भारतकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

खं. ५ अ. ३८ पान ९२ गृहाण लंबोदर भावयुक्ताः । असंख्यभूता विविधस्वरूपा दासान् सदा रक्ष भवार्णवाद्वै ॥७२॥ नतिं ततो विघ्नपते गृहाण साष्टांगकायां विविधस्वरूपाम् । संख्याविहीनां मनसा कृतां ते सिद्ध्या च बुद्ध्या परिपालयाशु ॥७३॥ न्यूना- तिरिक्तं तु मया कृतं चेदं ते तदर्थं मनसा गृहाण । दूर्वांकुरान् विघ्नपते प्रदत्तान् संपूर्णमेवं कुरु पूजनं मे ॥७४॥ क्षमस्व विघ्नाधिपते मदीयान् सदाऽपराधान् विविधस्वरूपान् । मदीयभक्तिं सफलां कुरुष्व संप्रार्थयेऽहं मनसा गणेश ॥७५॥ मह्यं प्रसन्नेन गजाननेन दत्तं प्रसादं च शिरोभिवंद्यम् । स्वमस्तके तं परिधारयामि चित्तेन विघ्नेश्वरमानतोऽस्मि ॥७६॥ गणेश उत्थाय सभां विहाय गतस्ततस्त्वंतरधामशक्त्या । शिवादयस्तं प्रणिपत्य सर्वे गताः सुचित्तेन च चिंतयामि ॥७७॥ सर्वान्नमसकृत्य ततो भजामि चित्तेन भक्त्या च गणाधिपं तम् । स्वस्थानमागत्य महानुभावैर्भक्तैर्गणेशस्य च खेलयामि ॥७८॥ एवं त्रिकालेषु गणाधिपं तं चित्तेन नित्यं परिपूजयामि । तेनैव तुष्टः प्रददातु भावं विघ्नेश्वरो भक्तिमयं महांतम् ॥७९॥ विघ्नेशपादोदकपानकं मे तत्यक्तगंधस्य सुलेपनं तु । निर्माल्यसंधारणकं सुभोज्यं लंबोदरस्यास्तु हि भुक्तशेषम् ॥८०॥ करोमि यद्यच्च तदेव दीक्षा गणेश्वरस्यास्तु सदा परेश । प्रसीद नित्यं तव पादभक्तं कुरुष्व मां ब्रह्मपते दयालो ॥८१॥ शय्यामनर्घां परिकल्पयामि मंदारकार्पासकवस्त्रयुक्ताम् । नानासुपुष्पादिभिरर्चितां ते विघ्नेश निद्रां कुरु संगृहाण ॥८२॥ सिद्ध्या च बुद्ध्या सहितं गणेशं सुनिद्रितं वीक्ष्य तथाऽहमेव । गत्वा स्ववासं च करोमि निद्रां ध्यात्वा हृदि ब्रह्मपतिं तदीयः ॥८३॥ एतादृशं सौख्यममोघशक्ते देहीश यन् मानसजं गणेश । मह्यं च तेनैव कृतार्थरूपो भवामि भक्ते रसलालसोऽहम् ॥८४॥ गार्ग्य उवाच । एवं नित्यं महाराज गृत्समदो महायशाः । चकार मानसीं पूजां योगींद्राणां गुरुः स्वयम् ॥८५॥ य एतां मानसीं पूजां करिष्यति नरोत्तमः । पठिष्यति सदा सोऽपि गाणपतयो भविष्यति ॥८६॥ श्रावयिष्यति यो मर्त्यः श्रोष्यते भावसंयुतः । स क्रमेण महीपाल ब्रह्मभूतो भविष्यति ॥८७॥ यद्यदिच्छति तत्तद्वै सफलं तस्य जायते । अंते स्वानंदगः सोऽपि योगिवंद्यो भविष्यति ॥८८॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते गृत्समदप्रोक्तमानसपूजाकथनं नामाष्टत्रिंशत्तमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ ऐल उवाच । बाह्यां पूजां गृत्समदकीर्तितां वद मे विभो । तेन मार्गेण विघ्नेशं भजिष्यामि निरंतरम् ॥१॥ गार्ग्य उवाच । आदौ च मानसीं पूजां कृत्वा गृत्समदो मुनिः । चकार विधिवद्वाह्यां तां शृणुष्व सुखप्रदाम् ॥२॥ हृदि ध्यात्वा गणेशानं परिवारादिसंयुतम् । नासिकारंध्रमार्गेण बाह्यगं तं चकार सः ॥३॥ आदौ वैदिकमंत्रं स गणानां त्वेति संपठन् । पश्चात् श्लोकं समुच्चार्य पूजयामास विघ्नपम् ॥४॥ गृत्समद उवाच । चतुर्बाहुं त्रिनेत्रं च गजास्यं रक्तवर्णकम् । पाशांकुशादिसंयुक्तं मायायुक्तं प्रचिंतये ॥५॥ आगच्छ ब्रह्मणं नाथ सुरासुरवरार्चित । सिद्धिबुद्ध्यादिसंयुक्त भक्ति- ग्रहणलालस ॥६॥ कृतार्थोऽहं कृतार्थोऽहं तवागमनतः प्रभो । विघ्नेशानुगृहीतोऽहं सफलो मे भवो भवेत् ॥७॥ रत्न- सिंहासनं स्वामिन् गृहाण गणनायक । तत्रोपविश्य विघ्नेश रक्ष भक्तान् विशेषतः ॥८॥ सुवासिताभिरद्भिश्च पादप्रक्षालनं प्रभो । शीतोष्णाभिस्ते करोमि गृहाण पाद्यमुत्तमम् ॥९॥ सर्वतीर्थाहृतं तोयं सुवासितं सुवस्तुभिः । आचमनं च तेनैव कुरुष्व गणनायक ॥१०॥ रत्नप्रवालमुक्ताद्यैरनर्घैः संस्कृतं प्रभो । अर्घ्यं गृहाण हेरंब द्विरदानन तोषकम् ॥११॥ दधिमधुघृतैर्युक्तं मधुपर्कं गजानन । गृहाण भावसंयुक्तं मया दत्तं नमोऽस्तु ते ॥१२॥ पाद्ये च मधुपर्के च स्नाने वस्त्रोपधारणे । उपवीते भोजनांते पुनराचमनं कुरु ॥१३॥ चंपकाद्यैर्गणाध्यक्ष वासितं तैलमुत्तमम् । अभ्यंगं कुरु सर्वेश लंबोदर नमोऽस्तु ते ॥१४॥ यक्षकर्दमकाद्यैश्च विघ्नेश भक्तवत्सल । उद्वर्तनं कुरुष्व तं मया दत्तैर्महाप्रभो ॥१५॥ नानातीर्थजलैर्दुंढे सुखोष्णभावरूपकैः । कमंडलूह्रद्भवैः स्नानं मया कुरु समर्पितैः ॥१६॥ कामधेनुसमुद्भूतं पयः परम- पावनम् । तेन स्नानं कुरुष्व त्वं हेरंब परमार्थवित् ॥१७॥ पंचामृतस्य मध्ये तु जलस्नानं पुनः पुनः । कुरु त्वं सर्वतीर्थेन ब्रह्मकमंडलूह्रद्भवैः ॥१८॥ दधिधेनुपयोभूतं मलापहरणं परम् । गृहाण स्नानकार्यार्थं विनायक दयानिधे ॥१९॥ संतोषकारकं ढुंढे घृतं धेनुसमुद्भवम् । महामलापघातार्थं तेन स्नानं कुरुष्व भोः ॥२०॥ पूर्णं मधुरसोद्भूतं सरघासंस्कृतं मधु । गृहाण स्नानकार्यार्थं विनायक नमोऽस्तु ते ॥२१॥ इक्षो रससमुद्भूतां शर्करां मलनाशिनीम् । गृहाण गणनाथ त्वं तया स्नानं समाचर ॥२२॥ यक्षकर्दमकाद्यैश्च स्नानं कुरु गणेश्वर । आंत्यं मलहरं शुद्धं सर्वसौगंध्यकारकम् ॥२३॥ ततो गंधाक्षतादीन् दूर्वा कुरांश्च गजानन । समर्पयामि स्वल्पांस्त्वं गृहाण परमेश्वर ॥२४॥ ब्राह्मणस्पत्यसूक्तैश्च ह्येकविंशतिवारकैः । अभिषेकं ते करोमि गृहाण द्विरदानन ॥२५॥ तीर्थैराचमनं देव सुवस्तवभिसुवासितैः । कुरुष्व गणनाथ त्वं सर्वतीर्थभवेन वै ॥२६॥

खं. ५ अ. ३९ पान ९४

वस्त्रयुग्मे गृहाण त्वमनर्घे रक्तवर्णके। लोकलाजाहरायैव विघ्नराज नमोऽस्तु ते ॥२७॥ उत्तरीय सुचित्रं ते नभस्तारांकितं यथा। गृहाण सर्वसिद्धीश मया दत्तं सुभक्तितः ॥२८॥ उपवीतं गणाध्यक्ष गृहाण त्वं ततः परम् । त्रैगुण्यमयरूपं तु प्रणवग्रंथिबंधनम् ॥२९॥ ततः सिंदूरकं देव गृहाण गणनायक । अंगलेपनभावार्थं सदानंदविवर्धन ॥३०॥ भूषणानि विचित्राणि सर्वांगे भूषणाय ते । सुवर्णरत्नकाचैश्च निर्मितानि गृहाण भोः ॥३१॥ अष्टगंधं समायुक्तं गंधं रक्तं गजानन । द्वादशांगेषु ते ढुंढे लेपयामि सुचित्रवत् ॥३२॥ रक्तचंदनसंयुक्तंतानथवा कुंकुमैर्युतान् । गणराज गृहाण त्वमक्षतान् भालमंडले ॥३३॥ कल्हारचंपकादीनि रक्तानि च गजानन । पुष्पाणि शमीमंदारदूर्वादीनि गृहाण च ॥३४॥ दशांगं गुग्गुलं धूपं सर्वसौरभकारकम् । गृहाण त्वं मया दत्तं विनायक महोदर ॥३५॥ नानाजातिभवं दीपं गृहाण गणनायक। अज्ञानं मानसं दोषं हरंतं ज्योतिरात्मकम् ॥३६॥ चतुर्विधान्नसंपन्नं मधुरं लड्डुकादिकम् । नैवेद्यं ते मया दत्तं भोजनं कुरु विघ्नप ॥३७॥ सुवासितं गृहाणेदं जलं तीर्थसमाहृतम् । भुक्तिमध्ये च पानार्थं देवदेवेश ते नमः ॥३८॥ भोजनांते करोद्वर्तं यक्षकर्दमेन च । कुरुष्व त्वं गणाध्यक्ष पिब तोयं सुवासितम् ॥३९॥ खर्जूरं दाडिमं द्राक्षां रंभादीनि फलानि वै । गृहाण देवदेवेश नानामधुरकाणि तु ॥४०॥ अष्टांगं देव तांबूलं गृहाण मुखवासनम् । असकृद्विघ्नराज त्वं मया दत्तं विशेषतः ॥४१॥ दक्षिणां कांचनाद्यां तु नानाधातुसमुद्भवाम् । रत्नाद्यैः संयुतां ढुंढे गृहाण सकलप्रिय ॥ ४२ ॥ राजोपचारकायानि गृहाण गणनायक । दानानि तु विचित्राणि मया दत्तानि विघ्नप ॥४३॥ तत आवरणं तेऽद्य पूजयामि विधानतः । उपचारैश्च विविधैस्तेन तुष्टो भव प्रभो ॥४४॥ ततो दूर्वांकुरान् ढुंढे एकविंशतिसंख्यकान् । गृहाण न्यूनसिद्ध्यर्थं भक्तवात्सल्य- कारणात् ॥४५॥ नानादीपसमायुक्तं नीराजनं गजानन । गृहाण भावसंयुक्तं सर्वाज्ञानविनाशन ॥४६॥ गणानां त्वेति मंत्रस्य जपं साहस्त्रकं परम् । गृहाण गणनाथ त्वं सर्वसिद्धिप्रदो भव ॥४७॥ कपूराद्यां महार्तिं च नानादीपमयीं प्रभो। गृहाण ज्योतिषां नाथ तया नीराजयाम्यहम् ॥४८॥ पादयोस्ते तु चत्वारि नाभौ द्वे वदने प्रभो । एकं तु सप्तवारं वै सर्वांगेषु निराजनम् ॥४९॥ चतुर्वेदभवैर्मंत्रैर्गाणपत्यैर्गजानन । मंत्रितानि गृहाण त्वं पुष्पपत्राणि विघ्नप ॥५०॥ गाणपत्यैः पंचविधमयैः स्तोत्रैर्गणाधिप । स्तौमि त्वां तेन संतुष्टो भव भक्तिप्रदायक ॥५१॥ एकविंशतिसंख्याकां त्रिसंख्यां वा गजानन । प्रदक्षिणां गृहाण त्वं ब्रह्मब्रह्मेशभावतः ॥५२॥ साष्टांगां प्रणतिं नाथ एकविंशतिसंमिताम् । हेरंब सर्वपूज्य त्वं

खं. ५ अ. ३९ पान ९५ गृहाण तु मया कृताम् ॥५३॥ न्यूनातिरिक्तभावार्थं कांचिद् दूर्वांकुरान् प्रभो । समर्पयामि तेन त्वं सांगां पूजां कुरुष्व मे ॥५४॥ त्वया दत्तं स्वहस्तेन निर्माल्यं चिंतयाम्यहम् । शिखायां धारयाम्येव सदा सर्वप्रदं च तत् ॥५५॥ अपराधानसंख्या- तान् क्षमस्व गणनायक । भक्तं कुरु च मां ढुंढे तव पादप्रियं सदा ॥५६॥ त्वं माता त्वं पिता त्वं वै सुहृत् संबंधिकादयः । त्वमेव कुलदेवश्च सर्वं त्वं मे न संशयः ॥५७॥ जाग्रत्स्वप्नसुषुप्तिभिर्देहवाङ्मानसैः कृतम् । सांसर्गिकं च यत् कर्म गणेशाय समर्पये ॥५८॥ बाह्यं नानाविधं पापं महोग्रं तल्लयं व्रजेत् । गणेशपादतीर्थस्य मस्तके वंदनात् किल ॥५९॥ पादोदकं गणे- शस्य पीतं नरेण तत्क्षणात् । सर्वांतर्गतजं पापं नश्यति गणनातिगम् ॥६०॥ गणेशोच्छिष्टगंधं वै द्वादशांगेषु योऽर्चयेत् । गणेशतुल्यरूपः स दर्शनात् सर्वपापहा ॥६१॥ यदि गणेशपूजादौ गंधं भस्मादिकं चरेत् । गणेशोच्छिष्टगंधं तु नोचेत्तत्र विधिं चरेत् ॥६२॥ द्वादशांगेषु विघ्नेश नाममंत्रेण चार्चयेत् । तेन सोऽपि गणेशस्य समो भवति भूतले ॥६३॥ गणेश्वरं मूर्ध्नि चादौ ललाटे विघ्ननायकम् । दक्षिणे कर्णमूले तु वक्रतुंडं समर्चयेत् ॥६४॥ वामे कर्णस्य मूले वै चैकदंतं समर्चयेत् । कंठे लंबोदरं देवं हृदि चिंतामणिं तथा ॥६५॥ बाहौ दक्षिणके चैव हेरंबं वामबाहुके । विकटं नाभिदेशे तु विनायकं समर्चयेत् ॥६६॥ कुक्षौ दक्षिणभागे तु मयूरेशं समर्चयेत् । वामकुक्षौ गजास्यं वै पृष्ठे स्वानंदवासिनम् ॥६७॥ सर्वांगलेपनं शस्तं चित्रितं गंधमष्टकैः । गाणेशानां विशेषेण सर्वभद्रस्य कारणात् ॥६८॥ भुक्तशेषं तु नैवेद्यं गणेशस्य भुनज्म्यहम् । भुक्तिमुक्तिप्रदं पूर्णं नानापापनिकृंतनम् ॥६९॥ गणेशस्मरणेनैव करोमि कालखंडनम् । गाणपत्यैश्च संवासो गजानन सदाऽस्तु मे ॥७०॥ गार्ग्य उवाच । एवं गृत्समदो विप्रश्चकार बाह्यपूजनम् । त्रिकालेषु महायोगी सदा भक्तिसमन्वितः ॥७१॥ तथा कुरु महीपाल गाणपत्यो भविष्यसि । यथा गृत्समदः साक्षात्तथा त्वमपि निश्चितम् ॥७२॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते गृत्समदप्रोक्तबाह्यपूजावर्णनं नामैकोनचत्वारिंशत्तमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ ऐल उवाच । श्रुत्वा गृत्समदस्यैव चरितं सर्वदायकम् । न तृप्तोऽहं महायोगिन् भवाम्यमृतपान- वत् ॥१॥ न गृत्समदतुल्यं तु पश्यामि ब्रह्मगोलके । धन्योऽयं योगिनां मध्ये गाणपत्येषु मानद ॥२॥ अधुना वद योगीश गणेशलोकवर्णनम् । कीदृशोऽयं गणेशस्य निजलोको विशेषतः ॥३॥ गार्ग्य उवाच । अत्र ते कथयिष्यामि चेति- हासं पुरातनम् । मुद्गलस्य मुनेः संवादयुक्तं कपिलस्य वै ॥४॥ एकदा मुद्गलो योगी गाणपत्याग्रणीर्नृप । जगाम कपिलस्याश्रमं गंगातटे स्थितम् ॥५॥ प्रणम्य स जगादापि कपिलं हर्षसंयुतः । कृत्वा करपुटं चांगिरस आदौ वराग्रणीः ॥६॥ मुद्गल उवाच । साक्षाद्विष्णुस्वरूपस्त्वं शुक सर्वार्थदायक । गाणपत्येषु मुख्यस्त्वं सांख्यानां परमा गतिः ॥७॥ त्वद्दर्शनसुपुण्येन कृतकृत्योऽहमंजसा । कुलं धन्यं यशो विद्या ज्ञानं मे तेऽद्य दर्शनात् ॥८॥ एवं वदंतमत्यंतं कपिलस्तं ननाम च । पूजयामास हर्षेण मुद्गलं भावभावितम् ॥९॥ ततस्तं कपिलो योगी जगाद वचनं हितम् । तात ते दर्शनेनाद्य पवित्रोऽहं च सांप्रतम् ॥१०॥ पूर्णभक्तस्त्वमेवैको गणेशस्य महामुने । साक्षात् मुद्गल शस्त्रेशो गाणेशो नात्र संशयः ॥११॥ यथा मुद्गरशस्त्रेण चूर्णयित्वा पदार्थकान् । नामरूपविहीनांश्च कुरुते मानवः परान् ॥१२॥ तथा त्वया महायोगिंस्तपसा योगसेवया । अभिमानः समाचूर्ण्य कृतो मूलविवर्जितः ॥१३॥ नानायोगिन एवं तं योगेन स्वाभिमानकम् । चूर्णयंति महाभाग तथापि हृदि तिष्ठति ॥१४॥ तेन त्वं मुद्गलो योगी जगत्येको विनिश्चितम् । वयं न तादृशा वत्स ह्येकमार्गसमाश्रयात् ॥१५॥ त्वदीयकृत्यांगिरसं पुराणं संभविष्यति । सर्वेषां मान्यमेकं तद्योगप्रदं न संशयः ॥१६॥ अभिमानेन युक्तानि पुराणानि विशेषतः । शास्त्राणि नात्र संदेहः कारणं शृणु मुद्गल ॥१७॥ ज्ञातं गुह्यं तत्तथापि संगोप्य स्वमतं पुनः । स्थापयित्वा विशेषेणांजसा तथ्यं वदंति ते ॥१८॥ गणेशभक्तः संस्त्वं तु तथापि गण- नायकम् । रहस्येन विशेषार्थं न करोषि कदाचन ॥१९॥ त्वदीयं वचनं श्रेष्ठं सर्वमान्यं न संशयः । अभिमानेन हीनत्वाद्गेदगुह्यप्रकाशकम् ॥२०॥ त्वया कृतं पुराणं यत्तद्दांत्यं प्रभविष्यति । पुराणानां महत् श्रेष्ठं मुद्गलं मुद्गलाकृति ॥२१॥ त्वयोक्तं निंदयेद्यो वै भवेत् स निरयप्रदः । अन्येभ्यस्तु स्वयं मूर्खो नरकेषु पतिष्यति ॥२२॥ वेदशास्त्रपुराणानां मुद्गलस्त्वत्कृतो महान् । ग्रंथो भविष्यन् नूनं निरभिमानत्वकारणात् ॥२३॥ न मुद्गलसमो योगी न मुद्गलसमः कदा । गाणपत्यो महायोगी त्रिकालेषु विनिश्चितम् ॥२४॥ स्वागतं ते महाभाग स्थीयतां मे प्रसन्निधौ । त्वद्दर्शनेन संहृष्टो

खं. ५ अ. ४० पान ९७ भवामि गणपप्रिय ॥२५॥ कपिलेन महायोगी सत्कृतस्तत्र भूमिप । मुद्गलस्तत्र सांनिध्ये न्यवसद्भावसंयुतः ॥२६॥ एकदा सुखमासीनं कपिलं योगिनां वरम् । पप्रच्छ मुद्गलो हर्षात् विनयावनतोऽभवत् ॥२७॥ मुद्गल उवाच । स्वामिंस्त्वदीयगेहे स चिंतामणिः समागतः । पुत्रभावेन साक्षात्तु ब्रह्मणां नायकः परः ॥२८॥ त्वया भावेन सर्वेश आराधितो निरंतरम् । गुह्यं तस्य त्वमेवेह जानास्यत्र न संशयः ॥२९॥ न त्वत्समो महासिद्धः साक्षाद्विष्णुस्त्वमंजसा । गाणपत्यः स्वयं योगी गणेशजनकः पुनः ॥३०॥ परिपृच्छाम्यतस्त्वाहं वद सर्वं महाप्रभो । भवादृशा जनानां तु तारणाय भवंति हि ॥३१॥ स्वानंदवसतिः स्वामिन् कीदृशी तत्र किं सुखम् । विस्तारः कीदृशस्तस्याः केन योगेन लभ्यते ॥३२॥ न कोऽपि तस्य लोकस्य जानाति त्वदृते परम् । रहस्यं वद सर्वेश गाणपत्यस्य विस्तरात् ॥३३॥ गार्ग्य उवाच । एवं पृष्टो महासिद्धस्तं प्रहस्य प्रशंसयन् । जगाद कपिलो हर्षाद्गाणपत्याग्रणीर्वचः ॥३४॥ कपिल उवाच । शृणु मुद्गल माहात्म्यं संक्षेपेण ब्रवीम्यहम् । स्वानंदलोकगं पूर्णं सारं सर्वत्र संमतम् ॥३५॥ गणासुरं गणाध्यक्षो हत्वा परमदुर्जयम् । गंतुं समुद्यतस्तत्र निजलोके यदाऽभवत् ॥३६॥ ततो मयाऽतिभक्त्या वै प्रार्थितो गणनायकः । उवाच मां वरं योगिन् वृणु दास्यामि मानद ॥३७॥ ततश्चिंतामणिं विप्र प्रणम्योचेऽतिदुःखितः । वद स्वानंदलोकस्य माहात्म्यं गणनायक ॥३८॥ नानालोकाः श्रुताः स्वामिन् न स्वानंदं गजानन । जानाति कोऽपि यत्र त्वं प्रभो वससि नित्यदा ॥३९॥ चिंतामणिरुवाच । स्वानंदं यच्च वेदेषु ब्रह्म योगींद्रसत्तम । तदेव मायया पूर्वं बभूव नगरं महत् ॥४०॥ स्वसंवेद्येन योगेन लभ्यते नान्यथा क्वचित् । अथवा मे व्रतैश्चैवोपासनेन महामुने ॥४१॥ न जपैस्तपसा दानैर्नानाकर्मपरायणैः । लभ्यते निजलोको वै जानीहि मुनिसत्तम ॥४२॥ न तत्र विष्णुशांभाद्याः शुकाद्या योगिनोऽपरे । गच्छंति मार्गहीनत्वादगम्यः संमतः सदा ॥४३॥ चतुर्विधमयैर्भावैर्लभ्यते न कदाचन । अगम्यस्तैर्न संदेहो मम लोको महामते ॥४४॥ दशसाहस्रकं विप्र योजनानां प्रविस्तरः । अत ऊर्ध्वं च सर्वत्र तावन्मानः प्रकीर्तितः ॥४५॥ वर्तुलः सर्वतः सोऽपि स्वस्थाधारेण तिष्ठति । सदा ज्योति- र्मयः साक्षाज्ज्योतिषां ज्योतिरुच्यते ॥४६॥ न तत्र सगुणं सर्वं निर्गुणं नैव विद्यते । पुमान् नपुंसकं न स्त्री वर्तते मुनिसत्तम ॥४७॥ चतुर्विधेषु सर्वेषु नानाभावगतेषु च । स्वसंवेद्यं निजात्मस्थं संस्थितं मेऽत्र संनिधौ ॥४८॥ चतुर्विधेषु सर्वेषु मायायुक्तमिह स्थितम् । सदा भ्रांतं विजानीहि स्वस्वरूपं महामते ॥४९॥ तेषु मोहविहीनं यत् साक्षिरूपं सदा स्थितम् ।

खं. ५ अ. ४० पान ९८

निर्गुणेन स्वभावेन सदा खंडमयं परम् ॥५०॥ तयोर्योगे निजानंदो ढुंढिलोकग एव सः । बभूव तत्र भक्त्या मे भक्ता- स्तिष्ठंति संनिधौ ॥५१॥ मम लोके महाभाग न क्षुधा न तृषादिकम् । सदा स्वानंदभोगस्था वसंति मम सेवकाः ॥५२॥ न कृत्रिमं सुखं तत्र विद्यतेऽकृत्रिमं न हि । स्वानंदेन निमग्नास्ते सर्वं भुंजंति नित्यदा ॥५३॥ सगुणं तु सुखं सर्वे भुंजते निर्गुणं तथा । स्वानंदसंभवं तत्स्था एककाले महामते ॥५४॥ अत्र यत् संस्थितं सर्वं नानाभेदमयं मुने । तदेव ज्योती- रूपेण मम लोके प्रतिष्ठति ॥५५॥ अत्रैव न स्थितं यच्च निर्गुणं विप्र तत्र तत् । ज्योतीरूपेण मे लोके किल तिष्ठति सर्वदा ॥५६॥ स्वानंदसंभवं सर्वं तत्र तिष्ठति नित्यदा । मायया मेऽत्र लोकेऽतः सदाऽऽश्चर्यमयो बभौ ॥५७॥ सगुणो नैव विप्रेश सगुणं तत्र वर्तते । निर्गुणो न स नैर्गुण्यं वर्तते मे च लोकगम् ॥५८॥ सगुणैर्निर्गुणैर्हीनं वर्तते तत्र सर्वदा । अत आश्चर्यसंयुक्तो मम लोको विशेषतः ॥५९॥ न तत्राऽहं स्वभावश्च नाऽहं भावविवर्जितः । मम लोके महायोगिन् सदा तिष्ठंति मत्प्रियाः ॥६०॥ सगुणाऽमृतरूपं यद्भोगदं मृततुल्यकम् । निर्गुणामृतरूपं यदमृते भोगकारकम् ॥६१॥ तयोर्योगे महायोगिन्नमृतं स्वस्वरूपकम् । तन्मयः सागरस्तत्र स्वस्वाधारेण वर्तते ॥६२॥ मिष्टं नानाविधं तस्मान्निःसृतं सगुणात्मकम् । निर्गुणात्मकमेतस्मादिक्षुसागर उच्यते ॥६३॥ स्वस्वरूपात्मकं तत्र जलं रक्त- स्वरूपकम् । तस्य नश्यति पानेन नैर्गुण्यं सगुणात्मकम् ॥६४॥ तस्माद्धारा समुद्भूता मधुधारा प्रकथ्यते । तया सगुणनैर्गुण्यं वर्तते तृप्तिसंयुक्तम् ॥६५॥ तत्राऽहं सिद्धिबुद्धिभ्यां सदा क्रीडामि मानद । ब्रह्मप्रियाद्यकास्तत्र गणा मे निवसंति हि ॥६६॥ शुंडादंडादिचिह्नैश्च संयुक्तोऽहं सदा मुने । गणा मेऽन्ये तथा भक्ताः स्वेच्छारूपाः वसंति ते ॥६७॥ एतत्त्ते कथितं सर्वं मम लोकसुखं महत् । मानयुक्तं मानहीनं हृदये पश्य मां मुने ॥६८॥

॥ ओमिति श्रीमदान्द्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते स्वानंदलोकवर्णनं नाम चत्वारिंशत्तमोऽध्यायः ॥

यहाँ पृष्ठ पर दिए गए संस्कृत पाठ का लिप्यंतरण (Transcription) प्रस्तुत है:

खं. ५ अ. ४१ पान ९९ ॥ श्रीगणेशाय नमः॥ कपिल उवाच । त्वदीयभक्तिसंयुक्ता नराः स्वानंदगा बभुः । गच्छंति केन मार्गेण तद्वदस्व गजानन ॥१॥ चिंतामणिरुवाच । मदीयोपासनायुक्ता मन्निष्ठा मत्परायणाः । अंते मेऽत्र स्मृतिं कृत्वा गच्छंति मम लोकम् ॥२॥ विमानं स्वस्वरूपाख्यं प्रेषयामि महामुने । शिवविष्णुवादिदेवानामहृश्यं निजलोकतः ॥३॥ तमारुह्य गणैर्युक्तं भक्तो मे देहधृक् स्वयम् । स्वर्गान् पश्यंश्च सर्वान् स विस्मितो भवतीत्यहो ॥४॥ न तं पश्यति देवाद्या योगिनो यान- संस्थितम् । स्वानंदचक्षुषा हीना मृतदेहमया मुने ॥५॥ शाक्तेर्लोकमतिक्रम्य तथा सौरं च वैष्णवम् । शैवं ततः परं सोऽपि मम लोकं प्रविंदति ॥६॥ तत्राज्ञानमयश्चादावंधकारः प्रदृश्यते । नरेण न गणैर्विप्र देहधारणकारणात् ॥७॥ विमानप्रभया तत्र मदीयस्मरणेन वै । योजनान्ययुतं गत्वा प्रकाशस्तेन दृश्यते ॥८॥ तत्र भ्रामरिका देवी प्रचंडदेहधारिणी । ज्योतिर्मयस्वरूपेणाज्ञानिभ्यो भयदा बभौ ॥९॥ जन्ममृत्यभयं सर्वं नानाभेदकरं भ्रमम् । तया संरचितं पूर्णं मम जानीहि मायया ॥१०॥ भ्रामयेत् सर्वभूतानि सा स्थिता भ्रामरी स्वयम् । स्वस्याधारेण तत्रैव स्वानंदमयकायभृत् ॥११॥ तां पश्य भयभीतः स मां सस्मार विशेषतः । ततो गणैः समाश्वास्याऽग्रे निन्ये मानवोत्तमः ॥१२॥ तस्या मस्तकगा शक्तिर्ज्योति- राधाररूपिणी । अज्ञानिभ्यो सदा विप्र भयदा सा बभूव ह ॥१३॥ जीवरूपं सदा सर्वभेदमोहधरं परम् । शिवरूपं तथा साक्षि तदाधारं प्रवर्तते ॥१४॥ देहादीनां महायोगिन्नाधारो जीवसंज्ञितः । स्वयमाधारहीनत्वात् परमात्मा तदेव च ॥१५॥ सर्वेषां पूर्ण आधारस्तया कृतो महामुने । आधारशक्तिरेवं सा नाम्ना तस्य स्थिताऽभवत् ॥१६॥ तयाऽहं द्विविधश्चित्ते भवाम्यज्ञानिनां सदा । जीवात्मपरमात्मस्थो माया तत्र बभौ परा ॥१७॥ मदीयध्यानजेनैव तामतिक्रम्य मानवः । गणैर्निन्ये पुरोभागे मम दर्शनकारणात् ॥१८॥ ततोऽतिज्योतिषा रूपा शक्तिर्वै कामदायिनी । तस्या मस्तकगा विप्र शोभते हर्षदायिनी ॥१९॥ जन्ममृत्युयुतं सर्वं भेदरूपं तथा परम् । आत्माकारं तयोर्योगे योगरूपा तु सा स्मृता ॥२०॥ तथा कामयुतं विप्र द्विविधं प्रकृतं सदा । तेन देहात्मनोर्योगः परस्परयुतोऽभवत् ॥२१॥ उत्पत्तिस्थितिसंहारयुक्तं भ्रांतिधरं स्मृतम् । नानाभेदमयं पूर्णं क्षयवृद्ध्यादिसंयुतम् ॥२२॥ आत्मा सदाऽमृताधार उत्पत्तिस्थितिनाशनैः । हीना वृद्धिक्षया- दिभ्यो वदंति वेदवादिनः ॥२३॥ किमर्थं भेदयुक्तं च सर्वदाऽऽत्मानमिच्छति । तथा पश्यात्मवैचित्र्यं विरुद्धे सति- मानद ॥२४॥ कामयुक्तं ह्यसिपदेन द्वंद्वस्थं कृतं सदा । तेन मोहप्रभावेण परस्परहितं जगत् ॥२५॥ अतः सा शक्ति-

पान १००

राख्याता कामदा सर्वमोहिनी । असिरूपा विशेषज्ञ महामाया मदीयिका ॥२६॥ भ्रामर्या भ्रामिका काऽपि शक्तिर्नात्र प्रदृश्यते । त्वं पदस्थां महामायां तां जानीहि प्रभावतः ॥२७॥ आधाराया महायोगिन्नाधारान्या न विद्यते । शक्तिः कुत्र ततः सापि तत्पदस्थाऽत्र कथ्यते ॥२८॥ कामदायाश्च का शक्तिः कामदान्या न विद्यते । सर्वदा सर्वरूपासि पदमय्यापि सा बभौ ॥२९॥ तस्या मस्तकगं विद्धि लोकं मे स्वस्वरूपकम् । मायया रचितं विप्र मया स्वानुभवात्मकम् ॥३०॥ तत्रागत्य महाभक्तः पिबेदिक्षु समुद्रजम् । जलं तेन स वै सद्यो ज्योतीरूपधरो भवेत् ॥३१॥ भेदाभेदादिहीनश्च भूत्वा पश्यति मां ततः । मदर्शनजययोगेन ब्रह्मभूतो भवेन्नरः ॥३२॥ स्वेच्छया निजलोकस्थो यत्र तत्र स संचरेत् । सगुणो निर्गुणो भूत्वा सदा स्वानंदगः परः ॥३३॥ ततस्तस्य पुनर्नातिर्न भवेन् मुनिसत्तम । कल्पकोटिशतैर्वाऽपि निश्चितं वेदवादिभिः ॥३४॥ महालये चतुर्भेदा मयि चैकत्वमागताः । अज्ञानेन युताः सर्वे पुनस्तान् संसृजाम्यहम् ॥३६॥ एतत्ते कथितं सर्वं मम लोकागमे मुने । संक्षेपेणैव जानीहि मार्गहीनं सुसिद्धिदम् ॥३७॥ कपिल उवाच । त्वदीयोपासनं कृत्वा बहवस्ते गजानन । लोकं गच्छंति विघ्नेश तथा योगिन एव च ॥३८॥ ब्रह्मभूताश्च ते ख्याताः कदाचिन्न पतंति चेत् । तदा जगदिदं स्वामिन् क्षीणरूपं भवेत् क्रमात् ॥३९॥ पुनः पुनः सुस्रष्टा त्वं क्षीणे क्षीणे कथं प्रभो । पूर्णं विश्वमिदं नित्यमंजसा भाति खेलसि ॥४०॥ चिंतामणिरुवाच । यथाऽहं मायया विप्र युद्धकाले विशेषतः । भूत्वा ह्यनन्तरूपेण प्रयुध्ये विश्वपालनात् ॥४१॥ हत्वा दैत्यादिकान् सर्वान् पुनरेकस्वरूपधृक् । भवामि सर्वभावज्ञो लीलार्थमवतारधृक् ॥४२॥ तथा मायाबलेनैव नूतनं संसृजाम्यहम् । न न्यूनाधिकमेवेदं विश्वं भवति सर्वदा ॥४३॥ कपिल उवाच । ब्रह्मभूता नरा नार्यः स्वानंदे संस्थिता बहुः । अनंतास्ते प्रभक्त्या वै पुनः स्वानंदगामिनः ॥४४॥ तेषां वासः सदा तत्र नगरं नियतं प्रभो । संकीर्णता भवेन्नूनं कुत्र तिष्ठंति तद्वद ॥४५॥ चिंतामणिरुवाच । स्वानंदे कल्पपर्यंतमवसन्नित्यमादरात् । महालये समुत्पन्ने मदेहे संगता बभुः ॥४६॥ मया भिन्नं कृतं सर्वं युगादौ मुनिसत्तम । युगांते योगभावेन मद्रूपं भवतीत्यहो ॥४७॥ मदेहे योगभावेनाज्ञानेनैव समागताः । सा योगनिद्रा विप्रेंद्र मदीया कथ्यते बुधैः ॥४८॥ स्वानंदस्था जनाः सर्वे ज्ञानयुक्ता मदीयके । देहे लीना वै भवंति योगींद्रा योगभावतः ॥४९॥ पुनः सृष्टिborderयुगे विप्र निःसृतं विश्वमंजसा । अज्ञानेन युतं लीनं मायया मे न संशयः ॥५०॥ ज्ञानेन ये समायाता मदेहे ते पुनः कदा । भवंति भिन्नरूपा न सृष्ट्यादौ योग-

भाविताः ॥५१॥ एवं वसन्ति ये तत्र स्वानंदे मुनिसत्तम । कल्पे कल्पे मदीये ते देहे सायुज्यमागताः ॥५२॥ कपिल उवाच । भक्तिमिच्छंति विघ्नेश त्वदीयां नित्यमादरात् । न योगे प्रेमभावेन तेषां कुत्र स्थितिं वद ॥५३॥ कल्पे कल्पे महाभागा भक्तास्ते पूर्णभावतः । भवंति ये क्रमेणैवापाराः कुत्र वसन्ति ते ॥५४॥ चिंतामणिरुवाच । दशयोजनसाहस्रं मानं तस्य प्रकीर्तितम् । योगिनां च मुमुक्षूणां न भक्तानां कदाचन ॥५५॥ अपारयोजनाकारो मम लोको न संशयः । स्वानंदस्तत्र मे भक्ता वसंति सेवनोत्सुकाः ॥५६॥ संख्याहीनाश्च मद्भक्ताः सदा प्रेमरसाऽऽप्लुताः । नवधा मां भजंते ते कल्पे कल्पे गतव्यथाः ॥५७॥ भवंति तु भविष्यंति बभूवुर्ये महामुने । मद्भक्ता मे प्रसान्निध्ये वसंति मोहदाः सदा ॥५८॥ महाभागा प्रियं भक्तिसमं मे नैव विद्यते । भक्त्यधीनो महानंदाद् भ्रमेयं भक्तसन्निधौ ॥५९॥ यत्र कुत्र तु तिष्ठंति भक्ता मे तत्र सर्वदा । तिष्ठामि सर्वभावेन तान् रक्षामि सुविह्वलः ॥६०॥ नवधा चित्तभावेन भक्तसामीप्यगो मुदा । भजामि भक्तमाहात्म्यं मोहितश्चेष्टितः सदा ॥६१॥ न स्वानंदप्रियो मे वै सिद्धिर्बुद्धिः सुतौ तथा । मम देहो न विघ्नेश प्रिया भक्ता यथा च मे ॥६२॥ कपिल उवाच । स्वानंदस्था गणास्ते ये भक्तान्नेतुं समागताः । ज्योतीरूपाश्च भक्तैस्ते दृश्यंते कथमप्यहो ॥६३॥ चिंतामणिरुवाच । मायया मे महायोगिन् दुर्लभं किं भवेद्वद । कृपया मेऽत्र पश्यंति भक्तास्तान् चर्म- चक्षुषा ॥६४॥ स्वानंदः सर्वरूपश्च तत्र मार्गं वदामि ते । भेदयुक्तैर्गणा मे वै दृश्यंते भेदसंयुताः ॥६५॥ भेदहीनैः सदात्मस्थैर्निर्गुणा मे गणा मुने । दृश्यंते स्वात्मसंस्थैश्च स्वसंवेद्यात्मकास्तथा ॥६६॥ जलादिषु यथा बिंबं भवते तादृशं किल । तथा मदीयलोकस्था दृश्यंते सर्वमंडले ॥६७॥ एतत्ते कथितं सर्वं ममलोकविचेष्टितम् । अधुनाऽहं गमिष्यामि निजलोकं महामुने ॥६८॥

॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते स्वानंदस्थितिवर्णनं नामैकचत्वारिंशत्तमोऽध्यायः ॥

ख. ५ अ. ४२ पान १०२ ॥ श्रीगणेशाय नमः ॥ कपिल उवाच । एतादृशी महाभक्तिस्त्वदीया गणनायक । यदा सर्वे प्रकुर्वंति तदा विश्वं कथं भवेत् ॥१॥ सर्वेभ्यः श्रेष्ठभावेन जानंति त्वां यदा नराः । तदा त्वां सर्वभावेन भजंते ते न संशयः ॥२॥ श्रेष्ठार्थिनो नराः सर्वे भजंते शीघ्रसिद्धये । देवेंद्रास्त्वां परित्यज्यान्यान् ब्रह्मप कथं वद ॥३॥ चिंतामणिरुवाच । मया सृष्टं जगत् सर्वं नानाभावमयं मुने । नानाभावयुताः सर्वे न भजंते तु मां सदा ॥४॥ चतुर्णां देवमुख्यानां कृत्वा भजनमुत्तमम् । तेन शुद्धांतरात्मानो मां भजंते ततः परम् ॥५॥ अन्यच्च शृणु मे वाक्यं मया माया प्रकाशिता । सर्वश्रेष्ठतमं मां ते न जानंति प्रमोहिताः ॥६॥ यदाऽहं मायया विप्र छादयामि न मे वपुः । तदा मोहविहीनाश्चेच्छ्रेष्ठं मां प्रवदंति च ॥७॥ मया नानावताश्च कृतास्त्रैलोक्यगेषु वै । देवादीनां प्रगेहेषु तादृशं मां वदंति ते ॥८॥ अग्रपूज्यत्वमेवं यत् सर्वपूज्यत्व- मंजसा । शिवेन दत्तमस्मै तद्गणेशाय वदंति ते ॥९॥ मायया मोहिता मे मां पार्वतीमलसंभवम् । शिवपुत्रं शिवेनैव स्थापितं प्रवदंति ते ॥१०॥ शिवगणस्वरूपोऽयं मुक्तिं दातुं न च क्षमः । कार्यसिद्धिस्वभावेन कामपूरो गणेश्वरः ॥११॥ इत्यादिभावा बहवो मया विप्र प्रकाशिताः । क्रीडार्थं तेन मां त्यक्त्वा श्रेष्ठं जानंति चापरम् ॥१२॥ नो चेत् स्वानंदगाः सर्वे भवंत्यत्र न संशयः । निर्मोहात् कल्पपर्यंतं जगन्नैव प्रवर्तते ॥१३॥ अन्यच्च कर्मणा सर्वं ब्रह्मांडं जनसंयुतम् । नानाभावात्ममोहस्थं भवतेऽनेकनिश्चयात् ॥१४॥ अंते मदीयभावस्था भवंते शुद्धचेतसः । वेदशास्त्रार्थतत्त्वज्ञाः स्वयमेव महामुने ॥१५॥ अहं साक्षाद् बुद्धिपतिः कृत्वा बुद्धेश्च चालनम् । गोपयामि गणेशस्य स्वरूपं देहिनां हृदि ॥१६॥ तेन मां नैव जानंति जना परमगं कदा । विवेकमार्गं ते तत्र वदामि शृणु यत्नतः ॥१७॥ कृते मां पूर्णभावेन भजंते सर्वमानवाः । अज्ञानावरणैर्हीनाः श्रेष्ठं ते प्रवदंति हि ॥१८॥ त्रेतायां पादहीनेन मां भजंते नरा मुने । पंचायतनभावेन पंच श्रेष्ठान् वदंति ते ॥१९॥ तत्र सर्वेषु साम्येन मां भजंते न संशयः । चतुर्भ्यः श्रेष्ठभावाख्यं ज्ञानं नष्टं मदीयकम् ॥२०॥ द्वापरे द्विपदा हीनं मां भजंते सुरादयः । वदंति न्यूनरूपं तु चतुर्भ्यः शंकरात्मजम् ॥२१॥ वेदशास्त्रे पुराणेषु श्रेष्ठं जानंति मानवाः । मोहेन युगमानेन मां न्यूनं प्रवदंति ते ॥२२॥ सर्वं ब्रह्मेति वेदेषु कथितं तत्र किं भवेत् । सत्ता समानरूपा तु तथाऽयं गणनायकः ॥२३॥ कलौ त्रिपादहीनेन मां ज्ञानेन भजंति ते । वदंति वै नरास्तत्र मलजोऽयं गजाननः ॥२४॥ शिवस्य वरदानेनाग्रपूज्योऽयं गणेश्वरः । सर्वपूज्यो यथा दैत्या जंतवो वरसंयुताः ॥२५॥ सर्वं ब्रह्मेति वेदेषु कथितं तेन विप्रपः ।

वर्णितोऽयं शिववरबलेनैव मुनींद्रकैः ॥२६॥ स्वसत्तासंयुक्तो देवो नाऽयं चिंतामणिः कदा । शिवभक्तिबलेनाद्यो वरयुक्तो बभूव ह ॥२७॥ कलिप्रांते मुने लोका न भजिष्यंति मां कदा । एकपादमयी भक्तिर्नाशं यास्यति निश्चितम् ॥२८॥ मतभेदेन मोहेनादौ मां त्यक्त्वा विशेषतः । शिवविष्ण्वादिकान् सर्वे भजंते त्वग्रपूज्यकान् ॥२९॥ सर्वपूज्याग्रपूज्यत्वं नष्टं भवति मे ततः । अंते विघ्नयुताः सर्वे नरकेषु पचंति वै ॥३०॥ युगमानप्रसिद्ध्यर्थं कृतं मेऽत्र महामुने । कर्माकर्म- विकर्माणि स्थापितानि विभागशः ॥३१॥ न करोमि यदाऽहं चेत्तदा मे वरदानकम् । कर्मभ्यश्च युगेभ्यश्च निष्फलं भवतीत्यहो ॥३२॥ नरकादय आख्याताः स्वर्गाश्चैव महामुने । भवंति निष्फलाः सर्वे तदर्थं खेलयाम्यहम् ॥३३॥ शुभाशुभमयं सर्वं मया स्ववरदानतः । स्थापितं तेन मोहेन मां न जानंति मूलगम् ॥३४॥ एतत्ते सर्वमाख्यातं मदीयं चेष्टितं महत् । मा संशयं मुने त्वं तु कुरु मां भज भावतः ॥३५॥ कपिल उवाच । एवमुक्त्वा गणेशानो मामंतर्धानमाकरोत् । अहं खेदसमायुक्तो हृदये तमलोकयम् ॥३६॥ मयाऽसौ स्थापितश्चिंतामणिर्विप्र परेश्वरः । पूजयामि भजे नित्यं भक्ति- भावसमन्वितः ॥३७॥ एतत्ते कथितं सर्वं रहस्यं तस्य धीमतः । लोकस्य तेन यत् प्रोक्तं भज तं भक्तिसंयुतः ॥३८॥ त्वं साक्षाद्गाणपत्यश्च देहधारी न संशयः । तवदर्शनमात्रेण सर्वे पूता भवंति च ॥३९॥ गार्ग्य उवाच । श्रुत्वैवं मुद्गलो योगी महत् स्वानंदलोकगम् । माहात्म्यं विस्मितो भूत्वा प्रणाम महामुनिम् ॥४०॥ चिंतामणिं समभ्यर्च्य प्रणम्य कपिलं पुनः । मुद्गलः स्वाश्रमं राजन् प्रययौ गणपे रतः ॥४१॥ एवं ते सर्वमाख्यातं भज तं भावसंयुतः । अनेन जडदेहेन स्वानंदं लभसे नृप ॥४२॥ मुद्गल उवाच । एवमुक्त्वा महीपालमैलं गार्ग्यो महामुनिः । अनुज्ञातश्च भूपेन ययौ स्वस्याश्रमं विधे ॥४३॥ ऐलोऽपि गणराजं तं लक्षसंज्ञं निरंतरम् । सेव्यस्वानंदगो भूत्वा भजते तं प्रजापते ॥४४॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते चिंतामण्यंतर्धानवर्णनं नाम द्विचत्वारिंशत्तमोऽध्यायः ॥

॥ श्रीगणेशाय नमः॥ दक्ष उवाच। धन्योऽहं कृतकृत्योऽहं श्रुत्वा स्वानंदजां कथाम्। विस्मितो योगिराजेंद्र न समं तस्य विद्यते ॥१॥ अधुना ब्रूहि मे सर्वं यश ऐलस्य भक्तिजम्। गार्गेयेण नृपशार्दूल उपदिष्टः किमाचरत् ॥२॥ गणेशलोकगः सोऽपि बभूव वद तत्कथम्। अत्र तत्र गणेशानं भजते कथमप्यहो ॥३॥ मुद्गल उवाच। गार्गेयेण नृपवर्यश्च गाणपत्येन शिक्षितः। गाणपत्येन मार्गेणाभजत्तं गणनायकम् ॥४॥ स्कंदेन स्थापितस्तत्र लक्षो नाम गजाननः। तं नित्यं सेवया- मासानन्यभावेन विघ्नपम् ॥५॥ न गणेशात् परं किंचिज्जानाति नृपसत्तमः। एकनिष्ठः स्वभावेनाभजत्तं लक्षविघ्नपम् ॥६॥ दक्ष उवाच। एकनिष्ठात्मिकां भक्तिं वद मेऽन्यां च मुद्गल। यया विघ्नेश्वरः साक्षात् संतुष्टो जायते नृणाम् ॥७॥ मुद्गल उवाच। पंचायतनपूजां वै तथाग्नेः सेवनं परम्। द्विजानां नित्यमेतत्ते कथितं सर्वसंमतम् ॥८॥ विघ्नरूपं महाघोरं परत्रेह च बंधकम्। ब्रह्ममार्गस्य संरोधकारकं विद्धि सर्वदा ॥९॥ तं जयेद्विघ्नराजस्य पूजनेन नरोत्तमः। विद्यार्थं शंकरं सोऽपि पूजयेन्नित्यमादरात् ॥१०॥ यशोर्थं केशवं चैवारोग्यार्थं रविमंजसा। सौभाग्यार्थं नरस्तद्वत् पूजयेज्जगदंबिकाम् ॥११॥ अग्निं होमादिमार्गेण पूजयेत् कर्मसिद्धये। देवादीनां विभागार्थं सर्वेषां तोषकारकम् ॥१२॥ एवं मत्वा तु यो मर्त्यः करोति सेवनं सदा। स्वधर्मस्य प्रजानाथ ब्रह्मार्पणतया किल ॥१३॥ अथवा कामनायुक्तः स चेत्तदपि तादृशम्। कुर्यात् कर्मांगदेवेभ्यः समर्प्य सकलां क्रियाम् ॥१४॥ सर्वे समानरूपाश्च तस्य प्रोक्ताः प्रजापते। स्वधर्माचरणं श्रेष्ठं जानीते सर्वसौख्यदम् ॥१५॥ तत्र विघ्नेश्वरं साक्षान् मध्ये संस्थाप्य सर्वदा। ईशान्यं विष्णुमेव त्वाग्नेय्यां शंभुं प्रपूजयेत् ॥१६॥ नैर्ऋत्यां जगदंबां च वायव्यां रविमादरात्। पंचायतनभावेन पूजयेत् पंच देवताः ॥१७॥ सर्वेषां पूज्यभावाद्वै सर्वाग्रे पूज्य भावतः। ज्येष्ठराजस्वरूपाच्च मध्ये तिष्ठति विघ्नपः ॥१८॥ अथवा पंचदेवेषु मंत्रं गृह्य स्वभावजम्। एकस्य तस्य मध्ये स स्थापनं कुरुते स्वयम् ॥१९॥ सर्वं कलांशरूपस्थं पंचायतनकस्य वै। पूजितेषु प्रजानाथ पंचसु पूजितं जगत् ॥२०॥ देवेन कार्यसिद्धयर्थं नाना देवाः कृताः पुरा। ते सर्वे तत्स्वरूपाश्च पूजनीया नरेण वै ॥२१॥ इयं सर्वात्मिका भक्तिः कथिता च प्रजापते। स्वेष्टभावेन सर्वत्र परात्तत् ध्यानकारणात् ॥२२॥ अधुना शृणु दक्ष त्वमेकनिष्ठां महाद्भुताम्। स्वल्पकालेन भक्तस्य सिद्धिदां परमप्रियाम् ॥२३॥ स्वस्येष्टदेवतायां तु विश्वं सर्वं प्रतिष्ठितम्। तस्य पूजनमात्रेण सर्वं संपूजितं भवेत् ॥२४॥ अनंतरूपभावेन सर्वत्र कलया स्वयम्। तिष्ठति पूजनं तेषां न भवेद्देहधारिणाम् ॥२५॥ चराचरमयो

खं. ५ अ. ४३ पान १०५ देवः पूजनीयं चराचरम् । केनाऽपि तत्र विपेंद्र भवेच्चासंख्यभावतः ॥२६॥ चराचरं पूजितं चेत्तदपि तस्य रोमगम् । ब्रह्मांडकूटमेवेदं वदंति मुनयोऽपरे ॥२७॥ यस्य रोमांतरंध्रेषु ब्रह्मांडानां हि कोटयः । अतः संपूर्णदेहस्य पूजनं न भवेत् कदा ॥२८॥ भक्तवात्सल्यभावार्थं देहधारी बभूव ह । देवस्तस्य भवेत् सर्वं पूजनेन सुपूजितम् ॥२९॥ अनेन निश्चयेनैव पूजयेत् स्वेष्टदैवतम् । अन्येषां क्षोभतोषौ स सदा नेच्छति चेतसा ॥३०॥ नान्यान्निंदेन्न वै दक्ष स्तुत्यादेकत्वमाश्रितः । स्वेष्टदेवपरो भूत्वा भक्तिं कुर्याद्विशेषतः ॥३१॥ नरो विघ्नेश्वरैणेव सदा युक्तं प्रजापते । स्वेष्टदेवं समापूज्य सिद्धिं स लभते पराम् ॥३२॥ एकनिष्ठा महाभक्तिर्न भवेत्तत्र खंडिता । तत्र मार्गं प्रवक्ष्यामि सर्वसंशयनाशनम् ॥३३॥ यथा स्वशाखया संयुक्तं संध्यादिकमाचरेत् । तथाऽग्रपूज्यभावेन पूजयेद्गणनायकम् ॥३४॥ सर्वेषामादिपूज्योऽयं सर्वादौ वेदवादतः । अन्यथा वेदवैरूध्यात् सकला नश्यति क्रिया ॥३५॥ शिवविष्णुमुखादीनामग्रपूजा न विद्यते । सर्वादौ तेन ते त्याज्या न त्याज्योऽयं गजाननः ॥३६॥ अन्यच्च शृणु मे वाक्यं सर्वेभ्यः फलदायकः । गणेशो नात्र संदेहः सिद्धिबुद्धि- समन्वितः ॥३७॥ धर्मार्थकाममोक्षाश्च ब्रह्मभूतत्वमंजसा । सिद्ध्यधीनं प्रजानाथ पंचकं वेदवादतः ॥३८॥ कर्ता बुद्ध्या समायुक्तः स्वेष्टदेवस्तया युतः । बुद्धयधीनं जगत् सर्वं ज्ञानं देहादिकं परम् ॥३९॥ तयोः स्वामी गणेशानो ब्रह्मणस्पति- वाचकः । सर्वादौ तमसंपूज्य नारकी स भवेन्नरः ॥४०॥ यदा गणपतिर्दक्ष सर्वादौ पूजितो न चेत् । पतिव्रते सिद्धिबुद्धी तत्र नैवागमिष्यतः ॥४१॥ सर्वसिद्धिविहीनश्च भवेत् दुर्बुद्धिसंयुतः । देहांते नरकेष्वेव स पचेन्नात्र संशयः ॥४२॥ शिव- विष्णुमुखानां स ज्येष्ठश्चैव प्रकीर्तितः । तस्योल्लंघनमात्रेण भ्रंशयिष्यंति देवताः ॥४३॥ यथा गणपतिद्वेषाद्बलिं वैष्णवमु- त्तमम् । नरकेषु निबद्ध्यैवोद्यतो विष्णुर्बभूव ह ॥४४॥ संध्यादि कर्मवच्चार्यं सर्वादौ संमतो बुधैः । तस्य पूजनमात्रैणैकनिष्ठा नैव खंडिता ॥४५॥ गणेश एकनिष्ठश्चेत्तदा गणपतिः सदा । एकः पूज्यो न संदेहोऽन्येषामनावश्यकखंडनात् ॥४६॥ एक- निष्ठासमा भक्तिर्विद्यते नैव निश्चितम् । ब्रह्म नानाविधं तेन विश्वं भक्त्या प्रपूजितम् ॥४७॥ जगद्ब्रह्मयुतो देवः स्वेष्टः संपूर्णभावतः । पूजितस्तेन भवति संतुष्टे सकलं सदा ॥४८॥ एकनिष्ठो यथा भक्तस्तथा देवोऽपि मानद । एक- भक्ताश्रितो भूत्वाऽभवत्तत्रैव संस्थितः ॥४९॥ एतत्ते कथितं दक्ष भजनं त्रिविधं मया । अनेन भक्तिमार्गेण वाञ्छितं लभते नरः ॥ ५० ॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते भक्तिमार्गवर्णनं नाम त्रिचत्वारिंशत्तमोऽध्यायः ॥

खं. ५ अ. ४४ पान १०६ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एवमैलः स राजर्षिरेकनिष्ठापरायणः । गणेशमभजन्नित्यं यथा गृत्समदस्तथा ॥१॥ ध्यात्वा गजाननं देवमेकांते तद्गताऽखिलः । मानसे राज्यभोगे स निःस्पृहः संबभूव ह ॥२॥ पुत्रे राज्यं परित्यज्य पूजयित्वा गजाननम् । ध्यानयुक्तः स्वभावेनातिष्ठत्तत्रैव नित्यदा ॥३॥ दक्ष उवाच । गणेशस्य ध्यानमैलकृतं मे वद सांप्रतम् । तथाऽहं ध्यानसंयुक्तो भजिष्यामि निरंतरम् ॥४॥ मुद्गल उवाच । यथैलो नृपवर्यः स गार्ग्याज्ज्ञात्वा गणेश्वरम् । अभजत् ध्यानयुक्तश्च तत् ध्यानं शृणु मानद ॥५॥ ऐल उवाच । नमामि विघ्नेश्वरपादपंकजं सुचिह्नितं चाखिलदं निजात्मनाम् । ध्वजासिपद्माभयवज्रलाञ्छनैः परश्वधेनैव सुकोमलं परम् ॥६॥ सुरक्तपादांगुलकैः सुकोमलैर्नखप्रभाताम्रतया सुराजितम् । सुगुल्फयुक्तं मृदुमांसलं महत् मोहं हरेत् तत्तिमिरं हृदि स्थितम् ॥७॥ जंघे परे रक्तसुभामये ततो ध्यायामि मांसेन युते सुकोमले । तज्जानुनी मांसलके सुरोमभिराकोमलैर्वक्रशिखैः सुसंवृते ॥८॥ ऊरू सुमांसेन समावृतौ परौ रंभासमानौ सुविराजितौ तथा । रक्तौ हृदा चिंतनमात्रभावतो भक्तिप्रदौ विघ्नहरस्य चिंतये ॥९॥ कटिं सदा मांसलरक्तरंजितां सुवर्तुलां मध्यमभागसंश्रिताम् । गणेश्वरस्यैव तु चिंतयाम्यहं सदा सुखानंदकरस्य नित्यदा ॥१०॥ वस्त्रं सुरक्तं हृदि चिंतयाम्यहमनंतमौल्यं कटिभागसंस्थितम् । नाभिं सुवृत्तां परमश्रिया युतां शेषस्य संवासकरीं तु चिंतये ॥११॥ महोदरं मांसलभावसंयुक्तं सुरोमयुक्तं प्रभया विराजितम् । विचिंतयेऽहं सकलप्रकाशकं त्रयीप्रमूलं परमव्ययं परम् ॥१२॥ श्रीवक्रतुंडस्य विशालरूपकं वक्षस्तथा रक्तमयं सुमांसलम् । रक्तं स्तनाभ्यां हृदयं तु चिंतये चिंतामणिं तत्र सुखप्रदं परम् ॥१३॥ कंठं त्रिरेखायुतमेव मांसलं रक्तं गणेशस्य च तेजसा युतम् । स्कंधौ वृषकंधसमौ सुकोमलौ ध्यायामि चित्ते सततं सुरक्तकौ ॥१४॥ बाहू सदा मांसलकौ प्रभासितौ स्वानंदनाथस्य मनोऽतिसौख्यदौ । हस्तौ तथा रक्तसुतेजसा युतौ वामौ हृदा दक्षिणकौ तु चिंतये ॥१५॥ करांगुलीर्विंशतिकाः सुवर्तुला नखैः सुरक्तैश्च सुतेजसा युताः । गणेश्वरस्यैव हृदि प्रचिंतये स्वभक्तरक्षाकरिकाः सुभूषिताः ॥१६॥ मुखं तु शुंडायुतमेव चिंतये त्रिनेत्रयुक्तं परमप्रकाशकम् । सदैक- दंतस्य च तीक्ष्णदंतकं स्वभक्तकान् प्रेमरसेन सौख्यदम् ॥१७॥ कर्णौ विशालौ हृदि चिंतये परौ भक्ताय निष्कामसुकामदौ तथा । शूर्पाकृती चंचलभावधारिणौ विघ्नेश्वरस्यैव च वेदरूपिणौ ॥१८॥ कपोलकौ षट्पदरूपधारिभिर्मुनीश्वरैरंघ्रिमद- द्रवार्थिभिः । सुसंवृतौ नादयुतैर्निरंतरं गणेश्वरस्यैव हृदा विचिंतये ॥१९॥ भालं सुतेजोयुतमेव चिंतये श्रीढुंढिराजस्य

खं. ५ अ. ४४ पान १०७ निशाकरस्थलम् । रक्ताष्टगंधैश्च सुचित्रितं प्रभोर्बिंदुप्रयुक्तं त्वथ तंडुलैर्युतम् ॥२०॥ केशैः समाच्छादितमस्तकं तथा सं चिंतये विघ्नविनाशकारिणः । ब्रह्मांडमूले प्रभुमस्तकाश्रिते कुंभस्थले ब्रह्मवरस्य सौख्यदे ॥२१॥ गणेशदेहं परिचिंतयाम्यहं सुभूषणैर्भूषितकं विचित्रकैः । अनर्घमूल्यैश्च सुवस्त्रकैस्तथा सुशोभितं ब्रह्मवरस्य सर्वदा ॥२२॥ विचित्रगंधैः परिलेपितं तथा सुचित्रितं भक्तवरैः सुयोगिभिः । गणाधिपं साधु हृदि स्थितं सदा विचिंतयेऽहं निजभक्तिलालसम् ॥२३॥ पाशांकुशाद्यैश्च सुसंस्तुतं परं ढुंढिं प्रमोदादिभिरेव नित्यदा । गणेश्वरं देववरैस्तथोंदुरराजेन पूज्यं च सुचिंतये हृदि ॥२४॥ वेदैः पुराणैः स्मृतिभिश्च शास्त्रकैः स्तोत्रैः स्तुतं देहधरैर्विचिंतये । ब्रह्मप्रियाद्यैश्च गणैरसंख्यकैर्भक्त्या तथा मुद्गलमुख्यकैः परम् ॥२५॥ सर्वांगसंशोभनरूपयुक्तया सिद्ध्या गणेशं परिचिंतये हृदि । संसेवितं वामगया सुशक्तिभिः सिद्ध्यादिभिः संवृतया स्वमायया ॥२६॥ बुद्ध्या कलाभिश्च सुसेवितं तथा विद्याभिराराद्गणनायकं हृदि । सर्वांगसंशोभनया स्वमायया संचिंतये दक्षिणभागभूषया ॥२७॥ लक्षेण लाभेन च विघ्ननायकं संसेवितं शोभनशोभनेन तु । संचिंतये पुत्रवरेण सर्वदा ब्रह्मेश्वरं भक्तजनैः स्वधामगैः ॥२८॥ अनंतमंत्रैः कथितं स्वरूपकं विचिंतये वक्तुमशक्यभावतः । हृदि स्थितं ध्यानसुलोलुपं परं गणेश्वरं ब्रह्ममयागधारिणम् ॥२९॥ मुद्गल उवाच । एवमैलः स राजर्षिर्गणेशभजने रतः । ध्यानं कृत्वा सदाऽतिष्ठद्गणेशस्य निवृत्तितः ॥३०॥ प्रातः काले समुत्थाय सस्त्रीकः स महीपतिः । धर्मयुक्तं चकाराऽपि नित्यं कर्म निरंतरम् ॥३१॥ ततो गणेश्वरं भक्त्याऽपूजयद्भक्तिसंयुतः । यथा गार्ग्येण भो दक्ष शिक्षितः स तथाऽकरोत् ॥३२॥ शमीमंदारदूर्वाश्चापूजयद्भक्तिसंयुतः । प्रार्थ्य पत्रांकुरायँ स पुष्पं चैवाऽऽचिनोन्नृपः ॥३३॥ दक्ष उवाच । शमीमंदारदूर्वाणां पूजनं वद मुद्गल । सिद्धेर्बुद्धेश्च विप्रेंद्र सुतयोर्लक्षलाभयोः ॥३४॥ शमीमंदारदूर्वाणां प्रार्थना कीदृशी भवेत् । तां कृत्वा पुष्पपत्रादींश्चिनोम्यहं त्वदाज्ञया ॥३५॥ केन मंत्रेण योगींद्र शमीमंदारकांस्तदा । नरोत्तमो गणेशाय परेशाय समर्पयेत् ॥३६॥ मुद्गल उवाच । शृणु दक्ष महाप्राज्ञ गाणपत्यपरायण । संतुष्टोऽहं विशेषेण प्रश्नेन च वदामि ते ॥३७॥ गणेशस्यैव मंत्रेण पूजनीया इमे मताः । वस्तुभिर्गाणपत्यैश्च अभवंस्तोषसंयुताः ॥३८॥ स्त्रीपुंभावात्मकं दक्ष नास्ति तत्र विचारतः । गकारः सिद्धिरूपश्च णकारो बुद्धिरुच्यते ॥३९॥ तयोः स्वामी गणेशः स त्रेधारूपधरो बभौ । गणास्तस्य तथा पूज्या गाणपत्यैश्च मंत्रकैः ॥४०॥ गकाराद्विंबभावाख्यो लक्षः पुत्रः प्रकथ्यते । तथा गकाररूपाद्वै लाभस्तौ तन्मयौ

मतौ ॥४१॥ शमीमंदारकौ दक्ष वरदानाद्विशेषतः । गणेशाकाररूपौ तौ भावयेन्नात्र संशयः ॥४२॥ दूर्वां देवीं गणेशस्य मंत्रेणापूजयेन्नरः । अथवा वैदिकैर्मन्त्रैः कांडादिभिः प्रपूजयेत् ॥४३॥ नाममंत्रेण शूद्रस्तान् पूजयेत् सर्वभावतः । एतद्देव रहस्यं ते कथितं सर्वमंजसा ॥४४॥ प्रार्थनां ते प्रवक्ष्यामि शृणु दक्ष महामते । स्नानयुक्तो वनं गत्वाऽथवा पुरे स्वमंदिरे ॥४५॥ यत्र दूर्वा च मंदारः शमी तिष्ठति तत्र सः । गत्वा प्रणम्य तानादौ प्रार्थयेद्भक्तिसंयुतः ॥४६॥ दूर्वेऽन्नब्रह्मरूपे चामृतरूपे शतांकुरे । गणेशप्रीणनार्थाय चिनोमि त्वां क्षमस्व भोः ॥४७॥ शमी सर्वप्रदे देवि गणेशरूपधारिणि । चिनोमि त्वां गणेशस्य प्रीणनाय नमाम्यहम् ॥४८॥ मंदारवाञ्छितार्थस्य दातर्विघ्नेशरूपक । क्षमस्व प्रीणनार्थाय गणेशस्य चिनोम्य- ऽहम् ॥४९॥ एवं प्रार्थ्य प्रजानाथ शमीमंदारकौ पुरा । दूर्वापत्राणि पुष्पाणि विस्रं ह्यानाय्य पूजयेत् ॥५०॥ सहस्रनाममंत्रैश्च अष्टोत्तरशतैर्नरः । एकविंशतिकैश्चैव नामभिस्ताः समर्पयेत् ॥५१॥ अथवा मूलमंत्रेण नाममंत्रेण वा तथा । गाणेशैर्विविधै- र्मंत्रैर्दूर्वादीनि समर्पयेत् ॥५२॥ एतत्ते कथितं सर्वं रहस्यं पावनात्मकम् । गाणपत्यप्रदं पूर्णं किं भूयः श्रोतुमिच्छसि ॥५३॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते ध्यानंदूर्वादिपूजाविधिवर्णनं नाम चतुश्चत्वारिंशत्तमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । गणेशकीलकं ब्रह्मन् वद सर्वार्थदायकम् । मंत्रादीनां विशेषेण सिद्धिदं पूर्णभावतः ॥१॥ मुद्गल उवाच । कीलकेन विहीनाश्च मंत्रा नैव सुखप्रदाः । आदौ कीलकमेवं वै पठित्वा जपमाचरेत् ॥२॥ तदा वीर्ययुता मंत्रा नानासिद्धिप्रदायकाः । भवंति नात्र संदेहः कथयामि यथाश्रुतम् ॥३॥ समादिष्टं चांगिरसा मह्यं गुह्यतमं परम् । सिद्धिदं वै गणेशस्य कीलकं शृणु मानद ॥४॥ अस्य श्रीगणेशकीलकस्य । शिव ऋषिः । अनुष्टुप् छंदः । श्रीगणपतिर्देवता । ॐ गं योगाय स्वाहा । ॐ गं बीजम् । विद्याऽविद्याशक्तिगणपतिप्रीत्यर्थे जपे विनियोगः । छंदऋष्यादिन्यासांश्च कुर्यादादौ तथा परान् । एकाक्षरस्यैव दक्ष षडंगानाचरेत् सुधीः ॥५॥ ततो ध्यायेद् गणेशानं ज्योतीरूपधरं परम् । मनोवाणीविहीनं च चतुर्भुजविराजितम् ॥६॥ शुंडादंडमुखं पूर्णं द्रष्टुं नैव प्रशक्यते । विद्याऽविद्यासमायुक्तं विभूतिभिरुपासितम् ॥७॥

शीर्षक (Header): [L0a] खं. ५ अ. ४५ [L0b] पान १०९


एवं ध्यात्वा गणेशानं मानसैः पूजयेत् पृथक् । पंचोपचारकैर्दक्ष ततो जपं समाचरेत् ॥८॥ एकविंशतिवारं तु जपं कुर्यात् प्रजापते । ततः स्तोत्रं समुच्चार्य पश्चात् सर्वं समाचरेत् ॥९॥ रूपं बलं श्रियं देहि यशो वीर्यं गजानन । मेधां प्रज्ञां तथा कीर्तिं विघ्नराज नमोऽस्तु ते ॥१०॥ यदा देवादयः सर्वे कुंठिता दैत्यपैः कृताः । तदा त्वं तान् निहत्य स्म कुरुषे वीर्यसंयुतान् ॥११॥ तथा मंत्रा गणेशान कुंठिताश्च दुरात्मभिः । शापैश्च तान् सवीर्यांस्ते कुरुष्व त्वं नमो नमः ॥१२॥ शक्तयः कुंठिताः सर्वाः स्मरणेन त्वया प्रभो । ज्ञानयुक्ताः सवीर्याश्च कृता विघ्नेश ते नमः ॥१३॥ चराचरं जगत् सर्वं सत्ताहीनं यदा भवेत् । त्वया सत्तायुतं ढुंढे स्मरणेन कृतं च ते ॥१४॥ तत्त्वानि वीर्यहीनानि यदा जातानि विघ्नप । स्मृत्या ते वीर्ययुक्तानि पुनर्जातानि ते नमः ॥१५॥ ब्रह्माणि योगहीनानि जातानि स्मरणेन ते । यदा पुनर्गणेशान योगयुक्तानि ते नमः ॥१६॥ इत्यादि विविधं सर्वं स्मरणेन च ते प्रभो । सत्तायुक्तं बभूवैव विघ्नेशाय नमो नमः ॥१७॥ तथा मंत्रा गणेशान वीर्यहीना बभूविरे । स्मरणेन पुनर्दुंढे वीर्ययुक्तान् कुरुष्व ते ॥१८॥ सर्वं सत्तासमायुक्तं मंत्रपूजादिकं प्रभो । मम नाग्ना भवतु ते वक्रतुंडाय ते नमः ॥१९॥ उत्कीलय महामंत्रान् जपेन स्तोत्रपाठतः । सर्वसिद्धिप्रदा मंत्रा भवंतु त्वत्प्रसादतः ॥२०॥ गणेशाय नमस्तुभ्यं हेरंबायैकदंतिने । स्वानंदवासिने तुभ्यं ब्रह्मणस्पतये नमः ॥२१॥ गणेशकीलकमिदं कथितं ते प्रजापते । शिवप्रोक्तं तु मंत्राणामुत्कीलनकरं परम् ॥२२॥ यः पठिष्यति भावेन जप्त्वा ते मंत्रमुत्तमम् । स सर्वसिद्धिमाप्नोति नानामंत्र- समुद्भवाम् ॥२३॥ एनं त्यक्त्वा गणेशस्य मंत्रं जपति नित्यदा । स सर्वफलहीनश्च जायते नाऽत्र संशयः ॥२४॥ सर्वसिद्धिप्रदं प्रोक्तं कीलकं परमाद्भुतम् । पुराऽनेन स्वयं शंभुर्मंत्रजां सिद्धिमालभत् ॥२५॥ विष्णुब्रह्मादयो देवा मुनयो योगिनः परे । अनेन मंत्रसिद्धिं ते लेभिरे च प्रजापते ॥२६॥ ऐलः कीलकमाद्यं वै कृत्वा मंत्रपरायणः । गतः स्वानंदपुर्यां स भक्तराजो बभूव ह ॥२७॥ सस्त्रीको जडदेहेन ब्रह्मांडमवलोक्य तु । गणेशदर्शनेनैव ज्योतीरूपो बभूव ह ॥२८॥ दक्ष उवाच । ऐलो जडशरीरस्थः कथं देवादिकैर्युतम् । ब्रह्मांडं स ददर्शौव तन् मे वद कुतूहलम् ॥२९॥ पुण्यराशिः स्वयं साक्षान्न्ररकादीन् महामते । अपश्यच्च कथं सोऽपि पापिदर्शनयोग्यान् ॥३०॥ मुद्गलवाच । विमानस्थः स्वयं राजा कृपया तान् ददर्श ह । गाणेशानां जडस्थश्च शिवविष्णुमुखान् प्रभो ॥३१॥ स्वानंदगे विमाने ये संस्थितास्ते शुभाशुभे । योगरूपतया सर्वे दक्ष पश्यंति चांजसा ॥३२॥ एतत्ते कथितं सर्वमैलस्य चरितं शुभम् । यः शृणोति स वै मर्त्यो मुक्ति

मुक्तिं लभेत् ध्रुवम् ॥३३॥ खंडं लंबोदरस्यैतद्यः शृणोति नरोत्तमः । पठति ब्रह्मभूतः श्रावयते जायते स्वयम् ॥३४॥ नानेन सदृशं किंचिद्भक्तिमुक्तिप्रदं मतम् । योगरूपो महाभाग यत्र लंबोदरः स्तुतः ॥३५॥ नानाश्रुतिस्मृतीनां यच्छ्रवणेन फलं लभेत् । तदस्यैकस्य खंडस्य श्रवणेन भवेदिह ॥३६॥ नानादानानि ये दद्युस्तीर्थेषु स्नानकारकाः । तेभ्यः शताधिकं पुण्यं लभेदस्य तु संश्रयात् ॥३७॥ व्रतानि यज्ञकान् सर्वान् कुरुते मानवः प्रभो । अस्य श्रवणमात्रेण लभेत् तस्माच्छता- धिकम् ॥३८॥ नानातपांसि सर्वाणि यः करोति नरोऽसकृत् । अस्य श्रवणमात्रेण लभेत् पुण्यमपार कम् ॥३९॥ पुत्रपौत्रादि- संयुक्तो धनधान्यादिभाग्यवान् । श्रवणेन नरः सद्यो भवत्यत्र न संशयः ॥४०॥ यद्यदिच्छति तत्तत्तु सफलं जायते क्षणात् । श्रवणेन प्रजानाथ खंडस्यास्य न संशयः ॥४१॥ बहुनात्र किमुक्तेन साक्षाद्योगप्रदः परः । सर्वसिद्धिप्रदः खंडः कथितस्ते प्रजापते ॥४२॥ इदं लंबोदरस्यैव चरितं सर्वसिद्धिदम् । कथितं ते समासेन किं भूयः श्रोतुमिच्छसि ॥४३॥ सूत उवाच । यथा दक्षाय विप्रेश मुद्गलेन प्रकाशितम् । मया तव तथाग्रेऽपि कथितं भार्गवाग्रणीः ॥४४॥ चरितं शौनकाद्याश्च श्रुतं लंबोदरस्य यत् । धन्योऽहं भवतां योगाद्गणेशचरिते रतः ॥४५॥ विस्तरेण शिवाद्याश्च वेदाद्याः शेषमुख्यकाः । नैव वर्णयितुं शक्ता बभूवुस्तत्र कोप्यहम् ॥४६॥ व्यासेन कथितं सर्वं चरितं यादृशं पुरा । तादृशं कथितं विप्र श्रोतुमिच्छसि किं पुनः ॥४७॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते श्रवणमाहात्म्यवर्णनं नाम पंचचत्वारिंशत्तमोऽध्यायः ॥ ॥ श्रीगजाननार्पणमस्तु ॥

॥ इति श्रीमुद्गलपुराणे पंचमः खंडः समाप्तः ॥