमो मूषकवाहाय मूषकध्वजिने नमः । स्वानंदपतये तुभ्यं गणानां पतये नमः ॥४०॥ सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिविहारिणे । योगेशाय सदा शांतिप्रदात्रे योगिने नमः ॥४१॥ सर्वाद्ये सदा सर्वपूज्याय भक्तपालक । ज्येष्ठराजाय ज्येष्ठानां पतये ते नमो नमः ॥४२॥ ब्रह्मणे ब्रह्मदात्रे वै ब्रह्मणां पतये नमः । सिद्धेश्वराय देवानां दैत्यानां पतये नमः ॥४३॥ चतुर्भुजाय हेरंब परशोधरकाय ते । अंकुशंधारिणे तुभ्यं निरंकुश नमो नमः ॥४४॥ रजसा सृष्टिकर्त्रे ते पालने सात्त्विकाय ते । तामसाय महाहंत्रे गुणेशाय नमो नमः ॥४५॥ स्थावराय चरायैव चराचरमयाय ते । चराचरविहीनाय बोधाय च नमो नमः ॥४६॥ चतुर्विधस्वरूपाय चतुर्विधसुखप्रद । चतुःसुखस्वरूपाय स्वसंवेद्याय ते नमः ॥४७॥ विनायकाय सर्वेषां नायकाय नमो नमः । गजाननाय देवाय देवदेवेश ते नमः ॥४८॥ किं स्तौमि त्वां गणाध्यक्ष ब्रह्मणस्पतिरूपिणम् । यं स्तोतुं न समर्थाश्च योगिनो वेदमुख्यकाः ॥४९॥ तवदर्शनबोधेन तथापि संस्तुतो मया । तेन तुष्टो भव स्वामिन् भक्तिं देहि दृढां त्वयि ॥५०॥ इति स्तुत्वा गणेशानं दंडवत् प्रणनाम तम् । तामुतूथाप्य
खं. ४ अ. २ पान ३ गणाधीश उवाच व्रतमातरम् ॥५१॥ गणेश उवाच । वरं वृणु महाभागे यं यमिच्छसि शोभने । तं तं दास्यामि सुप्रीतो भक्त्या स्तोत्रेण तोषितः ॥५२॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेत् । यः पठेच्छृणुयाद्देवि ईप्सितं लभते नरः ॥५३॥ एककालं द्विकालं वा त्रिकालं लभते सदा । अव्रती व्रतसाफल्यं पठनान्नात्र संशयः ॥५४॥ ब्रुवंतं गणनांथं सोवाच गंभीर- निःस्वना । देवी प्रणम्य भावेन साश्रुनेत्रा प्रजापते ॥५५॥ देव्युवाच । वरदोऽसि गणाधीश तदा देहि त्वयि स्थिराम् । भक्तिं मे च तथा कार्ये सामर्थ्यं करुणानिधे ॥५६॥ सृष्टिसर्जनसामर्थ्यं देहि नाथ नमोऽस्तु ते । सदा तव प्रियत्वं मे वियोगो न च ते भवेत् ॥५७॥ ओमित्युक्त्वा गणाधीशो जगाद वदतां वरः । चतुर्विधप्रदा देवि प्रिया मम भविष्यसि ॥५८॥ तिथीनां मातृभावेन चतुर्थी संज्ञिता भव । वामभागे सदा कृष्णा शुक्ला दक्षिणभागके ॥५९॥ मम जन्मतिथिस्त्वं वै भविष्यसि न संशयः । सदा तव व्रते संस्थाम् पाल्यामि विशेषतः ॥६०॥ मदीयव्रतजा पुण्या तिथिस्त्वं च भविष्यसि । व्रतेषु त्वत्समं नैव दायकं कुत्र वर्तते ॥६१॥ एवमुक्त्वा गणेशानोऽन्तर्धानं प्रचकार ह । व्रतमाता प्रजानाथाऽभवत्तत्रैव संस्थिता ॥६२॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते चतुर्थी तपोवर्णनं नाम प्रथमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततो देवी गणाध्यक्षं स्मृत्वा स्रष्टुं मनो दधे । ततोऽकस्माद् द्विधा साऽभूद्वामदक्षिणभागतः ॥१॥ वामभागं कृष्णवर्णं दक्षिणांगं तथा बभौ । शुक्लवर्णं महाभाग ततः सा विस्मिताऽभवत् ॥२॥ पुनर्गणपतिं ध्यात्वा स्रष्टुं तत्रोपचक्रमे । ततस्तस्या मुखांभोजात् प्रतिपन्निःसृता तिथिः ॥३॥ नासिकायां द्वितीया वै वक्षसश्च तृतीयिका । अंगुलीभ्यस्तथा दक्ष पंचमी चाभवत्तिथिः ॥४॥ उत्पन्ना हृदयात् षष्ठी चक्षुषोः सप्तमी बभौ । अष्टमी बाहुदेशाच्च समुत्पन्ना महातिथिः ॥५॥ नवमी तिथिरुत्पन्ना उदराच्च प्रजापते । दशमी कर्णदेशाद्वै कंठाच्चैकादशी मता ॥६॥ द्वादशी पादयो- स्तस्याः समुत्पन्ना तथा विभो । स्तनात् त्रयोदशी तस्या अहंकाराच्चतुर्दशी ॥७॥ मनसः पूर्णिमा जाता अमावास्या तथा- ऽभवत् । जिह्वायाः सर्वभावेन तिथयो भिन्नतां दधुः ॥८॥ कृष्णा चतुर्थी प्रोक्ता या तस्याः कृष्णाः प्रकीर्तिताः । तिथयो दशपंचाख्या ज्ञातव्या विबुधैः किल ॥९॥ शुक्लाः शुक्लचतुर्थी देहाच्चतुर्दश वै मताः । तिथयो विधिवत् सर्वा बभुः स्वस्वगुणान्विताः ॥१०॥ दिनांशाः पुरुषा जाता रात्रयः स्त्रीस्वरूपकाः । स्वस्वभावविहारज्ञा बभूवुश्च हिते रताः ॥११॥
तिथिभिः सहिता देवी चतुर्थी तपसि स्थिता । गणेशमभजन्नित्यं मंत्रध्यानपरायणा ॥१२॥ वर्षेणैकेन विघ्नेशस्तां ययौ भक्तवत्सलः । शुक्लां मध्याह्नसमये कृष्णां चंद्रोदये तथा ॥१३॥ वरं ब्रूहि गणेशानस्तामुवाच विशेषतः। प्रणम्य विघ्नपं पूजयित्वा स्तुत्वा जगाद सा ॥१४॥ चतुर्थ्युवाच । त्वदेकनिलयां देव मां कुरुष्व गजानन । नान्यं याचे वरं स्वामिन् भक्ति- मिच्छामि शाश्वतीम् ॥१५॥ तस्यास्तद्वचनं श्रुत्वा तां जगाद गजाननः । प्राप्तं चतुर्थि मध्याह्ने मदीयं दर्शनं त्वया ॥१६॥ अतो मध्याह्नकालेऽन्ये मां भजंते शिवादयः । चतुर्थ्यां शुक्लपक्षस्य स्थितायां सर्वदा जनाः ॥१७॥ मदीयव्रतमुख्यत्वे भव त्वं सर्वभावतः । निराहारेण मां तत्र त्वद्युक्तं पर्युपासते ॥१८॥ चतुर्विधं प्रदास्यामि नानाभावनियंत्रितम् । संचितं नास्ति चेद्देवि तथाप्यत्र न संशयः ॥१९॥ संचितं चास्ति चेद्वापि ददासि त्वं महामते । अतस्ते नाम विख्यातं वरदेति भविष्यति ॥२०॥ त्वां पूजयंति ये नैव मद्युक्तां व्रतभावतः । तेषां व्रतानि सर्वाणि निष्फलानि भवंतु वै ॥२१॥ एवमुक्त्वाँ- ऽतर्दधेऽसौ गणेशो देवनायकः । तदादि सा तिथिः ख्याता वरदा च प्रजापते ॥२२॥ गणेशस्य प्रियाऽत्यंतमिति जन्मतिथिः स्मृता । तस्यामुपोषणं कार्यं नरैरात्महितेप्सुभिः ॥२३॥ पंचम्यां पारणं दक्ष कर्तव्यं द्विजसाक्षिकम् । चतुर्विधं फलं तैश्च संप्राप्तं नात्र संशयः ॥२४॥ यद्यदिच्छति तत्तत् स लभते व्रतकारकः । अंते स्वानंदगो भूत्वा सायुज्यं ब्रह्मणस्तथा ॥२५॥ तत्र व्रते नराः पापा अन्नं भक्षंति चेत् प्रियम् । नारकास्ते भविष्यंति हीना अन्नैः पुनर्ज नौ ॥२६॥ एवं वरं चतुर्थ्यै स ददौ विघ्नविदारणः । सा तिथिः सर्वमान्या च बभूव व्रतमूलगा ॥२७॥ ततः कृष्णां चतुर्थी स जगाद गणनायकः । वरं वृणु महाभागे दास्यामि मनसीप्सितम् ॥२८॥ श्रुत्वा सा तं प्रणम्याऽऽदौ पूजयित्वा गजाननम् । स्तुत्वा जगाद वाक्यं वै हर्षेण महता युता ॥२९॥ कृष्णचतुर्थ्युवाच । यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा भक्तिं दृढां देहि त्वदीयां मे महोदर ॥३०॥ त्वत्प्रियत्वं सदा नाथ वियोगो न भवेच्च मे । सर्वमान्यां कुरुष्व त्वदेकनिष्ठस्वभावतः ॥३१॥ तस्यास्तद्वचनं श्रुत्वा तां जगाद गजाननः । सदा मम प्रियाऽत्यंतं भविष्यसि महातिथे ॥३२॥ चंद्रोदये त्वयाऽहं वै प्राप्तस्तेन चतुर्थिके । तत् काले च व्रतं मुख्यं त्वद्युक्तं भवतु प्रियम् ॥३३॥ न वियोगो भवेद्भक्ताः प्रियेऽन्नजलवर्जिताः । उपासते च तेषां त्वं संकट- हरणं कुरु ॥३४॥ प्रहरान् पंच मद्भक्ताः प्रियेऽन्नजलवर्जिताः । उपासते च तेषां त्वं संकटहरणं कुरु ॥३५॥ चतुर्विधं स्वसंकटं जन्म मृत्युश्च कर्मजम् । व्रतिनां तत्फलं कर्म विद्यते न कदाचन ॥३६॥ इत्यादि विविधं देवि विशेषेण चतुर्विधम् ।
खं. ४ अ. २ | पत्र ५ संकष्टदं हर त्वं वै मत्प्रसादाच्चतुर्थिके ॥३७॥ न संकष्टं कदाचिद्वै व्रतकारि नरस्य च । भवेन् मे भक्तियुक्तस्य पुनस्त्वद्युक्त- सेविनः ॥३८॥ इह भुक्त्वाऽखिलान् भोगानंते स्वानंदमाप्नुयात् । संकष्टहरणी नाम भवेत्तव चतुर्थिके ॥३९॥ न करोति चतुर्थीं चेन्नरो मद्भक्तिकारकः । निष्फलं सकलं तस्य भजनं वै भविष्यति ॥४०॥ त्वां त्यक्त्वा ये नराः पापा व्रतमन्यच्च कुर्वते । व्रतादिकं निष्फलं तेषां सर्वं भविष्यति ॥४१॥ वर्णाश्रमस्थको भूत्वा चतुर्थीं न करोति चेत् । तस्य सर्वं स्वधर्मस्थं कर्म यन्निष्फलं भवेत् ॥४२॥ यती रात्रौ निराहारयुक्तः सन् व्रतमाचरेत् । संकष्टहरणं देवि स्वानंदार्थं न संशयः ॥४३॥ अन्यैश्च द्विजसंयुक्तैर्भोजनं द्विजसाक्षिकम् । रात्रौ कर्तव्यमेतस्मिन् मां प्रपूज्य वरानने ॥४४॥ श्रावणे लड्डुकान् भक्षेत् भाद्रके दधिभोजनम् । निर्जलं त्वाश्विने प्रोक्तं दुग्धपानं च कार्तिके ॥४५॥ मार्गशीर्षे जलाहारः पौषे गोमूत्र- भक्षणम् । माघे मासि तिलान् शुक्लान् फाल्गुने घृतशर्कराम् ॥४६॥ पंचगव्यं मधौ मासे वैशाखे पद्मबीजकम् । ज्येष्ठे घृतं गवां भक्ष्यमाषाढे मधुभोजनम् ॥४७॥ यतीनां सर्वदा ह्येतत् व्रतं युक्तं प्रकीर्तितम् । अन्येषां भोजने नैवानेन वा व्रतकं स्मृतम् ॥४८॥ याममात्राऽवशिष्टायां रात्रावुत्थाय सत्वरम् । प्रातःकृत्यं सुसंक्षेपात् कर्तव्यं तन्नरेण वै ॥४९॥ तथा माध्याह्निकं कर्म कर्तव्यं प्रातरेव च । चतुर्घटिकरात्रौ सूर्योदयः स प्रकीर्तितः ॥५०॥ एवं कर्मादिकं कृत्वा मां संपूज्याल्प- मंत्रतः । प्रत्यक्षोदयकाले वै सूर्योपस्थानमाचरेत् ॥५१॥ चंद्रोदयस्य पर्यंतं शमीमूले जपं जपेत् । मदीयं मौनिभावेन पश्चात् स्नानं समाचरेत् ॥५२॥ सायाह्नकालजं कर्म तन्न कुर्यान्नरोत्तमः । विधिना पूज्य मां पश्चादर्घ्यदानं समाचरेत् ॥५३॥ आदौ तेऽर्घ्यप्रदानं च ततो मेऽर्घ्यनिवेदनम् । ततः सप्तार्घ्यदानं व्रती चंद्राय समाचरेत् ॥५४॥ ब्राह्मणैः पूजितैर्देवि नरः कुर्याच्च भोजनम् । मोदकापूपलड्डूकपायसादिभिरादरात् ॥५५॥ रात्रौ जागरणं कुर्यान् मदीयकथान्वितः । पंचम्यामुपचारैः संपूजयन् मां प्रयत्नतः ॥५६॥ एवं व्रतं नरः कुर्यात् स वै सर्वार्थसिद्धिभाक् । भविष्यत्यमरैर्मान्योंऽते ब्रह्मणि लयं व्रजेत् ॥५७॥ यथाऽहं देवतादीनां पूज्यः सर्वाद्यभावतः । तथा त्वं व्रतजातीनामादिपूज्या भविष्यसि ॥५८॥ शुक्लां कृष्णां चतुर्थीं ये करिष्यंत्यमरादयः । सर्वव्रतादि भावेषु तेषां सिद्धिर्भविष्यति ॥५९॥ एवमुक्त्वांतर्दधेऽसौ गणेशो ब्रह्मनायकः । चतुर्थी भक्तिसंयुक्ताऽभवत्तत्रैव संस्थिता ॥६०॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते शुक्लकृष्णचतुर्थीवरदानवर्णनं नाम द्वितीयोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच। ततो गणपतिर्दक्ष ययौ सर्वतिथीः प्रति। उवाच वृणुत प्राज्ञा वरं यं मनसीप्सितम् ॥१॥ श्रुत्वा गणपतेर्वाक्यं प्रणम्य गणनायकम्। पूजयित्वा च तं स्तुत्वा जगदुस्तिथयः पराः ॥२॥ प्रतिपदाद्या ऊचुः। यदि विघ्नेश्वर स्वामिन् वरदोऽसि गजानन। किं कर्त्तव्यं दयासिंधो अस्माभिर्वद सांप्रतम् ॥३॥ स्वस्वव्यापारजं देवं सामर्थ्यं देहि चाद्भुतम्। भक्तिं त्वदीयपादाम्बुजे सर्व मान्यं त्वया प्रभो ॥४॥ तासां वचनमाकर्ण्य जगाद गणनायकः। ताः शृणु त्वं प्रजानाथ सर्वेषां हितकारकम् ॥५॥ गणेश उवाच। मदीया भक्तिरत्यंतं भविष्यति न संशयः। भवतीनां महाभागास्तिथयः पुण्यभागिकाः ॥६॥ मत्कलांशसमुद्भूता देवास्तान् प्रीणयंतु वै। भवतीभिर्युता देवा नराणां प्रीतिदास्तु च ॥७॥ सदा वह्निं प्रतिपदि पूजयिष्यंति ये नराः। हुतद्रव्यैश्च हुत्वा तं दुग्धाहारा व्रते रताः ॥८॥ उपोषणं करिष्यंति तैश्च देवाः सहेश्वराः। तोषितास्ते सदा तेभ्यो दास्यंति मनसीप्सितम् ॥९॥ ते मृताः संगमिष्यंत्यग्निलोके भोगकारकाः। अग्नितुल्य- प्रकाशेन विमानेन विहायसा ॥१०॥ चरिष्यंति न संदेहः प्रतिपद्व्रतकारकाः। ब्रह्मार्पणस्वभावेन गमिष्यंति मदात्मनि ॥११॥ द्वितीयायां नरो यस्तु पूजयेदश्विनौ शुभौ। पत्त्राहारसमायुक्तो रूपवान् जायते किल ॥१२॥ इह भुक्त्वाऽखिलान् भोगानंते तल्लोकमाप्नुयात्। द्वितीयाव्रतकारी स देवमान्यो भविष्यति ॥१३॥ ब्रह्मार्पणस्वभावेन द्वितीयाव्रतमाचरेत्। स स्वानंदे मदीये वै लीनश्चैव भविष्यति ॥१४॥ तृतीयायां महाशक्तिं पूजयेद्भक्तिसंयुतः। सर्वैः सौभाग्यदैर्द्रव्यैर्लवणाहार- वर्जितः ॥१५॥ स शक्तिलोकगो भूत्वा भोगयुक्तो भविष्यति। ब्रह्मार्पणतया सोऽपि मल्लोके चागमिष्यति ॥१६॥ पंचम्यां नागमुख्यांश्च दुग्धेन स्नापयेन्नरः। पूजयेत्तान् प्रयत्नेन निरम्लाहारकारकः ॥१७॥ स नागलोकगो भूत्वा भोगयुक्तश्चरिष्यति। निष्कामेन मदीये वै लोकेंऽते आगमिष्यति ॥१८॥ षष्ठ्यां स्कंदं फलाहारः पूजयेद्भक्तिसंयुतः। स्कंदलोके चरेत् सोऽपि महाभोगपरायणः ॥१९॥ निष्कामभावयुक्तश्चेत् स्वानंदेंऽते गमिष्यति। शुक्लगत्याः क्रमेणैव सर्वभावनियंत्रितः ॥२०॥ सप्तम्यामर्चयेत् सूर्यमुपोषणपरायणः। स सूर्यलोकमाश्रित्य प्रचरेद्भोगसंयुतः ॥२१॥ निष्काम- व्रतकारी चेन् महालयसमुत्थिते। स्वानंदे मे सदेहो वै ब्रह्मभूतो भविष्यति ॥२२॥ अष्टम्यां मातृकानां यः पूजको भावसंयुतः। बिल्वाहारसमायुक्तो मातृकालोकगो भवेत् ॥२३॥ मदर्पणस्वभावेन सदा व्रतपरायणः। अष्टम्यां सोऽपि मल्लोके गच्छेत् क्रमविनिश्चिते ॥२४॥ नवम्यामेव दुर्गायाः पूजनं यः समाचरेत्। पिष्टाशी भोगसंयुक्तोऽन्ते तल्लोकमवाप्नुयात्
खं. ४ अ. ३ पान ७ ॥२५॥ ब्रह्मार्पणतया सोऽपि निजलोके गमिष्यति । शुक्लगत्या महाभागो ब्रह्मभूतो न संशयः ॥२६॥ दशम्यां व्रतसंस्थो यो दधिभक्षणसंयुतः । दिशां दिगीशकानां वै पूजकस्तत्प्रियो भवेत् ॥२७॥ इह भुक्त्वाऽखिलान् भोगानंते तल्लोकमाप्नुयात् । निष्कामव्रतभावेन ब्रह्मभूतो भविष्यति ॥२८॥ एकादश्यां नरो भक्षेद्बहिपक्वविवर्जितम् । धनपं पूजयेच्चैव भक्तियुक्तेन चेतसा ॥२९॥ स वै तस्य वसेल्लोके नानाभोगकरः सदा। ब्रह्मार्पणतया तद्व्रतं कृत्वा सुखी भवेत् ॥३०॥ विष्णुं संपूजयेद्यो वै द्वादश्यां घृतभोजनः । स विकुंठे वसेन्नित्यं नानाभोगपरायणः ॥३१॥ ब्रह्मार्पण- विधानेन व्रतं कुर्याद्यदा नरः । महालये मदीये स लोके ब्रह्ममयो भवेत् ॥३२॥ धर्मं त्रयोदशीसंस्थं पूजयेत् क्षीरभोजनः । स धर्मलोकगो भूत्वा भुंजीत विविधं सुखम् ॥३३॥ ब्रह्मार्पणतया येन साधिता चेत् त्रयोदशी। स स्वानंदे समागम्य ब्रह्मभूतो भविष्यति ॥३४॥ चतुर्दश्यां शिवं यश्च पूजयेद्भक्तिसंयुतः । उपोषणसमायुक्तो गोधूमान्नेन पारणम् ॥३५॥ करिष्यति च कैलासे वासस्तस्य भविष्यति । निष्कामश्चेत्तदंते स मल्लोके मन्मयो भवेत् ॥३६॥ पूर्णिमायां देवगणान् देवांश्चंद्रमसं तथा । पूजयेद्भक्तिभावेन चंद्रलोकं स आप्नुयात् ॥३७॥ इह भुक्त्वाऽखिलान् भोगानंते देवान् गमिष्यति । निष्कामनो मदीये स लोके ब्रह्ममयो भवेत् ॥३८॥ उपोषणसमायुक्तोऽर्घ्यदानं यः करिष्यति । चंद्राय निशिभुग् वाऽपि सर्व- देवपरायणः ॥३९॥ सर्वदेवमयी रम्या पूर्णिमा परिकीर्तिता । चांद्री चैव तथा ज्ञेया तिथिः पुण्यप्रदा मता ॥४०॥ अमायां तर्पयेद्यो वै पितॄन् पितृपरायणः । उपोषणं वा कुर्वीत स सर्वार्थमवाप्नुयात् ॥४१॥ अंते पितृमये लोके वसतिस्तस्य संभवेत् । आगमिष्यति निष्कामश्चेत् स्वानंदे स तल्लये ॥४२॥ कृष्णाः शुक्लाः सदा पूज्यास्तिथयो व्रतकारिणा । एवं भाव- युतेनैव स सर्वार्थमवाप्नुयात् ॥४३॥ मत्प्रियास्तिथयः सर्वा भविष्यथ न संशयः । मत्कलांशायुतैर्देवैः संयुक्ताः प्रभवैत वै ॥४४॥ चतुर्थीं ये न कुर्वंति तेषां सर्वं निरर्थकम् । भवदीयव्रते संस्थं भविष्यति न संशयः ॥४५॥ अतश्चतुर्थीसंयुक्ताः सदा भवत मानदाः । तिथयः कालमानेन सर्वपूज्या भविष्यथ ॥४६॥ एवमुक्त्वाऽंतर्दधेऽसौ गणेशो गणवल्लभः । तथा जातं प्रजा- नाथ तिथियुक्तव्रतं सदा ॥४७॥ चतुर्थीजं च माहात्म्यं तिथीनां यद्विशेषतः। शृणुयाद्यः पठेद्वाऽपि स सर्वार्थमवाप्नुयात् ॥४८॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते प्रतिपदादिव्रतवर्णनं नाम तृतीयोऽध्यायः ॥
खं. ४ अ. ४ । पान ८
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अधुना शृणु दक्ष त्वं संवादं तं पुरातनम् । दशरथस्य राजर्षेर्वसिष्ठस्य महात्मनः ॥१॥ येन त्वं तिथिमुख्यायाश्चतुर्थ्या व्रतजे परे । महिम्नि निपुणोऽत्यंतं संभवेर्ब्रह्मपुत्रक ॥२॥ महायशा दशरथो वंध्यदोषभयार्दितः । वसिष्ठं शरणं गत्वा नत्वा पप्रच्छ तं मुनिम् ॥३॥ दशरथ उवाच । पुत्रप्राप्त्यर्थमेवं भो वदोपायं महामुने । शिष्यं मां शाधि भावज्ञ तारयस्व भवार्णवात् ॥४॥ ततस्तं मुनिशार्दूल उवाच नृपमुत्तमम् । कुलदेवं गणेशं ते भजस्व व्रतसंयुतः ॥५॥ वसिष्ठस्य वचः श्रुत्वा पुनस्तं प्रणनाम ह । पप्रच्छ विनयेनैव संयुतः स नृपोत्तमः ॥६॥ कीदृशं तद्व्रतं विप्र गणेशस्य महात्मनः । कृतं केन व्रतं तत्र भवेत् सिद्धिश्च कीदृशी ॥७॥ कस्मिन् काले व्रतं कार्यं पूजनं कीदृशं मुने । वद सर्वं विशेषेण करिष्यामि त्वदाज्ञया ॥८॥ वसिष्ठ उवाच । चतुर्थी गणनाथस्य प्रियाऽत्यंतं नृपोत्तम । शुक्ला कृष्णा समाख्याता सर्वसिद्धिप्रदा भवेत् ॥९॥ चंद्रोदये यदा प्राप्ता कृष्णा सैव चतुर्थिका । सा संकष्टहरा प्रोक्ता चतुर्विधफलप्रदा ॥१०॥ चतुर्विधं जगत् सर्वं जानीहि त्वं नृपात्मज । संकष्टं तत् समाख्यातं बंधनेन विशेषतः ॥११॥ इह भुक्त्वाऽखिलान् भोगान् संकष्टीकरणात्नृप । सर्वसंकटहीनः स स्वानंदे प्रगमिष्यति ॥१२॥ यदा चन्द्रोदये भूप चतुर्थी नैव लभ्यते । प्रदोषव्यापिनी ग्राह्या सर्वसंकटमुक्तये ॥१३॥ उभये चन्द्रसंयुक्ता प्राप्ता सा व्रतधारिणी । तदा स्वेच्छाविहारेण कर्तव्या चन्द्रव्यापिनी ॥१४॥ तृतीयायां प्रदोषाच्च चंद्रस्योदयगा भवेत् । तदा सैव सदा ग्राह्या परां त्यक्त्वा विशेषतः ॥१५॥ शुक्ला सा वरदा प्रोक्ता चतुर्णां नात्र संशयः । संचिताऽसंचितानां वै व्रतकारिजनाय च ॥१६॥ धर्मार्थकाममोक्षाद्या- श्चत्वारो ये पदार्थकाः । तान् ददाति गणेशस्य प्रीतिदा सा चतुर्थिका ॥१७॥ मध्याह्नव्यापिनी ग्राह्या सदा शुक्लचतुर्थिका । उभयत्र यदा नाप्ता पूर्वविद्धा मता तिथिः ॥१८॥ उभयत्र यदा प्राप्ता भवेत् प्रहरभानुगा । तृतीया चेत्तदा साऽपि पूर्वविद्धा मता तिथिः ॥१९॥ प्रहरादूर्ध्वगा भूप तृतीया सूर्यसंयुता । तदा पूर्वा परा वाऽपि कार्या सैव चतुर्थिका ॥२०॥ चतुर्थीव्रतहीनस्य फलहीनानि भूमिप । व्रतानि सर्वकालेष्वाद्या कार्या सा ततः प्रभो ॥२१॥ एतद्व्रतं महाभाग ब्रह्मणा- ऽऽचरितं पुरा । व्रतस्यैव प्रभावेण निर्ममे सकलं जगत् ॥२२॥ विष्णुना शंकरेणैव कृतं व्रतमनुत्तमम् । पालने हरणे देवौ समर्थौ तौ बभूवतुः ॥२३॥ योगिभिः शुकमुख्यैश्च कश्यपादिमुनीश्वरैः । मुनिभिश्च कृतं पूर्वं स्वस्वकार्यार्थसिद्धये ॥२४॥ इह भुक्त्वाऽखिलान् भोगानंते स्वानंदगा बभुः । नानेन सदृशं विद्धि चतुर्णां साधकं नृप ॥२५॥ अन्यैर्नानाविधैरतत् कृतं
खं. ४ अ. ५ पान ९ वर्णाश्रमस्थितैः । ते सर्वे ब्रह्मभूता वै ययुः स्वानंदके पुरे ॥२६॥ एतद् व्रतं महीपाल कुरु त्वं भावसंयुतः । भविताऽसि सपुत्रश्च तथा स्वानंदगो भवेः ॥२७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते दशरथव्रतोपदेशो नाम चतुर्थोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । ब्रह्मादिभिः कथं विप्र चतुर्थीगं व्रतं कृतम् । गणनाथप्रियं पूर्णं वद सर्वं प्रविस्तरात् ॥१॥ दक्ष उवाच । वद मुद्गल माहात्म्यं चतुर्थ्यास्त्वं प्रविस्तरात् । श्रुत्वा कथां महारम्यां न तृप्यामि मुनीश्वर ॥२॥ दक्षस्य भक्तिसंयुक्तं वाक्यं श्रुत्वा महामुनिः । जगाद तं विशेषज्ञो मुद्गलः शृणु शौनक ॥३॥ वचनं नृपवर्यस्य श्रुत्वा दशरथस्य च । जगाद तं मुनिश्रेष्ठो वसिष्ठः सर्ववित् प्रभुः ॥४॥ वसिष्ठ उवाच । कदाचित् प्रलये वृत्ते नष्टं स्थावरजंगमम् । पंचभूतमयं सर्वं व्यवस्थासंयुतं पुरा ॥५॥ शून्यवत् सर्वभावैस्तद्धीनं ब्रह्ममयं बभौ । योगनिद्रा गणेशस्य सैव वेदे प्रकथ्यते ॥६॥ पुनः स कस्मिंश्चित्काले वेदवाग्भिः प्रबोधितः । गणेशो निर्ममे सर्वं तत्त्वैस्तत्त्वप्रधारकः ॥७॥ त्रिगुणेभ्यः समुत्पन्ना देवाः पंच नृपेश्वर । ब्रह्मा विष्णुः शिवः शक्तिः सूर्यः सर्वधरा बभुः ॥८॥ तैस्तपश्चरितं घोरमेकाक्षरविधानतः । तपसा गणनाथस्तु प्रसन्नः प्रबभूव ह ॥९॥ हृदये दर्शयामास स्वात्मानं सर्वदं परम् । तेन ज्ञानयुता जाता देवाः पंच नरेश्वर ॥१०॥ तैश्च संप्रार्थितो योगी भृशुंडी सर्वपारगः । तेन संप्रेषिता देवा आययुर्नगरे निजे ॥११॥ कर्मभूमौ गणेशस्य क्षेत्रं स्वानंदवाचकम् । वेदैः संदर्शितं स्थापयामासुस्तत्र विघ्नपम् ॥१२॥ यस्मिन् काले च देवेशैः स्थापिता मूर्तिरादरात् । तस्मिन् काले चतुर्थी सा भाद्री शुक्ला बभूव ह ॥१३॥ मध्याह्नसमये संस्था सा मुख्या प्रबभूव ह । तत आराधितस्तैः स गणराजो विशेषतः ॥१४॥ माघमासे सिते पक्षे चतुर्थ्यां राजसत्तम । प्रकटोऽभूत् पुरस्तेषां वरदाता गजाननः ॥१५॥ वरप्रसादेन तस्य निर्मितं सकलं जगत् । देवेशैः सा तिथिर्मुख्या बभूव वरदायिनी ॥१६॥ ब्रह्मादिभिश्च सर्वेभ्य उपदिष्टा चतुर्थिका॑ । आदौ काले तथा तत्र ज्येष्ठी मुख्या बभूव सा ॥१७॥ ज्येष्ठशुद्धचतुर्थ्यां तद्व्रतदानं कृतं पुरा । तस्मिन् काले धृता सर्वैः सद्यः सा वरदायिनी ॥१८॥ अतो मुख्यत्वमापन्ना ज्येष्ठी माघी च भाद्रिका । चतुर्थी नृपशार्दूल शुक्लपक्षेषु सर्वदा ॥१९॥ तत्र भाद्रपदे मासे चतुर्थी या महामते । शुक्ला साऽत्यंतभावेन मुख्या जाताऽद्य भावतः ॥२०॥
चतुर्थी समभावेन न किंचिद्वर्तते व्रतम् । अतः किं वर्णनीयं वै तदौपम्यं तदेव च ॥२१॥ भाद्रे चतुर्थी या शुक्ला साधिता सा नरेण चेत् । स द्वादशचतुर्थीसंभवं पुण्यं समाप्नुयात् ॥२२॥ अंगारकयुता भूप सा नरेण कृता भवेत् । चतुर्थी षोडशभवं पुण्यं प्राप्तं न संशयः ॥२३॥ नरेण धीमता सा चेद्यदि चंद्रयुता कृता । चतुर्थी विंशतिभवं फलं प्राप्तं महामते ॥२४॥ यदि स्वातियुता भूप चंद्रवारेण चेत्कृता । प्राप्तं चतुर्विंशतिचतुर्थीजं किल पुण्यकम् ॥२५॥ माघे शुक्लचतुर्थी सा कृता चेन्नात्र संशयः । अष्टानां च चतुर्थीनां फलं प्राप्तं नरेण तत् ॥२६॥ अंगारकयुता चेद्वै साधिता सा नरेण च । द्वादशानां चतुर्थीनां पुण्यं प्राप्तं व्रतोद्भवम् ॥२७॥ ज्येष्ठे शुक्लचतुर्थीं यः करोति व्रतधारकः । चतुश्चतुर्थीजं पुण्यं लभते स नराधिप ॥२८॥ अंगारकयुता चेद् द्वादशभिः समतां व्रजेत् । नरेण सा प्रयत्नेन कर्तव्या सर्वदायिका ॥२९॥ अन्येषु श्रावणाद्येषु चतुर्थी वरदा कृता । धर्मार्थकाममोक्षाणां दात्री शास्त्रेषु संमतम् ॥३०॥ तत्र श्रावणमासे या चतुर्थी वरदा मता । द्विचतुर्थीभवं पुण्यं ददाति व्रतकारिणे ॥३१॥ चतुर्थ्या महिमाऽनंतोऽशक्यौ वर्णयितुं भवेत् । चतुःपदप्रदा प्रोक्ता सा कथं वर्ण्यते मया ॥३२॥ अधुना शृणु राजेंद्र कृष्णपक्षे समागताम् । चतुर्थीं सर्वदां पुण्यां संकष्टहरिणीं शुभाम् ॥३३॥ चतुर्विधं च संकष्टं प्राप्तं सर्वैर्नराधिप । जन्ममृत्युत्य्रव्यवस्थारूयं चतुर्थं कर्मजं फलम् ॥३४॥ इत्यादिबहवो भेदाः कथनं नैव शक्यते । चतुर्विधं जगत् सर्वं पंचमं ब्रह्म उच्यते ॥३५॥ चतुर्विधं सुसंकष्टं व्रतमात्रेण हंति या । संकष्टहरिणी प्रोक्ता चतुर्थी कृष्णपक्षगा ॥३६॥ तस्यापि महिमानं कः क्षमो वर्णयितुं भवेत् । सर्वसिद्धिप्रदायास्तु व्रताचरणमात्रतः ॥३७॥ माघमासे कृताऽऽदौ च ब्रह्मणा विश्वयोनिना । अतः सा मुख्यतां प्राप्ताऽष्टचतुर्थीव्रतैः समा ॥३८॥ अंगारकयुता तत्र विंशत्या समतां व्रजेत् । साधिता व्रतभावेन चेन्नरेण नराधिप ॥३९॥ श्रावणे या समाख्याता चतुर्थी कृष्णपक्षगा । चतुश्चतुर्थीतुल्या सा भवत्यत्र न संशयः ॥४०॥ ब्रह्मणा चोपदिष्टा वै श्रावणे सा ततोऽधिका । आदौ देवमुनींद्रेभ्यः सर्वसंकष्टहारिणी ॥४१॥ भाद्रमासे नराधीश चतुर्थी कृष्णपक्षगा । चतुश्चतुर्थीतुल्या सा शृणु कारणमत्र वै ॥४२॥ देवानां गणनांथश्च वरदः संबभूव ह । व्रतमात्रेण तस्मात् सा मुख्या जाता न संशयः ॥४३॥ अंगारकयुता कुत्र संप्राप्ता चेत् सुसिद्धिदा । द्वादशव्रतजं पुण्यं ददाति व्रतकारिणे ॥४४॥ शुक्ला कृष्णा सदा कार्या चतुःपदसुसिद्धये । अन्यथा सिद्धिहीनानि प्रभवंति व्रतानि च ॥४५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते चतुर्थीविवेकवर्णनं नाम पंचमोऽध्यायः ॥