भारतकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

खं. ४ अ. ४पान ८


॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अधुना शृणु दक्ष त्वं संवादं तं पुरातनम् । दशरथस्य राजर्षेर्वसिष्ठस्य महात्मनः ॥१॥ येन त्वं तिथिमुख्यायाश्चतुर्थ्या व्रतजे परे । महिम्नि निपुणोऽत्यंतं संभवेर्ब्रह्मपुत्रक ॥२॥ महायशा दशरथो वंध्यदोषभयार्दितः । वसिष्ठं शरणं गत्वा नत्वा पप्रच्छ तं मुनिम् ॥३॥ दशरथ उवाच । पुत्रप्राप्त्यर्थमेवं भो वदोपायं महामुने । शिष्यं मां शाधि भावज्ञ तारयस्व भवार्णवात् ॥४॥ ततस्तं मुनिशार्दूल उवाच नृपमुत्तमम् । कुलदेवं गणेशं ते भजस्व व्रतसंयुतः ॥५॥ वसिष्ठस्य वचः श्रुत्वा पुनस्तं प्रणनाम ह । पप्रच्छ विनयेनैव संयुतः स नृपोत्तमः ॥६॥ कीदृशं तद्व्रतं विप्र गणेशस्य महात्मनः । कृतं केन व्रतं तत्र भवेत् सिद्धिश्च कीदृशी ॥७॥ कस्मिन् काले व्रतं कार्यं पूजनं कीदृशं मुने । वद सर्वं विशेषेण करिष्यामि त्वदाज्ञया ॥८॥ वसिष्ठ उवाच । चतुर्थी गणनाथस्य प्रियाऽत्यंतं नृपोत्तम । शुक्ला कृष्णा समाख्याता सर्वसिद्धिप्रदा भवेत् ॥९॥ चंद्रोदये यदा प्राप्ता कृष्णा सैव चतुर्थिका । सा संकष्टहरा प्रोक्ता चतुर्विधफलप्रदा ॥१०॥ चतुर्विधं जगत् सर्वं जानीहि त्वं नृपात्मज । संकष्टं तत् समाख्यातं बंधनेन विशेषतः ॥११॥ इह भुक्त्वाऽखिलान् भोगान् संकष्टीकरणात्नृप । सर्वसंकटहीनः स स्वानंदे प्रगमिष्यति ॥१२॥ यदा चन्द्रोदये भूप चतुर्थी नैव लभ्यते । प्रदोषव्यापिनी ग्राह्या सर्वसंकटमुक्तये ॥१३॥ उभये चन्द्रसंयुक्ता प्राप्ता सा व्रतधारिणी । तदा स्वेच्छाविहारेण कर्तव्या चन्द्रव्यापिनी ॥१४॥ तृतीयायां प्रदोषाच्च चंद्रस्योदयगा भवेत् । तदा सैव सदा ग्राह्या परां त्यक्त्वा विशेषतः ॥१५॥ शुक्ला सा वरदा प्रोक्ता चतुर्णां नात्र संशयः । संचिताऽसंचितानां वै व्रतकारिजनाय च ॥१६॥ धर्मार्थकाममोक्षाद्या- श्चत्वारो ये पदार्थकाः । तान् ददाति गणेशस्य प्रीतिदा सा चतुर्थिका ॥१७॥ मध्याह्नव्यापिनी ग्राह्या सदा शुक्लचतुर्थिका । उभयत्र यदा नाप्ता पूर्वविद्धा मता तिथिः ॥१८॥ उभयत्र यदा प्राप्ता भवेत् प्रहरभानुगा । तृतीया चेत्तदा साऽपि पूर्वविद्धा मता तिथिः ॥१९॥ प्रहरादूर्ध्वगा भूप तृतीया सूर्यसंयुता । तदा पूर्वा परा वाऽपि कार्या सैव चतुर्थिका ॥२०॥ चतुर्थीव्रतहीनस्य फलहीनानि भूमिप । व्रतानि सर्वकालेष्वाद्या कार्या सा ततः प्रभो ॥२१॥ एतद्व्रतं महाभाग ब्रह्मणा- ऽऽचरितं पुरा । व्रतस्यैव प्रभावेण निर्ममे सकलं जगत् ॥२२॥ विष्णुना शंकरेणैव कृतं व्रतमनुत्तमम् । पालने हरणे देवौ समर्थौ तौ बभूवतुः ॥२३॥ योगिभिः शुकमुख्यैश्च कश्यपादिमुनीश्वरैः । मुनिभिश्च कृतं पूर्वं स्वस्वकार्यार्थसिद्धये ॥२४॥ इह भुक्त्वाऽखिलान् भोगानंते स्वानंदगा बभुः । नानेन सदृशं विद्धि चतुर्णां साधकं नृप ॥२५॥ अन्यैर्नानाविधैरतत् कृतं

खं. ४ अ. ५ पान ९ वर्णाश्रमस्थितैः । ते सर्वे ब्रह्मभूता वै ययुः स्वानंदके पुरे ॥२६॥ एतद् व्रतं महीपाल कुरु त्वं भावसंयुतः । भविताऽसि सपुत्रश्च तथा स्वानंदगो भवेः ॥२७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते दशरथव्रतोपदेशो नाम चतुर्थोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । ब्रह्मादिभिः कथं विप्र चतुर्थीगं व्रतं कृतम् । गणनाथप्रियं पूर्णं वद सर्वं प्रविस्तरात् ॥१॥ दक्ष उवाच । वद मुद्गल माहात्म्यं चतुर्थ्यास्त्वं प्रविस्तरात् । श्रुत्वा कथां महारम्यां न तृप्यामि मुनीश्वर ॥२॥ दक्षस्य भक्तिसंयुक्तं वाक्यं श्रुत्वा महामुनिः । जगाद तं विशेषज्ञो मुद्गलः शृणु शौनक ॥३॥ वचनं नृपवर्यस्य श्रुत्वा दशरथस्य च । जगाद तं मुनिश्रेष्ठो वसिष्ठः सर्ववित् प्रभुः ॥४॥ वसिष्ठ उवाच । कदाचित् प्रलये वृत्ते नष्टं स्थावरजंगमम् । पंचभूतमयं सर्वं व्यवस्थासंयुतं पुरा ॥५॥ शून्यवत् सर्वभावैस्तद्धीनं ब्रह्ममयं बभौ । योगनिद्रा गणेशस्य सैव वेदे प्रकथ्यते ॥६॥ पुनः स कस्मिंश्चित्काले वेदवाग्भिः प्रबोधितः । गणेशो निर्ममे सर्वं तत्त्वैस्तत्त्वप्रधारकः ॥७॥ त्रिगुणेभ्यः समुत्पन्ना देवाः पंच नृपेश्वर । ब्रह्मा विष्णुः शिवः शक्तिः सूर्यः सर्वधरा बभुः ॥८॥ तैस्तपश्चरितं घोरमेकाक्षरविधानतः । तपसा गणनाथस्तु प्रसन्नः प्रबभूव ह ॥९॥ हृदये दर्शयामास स्वात्मानं सर्वदं परम् । तेन ज्ञानयुता जाता देवाः पंच नरेश्वर ॥१०॥ तैश्च संप्रार्थितो योगी भृशुंडी सर्वपारगः । तेन संप्रेषिता देवा आययुर्नगरे निजे ॥११॥ कर्मभूमौ गणेशस्य क्षेत्रं स्वानंदवाचकम् । वेदैः संदर्शितं स्थापयामासुस्तत्र विघ्नपम् ॥१२॥ यस्मिन् काले च देवेशैः स्थापिता मूर्तिरादरात् । तस्मिन् काले चतुर्थी सा भाद्री शुक्ला बभूव ह ॥१३॥ मध्याह्नसमये संस्था सा मुख्या प्रबभूव ह । तत आराधितस्तैः स गणराजो विशेषतः ॥१४॥ माघमासे सिते पक्षे चतुर्थ्यां राजसत्तम । प्रकटोऽभूत् पुरस्तेषां वरदाता गजाननः ॥१५॥ वरप्रसादेन तस्य निर्मितं सकलं जगत् । देवेशैः सा तिथिर्मुख्या बभूव वरदायिनी ॥१६॥ ब्रह्मादिभिश्च सर्वेभ्य उपदिष्टा चतुर्थिका॑ । आदौ काले तथा तत्र ज्येष्ठी मुख्या बभूव सा ॥१७॥ ज्येष्ठशुद्धचतुर्थ्यां तद्व्रतदानं कृतं पुरा । तस्मिन् काले धृता सर्वैः सद्यः सा वरदायिनी ॥१८॥ अतो मुख्यत्वमापन्ना ज्येष्ठी माघी च भाद्रिका । चतुर्थी नृपशार्दूल शुक्लपक्षेषु सर्वदा ॥१९॥ तत्र भाद्रपदे मासे चतुर्थी या महामते । शुक्ला साऽत्यंतभावेन मुख्या जाताऽद्य भावतः ॥२०॥

चतुर्थी समभावेन न किंचिद्वर्तते व्रतम् । अतः किं वर्णनीयं वै तदौपम्यं तदेव च ॥२१॥ भाद्रे चतुर्थी या शुक्ला साधिता सा नरेण चेत् । स द्वादशचतुर्थीसंभवं पुण्यं समाप्नुयात् ॥२२॥ अंगारकयुता भूप सा नरेण कृता भवेत् । चतुर्थी षोडशभवं पुण्यं प्राप्तं न संशयः ॥२३॥ नरेण धीमता सा चेद्यदि चंद्रयुता कृता । चतुर्थी विंशतिभवं फलं प्राप्तं महामते ॥२४॥ यदि स्वातियुता भूप चंद्रवारेण चेत्कृता । प्राप्तं चतुर्विंशतिचतुर्थीजं किल पुण्यकम् ॥२५॥ माघे शुक्लचतुर्थी सा कृता चेन्नात्र संशयः । अष्टानां च चतुर्थीनां फलं प्राप्तं नरेण तत् ॥२६॥ अंगारकयुता चेद्वै साधिता सा नरेण च । द्वादशानां चतुर्थीनां पुण्यं प्राप्तं व्रतोद्भवम् ॥२७॥ ज्येष्ठे शुक्लचतुर्थीं यः करोति व्रतधारकः । चतुश्चतुर्थीजं पुण्यं लभते स नराधिप ॥२८॥ अंगारकयुता चेद् द्वादशभिः समतां व्रजेत् । नरेण सा प्रयत्नेन कर्तव्या सर्वदायिका ॥२९॥ अन्येषु श्रावणाद्येषु चतुर्थी वरदा कृता । धर्मार्थकाममोक्षाणां दात्री शास्त्रेषु संमतम् ॥३०॥ तत्र श्रावणमासे या चतुर्थी वरदा मता । द्विचतुर्थीभवं पुण्यं ददाति व्रतकारिणे ॥३१॥ चतुर्थ्या महिमाऽनंतोऽशक्यौ वर्णयितुं भवेत् । चतुःपदप्रदा प्रोक्ता सा कथं वर्ण्यते मया ॥३२॥ अधुना शृणु राजेंद्र कृष्णपक्षे समागताम् । चतुर्थीं सर्वदां पुण्यां संकष्टहरिणीं शुभाम् ॥३३॥ चतुर्विधं च संकष्टं प्राप्तं सर्वैर्नराधिप । जन्ममृत्युत्य्रव्यवस्थारूयं चतुर्थं कर्मजं फलम् ॥३४॥ इत्यादिबहवो भेदाः कथनं नैव शक्यते । चतुर्विधं जगत् सर्वं पंचमं ब्रह्म उच्यते ॥३५॥ चतुर्विधं सुसंकष्टं व्रतमात्रेण हंति या । संकष्टहरिणी प्रोक्ता चतुर्थी कृष्णपक्षगा ॥३६॥ तस्यापि महिमानं कः क्षमो वर्णयितुं भवेत् । सर्वसिद्धिप्रदायास्तु व्रताचरणमात्रतः ॥३७॥ माघमासे कृताऽऽदौ च ब्रह्मणा विश्वयोनिना । अतः सा मुख्यतां प्राप्ताऽष्टचतुर्थीव्रतैः समा ॥३८॥ अंगारकयुता तत्र विंशत्या समतां व्रजेत् । साधिता व्रतभावेन चेन्नरेण नराधिप ॥३९॥ श्रावणे या समाख्याता चतुर्थी कृष्णपक्षगा । चतुश्चतुर्थीतुल्या सा भवत्यत्र न संशयः ॥४०॥ ब्रह्मणा चोपदिष्टा वै श्रावणे सा ततोऽधिका । आदौ देवमुनींद्रेभ्यः सर्वसंकष्टहारिणी ॥४१॥ भाद्रमासे नराधीश चतुर्थी कृष्णपक्षगा । चतुश्चतुर्थीतुल्या सा शृणु कारणमत्र वै ॥४२॥ देवानां गणनांथश्च वरदः संबभूव ह । व्रतमात्रेण तस्मात् सा मुख्या जाता न संशयः ॥४३॥ अंगारकयुता कुत्र संप्राप्ता चेत् सुसिद्धिदा । द्वादशव्रतजं पुण्यं ददाति व्रतकारिणे ॥४४॥ शुक्ला कृष्णा सदा कार्या चतुःपदसुसिद्धये । अन्यथा सिद्धिहीनानि प्रभवंति व्रतानि च ॥४५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते चतुर्थीविवेकवर्णनं नाम पंचमोऽध्यायः ॥

❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀

पान १२

नमः ॥२६॥ सर्वाद्ये महादात्रे सर्वपूज्याय वै नमः । सर्वभावस्थितायैव ढंढिराजाय ते नमः ॥२७॥ स्वानंदवासिने तुभ्यं योगशांतिमयाय च । योगिभ्यो योगदात्रे वै योगानां पतये नमः ॥२८॥ सृष्टिकर्त्रे च पात्रे ते सृष्टिहर्त्रे नमो नमः । गणेशाय गुणानां वै चालकाय नमो नमः ॥२९॥ आत्मनेऽनात्मने चैव कारणानां प्रकाशिने । ब्रह्मेशाय सदानाथ देवपालकरूपिणे ॥३०॥ निवारय महाविघ्नं सहसा समुपस्थितम् । ग्रसिष्यति न चेदंडमस्मान् वै नात्र संशयः ॥३१॥ त्वदीयपादपद्मस्य वयं दासा गजानन । मरिष्यामो यदा नाथ यशस्तव गतं तदा ॥३२॥ अधुना रक्ष देवेश न वयं द्रष्टुमुग्रकम् । क्षमा गच्छंति नः प्राणा रक्ष विघ्नेश रक्ष भोः ॥३३॥ एवं संस्तुवतां तेषां पुरः सोऽपि महापुमान् । गणेशाकाररूपेण बभूव नृपसत्तम ॥३४॥ ततस्ते तं प्रणेमुश्च पूजयामासुरादरात् । मानसीं स्वसुतां तस्मै ददुः सर्वे शिवादयः ॥३५॥ सरस्वतीं ददौ ब्रह्मा विष्णुः पुष्टिं च मानसीम् । योगिनीं शंकरश्चैव मोहिनीं जगदंबिका ॥३६॥ संजीवनीं ददौ तस्मै भानुः सर्वप्रियंकरः । एवं संपूज्य विघ्नेशं प्रणतास्ते महीपते ॥३७॥ उवाच तान् स उत्थाप्य विघ्नेशे भक्तिभावतः । विष्णुमुख्यान् महेशांश्च मेघगंभीरनिःस्वनः ॥३८॥ श्रीगणेश उवाच । शंभुमुख्याः शृणुत च देवेंद्रा मुनिमुख्याकाः । मदीयांशा भवंतोऽपि गर्व मा कुरुत प्रियाः ॥३९॥ चराचरं मदीयांशं मद्रहितं न किंचन । तेभ्यः सिद्धिप्रदानार्थं देहधारी भवाम्यहम् ॥४०॥ यदि ज्ञानेन मां त्यक्त्वा पूजयेत् तृणरूपकम् । तेनाऽहं किं महादेवाः पूजितो वदत प्रियाः ॥४१॥ तत्रांशो वर्तते किंचिन् मदीयस्तत् समा च मे । तृप्तिर्जाता न संदेहः पूर्णस्तृप्तो भवामि न ॥४२॥ भवंतोऽपि तथा विप्रैः कलांशाः पूजिता यदि । कलांशरूपा मे तृप्तिस्तेन जाता गुणात्मिका ॥४३॥ ब्रह्मांड पूजिते पूर्णे न तृप्तोऽहं भवामि च । अनंतानि मदीयेषु ब्रह्मांडानि स्वलोमसु ॥४४॥ गजवक्त्रादि- चिह्नेन चिन्हितोऽहं महेश्वरः । जगद्ब्रह्ममयस्तत्र तिष्ठामि योगशांतिदः ॥४५॥ तस्य पूजनमात्रेण जगद्ब्रह्म सुपूजितम् । अहं तयोश्च योगे वै पूर्णः संपूजितो मतः ॥४६॥ मां त्यक्त्वा ज्ञानमोहेन मोहिता मुनिदेवताः । भवतां पूजनं चक्रुः सर्वादौ विघ्नसयुताः ॥४७॥ तत्रापि मदसंयुक्ता भवंतस्तादृशात्मकाः । सिद्धिहीनास्ततो जाताः पुनर्मां कुरुत त्विदम् ॥४८॥ पूर्वस्मिंश्च भवद्भिर्वै सेवितो भक्तिसंयुतैः । अतः सहामि देवेशा दत्तं वो दर्शनं मया ॥४९॥ कलांशमात्रेण यदि संतुष्टोऽहं भवामि चेत् । तदा देहधरः कस्मात् स्थास्यामि वदत प्रियाः ॥५०॥ एवमुक्त्वा गणाधीशो विरराम महीपते । तेऽपि प्रणम्य विघ्नेशं स्वदोषं प्रक्षमापयन् ॥५१॥ एतस्मिन्नंतरे तत्र चन्द्रः शंकरभालगः । जहास विवृतैर्दतैर्गणेशं रूपगर्वितः ॥५२॥ उवाच मोहितोऽत्यंतं

प्रणम्य गणनायकम् । गजवक्त्रयुतं रूपं किं धृतं विकटं प्रभो ॥५३॥ पुनः पुनरुवाचेदं वाक्यं हास्यपरायणः । ततस्तं कुपितो देवः शशाप शशलाञ्छनम् ॥५४॥ ये त्वां विलोकयंते वै चन्द्र ते पापिनः सदा । भवंतु विघ्नसंयुक्ता मद्वाक्यान्नात्र संशयः ॥५५॥ एवमुक्त्वांतर्दधेऽसौ गणेशो ब्रह्मनायकः । भार्याभिः सहितो भूप चन्द्रश्च मलिनोऽभवत् ॥५६॥ अहंकारविहीनास्ते जाताः शंम्वादयः सुराः । तदारभ्य महाभाग गाणपत्या विशेषतः ॥५७॥ वेदज्ञाऽहंकृतिः पूर्णा ब्रह्मणो हृदि संस्थिता । तया मदयुतो ब्रह्मा भवत्येषं पुनः पुनः ॥५८॥ सरस्वती सा दत्ता वै गणेशाय महात्मने । तया युक्तः सदा रेमे ब्रह्मणो हृदि विघ्नपः ॥५९॥ हृदि स्थिते गणेशे स कथं मोहयुतो भवेत् । सदा तं भजते भक्त्या गाणपत्यस्वभावतः ॥६०॥ सर्वपोषणता तद्वद्विष्णोर्हृदि समास्थिता । तत् सामर्थ्यविमोहेन गर्वं गच्छति केशवः ॥६१॥ तां ददौ विघ्नराजाय पुष्टिं विश्वस्य पोषिणीम् । तया युक्तो गणेशानो रेमे विष्णोः सदा हृदि ॥६२॥ सोऽपि तं भजते नित्यं गाणपत्यविचारवित् । हृदिस्थे स कथं मोहं प्राप्नोति नृप विघ्नपे ॥६३॥ योगेन मोहहीनत्वं सदा शंभोर्हृदि प्रभो । तेनाहंकारभावेन मन्यते किं न शंकरः ॥६४॥ तामेव योगिनीं देवीं हृदिस्थां प्रददौ शिवः । गणेशस्तु तया युक्तो रेमे शंभोर्हृदि स्थितः ॥६५॥ गणेशे हृदि संस्थे स मोहं नैव प्रपद्यते । सदा गाणेशको भूत्वा भजते गणनायकम् ॥६६॥ वृष्ट्या दानप्रदाने वै करोति स दिवाकरः । सर्वेषां जीवनं तेन धृतं कर्ममयं नृप ॥६७॥ तदेव हृदये तस्य वर्ततेऽहंस्रभावतः । तां संजीवनिकां सूर्यो ददौ विघ्नेश्वराय च ॥६८॥ तया युक्तो गणाधीशः सदा हृदि स खेलति । भानोस्तेन रविस्तं स भजतेऽनन्यचेतसा ॥६९॥ शक्तिर्हृदयगां देवीं मोहिनीं सर्वमोहिनीम् । ददौ विघ्नेश्वरायैव शक्तिभावसमन्विताम् ॥७०॥ तया युक्तो गणेशानस्तस्या हृदि विशेषतः । तेन खेलति सा देवी भजते गणनायकम् ॥७१॥ इत्यहंकारनिर्मुक्ता देवेंद्रास्ते बभूविरे । गाणपत्यप्रिया जाता भजंते विघ्ननायकम् ॥७२॥ चित्ते चिंतामणिः स्थित्वा प्रकृत्या खेलति प्रभुः । मिथ्याहंकारभावेन बंधनं प्रतिपद्यते ॥७३॥ कर्ता कारयिता देवो गणेशो नात्र संशयः । हृदिस्थं तं समर्प्यैव स्वात्मानं सुखिनोऽभवन् ॥७४॥ मुद्गल उवाच । श्रुत्वा दशरथो राजा जगाद मुनिसत्तमम् । चंद्रस्य का गतिर्जाता तां मे वद महामुने ॥७५॥ वसिष्ठ उवाच । गणेशशापसंयुक्तश्चंद्रः स स्वगृहे गतः । एकांते दुःखसंयुक्तो विचारमकरोद्धृदि ॥७६॥ संप्रज्ञातस्वरूपश्च देहो गणपतेः स्मृतः । असंप्रज्ञातरूपं वै शिरस्तस्य महात्मनः ॥७७॥ तयोर्योगे गणेशोऽयं भक्तानुग्रहकारणात् । देहधारी स्वयं

खं. ४ अ. ६ पान १४ साक्षाद्भूवात्र न संशयः ॥७८॥ वेदेषु कथितं ते यद्रूपं परमयोगदम् । तन्न ज्ञातं मया देव मोहेनैव गजानन ॥७९॥ अपराधं दयासिंधो क्षम त्वं चित्तगं प्रभो । एवं क्षमाप्य विघ्नेशं ध्यात्वा लीनो बभूव ह ॥८०॥ गंगातीरे समागम्य तताप तप उत्तमम् । अष्टादशाक्षरेणैव तोषयामास विघ्नपम् ॥८१॥ चंद्रे लीने जगत् सर्वं दुःखयुक्तं बभूव ह । सूर्यस्य तेजसा दग्धं रसहीनं चराचरम् ॥८२॥ ततो देवगणैः सर्वैर्भयभीतैः समंततः । शंभुविष्णुमुखास्तत्र तपस्तेपुः सहेश्वराः ॥८३॥ षडक्षरविधानेन ध्यात्वा हृदि गजाननम् । भक्तियुक्ता नृपश्रेष्ठ तोषयामासुरादरात् ॥८४॥ वर्षाणां शतके तत्र गते चंद्रं गणाधिपः । आययौ वरदानार्थं तपो बद्धो नृपोत्तम ॥८५॥ वर्षेणैकेन देवेशान् ययौ विघ्नाधिपो विभुः । समकाले च देवेशांश्चंद्रस्तं तुष्टुवुर्विभुम् ॥८६॥ अथर्वशिरसा ढुंढिं तोषयामासुरादरात् । संतुष्टस्तानुवाचेदं गणेशो ब्रह्मनायकः ॥८७॥ श्रीगणेश उवाच । वरं वृणुत देवेशाः संतुष्टोऽहं ददामि तम् । यं यमिच्छथ तं तं वै सफलं वः करोम्यहम् ॥८८॥ गणेशवचनं श्रुत्वा देवास्तं प्रणिपत्य ते । कृत्वा करपुटं सर्वे जगुः परमहर्षिताः ॥८९॥ देवा ऊचुः । यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा चंद्रं सुनिर्दोषं कुरु नाथ नमोऽस्तु ते ॥९०॥ स तानुवाच सर्वात्मा भक्त्या संतोषितः प्रभुः । भाद्रशुक्लचतुर्थ्यां वै न द्रष्टव्यः सुधाकरः ॥९१॥ हास्यं कृतं मदीयं वै तद् दिने तेन देवपाः । दोषयुक्तो विधुस्तस्मान्नान्यथा मे वचो भवेत् ॥९२॥ ततोऽतिहर्षिता देवास्तथेति प्रतिपाद्य ते । ययुश्चंद्रं तु संद्रष्टुं गणेशोऽन्तर्हिते नृप ॥९३॥ चंद्रो गणपतिं दृष्ट्वा ननाम दंडवत् क्षितौ । पूजयामास तं देवं तुष्टाव स कृतांजलिः ॥९४॥ चंद्र उवाच । नमस्ते विघ्नपालाय गणेशाय परात्मने । ब्रह्मेशाय स्वभक्तेभ्यो ब्रह्मभूयप्रदाय ते ॥९५॥ अनामयाय सर्वादिपूज्याय तु नमो नमः । शिवात्मजाय देवाय विष्णुपूत्राय ते नमः ॥९६॥ ब्रह्मपुत्राय सूर्यस्य पुत्र ते विघ्नहारिणे । शक्तिपुत्राय शेषस्य पुत्राय च नमो नमः ॥९७॥ सर्वपुत्राय सर्वेषां मात्रे पित्रे नमो नमः । सर्वेशाय परेशाय परात्परतराय ते ॥९८॥ सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिप्रचालक । हेरंबाय महेशानां महेशाय नमो नमः ॥९९॥ सृष्टे पात्रे च संहर्त्रे परमात्मस्वरूपिणे । सर्वेभ्यो वरदात्रे तेऽनादिसिद्धाय भो नमः ॥१००॥ क्षमापराधं देवेश त्वन्मायामोहधारिणः । शरणं ते प्रसन्नस्य रक्ष मां महतो भयात् ॥१॥ मां दृष्ट्वा हर्षसंपन्ना अभवन् देवतादयः । अधुना मां निरीक्ष्यैव दोषयुक्ता भयातुराः ॥२॥ अतो मां नैव पश्यंति पापिनां पापरूपिणम् । निर्दोषं कुरु विघ्नेश करुणालय ते नमः ॥३॥ सर्वदा दर्शनं ते वै ममास्तां विघ्नवारण । तेनाऽहं कृतकृत्यश्च भवेयं

खं. ४ अ. ६ पान १५ योगिसंमतः ॥४॥ ततोऽतिभक्तिसंयुक्तं नृत्यंतं देवसंनिधौ । रोमांचाश्रुसमायुक्तं दृष्ट्वा ढुंढिर्जगाद तम् ॥५॥ श्रीगणेश उवाच । त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् । अपराधाननंतांश्च सहे तेऽनेन निश्चितम् ॥६॥ सर्वसिद्धिप्रदं पूर्णं भविष्यति विशेषतः । पठतां शृण्वतां चैव नानासुखकारकं भवेत् ॥७॥ यथापूर्वं स्थितश्चंद्र तादृशो भव नित्यदा । यस्मिन् दिने कृतं हास्यं तत्र दोषयुतो भवेः ॥८॥ ललाटे भूषणं मे त्वं भव सेवापरायणः । चतुर्थ्यां कृष्णपक्षस्य व्रते ते पूजनं भवेत् ॥९॥ मां पूजयित्वा तारेश अर्घ्यं यस्ते प्रदास्यति । तस्य सिद्धिर्भवेत् पूर्णा व्रतजा नान्यथा क्वचित् ॥१०॥ द्वितीयायां च सायाह्ने त्वया प्राप्तोऽहमादरात् । अतः शुक्लद्वितीयायां नमस्यो मानवैर्भव ॥११॥ द्वितीयायां प्रयत्नेन त्वां नमस्यंति मानवाः । मासगं दुःखमुत्सृज्य क्वचित् तिष्ठति नान्यथा ॥१२॥ एवमुक्त्वाऽंतर्दधेऽसौ गणेशश्चंद्रपूजितः । तस्मिन् काले च देवेशा देवास्तत्र समाययुः ॥१३॥ मानयामास संपूज्य चन्द्रस्तांस्तैः समन्वितः । गणेशं ब्राह्मणैः सार्धं संस्थाप्यापूजयत् प्रभुम् ॥१४॥ गणेशभालसंस्थानं प्राप्तं चन्द्रेण यन्न वै । भालचन्द्रं गणेशानं वदंति तत्र संस्थितम् ॥१५॥ देवैः संपूजितस्तत्र ब्राह्मणैर्गणनायकः । प्रगृह्य चन्द्रं निर्दोषं ततः स्वर्गं ययुः सुराः ॥१६॥ चन्द्रः स्वांशस्वरूपेण स्वर्गे तिष्ठति भूमिप । पूर्वरूपेण विघ्नेशं सेवते नित्यमादरात् ॥१७॥ गंगातीरे निवासं स चकारात्रिसमुद्भवः । विधुश्च भालचन्द्रं तं सेवते भक्तितत्परः ॥१८॥ अथ कस्मिंश्च समये देवैः संप्राथितो हरिः । यादवेषु समुत्पन्नो वासुदेवो बभूव ह ॥१९॥ अज्ञानेन विधोस्तेन दर्शनं प्रकृतं नृप । भाद्रशुक्लचतुर्थ्यां तु सदोषः स बभूव ह ॥२०॥ अंतर्ज्ञानं गतं तस्य नरतुल्यो बभूव सः । तथापि विघ्नसंयुक्तो हरिस्तच्छृणु भूमिप ॥२१॥ सत्राजिन्नाम राजर्षिर्यादवेषु बभूव वै । तेन सूर्यतपस्तप्तं दारुणं शतवत्सरम् ॥२२॥ सूर्येण स्वगले संस्थो मणिर्दत्तः स्यमंतकः । सत्राजिते स तद्रत्नं गले भक्त्या बबंध ह ॥२३॥ नित्यं सुवर्णभाराणामष्टौ स्रवति सन्मणिः । सूर्यतेजःसमानश्चाऽशोभयद्यदुनंदनम् ॥२४॥ द्वारकायां स्थितं तं स सूर्यभक्ति- परायणम् । शुचिभावेन रत्नं सोऽपूजयत्तान्रंतरम् ॥२५॥ ततो बहुगते काले कृष्णो दोषयुतोऽभवत् । तस्य बुद्धिः समुत्पन्ना मणेः संग्रहणे नृप ॥२६॥ सभायां संस्थितः कृष्णः स सत्राजितमाह्वयत् । आगतं तमुवाचाऽसौ विनयेन समन्वितः ॥२७॥ श्रीकृष्ण उवाच । उग्रसेनश्च सर्वेषां यादवानां महामते । राजाऽस्माभिः कृतस्तं ते यादवाः पूजयंति भोः ॥२८॥ अस्माभिर्दिग्विजये प्राप्तमुग्रसेनाय यादव । दत्तं श्रेष्ठं तथा त्वं तं मणिं देहि स्यमंतकम् ॥२९॥ सुवर्णं मणिसंभूतं गृहाण

खं. ४ अ. ६ | पान १६

त्वं तु नित्यदा। शोभार्थं कंठगं तात मणिं कुरु नृपस्य तम् ॥१३०॥ एवमुक्तः स सत्राजित्तमुवाच समन्युना। प्रसेनाय मया दत्तः स मे नैव ददाति तम् ॥१३१॥ एवमुक्त्वा गृहं गत्वा स्वानुजाय ददौ मणिम् । प्रसेनाय स्ववृत्तांतं कथयामास विस्तरात् ॥१३२॥ ततः कदाचित् कृष्णेन सहिता यदुनंदनाः । मृगयार्थं वने राजन् जग्मुर्हर्षसमन्विताः ॥१३३॥ तत्राशुचिस्वभावेन प्रसेनस्तं मणिं परम् । बबंध स्वगले सोऽपि तैः सह प्रययौ वनम् ॥१३४॥ अशुचित्वस्य दोषेण सिंहकस्तं प्रसेनकम्। साश्वं हत्वाऽऽगृह्य मणिं ययौ स्थानं स्वकं महान् ॥१३५॥ ततस्तं जांबवान् हत्वा गृह्य सिंहं मणिं ययौ । स्थानं पुत्र्या मणिं हस्ते तं ददौ स महाबलः ॥१३६॥ तव भर्त्ता सुते यो वै भविष्यति मणिं परम्। तस्मै दास्यामि भावेन त्वदीयोऽयं मणिः स्मृतः ॥१३७॥ सायाह्ने यादवाः सर्वे आगताः स्वस्वमंदिरे । प्रसेनेन विहीनास्ते सत्राजित् क्रोधमादधे ॥१३८॥ अहो कृष्णेन मे भ्राता संहतो नात्र संशयः। मणिलोभवशेनाऽपि पापिना पापचेतसा ॥१३९॥ ततो लोकाः पुरे संस्थाः सत्यमामानयंस्तु ते । उग्रसेनादयः सर्वे कृष्णं न्यभर्त्सयन्नृप ॥१४०॥ ततः कृष्णश्च दुःखार्तः स ध्यानेना- वलोकयन् । नरवन्न बुबोधाऽपि स दोषो वसुदेवजः ॥१४१॥ ततोऽतिदुःखितो भूत्वा विचारं देवकीसुतः । चकारांतरजं ज्ञानं क्व गतं मम सांप्रतम् ॥१४२॥ नरतुल्यः कथं जातः कारणं नात्र वेद्मि वै । देहत्यागं करिष्यामि वृथा लाञ्छनकारणात् ॥१४३॥ ततः सभां समागम्याऽऽगृह्य यादवमुख्यकान् । वनं ययौ प्रसेनस्य निश्चयार्थं महाद्युतिः ॥१४४॥ पादमार्गं प्रसेनस्य ते संगृह्य महावने । गतास्तत्र मृतं साश्वं प्रसेनं ददृशुर्नराः ॥१४५॥ सिंहेन संहतं दृष्ट्वा मणिहीनं तु यादवाः । पुरतस्ते ययुः सर्वे सिंहमार्गप्रधारिणः ॥१४६॥ ततो महावने सिंहमृक्षेण प्रहतं पुनः । ददृशुर्न मणिं तत्र लेभिरे भयसंकुलाः ॥१४७॥ ऋक्षपादं तथाऽऽगृह्य ययुर्यादवमुख्यकाः । महावने बिले घोरे गतमृक्षमलोकयन् ॥१४८॥ ततस्तांस्तत्र संस्थाप्य कृष्णः परपुरंजयः । बिले संप्रविवेशाऽथ लाञ्छनस्यापनोदनात् ॥१४९॥ बिले योजनमात्रं स गत्वा तत्र ददर्श ह । प्रकाशयुक्तं संस्थानं शोभमानं सुविस्तरम् ॥१५०॥ दोलायां संस्थितं वीक्ष्य मणिं कृष्णो जहर्ष च । तत्र सुप्तं शिशुं दृष्ट्वा शनैरागात् स यादवः ॥१५१॥ ततोऽकस्माज्जांबवतो बहिः पुत्री समाययौ । अपूर्वं पुरुषं दृष्ट्वा चुक्रोश भयसंकुला ॥१५२॥ ततो जांबवता राजन् श्रुतं पुत्र्याः प्ररोदनम् । आययौ च स तं दृष्ट्वा युयुधे विष्णुना स्वयम् ॥१५३॥ गतास्तयोरेकविंशतिघस्त्रास्तु प्रयुध्यतोः । यादवा जग्मिरे सर्वे बहिःस्था अष्टमे दिने ॥१५४॥ द्वारकायां स्ववृत्तांतं कथयंति स्म विह्वलाः । दिवसाः सप्त तत्रैव

खं. ४ अ. ६ | पान १७ किलास्माकं गता बहिः ॥५५॥ तथापि विवरात् कृष्णो न बहिश्च समागतः । मृतो वा जीवितो वा स ज्ञायते किं न यादवः ॥५६॥ वसुदेवादयः श्रुत्वा सस्त्रीका नृप दुःखिताः । उग्रसेनादयः सर्वे रुरुदुर्दुःखकर्शिताः ॥५७॥ परेऽस्माकं विशेषेण शत्रवः संस्थिता अहो । जरासंधादयश्चान्ये किं भविष्यति यादवाः ॥५८॥ हीनाः कृष्णेन संजाता अधुना नात्र संशयः । द्विषद्भिः संहताः सर्वे मरिष्यामः सपक्षकः ॥५९॥ ततो रामेण ते सर्वे सांत्विता बहुलोक्तिभिः । निःश्वस्य संस्थिता भूप दुःखयुक्ता भयाऽऽतुराः ॥६०॥ सत्राजितं निंदिंदुस्ते व्यर्थलाञ्छनदं तदा । सोऽपि दुःखसमायुक्तो बभूव भयसंकुलः ॥६१॥ अथ तं जांबवान् कृष्णमुवाच घननिःस्वनः । कस्त्वं वीर महातेजा योधयन्नसि मां वद ॥६२॥ ततस्तं प्रत्युवाचेदं कृष्णो वचनमुत्तमम् । यदुवंशभवं कृष्णं मां जानीहि महामते ॥६३॥ श्रुत्वा खेदसमायुक्तो जांबवांस्तं ननाम वै । रामेणोक्तं वचो रम्यं स त्वं विष्णुः समागतः ॥६४॥ अहं दासस्त्वदीयो वै क्षमस्व करुणानिधे । अज्ञाना- च्छक्तिगर्वेणापराधं युद्धजं च मे ॥६५॥ स्तुतः संपूजितस्तेन कृष्णो वृत्तांतमादरात् । अगदत्तं ततः श्रुत्वा कन्यायुक्तं मणिं ददौ ॥६६॥ गृहीत्वा सस्त्रियं कृष्णो द्वारकायां समागतः । आगतं कृष्णमालोक्य हर्षयुक्ता बभूविरे ॥६७॥ यादवैश्च ततः कृष्णः समानाय्य महामणिम् । सत्राजिते ददौ तत्र सर्वेषां पश्यतां नृप ॥६८॥ सत्राजिन् मनसाऽत्यंतं निंदयामास तां तनुम् । भयभीतः स कृष्णस्य विरोधेन महायशाः ॥६९॥ सत्यभामां ददौ तस्मै मणियुक्तां महात्मने । कृष्णाय स उवाचेदं श्वशुरो विनयान्वितः ॥७०॥ सूर्यभक्तियुतस्त्वं वै मणिं रक्ष महामते । दौहित्रास्ते भविष्यंति ग्रहीष्यंति मणिं च ते ॥७१॥ तथेति यादवेनैव कृतं सत्राजिता नृप । एतस्मिन्नंतरे तत्र वृत्तांतो यादवैः श्रुतः ॥७२॥ लाक्षागृहेषु संदग्धाः कुंत्या युक्ताश्च पांडवाः । पुरोचनेन तज् ज्ञात्वा रुरुदुर्यादवा बहु ॥७३॥ रामेण हस्तिनापुर्यां कृष्णः सद्यो जगाम ह । धृतराष्ट्रादिभिः सोऽपि रुरोद शोकसंकुलः ॥७४॥ शतधन्वा ततोऽक्रूरः कृतवर्मा च यादवः । मिलिताः क्रोधसंयुक्ता विचारं चक्रुरादरात् ॥७५॥ सत्राजिता वयं सर्वे कन्यार्थं संवृताः पुरा । अस्मान् संत्यज्य कृष्णाय ददौ कन्यां सुरूपिणीम् ॥७६॥ कृष्णः पांडवशोकार्तोऽभवत् तत्रैव संस्थितः । स रामो निश्चयतः कार्यं कर्तव्यं तत् त्रिभिः किल ॥७७॥ हत्वा सत्राजितं सुप्तं मणिर्ग्राह्यो न संशयः । एवं निश्चित्य रात्रौ तं शतधन्वा जगाम ह ॥७८॥ सत्राजितं स हत्वा वै मणिं जग्राह दारुणः । संस्थाप्य तैलद्रोण्यां तं कृष्णं सत्याययौ ततः ॥७९॥ श्वशुरं स हतं श्रुत्वा रामेण सहसा गतम् । कृष्णं

खं. ४ अ. ६ पान १८

ज्ञात्वा रोषितं शतधन्वाऽक्रूरमाययौ ॥१८०॥ अक्रूरेण समात्यक्तः कृतवर्माणमाययौ । तेनापि न धृतः पक्षः पुनः सोऽक्रूरमाययौ ॥८१॥ मणिं तत्रैव निक्षिप्य पपाल भयसंकुलः । शतयोजनगाऽश्विन्यां समारुह्य नृपात्मज ॥८२॥ पलायमानं विज्ञाय कृष्णः संकर्षणान्वितः । रथमारुह्य वेगेन तमनु प्रययौ तदा ॥८३॥ योजनानां शतं गत्वा ममार ह पुरोऽश्विनी । शतधन्वा भयैर्युक्तः पलायत पदा ततः ॥८४॥ पदातिनं च तं ज्ञात्वा कृष्णोऽधावत् सुसत्वरः । पदातिर्बलभद्रे स रथं त्यक्त्वा महाद्युतिः ॥८५॥ ततश्चक्रेण कृष्णेन हतस्तत्र पपात ह । शतधन्वा तेन तस्मिन् न दृष्टो मणिरुत्तमः ॥८६॥ ततः शोकसमायुक्तो बलभद्रमुवाच ह । शतधन्वा हतो हीनो मणिना तत्र मानद ॥८७॥ उवाच कोपयुक्तस्तं स ततो रोहिणीसुतः । मणिस्त्वया सुसंगुप्तो मिथ्या वाक् त्वं महाखल ॥८८॥ अग्रजाय प्रदातव्यस्तदर्थं मणिरादरात् । कृतं त्वया महालोभिन् कर्म साधु जुगुप्सितम् ॥८९॥ ततस्तं विनयेनैव सांत्वयामास केशवः । द्विजदेवगवां ते मे शपथो न कृतं मया ॥१९०॥ तं तिरस्कृत्य वेगेन त्यक्त्वा रामो जगाम ह । विदर्भं राजनीतिज्ञं स्वमित्रं नृपतिं तदा ॥९१॥ ततोऽतिदुःख- संयुक्तः कृष्णः परमदारुणम् । रुरोद बलभद्रं स स्मृत्वा स्मृत्वा विशेषतः ॥९२॥ ज्ञानदृष्ट्या स कृष्णेन मणिर्नाप्तो महीपते । ततोऽतिदुःखितो भूत्वा रुरोद च पुनः पुनः ॥९३॥ अहो ज्ञानं मदीयं यद्गतं कुत्र विशेषतः । नरतुल्यः कृतः केन धिङ् मे जीवितकं किल ॥९४॥ रथसंस्थः समायातो द्वारकायां महायशाः । लोकवृत्तांतमुग्रं स कथयामास विस्तरात् ॥९५॥ ततो यादवमुख्यैः स भर्त्सिसतोऽतिविशेषतः । कृष्णः सत्राजितः कर्म चकारोत्तरकं नृप ॥९६॥ देशे देशे नृपाद्याश्च जनाः कृष्णं विशेषतः । निंदिंदुः कर्म कृष्णेन किं कृतं दुष्टबुद्धिना ॥९७॥ समर्थं बलभद्रं योऽत्यजज्ज्येष्ठं सुदुर्मतिः । मणिलोभी महापापी विश्वास्यो नैव केनचित् ॥९८॥ द्वारकायां जनाः सर्वे तं कृष्णं न प्रमेनिरे । त्यक्तः सर्वैस्तथा कृष्णः शुशोच परमव्यथः ॥९९॥ अस्थित्वचासमायुक्तं सदा स्वगृहसंस्थितम् । नारदस्तं समालोच्याययौ दृष्ट्वा सुविस्मितः ॥२००॥ तं प्रणम्य महात्मानं कृष्णः परमदुःखितः । उवाच भावभक्त्या वै कृतांजलिपुटः शनैः ॥१॥ श्रीकृष्ण उवाच । सर्वैः संत्‍याजितो दुःखी गृहे नित्यं वसाम्यहम् । तन्न ते दर्शनं स्वामिन्नभवत् भाग्ययोगतः ॥२॥ ततस्तं नारदः प्राह किमर्थं त्यज्यसे वद । एवं पृष्टः पुनः प्राह वृत्तांतं सर्वमंजसा ॥३॥ श्रुत्वा वृत्तांतमुग्रं वै ध्यानेनालोक्य नारदः । देहत्यागे समुद्योगं कुर्वंतं तमुवाच ह ॥४॥ नारद उवाच । भाद्रशुक्लचतुर्थ्यां च त्वया चन्द्रो विलोकितः । शप्तोऽसौ विघ्नराजेन तेन

खं. ४ अ. ६ पान १९ संदुःखितो भवान् ॥५॥ देहत्यागं महाबुद्धे मा कुरुष्व विशेषतः । गणेशं भज भावेन संकष्टीव्रतसंयुक्तम् ॥६॥ मिथ्याऽपवादशून्यस्त्वं भविष्यसि न चान्यथा । सज्ञानश्च समर्थेखास्तस्मात् तं शरणं व्रज ॥७॥ एवमुक्त्वा महायोगी नारदः प्रययौ ततः । गणेशगानसंयुक्तो वीणावादनलालसः ॥८॥ ततः कृष्णः प्रहर्षेण युक्तो विघ्नेशमादरात् । अभजद् ध्यानमार्गज्ञो ध्यानेनोग्रेण भूमिप ॥९॥ एकाक्षरेण मंत्रेणापूजयन्नित्यमेव तम् । व्रतं चकार स ततः संकष्टी- संज्ञमुत्तमम् ॥१०॥ रात्रावेकांतसंस्थं तं ध्याननिष्ठं जनार्दनम् । निश्चलं गणराजः स ययौ भक्तं सुखप्रदः ॥११॥ बोधयामास तं कृष्णं गणेशो ब्रह्मनायकः । तमुत्थाय ननामाऽसौ पूजयामास चादरात् ॥१२॥ पुनः प्रणम्य तुष्टाव विघ्नेशं सामगेन सः । स्तोत्रेणाष्टकसंज्ञेन नाम्ना तं प्रननर्त ह ॥१३॥ सरोमांचं गणेशानः कृष्णं दृष्ट्वा जगाद ह । वरं वरय मत्तस्त्वं दास्यामि हृदि वाञ्छितम् ॥१४॥ गणेशवचनं श्रुत्वा तं जगाद महायशाः । कृष्णो भक्त्या समायुक्तो वचनं खेदसंयुक्तः ॥१५॥ श्रीकृष्ण उवाच । यदि तुष्टोऽसि विघ्नेश वरदोऽसि विशेषतः । तदा ते भक्तिमुग्रां मे देहि ह्यव्यभि- चारिणीम् ॥१६॥ भाद्रशुक्लचतुर्थ्यां ये चन्द्रं पश्यंति विघ्नप । ते शापदुःखहीना वै भवंतु कृपया च ते ॥१७॥ अहं चासन्नमरणजनवज्ज्ञानवर्जितः । प्रकृतोऽन्यस्य का वार्ता प्रार्थयामि ततः प्रभो ॥१८॥ जगाद गणनाथः स ततस्तं भक्तिमोहितः । मम भक्तिर्दृढा कृष्ण भविष्यति च तेऽनघ ॥१९॥ स्यमंतकस्य माहात्म्यं त्वदीयं लाञ्छनप्रदम् । वरदानं मदीयं च यः शृणोति जनार्दन ॥२०॥ पठेत्तु भावयुक्तश्चैन् मां धृत्वा हृदये हरे । स एव दोषसंहीनो भवत्वन्न न संशयः ॥२१॥ एवमुक्त्वा गणेशानः कृष्णं भक्तिपरायणम् । अंतर्धानं चकाराऽसौ कृष्णस्तत्र समास्थितः ॥२२॥ संपूर्णं जागरं कृत्वा पंचम्यां नियतः प्रभुः । पूजयित्वा गणेशानं ददौ दानं विशेषतः ॥२३॥ गणेशकृपया तस्यांऽतर्ज्ञानं संबभूव ह । ग्रहणं च मणेस्तेन ज्ञातमक्रूरकारितम् ॥२४॥ सभायां स समागम्याक्रूरं तत्राजुहाव च । तं प्रणम्य महाभागमुवाच हास्यसंयुक्तः ॥२५॥ मणिश्च तात संत्यक्तो गेहे ते शतधन्वना । बलभद्रार्थमद्य त्वं मणिं दर्शय मानद ॥२६॥ ततोऽक्रूरेण चानीतो मणिस्तत्र सुसंसदि । दृष्ट्वोग्रसेनमुख्यास्ते प्रशंसुर्जुनार्दनम् ॥२७॥ अक्रूरश्च विदर्भं तं गत्वा हलधरं प्रभुम् । मणिं दत्त्वा समानीय सभायां संस्थितोऽभवत् ॥२८॥ समागतं महावीरमनमत् केशवः पुनः । सर्वे हर्षयुता जाता द्वारका- वासिनस्ततः ॥२९॥ निर्दोषं वासुदेवं ते मानयामासुरादरात् । राजानः सुहृदः सर्वे नानादेशनिवासिनः ॥३०॥

पान २७ सर्वेषां हृदि संस्थोऽयं गणेशो बुद्धिनायकः । तस्यैव कृपया राजन् भवेत् किं किं सुदुर्लभम् ॥३१॥ अतो भाद्रचतुर्थ्यां वै न द्रष्टव्यः कदाचन । चन्द्रः कदाचित् दृष्टश्चेदिदं श्रोतव्यमादरात् ॥३२॥ तेन दोषविहीनश्च जायते नात्र संशयः । अन्यथा भ्रष्टभावेन नारकी स नरो भवेत् ॥३३॥ स्यमंतकमणेश्चित्रं चरितं कथितं परम् । चन्द्रदर्शनजं दोषं हरति श्रवणेन च ॥३४॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते भाद्रशुक्लचतुर्थी चंद्रदर्शनदोषहरणचरितवर्णनं नाम षष्ठोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । श्रुतं मया महाख्यानं त्वत्तो वेदविदांवर । चतुर्थ्योर्भुवयोः सारं माहात्म्येन समन्वितम् ॥१॥ तथापि वद मे ब्रह्मन् पृथक् व्रतसमुद्भवम् । चरित्रं विस्तरेणैव केन केन कृतं पुरा ॥२॥ कीदृशी चाऽभवत् सिद्धिः केन प्राप्तो गजाननः । श्रुत्वा व्रतस्य माहात्म्यं यामि नो तृप्तिमादरात् ॥३॥ मुद्गल उवाच। एवं पृष्टो महायोगी वसिष्ठः परमार्थवित् । जगाद तं प्रजानाथ शृणु तत् सुखदं परम् ॥४॥ वसिष्ठ उवाच । आदौ शंम्भादिभिश्चैतत् कृतं व्रतमनु- त्तमम् । कृष्णशुक्लचतुर्थ्यां यदुपोषणपरायणैः ॥५॥ ततः स्वायंभुवाद्यैश्च कृतं सर्वार्थसिद्धिदम् । ततो मुनिगणैः सर्वैरन्यैर्वर्णस्थजंतुभिः ॥६॥ अधुनाऽहं पृथक्त्वेन कथयामि व्रतोद्भवम् । माहात्म्यं सर्वदं पुण्यं संक्षेपेण शृणुष्व तत् ॥७॥ पुरा दौष्यंतिको नाम भरतः संभवूव ह । तेजस्वी वीरमुख्येशः शस्त्रास्त्रज्ञः प्रतापवान् ॥८॥ जित्वा भूमंडलं सर्वं सार्वभौमो बभूव ह । सप्तद्वीपवतीं पृथ्वीमपालद्धर्मसंयुतः ॥९॥ तद्देशे दैवयोगेन ह्यनावृष्टिः सुदारुणा । बभूव सर्वलोकास्ते भयभीता बभूविरे ॥१०॥ चराचरं व्यथायुक्तं दृष्ट्वा राजा महायशाः । कण्वं मुनिवरं शांतं ययौ शरण- मादरात् ॥११॥ तं प्रणम्य महात्मानं पूजयामास भक्तितः । कृत्वा करपुटं तस्याऽग्रे स्थितो भरतोऽभवत् ॥१२॥ तमुवाच महायोगी गाणपत्यप्रियः सदा । कण्वो वेदार्थसंनिष्ठो भरतं राजसत्तमम् ॥१३॥ कण्व उवाच । किमर्थमागतो राजन् कुशलं ते महामते । अस्ति देशादिभावेषु तिष्ठ त्वं चासनोत्तमे ॥१४॥ कण्वस्य वचनं श्रुत्वा हर्षयुक्तो महीपतिः । मुनिदत्ते विवेशासावासने स कृतांजलिः ॥१५॥ उवाच तं महात्मानं कण्वं वेदविदां वरम् । भरतो राजनीतिज्ञो भक्तियुक्तो विशेषतः ॥१६॥ भरत उवाच । त्वत्प्रसादेन योगींद्र कुशलं मे प्रवर्तते । दैवयोगेन तदपि दुःखितोऽहं समागतः ॥१७॥

खं ४ अ. ७ पान २१ नित्यं स्वधर्मयुक्तेन मया संपालिता मही । देवव्रतातिथिप्राज्ञप्रीत्यर्थं योगिसत्तम ॥१८॥ वर्णाश्रमाचारयुता जनाः सर्वे भवंति च । तथापि पापजं दुःखं संप्राप्तं तन्न वेद्यहम् ॥१९॥ अनावृष्टिश्च संभूता प्रभो सर्वत्र दुःखदा । चराचरं भयोद्विग्नं बभूव रसहीनतः ॥२०॥ तदर्थं त्वां महायोगिन्नागतोऽहं विशेषतः । त्वद्दर्शनजपुण्येन सफलो मे भवोऽभवत् ॥२१॥ अधुना ब्रूहि पापस्य स्वरूपं तन्निहन्म्यहम् । येन वृष्टिर्भवेत् पूर्णा तथा कुरुष्व मानद ॥२२॥ ततस्तं नृपशार्दूल- मुवाच मुनिसत्तमः । कण्वः श्रुत्वा च वृत्तांतं दयायुक्तः स्वभावतः ॥२३॥ कण्व उवाच । शृणु राजन् महत् पापं तव राज्ये प्रवर्तितम् । तेनाऽवृष्टिभवं दुःखं प्रादुर्भूतं न संशयः ॥२४॥ चतुःपदविहीनं ते राज्यं भवति निश्चितम् । जनैः सर्वैः सुशीलैश्च पापं घोरं कृतं महत् ॥२५॥ त्वं पापशीलभावेन वर्तसे जनवत्सल । धर्मार्थकाममोक्षैश्च हीनोऽसि पुरुषाधम ॥२६॥ चतुर्थीसंभवं तात व्रतं सर्वार्थसिद्धिदम् । कार्ष्णं शौक्लं सुविख्यातं भ्रष्टं राज्येऽभवन्नृप ॥२७॥ चतुर्विधं जगत्सर्वं स्थूल- सूक्ष्मादिभेदतः । संकटं यत्तदेव त्वं जानीहि नृपनायक ॥२८॥ चतुर्विधं च संकटं हरति व्रतकारिणः । सा संकटचतुर्थी वै कृष्णा ते कथिता मया ॥२९॥ चतुर्विधं या ददाति सा शुक्ला वरदा मता । संचितं नास्ति चेद्राजन् व्रतकारिजनाय वै ॥३०॥ चतुर्थीजं स माहात्म्यं कथयामास विस्तरात् । कण्वस्तद्धरतायैव स्वशिष्याय विशेषतः ॥३१॥ व्रतानि वै निष्फलानि चतुर्थीहीनकानि चेत् । ज्ञात्वा प्रणम्य तं राजोवाच हर्षसमन्वितः ॥३२॥ भरत उवाच । स्वामिन् वद गणेशस्य माहात्म्यं सर्वसिद्धिदम् । एतादृशं व्रतं यस्य तं भजिष्यामि नित्यदा ॥३३॥ कण्व उवाच । शृणु राजन् गणेशस्य माहात्म्यं सर्वदं परम् । क्रतुना कथितं मे यद्ब्रह्मपुत्रेण धीमता ॥३४॥ एकदाऽहं तपोयुक्तस्तिष्ठामि स्वाश्रमे पुरा । वायुमात्राशनो भूत्वा तपामि स्म तपो महत् ॥३५॥ मदीयतपसा सर्वं व्याप्तमासीन्नराधिप । तथापि योगमास्थाय संस्थितोऽहं विशेषतः ॥३६॥ ततः प्रजापतिः साक्षादाश्रमे मे समागतः । ऋतुर्योगींद्रवंद्यो यो गाणपत्यो महायशाः ॥३७॥ तं प्रणम्य महात्मानं पूजयित्वा पुरः स्थितम् । कृतांजलिं मामुवाच स तथा भक्तवत्सलः ॥३८॥ क्रतुरुवाच । वत्स तिष्ठस्व मे दत्त आसने किं महामते । इच्छा ते वद मां तात करिष्यामि हि तं च ते ॥३९॥ तस्य तद्वचनं श्रुत्वा हर्षितोऽहं नराधिप । आसने समुपावेश्यावदत्तं विनयान्वितः ॥४०॥ कण्व उवाच । तव दर्शनमात्रेण कृतकृत्योऽस्मि सांप्रतम् । तथापि शांतिदं योगं वद पूर्णं दयानिधे ॥४१॥ क्रतुरुवाच । सम्यक् पृष्टं त्वया वत्स श्रेष्ठाच्छ्रेष्ठतमं महत् । कथयामि महाभाग ब्रह्मणः संश्रुतं

खं. ४ अ. ७ | पान २२

मया ॥४२॥ तपस्त्यक्त्वा पुरा तात योगमार्गपरायणः । न शांतिं प्रलभे तत्र योगभूमिं प्रसाधयन् ॥४३॥ ततोऽहं पितरं गत्वा ब्रह्माणं सर्ववेदिनम् । वंद्यं तं योगशांत्यर्थमपृच्छं विनयान्वितः ॥४४॥ स्वामिन् शांतिप्रदं ब्रह्म कीदृशं वद मे प्रभो । केन योगेन लभ्यं तत् प्रभवेत् कृपयान्वितः ॥४५॥ ब्रह्मोवाच । योगशांतिप्रदं ब्रह्म गाणेशं विद्धि पुत्रक । मनोवाणीमयं सर्वं त्यज योगस्य सेवया ॥४६॥ मनोवाणीविहीनं यदेव तत्तादृशं मतम् । गणेशोऽहं न भिन्नश्च ब्रह्मणो नायकः स्मृतः ॥४७॥ मनोवाणीमयः प्रोक्तो गकारो वेदवादतः । मनोवाणीविहीनश्च णकारः सर्वसंमतः ॥४८॥ तयोः स्वामी गणेशानो नाम्ना गणपतेर्यदा । गकारस्य णकारस्य योगो वेदप्रमाणतः ॥४९॥ समाधिना लभ्यते यच्चित्तेन च महामते । गकाराक्षरगं ज्ञानं ज्ञातव्यं वेदवादतः ॥५०॥ चित्तेन यन्न लभ्येत णकारं विद्धि मानद । ज्ञानाज्ञानमयं चित्तं त्यक्त्वा शांतिमवाप्स्यसि ॥५१॥ एतदेव परं गुह्यं शांतिदं कथितं मया । तदर्थं गणराजं त्वं भजस्व भावसंयुतः ॥५२॥ एकाक्षरं महामंत्रं गृहाण त्वं महामते । ध्यानयोगेन विघ्नेशं प्राप्स्यसि त्वं न संशयः ॥५३॥ एवमुक्त्वा महामंत्रं ददौ मह्यं विधानतः । तं प्रणम्य वने तात गतोऽहं योगकारणात् ॥५४॥ क्रमेण चित्तभूमीनां योगं त्यक्त्वा मया परम् । चित्तं चिंतामणौ पुत्र क्षिप्तं तद्रूप- भावतः ॥५५॥ ततो योगींद्रवंद्योऽहं जातस्तदपि नित्यदा । गणेशध्यानसंयुक्तोऽभवं तद्भक्तिकाम्यया ॥५६॥ ततो विघ्नपतिः साक्षाद्दर्शनं मे ददौ मया । स्तुतः संपूजितः सोऽपि ददौ स्वभक्तिमुत्तमाम् ॥५७॥ तदादिगाणपत्योऽहं जातः सर्वैश्च वंदितः । भजस्व गणराजं तमतस्त्वं योगकाम्यया ॥५८॥ कण्व उवाच । एवमुक्त्वा महायोगी मह्यं मंत्रं ददौ ततः । एकाक्षरं यथान्यायमंत्र्धानं चकार ह ॥५९॥ अहं तथा गणेशानं साधयित्वा विशेषतः । शांतिं प्राप्तस्तं तथापि भजाम्य- नन्यचेतसा ॥६०॥ अतस्त्वमपि राजेंद्र भज विघ्नपतिं सदा । चतुर्थीव्रतसंयुक्तो ब्रह्मभूतो भविष्यसि ॥६१॥ तत एकाक्षरं मंत्रं ददौ तस्मै महामुनिः । कण्वं प्रणम्य राजर्षिर्ययौ स्वनगरे तदा ॥६२॥ तस्मिन् काले चतुर्थी सा शुक्ला भाद्री समागता । कृता तेन सुभक्त्या वै नगरस्थजनैः सह ॥६३॥ ततः सर्वत्र संघोषः कृतस्तेन महीभृता । शुक्लां कृष्णां चतुर्थीं ये नाऽऽचरिष्यंति नित्यदा ॥६४॥ ते दंडैः पीडनीया वै ततः सर्वेऽभवन् जनाः । व्रतकारिण एतस्मात् पुण्यात् वृष्टिर्बभूव ह ॥६५॥ हृष्टपुष्टजनाः सर्वे तया जाता नृपात्मज । रोगादिदोषहीनास्ते भजंतं गणनायकम् ॥६६॥ भरतः स्म महाराजोऽभजत्सो- ऽनन्य चेतसा । गणेशं भक्तिसंयुक्तो गाणपत्यप्रियोऽभवत् ॥६७॥ स पुत्रे राज्यमुग्रं तन्निक्षिप्य वनगोऽभवत् ।

खं. ४ अ. ७ पान २३ अंते स्वानंदगो भूत्वा ब्रह्मभूतो बभूव ह ॥६८॥ क्रमेण भूमिसंस्था येऽभवन् स्वानंदगा जनाः । चतुर्थी पुण्ययोगेन यथा योगपरायणाः ॥६९॥ स्पर्शेन भरतस्यैव जनाः कीटादिका नृप । पुण्यररूपा बभूवुस्तेऽथॉते स्वानंदगामिनः ॥७०॥ एतादृशेन भूपेन पुण्यशालिजनाः कृताः । यज्ञैः सर्वा धरा येन चित्रिता पुण्यकारिणा ॥७१॥ भरतेन समो राजन् न कश्चित् प्रबभूव ह । ज्ञानेन स्वबलेनाऽपि यशसा धर्मशालिना ॥७२॥ भाद्रशुक्लचतुर्थ्यास्तु महिमा कथितो मया । चतुर्वर्गफलैर्युक्तो ब्रह्मभूयपदप्रदः ॥७३॥ भाद्रशुक्लचतुर्थ्यां तु माहात्म्यं यः शृणोति चेत् । पठेद्वा तस्य राजेंद्र सर्वदं प्रभवेद् ध्रुवम् ॥७४॥ भाद्रशुक्लचतुर्थ्यां वै शंकरस्य हृदि प्रभुः । प्रादुर्बभूव मध्याह्ने ध्यानजः स सुतोऽभवत् ॥७५॥ तदादि सा तिथिर्मुख्या बभूव जन्मधारिणी । गणेशस्य न संदेहो ब्रह्मभूयपदप्रदा ॥७६॥ सृष्ट्यादौ पंच देवेशैः स्थापिता मूर्तिरुत्तमा । मयूरे गणनाधस्य मध्याह्ने भाद्रगे तिथौ ॥७७॥ मयूरेशअवतारो भाद्रपदेयो बभूव सः । मध्याह्ने शंकरगृहे चतुर्थ्यां शुक्ल- पक्षके ॥७८॥ तस्यां ये मृन्मयीं मूर्तिं पूजयंति नरादयः । देवाः शंकरमुख्याश्च महोत्सवपरायणाः ॥७९॥ ते सर्वे विघ्नहीनाश्च भवंति सुखभोगिनः । अंते स्वानंदगा भूप ब्रह्मभूता भवंति च ॥८०॥ मध्याह्ने पूजनं प्रोक्तं गणेशस्य विशेषतः । उपोषणसमायुक्तैश्चतुर्थ्यां व्रतकारिभिः ॥८१॥ पंचम्यां पारणं कृत्वा द्विजैः सह महामते । मूर्तिं तां मृन्मयीं पूज्यां विसृज्य निनयेज्जलम् ॥८२॥ चतुर्थ्यां मृन्मयीं मूर्तिं भाद्रे ये नार्चयंति चेत् । तेषां निष्फलरूपं वै कर्म सर्वं भविष्यति ॥८३॥ न तेषां दर्शनं कार्यं नरैरात्महितेप्सुभिः । पतितास्ते मताः शास्त्रे नारकाश्च भवंत्यतः ॥८४॥ इह विघ्नसमायुक्ता नानारोगप्रपीडिताः । दारिद्र्यादिसमायुक्ता महापापा मता नृप ॥८५॥ चतुर्थ्यां सर्ववर्णस्थैर्भाद्रे पूज्यो गजाननः । मृन्मयो विघ्नहीनास्ते भवंति सफलक्रियाः ॥८६॥ इयं भाद्रपदे मासि चतुर्थी शुक्लरूपिणी । तस्याश्चरितमाद्यं ते कथितं स्वल्पभावतः ॥८७॥ अत्र ते वर्णयिष्येऽहं इतिहासं पुरातनम् । तच्छृणुष्व महाभाग चतुर्थीव्रतजं महत् ॥८८॥ द्राविडे नगरे राजंश्चांडालः कोऽपि पापकृत् । कुष्ठरोगयुतः पूर्णः परस्त्रीलंपटोऽभवत् ॥८९॥ चतुर्थ्यां भाद्रमासे स ज्वर- युक्तो बभूव ह । ज्वरस्य पीडयाऽत्यंतं पीडितो राजसत्तम ॥९०॥ अन्नेन स जलेनाऽपि हीनोऽभूद्दैवयोगतः । पंचम्यां मरणे प्राप्ते विमानेन जगाम ह ॥९१॥ तस्यांगस्पर्शतॊ वायुर्यमलोके जगाम ह। तेन स्पृष्टा नरास्तत्र नरकस्थाः समंततः ॥९२॥ ते सर्वे यानगा भूत्वा गताः स्वानंदके पुरे । दृष्ट्वा गणपतिं तैः स ब्रह्मभूतो बभूव ह ॥९३॥ व्रतमजानतश्चैवं फलप्रदमिदं

खं. ४ अ. ८ पान २४ मतम् । यथाविधि कृतं येन तत्र चित्रं किमप्यहो ॥९४॥ चतुर्थ्या महिमाऽयं कथितुं न प्रशक्यते । पुरुषार्थाश्च चत्वारः प्राप्यंते व्रतमात्रतः ॥९५॥ मुद्गल उवाच । वसिष्ठवचनं श्रुत्वा दशरथस्तमब्रवीत् । शृणु दक्ष महाभाग तां कथां पावनीं प्रभो ॥९६॥ दशरथ उवाच । चांडालो गणनांथस्य पुपूज स न मृन्मयीम् । मूर्तिं दोषी कथं स्वामिन् ब्रह्मभूतो बभूव ह ॥९७॥ वसिष्ठ उवाच । सम्यक् पृष्टं त्वया राजन् शृणु संशयनाशनम् । ज्ञानं ते कथयिष्यामि भवेल्लोकोपकारकम् ॥९८॥ चांडालस्य चतुर्थ्यास्तु ज्ञानं नाऽभूद् दुरात्मनः । पूजनं च तथा तस्योल्लंघनं न ततोऽभवत् ॥९९॥ अतोऽयं दोषहीनश्च स्वानंदस्थो बभूव ह । पूजनोल्लंघनाभ्यां स वर्जितो ज्ञानभावतः ॥१००॥ एवं नानाजनाश्चेह भुक्त्वा तु विविधं सुखम् । अंते स्वानंदगा राजन् बभूवुर्व्रतमात्रतः ॥१॥ तत्रैकं कथितं प्रोक्तुं नालं वर्षायुतैरपि । पूर्णं भवति माहात्म्यं संक्षेपेण निरूपितम् ॥१०२॥ ॥ ओमिति श्रीमदान्द्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते भाद्रपदशुक्लचतुर्थीव्रतवर्णनं नाम सप्तमोऽध्यायः ॥ ❖ ॥ श्रीगणेशाय नमः ॥ वसिष्ठ उवाच । आश्विने वरदात्री या चतुर्थी शुक्लपक्षगा । तां शृणुष्व महाभाग सव्रतां सर्वदायिनीम् ॥१॥ इतिहासं प्रवक्ष्यामि पुरातनभवं नृप । व्रतसंयुक्तमाहात्म्यं भवेत् सर्वार्थसाधकम् ॥२॥ रैवतांतरगो राजा कीर्तिमांश्च बभूव ह । मत्तो नाम्ना धर्मधरः पूर्णशस्त्रास्त्रपारगः ॥३॥ देवविप्रातिथिप्रेप्सुः पंचयज्ञपरायणः । नीतिज्ञः पुत्रवल्लोकान् पालयन् स्वहिते रतः ॥४॥ भार्या तस्याऽभवत् साऽपि पातिव्रत्यगुणान्विता । सर्वलक्षणसंयुक्ता विप्रदेवातिथिप्रिया ॥५॥ गजानां च हयानां वै पदातीनां महीपतेः । रथानां नैव संख्याऽस्ति धानुष्काणां विशेषतः ॥६॥ सप्तद्वीपवतीं पृथ्वीं पालयन् स नराधिपः । देवादीनां च संग्रामे ह्यजेयः परवीरहा ॥७॥ तस्य वंध्यत्वदोषेण नृप पुत्रो बभूव नो । नानायत्न- परो राजा पुत्रार्थे प्रबभूव ह ॥८॥ तीर्थयात्रादिकं सर्वं चकार विधिवन्नृपः । अनुष्ठानव्रतादीनि देवानां पूजनं तथा ॥९॥ एवं नानाविधैः पुण्यैर्न बभूव सुतस्ततः । राज्यं त्यक्त्वा वने राजा सस्त्रीकः स जगाम ह ॥१०॥ तत्र भ्रमणयुक्तः स ददर्श ह महावनम् । सिंहव्यालादिसंयुक्तं भयदं सर्वजन्मिनाम् ॥११॥ दुःखयुक्तः स राजर्षिः प्रवेशं स चकार ह । वने तत्र मुनिश्रेष्ठं सौभरिं संददर्श च ॥१२॥ तं प्रणम्य महाभागः सस्त्रीकः पुरतो मुनेः । कृतांजलिपुटो भूत्वा तस्थौ

[हेडर] खं. ४ अ. ८ पान २५


स नृपंसमुखः ॥१३॥ ततः सौभरिणा सोऽपि सत्कृतो वचनेन च । निषसादासने तत्र मुनिना दर्शिते नृपः ॥१४॥ तमुवाच महाभागं राजानं मुनिसत्तमः । कोऽसि त्वं वन उग्र मेऽत्र किमर्थ समागतः ॥१५॥ इति पृष्टो महीपालस्तमुवाच सुहर्षितः । कीर्तिमान् सर्वधर्मज्ञः कृत्वा करपुटं वचः ॥१६॥ कीर्तिमानुवाच । द्राविडे वसतिर्मेऽस्ति नगरे सुरसत्तमे । राज्यं करोमि तत्राऽहं सार्वभौमो महामुने ॥१७॥ अपुत्रो दैवयोगेन जातोऽहं मुनिसत्तम । पुत्रार्थे व्रततीर्थादीन् नानाधर्मान् करोमि वै ॥१८॥ राज्यं त्यक्त्वा वने योगिन्नागतः पुत्रकाम्यया । तत्र ते दर्शनं प्राप्तं सर्वसिद्धिप्रदं प्रभो ॥१९॥ तव दर्शन- मात्रेण सफलो मे भवो भवेत् । मातृपित्रादिकं सर्वं धन्यं जातं न संशयः ॥२०॥ अधुना ब्रूहि मे नाथ पुत्रप्राप्त्यर्थमादरात् । उपायं तं चरिष्यामि त्वदाज्ञावशगो मुने ॥२१॥ इह जन्मनि भो विप्र न कृतं पापमुल्बणम् । मया राज्यं कृतं भूमेर्भययुक्तेन चेतसा ॥२२॥ तथापि वंध्यजो दोषो मया प्राप्तो महामुने । पूर्वजन्मकृतं पापं ज्ञायते नैव चेतसा ॥२३॥ कथयस्व महोग्रं मे पापं सर्वविदां वर । योगीन्द्रोऽसि महातेजाः साक्षाद्ब्रह्मस्तनोधरः ॥२४॥ वसिष्ठ उवाच । एवं विनययुक्तेन राज्ञा पृष्टो महामुनिः । सौभरिस्तं जगादेदं वचनं गणपप्रियः ॥२५॥ सौभरिरुवाच । कृतं त्वया महत्पापं महाराज विशेषतः । पूर्वजन्मकृतं नैव पापं ते विद्यतेऽधम ॥२६॥ तव राज्ये महामूर्ख चतुर्थीव्रतमुत्तमम् । लयं प्राप्तं विशेषेण व्रतादौ फलदं मतम् ॥२७॥ चतुर्थीव्रतमाद्यं यन्मानवेन नराधम । न कृतं चेद्रुतानीह निष्फलानि भवंति च ॥२८॥ विशेषतस्त्वया कर्म नानापुण्यादिकं कृतम् । चतुर्थीहीनभावेन निष्फलं तद्बभूव ह ॥२९॥ चतुर्विधपदार्थानां दात्री सा वरदा मता । चतुर्विधं तु संकष्टं हरंती संकटी मता ॥३०॥ भुनक्ति राजा पापं राष्ट्रकृतं शास्त्रसंमतम् । जनानां व्रतहीनानां पापभागी भवान् मतः ॥३१॥ अतः पापमयी मूर्तिस्त्वमेवात्र न संशयः । तेन वंध्यत्वमापन्नो नराधम न बुध्यसे ॥३२॥ सौभरेर्वचनं श्रुत्वा कीर्तिमांस्तं जगाद ह । विनयेन समायुक्तो अयभीतश्च पार्थिवः ॥३३॥ कीर्तिमानुवाच । अज्ञानेन कृतं कर्म मया स्वामिन् सुपापिना । कीदृशं तद्व्रतं विप्र मह्यं वद विधानतः ॥३४॥ पुत्रप्राप्त्यर्थमेवं मे वदोपायं महामते । येन पापविहीनोऽहं भवामि पुत्रवान् सुखी ॥३५॥ सौभरिरुवाच । चतुर्थीव्रतमाद्यं त्वं कुरुष्व नृप नित्यदा । जनैः सर्वैस्तदा सर्वपापहीनो भविष्यसि ॥३६॥ अज्ञानेन करोषि स्म पापं ज्ञात्वाऽनुतापवान् । व्रताचरणमात्रेण निष्पापः पुण्यभाग् भवेः ॥३७॥ इत्युक्त्वा व्रतमाहात्म्यं कथयामास विस्तरात् । ततः सोऽपि महाबुद्धिः पप्रच्छ विनयान्वितः ॥३८॥ कीर्तिमानुवाच ।

पान २६

कीदृशोऽयं गणाधीशो व्रतं यस्य चतुःपदम् । ब्रह्मभूयकरं प्रोक्तं भजिष्यामि विशेषतः ॥३९॥ ततस्तं मुनिशार्दूलः सौभरिः पुनरब्रवीत् । माहात्म्यं गणनाधस्य शांतियोगपदप्रदम् ॥४०॥ सौभरिरुवाच । पुराऽहं तपसा युक्तो नानाछंदपरायणः । अभवं तत्र देवा वै भयभीता बभूविरे ॥४१॥ अहो तपःप्रभावेण जित्वा सर्वं द्विजोत्तमः । किमिच्छति पदं श्रेष्ठं ज्ञायतेऽस्मा- भिरेव न ॥४२॥ प्रेषयामास सस्त्रीकं ततः कामं सुराधिपः । तपोभंगार्थमेवं मे कामस्तत्र समागतः ॥४३॥ उर्वशी- सहिताभिश्चाप्सरोभिर्मधुना तथा । आत्तबाणः स्वयं कामः पीडयामास मां शरैः ॥४४॥ अहं तपःप्रभावेण जित्वा कामं सह स्त्रिया । मोहहीनस्तपस्तत्राऽतपं सुदृढनिश्चयः ॥४५॥ ततो मे तपसोग्रेण दाहयुक्तो बभूव ह । कामः पलाय्य सर्वैस्तं मघवंतं जगाद सः ॥४६॥ ततोऽहं योगमार्गेणांऽतर्निष्ठश्चाभवन्नृप । जडोन्मत्तादिमार्गेषु संस्थितो योगकारणात् ॥४७॥ ततः शुको महायोगी गाणपत्यः समागतः । ममाश्रमे स मां दृष्ट्वा जगादेच्छसि किं मुने ॥४८॥ ततस्तं प्रणतो भूत्वा कृतांजलिः पुरः प्रभोः । स्थित्वाऽवदं सुवाक्यं तच्छृणु राजन् सुसिद्धिदम् ॥४९॥ मम श्रेष्ठेन भाग्येन त्वं प्राप्तोऽसि महायशाः । शांतिं वद महायोगिन् यया शांतो भवाम्यहम् ॥५०॥ श्रीशुक उवाच । चित्तं पंचविधं त्यक्त्वा चित्तं कृत्वा च तन्मयम् । निरोधेनैव भूमीनां शांतिं प्राप्स्यसि निश्चितम् ॥५१॥ चिंतामणिं भजस्व त्वं मंत्रेणैकाक्षरेण च । तेन चिंतामणौ विप्र संचित्तः सुभविष्यसि ॥५२॥ त्यक्त्वा जडादिकं मार्गं शमदमपरायणः । गणनाथं महाभाग भज यत्नेन नित्यदा ॥५३॥ एवमुक्त्वा शुको योगी ययौ स्वेच्छापरायणः । गणेशनाम संकीर्त्य जपंश्चैव विशेषतः ॥५४॥ अहं गणपतिं भक्त्याऽभजं संभक्तिसंयुक्तः । एकाक्षरविधानेनाऽऽस्थाप्य मूर्तिं पुरो नृप ॥५५॥ ततः स्वल्पेन कालेन शांतिं प्राप्तोऽहमादरात् । तथापि पूजने सक्तोऽभजं तं गणनायकम् ॥५६॥ दशवर्षे गते काले विघ्नेशो मां समागतः । मया संपूजितो राजन् स्तुतश्च विविधैः स्तवैः ॥५७॥ गाणपत्यपदं दत्त्वा गतः स्वानंदके पुरे । तदादि गाणपत्योऽहं भजामि ब्रह्मनायकम् ॥५८॥ एवमुक्त्वा स राजानं ददौ मंत्रं विधानतः । षडक्षरं स राजर्षिस्तं प्रणम्य ययौ पुरम् ॥५९॥ स आश्विन्यां द्वितीयायां शुक्लायां तु गृहे गतः । तस्मिन् मासे चतुर्थ्यां च शुक्लायां व्रतमारभत् ॥६०॥ जनैः सर्वैः समायुक्त उपोषणपरायणः । मध्याह्ने गणपं तत्र प्रपूज्य विधिवन्नृपः ॥६१॥ रात्रौ जागरणं चक्रे बालवृद्धसमन्वितः । नरैः स्त्रीभि- स्तद्रुतं च कृतं सर्वैर्यथातथम् ॥६२॥ शुक्लां कृष्णां चतुर्थीं ये न कुर्वंति नराधमाः । ताडनीयाः प्रयत्नेन पृथिव्यां यत्र तत्र सः

॥६३॥ घोषेण घोषयामास ततः सर्वे तथाऽभवन् । व्रतं ततो वै बभूव प्रशस्तं भूमिखंडले ॥६४॥ एवं भूमंडले राज्यं कृत्वा पुत्रे निवेद्य सः । वने गत्वा गणेशानं सस्त्रीको नृप आभजन् ॥६५॥ अंते स्वानंदगो भूत्वा ब्रह्मभूतो बभूव ह । तस्य राज्ये स्थिता लोकाः सर्वे स्वानंदगा बभुः ॥६६॥ एवमन्यं दशरथ शृणुष्व त्वं व्रतोद्भवम् । इतिहासं प्रवक्ष्यामि चाश्विन्यां परमाद्भुतम् ॥६७॥ भीमो नाम महाव्याधः पापकर्मपरायणः । मार्गे जनान् निहत्वाऽगृह्य धनं स तुतोष ह ॥६८॥ एकदा वनमध्ये स ब्राह्मणं हंतुमुद्यतः । पलायत द्विजस्तत्र वने भयसमाकुलः ॥६९॥ एतस्मिन्नंतरे तत्राश्वगः शस्त्रधरः पुमान् । धावंश्च ब्राह्मणं दृष्ट्वा भीमं धृत्वा गतः पुरे ॥७०॥ ततो द्विजः सुखेनैव स्वाश्रमं प्रजगाम ह । पुरुषो भीमव्याधं तं राज्ञे दुष्टं न्यवेदयत् ॥७१॥ तत्र सोऽपि क्षुधाविष्टो व्याधः संस्थापितोऽभवत् । राज्ञाऽऽश्विन्यां चतुर्थ्यां वै शुक्लायां दैवयोगतः ॥७२॥ पंचम्यां तं जघानैव ततो व्याधं गजाननः । चतुर्थ्यां क्षुधितत्वात् स ब्रह्मभूतं चकार ह ॥७३॥ एवं नानाजना राजन् चतुर्थीव्रतयोगतः । स्वानंदस्था भवंतीह मया वक्तुं न शक्यते ॥७४॥ चतुर्थीजमिदं चित्रं चरितं कथितं मया । शुक्लाऽऽश्विन्यां समुद्भूतं श्रवणात् सर्वसिद्धिदम् ॥७५॥ शृणुयाद्यः पठेद्वाऽपि भुक्तिं मुक्तिं लभेन्नरः । पुत्रपौत्रादि- संयुक्तः सुहृद्भिर्नृपसत्तम ॥७६॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते शुक्लाऽश्विनी चतुर्थी व्रतवर्णनं नामाष्टमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ वसिष्ठ उवाच । कार्तिके मासि शुक्ला या चतुर्थी सर्वसिद्धिदा । तां शृणुष्व महाभाग इतिहास- समन्विताम् ॥१॥ सूर्यवंशोद्भवो राजा सुधन्वा नीतिसंयुतः । शस्त्रास्त्रबलसंयुक्तो बभूव परमद्युतिः ॥२॥ धर्मशीलो वदान्यश्च सत्यवाक् साधुसंमतः । देवविप्रातिथिप्राज्ञपंचयज्ञपरायणः ॥३॥ भार्या कलावती तस्य बभूवे रूपशालिनी । पतिव्रता महोदारा धर्मशीला विशेषतः ॥४॥ जित्वा भूमंडलं सर्वं राजा तेजस्विनां वरः । पालयामास पृथिवीं स नित्यं धर्मपरायणः ॥५॥ सामंता वशगा यस्य सैन्यं स्म गणनातिगम् । संपच्च धनदेनैव तुल्या सर्वत्र संबभौ ॥६॥ अर्द्धायुषा समायुक्तो बभूव नृपसत्तमः । अकस्मात् कुष्ठसंयुक्तः कीतैः संपीडितोऽभवत् ॥७॥ पूयशोणितघर्मौघैर्व्याप्तो दुर्गंधिसंयुतः ।