भारतकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

[Header] पान ५६

[Main Text] साक्षाद्गणेश्वरस्यैव देहो योगमयोऽमराः। न तस्य बाधते किंचित् मृत्यरूपमिदं कदा॥१०॥ लोकानामुपकाराय जलपृथ्व्यादिकं तथा। रचितं सर्वसामान्यं तत्र वासेन लभ्यते॥११॥ गणेशः सर्वयोगानामधिपो नात्र संशयः। न गणेशस्वरूपस्य विक्रिया जायते ततः॥१२॥ योगरूपे नरास्तत्र निश्चये न मृताः किल। गाणेशे संभविष्यंति तदाकारा न संशयः॥१३॥ तथा नरादयश्चान्ये वसंति क्षेत्रवासिनः। कुर्वंति मलमूत्रादि देवादीनां न बाधते ॥१४॥ देवविप्रादयस्तत्र संस्थिता व्याप्य देवपाः। अंगुष्ठपर्वमात्रेण रूपेण क्षेत्रवासिनः ॥१५॥ मयूरं तन्मयं क्षेत्रं ज्ञातव्यं दिव्यचक्षुषा। मृन्मयं मानवानां तु तद्दोषस्तत्र नो भवेत्॥१६॥ तथापि मृन्मये क्षेत्रे गर्भागारं विशेषतः। मलमूत्रादिदोषैश्च संयुक्तं नैव कारयेत्॥१७॥ तेन सर्वं शुभं सर्वैर्लभ्यते मानवैः परम्। यथा धर्मयुतैर्नित्यं सेवनीयं मयूरकम्॥१८॥ भवेद्द्विपथभावेन मयूरे संस्थितो यदि। स यातनां लभेच्चोग्रां नग्नभैरवकारिताम्॥१९॥ देवेशा ऊचुः। गर्भागारे मलस्यैव नरस्त्यागं समाचरेत्। तस्मै भैरवदत्तां तां यातनां कीदृशीं वद ॥२०॥ मयूरे पापकर्माणि यः करोति तु मानवः। स भुंक्ते यातनां विप्र कीदृशीं तां वदख नः ॥२१॥ मयूरं केन पुण्येन लभ्यते तद्वदस्व च। क्षेत्रसंन्यासिनां चैव द्वारयात्रां किमात्मिकाम्॥२२॥ भृशुंड्युवाच। इतिहासं प्रवक्ष्यामि पुराकल्पसमुद्भवम्। तेन संशयहीनाश्च भविष्यथ सुरोत्तमाः॥२३॥ देवागारे द्विजः कश्चिद्देवानीकेति नामतः। अत्रिगोत्रोद्भवः सुज्ञः संस्थितोऽभूत् सुकर्मवान्॥२४॥ स्वधर्मसंयुतो नित्यं सिषेवे गणनायकम्। देवविप्रातिथिप्रेप्सुः क्षेत्रयात्रापरायणः ॥२५॥ एवं बहौ गते काले वृद्धस्तत्र बभूव ह। तथापि नित्ययात्रायां रतो- ऽभूद् धर्मधारकः॥२६॥ एकदा ज्वरयुक्तश्चाजीर्णानेन प्रपीडितः। जगाम स मयूरेशं पूजनाय महायशाः॥२७॥ पूजयित्वा गणेशानं नित्ययात्रां चकार ह। तत्रापानभवो वायुः पीडयन्नतिदूषितः॥२८॥ हठात् संगृह्य विप्रस्तं त्यक्त्वा यात्रां महामतिः। स्वगृहं प्रजगामाऽसौ त्वरायुक्तोऽतिदुःखितः ॥२९॥ गच्छतोऽजीर्णदोषेणातिसारेण महात्मनः। मलः शिथिलभावेन निःस्रुतो गर्भमंदिरे ॥३०॥ ततोऽतिदुःखसंयुक्तः स्नानं चक्रे स वाडवः। शनैः स्वगृहमागम्य शोकयुक्तो बभूव ह॥३१॥ अहो मयाऽतिमूर्खेण गर्भागारे कृतं परम्। मल्यागभवं पापं का गतिर्मे भविष्यति॥३२॥ ततस्तत्र ममारैव स्वल्पकालेन विप्रपः। रोगेण पीडितोऽत्यंतं देवानीको महायशाः॥३३॥ ततस्तं भैरवस्यापि दूता नेतुं समागताः। बद्ध्वा संताड्य विप्रं संगृह्य ते भैरवं ययुः॥३४॥ दृष्ट्वा स भैरवो देवस्तमुवाच द्विजाधमम्। किमर्थं रोगयुक्तस्त्वं गर्भागारं गतो वद ॥३५॥

खं. ६ अ. २० | पान ५७ अत्यसाध्यशरीरेण गमनं यत्त्वया कृतम् । भुंक्ष्व पापं महादुष्ट मलत्यागभवं परम् ॥३६॥ साक्षाद्गणपतेः स्थाने गर्भागारे गतो भवान् । तस्य मस्तकमध्ये तु पपात किल ते मलः ॥३७॥ अस्माभिश्च सुवासेन जलेन क्षालितं तदा । मस्तकं तस्य देवस्य विष्ठायुक्तं तया कृतम् ॥३८॥ इत्युक्त्वा क्रूररूपं स दर्शयामास भैरवः । देवानीकाय तं सोऽपि दृष्ट्वा मूर्च्छामवाप ह ॥३९॥ ततस्तं सावधानं स पुनः कृत्वाऽग्निचक्रगम्। चकार दूतवर्यैश्च नग्नभैरव एव च ॥४०॥ अग्निचक्रे द्विजो नित्यं दाहयुक्तो बभूव ह । बभ्राम देवमुख्याश्च हाहाकाररवाकुलः ॥४१॥ भैरवाणां महावह्निर्मतः कोटिगुणाधिकः । यमस्याग्रेश्च जंतूनां तं स्प्रष्टुं कः क्षमो भवेत् ॥४२॥ शतवर्षाणि विप्रेशोऽग्निचक्रं तत् समाश्रितः । बभ्राम दाहसंयुक्तो न ममार स मायया ॥४३॥ भैरवेण निबद्धः स दुःखमेव सुदारुणम् । बुभुजे ब्राह्मणस्तत्र मया वक्तुं न शक्यते ॥४४॥ ततो हैमगुहायां स निक्षिप्तो ब्राह्मणाधमः । शतवर्षाणि तत्रैवाभवच्छैलेन पीडितः ॥४५॥ ततः स रौरवे तेन निक्षिप्तो जंतुभिस्तथा । दंशितस्तत्र संस्थश्च कोटिवृश्चिकसन्निभैः ॥४६॥ शतवर्षाणि तत्रैव पीडितस्तेन दारुणम् । ततस्तप्तशिलायां स पोथितोऽभूत् पुनः पुनः ॥४७॥ शतवर्षाणि तत्रैव यातनां बुभुजे पराम् । ततः पिशाचयोनिस्थः क्षेत्रे पीडायुतोऽभवत् ॥४८॥ अन्नवस्त्रजलादिभ्यो हीनो बभ्राम वाडवः । अशुचीन् स नरान् प्राप्य तद्देहस्थो बभूव ह ॥४९॥ तत्रैव शास्त्रमंत्रेण वैदिकेन द्विजोत्तमैः । ताडितस्तान् परित्यज्य बभ्राम यत्र तत्र ह ॥५०॥ एवं वर्षाणि देवेशाः शतं कृत्वा पुनश्च तम्। आनाय्य भैरवो देवो जगाद वचनं हितम् ॥५१॥ देवानीक त्वया भक्त्या यात्रार्थं गर्भमंदिरम् । अशक्तेन कृतं चैव मलयुक्तं महामते ॥५२॥ तेन त्वं पंचशतकं वर्षाणां यातनाभवम् । दुःखं भुक्त्वा महाविप्राऽधुना तं गणपं व्रज ॥५३॥ इत्युक्त्वा तं महेशाना ब्रह्मभूतं चकार ह । एवं वः कथितं तत्र मलत्यागे महद्भयम् ॥५४॥ यदि स्वाधीनदेहश्चेत् ज्ञात्वा गर्भालये मलम् । त्यजेत् सोऽपि नरः पूर्णां यातनां प्रलभेत् पराम् ॥५५॥ इदं श्रुत्वा नरो यस्तु त्रासयुक्तो भवेत् कदा । तदारभ्य मलत्यागं न कुर्यात् स लभेद्गतिम् ॥५६॥ तं निर्भर्त्स्य महा क्रूरा भैरवा यातनाभवम् । दर्शयित्वा महत् दुःखं ब्रह्मभूतं तु चक्रिरे ॥५७॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते मलत्यागयातनाकथनं नाम विंशतितमोऽध्यायः ॥

ख ६ अ. २१ | पान ५८ ॥ श्रीगणेशाय नमः॥ भुशुंड्युवाच। विकर्मकारिणां क्षेत्रे कथयिष्यामि चाधुना। यथा दंडः स्वहस्तैश्च क्रियते भैरवैर्महान् ॥१॥ मयूरे क्षत्रियः कश्चिद्वासं कृत्वा स्थितोऽभवत्। गत्वा वनांतरे लोकान् हत्वा द्रव्यं समग्रहीत् ॥२॥ कुटुंबपोषणे सक्तः शिश्नोदरपरायणः। चकार विविधं पापं क्षेत्रे मायूरसंज्ञिते ॥३॥ परस्त्रियं बलाद् गृह्यायभक्तां निरपत्रपः। जातिभेदादिकं सोऽपि मान्यं नैव चकार ह ॥४॥ भगिनीमेकलां दृष्ट्वा कदा मदेन विह्वलः। हठात् गृह्य महेशानो बुभुजे कामनायुतः ॥५॥ चौरादीनि चकारापि ब्रह्महत्यां तथा खलः। गोस्त्रीवधादिकं दुष्टः किं वदामि विशेषतः ॥६॥ गणेशं न पुपूजासौ कदाचिदमरान् परान्। यात्रां नैव चकारापि पापनिष्ठो ममार ह ॥७॥ भैरवास्तं समागृह्य बद्ध्वा ताड्य नराधमम्। निन्युः स्वस्थानगं ते तु नग्नं भैरवनायकम् ॥८॥ क्षत्रियोऽथ महाक्रूरं दृष्ट्वा भैरवनायकम्। हाहा कृत्वा पपाताऽसौ मूर्च्छितो धरणीतले ॥९॥ सावधानं ततः कृत्वा मायया नग्नभैरवः। मृतिर्मूर्च्छाविहीनं च दुष्टं चकार सर्वपः ॥१०॥ तंतस्तं गृह्य दूतास्ते भैरवस्य महात्मनः। अग्निकुंडेषु संक्षिप्य दाहयामासुरंजसा ॥११॥ सहस्रे ते तं गतेषु वर्षेषु क्रोधसंयुतः। अग्नि- चक्रे समाक्षिप्य भ्रामयामासुरंजसा ॥१२॥ हाहाकाररवैर्युक्तो बभ्रामाग्नौ नराधमः। न ममार न मूर्च्छां सोऽलभद्वैरव- मायया ॥१३॥ ततः सहस्रवर्षांते हैमकुंडे समाक्षिपन्। भैरवास्तं महादुष्टं शीतैश्चक्रुः प्रपीडितम् ॥१४॥ ततः सहस्रवर्षांते शिलायां स्थाप्य मुद्गरैः। चूर्णयामासुरुग्रैस्तं खलं कंटकसंयुतैः ॥१५॥ एवं गतानि वर्षाणि सहस्रं देवसत्तमाः। ततो याम्यां ददुस्तस्मै यातनां दारुणां पराम् ॥१६॥ रुरुजंतुभिरादष्टो रौरवेऽभून्नराधमः। स सहस्रं वर्षकाणि महोग्रैर्वह्नि- सन्निभैः ॥१७॥ ततस्तैलकटाहेशु संतप्तेषु च तं भटाः। चिक्षिपुर्दारुणां सोऽपि वेदनां बुभुजे पराम् ॥१८॥ ततः सहस्र- वर्षांते तप्तवालुभिरेव तम्। आच्छाद्य स्थापयामासुर्भैरवाः क्षत्रियाधमम् ॥१९॥ सहस्रं तत्र वर्षाणि बुभुजे दुःखमुल्बणम्। ततः स पपात पिशाचयोन्यां दुःखसंयुतः ॥२०॥ क्षुधा तृषा समायुक्तः सदा शीतोष्णभावकैः। बभ्राम क्षेत्रमध्ये स पीडितो यत्र तत्र च ॥२१॥ तत्र तं देवदूताश्च दृष्ट्वा स्वनिकटे स्थितम्। तदा दंडादिभिः सर्वे ताडयामासुरोजसा ॥२२॥ वेदशास्त्रध्वनिं श्रुत्वा होमधूमादिकं तथा। पपाल दुःखसंयुक्तो मंत्रशस्त्रभयात् कदा ॥२३॥ त्रीणि वर्षसहस्राणि भुक्त्वा दुःखं ततः परम्। भैरवैश्च समानीतो ननाम नग्नभैरवम् ॥२४॥ शुद्धस्तेन समानीतो गणेशस्यैव मंदिरे। गणे- श्वरं तत्र दृष्ट्वा ब्रह्मभूतो बभूव ह ॥२५॥ एवं पापप्रचारान् संदंड्य ब्रह्ममयं पुनः। चक्रुः क्षेत्रे मृतत्वात् कथयितुं शक्यते

खं. ६ अ. २१ पान ५९ न वै ॥२६॥ अन्यं पापकृतः कर्म दाहकं विधिमुत्तमम् । कथयामि समासेन शृणुध्वं शिवमुख्यकाः ॥२७॥ ब्राह्मणः काश्यपः कश्चित् मयूरे संस्थितोऽभवत् । चौर्यमद्यादिकं सोऽपि चकार नित्यमादरात् ॥२८॥ परस्त्रीलंपटः सोऽपि शिश्नो- दरपरोऽभवत् । ब्रह्महत्यां द्रव्यलोभाच्चकार काश्यपोऽधमः ॥२९॥ ज्ञात्वा राज्ञा द्विजस्यैवाहृत्य सर्वं पुनर्द्विजम् । बद्ध्वा क्षेत्राद्बहिश्चक्रे नरैर्धर्मपरायणैः ॥३०॥ ततो द्विजो विलप्यैव कृत्वा शपथमागतः । मयूरं तत्र लोकैः स द्वारयात्रा परो- ऽभवत् ॥३१॥ द्वारयात्रारतं दृष्ट्वा लोकास्तं मेनिरे पुनः । ब्राह्मणं श्रद्धया युक्ता वस्त्रान्नं च ददुः परम् ॥३२॥ चतुर्द्वारमयीं यात्रां चकार ब्राह्मणाधमः । पंचम्यां पारणं चक्रे षष्ठ्यां सर्पेण दंशितः ॥३३॥ मृतं मयूरक्षेत्रे तं विषोग्रेण प्रपीडितम् । संगृह्य भैरवाः सर्वे नग्नभैरवमाययुः ॥३४॥ यातनागारकं देवो दर्शयामास भीतिदम् । तस्मै पुनश्च विघ्नेशं दर्शयामास देवपाः ॥३५॥ दृष्ट्वा गणपतिं सोऽपि ब्रह्मभूतो बभूव ह । क्षेत्रे कृतं महत्पापं द्वाराणां यात्रया गतम् ॥३६॥ अन्यच्च शृणुत प्राज्ञा मयूरे चरितं भवम् । पुरा कल्पे समासेन कथयामि महेश्वराः ॥३७॥ दंडकारण्यदेशे तु ब्राह्मणोऽत्रिकुलो- द्भवः । बाल्यात् प्रारभ्य दुर्बुद्धिः पापकर्मपरोऽभवत् ॥३८॥ नाम्ना देवाः सुप्रतीको द्रव्यलोभी बभूव ह । चौर्यद्रव्यं जनानां संगृह्य भोगान् बुभोज च ॥३९॥ कदा सप्तपुरीणां च यात्रार्थं जग्मुरादरात् । चतुर्वर्णजनाः सोऽपि तेषां मध्ये जगाम ह ॥४०॥ द्रव्यलोभी जनानां च चौर्यद्रव्यं समग्रहीत् । एवं बहुधनस्तत्र जातोऽसौ ब्राह्मणाधमः ॥४१॥ कृत्वा सप्तपुरीणां ते यात्रां पुनः समाययुः । स्वदेशं तैः समायुक्तः सोऽपि स्वगृहमाययौ ॥४२॥ ततः स्त्रीपुत्रकान् स्वस्य मंडया- मास भूषणैः । चचार तीर्थगो भूत्वा कदाचिच्चौर्यकारणात् ॥४३॥ द्विजः पौराणिकं दृष्ट्वा पुराणकथने रतम् । चौर्यार्थं तत्र पापात्मा जनमध्ये समास्थितः ॥४४॥ ततो मयूरक्षेत्रस्य माहात्म्यं स्कांदसंभवम् । शुश्राव सुप्रतीकश्च जनैः सर्वैर्महेश्वराः ॥४५॥ मयूरक्षेत्रमाहात्म्यश्रवणेन दुरात्मनः । द्विजस्य बुद्धिभेदो वै बभूवे दैवयोगतः ॥४६॥ स तु तत्र चकारापि विचारं मानसे परम् । अहो मया द्विजेनैव किं कृतं पापमुल्बणम् ॥४७॥ विषादिना हता लोका ब्राह्मणाद्या मया बहु । तीर्थेषु चौर्यहत्यादि पापं तु प्रकृतं मया ॥४८॥ काश्यां प्रदक्षिणायां तु पंचक्रोश्यां मया परम् । पापं कृतम- पारं वै का गतिर्मे भविष्यति ॥४९॥ मद्धिना ब्राह्मणः कश्चिदीदृशो न भवेत् कदा । यो ब्रह्मणि रतः सर्वो ब्राह्मणस्तेन कथ्यते ॥५०॥ एकांतगं ततः पौराणिकं गत्वा द्विजाधमः । उवाच तं प्रणम्यादौ कृत्वा करपुटं वचः ॥५१॥ सुप्रतीक उवाच ।

सर्वतीर्थेषु क्षेत्रेषु पापं दुष्टः समाचरेत् । वज्रलेपं तदेवाऽपि कुत्र नाशं गमिष्यति ॥५२॥ पौराणिक उवाच । सप्तपुर्यादिक्षेत्रेषु नरः पापं समाचरेत् । तन् मयूरक्षेत्र एव प्रवेशेन लयं व्रजेत् ॥५३॥ चतुर्विधानि क्षेत्राणि सर्वत्र ब्रह्मगोलके । धर्मार्थकाममोक्षाणां प्रदानि सेवतां द्विज ॥५४॥ पंचमं ब्रह्मभूताख्यं मयूरं नात्र संशयः । तत्र पापं कृतं चेद्वै वज्रलेपतमं भवेत् ॥५५॥ एवं तस्य वचः श्रुत्वा तं प्रणम्य समाययौ । गृहं दारादि संगृह्य मयूरेशं जगाम ह ॥५६॥ यथाविधि चकाराऽसौ यात्रां क्षेत्रसमुद्भवाम् । द्वारादिचिह्नितां सोऽपि निवासमकरोत्ततः ॥५७॥ देवागारं समाश्रित्याऽभजत्तं गणनायकम् । अंते पापविहीनः स ब्रह्मभूतो बभूव ह ॥५८॥ एवं नाना जनास्तत्र पतितानां महेश्वराः। पतिताः पापहीनाः प्रवेशे जाता मयूरके ॥५९॥ अधुना कथयिष्यामि चरित्रं यत् पुरातनम् । श्रुत्वा संशयहीनास्तं मयूरेशं भजंति वै ॥६०॥ वैश्यो धर्मध्वजो नाम द्रव्यलोभी बभूव ह । विषेण पितरं सोऽपि मारयामास लोभतः ॥६१॥ नाना- द्विजादिकान् सोऽपि वंच पूज्यान् दुरात्मवान् । विषेण मारयामास नित्यं द्रव्यार्थमुल्बणः ॥६२॥ स कदाचिद्वणिग्भिश्च क्रयविक्रयकारणात् । जगाम दंडकारण्ये जनैः सह महाखलः ॥६३॥ तत्र माघे महायात्रां जग्मुर्लोका विशेषतः । मयूरेशं ततः सोऽपि तैर्जगाम सुहर्षितः ॥६४॥ द्रव्यलोभार्थमानंदात् पुरं मायूरमाययौ । तत्र प्रवेशमात्रेण तं च पापानि तत्यजुः ॥६५॥ बहिः स्थितानि पश्यंति यदाऽसावागमिष्यति । तदा पुनः प्रवेशं वै करिष्यामो नराधमम् ॥६६॥ तत्र दैव- प्रसंगेन न पापानि चकार ह । यथाविधि तथा यात्रां चक्रे हर्षसमन्वितः ॥६७॥ पुनर्मानवसंघैः स निर्जगाम महेश्वरः । मयूरेशं परित्यज्य मार्गसंस्थो बभूव ह ॥६८॥ तं दृष्ट्वा तस्य पापानि शुद्धं यात्राविधानतः । स्प्रष्टुं तान्यसमर्थानि बभूवु- र्दैवसत्तमाः ॥६९॥ ततः पापानि सर्वाणि विचारं चक्रुरादरात् । अहो यः क्षेत्रगो भूत्वा पापानि कुरुते सदा ॥७०॥ तथाऽस्माभिर्मयूरेश्यं गत्वा पापं करिष्यति । ज्ञातं तेन महाविघ्नैः पीडितो नैव निश्चितम् ॥७१॥ अधुना शुद्धरूपोऽयं बहिः सदा समागतः । अतः पुण्यानि नित्यं तु करिष्यति विशेषतः ॥७२॥ वयं कुत्र गमिष्यामो विघ्नं कुरुत सर्वतः । येनाऽयं पापकर्माऽपि कुरुते पापमल्पकम् ॥७३॥ किंचित् पापयुतं वैश्यं प्रविश्यामो विशेषतः । ततो महाघसंयुक्तं करि- ष्यामो न संशयः ॥७४॥ एवं विचार्य पापानि पापिनां हृदयेषु च । प्रविश्य तान् समानाय्य वैश्यं तं समपीडयन् ॥७५॥ अकस्माच्चौरमुख्यैश्च द्रव्यं तस्य समाहृतम् । तेनातिदुःखयुक्तो हि धर्मध्वजो बभूव ह ॥७६॥ ततः पापेषु दुर्बुद्धिश्चकार

खं. ६ अ. २२ पान ६१ ह पुनर्मतिम् । एतस्मिन्नंतरे तत्र ब्राह्मणं स ददर्श ह ॥७७॥ तं प्रणम्य स्ववृत्तांतं कथयामास विस्तरात् । श्रुत्वा तं पुन- र्प्याह ब्राह्मणः सर्वमार्गवित् ॥७८॥ त्वया कृतानि पापानि तानि त्वां पीडयंति वै । अतस्त्वं सत्वरो भूत्वा मयूरेशं समाश्रय ॥७९॥ स्वजनैः पुत्रदारादि समानाय्य महामते । तत्रस्थो धर्मसंयुक्तो दुःखहीनो भविष्यसि ॥८०॥ तच्छ्रुत्वा स प्रणम्यादौ तं मयूरेशकं द्विजम् । जगाम त्वरया युक्तस्ततः सर्वान् समानयत् ॥८१॥ मयूरे वैश्यवृत्त्या च धर्मयुक्तः समास्थितः । धर्मध्वजश्चकाराऽसौ गणेशभजनं सदा ॥८२॥ पापानि भोगहीनानि बहिर्मग्नः स्थितान्यपि । धर्मध्वजश्च देवेशा ब्रह्मैवांते बभूव ह ॥८३॥ क्षेत्रं नरेण मायूरं न त्याज्यं तु कदाचन । पीडितेन महादोषैर्मतं तदपि तद्दरम् ॥८४॥ अन्यत्र राज्यभोगस्थोऽथवा स्वर्गस्थ एव सः । मयूरे नीचजातिस्था किंच तेन समो न हि ॥८५॥ आयासेन विहीनत्वाद्व्रह्म- भूतो भवेन्नरः । मयूरे तेन किं तुल्यं भवेद्ब्रह्मांडमंडले ॥८६॥ इदं यः शृणुयाद्देवा श्रावयेद्वा पठेन्नरः । पापहीनः स्वभावेन धर्मयुक्तो भविष्यति ॥८७॥

॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते मयूरे यात्रार्थप्रवेशफलादिवर्णनं नामैकविंशतितमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ भृशुंड्युवाच । अथ वक्ष्यामि देवेशा मयूरप्रापकं महत् । पुण्यं चित्तैकभावेन शृणुध्वं सुखदायकम् ॥१॥ कुत्र आंगिरसे जातो देवप्रिय इति श्रुतः । पुरा कल्पे स धर्मात्मा स्वधर्मनिरतोऽभवत् ॥२॥ गणेशे प्रीति- संयुक्तो गाणपत्यप्रियोऽभवत् । मुक्तिमिच्छन् सदा कर्माणि चकार विधानतः ॥३॥ ततस्तस्य महेशाना बुद्धिः प्रादुर्बभूव ह । तया संप्रेरितस्तीर्थानि क्षेत्राणि चकार ह ॥४॥ शास्त्रे विधिं समाश्रित्य पृथिव्यां मुख्यकानि सः । क्षेत्राणि तीर्थमुख्यानि यात्रया चाकरोद् द्विजः ॥५॥ ततः स्वगृहमागत्य दारापत्यैः समन्वितः । गणेशमभजन्नित्यं भक्तियुक्तेन चेतसा ॥६॥ ततश्च मानसे सोऽपि विचारमकरोत् परम् । अहो मयूरपक्षेत्रं सेवनीयं निरंतरम् ॥७॥ ज्ञात्वा द्विजं समुद्युक्तं दारापत्यैः समन्वितम् । माया तं पीडयामास मयूरे वासभंजनात् ॥८॥ यात्रार्थं तेन यत्किंचित् गृहे द्रव्यादि

खं. ६ अ. २२ पान ६२ संचितम्। तदेव चौरमार्गेण नष्टं मायाप्रभावतः ॥९॥ ततोऽतिविस्मितो भूत्वा खेदयुक्तो बभूव ह। पापयुक्तोऽहमत्यंतं तेन विघ्नयुतः कृतः ॥१०॥ शुक्लवृत्त्या गमिष्यामि मयूरेशं न संशयः। ततो ज्वरसमायुक्तो बभूव ब्राह्मणोत्तमः ॥११॥ निर्जगाम ततः सोऽपि स्वगृहे ज्वरसंयुतः। शुक्लवृत्तिधरो भूत्वा नियम्यात्मानमात्मना ॥१२॥ तृतीये दिवसे तत्र विघ्नेशो विघ्नहारकः। बभूव स द्विजस्याऽपि परं शृणुत चेष्टितम् ॥१३॥ गणेशकृपया विप्रो ज्वरहीनो बभूव ह। ब्राह्मणस्य स्वरूपेण गणेशस्तं समाययौ ॥१४॥ तस्य पुत्रं समाहूय द्रव्यं दत्वा सुपुष्कलम्। अंतर्धानं चकाराऽसौ पुत्र- स्तातं जगाद तु ॥१५॥ ज्ञात्वा देवं विचार्यैव स्वस्थचित्तो बभूव ह। देवप्रियो मयूरेशमाजगाम द्विजोत्तमः ॥१६॥ यात्रादिकं चकाराऽसौ गर्भागारे समाश्रितः। अभजद्गणराजं तमंते तल्लीनतां ययौ ॥१७॥ यानि क्षेत्राणि तीर्थानि ब्रह्मांडॆ सेवितानि चेत्। तदा नरेण मायूरक्षेत्रं लभ्यं महेश्वराः ॥१८॥ देवेशा ऊचुः। चोरादयः समाख्यातास्त्वया ब्रह्मर्षि- सत्तम। किं चक्रुर्येन पुण्येन मयूरेशे लयं ययुः ॥१९॥ भृशुंड्युवाच। पूर्वजन्मनि माहात्म्यं संश्रुतं किंचिदप्यहो। क्षेत्रस्य पापकर्मस्था अंते तत् सस्मरुर्यदि ॥२०॥ अंते स्मरणयोगेन पापिनोऽन्यभवे कदा। ययुः क्षेत्रे मरणतो लयं देवा गणेश्वरे ॥२१॥ गाणेशस्य च मार्गस्य श्रवणं पापचेतसाम्। भवेन्नानाविधस्याऽपि किंचिद्देवेंद्रसत्तमाः ॥२२॥ यदि मरणकाले तु तस्य संस्मरणं भवेत्। पुरो जन्मनि चाज्ञानात्तस्य संसेवनं भवेत् ॥२३॥ अथवा ज्ञानयुक्तः स नरस्तत् सकृदा- चरेत्। यद्वा तद्वाऽऽचरेद्वापि ब्रह्मभूतः स जायते ॥२४॥ अथासंस्कारयुक्तस्य गाणेशेनाधिकारतः। प्रवेशो न भवेत्तस्य चरित्रं शृणुत प्रियाः ॥२५॥ क्षत्रियः सुलभो नामा बभूव पृथिवीपतिः। अंगदेशस्य राज्यं स चकार धर्मसंयुक्तः ॥२६॥ मयूरेशस्य स श्रुत्वा माहात्म्यं क्षेत्रसंभवम्। पुत्रे राज्यं परित्यज्य वासार्थं तु मनो दधे ॥२७॥ यथाशास्त्रं विधानेन मयूरेशं समाययौ। चकार विधिना यात्रां स्वयं द्वारादिचिह्निताम् ॥२८॥ ततस्तत्र स्थितो राजा वार्षिकीं विविधां पुनः। चकार यात्रां क्षत्रस्थो देवादीनां विधानतः ॥२९॥ ततो मनसि संधार्य क्षेत्रसंन्यासकारणात्। सर्वाना- ज्ञापयामास सस्त्रीकः स उवास ह ॥३०॥ ततः स भैरवेणैव बुद्धिभेदयुतः कृतः। विचारमकरोचित्ते किमिदं क्षेत्रमुत्तमम् ॥३१॥ न काशीतुल्यतां याति क्षेत्रं ब्रह्मांडमंडले। अयं शिवसुतः प्रोक्तो मयूरेशो न संशयः ॥३२॥ ब्रह्म सर्वत्र योगेन तिष्ठति तेन वर्ण्यते। वेदादिषु गणेशानो ब्रह्मरूपी न मुख्यतः ॥३३॥ अतोऽहं भ्रमितो नूनं वाण्या पुराणसंस्थया।

यहाँ प्रस्तुत पृष्ठ का देवनागरी लिप्यंतरण (Line-by-Line Transcription) दिया गया है:


खं. ६ अ. २२ पान ६३ गमिष्यामि न संदेहः क्षेत्रं काशीसमाश्रितम् ॥३४॥ एवं विचार्य भूपालो मयूरं त्यज्य देवपाः । काशीं जगाम मार्गे स ममार रोगसंयुक्तः ॥३५॥ पूर्वसंस्कारयोगेन काश्यां स ब्राह्मणोऽभवत् । धर्मयुक्तश्चकाराऽपि काशीवासं हितार्थतः ॥३६॥ मरणोन्मुखकालाय तस्मै विश्वेश्वरः स्वयम् । गणेशैकाक्षरं मंत्रं ददौ तारकनामकम् ॥३७॥ शौनक उवाच । कथां विचित्रां वदसि सूत त्वं हर्षदायिनीम् । तत्र संशयकं छिंधि वदिष्यामि त्वदग्रतः ॥३८॥ रामनामभवं मंत्रमवदत्तारकं परम् । पुराणं कुत्रचित् देवं शिवपंचाक्षरं पुनः ॥३९॥ कुत्राँकारं च कुत्रापि शक्तिसूर्यात्मकं परम् । गणेशैकाक्षरं कुत्र निश्चयो नैव जायते ॥४०॥ अतः संशयनाशार्थं वद सर्वज्ञसत्तम । त्वदन्यः संशयच्छेत्ताऽस्माकं नैव भविष्यति ॥४१॥ सूत उवाच । बिंबरूपं महद्ब्रह्म स एव चतुराननः । गकाराक्षरगश्चात्र गणेशैकाक्षरे मतः ॥४२॥ तस्य पालकभावेन विष्णुः सर्व- प्रवर्तकः । अकाराक्षरसंस्थश्च मंत्रराजे महामुने ॥४३॥ तयोः संहारकर्ता त्वनुस्वारः शंकरः स्मृतः । वरदानाद् गणेशस्य मंत्रे जानीहि निश्चितम् ॥४४॥ तेषां मनोमयो भानुः स्वस्वकर्मधरो बभौ । सानुनासिकरूपेण मंत्रे सोऽपि प्रतिष्ठितः ॥४५॥ चतुर्णां देहरूपा सा शक्तिर्वाणीमयी मता । सर्वत्र संस्थिता विप्र मंत्रे दृश्यस्वभावतः ॥४६॥ एभिः सृष्टं जगत्सर्व- मोंकाराकृतिलक्षणम् । तत्र क्रीडंति तेनैव मंत्र ओंकारसंयुतः ॥४७॥ एतेषामर्थभावेन गणेशश्च प्रकीर्तितः । स एव देवता प्रोक्ता वेदेषु वेदवादिभिः ॥४८॥ गणेशमंत्रगाः सर्वे देवेशाः शंकरादयः । जगन्नानाविधं ब्रह्म तथा तत्र स्थितं मतम् ॥४९॥ यथा देवाश्च विप्रेश कलया गणपस्य वै । गणेशाकाररूपास्ते तथा मंत्राः प्रकीर्तिताः ॥५०॥ अन्यच्च शृणु भावेन काश्यां नानाविधा जनाः । तिष्ठंति विविधान् देवान् भजंते भक्तिसंयुताः ॥५१॥ तेषु स्वधर्मनिष्ठा ये काशीवासं यथाविधि । कुर्वंति तारकं तेभ्यो ददाति शंकरः स्वयम् ॥५२॥ तेषु शाक्ताः स्थितास्तत्र तेभ्यः शक्तिमयं परम् । तारकं कथयामास शंकरः करुणानिधिः ॥५३॥ सौरेभ्यः सौरभावाख्यं शैवेभ्यः शिवरूपकम् । वैष्णवं विष्णुभक्तेभ्यस्तारकं ह्यवदच्छिवः ॥५४॥ स्वधर्मनिरतास्तत्र कर्म चक्रुश्च नित्यशः । कर्मांगदेवप्रीत्यर्थमोंकारं तेभ्य आदिशत् ॥५५॥ गाणेशा ये स्थितास्तेभ्यः पूर्णतारकरूपकम् । गणेशैकाक्षरं मंत्रं ददाति हर्षसंयुक्तः ॥५६॥ ते सर्वे तारकं प्राप्य कैलासे शिव- सन्निभाः । अतिष्ठन् योगमास्थाय मंत्रध्यानपरायणाः ॥५७॥ साक्षात्कारं प्रचक्रुस्ते ब्रह्म यन् मंत्रगं परम् । तत्र तल्लीन- भावेन योगिनो बभ्रुमुस्ततः ॥५८॥ महालये महेशस्य शरीरे लीनतां ययुः । पुनः सृष्टौ नरा भूत्वा तत्र योगरता बभुः ॥५९॥

पान ६४ मंत्रं मंत्रार्थभावं च त्यक्त्वा ब्रह्मणि संस्थिताः । खस्वेष्टब्रह्मगा अंते भवंस्ते मुनिसत्तम ॥६०॥ ये पापकारिणः काश्यां वसंति यदि ते मृताः । तेभ्यस्तारकरूपं तु न ददाति सदाशिवः ॥६१॥ भैरवीं यातनां ते तु भुक्त्वा कैलासमास्थिताः । लये मरणसंयुक्ताः पुनर्जन्मधरा मताः ॥६२॥ शौनक उवाच । वदंति वै पुराणेषु मुनयो ब्रह्मवादिनः । क्षेत्रेषु नानाभावेषु मृता मुक्तिमवाप्नुयुः ॥६३॥ तीर्थानि स्नानमात्रेण मुक्तिदानि वदंति च । व्रतादीनि महाप्राज्ञ नानामतविभेदतः ॥६४॥ सकामानि च कर्माणि कथितानि मुनीश्वरैः । नानाविधानि वै तेषु संस्मृतानि फलानि च ॥६५॥ तेषां कर्तार एवं ये फलानि प्राप्नुवंति ते । इहैव किंचित् केचित्तु परत्र द्विजसत्तम ॥६६॥ केचित् स्वल्पफलं केचित् पुष्कलं नात्र संशयः । किमिदं कौतुकं विप्र वद कारणमुत्तमम् ॥६७॥ काश्यां मुक्तिं विशेषेण प्राप्नुवंति नरादयः । तत्रैव मरणे सूत कथं ते जन्मिनोऽभवन् ॥६८॥ सूत उवाच । शब्दब्रह्मस्वरूपोऽयं गुरुरेकः प्रकीर्तितः । सर्वेषां विविधानां तु शिष्याणां नात्र संशयः ॥६९॥ शिष्याश्चतुर्विधाः प्रोक्ता उत्तमा मध्यमास्तथा । अधमा अधमेषु चाधमा मुनींद्रसत्तम ॥७०॥ विषया- सक्तचित्ता ये पापकर्मपरायणाः । दुःखयुक्ता यदाऽत्यंतं तदर्थं कर्मसेविनः ॥७१॥ अधमाधमरूपाश्च कथितास्ते महर्षिभिः । स्वल्पं फलं प्राप्नुवंतीह परत्र सुनिश्चितम् ॥७२॥ यदि कर्मफलं स्वल्पं ददाति कथितं सदा । तेषां तत्र रुचिर्नैवोत्पद्यते मूर्खभावतः ॥७३॥ तेषां वचनभावार्थं प्रवृत्त्यर्थं च कर्मणि । फलमेकं समाख्यातं उत्तमाधममार्गिणाम् ॥७४॥ परेषां लज्जया ये तु भयाद्वा कर्म कारिणः । अधमास्ते समाख्याताः प्राप्नुवंत्यधिकं फलम् ॥७५॥ सकामा ये स्वधर्मस्थाः कर्म कुर्वंति नित्यशः । मध्यमास्ते फलं सर्वं भुंजंति कालमानतः ॥७६॥ निष्कामाः कर्मकर्तार उत्तमास्ते फलं मुने । अक्षयं कल्पपर्यंतं भुंजंत्यत्र न संशयः ॥७७॥ तत्रैव युगमानं ते कथयामि समासतः । कृते कर्म कृतं सद्यः फलदं जायते मुने ॥७८॥ त्रेतायां च कृतं कर्म्मान्यकर्माबाधभावतः । कालेन फलसंयुक्तं भवति प्राणिनां किल ॥७९॥ द्वापरे परलोके वाऽन्यकर्माबाधभावतः । इह ते वापि भुंजंति धर्महीनप्रभावतः ॥८०॥ कलौ तु परलोके ते वाऽन्यजन्मनि मानवाः । संभोक्ष्यंति कृतं कर्म कालमानप्रभावतः ॥८१॥ आसुरेणैव भावेन नराः सत्तादिवर्जिताः । अतो जानीहि रुच्यर्थं फलं चित्रं भवत्यहो ॥८२॥ यथाविधि कृतं कर्म तदा फलप्रदं भवेत् । अन्यथा कारकायैवासुरं दद्यात् फलं सदा ॥८३॥ कृते कर्म कृतं येन सकृत्तस्य फलं लभेत् । त्रेतायां निष्फलं दृष्ट्वा तदा द्विगुणमाचरेत् ॥८४॥ फलं ददाति त्रिगुणं द्वापरे कर्म

खं. ६ अ. २२ पान ६५ निश्चितम् । कलौ चतुर्गुणं प्रोक्तं इहजन्मनि सौख्यदम् ॥८५॥ सकृच्चापि फलं कृत्वा लभेत् सत्कर्म मानवः । अथवा युगधर्मेण चतुर्गुणं फलं लभेत् ॥८६॥ अन्यत् काश्यादि माहात्म्यसंभवं विपरीतगम् । मन्यसे तत्र वक्ष्यामि शृणु संशय- नाशनम् ॥८७॥ आत्मानुभवहीनो यो मर्त्यो मोक्षं लभेन्न वै । इदं मुख्यं विजानीहि ह्यन्यत्र भ्रममात्रकम् ॥८८॥ यथा देवगणाः सर्वेऽमराः शास्त्रे प्रकीर्तिताः । ब्रह्मणो दिवसांते ते मृत्युयुक्ता भवंत्युत ॥८९॥ नराणां तत्र जन्मानि संख्या- हीनानि शौनक । भवंति तेन देवाश्चामराः संकीर्तिता बुधैः ॥९०॥ तथापि पंच देवाश्चेश्वराः शास्त्रे प्रकीर्तिताः । विघ्नयुक्ता अनीशास्ते भवंति पश्य मानद ॥९१॥ महालये मरिष्यंति त्रिगुणैः संयुताः किल । पंच देवा न संदेहो ब्रह्माद्याः शास्त्र- मार्गतः ॥९२॥ तेषां लोकेषु क्षेत्रेषु मता मुक्तिश्च तादृशी । मरणैः संयुतान्येव क्षेत्राणि तत्र का कथा ॥९३॥ इंद्रादीनां विनाशे ते समर्था मृत्युहीनकाः । तेषां जन्ममृती जंतुर्न पश्यति कदाचन ॥९४॥ ईश्वरत्वमतः शास्त्रे कथितं रुचि- कारणात् । जन्ममृत्युविहीनाऽपि मुक्तिः संकथिता बुधैः ॥९५॥ वेदशास्त्रपुराणेषु स्वानंदो लयवर्जितः । सदा ब्रह्ममय- त्वाद्धै तत्र मुक्तिर्विशिष्यते ॥९६॥ स्वानंदेनैव यद्दत्तं तदेव ब्रह्म सौख्यदम् । पात्रहीनप्रभावत्वाद् द्विजैरन्यत्र वर्ण्यते ॥९७॥ अन्यत्र मुक्तिदान्येव प्रोक्तानि शास्त्रसंमतैः । वासदानि तु तीर्थानि तानि क्षेत्राणि सप्तसु ॥९८॥ मृतः षट्सु नरस्तासु काश्यां धर्मयुतो भवेत् । मरणं तारकं प्राप्य ज्ञानयुक्तो भवेत् स्वयम् ॥९९॥ पुनर्जन्मनि योगी स भवत्यत्र न संशयः । स्वेष्टं ब्रह्म समाप्नोति निश्चितं वेदगुह्यतः ॥१००॥ योगं श्रुत्वा नरो यस्तु पापकर्मपरायणः । मरणे संस्मरेद्योगं स मयूरे भवि- ष्यति ॥१॥ यत्र कुत्रस्थ आगत्य मयूरे ह्यथवा स्वयम् । मरिष्यति न संदेहो महापापयुतोऽपि चेत् ॥२॥ अथवा क्षेत्र- माहात्म्यं श्रुत्वा कुत्र स्थितो भवेत् । यदि मरणकाले स संस्मरेत् स तथा भवेत् ॥३॥ मयूरस्थाय वा यात्रामेव कृत्वा नरोत्तमः । यत्र कुत्र मृतः सोऽन्ते संस्मरेत् स तथा भवेत् ॥४॥ अथवा संगयोगेन गणेशे रुचिमालभेत् । नरो मयूरक्षेत्रे स मरणं प्राप्नुयात् परम् ॥५॥ शिवविष्ण्वादिलोकेषु संस्थितस्तत्र संगतः । गणेशे प्रीतियुक्तश्चेत् स मयूरे भविष्यति ॥६॥ अतिसंस्कारसंयुक्तः स क्षेत्रे धर्मसंयुतः । क्षेत्रसंन्यासभावेन मरणं तत्र चालभेत् ॥७॥ योगिनः शांतिरूपाश्च चित्तं त्यक्त्वा गणेश्वरे । लीनास्ते यत्र कुत्रापि मृता गाणेशतां ययुः ॥८॥ योगिनां मरणे विप्र यादृशं स्मरणं भवेत् । तादृशीं न गतिं सोऽपि लभते ब्रह्मणि रतः ॥९॥ तथा मयूरक्षेत्रे ये मृतास्तेषां न विद्यते । अंते मतिर्यथा विप्र गतिः सर्वत्र

पठ्यते ॥११०॥ इदं सर्वं समाख्यातं शृणु प्रकृतमुत्तमम् । कथानकं महीपस्य यथा मुद्गलभाषितम् ॥११॥ भृशुंड्युवाच । मयूरक्षेत्रे सुलभो वासं कृत्वा ययौ पुनः । काश्यां तस्य मृतौ क्षेत्रं मयूरं स्मृतिगं बभौ ॥१२॥ तेन गणेश्वरस्यैव ददौ मंत्रं महेश्वरः । सस्त्रीकः शिवरूपः कैलासे दासं चकार सः ॥१३॥ महालये शिवे लीनः पुनः सृष्टौ मयूरके । ब्राह्मणः स बभूवाऽपि सस्त्रीको भक्तिसंयुक्तः ॥१४॥ तत्र स्वल्पेन कालेन योगयुक्तो बभूव ह । ब्रह्मभूतः स जीवन् वै मरणे तत्र का कथा ॥१५॥ एवं संस्कारयोगेन मयूरे निवसंति ते । यत्र कुत्र स्थिताश्चैवै गमिष्यंति मयूरकम् ॥१६॥ क्षेत्रसंन्यासिनां देवा वदामि मार्गमुत्तमम् । आदौ द्वारयुतां यात्रां कुर्यात् संन्यासकारणात् ॥१७॥ पश्चात् क्षेत्रं समाश्रित्य तिष्ठेन्द्रियम- संयुतः । न गच्छेत् क्षेत्रबाह्यं संन्यासभंगभयाकुलः ॥१८॥ नानादुःखयुतश्चेत् त्यागं मयूरस्य वै न सः । कुर्यात्तेन गणेशेन तुल्यः सर्वत्र संमतः ॥१९॥ देवागारस्य यात्रां स कुर्याद् द्वारसमन्विताम् । अंत्यां नैव समाख्यातां क्षेत्रबाह्यप्रवेशनात् ॥२०॥ क्षेत्रसीमास्थदेवाद्यास्तेषां कुर्यान्निरंतरम् । यात्रां यात्राविचारज्ञः स योगी योगिनां गुरुः ॥२१॥ अत्राऽहं कथयिष्यामि चेतिहासं पुरातनम् । क्षेत्रसंन्यासिना युक्तं क्षेत्रं नैव भवेत् कदा ॥२२॥ जामदग्न्यो द्विजः कश्चित् सोमदत्त इति श्रुतः । बाल्यात् प्रारभ्य विघ्नेशभक्तियुक्तो बभूव ह ॥२३॥ स्वाश्रमात् सोऽपि सस्त्रीको मयूरेशं समाययौ । यात्रां कृत्वा विधानेन स्थितो द्वारादिचिह्निताम् ॥२४॥ ततः क्षेत्रे स वासार्थं मनो दध्रे महामतिः । क्षेत्रसंन्यासिकं कृत्वा मयूरे संस्थितः पुरा ॥२५॥ तत्र रक्षोबलं प्राप्तं खरस्य दारुणं महत् । राक्षसं पपतुः सर्वे दृष्ट्वा क्षेत्रनिवासिनः ॥२६॥ दृढाऽऽग्रहं सोऽपि कृत्वा सोमदत्तो महामुनिः । मयूरे संस्थितो देवा मयूरेशपरायणः ॥२७॥ राक्षसास्तं महाभागं धृत्वा क्रोधसमन्विताः । ताडयामासुरत्यंतं कर्मखंडनकारणात् ॥२८॥ मुमोचाऽसौ तदापि न स्वधर्मं सोमदत्तकः । मद्यमांसादिकं गृह्य छलतो राक्षसैर्बहु ॥२९॥ तथापि धैर्यमालंब्य स्मृत्वा विघ्नेश्वरं द्विजः । मयूरेशं समभ्यर्च्य संस्थितो भयसंकुलः ॥३०॥ ततस्तं राक्षसा बद्ध्वा खरं निन्युर्महोल्बणम् । तेन कारागृहे क्षिप्तो मयूरेशपरायणः ॥३१॥ उपोषणपरः पूजां मानसीं स चकार ह । अतिशोकसमायुक्तो हृदि ध्यात्वा गजाननम् ॥३२॥ ततो विघ्नेश्वरः क्षुब्धो बभूवे भक्तकारणात् । चकार राक्षसेशं स संविग्नं विघ्नदायकः ॥३३॥ समायाता शूर्पनखा तं जगाद खरं वचः । छिन्ननासिकरूपं स्ववृत्तांतं तु न्यवेदयत् ॥३४॥ तच्छ्रुत्वा क्रोधसंयुक्तः खरो रामं जगाम ह । रामेण राक्षसैः सार्द्धं हतो मृत्युमवाप ह ॥३५॥ ततः क्षेत्रनिवासस्था

खं. ६ अ. २३ पान ६७

आययुस्ते महेश्वराः। बंधाद्विमुच्य ते सर्वे सोमदत्तं सुहर्षिताः ॥३६॥ एवं नानाविधैर्दुःखैः पीडितो मुनिसत्तमः। तथापि क्षेत्रसंन्यागं न चकार कदाचन ॥३७॥ ततो गणेश्वरो देवो ययौ भक्त्या नियंत्रितः। स्तुतः संपूजितस्तेन तमीप्सित- वरं ददौ ॥३८॥ स ययाचे गणेशानं तव सान्निध्यगं कुरु। तत्र नित्यं भजिष्यामि भक्तिमार्गपरायणः ॥३९॥ तथेति तं चकारासौ मयूरेशो महामुनिम्। स बभूव महेशाना योगप्रिय इति श्रुतः ॥४०॥ एवं नानाविधास्तत्र क्षेत्रसंन्यास- माश्रिताः। सिद्धिं ययुर्महाभागा मया वक्तुं न शक्यते ॥४१॥ इति सर्वं समाख्यातं संक्षेपेण मया परम्। श्रवणात् पठनात् सर्वसौख्यदं भक्तिवर्धनम् ॥४२॥ ॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते क्षेत्रसंन्यासादिवर्णनं नाम द्वाविंशतितमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ देवेशा ऊचुः। मयूरे तीर्थमुख्यं किं वद योगींद्रनायक। तीर्थानां तीर्थरूपं यत् सर्वसिद्धिप्रदायकम् ॥१॥ भृशुंड्युवाच। क्षेत्रं ब्रह्ममयं प्रोक्तं तीर्थतीर्थं महेश्वराः। गाणेशं सर्वविख्यातं मुख्यं पूर्णं बभूव ह ॥२॥ यथा पंचविधं सर्वं भासते विविधार्थतः। चतुर्विधं जगत् संस्थं पंचमं ब्रह्म उच्यते ॥३॥ गंगा च यमुनादेवी सरस्वती महानदी। त्रिगुणरूप- संयुक्तास्ताभ्यो नद्यः समुद्भवाः ॥४॥ तुरीया सर्वतीर्थाख्या ब्रह्मकमंडलूद्भवा। तासां संयोगभावे तु पंचमं ब्रह्म उच्यते ॥५॥ तदेव तीर्थरूपेण प्रकटं संबभूव ह। गणेशमायया देवा गाणेशं तीर्थमुच्यते ॥६॥ भूस्वानंदमयं क्षेत्रं गणेशेन प्रकाशितम्। मायया तत्र विघ्नेशोऽभवत् स्नानार्थमुद्यतः ॥७॥ ततोऽंकुशेन पृथ्वीं स भेदयामास मायया। तीर्थं ब्रह्ममयं तत्र सेवार्थं तु समाययौ ॥८॥ ततः स्नानं चकाराऽसौ सर्वं कार्यं गजाननः। अक्षयं जलसंयुक्तं कुंडं तत्र बभूव ह ॥९॥ नाम तस्य चकाराऽसौ गणेशकुंडमादरात्। तस्य दर्शनमात्रेण भुक्तिं मुक्तिं लभेन्नरः ॥१०॥ जलस्पर्शादिसंभूतं पुण्यं वक्तुं न शक्यते। साक्षाद्ब्रह्ममयस्यापि किं तीर्थस्य वदाम्यहम् ॥११॥ स्नानेन मुक्तिदा प्रोक्ता ब्रह्मकमंडलूद्भवा। तुरीया सर्वतीर्थानां ज्ञातव्यं शास्त्रसंमतम् ॥१२॥ भागीरथी तृतीया च स्नानेन स्वर्गदायिनी। स्वर्णदी सा समाख्याता विशेषेण महेश्वराः ॥१३॥ ततः सरस्वती प्रोक्ता द्वितीयपदधारिणी। त्रिभिर्दिनैश्च स्नानेन स्वर्गदा सा प्रकीर्तिता ॥१४॥ यमुना च

[Header] खं. ६ अ. २३ | पान ६८

ततः ख्याता स्थूलरूपा महानदी। सप्तभिर्दिवसैः साक्षाज्जंतूनां स्वर्गदा मता ॥१५॥ अन्या नानाविधास्ताभ्यः कथनं नैव शक्यते। अतः संक्षेपतः प्रोक्तं माहात्म्यं पंचसंभवम् ॥१६॥ अत्रेतिहासकं वक्ष्ये शृणुध्वं ह्येकचेतसः। गुर्जरे पापकमी तु राजा भद्रोऽभवत् पुरा ॥१७॥ स्वधर्मं स परित्यज्य मांसस्त्रीमद्यलालसः। यथेच्छं वर्तयामास नानापापपरायणः ॥१८॥ एकदा मद्यसंयुक्तः पुत्रीं दृष्ट्वा स दुर्मतिः। एकांते बुभुजे तां स हाहाकाररवाकुलाम् ॥१९॥ इत्यादिविविधान्येव चकार देवसत्तमाः। पापानि तेषु किं ब्रूयां वक्तुं त्रासः प्रवर्त्तते ॥२०॥ मृतं तं यमदूताश्च गृह्य निन्युर्यमालयम्। बद्ध्वा संताड्य तत्रैकं चित्रं पूर्ण बभूव ह ॥२१॥ गच्छता तेन संदृष्टं विमानं सूर्यसन्निभम्। गणेशकुंडतीर्थस्य द्रष्ट्रा तच्च समाश्रितम् ॥२२॥ तस्यांगवायुना स्पृष्टो भद्रः पापपरः परः। पापहीनो बभूवाऽपि जगाम यममंदिरम् ॥२३॥ यमेन नरयोन्यां स संक्षिप्तो वैश्ययोनिजः। बभूव देवधर्माख्यः स्वधर्मनिरतः सदा ॥२४॥ स्वर्गात् पतनकाले स सस्मार कुंडमुत्तमम्। तेन संस्कार- योगेन मयूरेशं समाययौ ॥२५॥ दृष्ट्वा गणेशकुंडं स जातिस्मरो बभूव ह। ततः क्षेत्रं समाश्रित्य कुंडपूजापरोऽभवत् ॥२६॥ ममार कुंडसान्निध्ये ब्रह्मभूतो बभूव ह। एवं संस्कारमाहात्म्यं पूर्वजन्मनि देवपाः ॥२७॥ देवेशा ऊचुः। गणेशकुंडद्रष्टा स कथं जातो महामते। किं जातियो वद स्वामिन्नाश्चर्यं भासते परम् ॥२८॥ भृशंड्युवाच। चांडालः कोऽपि पापात्मा नित्यं पापपरोऽभवत्। कंचिद् द्रव्ययुतं दृष्ट्वा तत् पृष्ठगो बभूव ह ॥२९॥ स आगतो मयूरेशं कथयामास मानवान्। जघान द्रव्यलोभी च चांडालो मानवान् सदा ॥३०॥ समाययौ मे सांनिध्यमधुनाऽत्र विशेषतः। मारणाय न संदेहस्तच्छ्रुत्वा स पपाल ह ॥३१॥ लोका यात्रारताः सर्वे नैव मत्ताडने रताः। पलता तेन कुंडं तु दृष्टं गाणेश्वरं महत् ॥३२॥ क्षेत्रं त्यक्त्वा गतं दूरे ममार विषयप्रियम्। भोगबुद्धियुतं दुष्टं निन्युरिंद्रपुरेऽमराः ॥३३॥ गणेशकुंडजेनैव दर्शनेन न संशयः। पापानि विलयं यांति मुक्तिर्मुक्तिस्ततो भवेत् ॥३४॥ अन्यच्छृणुत देवेशाश्चरितं कुंडसंभवम्। वैश्यः कश्चित् समायातो द्रव्यलोभी मयूरके ॥३५॥ प्रवेशेनास्य पापानि तं त्यक्त्वा बहिरंजसा। स्थितानि सोऽपि शुद्धः सन् बभ्राम द्रव्यकारणात् ॥३६॥ तत्र यात्रापरा लोका अवदंस्ते परस्परम्। गणेशकुंडमाहात्म्यं सोऽपि शुश्राव मंदधीः ॥३७॥ विचारमकरोचित्ते दर्शनेनात्र लभ्यते। मुक्तिर्मुक्तिः किमेवेदं वचनं सत्यगं भवेत् ॥३८॥ अतोऽहं विक्रयार्थं तु भवामि तत्र संस्थितः। तदा दर्शनमेवं मे कुंडस्यात्र भविष्यति ॥३९॥ इति विचार्य खाद्यानि गृह्य कुंडगतोऽभवत्। दधार मनसा दृष्ट्वा मुक्तिर्मे भवतु प्रभो

खं. ६ अ. २३ पान ६९


॥४०॥ पुनश्च स मयूरेशं त्यक्त्वा स्वगृहगोऽभवत् । तत्र स्वल्पेन कालेन ममार वैश्यजः खलः ॥४१॥ ततो विमानमारुह्य शुक्लगत्या महेश्वराः । मोक्षं जगाम वैश्यः स गणेशकुंडदर्शनात् ॥४२॥ अन्यच्च शृणुत प्राज्ञा इतिहासं पुरातनम् । शूद्रौ मेघमणीसंज्ञौ मालवे संबभूवतुः ॥४३॥ सेवार्थं पुत्रसंयुक्तौ क्षत्रियस्य समाश्रितौ । स काश्यां प्रेमसंयुक्तो यात्रार्थं प्रजगाम ह ॥४४॥ तेन नीतौ स्वसेवार्थं सपुत्रौ शूद्रयोनिजौ । मेघो मार्गे ममारैव तस्य पुत्रो ददाह तम् ॥४५॥ तत्राऽऽवंत्यो द्विजः कोऽपि चकारास्थिप्रसंचयम् । मणिः पप्रच्छ तं विप्रं कुत्रास्थि त्वं प्रणेष्यसि ॥४६॥ स उवाच गणेशस्य क्षेत्रे कुंडं महाद्भुतम् । तत्रास्थित्योगमात्रेण पंचमं लभते पदम् ॥४७॥ अतो मेऽस्थि पितुस्तत्र शूद्र नेष्यामि निश्चितम् । तच्छ्रुत्वा सोऽपि शूद्रास्थ्यास्थिसंचयं चकार ह ॥४८॥ काश्यां दुःखयुतो त्यक्त्वा ममार मणिरैव च । तस्यास्थिसंचयं चक्रे तस्य पुत्रो महेश्वराः ॥४९॥ तज्ज्ञात्वा क्षत्रियस्तं स निर्भर्त्स्य बहुधा जगौ । काशीं त्यक्त्वा मयूरे किमस्थित्योगं करिष्यसि ॥५०॥ उवाच पितुराज्ञा स मया मान्या निरंतरम् । एतस्मिन्नंतरे तत्र ब्राह्मणः शास्त्रवित् ययौ ॥५१॥ तं प्रणम्य विशेषेण पप्रच्छ क्षत्रियोद्भवः । दुराग्रहं स्वशूद्रस्य दृष्ट्वा सर्वं विधानतः ॥५२॥ ज्ञात्वा वृत्तांतमेतस्य तमुवाच जनार्दनः । ब्राह्मणो वेदसारज्ञः क्षत्रियं शास्त्रजं वचः ॥५३॥ जनार्दन उवाच । चतुर्विधानि तीर्थानि तथा क्षेत्राणि क्षत्रिय । पंचमं गणराजस्य क्षेत्रं तीर्थं च कीर्त्यते ॥५४॥ ब्रह्मणस्पतिनामाऽसौ गणेशो वेदवादतः । तस्य लीलादिकं सर्वं नानाब्रह्ममयं बभौ ॥५५॥ काश्यां ये शास्त्रवादज्ञास्तेऽस्थि तत्र नयंति तु । अन्यक्षेत्रस्य गास्तद्भून्नयंन्त्यस्थि मयूरके ॥५६॥ ततः संशयहीनः स संपूज्य प्रणाम ह । जनार्दनं स्वगेहं स आययौ हर्षसंयुतः ॥५७॥ कृत्वा क्षत्रियजो यात्रां स्वगृहं प्रत्यपद्यत । शूद्रावस्थि समागृह्य मयूरेशं प्रजग्मतुः ॥५८॥ गणेशकुंडं संपूज्य त्यक्त्वा तावस्थिसंचयम् । यथाशास्त्रं विधानेन यात्रां चक्रतुरादरात् ॥५९॥ स्वगृहं जग्मतुः शूद्रौ देवेशाः शृणुताऽपरम् । अस्थित्योगप्रभावेण मेघं नेतुं ययुर्गणाः ॥६०॥ शंकरलोकसंस्थं तं गृह्य स्वानंदमाययुः । मणिं कैलासगं ते तु ब्रह्मभूतौ प्रचक्रिरे ॥६१॥ एवं नाना जनास्तत्र सिद्धिं प्राप्ता विशेषतः । तत्र किं कथयामीह वक्तुं केन प्रशक्यते ॥६२॥ एतद्गणेशकुंडस्य माहात्म्यं शृणुयान्नरः । श्रावयेत् स लभेद्देवा ईप्सितं फलमुत्तमम् ॥६३॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते गणेशकुंडचरितवर्णनं नाम त्रयोविंशोऽध्यायः ॥


खं. ६ अ. २४ पान ७० ॥ श्रीगणेशाय नमः ॥ भृशुंड्युवाच । एकदा गणनांथस्य दर्शनार्थं समाययौ । ब्रह्मा स्नात्वा महाकुंडे स्नोतुं स्तोत्रं समारभत् ॥१॥ ब्रह्मोवाच । नमामि तीर्थं गणनायकस्य गणेशकुंडं गणनातिगं च । अनंततीर्थप्रभवं पुराणं संसेविनां ब्रह्मप्रदं निजात्म्यम् ॥२॥ अभेदभेदादिविहीनरूपं चतुष्पदं पंचममाद्यभूतम् । गणेशमायाकृतदृश्यभावं नमामि कैवल्यघनं परेषाम् ॥३॥ भवतप्रसूतं च तुरीयमात्म्यं भवेदरूपं किल तीर्थकानाम् । अहं विशुद्धोऽपि च दर्शनेनाऽभवं कृतब्रह्मकमंडलुस्थम् ॥४॥ तदेव त्रैगुण्यमयं बभूव भागीरथीस्थं रविजामयं च । सरस्वतीस्थं च ततः प्रसूताः सरित्समूहा भुवनेषु संस्थाः ॥५॥ स्नानेन पापं विनिहत्य सर्वा नद्यो नराणामथ पापयुक्ताः । नित्यं जले ते विनिमज्य शुद्धा आयांति स्वस्थानमघापहारि ॥६॥ प्रयागतीर्थे मरणेन जंतुर्मनीषितं तीर्थवरे लभेद्वै । तवावलोकेन गणेशकुंडं तदेव सद्यो लभते सकृच्चेत् ॥७॥ वाचः परं ते जलबिंदुजेऽहं स्पर्शे भवं किं प्रवदामि पुण्यम् । साक्षाद्गणेशांकुशघातजं तन्नमामि कुंडं गणनायकस्य ॥८॥ धन्योऽहमेवं तव दर्शनेन स्पर्शेन तोयस्य निमज्जनेन । तोये तथा ते च महानुभावं ब्रह्मैव तुष्टं च नमो नमस्ते ॥९॥ त्वदीयतीरे मरणं वरिष्ठं सुमंगलं ब्रह्ममयप्रदं तत् । विना श्रमेणैव नरा लभंते शुकादिकानां पदमत्र चित्रम् ॥१०॥ त्वत्तोयजस्पृष्टिरहो ममास्तु स्नानं तु पानं च सदावलोकः । किं वर्णयाम्येव गणेशकुंडं स्वल्पज्ञभावात्तु नमो नमस्ते ॥११॥ भृशुंड्युवाच । स्तोत्रं गणेशकुंडस्य यः पठिष्यति मानवः । भुक्तिं मुक्तिं लभेत् सोपि श्रद्धया ब्रह्मभूयकम् ॥१२॥ इदं ब्रह्मकृतं स्तोत्रं सर्वसिद्धिप्रदायकम् । यत्र कुत्र स्थितायापि भक्त्या भवति पाठतः ॥१३॥ ब्रह्मा ततो गणेशानं जगाम हर्षसंयुतः । पूज्य स्तुत्वा महेशानः प्रदक्षिणपरोऽभवत् ॥१४॥ पादस्पर्शेन तस्यापि कमंडलुजलैर्युतः । न्युब्जतामगमत्तत्र नदी तस्मादजायत ॥१५॥ ततः प्रणम्य विघ्नेशं योगमायासन्वितः । सरितं तां चकर्षाऽसौ पुनर्ब्रह्मा कमंडलौ ॥१६॥ जगाद गणराजश्च ततस्तं हर्षसंयुतः । मा गृहीष्व विधातस्त्वं सर्वतीर्थमयीं नदीम् ॥१७॥ मम सेवार्थमत्यंतलालसा नित्यमाभजेत् । मदिच्छया नदी जाता मत्क्षेत्रे सर्वपावनी ॥१८॥ ततस्तं प्रणतो भूत्वा ब्रह्मा शोकसमन्वितः । जगाद तीर्थहीनोऽहं भविष्यामि गजानन ॥१९॥ श्रीगजानन उवाच । योगमायाबलेनेमां मा कर्ष त्वं पितामह । कमंडलुं तीर्थजलैरापूर्य स्थानगो भव ॥२०॥ श्रुत्वा ब्रह्मा तथा कृत्वा ययौ हर्षसमन्वितः । ब्रह्मकमंडलुः साक्षान्नदी तत्र प्रतिष्ठिता ॥२१॥ तया क्षेत्रं महेशानः शुशुभेऽतीव विघ्नपम् । नद्याश्च महिमानं को वर्णयितुं क्षमो भवेत् ॥२२॥ देवेशा ऊचुः । तुरीयं तीर्थमुख्यं यत् स्थितं ब्रह्मकमंडलौ । कथं बभूव

[Header] खं. ६ अ. २४ पान ७१

विप्रेश तद्वदस्व सुखप्रदम् ॥२३॥ भृशुंड्युवाच । ब्रह्मा कामं च तं सृष्ट्वा स्थापयामास सर्वपः । दृष्ट्वा कामं स्वयं तत्र विव्हलोऽभूत् पितामहः ॥२४॥ दृष्ट्वा सरस्वतीं वेधाः कामबाणप्रपीडितः । तां गृह्य स्ववशां कृत्वा मैथुनायोद्यतोऽभवत् ॥२५॥ हाहाकाररवा देवी सस्मार गणनायकम् । ततः शांतमना ब्रह्मा ज्ञानयुक्तो बभूव ह ॥२६॥ मुक्त्वा तां गर्हयामास स्वात्मानं काममोहितम् । ततः क्रोधसमायुक्तः शशाप मदनं विधिः ॥२७॥ मां प्रमोहयुतं कृत्वा क्रीडसि त्वं खलाऽधुना । काम शंकरतो वह्नौ नष्टरूपो भविष्यसि ॥२८॥ शप्त्वा कामं विधाताऽसौ ततः सस्मार देवपान् । मुनीन् श्रेष्ठांश्च ते सर्वे समाजग्मुः पितामहम् ॥२९॥ श्रुत्वा वृत्तांतमुग्रं ते शोकयुक्ताः बभूविरे । प्रायश्चित्तार्थमुद्युक्ताः सर्वे देवर्षयस्ततः ॥३०॥ ततस्तीर्थानि सर्वे ते निर्ममुर्दैवतर्षयः । सार्धत्रिकोटिसंज्ञानि स्वस्वतेजोयुतानि वै ॥३१॥ तेषु संमज्जितो ब्रह्मा पवित्रो न बभूव ह । तीर्थराजं तथा सर्वे सस्मरुर्ब्रह्महेतवे ॥३२॥ स वै प्रत्यक्षतां तत्र ययौ सर्वेच्छया परः । ब्रह्मा ममज्ज तत्रापि स्वयं शुद्धोऽभवन्न च ॥३३॥ ततः सूर्यः स्वदेहाद्वै यमुनां निर्ममे पराम् । तस्यां निमज्य धाताऽसौ पवित्रो न बभूव ह ॥३४॥ आदिमाया ततस्तत्र विनिर्ममे सरस्वतीम् । निमज्य तत्र वेधाः सोऽभवन्नैव यथा पुरा ॥३५॥ ततः शिवः स्वयं रेवां निर्ममे तीर्थरूपिणीम् । तथा निमज्य तस्यां स पवित्रो न बभूव ह ॥३६॥ ततो विष्णुः स्वदेहाद्वै निर्ममे पावनाय च । गंगां तस्यां निमज्याऽसौ वेधाः शुद्धोऽभवन्न च ॥३७॥ ततः खेदसमायुक्तो देवेशा मुनिभिः सह । विचार्य त्रिगुणानां तु बीजं तीर्थं प्रतुष्टुवुः ॥३८॥ ततः प्रसन्नभावेन तुरीयं तत्र देवपाः । प्रकटं तेजसा युक्तं बभूव जलमंजसा ॥३९॥ प्रकाशमयतीर्थं तद् दृष्ट्वा देवर्षयोऽमराः । प्रणम्यापूज्य संहर्षादृचुः प्रांजलयोऽभवन् ॥४०॥ सर्वतीर्थमिदं नाम भवतु त्रिजगत्सु ते । पवित्रं कुरु धातारं नमस्ते तीर्थतीर्थेषु ॥४१॥ त्रैगुण्यमयरूपाणि तीर्थानि त्रिजगत्सु तु । त्रिजगत्पावनान्येव भवंते शास्त्रसंमते ॥४२॥ ब्रह्मविष्णुमहेशानां दोषं क्षालयितुं द्रुतम् । न समर्थानि तेभ्यस्तु द्विजैर्जातानि निश्चितम् ॥४३॥ अतस्तुरीयंतीर्थं चास्माभिः संप्राथितं परम् । त्रिगुणानां हितार्थाय पावनाय विशेषतः ॥४४॥ अतो हितं च सर्वेषां कुरु तीर्थोत्तमरूपकम् । एवमुक्त्वा प्रणेमुस्ते सर्वतीर्थं महेश्वराः ॥४५॥ ततः प्रसन्नतां यातं दर्शयामास रूपकम् । विधात्रे तेन निःपापो बभूव प्रपितामहः ॥४६॥ ततस्तीर्थं प्रणम्याऽसौ तुष्टाव सर्वसंयुतः । ततस्तं प्रत्युवाचेदं वचनं तीर्थमुत्तमम् ॥४७॥ सर्वतीर्थमुवाच । वरं वृणु महाभाग तुष्टं दास्यामि वाञ्छितम् । स्तोत्रेण सृष्टिकर्तस्त्वं विधातम विचारय ॥४८॥ ब्रह्मोवाच । वरं ददासि

तीर्थं त्वं तदा मे संस्थितं भव। कमंडलौ सदा तेन कृतकृत्योऽस्मि निश्चितम् ॥४९॥ भृशुंड्युवाच। तथेति तमथोक्त्वा तत्तीर्थं तस्य कमंडलौ। जानीत वरदानेन संस्थितं देवनायकाः ॥५०॥ तत्र स्थितं गणेशस्य ध्यानं चक्रे निरंतरम्। सर्वतीर्थ हितार्थाय तस्य सेवार्थमादरात् ॥५१॥ उवाच विघ्नराजं संचिंत्य तीर्थं परं हृदि। दृश्यभावं समासाद्य न ते पादार्चनं कृतम् ॥५२॥ वरदानप्रभावेण ब्रह्मणः सदने प्रभो। स्थितं मां तेऽद्य पादाब्जसमीपस्थं कुरु प्रभो ॥५३॥ पवित्रं तु विधातारं कृत्वा मायूरक्षेत्रगम्। भविष्यामि तदर्थायाकरवं दृश्यभावकम् ॥५४॥ पराधीनतया स्वामिन् किं करोमि गणेश्वर। विघ्नहीनं कुरुष्व त्वं मां भक्तं भक्तवत्सल ॥५५॥ दृश्यभावं समासाद्य मयूरं नावलोकितम्। निरर्थकं जनुस्तस्यात्तस्त्वां संप्रार्थये प्रभो ॥५६॥ एवं नित्यं गणेशानं ध्यात्वा संप्रार्थयत् परम्। स्थापितं सर्वतीर्थं तद्गणेशानेन संनिधौ ॥५७॥ देवेशा ऊचुः। तीर्थराजः प्रयागो यस्तत्र ब्रह्मा बभूव न। पवित्रश्च ततः श्रेष्ठं कथं तीर्थं भवेन् मुने ॥५८॥ कथं राजेति संज्ञा च तस्य शास्त्रे प्रकीर्तिता। एतत् संशयकं छिंधि योगींद्रोऽसि पुरातनः ॥५९॥ भृशुंड्युवाच। यथा देवसमूहानां राजेंद्रः परिकीर्तितः। इंद्रात्तैवापरः श्रेष्ठो देवो भवति कुत्रचित् ॥६०॥ ब्रह्मादयो न देवाश्च गुणाधाराः प्रकीर्तिताः। पूज्यत्वाद्देवसंज्ञास्था भवंते चैकदेशतः ॥६१॥ सार्धत्रिकोटितीर्थानां तथा राजा प्रयागकः। प्रयागान्न परं तीर्थं श्रेष्ठं कुत्राऽपि वर्तते ॥६२॥ गंगायाः सरितस्तद्वद् गुणाधाराः प्रकीर्तिताः। तीर्थसंज्ञा तथा तासामेकलक्षणतो मता ॥६३॥ प्रार्थिते तीर्थराजेन तत्रैकभवकारणात्। गंगायमुनयोर्योगस्तेन संमिलितोऽभवत् ॥६४॥ गंगायमुनयोर्योगे स्नानजं यत् फलं लभेत्। तदेव महिमा तत्र तयोरेव न संशयः ॥६५॥ नर्मदा वरदानेन श्रेष्ठा जाता विशेषतः। गुणरूपा न सा प्रोक्ता जानीत शास्त्रसंमते ॥६६॥ अधुना शृणुत प्राज्ञा प्रकृतं यत् कथानकम्। कमंडलुस्थितत्वात्तन्नाम्ना ब्रह्म- कमंडलुः ॥६७॥ गां गता तेन गंगा सा कमंडलूद्भवा मता। पूर्वगा सा समाख्याता ब्रह्मादीनां सुदुर्लभा ॥६८॥ तस्या मूलस्थितः साक्षाद्ब्रह्मा लोकपितामहः। तस्यां स्नात्वा गणेशानं भजतेऽनन्यचेतसा ॥६९॥ पूर्वं पितामहं तत्र नरः स्नात्वा समर्चयेत्। विद्यायुक्तो भवेत् सद्योऽन्ते परां मुक्तिमाप्नुयात् ॥७०॥ मध्ये शिवस्तथा तस्या मयूरे संस्थितस्ततः। मध्यमेश्वरनामा स भजते गणनायकम् ॥७१॥ मध्यमेश्वरतीर्थे यस्तस्यां स्नानं समाचरेत्। स सामर्थ्यं परं प्राप्यापूज्येशं मुक्तिमाप्नुयात् ॥७२॥ अंते विष्णुः स्थितस्तस्या हृषीकेश इति श्रुतः। स्नात्वा नित्यं गणेशानं भजतेऽनन्यमानसः ॥७३॥

तत्र तीर्थे नरः स्नात्वा हृषीकेशं समर्च्चयेत् । यशः स विपुलं प्राप्यांऽते परं मोक्षमाप्नुयात् ॥७४॥ यस्यास्तीरे च तीर्थानि देवास्तिष्ठंत्यनेकशः । उभयत्र महेशान मया वक्तुं न शक्यते ॥७५॥ कमंडलुद्भवायास्तु दर्शनेनाघनाशनम् । प्रभवेत् सर्वजंतूनां निश्चितं चेहजन्मजम् ॥७६॥ संचितं जलबिंदोश्च स्पर्शेनैव विनश्यति । पापं ह्यनेकजन्मस्थं नॄणां सर्व- देहिनाम् ॥७७॥ जलपानेन तस्यास्तु शक्रलोकं लभेत् स्वयम् । स्नानेन मुक्तिमाप्नोति यत्र तत्र महेश्वराः ॥७८॥ मयूरे ये नरास्तस्यां स्नानं कुर्वंति देवपाः । सकृच्चेदीप्सितं सद्यो लभंते ते समोक्षकम् ॥७९॥ एतादृशी महाभागा नदी तत्र व्यवस्थिता । दशयोजनविस्तारस्तस्याः प्रोक्तो मनीषिभिः ॥८०॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते ब्रह्मकमंडलुप्रादुर्भावादिवर्णनं नाम चतुर्विंशतितमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ देवेशा ऊचुः । कथं देवैश्च मुनिभिः स्तुता विप्र महानदी । ब्रह्मणोऽर्थं तदेवापि स्तोत्रं वद सुखप्रदम् ॥१॥ भृशुंड्युवाच । नानातीर्थबलेनैव ब्रह्माणं ते सुरर्षयः । शुद्धं कर्तुं समर्था न बभूवुश्च यदा पुरा ॥२॥ ततः सर्वे विचार्यैव तुरीयं तीर्थमुत्तमम् । स्तोतुं करपुटा भूत्वा समारेभुः सुस्तोत्रकम् ॥३॥ देवर्षय ऊचुः । सर्वादिभूतं त्रिगुणेषु संस्थं तीर्थेषु यत् सर्वविकारहीनम् । तीर्थं तुरीयं च नमामहे तत्तीर्थात्मकं पापविनाशदक्षम् ॥४॥ गंगादिनद्यः प्रभवा यतश्च सर्वांतरस्थं स्थितमात्मरूपम् । नादात्मकं रूपमथो विधाय तच्चालकं यत्तु नमामहे तत् ॥५॥ पुराणगीतं विधिपापनाशं कमंडलुस्थं परमप्रमेयम् । अपारतीर्थेषु तदात्मभावं भविष्यते देहधरं नमामः ॥६॥ नाथो विधाता च भवेन्महात्मन् पापेन युक्तश्च तथा स्थितश्चेत् । विश्वं परं नाशमुपैष्यति त्वं प्रत्यक्षतामेहि दयाकरातः ॥७॥ गंगास्वरूपाय नमो नमस्ते ब्रह्मात्मजारूप- धराय तुभ्यम् । तुभ्यं प्रयागाय च नार्मदाय कालिंदिकास्थाय नमो नमो वै ॥८॥ कृष्णास्वरूपाय ककुद्मतीस्थ यद्वेनव्यै च पयोष्णिकायै । वेणीस्वरूपाय च पुष्कराय तापीप्रभासाय च सर्वतीर्थ ॥९॥ गोदावरीरूपधराय तुभ्यं क्षिप्रास्थसिंधुस्थ महीस्वरूप । कावेरिकास्थं सरयूस्वरूपं पूर्णे नमस्तेऽस्तु कमंडलुस्थम् ॥१०॥ सार्धत्रिकोटीप्रवरस्थकाय तीर्थेश्वरायैव नमो

खं. ६ अ. २५ पान ७४ नमस्ते। अनंततीर्थप्रवराय नित्यं क्षेत्रे मयूरे तु समास्थिताय ॥११॥ वारांपतिस्थाय सरोवराय वापीस्थकूपाय नमो नमस्ते। यद्यज्जलं भानुघनस्थरूपं तन्नस्थकायैव नमो नमस्ते ॥१२॥ त्वया ततं सर्वमिदं विभाति चराचरस्थं च जलं परेश। कृपाकटाक्षामृतधारयाऽस्मान् रक्षस्व संदर्शय ते स्वरूपम् ॥१३॥ भृशुंड्युवाच। एवं संस्तुवतां तेषां पुरस्तेजोमयं जलम्। प्रादुर्बभूव तत् दृष्ट्वा प्रणेमुः ससुरर्षयः ॥१४॥ तानुवाच महातीर्थं हर्षयुक्तेन चेतसा। वरं वृणुत देवेशा मुनयस्तं ददाम्यहम् ॥१५॥ भवत्कृतमिदं पुण्यं स्तोत्रं मे प्रीतिवर्धनम्। भविष्यति न संदेहो भुक्तिमुक्तिप्रदायकम् ॥१६॥ पठते शृण्वते नित्यं मयि स्नानफलप्रदम्। सर्वाघनाशनं सद्यो भविष्यति विशेषतः ॥१७॥ सर्वतीर्थवचः श्रुत्वा हर्षयुक्ताः सुरर्षयः। जगुः प्रणम्य देवेशाः प्रबद्धकरसंपुटाः ॥१८॥ देवर्षय ऊचुः। प्रसन्नं चेन् महातीर्थं तदा पितामहं परम्। शुद्धं कुरु तथा तस्य कमंडलौ स्थितिं स्थिराम् ॥१९॥ सर्वतीर्थं च ते नाम तथा ब्रह्मकमंडलुः। भवतु त्वत्प्रसादेन वर एव वृतः परः ॥२०॥ तथेति तानुवाचैव याचितं तीर्थमुत्तमम्। चकार देवविप्रैर्यत्तत् सर्वं कथितं मया ॥२१॥ देवेशा ऊचुः। श्रुतं सर्वं विशेषेण सर्वसंशयनाशनम्। तथापि न च तृप्यामः परं पीत्वा कथामृतम् ॥२२॥ माहात्म्यं कथितं विप्र तत्र सिद्धिं महाद्भुताम्। अलभन् के पुरा योगिन् वद तेषां चरित्रकम् ॥२३॥ भृशुंड्युवाच। पुरा कल्पे द्विजः कश्चिद्भरद्वाजकुलोद्भवः। मूर्खो बभूव देवेशा विद्यासंध्यादिवर्जितः ॥२४॥ तं गृह्य पितरौ तस्य स्थितं ब्रह्मकमंडलौ। ब्रह्माणं ययुतः प्रीत्या नदीमूलविराजितम् ॥२५॥ स्नात्वा नदीजले तत्र पूजयामासुरादरात्। विधिं कमंडलुस्थाने बभूवुर्भक्तिसंयुताः ॥२६॥ पुत्रस्तयोः सुबुद्ध्या वै युक्तो बभूव तत्क्षणात्। वेदादीन् कंठगान् देवा अवदत् प्रेमसंयुतः ॥२७॥ ततो हर्षयुतौ तस्य पितरौ गृह्य तं सुतम्। स्वस्थानं जग्मतुः प्रीत्या मुक्तिमंते प्रलेभिरे ॥२८॥ एवं नाना जनास्तत्र ज्ञानतोऽज्ञानतोऽपि वा। स्नानेन दर्शनेनैव ब्रह्मणः सिद्धिमाप्नुवन् ॥२९॥ अथान्यत् कथयिष्यामि क्षत्रियो रविवंशजः। सुरथो मालवे राजा बभूव परवीरहा ॥३०॥ स्वराज्यं धर्मसंयुक्तश्चकार सचिवैर्युतः। बहुकाले गते तत्र विदर्भाधिपतिर्ययौ ॥३१॥ दिग्जयार्थं ततस्तेन युयुधे बलसंयुतः। पराजितो विदर्भस्य राज्ञा राजा पपाल ह ॥३२॥ ततो यत्नं समास्थाय ह्यन्यराजसमन्वितः। संग्राममकरोद्धोरं पुनः पराजितोऽभवत् ॥३३॥ भूपालो ब्राह्मणान् पृष्ट्वा मयूरे चागतोऽभवत्। मध्यमेश्वरतीर्थे स स्नात्वा शिवं पुपूज ह ॥३४॥ तं नमस्कृत्य सेनाभिः संयुतो युयुधे पुनः। भूपः संजित्य वैदर्भं स्वराज्यं प्राप तत्क्षणात् ॥३५॥ अंते

यहाँ पृष्ठ का मूल पाठ दिया गया है:

शीर्षक (Header): खं. ६ अ. २५ | पान ७५


मुक्तिं जगामैव स्नानमाहात्म्यकारणात् । एवं तत्र ययुः सिद्धिं ज्ञानतोऽज्ञानतो जनाः ॥३६॥ अन्यच्च शृणुत प्राज्ञाश्चरितं पुण्यदं परम् । द्विजो गौतमवंशोऽभूत् स्वधर्माचारसंयुक्तः ॥३७॥ विद्याज्ञानादिसंयुक्तो न यशोऽप्यलभत् कदा । दीक्षादिषु प्रयत्नेनाभवत् कर्मसु तत्परः ॥३८॥ ब्राह्मणास्तत्कृतं कर्म दृष्ट्वा सविधि वैदिकम् । दोषयुक्तं विशेषेण दहशुः पापगौरवात् ॥३९॥ ततोऽतिखेदसंयुक्तो जगाम सर्वतीर्थिकाम् । अंते विचार्य तस्यां स स्नानं चकार भक्तितः ॥४०॥ हृषीकेशं प्रपूज्यैव नमस्कृत्य गृहं ययौ । ततः कर्म कृतं तेन दहशुः सविधि द्विजाः ॥४१॥ यद्यत्तेन कृतं देवा यशोयुक्तं बभूव ह । अंते मुक्तिं ययौ सोऽपि तीर्थसेवनपुण्यतः ॥४२॥ ज्ञानतोऽज्ञानतस्तत्र ययुः सिद्धिं विशेषतः । मया वक्तुं न शक्येत केनापि देवसत्तमाः ॥४३॥ अर्थान्यच्चरितं देवाः शृणुध्वं भावसंयुताः । दंडकारण्यदेशैकश्चांडालः पापकारकः ॥४४॥ वने गत्वा द्विजादींश्च मारयामास नित्यदा । परस्त्रियं स एकांतेऽयभत् दृष्ट्वा हठेन च ॥४५॥ एवं नानाविधं पापं चकार विषयप्रियः । एकदा धनसंयुक्तं वणिजं स ददर्श ह ॥४६॥ तमनु प्रययौ दुष्टः शस्त्रपाणिर्जिघांसया । तत्र मार्गे महेशाना ब्रह्मकमंडलू- द्भवाम् ॥४७॥ महानदीं स चांडालो ददर्श सन्निधौ गतः । जलस्पर्शादिकं तत्र न चकार सुदुर्मतिः ॥४८॥ ततो योजन- मात्रेण जघान वणिजं खलः । द्रव्यं तस्य प्रगृह्यैव स्वगृहं पुनरागमत् ॥४९॥ एवं कृत्वा ततः काले ममार नीचयोनिजः । यामास्तं गृह्य संताड्य ययुः संयमिनीं पुरीम् ॥५०॥ यमस्तान् प्रत्युवाचेदं वचनं धर्मलक्षणम् । महापापी भटा नूनमयं तदपि मुच्यताम् ॥५१॥ सर्वतीर्थस्य दूतेशा दर्शनं त्वभवत् पुरा । वणिजं हंतुकामस्य पापनाशकं महत् ॥५२॥ त्यज्यतां मानुषे देहेषु नरेनं विचक्षणाः । शुभाशुभं तत्र कृत्वा गमिष्यति पुनः पुरम् ॥५३॥ स कैवर्तोऽभवत्तत्र बंगाले देवसत्तमाः । एवं दर्शनमात्रेणेह कृतं दुरितं गतम् ॥५४॥ अन्यच्चजलबिंदोश्च स्पर्शजं कथयाम्यहम् । चरितं तस्य सर्वज्ञाः शृणुध्वं सिद्धिदं परम् ॥५५॥ व्याधः कश्चिद्वने संस्थो बभूवे तत्र देशजः । ब्रह्महत्यादिकं पापं चकार नित्यमादरात् ॥५६॥ ददर्श द्रव्यसंयुक्तं दुष्टधीरेकदा नरम् । खड्गमुद्यम्य निःकोशं तं हंतुं धावितोऽभवत् ॥५७॥ पपाल मानवो भीतः पृष्ठे व्याधस्तथा- गमत् । कमंडलूद्भवा गंगा प्राप्ता दैववशेन ह ॥५८॥ तामुल्लंघ्य पपालाऽसौ सोऽपि खड्गयुतस्तथा । व्याधः पपात दैवेनोल्लंघ्य तीरे दुरात्मवान् ॥५९॥ स तत्र जलबिंदूनां स्पर्शयुक्तो बभूव ह । नरो दूरं गतः सोऽपि निःश्वस्य स्वगृहं ययौ ॥६०॥ एवं पापसमाचारं मृतं काले सुदुर्मतिम् । व्याधं तं गृह्य देवेशा यमदूता यमं ययुः ॥६१॥ तं दृष्ट्वा धर्मराजस्तानुवाच प्रेमसंयुतः ।