मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
॥ इति श्रीमुद्गलपुराणे अष्टमः खंडः समाप्तः ॥
॥ अथ श्रीमुद्गलपुराणे नवमः खंडः प्रारभ्यते ॥
खं. ९ अ. १ पान १ ॥ श्रीगणेशाय नमः ॥ श्रीगणेशशारदागुरुभ्यो नमः ॥ शौनक उवाच । धूम्रवर्णावतारस्य श्रुत्वा चरितमुत्तमम् । नानाख्यान- समायुक्तं न तृप्तोऽहं महामते ॥१॥ अधुना वद दक्षस्य संवादं मुद्गलस्य च । पुनः किं पृष्टवान् दक्षो मुद्गलाय महर्षये ॥२॥ सूत उवाच । श्रुत्वा माहात्म्यमुख्यं स धूम्रवर्णात्मकं परम् । हृष्टरोमा प्रजानाथः पुनः पप्रच्छ तं मुनिम् ॥३॥ दक्ष उवाच । धन्योऽहं सर्वभावैश्च त्वत्तः श्रुत्वा महाद्भुतम् । चरितं धूम्रवर्णस्य सर्वसिद्धिप्रदायकम् ॥४॥ अधुना वद विप्रेश योगं पूर्णपदप्रदम् । अष्टौ विनायकाः प्रोक्तास्तेषां योगे स्वरूपकम् ॥५॥ स्वानंदः कीदृशो योगोऽयोगस्तथैव कीदृशः । सुशांतिदः पूर्णयोगस्तेषां रूपं सुविस्तरात् ॥६॥ सूत उवाच । एवं पृष्टो महायोगी दक्षेण हर्षसंयुतः । तं जगाद शृणुष्व त्वं द्विजैः शौनक सौख्यदम् ॥७॥ मुद्गल उवाच । स्वानंदात् स्वेच्छया दक्ष ब्रह्माणि निःसृतानि तु । असत् सत् समनेतीति चत्वारि मायया प्रभोः ॥८॥ एकैकाश्रितभावेन सृष्टं तैः सौख्यरूपकम् । ततो बोधस्ततः सोऽहं ततो बिंदुर्महामते ॥९॥ ततश्चतु- र्विधं विश्वं स्थूलं सूक्ष्मं समात्मकम् । नाद एतानि ब्रह्माणि मीलितानि परस्परम् ॥१०॥ निजसत्ताविहीनानि जातानि दैवयोगतः । स्वस्वव्यापारजं भोगं लेभिरे न कदाचन ॥११॥ ततस्तैश्च तपस्तप्तं घोरं चित्तैकभावतः । यस्मै कस्मै नमश्चोक्त्वा मूलभूताय सर्वपैः ॥१२॥ दिव्यवर्षसहस्रेण प्रसन्नो गणपोऽभवत् । हृदिस्थं दर्शयामास मंत्रमेकाक्षरं स्वकम् ॥१३॥ तं दृष्ट्वा हर्षयुक्तानि जेपुर्मंत्रं ततः परम् । गते वर्षशते पूर्णे दर्शयामास स्वं वपुः ॥१४॥ नरकुंजररूपं तु दृष्ट्वा विस्मितमानसैः । सद्यस्तत्कृपया ज्ञानं प्राप्तं तद्रूपबोधकम् ॥१५॥ ज्ञात्वा स्वानंदनाथं तं ब्रह्माणि हर्षतः परम् । तमेव हृदये ध्यात्वा जेपुर्मंत्रं सुसिद्धये ॥१६॥ वर्षेणैकेन विघ्नेशः सुप्रसन्नो बभूव ह । आययौ वरदानार्थं पुरस्तेषां प्रतापवान् ॥१७॥ तं दृष्ट्वा तानि ब्रह्माणि तुष्टुवुः पूज्य विघ्नपम् । बद्ध्वा करपुटं दक्ष स्वस्वसामर्थ्यसिद्धये ॥१८॥ ब्रह्माण्यूचुः । नमस्ते परेशाय विघ्नाधिपाय परेषां सदा सौख्यदात्रे हिताय । स्वसंवेद्यरूपाय चानंददाय निजानंदयोगाय ढूंढे नमस्ते ॥१९॥ अनाथाय नाथाय सर्वात्मनां ते सदा मोहहीनाय नेतिधराय । शिवायाथ त्रैविध्यभावप्रदात्रे निजा- नंदयोगाय ढूंढे नमस्ते ॥२०॥ समायाथ मायास्वरूपाय द्वंद्वप्रकाशाय सर्वात्मकार्यायैव विष्णो । महानंदरूपाय सर्वातिगाय निजानंदयोगाय ढूंढे नमस्ते ॥२१॥ सदा सत्यरूपाय सर्वात्मने ते विकारैर्विहीनाय सूर्याय भूम्ने । अनंताय भेदादिभि- र्वर्जिताय निजानंदयोगाय ढूंढे नमस्ते ॥२२॥ अपारस्वरूपाय नानामयाय विहारेषु सक्ताय पूर्णात्मकाय । महाशक्तये
खं. ९ अ. १ पान २
शक्तिरूपाय मोहिन् निजानंदयोगाय ढुंढे नमस्ते ॥२३॥ निरोधस्वरूपां समास्थाय बुद्धिं निजानंदभ्रांतिप्रदां सिद्धिरूपाम्। प्रविश्यैव तुर्येषु बिंबात्मकाय निजानंदयोगाय ढुंढे नमस्ते ॥२४॥ ततः सांख्यरूपं विनिर्माय तुर्यैस्तदाकाररूपाय वै बोध- काय। सदा स्वात्मनिष्ठाय संकल्पहंत्रे निजानंदयोगाय ढुंढे नमस्ते ॥२५॥ ततो बोधरूपं विनिर्माय बोधस्वरूपाय माया- मयाकारधाम्ने। सदा खेलकायाथ नानाप्रचारिन्निजानंदयोगाय ढुंढे नमस्ते ॥२६॥ ततो देहिरूपाय निर्माय तं वै सदैक- प्रबोधाय भ्रांतेर्धराय। स्वतो भ्रांतिहीनाय सोऽहंप्रदाय निजानंदयोगाय ढुंढे नमस्ते ॥२७॥ ततो बिंदुमात्राय निर्माय बिंदुं चतुर्धा चतुष्पादरूपेण खेलिन्। अनंतस्वरूपाय देहप्रचार निजानंदयोगाय ढुंढे नमस्ते ॥२८॥ ततो नादरूपं विनिर्माय नादस्वरूपाय तत्स्थाय चैतन्यदाय। अजायथ त्रैविध्यदेहस्थिताय निजानंदयोगाय ढुंढे नमस्ते ॥२९॥ समास्थाय बाह्यांतरे संस्थिताय विनिर्माय सौषुप्तरूपं परात्मन्। तदाकाररूपेण चानंददाय निजानंदयोगाय ढुंढे नमस्ते ॥३०॥ सदा स्वप्न- रूपाय सर्वांतरस्थाय सूक्ष्माय सत्त्वात्मने खेलकाय। विनिर्माय सूक्ष्मं त्रिधा संस्थिताय निजानंदयोगाय ढुंढे नमस्ते ॥३१॥ नमस्ते प्रभो स्थूलरूपाय तन्न विनिर्माय जागृत्तदाकाररूप। सदा ह्यन्नभूताय बाह्यात्मकाय निजानंदयोगाय ढुंढे नमस्ते ॥३२॥ गणांस्ते गणेशात्मरूपेण सृष्टांस्तवांशांश्च तान् रक्ष ब्रह्मेश दासान्। सदा पादपद्मे रतांस्ते कुरुष्व निजानंदयोगाय ढुंढे नमस्ते ॥३३॥ गजाकारतुंडाय लंबोदराय चतुर्बाहवे शूर्पकर्णाय तुभ्यम्। त्रिनेत्राय पाशांकुशाद्यैर्युताय निजानंद- योगाय ढुंढे नमस्ते ॥३४॥ नराकाररूपाय कंठादधस्तात्तथा ह्येकदंताय रक्तांबराय। महाऽऽखुध्वजायाऽऽखुवाहाय नित्यं निजानंदयोगाय ढुंढे नमस्ते ॥३५॥ अनंतप्रसूतिश्च ते वामभागे महासिद्धिरूपा तथा दक्षिणांगे। धृते पूर्णमाये परे देव- देव निजानंदयोगाय ढुंढे नमस्ते ॥३६॥ स्वसंवेद्यनाम्नि पुरे संस्थिताय प्रमोदादिभिः सेव्यमानाय तुभ्यम्। तथैक्षोः समुद्रे सुलीलाकराय निजानंदयोगाय ढुंढे नमस्ते ॥३७॥ समाधिस्वरूपं गणेशं स्तुवीमः कथं ब्रह्मणो ब्रह्मभूतं महात्मन्। तथापि स्वबुद्ध्या प्रमाणैः स्तुतोऽसि निजानंदयोगाय ढुंढे नमस्ते ॥३८॥ वयं धन्यरूपा गणाधीश ते वै स्तवेनाऽथ पूजादिना दीनबंधो। नमस्ते नमस्ते प्रसीदाऽऽशु भूमन् निजानंदयोगाय ढुंढे नमस्ते ॥३९॥ मुद्गल उवाच। एवं स्तुत्वा गणा- धीशं प्रणेमुस्तं प्रजापते। ब्रह्माणि तान्यथोवाच हर्षितः स गजाननः ॥४०॥ श्रीगणेश उवाच। वरान् ब्रूत हृदिस्थान् वै ब्रह्माणि तुष्टिमागतः। दास्याम्यनेन स्तोत्रेण तपसा दुर्लभानपि ॥४१॥ भवत्कृतमिदं स्तोत्रं मम संतोषकारकम्। भविष्यति न
यहाँ पृष्ठ का सम्पूर्ण पाठ देवनागरी लिपि में पंक्ति-दर-पंक्ति प्रस्तुत है:
खं. ९ अ. २ पान ३ संदेहः सर्वसिद्धिप्रदायकम् ॥४२॥ यः पठेत् पाठयेद्वाऽपि श्रावयेन्मानवोत्तमः । स भुक्त्वा ह्यखिलान् भोगानंते स्वानंदगो भवेत् ॥४३॥ विजयप्रदमेतद्धि पुत्रपौत्रप्रदं भवेत् । धनधान्यपशूनां तु दायकं प्रभविष्यति ॥४४॥ अंगहीनजनानां तु स्वंगदं रोगनाशनम् । अलक्ष्मीसंकटस्यैव दहनं पाठकारिणाम् ॥४५॥ विद्या ज्ञानादिकं सर्वं लभतेऽनेन निश्चितम् । भुक्तिं मुक्तिं ब्रह्मभूयं पठनात् श्रवणात् किल ॥४६॥ षट्कर्मसाधने सिद्धं परकृत्यविनाशनम् । राजबंधहरं चैव भविष्यति सुसेविनाम् ॥४७॥ एकविंशतिवारं चैकविंशति दिनानि यः । पठते स लभेत् सर्वमीप्सितं नात्र संशयः ॥४८॥ एवं गणपतेर्वाक्यं श्रुत्वा ब्रह्माणि विन्नपम् । प्रणम्य हर्षयुक्तानि जगुस्तं च प्रजापते ॥४९॥ ब्रह्माण्यूचुः । वरदोऽसि गणाधीश तदा ते भक्तिमुत्तमाम् । देहि यया महामोहो नश्यत्यत्र न संशयः ॥५०॥ निजव्यापारजं देहि बोधं कथय सर्वप । कार्यं तच्च करिष्यामस्त्वदाज्ञावशगानि भोः ॥५१॥ सदाऽस्मन्निकटे नाथ तिष्ठ स्वभक्तकारणात् । निर्विघ्नं कुरु सर्वत्र गजानन नमोऽस्तु ते ॥५२॥ त्वत्समानि कुरुष्व त्वमस्मान् पादाश्रितानि ते । भजतां सर्वदातृप्तिं त्वत्प्रसादान्नमोऽस्तु ते ॥५३॥ यद्यदिच्छामहे नाथ तत्तत्तु सफलं भवेत् । सत्यसंकल्पजं सौख्यं देहि नो गणनायक ॥५४॥ एवं तेषां वचः श्रुत्वा भक्तिभावेन तोषितः । तथेति तान्योक्तवासावंतर्धानं चकार ह ॥५५॥ अष्टौ विनायकाः प्रोक्तास्तद्रूपेण गजाननः । तेषां सामीप्यगो भूत्वाऽतिष्ठत् सर्वार्थसिद्धये ॥५६॥ एतत् सर्व समाख्यातं स्वसंवेद्यस्य चेष्टितम् । श्रवणात् पठनान्नृणां सर्वसिद्धिप्रदायकम् ॥५७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते स्वसंवेद्यस्वरूपवर्णनं नाम प्रथमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अधुना शृणु दक्ष त्वं निवृत्तिरूपधारिणः । चरितं गणनाथस्य ब्रह्मभूतपदप्रदम् ॥१॥ स्वानंदः सकलाधारो नानाब्रह्मसु संस्थितः । जगत्सु योगभावेन संयोगेन तदात्मकः ॥२॥ स नानामायया युक्तो नानाभाव- परायणः । भावाभावादिहीनत्वाच्छोभते नित्यमंजसा ॥३॥ अनंतकल्पकाले तु गते संतोषमादधे । निवृत्तिमिच्छति
[Header] खं. ९ अ. २ पान ४
प्राज्ञो मायाहीनत्वकारणात् ॥४॥ जगद्भिर्ब्रह्मभिः सार्धं गणेशमभजत्ततः । संयोगभावनाशार्थं सर्वतो भक्तिसंयुतः ॥५॥ एकाक्षरविधानेन पूजयामास तं विभुम् । मंत्रं जजाप सर्वेशो ध्यात्वा हृदि गजाननम् ॥६॥ दक्ष उवाच । स्वसंवेद्यात्मकः प्रोक्तो मंत्र एकाक्षरो महान् । अयोगगणनाथस्य प्रीतिदः स कथं वद ॥७॥ मुद्गल उवाच । शब्दशब्दार्थसंयुक्तो मंत्रो गणपतेः स्मृतः । स्वसंवेद्यात्मकः प्राज्ञैः सर्वशास्त्रेषु संमतः ॥८॥ नामैकदेशमात्रत्वात् स एवायॊगवाचकः । न तत्र शब्दशब्दार्थौ तयोर्भोगादिकं कदा ॥९॥ गते वर्षशते तत्र प्रसन्नो गणनायकः । आययौ तं वरान् दातुं निजभक्तसुख- प्रदः ॥१०॥ दृष्ट्वा गजाननं दक्ष प्रहृष्टः सर्वसंयुतः । स्वानंदः प्रणनामाथ पूपुजे भक्तिसंयुतः ॥११॥ दक्ष उवाच । सगुणो देह एतस्य निर्गुणं मस्तकं परम् । तयोर्भेदभावेऽयं गजाननो निजात्मकः ॥१२॥ अयोगे सगुणं नैव निर्गुणं नैव वर्तते । तयोः संयोगरूपं यन्नैव योगींद्रसत्तम ॥१३॥ कथं गजाननश्चायमयोगे वाचकोऽभवत् । छिंधि मे संशयं पूर्णं वचसा योगभाविना ॥१४॥ मुद्गल उवाच । सिद्धिर्देहमयी माया बभूवे तस्य भो विधे । नानाश्रमं परित्यज्य लीना जाता शरीरके ॥१५॥ नानाज्ञानप्रभावं तु त्यक्त्वा बुद्धिः शिरोऽभवत् । भ्रांतिधारकभावं सा तल्लीना संबभूव ह ॥१६॥ तयो- र्योगे स्वसंवेद्यं ब्रह्म संयोगधारकम् । गजाननाकृतिस्थं तद् बभूवे लीनभावतः ॥१७॥ सिद्धिवुद्धिविहीनोऽयमयोगे वाचको- ऽभवत् । गणेशो गजवक्त्रादिचिह्नयुक्तो न संशयः ॥१८॥ शब्दशब्दार्थसंयोगैस्त्रिभिर्हीनो गजाननः । अयोगे शोभते दक्ष मायाभ्यां वर्जितः सदा ॥१९॥ अथो शृणु चरित्रं त्वं प्रकृतं शांतिदायकम् । स्वसंवेद्यः प्रतुष्टाव गणेशं हर्षसंयुतः ॥२०॥ ससर्वस्वानंद उवाच । अजं पुराणं परमव्ययं तं निवृत्तमात्रं ह्यसमाधिसंस्थम् । अयोगरूपं गणनाथमाद्यं नमामि निर्मायिकाम- प्रमेयम् ॥२१॥ न जारजं स्वेदजमंडजं न न चोद्भिदं स्थावरजंगमं न । अनादिमध्यांतममोघरूपं नमामि निर्मायिकम- प्रमेयम् ॥२२॥ न भूस्वरूपं न जलं प्रकाशं न वायुरूपं न खमेव ढुंढिम् । न राजसं सत्त्वतमोयुतं न नमामि निर्मायिकम- प्रमेयम् ॥२३॥ न जागृतं स्वप्नगतं न देवं सौषुप्तकं नैव तुरीयसंस्थम् । न बिंदुमात्रं न च सोऽहमेव नमामि निर्मायिकम- प्रमेयम् ॥२४॥ न बोधगं नैव विबोधरूपं न मोहयुक्तं न च मोहहीनम् । न निर्गुणं नो सगुणं तथा तं नमामि निर्मा- यिकमप्रमेयम् ॥२५॥ न कर्मरूपं न च ज्ञानरूपं समं न चाधीनतमं सदा न । न स्वात्मगं सर्वविकारहीनं नमामि निर्मायिकमप्रमेयम् ॥२६॥ असत्स्वरूपं न च सत्स्वरूपं समानरूपं न च नेतिगं तम् । निजात्मरूपं विविधेषु नैव
खं. ९ अ २ पान ५ नमामि निर्मायिकमप्रमेयम् ॥२७॥ अनंतरूपं न तथैकरूपं समं न तुर्यं न च पंचमं तम् । सदा गणेशाकृतिरूपधारं नमामि निर्मायिकमप्रमेयम् ॥२८॥ न चागतं नैव गतं गणेशमयोगरूपं प्रवदंति वेदाः । सदा निवृत्तिमयमासमंतान्नमामि निर्मायिकमप्रमेयम् ॥२९॥ वचोभिरारात् कथितुं कदाचिदयोगभावान्न मनसो न शक्यम् । कदा तमप्राप्य वदामि देवं नमामि निर्मायिकमप्रमेयम् ॥३०॥ न सिद्धियुक्तं न च बुद्धियुक्तं न मायिकं ब्रह्ममयं परेशम् । अनंतपारं गजवक्त्र- धारं नमामि निर्मायिकमप्रमेयम् ॥३१॥ त्रिनेत्रधारं गजवक्त्रयुक्तं चतुर्भुजं चैकरदं महांंतम् । महोदरं वाहनहीनगं तं नमामि निर्मायिकमप्रमेयम् ॥३२॥ न योगनिष्ठं न विहारयुक्तं निजात्मनाम्नि नगरे न संस्थम् । निजे समुद्रे न विहारकारं नमामि निर्मायिकमप्रमेयम् ॥३३॥ न भक्तभक्तिप्रियमैव देवं तथापि योगेन निवृत्तिदं तम् । अपारमायामयपाशहारं नमामि निर्मायिकमप्रमेयम् ॥३४॥ अहं विकारेण विमोहितोऽतो भ्रमन् गणेशाधिपते महात्मन् । जगत्सु नानाविध- ब्रह्मसु प्रभो नमामि निर्मायिकमप्रमेयम् ॥३५॥ समाधिरूपोऽहमचिंत्यभावः सर्वात्मकः सर्वविवर्जितोऽहम् । भ्रमामि मां रक्ष निवृत्तिदातंर्नमामि निर्मायिकमप्रमेयम् ॥३६॥ सुसिद्धिबुद्धिप्रद मोहयुक्तो विभज्य नानाविधमात्मरूपम् । चतुः पदार्थेषु चरामि भ्रांत्या नमामि निर्मायिकमप्रमेयम् ॥३७॥ सुखेलयुक्तोऽहमथो सुखेनेतरेण योगेन तदात्मना वै । न शांतिजं सौख्यमणु ह्यविंदं नमामि निर्मायिकमप्रमेयम् ॥३८॥ अनंतभावेन विमोहितं मां रक्षस्व ते पादप्रियं गणेश । निवृत्तिकां देहि परार्थभूतां नमामि निर्मायिकमप्रमेयम् ॥३९॥ नमो गणेशाय निवृत्तिधारिणे नमः परेशाय सुखान्धि- वासिने । नमश्च हेरंब महोदराय ते नमो नमो ब्रह्मपते सुशांतये ॥४०॥ अयोगरूपं गणनायकं तं प्रवेशहीनात् कथमेव ढुंढे । दयापरं स्तौम्यधुना च तारय नमो नमो विघ्नपते नमस्ते ॥४१॥ मुद्गल उवाच । एवं स्तुत्वा गणेशानं स्वानंदः प्रणनाम तम् । भक्त्या हर्षेण संयुक्तस्तमुवाच गजाननः ॥४२॥ श्रीगणेश उवाच । वरं वृणु महाभाग सर्वं दास्यामि चेप्सितम् । माया- मायिकभेदैस्त्वं दुःखितोऽसि न संशयः ॥४३॥ त्वया कृतमिदं स्तोत्रं सर्वशांतिप्रदं भवेत् । न मायासंभवं दुःखं प्रलभेत् पाठतो नरः ॥४४॥ यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः । असाध्यं साधयेन् मर्त्यः श्रवणेन निजप्रदम् ॥४५॥ एवं श्रुत्वा गणेशस्य वचनं स्वस्वरूपकम् । जगाद तं प्रणम्यादौ कृत्वा करपुटं विधे ॥४६॥ ससर्वस्वानंद उवाच । यदि तुष्टोऽसि विघ्नेश तदा देहि निवृत्तिजम् । सुखं नान्यं वरं भ्रांतिं मायामेतां निवारय ॥४७॥ तथेति तमुवाचैव गणेशोऽंतर्दधे ततः ।
स्वानंदः खिन्नभावेन स्वस्थाने संस्थितोऽभवत् ॥४८॥ सस्मारायोगनाथं तं ततश्चित्रं बभूव ह । विश्वानि ब्रह्ममुख्यानि स्वानंदे लयमाययुः ॥४९॥ ततः स्वयं निजानंदो नष्टस्तत्र बभूव ह । मायाहीनप्रभावेणायोगस्थः शुशुभे मुदा ॥५०॥ संयोगमायया हीनो न ददर्श स किंचन । स्वात्मानं वाऽपरं मुख्यं अयोगं गणनायकम् ॥५१॥ सर्वबंधविनिर्मुक्तं बभूव स्वस्वरूपकम् । एतत् सर्वं समाख्यातमयोगस्य चरित्रकम् ॥५२॥ अयोगे दक्ष नैवास्ति त्वमहं ब्रह्म शाश्वतम् । न गणेशः स्वसंवेद्यं तेन निर्वृतिमाप्नुयात् ॥५३॥ यः पठेच्छृणुयाद्वा यो ह्ययोगस्य चरित्रकम् । स भुक्त्वा सकलान् भोगानंते निर्वृतिमाप्नुयात् ॥५४॥ ॥ ओमिति श्रीमदंन्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते अयोगचरितकथनं नाम द्वितीयोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच ॥ अधुना शृणु दक्ष त्वं पूर्णशांतिप्रदायकम् । चरितं गणनांथस्य नानायोगेश्वरस्य यत् ॥१॥ अयोगो मायया हीनः सदा बंधविवर्जितः । निमग्नश्च ब्रह्मसुखे तिष्ठ नित्यं विशेषतः ॥२॥ स्वानंदाख्यं परं ब्रह्म नष्टं गाणेशयोगतः । पुनः सृष्टं गणेशेन पूर्णयोगस्वरूपिणा ॥३॥ एवं पुनः प्रनष्टं तत् कालेन बहुना विधे । पुनः सृष्टं पुनर्नष्टं कल्पा एवं गता बहु ॥४॥ नित्यं त्वयोगसंस्थः स गणेशो ब्रह्मनायकः । विचारमकरोचित्ते दृष्ट्वा स्वानंदजं भ्रमम् ॥५॥ अहो मायाप्रभावेण ब्रह्म स्वानंदधारकम् । नानाभावयुतं भूत्वा पुनर्भवति नश्यति ॥६॥ मायाविहीनभावेनाऽहं सदा मोहवर्जितः । अखंडयोगसंयुक्तोऽतिष्ठं ब्रह्मपरायणः ॥७॥ अविनाशिपदं दत्तं मह्यं केन महात्मना । न ब्रह्म नाशसंयुक्तमविनाशि न विद्यते ॥८॥ दक्ष उवाच । अविनाशि समाख्यातं देहिरूपं पुरा त्वया । स्वत उत्थानकेनैव सृष्टं तदेव निश्चितम् ॥९॥ स्वसंवेद्यात् परं ब्रह्मायोगरूपं प्रकीर्तितम् । तदेव केन योगीश विनाशि कथ्यते त्वया ॥१०॥ मुद्गल उवाच । नाशाऽनाशादिभेदाश्च स्वानंदात् संभवंति च। भेदाऽभेदादिहीनं तत् स्वसंवेद्यं प्रकीर्तितम् ॥११॥ शिष्यस्य बोधदानार्थं योगिनस्तं वदंति च । कथितुं नैव शक्यत्वात् किंचिद्भेदं प्रजापते ॥१२॥ अयोगमविनाशाख्यं कथयाम्यधुना
परम् । नाशरूपं खसंवेद्यं बोधार्थं नात्र संशयः ॥१३॥ अयोगश्चिंतयाऽऽविष्टो बभूवे बंधहानतः । निवृत्तिजं सुखं तुच्छं मानयामास चेतसा ॥१४॥ सदा मायाविहीनत्वं ममास्त्यत्र न संशयः । मायायुक्तविहीनत्वं नैव ब्रह्मणि विद्यते ॥१५॥ विचार्य खेदसंयुक्तो योगमार्गपरोऽभवत् । अयोगो हृदि संचिंत्य तपस्तताप दारुणम् ॥१६॥ दशवर्षैर्गणाध्यक्षः प्रसन्नो हृदि संस्थितः । दर्शयामास मंत्रं स एकाक्षरं स्वकीयकम् ॥१७॥ दृष्ट्वा योगो जजापाऽतिहर्षितो मंत्रमुत्तमम् । ध्यात्वा मंत्रस्वरूपस्थं गणेशं शांतिदायकम् ॥१८॥ ततः स्वल्पेन कालेन रूपं गणपतेः शुभम् । ददर्श गजवक्त्रादि चिह्नयुक्तं महाप्रभुः ॥१९॥ ततोऽतिविस्मितो भूत्वा विचारमकरोत् हृदि । कोऽयं गजाननो देवः स्त्रीभ्यां संशोभते हृदि ॥२०॥ गणेशकृपया ज्ञानं बभूव तस्य शाश्वतम् । तेन सर्वमयोगेन ज्ञातं विघ्नेशचेष्टितम् ॥२१॥ ततोऽतिहर्षितो भूत्वा ध्यात्वा देवं गजाननम् । मंत्रं जजाप योगज्ञः शांतिप्राप्त्यर्थमादरात् ॥२२॥ स्वयं स्वल्पेन कालेन पुरो ययौ गजाननः । वरदो भक्तवात्सल्यान् महाभक्तस्य भो विधे ॥२३॥ दक्ष उवाच । आश्चर्यं विप्र वदसि ज्ञायते न मया परम् । रहस्यं तेऽद्य वाक्यस्य योगग्रथितकस्य च ॥२४॥ अष्टौ विनायकाः प्रोक्तास्ते सर्वे गजवक्त्रिणः । एकदंतादिचिह्नैश्च संयुक्ता गणपाः किल ॥२५॥ संयोगस्थं गणेशानं भजंतेऽनन्यमानसाः । तेषां हृदि गणेशानः प्रकटो जायते यदा ॥२६॥ तदा ते विस्मिता भूत्वा न जानंति स्वरूपकम् । नित्यं गजाननाः प्राज्ञा गजाननं कथं मुने ॥२७॥ एकाक्षररहस्यं ते न जानंति कथं प्रभो । एकाक्षरस्य भावेन संस्थिता नित्यमंजसा ॥२८॥ तथा संयोगरूपस्थो गणेशो गणनायकम् । मंत्रयुक्तं न जानाति मंत्राकृतिधरः कथम् ॥२९॥ अयोगगणनाथोऽयं गजाननाकृतिं धरन् । समंत्रो मंत्रयुक्तं तं न जानाति गणेश्वरम् ॥३०॥ कीदृशो गणनाथस्तु पूर्णयोगप्रवाचकः । यं न जानंति विघ्नेशास्तदाकृतिधरा अपि ॥३१॥ संयोगे गणनाथोऽपि सिद्धिवुद्धिसमन्वितः अयोगे सिद्धिबुद्धिभ्यां हीन एव स वर्ण्यते ॥३२॥ पूर्णयोगे गणेशानः संयोगायोगवर्जितः । मायाभ्यां संयुतः प्रोक्तः कथं वद रहस्यकम् ॥३३॥ मुद्गल उवाच । सम्यक् पृष्टं त्वया दक्ष रहस्यं परमाद्भुतम् । योगिनां सुखदं पूर्णं शांतिदं भावितात्मनाम् ॥३४॥ एकाग्रचित्तभावेन शृणु तस्य चरित्रकम् । अन्यथा भ्रांतिसंयुक्तो भविष्यसि निरंतरम् ॥३५॥ यथा विश्वमिदं नित्यं ब्रह्माकारं प्रवर्तते । तथापि ब्रह्मरूपं तन्न जानाति हृदि स्थितम् ॥३६॥ नामरूपविहीनत्वान् मंत्रस्तस्य न विद्यते । तपसा युक्तभावेन प्रणवं पश्यति प्रभुम् ॥३७॥ सर्वाकारं महाबीजं प्रणवाकृतिरूपिणम् । दृष्ट्वा
विस्मयभावेन विचारमकरोत् हृदि ॥३८॥ तपसा योगभावेन चतुष्पादं जगन्मयम् । जानाति कृपया तस्य मंत्रराजं जगद्यथा ॥३९॥ ततो योगप्रभावेण प्रणवार्थस्वरूपिणम् । देवं सर्वात्मभावस्थं पश्यति विश्वमंजसा ॥४०॥ दृष्ट्वाऽतिविस्मितं भूत्वा विचारयति चेतसि । तपसा योगभावेन तं जानाति महाप्रभुम् ॥४१॥ ततो योगप्रभावेण शांतिस्थं गणनायकम् । पश्यति वक्रतुंडाख्यं ब्रह्म स्वानंदगं परम् ॥४२॥ प्रणवो देहरूपश्चेत् प्रणवार्थो गजाकृतिः । शिरस्तयोश्च संयोगे गणेशो योगरूपधृक् ॥४३॥ योगाकारं महद्रूपं दृष्ट्वा विस्मितमानसम् । विश्वं भक्तिसमायुक्तं भजनार्थं मनो दधे ॥४४॥ एतादृशं सुशांतिस्थं ब्रह्म देहधरं कथम् । भवति तस्य सेवा वै कुर्वे नित्यं महात्मनः ॥४५॥ हृदि स्थितं तस्य भावं ज्ञात्वा रूपधरः प्रभुः । गजाननो बभूवापि पुनर्हृष्ट्वाऽतिविस्मितम् ॥४६॥ तं पश्यति प्रजानाथ कोऽयं भिन्नस्वरूपधृक् । तस्तस्तं तस्य जानाति कृपया योगसेवया ॥४७॥ गणेशानं मूर्तिधरं भजेतेऽनन्यभावतः । मंत्रादिना रहस्येन जानीहि विश्वमादरात् ॥४८॥ तथा गणेश्वराः प्रोक्ता अष्टौ योगप्रवाचकाः । तेषां हृदि स्थितं ब्रह्म स्वसंवेद्यं न संशयः ॥४९॥ महैश्वर्यप्रसंयुक्ता न जानंति कदाचन । वयं ब्रह्मस्वरूपाश्च प्रत्येकं मानयंति ते ॥५०॥ न मत्तः परमं किंचिज्ज्ञात्वा मोहसमन्विताः । विश्वात्मनि च विश्वस्मिन् क्रीडायुक्ता बभूविरे ॥५१॥ कृत्वा नानाविधं खेलं नानाकल्पपरायणाः । एवं बहौ गते काले शांतिमिच्छंति शाश्वतीम् ॥५२॥ ततः क्रीडां विहायैव स्वमहिम्न्यभवन् स्थिताः । तथापि ते पुनर्विश्वप्रवशाः ससृजुः स्वयम् ॥५३॥ ततस्ते खेदसंयुक्ता विचारं कुर्वते परम् । केन स्म प्रेरिता विश्वं सृजामो विविधं वयम् ॥५४॥ अतः स्वाधीनता नो न विद्यतेऽपि कदाचन । वयं न ब्रह्मरूपाश्च मायामोहयुताः सदा ॥५५॥ एवं मनसि संधार्य तपश्चेरुः समाधिदम् । तपसा योगसंयुक्ता बभूवुर्नात्र संशयः ॥५६॥ क्रमेण गणपाः सर्वे पूर्णयोगस्वरूपिणि । लयं ययुः सुशांतिस्थाः शांतस्वरूपे प्रजापते ॥५७॥ तत्र विधिं प्रवक्ष्यामि शृणु संशयनाशकम् । योगोऽष्टधा समाख्यातस्तत् स्वरूपं सुयोगदम् ॥५८॥ शमो दम आसनं च प्राणायामश्चतुर्थकः । प्रत्याहारो धारणा वै ध्यानं समाधिरष्टमः ॥५९॥ स्वधर्मयुक्तभावेन मनो नियम्य यत्नतः । यतते ब्रह्मप्राप्त्यर्थं स शमः परिकीर्तितः ॥६०॥ स्वधर्मस्थितिमास्थाय नियमादिखभावतः । दमेद्देहं सुशांत्यर्थं दमस्तेन प्रकथ्यते ॥६१॥ स्वस्तिकादीनि भो दक्ष आसनानि विशेषतः । साधयित्वा समातिष्ठेद्योगार्थमासनं स्मृतम् ॥६२॥ प्राणायामं ततोऽभ्यस्य लघ्वादिकं क्रमेण च । योगार्थं साधयेद्वायुं स प्राणायाम उच्यते ॥६३॥ नानाविषयभोगार्थं गच्छंतींद्रियकाणि तु । तेभ्यस्तानि समागृह्य योग-
खं. ९ अ. ३ पान ९
युक्तानि कारयेत् ॥६४॥ स मनांसि सुशांत्यर्थं हृत्वा हृत्वा पुनः पुनः। इंद्रियाणि नरः कुर्यात् प्रत्याहारः स वै स्मृतः ॥६५॥ महावाक्यादिभिः प्रोक्तं ब्रह्म शब्दार्थभावतः। संधार्य स श्रमे दक्ष धारणा सा प्रकीर्तिता ॥६६॥ हृदि ब्रह्मावबोधश्च जायते ऐक्यभावतः। स्वस्य तेन समाख्यातं ध्यानं ब्रह्म सुखप्रदम् ॥६७॥ ततो ब्रह्मणि सोऽप्येवं लीनः संजायते परे। न ब्रह्म न स्वयं तत्र समाधिः परिकीर्तितः ॥६८॥ इदं योगाष्टकं प्रोक्तं योगप्राप्त्यर्थमादरात्। सेविनां ब्रह्मदं पूर्णं भविष्यति न संशयः॥६९॥ तत्र मायायुता जीवा भिन्नदेहधरा मताः। तेषामष्टकमेवं तद्वर्तते साधनात्म कम् ॥७०॥ ब्रह्माकाराणि प्रोक्तानि तत्त्वानि विविधानि तु। विश्वरूपाणि सर्वाणि ब्रह्माण्यन्नमुखानि च ॥७१॥ तेषां योगः समाख्यातस्त्रिविधो नाऽत्र संशयः। देहादिभावशून्यत्वात् तच्छृणुष्व सुखप्रदम् ॥७२॥ धारणाध्यानके दक्ष समाधिः परिकीर्तितः। त्रिभिर्योगं समाराध्य शांतिगानि भवंति तु ॥७३॥ स्वस्वब्रह्मणि ये संति भोगा ब्रह्मसुखात्मकाः। तांस्त्यक्त्वा धारयेद्ब्रह्म तपस्तदेव कथ्यते ॥७४॥ पूर्णशांत्यर्थमत्यंतं ब्रह्माणि संभवंति चेत्। त्यक्त्वा भोगांस्तपस्तेषां ज्ञातव्यं विबुधैः परम् ॥७५॥ मनो- वाणीविहीनं न मनोवाणीमयं न च। ब्रह्म वेदेषु विख्यातं तदेव गणनायकः ॥७६॥ न तत्र सगुणं दक्ष निर्गुणं नैव वर्तते। गणेशो पश्य वेदेषु योगरूपस्ततः स्मृतः ॥७७॥ ब्रह्माणि खेदयुक्तानि पराधीनतया यदा। तपश्चेरूस्तदा तानि विचार्य ब्रह्मप्राप्तये ॥७८॥ अतितपोबलेनैव हृदि स्फूर्तिः प्रजायते। योगस्य मंत्रराजं तं जानीहि ब्रह्मणां विधे ॥७९॥ ततो हर्षयुतान्येवानुभवं सस्मरुस्तदा। जपस्तदेव तेषां वै ब्रह्मणां भवति प्रभो ॥८०॥ हृदि संस्थं ततो योगं ददृशुस्तानि सर्वदा। तदेव गणराजस्य रूपं तत्र प्रकीर्तितम् ॥८१॥ ततस्तल्लीनभावेन तिष्ठंति ब्रह्मकानि वै। गणेशस्य कृपा ज्ञेया तत्र सा कथ्यते बुधैः ॥८२॥ योग एतादृशं ब्रह्म यदि देहयुतं भवेत्। तदा तं प्रभजिष्यामो नित्यमिच्छंति तानि तु ॥८३॥ ब्रह्मदेहधरः सोऽपि बभूव भक्तिमोहितः। आययौ वरदानार्थं तेषामग्रे गजाननः ॥८४॥ ब्रह्माकाराणि चिह्नानि कथितानि पुरा मया। गणेशस्य स्वरूपे तु तान्यपश्यंश्च तादृशम् ॥८५॥ ततस्तानि प्रणेमुस्तं पुपूजुस्तं च नित्यशः। अंते योगमयान्येव बभूवुर्नात्र संशयः ॥८६॥ एतत्सर्वं समाख्यातं ब्रह्मणां चरितं मया। तपोयोगादिकाचारमन्यच्छृणु प्रजापते ॥८७॥ वक्रतुंडो गणेशानो यदि खेदसमन्वितः। पराधीनतया दक्ष शांतियोगपरोऽभवत् ॥८८॥ तदा तपोयुतः सोऽपि त्रेधा योगार्थमादरात्। आभ्येत्तेन हृदिस्थं तं लोकयेदेकदंतकम् ॥८९॥ देहेषु ब्रह्मभावेन वक्रतुंडः स्थितोऽभवत्। तस्माद्देही
स्थितः श्रेष्ठो भिन्नाकारः प्रकीर्तितः ॥९०॥ अतोऽयं वक्रतुंडस्तं गजाननं परात्परम् । एकदंतं न जानाति तत्र भेदं वदाम्यहम् ॥९१॥ त्रिगुणाकारदेहश्च तुरीयं मस्तकं मतम् । वक्रतुंडस्तयोर्योगे बिंदुब्रह्मप्रवाचकः ॥९२॥ चतुर्विधेषु देहेषु मोहयुक्तं च यत् स्मृतम्। सदा भेदविहीनं तज्जीवसंज्ञं प्रकथ्यते ॥९३॥ मोहहीनं सदा साक्षिरूपं परात्मधारकम् एकदंतस्तयोर्योगे सोऽहंमात्रात्मकः स्मृतः । ॥९४॥ जीवो देहस्वरूपस्थः परमात्मा शिरः स्मृतम् । गजाकारं न संदेह एकदंतस्य नित्यदा ॥९५॥ जीवात्मा परमात्मानौ दृष्ट्वा भेदविवर्जितौ । विस्मितः स भवेत्तत्र वक्रतुंडो गजाननः ॥९६॥ नानाभेदसमायुक्तो वक्रतुंडो मयोदितम् । भेदहीनमेकदंतं दृष्ट्वा पप्रच्छ तं पुनः ॥९७॥ हृदिस्थं सोऽहमादौ यद्ब्रह्माकारं प्रकथ्यते । बिंदोस्तदेकदंताख्यं न देहादियुतं कदा ॥९८॥ सेवार्थं वक्रतुंडेन प्रार्थितं हृदि संगतम् । ब्रह्म तदेव भो दक्ष एकदंतो बभूव ह ॥९९॥ यथा जगदिदं सर्वं ब्रह्माकारं प्रकीर्तितम् । तथा ज्ञेयं वक्रतुंडोऽपि ह्येकदंतस्वरूपधृक् ॥१००॥ सगुणं नरसंज्ञस्थं निर्गुणं गजवाचकम् । तयोर्योगे परं ब्रह्म गजाननः प्रकथ्यते ॥१॥ सेवार्थं प्रार्थितं सर्वैस्तदेव देहवान्भूत् । गणेशो ब्रह्मरूपाख्यो नानाब्रह्मसु संस्थितः ॥२॥ अतो गणेश्वरं दक्ष न जानाति गणेश्वरः । नानामोहसमायुक्तो भ्रांति- भावात् सुशांतिदम् ॥३॥ स्वत उत्थान भावे तु देहो बिंदुमयः स्मृतः । सोऽहं शिरो गजाकारं तयोर्योगे महोदरः ॥४॥ एवं नानाविभेदैश्च नानाब्रह्मपरायणः । गणेश्वरः स्थितस्तेषु गजाननादिचिह्नितः ॥५॥ संयोगे गणनाथास्य स्वत उत्थानकं वपुः । उत्थानं परतस्तस्य मस्तकं नात्र संशयः ॥६॥ अयोगे बुद्धिहीनं तु मस्तकं सिद्धिवर्जितम् । वपुस्तयोर्न संयोगे गणेशः परिकीर्तितः ॥७॥ पूर्णयोगे शरीरं तु मतं संयोगवाचकम् । अयोगवाचकं तस्य मस्तकं तु गजाकृति ॥८॥ अविनाशार्थसंयुक्तो गजशब्दः प्रकीर्तितः । अयोगान्न परं ब्रह्माविनाशाख्यं प्रकथ्यते ॥९॥ संयोगायोगभावाख्या भ्रांतिः सर्वत्र पठ्यते । निरोधचित्ताग दक्ष सा सिद्धिः परिकीर्तिता ॥११०॥ संयोगायोगभावस्था बुद्धिर्भ्रांतिधरा मता । तयोः स्वामी गणाध्यक्षः पूर्णयोगप्रवाचकः ॥११॥ अहं गणेशरूपश्चैतत् संयोगायोगकौ मम । कुतो मायाप्रभावाख्यौ तेन शांतिं लभेन्नरः ॥१२॥ सर्वत्राऽभेदभावेन संयोगात्मा गजाननः । तिष्ठत्यत्र न संदेहो युतः संयोगमायया ॥१३॥ सर्वत्राऽभेदहीनश्च योगरूपो गजाननः । अयोगमायया युक्तस्तिष्ठति व्यतिरेकतः ॥१४॥ यदि सर्वात्मकं योगं वदामि गणनायकम् । नानाब्रह्मसुसंस्थं तमन्वयाख्यं तदा विदुः ॥१५॥ नागतं न गतं योगं कदाचिद्वेद्धजाननम् । नानाब्रह्मसु मुक्तं तं व्यति-
खं. ९ अ. ४ पान ११ रेकात्मकं जगुः ॥१६॥ अतश्चित्तलयेनैवाहं गणेशो न संशयः । चित्तपंचकसमुत्सृज्य पूर्णयोगमवाप्नुयात् ॥१७॥ तत्र समाधिजं सौख्यं वदामि युक्तिभावतः । गणेशोऽहं तदाकारो भवामि यदि योगतः ॥१८॥ तदा संयोगजः प्रोक्तोऽनुभवो योगिनां हृदि । यदाऽहं गणनाथाश्चेन्नागतो न गतः कदा ॥१९॥ तदा ह्ययोगशः प्रोक्तोऽनुभवः शांतिदायकः । अतोऽयोग- मयो योगः कथं तत्र प्रवर्तते ॥२०॥ चित्तं नानाविधं दक्ष संयोगायोगधारकम् । योगे योगात्मकोऽहं च तदा शांतिः प्रलभ्यते ॥२१॥ शांतीनां शांतिरूपा सा योगशांतिः प्रजापते । तस्मात् परं विद्यते न ब्रह्म योगात् सुनिश्चितम् ॥२२॥ अतोऽयं गणनाथस्तु ब्रह्मणस्पतिरुच्यते । संयोगाऽयोगकादीनां ब्रह्मणां पातृभावतः ॥२३॥ एतत् सर्वं समाख्यातं रहस्यं परमाद्भुतम् । गजाननस्य ते दक्ष प्रकृतं शृणु सांप्रतम् ॥२४॥ ॥ ओमिति श्रीमदाद्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरित्रे गणेशस्वरूपवर्णनं नाम तृतीयोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ तपसा भक्तिभावेनागतं दृष्ट्वा गजाननम् । अयोगो हर्षितोऽत्यंतमुत्थाय प्रणनाम तम् ॥ १॥ ततः पूज्य गणेशानं प्रभुं नानोपचारकैः । पुनः प्रणम्य विघ्नेशं तुष्टाव करसंपुटः ॥२॥ अयोग उवाच । शांतिस्वरूपाय सुशांतिदाय वाणीमनोहीनतमाय ढुंढे । वाणीमनोयुक्तविचारिणे वै योगाय योगाधिपते नमस्ते ॥३॥ वाणीमनोयुक्त- मयं वदामि नो विश्वरूपोऽसि कथं स्तवीमि । नित्यं गणेशाय नमो महात्मन् योगाय योगाधिपते नमस्ते ॥४॥ वाणी- मनोहीनमयं कथं त्वां ब्रुवेऽद्य संयोगमयं कदा च । नो योगरूपं त्वथ ते नमो वै योगाय योगाधिपते नमस्ते ॥५॥ त्वत्तः प्रसूतानि महानुभाव ब्रह्माणि विश्वानि पराणि भूयः । त्वय्येव लीनानि ह्यभिन्नभावायोगाय योगाधिपते नमस्ते ॥६॥ नित्यं ह्ययोगाय निवृत्तिदाय मायाविहीनाय गणाधिपाय । वाणीमनोहीनतया सुलभ्य योगाय योगाधिपते नमस्ते ॥७॥ स्वानंदस्वरूपाय सुशांतिदाय सिद्ध्या च बुद्ध्या सह खेलकाय । वाणीमनोहीन निजात्मलभ्य योगाय योगाधिपते नमस्ते ॥८॥ अव्यक्तरूपाय च साहजाय मोहेन हीनाय सदा शिवाय । त्रैविध्यनाथाय च नेति कर्त्रे योगाय योगाधिपते नमस्ते ॥९॥ सामान्यरूपाय त्रयीमयाय द्वंद्वप्रकाशाय च विष्णवे ते । आनंदनाथाय सुखेलकाय योगाय योगाधिपते नमस्ते
॥१०॥ आत्मस्वरूपाय सदाऽमृतस्थयोगेन संलभ्यतमाय भानो। भेदैर्विहीनाय च जीवनाय योगाय योगाधिपते नमस्ते ॥११॥ नानाप्रभेदेषु च तन्मयाय सर्वस्वरूपाय च शक्तये ते। आनंत्यभावैश्च सुमोहदाय योगाय योगाधिपते नमस्ते ॥१२॥ साक्षि- स्वरूपाय च सांख्ययोगलभ्यस्वरूपाय सदात्मसंस्थ । बोधेन हीनाय परात्पराय योगाय योगाधिपते नमस्ते ॥१३॥ बोधस्वरूपाय संख्याविहारकर्त्रे सदा पालकभावधारिन् । त्रैविध्यनाथाय महोदराय योगाय योगाधिपते नमस्ते ॥१४॥ सोहंस्वरूपाय च चिन्मयाय मोहेन युक्ताय च हीनकाय । देहिस्वरूपेण विहारकर्त्रे योगाय योगाधिपते नमस्ते ॥१५॥ बिंदुप्रचुराय चतुष्पदाय चतुर्विधेषु प्रभवाय तुभ्यम् । आनंत्यतत्त्वाय च देहभोक्त्रे योगाय योगाधिपते नमस्ते ॥१६॥ तुर्यात्मदेहाय लयात्मकाय कालस्वरूपाय गणेश्वराय । नादात्मकायाऽथ त्रिदेहगाय योगाय योगाधिपते नमस्ते ॥१७॥ आनंदकोशात्मकसंस्थिताय प्राज्ञाय सौषुप्तमयाय तुभ्यम् । नित्येश्वरायैव तयोः प्रचारिन् योगाय योगाधिपते नमस्ते ॥१८॥ सर्वांतरस्थाय च सूक्ष्मकाय स्वप्नप्रचुराय च तैजसाय । हिरण्यगर्भाय तयोः प्रचारिन् योगाय योगाधिपते नमस्ते ॥१९॥ बाह्य- स्थितायान्नमयाय विश्ववैश्वानरायैव तयोः प्रचारिन् । स्थूलस्वरूपाय च जाग्रदास्थ योगाय योगाधिपते नमस्ते ॥२०॥ विश्वस्य द्वैविध्यमयाय तुभ्यं नानांडरूपाय च खेलकाय । शक्ते च धात्रे हरये शिवाय योगाय योगाधिपते नमस्ते ॥२१॥ एते गणेशाधिपते कलांशा विघ्नेश्वरास्ते गणनायकाय । न त्वं सदैतैः सहितो हि तुभ्यं योगाय योगाधिपते नमस्ते ॥२२॥ स्तुमः कथं नाथ गणेशरूपं संयोगहीनं च ह्ययोगहीनम् । तादात्म्यरूपं भव तुष्टचित्तं योगाय योगाधिपते नमस्ते ॥२३॥ मुद्गल उवाच । एवं स्तुत्वा गणेशानं प्रणनाम कृतांजलिः । अयोगस्तं गणाधीशो जगाद घननिःस्वनः ॥२४॥ गणेश उवाच । वरान् वृणु महाभाग मनसीप्सितरूपकान् । दास्यामि भक्तितुष्टोऽहं स्तोत्रेणानेन योगप ॥२५॥ त्वया कृतमिदं स्तोत्रं योगशांतिपदप्रदम् । पठतां शृण्वतां नित्यं नानासिद्धिप्रदं भवेत् ॥२६॥ यं यमिच्छसि तं तं वै दास्यामि स्तोत्र- पाठतः । मयि प्रीतिकरं चास्तु भक्तिभावप्रदं तथा ॥२७॥ एकविंशतिवारं चैकविंशति दिनावधि । पठते तस्य सर्वं च दास्यामि दुर्लभं हि चेत् ॥२८॥ एवमुक्त्वा गणेशानः सस्वजे तं गणाधिपम् । अयोगरूपिणं हर्षसंयुक्तं प्रचकार ह ॥२९॥ ततोऽयोगो गणाध्यक्षं प्रणम्य च पुनः पुनः । जगाद भक्तिसंयुक्तो हृष्टरोमा सुहर्षितः ॥३०॥ अयोग उवाच । यदि ढुंढे वरान् मे त्वं दास्यसि भक्तिमोहितः । तदा ते पादयुग्मे मे भक्तिं देहि दृढां पराम् ॥३१॥ पूर्णयोगस्वरूपस्थं मां
कुरुष्व गजानन । सुखं मुक्तस्वरूपस्थं नाथ नेच्छामि ते नमः ॥३२॥ मुद्गल उवाच । अयोगगणराजस्य श्रुत्वा वचनमुत्तमम् । जगाद तं गणेशानस्तथेत्यंतर्हितोऽभवत् ॥३३॥ अयोगस्तं हृदि स्थाप्य भजतेऽनन्यमानसः । अंते योगमयः सोऽपि बभूवे मोक्षनायकः ॥३४॥ इति ते सर्वमाख्यातं चरितं गणपस्य यत् । पूर्णयोगधरस्यापि समासेन प्रजापते ॥३५॥ अतस्त्वं गणराजं तं भजस्व भक्तिसंयुतः । तेन यज्ञमिमं पूर्णं करिष्यसि न संशयः ॥३६॥ अंते योगयुतश्चैव ब्रह्मभूतो भविष्यसि । आज्ञां देहि गमिष्यामि त्वदातिथ्यसुतोषिताः ॥३७॥ रहस्यं गणनायस्य कथितं सकलं मया । नान्यत् किंचिदतो दक्ष परं वेदादिसंमतम् ॥३८॥ शृणुयाद्यः पठेद्वाऽपि स सर्वं प्राप्नुयाच्छुभम् । अंते योगमयो भूत्वा संतिष्ठेत् गणपात्मकः ॥३९॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे योगचरिते नवमे खंडे पूर्णयोगचरितवर्णनं नाम चतुर्थोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । धन्योऽहं कृतकृत्योऽहं कृतस्त्वया महामुने । येन गणेशमाहात्म्यं श्रावितं योग- दायकम् ॥१॥ गणेशगीतानासारादि कथितं तु विशेषतः । ज्ञानं योगप्रदं पूर्णं संक्षेपेण त्वया परम् ॥२॥ तन्न बुद्धं मया सर्वमतः सौलभ्यतो वद । योगं क्रमयुतं पूर्णं येन योगी नरो भवेत् ॥३॥ सूत उवाच । एवं पृष्टो महायोगी मुद्गलस्तमुवाच यत् । हर्षेण महता युक्तस्तत्तेऽहं कथयामि तु ॥४॥ मुद्गल उवाच । धन्योऽसि कृतकृत्योऽसि साक्षाद्गणपतेः किल । विभूति- वाचकस्तत्र न चित्रमिदमुत्तमम् ॥५॥ त्वया पृष्टं महाभाग लोकोपकारकम् । सर्वेषां सुलभत्वेन योगशांतिपदप्रदम् ॥६॥ कथयामि च ते प्रीत्या गुह्यं वेदरहस्यकम् । शृणुष्वैकमना दक्ष योगं शांतिप्रदायकम् ॥७॥ चित्तं पंचविधं प्रोक्तं तेषु पंचविधो रसः । सरसं चित्तमुत्सृज्य योगी भवति मानवः ॥८॥ क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् । चित्तं पंचविधं विद्धि जगत्सु ब्रह्मसु स्थितम् ॥९॥ व्यष्टिभावे स्थिता ये तु जंतवो विविधात्मकाः । लक्षचतुरशीतिषु योनिषु संभवाः किल ॥१०॥ देहभोगादिमार्गेषु कुशलाः संभवंति ये । तेषु स्वस्वप्रपंचेषु नानाकार्यपरायणाः ॥११॥ तैः क्षिप्तं कार्यसिद्ध्यर्थं चित्तं कार्येषु नित्यदा । तत्तत्कार्यप्रकाशेन प्रकाशयति तान हृदि ॥१२॥ तेन कार्येषु दक्षास्ते भवंत्यत्र न
संशयः। तदेव क्षिप्तसंज्ञं त्वं चित्तं जानीहि मानद ॥१३॥ केचित् स्वल्पज्ञकास्तेषु केचिज्ज्ञानाधिका मताः। मध्यमाः केचिदेवं तु नानाभेदाश्रिता नराः ॥१४॥ त्रिविधेषु विभागेषु स्थिता नानाविभेदतः। नानाज्ञानयुतास्तेषां रूपं न कथितुं क्षमम् ॥१५॥ लक्षचतुरशीतिषु जंतवो विविधात्मकाः। व्यष्टिस्थाः सर्वकार्येषु ज्ञानहीना भवंति ये ॥१६॥ ते मूढाः कथ्यते लोकैर्विषये चतुरैः सदा। तेषु नानाविधा भेदा अल्पाधिकसुमध्यमाः ॥१७॥ तेषां प्रकाशकं चित्तं नानामूढ- स्वभावगम्। तदेव मूढसंज्ञाख्यं चित्तं ज्ञातव्यमंजसा ॥१८॥ परैः संबोधितो जंतुर्न बुबोध विचारतः। कार्यं नानाविधं तस्य चित्तं मूढं प्रकीर्तितम् ॥१९॥ व्यष्टिस्था ये नरा दक्ष स्वधर्मनिरताः सदा। नानातपःपरा भूत्वा मुक्तिमिच्छंति शाश्वतीम् ॥२०॥ विषयेषु विरज्यैव सदा ब्रह्मपरायणाः। कुर्वंति विविधं कर्माऽहर्निशं मुक्तिकारणात् ॥२१॥ तदपि ब्रह्म हृदये न दृष्टं तैर्महात्मभिः। न संसारसुखे चित्तं तेषां रमति कर्हिचित् ॥२२॥ अतो विक्षिप्तचित्तास्ते मता योगि- जनैः पुरा। ब्रह्मार्पणक्रियाः सर्वाः कुर्वंत्यंतरबाह्यजाः ॥२३॥ विशेषेणैव क्षिप्तोऽहं संसारे मायया सदा। विगतक्षेपणं सर्वे नानासाधनभावतः ॥२४॥ तेषां मुक्त्यर्थमत्यंतं प्रकाशयति भावनाम्। चित्तं क्रियात्मिकां तेन विक्षिप्तं तत्प्रकीर्ति- तम् ॥२५॥ तत्र नानाक्रियायाश्च सामर्थ्येन विमोहितः। जानाति देवतां तुष्टां ममोपरि न संशयः ॥२६॥ कदा देव- प्रसादादि गृह्य विक्षेपसंयुतः। अनाधारां क्रियां कुर्याद्देवाज्ञावशगो मुधा ॥२७॥ स्वप्नेषु विविधान् भावान् पश्यति तद्गतचेतसा। सत्यं स्वप्नं मदीयं तु मान्यं तादृशजं चरेत् ॥२८॥ एवं विक्षिप्तभावेन मोहितः स कदाचन। अनाधारं करोत्येव नानातपःप्रभावतः ॥२९॥ समष्टिव्यष्टिसंस्थं यच्चित्तं वैराटगं परम्। तेन व्यष्टिं समाव्याप्य भुंक्ते स विविधं सुखम् ॥३०॥ वैराटस्य क्रिया प्रोक्ता व्यापिका शास्त्रसंमते। तत्र व्यापकभावस्य चित्तं प्रकाशदं मतम् ॥३१॥ तत्त्वेषु विविधेष्वेव स्थूलसूक्ष्मादिगेषु च। व्यापकभावकाशत्वाच्चित्तं तेषु स्थितं मतम् ॥३२॥ समष्टिव्यष्टिसंयोगेऽन्नं ब्रह्म स्थूलगं परम्। तथा स्वप्नगतं सूक्ष्मं सौषुप्तं समसंस्थितम् ॥३३॥ चेतनाभावगं पूर्णं तद्ब्रह्मादात्मकं मतम्। अस्मिताख्यं परं ब्रह्म तेषु चित्तं प्रकीर्तितम् ॥३४॥ समष्टिव्यष्टिभागस्य तयोरैक्यस्य च प्रभो। प्रकाशकारकं विद्धि चित्तमेकाग्रसंज्ञितम् ॥३५॥ समष्टिव्यष्टिभावेषु न भिन्नं भवतीत्यहो। तेनैकाग्रं समाख्यातं चित्तं तज्ज्ञानकारकम् ॥३६॥ देहश्चतुर्विधः प्रोक्तः स्थूलः सूक्ष्मः समात्मकः। अस्मिताख्यश्चतुर्थश्च तेषु देही स्थितो मतः ॥३७॥ देहेषु मोहितो देही जीव इत्यभिधीयते।
मोहहीनः स एवाऽपि शिवः प्रोक्तो मनीषिभिः ॥३८॥ जीवशिवात्मिका संज्ञा देहिनो भ्रममात्रतः । सदैकात्मस्वभावत्वात्तत्र भेदो न विद्यते ॥३९॥ तत्र जीवशिवाकारभावप्रकाशकारकम् । चित्तमेकाग्रसंज्ञाख्यं तिष्ठति देहिसंश्रितम् ॥४०॥ सास्मिताच्च परं चित्तमेकाग्रं विद्यते न वै । देहदेहिमयं चित्तमेकाग्रं योगिनां मते ॥४१॥ चतुर्णां वपुषां यत्र ब्रह्माकारेण जायते । संयोगो बिंदुरूपं तज्ज्ञातव्यं ब्रह्म सर्वगम् ॥४२॥ चतुष्पदं बुधैः प्रोक्तं चतुर्भिर्वर्जितं सदा । देहानां ब्रह्म विख्यातं नानादेहस्वभावगम् ॥४३॥ तत्र चतुष्पदाकारभावप्रकाशकारकम् । चतुर्भिर्वर्जितस्यैव चित्तं तिष्ठति तद्गतम् ॥४४॥ देहेषु न भवेद्भिन्नं सर्वगमात्मभावतः । निरोधं कथ्यते चित्तं बिंदुधर्मप्रकाशकम् ॥४५॥ जीवशिवात्मभावस्थं मोहहीनं सदात्मकम् । ब्रह्म सोऽहं समाख्यातं सदा भ्रांतिविवर्जितम् ॥४६॥ तत्र जीवशिवाकारमोहहीनप्रकाशकम् । चित्तमात्म- स्वरूपस्थं निरोधं कथ्यते बुधैः ॥४७॥ देहदेहिसमायोगे स्वत उत्थानमुच्यते । बोधाख्यं द्वंद्वभावेन ब्रह्म खेलकरं सदा ॥४८॥ तत्र निरोधकं चित्तं तस्य रूपं वदाम्यहम् । संक्षेपेण प्रजानाथ शृणु भावसमन्वितः ॥४९॥ बाह्यं स्थूलं समाख्यातंमांतरं सूक्ष्मगं मतम् । बाह्यांतरैकभावस्थमानंददेहगं परम् ॥५०॥ त्रिभिर्हीनं त्रयाणां च चालकं ह्यस्मितात्मकम् । अहमानु- भवेनैतज्ज्ञातव्यं योगिनां हृदि ॥५१॥ तेषां संयोगभावे यच्चतुर्णां वपुषां परम् । सर्वात्मकं भवेद्ब्रह्म पंचमं बिंदुसंज्ञितम् ॥५२॥ चतुर्विधा नरस्यैव कल्पना हृदि संस्थिता । अतः परं न भेदोऽस्ति भवेद्येनास्य कल्पना ॥५३॥ बिंदुत्यागे निरालंबं चित्तं भवति सर्वदा । सततं तत् समाख्यातं ब्रह्म ध्यातृविहीनतः ॥५४॥ न किंचिज्जायते यत्र भेदहीनप्रभावतः । सोहं मात्रात्मकं चित्तं निरालंबसमाधिदम् ॥५५॥ अवलंबनगं चित्तं चतुर्धा देहिसंश्रितम् । अवलंबनहीनं तद्देहिंगं चिन्मयं भवेत् ॥५६॥ निरालंबपरित्यागेऽधिकसंरोधनं भवेत् । चित्तस्य देहदेहिभ्यां हीनत्वान्नात्र संशयः ॥५७॥ मनोवाणीविहीनं तच्चित्तं ज्ञातव्यमादरात् । अस्तिनास्तिविहीनत्वादाधाराधेययोगतः ॥५८॥ अवलंबनयोगो न पंचधा योगिनां हृदि । निरालंबनकं तस्मान् मनोवाणीविवर्जितम् ॥५९॥ बोधेन बुद्ध्यते सर्वं निरालंबं समाधिना । अवलंबनकं तद्गद्बोधबोधो न विद्यते ॥६०॥ एवं बोधात्मकं ब्रह्म देहदेहिसमाधिदम् । देहदेहिसमायोगप्रकाशं चित्तमुच्यते ॥६१॥ देहसौख्यं प्रजानाति देहिसौख्यं निरंतरम् । तयोर्योगे च यत् सौख्यं जानाति ब्रह्म बोधगम् ॥६२॥ पदानां बोधभावेन पदार्थानां विशेषतः । उत्थानं जायते तस्मात् स्वत उत्थानमुच्यते ॥६३॥ सुखं ज्ञात्वा समुत्थानं स्वयमेव करोति यः । देहदेहि च सृष्ट्वा स खेलति ब्रह्म-
तत्परः ॥६४॥ तत्रोत्थानप्रकाशाख्यं चित्तं निरोधसंज्ञकम् । तिष्ठत्यत्र न संदेहो ज्ञातव्यं योगिनां हृदि ॥६५॥ बोधत्यागे समाख्यातं ब्रह्म सांख्यं प्रजापते । कः संख्यां कुरुते तस्य बोधनाशप्रभावतः ॥६६॥ उत्थानवर्जितं ब्रह्म सांख्यं साक्षि- खभावगम् । बोधहीनात् कदा तत्रोत्थानं नैव प्रजापते ॥६७॥ प्रकृतिसंभवं बोधं तयोः पुरुषसंभवम् । योगसौख्यं न जानाति सांख्यं बोधविहीनतः ॥६८॥ बुद्ध्वा सुखं नरस्यैवोत्थानं यथा प्रजापते । तथा मायासुरवं ज्ञात्वा ब्रह्मणोत्थानकं भवेत् ॥६९॥ तथा परत उत्थानं सांख्ये नित्यं प्रतिष्ठितम् । तत्र योगं प्रवक्ष्यामि येन योगी नरो भवेत् ॥७०॥ यद्युत्थान- समायुक्तं भवति चेत्तदा भवेत् । उत्थानवर्जितं दक्ष तदेवं बीजमायकम् ॥७१॥ उत्थानहीनभावेन सदा सांख्यं विराजति । खयं च खत उत्थानं निःसृतं तत् प्रभावतः ॥७२॥ सांख्येन न कृतं चैतत्तथाप्युत्थानहीनतः । स्वयं च खत उत्थानं जायते नात्र संशयः ॥७३॥ यदाऽनृतं भवेद्दक्ष तदा सत्यं प्रकीर्त्यते । एकं ब्रह्म यदा तिष्ठेत् सत्यं तत् केन कथ्यते ॥७४॥ न दृष्ट- मनृतं येन न जानाति स सत्यकम् । सदा तादृशरूपत्वादेकभावप्रदर्शनात् ॥७५॥ अत उत्थानहीनत्वं धृतं तेन विशेषतः । खत उत्थानभावाख्यं खयमेवोपजायते ॥७६॥ न कृतं तेन सांख्येन खयमेव विनिःसृतम् । अतः परत उत्थानं प्राप्तं तत्र न संशयः ॥७७॥ संख्याहीनप्रकाशाख्यं चित्तं तत्र प्रवर्तते । बोधहीनप्रकाशेन ज्ञायते तन्निरोधकम् ॥७८॥ उत्थानेन युतं ब्रह्म बोधमयं प्रकीर्तितम् । सांख्यमुत्थानहीनं च तयोर्योगे निजात्मकम् ॥७९॥ खतः परत उत्थानं तत्र नैव प्रजापते । जगतां ब्रह्मणां योगे भवति खस्वरूपकम् ॥८०॥ खस्वरूपात् परो नास्ति संयोगः तन्मयः कदा । स समाधिः समाख्यातो ब्रह्मण्यस्यान्यवात्मकः ॥८१॥ खकीयाभेदभावस्य तत्र प्रकाशकारकम् । चित्तं निरोधसंज्ञं तु तिष्ठत्यत्र न संशयः ॥८२॥ संयोगः पंचधा दक्ष भवति शृणु रूपकम् । तस्य भिन्नं प्रवक्ष्यामि लोकानां हितकारणात् ॥८३॥ एते भेदाः समाख्याता योगेन लयंतां ययुः । खसंवेद्येन संदेहस्तेन सृष्टाश्च पालिताः ॥८४॥ एतेषां रूपमास्थाय खेलति खस्वरूपकम् । नाना- लीलाकरं प्रोक्तं तदेवं वेदवादिभिः ॥८५॥ उत्पत्तिनाशसंयुक्ता भेदा एते मनीषिभिः । तेषां निजखभावत्वादसत्त्वानंद उच्यते ॥८६॥ तद्ब्रह्म शक्तिरूपाख्यं ज्ञातव्यं भेदधारणात् । तत्रासत्काशाभावेन चित्तं तिष्ठति निश्चितम् ॥८७॥ एतैर्भेदैर्विहीनं यदमृतं ब्रह्म कथ्यते । एतेषां जीवनं नित्यं तच्च सत्वखस्वरूपकम् ॥८८॥ तद्ब्रह्म सौरमाख्यातं भेदहीनप्रभावतः । तत्र
[हेडर] खं. १ अ. ५ | पान १७
नित्यस्य काशाख्यं चित्तं निरोधकं मतम् ॥८९॥ असत् सत् द्विविधं प्रोक्तं तयोर्योगे समात्मकम् । खसंवेद्यं परं ब्रह्म विष्णु- द्वंदूपवेशनात् ॥९०॥ तत्रानंदप्रकाशाख्यं चित्तं निरोधसंज्ञितम् । तिष्ठते तेन योगींद्रास्तं गच्छंति समाधिना ॥९१॥ त्रिभिर्हीनं त्रिभिर्युक्तमव्यक्तं नेति कारकम् । मोहहीनप्रभावेण तुरीयं ब्रह्म कथ्यते ॥९२॥ तदेव शिवसंज्ञाख्यं ज्ञातव्यं योगसेवया । तत्र नेति प्रकाशाख्यं चित्तं तिष्ठति तद्गतम् ॥९३॥ त्रिविधं मोहसंयुक्तं मोहहीनं चतुर्थकम् । तेषां संयोग- भावे वै स्वसंवेद्यं प्रकीर्तितम् ॥९४॥ पूर्णसंयोगभावाख्यं पंचमं ब्रह्म तत् स्मृतम् । तस्मात् परो न संयोगः कथ्यते योगिभिः सदा ॥९५॥ स एव गणनाथस्तु स्वानंदाख्यः प्रकीर्तितः । तत्र निजप्रकाशाख्यं चित्तं तिष्ठति सर्वगम् ॥९६॥ अतः परमयोगाख्यं ब्रह्म मायाविवर्जितम् । तदेव योगिभिः प्रोक्तं निवृत्तिसुखदायकम् ॥९७॥ न तत्र जगतां दक्ष ब्रह्मणां योग उच्यते । तस्याऽपि तेषु तद्गच्छ तेनायोग इति स्मृतः ॥९८॥ ब्रह्मणि तन्मयत्वेन स्वस्य संयोग उच्यते । तस्मान्नि- वृत्तिरापन्ना तेन निवृत्तिसंज्ञकम् ॥९९॥ स्वसंवेद्यस्य नाशेन लभ्यते ह्यसमाधिना । नाऽगतं न गतं ब्रह्म संयोगः कुत्र जायते ॥१००॥ तत्रायोगप्रकाशाख्यं चित्तं निरोधसंज्ञितम् । तिष्ठति चापवादेषु निवृत्तिसुखदायकम् ॥१॥ इदं पंचविधं चित्तं कथितं ते प्रजापते । जगत्सु ब्रह्मसु तज्जं नानाप्रकाशदायकम् ॥२॥ भूमयः पंच विख्याताश्चित्तस्य विविधात्मनः । भूमीनां त्यागभावे तच्चित्तं ब्रह्ममयं भवेत् ॥३॥ अतः पंचविधं चित्तं त्यज त्वं योगसेवया । योगी भविष्यसि दक्ष चिंतामणौ न संशयः ॥४॥ संयोगायोगसंज्ञस्थं निरोधाख्यं मतं बुधैः । अतः परो निरोधो न विद्यते सर्वसंमते ॥५॥ सार्वभौमात्मधर्मेण योगी भवति मानवः । तत्र शांतिं लभेच्चित्तं त्यक्त्वा भूमिभवं भ्रमम् ॥६॥ योगरूपे सुखं यद्वै योगिनां हृदि वर्तते । तदेव कथितुं दक्ष शक्यते न कदाचन ॥७॥ मनोवाणीमयं चित्तं चतुर्विधं प्रकीर्तितम् । मनोवाणी- विहीनं तु निरोधसंज्ञकं मतम् ॥८॥ अतो योगः समाख्यातो मनोवाणीमयो न च । मनोवाणीविहीनोऽपि कथ्यते नैव योगिभिः ॥९॥ कीदृशं ब्रह्म तत्राहं योगेन कीदृशेन च । ब्रह्मभूतः स्वयं जात एभ्यः शांतिं लभेन्नरः ॥११०॥ योगे योगी नरो जातस्तत्र न ज्ञायते कदा । ब्रह्म वा साधनं किंचिद्ब्रह्मभूतस्य कारकम् ॥११॥ तन्मयत्वं ब्रह्मणि न न च तन्मयवर्जनम् । अतः शांतिं समागृह्य शांतियोगपरो भवेत् ॥१२॥ पंचविधेषु चित्तेषु दृश्यते जगतां परम् । ब्रह्मणामैश्वरं सौख्यं रसं तत्र न धारयेत् ॥१३॥ नानारसविहीनं तु चित्तं कृत्वा प्रजापते । तन्त्यक्त्वा स भवेद्योगी शांत्या शांतिमवाप्नुयात् ॥१४॥
खं ९ अ. ६ पान १८ स्रोतसोर्णवमानंदाद्रुच्छंत्यप्रेरितान्यपि । प्रारब्धेन तथा कामान् भुनक्ति योगिसत्तमः ॥१५॥ नानाद्वंद्वविहारेषु समभावपरायणः । योगी भवति शांत्या च सदा योगसुखे रतः ॥१६॥ ॥ ॐ तत्सदिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन सार्वभौमयोगो नाम पंचमोऽध्यायः ॥ ॥ इति योगगीतासूपनिषत्सु सुगमासु प्रथमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । योगस्यानुभवं ब्रूहि यत्र शांतिं लभेन् मनः । रसं त्यक्त्वा सुशांत्या तद्युक्तं तिष्ठेन् महामुने ॥१॥ मुद्गल उवाच । न तत्र दृश्यते दक्ष जगद्ब्रह्मभवं सुखम् । तन्मायामयगं दृष्ट्वा तस्मान्निर्वृत्तिगो भवत् ॥२॥ नाहं देहो न मे देहो नाहं नानाश्रमान्वितः । चराचरमयो नैव ताभ्यां संवर्जितो न च ॥३॥ न समष्टिसमायुक्तो व्यष्टिगो न कदाचन । ब्रह्माऽहमखिलेष्वेव तत्तद्भावविवर्जितः ॥४॥ न बाह्यसुखभोक्ताऽहं नांतरस्थपरायणः । न समानगतोऽहं तु नात्मप्रतीतिधारकः ॥५॥ न स्थूलो नैव सूक्ष्मोऽहं नानंगदः कदाचन । न नाददेहसंस्थश्च सर्वाकारः सदा मतः ॥६॥ चतुष्पादाः संति मे चेन् मायया संधृता मया । मायाहीनप्रभावेण पादहीनोऽहमंजसा ॥७॥ मायायुक्तवियुक्तत्वं मयि नैव प्रतिष्ठितम् । मायासंस्थापितं द्वंद्वं तदप्याश्चर्यमुत्तमम् ॥८॥ अनेनानुभवेनैव योगी बिंदुगतो भवेत् । तत्र लीन- स्वभावेन सदा शांत्या प्रवर्तते ॥९॥ अथाहं भेदहीनश्च न भेदो मयि वर्तते । सदा संततभावेन संस्थितोऽत्र निरंतरम् ॥१०॥ न सृजामि हराम्येव पालयामि न निश्चितम् । स्वयमेव जगद्भाति यथा मयि धृतं भवेत् ॥११॥ उत्पन्नं स्वस्वभावेन स्मितं नष्टं तथा किल । विश्वं तत्र न मे हानिर्वृद्धिर्भवति कर्हिचित् ॥१२॥ न विश्वस्मिन्नहं जीवो न शिवः साक्षिभावगः । भ्रांत्या मायायुतं हीनं वदंत्ययोगिनः सदा ॥१३॥ यथाऽऽकाशभवं मेघपटलं सर्वतः स्थितम् । तत्र सूर्यस्य किं दक्षाच्छादनं संभवेत् कदा ॥१४॥ नष्टेऽभ्रे किं रविः साक्षाच्छादनेन विवर्जितः । तथा मोहविमोहौ च मयि भ्रांत्या वदंति ये ॥१५॥