नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
प्रथम उच्छ्वासः । ३७ तथापि । नो नेत्राञ्जलिना निपीतमसकृत्तस्याः स्वरूपामृतं नो नामान्वयपल्लवोऽपि च मया कर्णावतंसीकृतः । चित्रं चुम्बति चुम्बकाश्मकमयो यद्वद्दूलाईरूत- स्तद्वत्तर्जितधैर्यमेतदपि मे तस्यां मनो धावति ॥ ६२ ॥ सोऽयं दुर्लभेष्वनुरागः पुंसाम्, अज्वरमस्वास्थ्यम्, अदौर्गत्यं दौःस्थ्यम्, अविपास्वादनमाघूर्णनम्, असाध्वसं कम्पनम्, अनात्म- विक्रयं पारवश्यम्, अजरं जाड्यम्, अनिन्धनं ज्वलनम्, अलग्नग्र- हमुन्मादनम्, अवात्याघातमुद्भ्रमणम्, अमौनं मौक्यम्, अहीनश्रुति बाधिर्यम्, अनष्टदृष्टिकमन्धत्वम्, अस्खलितमनोरथं मनःस्तम्भनम्, अमन्द आवेशः ॥ क ॥ सर्वथा नमः सुस्थितजनदुर्जनाय मनोजन्मने, यस्यायमेवंविधो व्यापारः' इत्यवधारयन्नवतार्य सर्वाङ्गेभ्यो भूषणानि तस्मै सद्यम- दात् ॥ ख ॥ तैस्तैरालापैः स्थित्वा च कंचित्समयमिममंथ यथाप्रस्थितं पान्थं कथमपि प्रैर्षयामास ॥ ग ॥ स्वयमपि तत्कालान्तरालमिलितैर्नक्षत्रैरिव सार्द्रमृगशिरोहस्तैः स- श्रवणचित्रकृत्तिकोपस्करवाहिभिः पापर्द्धिकपरिजनैरनुगम्यमानो राजा निजावासमयासीत् ॥ घ ॥ नो नेत्रेति ॥ यद्वद्यथा चुम्बकसंज्ञमश्मकम्। पाषाणं कर्म ॥ अयो लोहं कर्तृ ॥ चुम्बति । तथा मेऽपि मनस्तस्यां धावति ॥ ६२ ॥ सोऽयमिति ॥ आवेशो व्यन्तरादेर्मनसि प्रवेशः ॥ क ॥ स्वयमपीति ॥ राजा निजहर्म्म्यमगात् । तत्कालं तत्क्षणात् । अन्तराले- ऽध्वमध्ये । राजा चन्द्रोऽपि । तदा तस्मिञ्ज्योतिःप्रसिद्धे काले कलासमूहे अष्टशतीलक्षणे यदन्तरालं तत्र । मिलितैः परिजनैरनुगम्यमानः । कीदृशैः । सार्द्राणि सास्राक्ष्योतन्ति हरिणशिरांसि येषु तथाविधा हस्ता येषां तैः । सश्रवणां सकर्णाम् । चित्रस्य चित्रकायस्य कृत्तिकां त्वचम् । उपस्करं मृग- योपयोगि वहन्ति तैः । आर्द्रशब्दो भाववचनः । पक्षे सह आर्द्राया नक्षत्र- त्रेण, सार्धे मृगशिरो हस्तश्च नक्षत्रं येषु । श्रवणचित्रे नक्षत्रे । अनयोः समाहारद्वन्द्वः । तेन सह । ताश्च ताः कृत्तिकाश्च तासामुपस्करं समवायं वहन्ति ॥ घ ॥ १ 'अलग्नं ग्रहम'. २ 'स्थित्वा स च'. ३ 'इमं यथा'. ४ 'संप्रेषयामास'. ४
३८ नलचम्पूः । ततःप्रभृति च हृद्योद्यानमरुत्तरङ्गितसरित्तीरे तरूणामध- स्तल्पेऽनल्पसरोजिनीनवदलप्रायेऽपि खिन्नात्मनः । धीरस्यापि मनाङ्मनस्तृणकुटीकोणान्तराले बला- ल्लग्नोऽस्येति विभाव्यते परवशैरङ्गैरनङ्गानलः ॥ ६३ ॥ एवमस्य पुनरपि तदभिज्ञानपृच्छतः पान्थसार्था- न्प्रतिपथमथ यूनो यान्ति तस्य क्रमेण । हरचरणसरोजद्वन्द्वमुद्राङ्कमौले- र्मदनमदनिवासा वासराः प्रावृषेण्याः ॥ ६४ ॥ इति श्रीविक्रमभट्टविरचितायां दमयन्तीकथायां हरचरणसरो- जाङ्कायां प्रथम उच्छ्वासः समाप्तः ॥ अथ द्वितीय उच्छ्वासः । अथ कदाचिद्देवगलद्बहलपरिमलमिलदलिकुलाकुलितकुटजकदम्ब- कुसुमकर्णपूरशून्यकाननासु, विश्राम्यन्मदमुखरमयूररसनावलीकलक- णितासु, विरलतरतडिल्लतादलितलावण्यासु, विगतहंसद्विजराजिषु, पतत्पयोधरासु, क्षीणशुक्रासु, वृद्धास्विव गतप्रायासु वर्षासु, रतिमकु- हृद्येति ॥ हृदयस्य बन्धनं हृद्यम् ॥ ६३ ॥ तमसो यत्र विनाशः पथिकोच्छ्वासः पदार्थनिर्भासः । उदयं प्रतिपाद्यासौ भुवनमुदे जयति चण्डरुचिः ॥ इति विषमपदप्रकाशमेतं दमयन्त्यास्तनुते स्म चण्डपालः । शिशुमतीलतिकाविकासचैत्रं चतुरमतिस्फुटभित्तिचारुचित्रम् ॥ इति चण्डपालविरचिते दमयन्तीकथाविवरणे प्रथम उच्छ्वासः समाप्तः ॥ अथेति ॥ अनन्तरमितीति सति स राजा निकटकानने विचरन्किन्नरमिथुनेन गीयमानं रागविशेषेणोच्चार्यमाणमिदमिति वक्ष्यमाणमनश्लीलमग्राम्यं श्लोकत्रितय- माकर्णितवान् । किंविरिष्टः । कलहंसा एव हासस्तेन रम्यायां तरुणायामभिनव- प्रवृत्तायाम् । अथ च शरद्रेव तरुणी युवतिः । तस्यामागतायां रागात्स्वयं १ 'सरस्तीरे'. २ 'समविपमकविश्रीत्रिविक्रम'; 'श्रीभट्टत्रिविक्रम'. ३ 'हरचरणसरो- जाङ्कः'. ४ 'प्रथमोच्छ्वासः'. ५ 'विगलत्'. ६ 'बहुल'.
द्वितीय उच्छ्वासः । ३९ र्वाणो मदकलकलहंसहसासहारिण्यामुत्सुकस्तरुण्यामिवागतायां, शरदि, द्विरदमदगन्धसंबन्धानुधाविते कु³सुमितसप्तच्छदच्छायासु वि⁴स्फूर्जति रोषोद्धुषितकेसरकरालकण्ठे कण्ठीरवक⁵दम्बके, गृहदीर्घिकामृणालिका- काण्डखण्डनविरामरमणीयमुन्नदत्सु शरत्समयप्रवेशमङ्गलमृदङ्गेष्विव⁶ हंसमण्डलेषु, स्मरशरनिकरनिर्मथितपान्थ⁷सार्थप्रहाररुधिरनिष्यन्दबि- न्दुसंदोह इव वनस्थलीपून्मिषति बन्धुरबन्धूककुसुमप्रकरे, प्रसरन्तीषु शरल्लक्ष्मीप्रवेशानन्दवन्दनमालासु निःशङ्ककुकुलावलीषु, श्रूयमा- णासु स्मरराजराज्यविजयघोषणासु पक्वकलमगन्धशालिपालिकावा- लिकाहर्षगीतिषु, शर⁹च्छ्रीकटाक्षेपून्मीलत्सु नी१०लनीरजेषु, क्वणति वर्षा- प्राप्तायाम् । उत्सुक उत्क इत्युत्त्यन्तरम् । तदा मदेन क्षीबतया तरुणिमो- द्रेकेण वा कलकलो यस्याः । तथा शुभ्रत्वाद्धंसोपमौ हासहारौ स्तोऽस्यामिति कर्मधारयान्मत्वर्थीयः । न कर्मधारयादिति तु प्रायिकम् । किं विदधानः कुर्वाणः । काम् । रतिं चित्तासक्तिम् । कासु । वर्षासु । किंभूतासु । गतप्रायासु स्वल्पशे- षासु । तथा कुसुमान्येव कर्णपूरा उत्तंशास्त्रैः शून्यानि काननानि वनानि यासु । तथा मदेन मुखराणां मयूराणां या रसनावली जिह्वाश्रेणिस्तस्याः कलक्वणितम् । तद्विश्राम्यद्विरमद्यासु । वर्षोदये हि केकायन्ते न प्रान्ते । मदाभावात् । तथा स्तोकविद्युदुद्द्योतासु । व्यपेतहंसपक्षिपाङ्क्तिषु । अदृश्यद्भानासु । क्षीणशुक्राख्यग्रहासु । कास्विव । वृद्धास्विव । तदा । रतिः संभोगः । गतं प्रकृष्टमयमनिष्टफलं दैवं यासाम् । तथा कुसुमैः पुष्पदामभिः कर्णपूरैश्च शून्यं कं शिर आननं च यासाम् । तथा रसनायाः काञ्च्याः क्वणितस्य मुखरमयूखवो ललितस्य मधुराङ्गविन्यासस्य लावण्यस्य च लोचनलेह्यकमनीयगुणस्य विरलतडिदुपमानम् । तथा व्यपेतहंसशुभ्र- अदन्तरराजिषु पतत्कचासु । तथा क्षीणं गर्भसंभवाभावाद्विनष्टं शुक्लं पुंवीर्यं यासु । न पुनर्निर्वृत्तवीर्यास्विति व्याख्येयम् । पुंसां वीर्ये स्त्रीणां रज इति प्रसिद्धेः । अतएव न विद्यते बलं वीर्यं यासामित्यबलाः । रसनाशब्दः काञ्चीपक्षे न परं तालव्यः । दन्त्योऽप्यस्ति । तथा च विश्वप्रकाशः—'रसना काञ्चिज- ह्वयोः' इति । द्विरदमदगन्धस्य संबन्धो द्विरदमदगन्धोऽयमिति प्रत्यभिज्ञा तयानुधाविते । संधानपाठे तु संधानं संधिमैत्री सादृश्यमिति यावत् । शरदि सप्तच्छदाः पुष्यन्ति । ते च मदगन्धयतस्ततो गजभ्रान्त्या सरोषं विस्फूर्जति सिंहवृन्दे । मृणालिकाकाण्डस्य खण्डनाय योऽसौ विरामोऽर्थात्तादस्यैव । तेन रम्यं यथा भवति स्थिला स्थिला मृणालं चर्वन्ति तत्कषायसंशुद्धकण्ठाश्च नादं कुर्व- १ 'उत्सुकश्च'. २ 'द्विरदमदगन्धसंधानधाविते'; 'द्विरदमदगन्धानुसंधानवासितासु'. ३ 'वासितकुसुमित'. ४ 'विस्फूर्जिते'. ५ 'कुडम्वके'. ६ 'मृदङ्गेषु हंस'. ७ 'पथिकप्रहार'; ८ 'पान्थप्रहार'. ९ 'शरत्श्री'; 'सरःश्री'. १० 'नीलसरोजेषु'. Digitized by S3 Foundation USA
४० नलचम्पूः । वधूप्रस्थानपटहे पट्टरणचक्रवाले, प्रभात इव घनतिमिरविरामरमणी- ये जाते जलनिधिशयनशायिशा शार्ङ्गि निद्राद्रुहि विनिद्रसान्द्रसरससरोज- राजिराजितसरसि शरत्समये, स महीपतिः समासन्नवनविहारिकिंन- रमिथुनेन गीयमानमिदमनश्लीलं श्लोकत्रयमशृणोत् ॥ क ॥ धन्याः शरदि सेवन्ते प्रोल्लसच्चित्रशालिकान् ॥ प्रासादान्स्त्रीसखाः पौराः केदारांश्च कृषीवलाः ॥ १ ॥ नमिताः फलभारेण न मिताः शालिमञ्जरीः ॥ केदारैरेषु हि पश्यन्तः के दारेषु विनिःस्पृहाः ॥ २ ॥ प्रावृषं शरदं चापि बहुधाकाशहारिणीम् ॥ विलोक्य नोत्सुकः कः स्यान्नरो नीरजसंगताम् ॥ ३ ॥ अनेन मृदुमूर्च्छनातरङ्गरङ्गिताक्षरेण श्रवणपथप्रथमप्रियातिथिना श्लोकत्रयेण विषैविषमविषयवैरस्यव्रतव्रततिकठिनकुठारेण, दारपरिग्रह- पराङ्मुखोऽपि शृङ्गारशृङ्गिङ्गजसमुत्तुङ्गर्म्मारोप्यमाणस्तदेवोद्यानममन्दम- न्दारमकरन्दामोदमत्तमधुकरमधुरझंकाररमणीयमुपसर्तुमारभत ॥ख॥ न्तीत्यर्थः । हंसमण्डलानि शरत्प्रवेशमङ्गलमृदङ्गाः । बन्धूककुसुमस्यातिलौहि- त्याद्विरहिजनरुधिरलम् । शुकावलिस्तोरणम् । कलमस्य श्वेतशालेः, गन्ध- शालेश्च रक्षिका गीतयः कंदर्पराजजयघोषणाः । विकसन्नीलोत्पलानि शरल्लक्ष्मी- कटाक्षाः । भृङ्गगणश्च यान्त्या वर्षावध्वाः प्रयाणपणवः । घनो मेघो घनं च सान्द्रम् । शयनस्थानम् । निद्राद्रोहो विनिद्रसान्द्रसरोजराजितसरस्त्वं च शरत्प्र- भातयोः समानम् ॥ क ॥ धन्या इति ॥ प्रोल्लसन्त्यश्चित्रशालिका आलेख्यभूमिका येषु । पक्षे चित्रा बहुविधाः शालयः । स्त्रीसखा इत्युभयत्र योज्यम् ॥ १ ॥ कुतः स्त्रीसखा इत्याह—नमिता इति ॥ हि यस्मात्कारणात् । दारेषु के निः- स्पृहाः स्युः । किं कुर्वन्तः । फलभारेण नमिता वक्रिता न मिताः स्तोकाः केदारेषु क्षेत्रेषु शालिमञ्जरीः पश्यन्तः । तद्दर्शनं ह्युद्दीपनविभावः ॥ २ ॥ प्रावृषमिति ॥ रमणीयत्वात् । बहुधा पुनः पुनर्विलोक्य प्रावृषमाकाशस्य व्योम्नस्तिरोधायिनीं नीरजसं निःपांसुं गतामतिक्रान्तां शरदं च काशपुष्परम्याम् । तथा नीरजैः पद्मैः संगतामन्विताम् ॥ ३ ॥ अनेन श्लोकत्रयेण प्रियाग्रहविमुखोऽप्युच्चैः शृङ्गारगिरिशिखरं नीयमानस्तदेव वनं गन्तुमारेभे ॥ ख ॥ १ 'विहारहारि'. २ 'शालमञ्जरी:'. ३ 'केदारेष्विह'. ४ 'वापि'. ५ 'विषमविषय'. ६ 'समारोप्यमाणः'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
द्वितीय उच्छ्वासः । ४१ प्रथमसंमुखप्रेङ्खितेन चलच्चन्दनामोदनन्दिनान्दोलनवेगवित्रस्तकु- सुमिततरुशिखरसुमसुरतश्रमखिन्नकिंनरीनिबिडतरपरिरभ्यमाणकिं- नरतमस्कृतेन क्रीडाकमलदीर्घिकातरङ्गोत्सङ्गरङ्गतरुणतामरसरसवि- सरोद्गारहारिणा यौवनमदनिरुद्धनैषधीधम्मिल्लवल्लरीचलनविलासलो- सकेन वनमारुतेनोत्पुलकिततनुः स्तोकमन्तरमतिक्रम्य 'देव, भवद्वैरिवि- धूवदने वने च नारंगत रूपशोभे भान्ति गण्डशैलस्थलालंकारधारिण्यो लोध्रलताः, नागरुचिताश्चन्दनपत्रभङ्गाः, नालिकेरचितस्तिलकः, नवा दृष्टिपथमवतरति घनाञ्जनयष्टिका, नाभिरम्या नीलतमालका, नाध- रीकृतस्ताम्बूलीरागः, पल्लवितमेतद्दृश्यतेऽशोकजालम् । इतश्च काञ्चन- गिरिरिव सुरचितः क्रीडापर्वतः । इतश्च गूर्जरकूर्चमिवाखण्डितप्रवालं वालशालवनम् । इतश्च भवद्वैरिनगरमिवानेकविधवकुलसंकुलं कूप- कुलम् । इतश्च धूर्जटिजटाजूट इव पुंनागवेष्टितो वापीपरिसरः । इतश्च कुरुसेनेव कृताश्वत्थामहिता च क्रीडासरित्पुलिनपालिः ।' इति भङ्ग- तत ईदृग्विधेन वायुना रोमाञ्चिततनुः देवेत्याद्यामन्त्र्य तवारिखीमुखे वने चेदमिति भङ्गश्लेषोक्तिदक्षया वनरक्षिकया कथ्यमानानि वनकौतुकस्थानानि नलो व्यलोकयत् । आन्दोलनवेगेत्यादावान्दोलनं तरोरेव पवनकृतम् । तदरिखीमुखे अरमत्यर्थं गतसौन्दर्ये कपोलफलकालंकारिण्यो लोध्रस्य विलेपनरूपस्य लता मण्डन- वल्लर्यो न भान्ति । अगरुद्रवेण चिताश्चन्दनद्रव्यस्य पत्रभङ्गाः पत्रवल्ल्यः । अलिकं ललाटं तिलकं पुण्ड्रम् । वा समुच्चये । घनं सान्द्रमञ्जनं तस्य यष्टिः शलाका । अभिरम्या संस्कृता । प्रकर्षेण नीलाः कुटिलकेशाः अधरोऽस्यास्तीत्यधरी ओष्ठवान् । ताम्बूलराग ओष्ठसंबद्धः कृत इति भावः । सर्वत्र नञ्संबन्धः । अवतरतीति तु संनिहितमेव योज्यं न प्रत्येकम् । पल्लवितशब्दो लक्षणया प्रवृद्धार्थः । शोकात्सप्र- लापमनोदौस्थ्याजातं शोकजम् । अलमनर्थः । वने च नारङ्गतरुभिः कृतशोभे सहजच्युतस्थूलपाषाणस्थलीभूषणा लोध्रस्य तरुविशेषस्य लताः शाखा भान्ति । नागेभ्यो रुचिताश्चन्दनतरोः पत्राणां भङ्गा विशेषाः । तिलको वृक्षो नालिकेरैस्तरु- भिर्व्याप्तः । नवा नवीना । अञ्जनस्य शाखिनो यष्टिः प्रकाण्डः । तमालका इति ह्रस्वे कः । अतएव नाभिरम्या नाभिदघ्ना इति भावः । नाधरीकृतो न हीनीकृतः । ताम्बूली वल्ली । रागः सक्तिः । किसलयितमशोकानां जालं खण्डः । इतश्च सुष्ठु रचितः सुरैश्चितो व्याप्तश्च । प्रवालाः पल्लवाः । पक्षे अखण्डिताः अतएव प्रवृद्धा वालाः केशा यत्र । अनेकविधैर्बकुलैः संकुलम् । पक्षे अनेका विधवा मृतभर्तृका १ 'अमन्दान्दोलन'. २ 'सुखसुप्त'. ३ 'किंनरीजन'. ४ 'यौवनमदनिरुद्धापाङ्गनै- षधी'; 'यौवनमदरुद्धापाङ्गनैषधीय'. ५ 'हास्यलासकेन'. ६ 'अतिक्रम्य वनपालिका राजानं जगाद' प. ७ 'ताम्बूल'. ८ 'गूर्जर'.
४२ नलचम्पूः । श्लेषोक्तिकुशलया वनपालिकया निवेद्यमानानि वनविनोदस्थानान्यव- लोकयांचकार ॥ क ॥ चलच्चकोरचक्रवाकचक्रचञ्चुचलच्चञ्चरीकचरणचूर्णितचम्पका- ङ्कुरमरिचमञ्जरीदलदन्तुरेण वनमार्गेण स्तोकमन्तरमतिक्रान्तस्तया पुनरेवं बभाषे ॥ ख ॥ 'देव, पुरंदरनन्दिनन्दनोद्यानस्पर्धिनोऽस्य वनस्य किं किं वर्ण्यते ॥ ग ॥ यत्र । त्रिजटाश्रयमनेकजटाः, स्फुरदेकपुष्पकमनेकपुष्पाः, समुद्वे- जितराममानन्दितरामाः, समुपहसन्ति लङ्केश्वरं तरवः ॥ घ ॥ यस्मिंश्च मत्तमयूरहारिणि भद्रभुजंगप्रयाते विचित्रक्रौञ्चपदे छन्दः- शास्त्र इव वैतालीयं मौलिनी शिखरिणी पुष्पिताग्रा च दृश्यते विवि- धा जातिः ॥ ङ ॥ यस्मिंश्च । एकभीमार्जुनविनिर्जितानाक्रान्तानेकभीमर्जुनाः, कोपि- येषु कुलेषु तैः कुलैर्गोत्रैः संकुलम् । पुंनागमगः अन्यत्र पुन्नागो वासुकिः । कृता उत्पादिता अश्वत्थाः पिप्पला यस्याम् । तथा महिता चार्वा । पक्षे कृतमश्व- त्थाम्ने द्रोणसुताय हितं यया ॥ क ॥ चलदिति ॥ संचारयोग्येन मार्गेण कियदपि व्यवधानमतिक्रान्तः पुनरपि तयैष बभाषे ॥ ख ॥ देवेति ॥ देव, नन्दनस्पर्धिनोऽस्य किं वर्ण्यते ॥ ग ॥ यत्रेति ॥ रावणं तरवो हसन्ति । त्रिजटा रावणस्वसा । जटा मूलानि पुष्पकं विमानं कुसुमं च । रामो दाशरथिः । रामाः स्त्रियः । अनेकजटा इत्येकशब्देन संख्योपलक्ष्यते । ततोऽनेकशब्दोऽसंख्यातवचनः ॥ घ ॥ यस्मिंश्चेति ॥ वै स्फुटमियं ताली तालद्रुमः । इयं जातिर्मालती दृश्यते । द्वे अपि कीदृश्यौ । माला अस्यामस्ति । तथा शिखरयुक्ता कुसुमिताग्रभागा च । किंविशिष्टे वने । मत्तैर्मयूरै रम्ये । तथा भद्रं मनोज्ञं भुजंगानांमहीनां विटानां च प्रयातं यत्र । क्रौञ्चः पक्षी । पक्षे मत्तमयूरं भुजंगप्रयातं क्रौञ्चपदा वैतालीय मालिनी शिखरिणी पुष्पिताग्रा च छन्दोनामानि । जातिश्च उक्तादिरु- क्तलन्ता ॥ ङ ॥ यस्मिंश्चेति ॥ वने वीरुधो लताः कुरुवीरान गौरवयन्ति । आक्रान्ता अनेके
१ 'क्वचित्पुस्तके चक्रवाकचक्रेति नास्ति'. २ 'स पुनरेवम्'; 'पुनरेषः'. ३ 'किं वर्ण्यते'. ४ 'मध्यमणिविभूषिते, चम्पकमालाचित्रे, हरिगीताकर्णनसुखे, शार्दूलविक्रीडिते, हरिणी- मनोहरे, सहरिणपुते छन्दःशास्त्रे'. ५ 'शालिनी'.
द्वितीय उच्छ्वासः । ४३ तैकनकुलानाह्लादितानेकनकुलाः, सहदेवेनैकेन स्पर्धमानाननेकैः सह- देवैः संगताः । न बहु मन्यन्ते कुरुचीरान्वीरुधः ॥ क ॥ किं चान्यदवलोकयतु देवः । पटलमलिकुलानामुन्नमन्मेघनीलं भ्रमदुपरि तरूणां पुष्पितानां विलोक्य । मृदुमदकलकेकानिर्भरो नृत्यसक्त- स्तरलयति कलापं मन्दमन्दं मयूरः ॥ ४ ॥ अपिच । भ्राम्यद्विरेफाणि विकासभाञ्जि संयोज्य पुष्पाणि शिलीमुखेषु । इह स्थितः सर्वजगज्जयाय धनुःश्रमं पुष्पशरः करोति ॥ ५ ॥ इतश्च हरिति हरिणयूथं यूथिकाजालमूले कुसुममधुबिन्दुस्यन्दसंदोहभाजि । मधुरमधुकरालीगीतदत्तावधानं लिखितमिव न दूर्वापल्लवानुल्लुनाति ॥ ६ ॥ इतोऽपि सोऽयं क्रीडाचलो भव्य लोभव्यसनवर्जित । यस्मिन्नासन्नसारङ्गा सारं गायति किंनरी ॥ ७ ॥ बहवो भीमा अम्लवेतसा अर्जुनाश्च याभिः । यद्विश्वप्रकाशः—'भीमोऽम्लवेतसे शंभौ घोरे वापि वृकोदरे' । नकुला जीवाः । सहदेवास्तरवः । कुरुवीरपक्षे भीमार्जुननकुलसहदेवाः पाण्डवाः ॥ क ॥ भ्राम्येति ॥ शिलीमुखाः शराः । इहेत्युद्यानस्योद्दीपनविभावातिशयोक्त्या कामस्य स्थितिरुह्यते । एतावता सुरभिकुसुमसंपदुक्ता ॥ ५ ॥ हरितीति ॥ हरिति शाद्वले यूथिकासमूहस्याधःप्रदेशे मधुबिन्दुसंदोहसंबन्धा- त्स্পृहणीयेऽपि गीतरसिकतया मृगाणां दूर्वाङ्कुराग्रहणमुक्तम् ॥ ६ ॥ सोऽयमिति ॥ हे भव्य, हे लोभेन व्यसनैश्च विवर्जित, सोऽयं क्रीडागिरिः । यस्मिन्निरावासन्नमृगा किंनरी सारमुत्कृष्टं गायति । गीतप्रकर्षाकृष्टत्वात्सारङ्गाणा- मासन्नता ॥ ७ ॥ १. 'वर्जितः'
४४ नलचम्पूः । राजते राजतेनायं सानुना सानुनायकः । यस्मिन्निशम्य गायन्तं किंनरं किं न रंस्यते ॥ ८ ॥ इतश्चास्य जनयति जलबुद्धिं बाललीलामृगाणा- मयमिह पटुकान्तिः स्फाटिको भित्तिभागः । इह हरितमणीनामुल्लसन्तो मयूखाः सरसनवतृणालीलोभमुत्पादयन्ति ॥ ९ ॥ इयं च गौरवं गौरवंशस्य पर्वतः पर्वतस्थले । भ्रमरी भ्रमरीणस्य कुरुतेऽकुरुतेन ते ॥ १० ॥ अपिच । इह कवलितकन्दं कंदरे कन्दलिन्यां भुवि विरचितकेलि क्रीडति क्रोडयूथम् । इह सरसिजगर्भभ्रान्तभृङ्गं कुरङ्गाः सरसि सरलयन्तः कन्धरां कं धयन्ति ॥ ११ ॥ इह पुनरनिशं निशम्य भिन्न- द्रुममुकुलानि कुलानि षट्पदानाम् । श्रुतिसुखकरणं रणन्ति वीणां तदनुगुणां गुंणयन्ति किंनरेन्द्राः ॥ १२ ॥ इतश्च क्रीडाचलस्थलकमलदीर्घिकातीरतरुतलमनुसरतु देवः ॥क॥ राजत इति ॥ अयं सानुनायको गिरी रजतनिर्मितेन सानुना तटेन राजते । यस्मिन्गायन्तं किंनरं निशम्य श्रुत्वा न किं रंस्यते । रंस्यत एव ॥ ८ ॥ गौरेति ॥ गौरो वंशोऽन्वयो यस्य तस्य ते । पर्वतस्थले गिरिस्थले । पर्वतो गच्छतः । अतएव श्रमेण देहवैकल्येन भ्रमिसंज्ञेन खिन्नस्य सतोऽकुत्सितरुतेन भ्रमरी भृङ्गी गौरवं प्रतिपत्तिविशेषं कुरुते ॥ १० ॥ इहेति ॥ कं जलम् । धयन्ति पिबन्ति ॥ ११ ॥ इहेति ॥ रणन्तीति शत्रन्तं षट्पदकुलविशेषणम् । तस्य भृङ्गरणितस्यानुगु- णामनुगामिनीम् ॥ १२ ॥ १ 'कंधराः'. २ 'क्वणयन्ति'; 'गणयन्ति'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
द्वितीय उच्छ्वासः। ४५ यत्र च वहति नवविकासोल्लासिकिंजल्कलोभ्य- न्मधुकरकृतगीता नर्तयन्नब्जराजीः। वनकरिमदगन्धस्पर्धिसप्तच्छदाली- कुसुमजकणशारः शारदीनः समीरः ॥ १३ ॥ राजा तु तेन तस्याः सकलललितवनप्रदेशप्रकटनप्रियालापप्रप- ञ्चेन परितोषितः 'साधु भोः सारसिके सुभाषितमञ्जरि, साधु । गृहाण पारितोषिकम्' इत्यभिधाय सर्वाङ्गीणाभरणप्रदानेन प्रसन्ननानां तामकरोत् ॥ क ॥ ततश्च संचरच्चटुलभृङ्गविहंगवेगवेल्लद्द्रुकुलचम्पकचूतचन्दनमन्दरा- मन्दस्यन्दमानमकरन्दविन्दुसन्दोहाडम्बरिताकाण्डप्रावृषि, प्रलम्बता- म्बूलवल्लीवलयितनितम्बनिम्बकिम्बजम्बीरजम्बस्तम्बकदम्बके, कुसु- मितकरवीरवीरुधि कोरकितकरञ्जाञ्जननिकुञ्जशिञ्जानशुककपिज्जलॆ, जलदसमयनीरदनीलतमतमालतलताण्डवितशिखण्डिनि, मण्डलित- मदकलकलहंसोत्तंसकमलवापीमण्डिते, मञ्जरितसिन्दुवारसुन्दरामो- दनन्दिनि मन्दतरमारुतान्दोलनविलोलकङ्कोलकुट्मलफलनालिकेरक- वङ्गपूगपुंनागनाग़रङ्गरञ्जितविहङ्गे भृङ्गामुखनखरपक्षराजर्रितसर्जख- र्जूरमञ्जरीरजःपुञ्जपांसुलभुवि, भुवो भूषणायमाने, सर्वर्तुनिवासना- मनि वने विहर्तुमारभत ॥ ख ॥ तत्रे च व्यतिकरे प्रैलेयप्रचण्डपवनोल्लासिततनुतुहिनाचलगण्डशै- ललीलामाकलयन्तः, मन्दमरुत्तरङ्गिततनुतरशरदभ्रविभ्रमायमाणाः, वहतीति ॥ कुसुमजकणा मकरन्दल्वास्तैः शारः शवलः । शरदि भवानि शारदानि मुद्र्गादीनि विद्यन्ते येषां ते शारदिनः कृषीवलास्तेषामिनः स्वामी । तत्तत्सस्यसंप- त्तिहेतुत्वात् ॥ १३ ॥ ततश्चेति ॥ भृङ्गामुखनखरेत्यादौ भृङ्गो धूम्याटः पक्षी ॥ क ॥ तत्रचेति शकलोदितेति ॥ शकलः खण्डशशी हंससदृशो भवति । मन्द- रगिरिरेव परिक्षेपो मन्थाः ॥ ख ॥ १ 'ललितपल्लवित'. २ 'प्रदानप्रसन्नाननाम्'. ३ 'अनन्तरं चेतस्ततश्च संचरत्'; 'इतस्ततश्च संचरत्'. ४ 'वेल्लल्लकुचलसङ्कुल'. ५ 'निम्बजम्बीर'. ६ 'कलहंसमण्डलो- त्तंस'. ७ 'आन्दोलित'. ८ 'कक्कोलपनसकुट्मलफल'; 'फनसकुसुमकुट्मलफल'; 'कङ्कोलकट्फल'. ९ 'पुञ्ज'. १० 'नाम्नि'. ११ 'तत्र व्यतिकरे'. १२ 'प्रलयकालकरालप्र- चण्ड'.
४६ . नलचम्पूः । सुरवारणेन्द्रविक्षोभितगगनमन्दाकिनीपतत्पौण्ड्ररडिण्डीरपिण्डपटला- नि विडम्बयन्तः, शकलोदितेन्दुमण्डलसहस्रसंछादितमिव गगनमा- पाद्यन्तो, मन्दरगिरिपरिक्षेपक्षुभितक्षीरवारिधिदूरसमुच्छलितदुग्ध- कल्लोललीलां दर्शयन्तः, शेषाहिफणचक्रवालधवलाः, प्रमुदितहराट्टहा- सलवा इव मूर्तिमन्तः पतन्तः, अमन्दमन्द्रकोलाहलभरितभुवनान्त- रालाः, सपदि धरातलमुत्फुल्लपाण्डुपङ्कजप्रकरप्रकारेण मण्डयन्तो निपेतुः कुतोऽपि पुण्डरीकपाण्डुपक्षपन्नराजयो राजहंसाः ॥ क ॥ तथाविधे च व्यतिकरे विस्मयविस्मृतनिमेषतया निर्वातनिश्चलनी- लोत्पलपलाशशोभायमानलोचनः कौतुकाकूततरलितमनाः सपरिजानो नरपतिरवलोकयन्निश्चल एवावतस्थे ॥ ख ॥ ते च धार्तराष्ट्रा अपि कृतपाण्डुपक्षपाताः, द्विजातयोऽपि सुराजिताः, केचिदुच्चचञ्चुपुटविघटितनिकटबालस्थलकमलकुद्मलाः सरसबिस- किसलयानि कवलयन्तः, केऽप्युन्नतसरलगलनालयो नलिनवनविमु- खाः खमालोकयन्तः, केचिदुत्क्षिप्तपक्षविक्षेपपवनकम्पितकन्दलाः स- लीलमुत्पतन्तः, केचिन्मदमधुरनिजनिनादनिर्जितशिञ्जाननूपुराः, पुरः पुरोस्य धावन्तो विचरितुमारभन्त ॥ ग ॥ राजापि परिधावितविहङ्गमग्रहणाग्रहसमग्रव्यग्रपरिग्रहः परिहासो- न्मीलदमलदन्तकान्तिस्तबकिताधरपल्लवो विहँसन्निव तेषामन्यतमम- नुच्चदुलचरणचारीचर्यया चारु संचरन्तमीषदुत्क्षिप्तपक्षैविलासवि- हसितविलासिनीलास्यलीलमुन्नमिताग्रग्रीवं जग्राह हेलया हंसम् ॥ घ ॥ तथेति ॥ शोभायमानलोचनेत्यत्र शोभाशब्दात्तद्वति वर्तमानादुपमानात्कर्तृवा- चकादाचारेऽर्थे क्यङ् । एवं विश्रमायमाणेत्यादयोऽपि व्याख्याताः ॥ ख ॥ ते चेति ॥ कृष्णैश्चरणाननैर्हंसा धार्तराष्ट्राः । कृतः पाण्डुपक्षाणां शुभ्रपक्षतीनां पातो न्यासो यैः । तथा द्विजातयः पक्षिणः सुष्ठु राजिताश्च । विरोधे धार्तराष्ट्राः कुरवः पाण्डुनृपः पक्षपातस्तद्वल्लभम् । द्विजातयो विप्राः । सुरया जिताः । गल- नालिः कण्ठकाण्डम् ॥ ग ॥ राजेति ॥ सलयश्चरणन्यासश्चारी ॥ घ ॥ १ 'पाण्डुडिण्डीर'. २ 'अमन्दमन्दर'. ३ 'अमन्दमदकलकोलाहल'. ४ 'एवाव- तिष्ठते स्म'. ५ 'बालशैवालस्थल'. ६ 'सरल'- ७ 'उन्नमित'. ८ 'अवलोकयन्तः'. ९ 'व्यग्रसमस्तपरिजनः'; 'समस्तव्यग्रपरिकरः'. १० 'विहसन्निव'. ११ 'पक्षविक्षेपवि- लास'
द्वितीय उच्छ्वासः । ४७ उत्क्षिप्तः स च तेन रक्तकमलगर्भविभ्रमायमाणपाणिपल्लवे, पा- ण्डुपद्म इव पद्मरागशुक्तितले, क्षणमुदयशैलशोणमाणिक्यशिखरशि- खायामिन्दुरिव, विराजितो राजहंसो मृदुवाद्यमानरौप्यघनघर्घरी- जर्जरस्वरेण कृतस्वस्तिशब्दो विस्पष्टवर्णविशेषं राजानमुपश्लोक्यां- चकार ॥ ग ॥ पाण्डुपङ्कजसंलीनमधुपालीसमं गलम् । यो बिभर्ति विधेयात्ते ना कपाली स मङ्गलम् ॥ १४ ॥ अपि च । सरलप्रियं गुणाढ्यं लम्बितमालं विचित्रतिलकं च । वनमिव वपुस्तवैतत्कथमवनं नृप जनस्याभूत् ॥ १५ ॥ अपि च । वरसहकारकरञ्जकवीरतरोऽशोक मदनपुंनाग । विविधद्रुममय राजन्कथमसि न बिभीतकः क्वापि ॥ १६ ॥ उत्क्षिप्त इति ॥ पाणिपल्लवस्य पद्मरागशुक्तिः शोणमाणिक्यशिला चोपमानम् । हंसस्य तु पाण्डुपद्म इन्दुश्च ॥ ग ॥ पाण्ड्विति ॥ श्वेतसरोजलीनालिश्रेणिनिभं कण्ठं यो धारयति स ना पुरुषः कपाली कपालमाली । अर्थाच्छिवस्तव मङ्गलं क्रियात् ॥ १४ ॥ सरलेति ॥ सरला अकुटिलाः प्रिया यस्य । तथा गुणाढ्यं शौर्याद्याढ्यम् । तथा लम्बितस्रक् । तथा विविधपुण्ड्रं तव वपुर्जनस्यावनं रक्षमभूत् । वनमिव तदा सरलप्रियंगुणेति समाहारद्वन्द्वः । तथा लम्बिनः प्रलम्बास्तमाला यत्र । तथा विशि- ष्टाश्चित्रकायास्तिलकवृक्षाश्च यत्र । नृपेत्यामन्त्रणे । कथमिति विरोधे । अवनशब्दस्य वनप्रतिषेधार्थत्वात् ॥ १५ ॥ वरेति ॥ वराः सहकारकाः सचिवादयो यस्य । १ तथा रञ्जयतीति रञ्जकः । तथा वीराणां शूद्रकादीनामिव तरो बलं जवो वा यस्येति संबोधौ न दीर्घः । न शोको यस्य । एतेन धीरलोक्तिः । मदन इव मदनः कामः । पुंनाग इति नाग- शब्दः प्रशंसायाम् । इत्यामन्त्रणैः प्रकृतोऽर्थः । विविधद्रुममयेतिपदाद्द्रुमार्थोऽप्यूह्यः । तद्यथा । सहकार आम्रः, करञ्जको नक्तमालः, वीरतरुर्नदीसर्जः । यदमरः— ‘नदीसर्जो वीरतरुरिन्द्रद्रुः ककुभोऽर्जुनः’ । अशोकः कङ्केल्लिः, मदनः शल्यः, यत्फलं विवाहे वधूवरपाणौ बध्यते । पुंनागः सुरपर्णिका । कथमिति विरोधे । बिभीत- कस्याक्षार्थत्वात् । प्रकृते तु बिभीतको विशेषेण भीत इति कुत्सायामनुकम्पायां वा कन् ॥ १६ ॥ १ 'माणिक्यशिलायाम्'. २ 'व्यराजत'. ३ 'स्वरेण च'. ४ 'विशेषमेष राजानम्'. ५ 'आसीत्'. ६ 'मदनशोक'.
४८ नलचम्पूः । अपिच । बाणकरवीरदमनकशतपत्रकबन्धुजीववसुजाते । नृप विविधविटपरूपस्तथापि विटपः कथं नासि ॥ १७॥ राजा तु तदाकर्ण्य सविस्मयम् 'अहो अस्य धैर्य मनुष्यसंनिधौ, आश्चर्य रूपे, माधुर्यं वाचि, प्राचुर्यं प्रज्ञायाम्, औदार्यमर्थे, गाम्भीर्यं वर्णव्यक्तौ । प्रायेणाहारमैथुननिद्राभयभ्रमणमात्रविवेकासु कथं प्राग- लभ्यमेतत्पक्षिजातिषु । तदेष विहंगव्यञ्जनः कोऽपि कामचारी भवि- ष्याति । सर्वथा मनसापि नावज्ञेयाः केऽपि प्राणिनः । यतः कर्मतः कामतः शापतः संछन्नरूपाण्यपि भ्रमन्ति विविधाश्चर्यभाञ्जि भूतानि' इति चिन्तयन्नुचितज्ञस्तमीषद्विकसितसिन्दुवारमञ्जरीभिरिव कुन्दका- न्तदन्तदीप्तिभिरर्चयन्स्वागतमपृच्छत् ॥ क ॥ असावपि प्रणयप्रणतशिराः शुचिरोचिषां चयेन पाण्डुपुष्पप्रकरप्र- कारेण प्रतिपूजयन्निव 'देव, भवदवलोकनेनाह्लादितमनसो ममाद्य स्वागतम्' इति ब्रुवाणो राजानं रञ्जयांचकार ॥ ख ॥ अत्रान्तरे त्रासतलतरतरत्तारकमकाण्डाडम्बरितबाष्पप्लवप्लवमा- नमिव वहन्ती चक्षुः, उत्क्षिप्तपक्षपत्रपल्लवव्याजेन संगृहीते सहचरे शाखोद्धारमिव दर्शयन्ती, हंसी दूरादवनिपालमवाप्य रौप्यमयघण्टाटं- कारकोमलया गिरा श्लोकद्वयमपठत् ॥ ग ॥ 'एकान्ते सेवते योगं मुक्ताहारपरिच्छदः । हंसः समोक्षयोग्योऽपि देव किं बध्यते त्वया ॥ १८ ॥ बाणेति ॥ बाणः करवीरो दमनकः शतपत्रकं बन्धुजीवकं जातिश्चेति विटपाः । एतन्मयस्त्वमसि शब्दतः । अर्थतस्तु बाणाः करे यस्य । वीरान्दमयसि । शत- संख्यं पत्रं वाहनं यस्य । शेषादिति कप् । बन्धून् जीवयस्युपकरोषि । शोभना जातिः क्षत्राख्या यस्य । उभयथाप्येतानि नृपेति च संबोधनानि । असीति लव्यं लमित्यर्थे । ल्वं न विटान्पासीति विटपः । अपात्रभर्ता नेत्यर्थः । तथापि कथमिति विरोघोद्भावने विटपशब्दस्य वीरुदर्थत्वात् ॥ १७ ॥ राजेति ॥ कामचारी विद्याधरादिः ॥ क ॥ अत्रेति ॥ शाखोद्धारमन्यायपूतकारचिह्नं शाखाग्रहणम् ॥ ग ॥ एकेति ॥ अस्यापत्यमिः । इरिव इः कंदर्पप्रतिमः । ततः संबुद्धौ इति ए इति १ 'राजापि'. २ 'संनिधावपि'. ३ 'विहंगमव्यञ्जनः'. ४ 'यतः कर्मतः शापतो वा'. ५ 'प्रच्छन्न'. ६ 'सुविभूतानि'. ७ 'त्रासतरलतरतारकाण्डा;' 'त्रासतरलतारम- काण्डा'. ८ 'पक्षपल्लव'. ९ 'रौप्यघण्टा'. १० 'कञ्चित्'.
द्वितीय उच्छ्वासः । ४९ नीरञ्जनपदे तिष्ठन्विश्वसंसारसङ्गतः । हंसः किं बध्यते क्वापि यस्य नालम्बनं प्रियम् ॥ १९ ॥ अन्यच्च । राजन्, जलपक्षिणो मुनय इव ये मीनाहारं वाञ्छन्ति, बहुधावन- व्यसनिनः बिसाधाराः । तद्द्लमाग्रेहेण १ ॥ क ॥ राजा तु तेन तस्याः श्लेषश्लाघिना श्लोकोक्तिरसेनाह्लाद्यमानो नर्मा- लापलीलया तां बभाषे ॥ ख ॥ देव इति चोपच्छन्दयितुं संबोध्य मुमोचयिषुः पतिं, हंसी नृपमाह । मुक्ताहारो मौक्तिकहारस्तद्वत्परिच्छदौ पक्षती यस्य शुभ्रत्वात् । स तथोक्तः । कस्य जलस्यान्ते वर्तमानमगं द्रुमं यः सेवते। मोक्षस्य मोचनस्य योग्योऽपि स हंसो वार्त्तस्त्वया भवता किं किमर्थं बध्यते इत्येकोऽर्थः । अथवा एकान्त इति समस्तं विजनार्थम् । अथ च हंस आत्मा पुरुषः स मोक्षयोग्योऽपि निर्वाणार्होऽपि किं बध्यते । न बध्यत एवेत्यर्थः । कया । लया । लशब्दः सर्वादिगणेऽन्यार्थः । अतः पुरुषापेक्षयान्यया प्रकृत्येत्यर्थः । कस्मान्न बध्यत इत्याह—कान्ते कमनीये परमानन्दरूपे ए कृष्णे ल्यकाहारपरि- वारः सन्योगमध्यात्मं यः सेवते ॥ अत्र पक्षे अ इत्यस्माद्विष्णुवाचकात्सप्तम्येकव- चने ए इति रूपम् । यदि वा समोक्षयोग्योऽपीति समः समदर्शनः । अक्षयोग्यो- ऽपि इन्द्रियसंबद्धोऽपि ॥ १८ ॥ नीरेति ॥ जनानां पदे स्थाने पुरग्रामादावतिष्ठन्यः सरस इदं सारसम् । तथा श्वसन्तीति श्वासाः प्राणिनः, वयः पक्षिणः श्वासा यत्र तथाभूतं नीरं जलम्, गतः स हंसः किं क्वापि बध्यते, न बध्यत एव । यस्य नलस्येदं नालं तृणसंबन्धि, वनं काननं प्रियम् । अथवा नीरञ्जनपदे नीरागपदे तिष्ठन्हंस आत्मा किं क्वापि बध्यते, न बध्यत एव । यस्य विश्वेभ्यः संसारसङ्गेभ्य आलम्बनमासक्तिर्न प्रियम् । विश्वसंसार- सङ्गत इति तसिलन्तम् ॥ १९ ॥ राजन्निति ॥ मीनो मत्स्यः । बह्विति भिन्नम् । बिसं पद्मिनीकन्द आधारो जीवनं येषाम् ॥ मुनिपक्षे अमी इति नेति च पदद्वयम् । बहुधा, अनेकधा वनव्यस- निनो वनस्थाः । तथा व्यपेतः साधारः साधारणतिथिपर्वोत्सवादियेभ्यः । लोकोत्तरवृ- त्तत्वात् । ‘बिसादनाः' इति पाठे तु बिसमदनं येषाम् । पक्षे विगतं सादनं येभ्यः । अपीडाकरा इत्यर्थः ॥ क ॥ राजेति ॥ श्लेषश्लाघिना श्लेषप्रकाशनशीलेन । एतेन एकान्त इत्यादिवचसां श्लिष्टार्थत्वमभिहितम् ॥ ख ॥ १ 'आग्रहेणेति', २ 'श्लोकोक्तिद्वयेन'. ५
५० । नलचम्पूः । ‘अनेकधा यः किल पक्षपातं सदा सदम्भोजगतः करोति । स हंसिकेदारविहारशीलो न बध्यते किं बहुनाशकुन्तः’ ॥ २० ॥ किं चान्यदपि श्रूयतां बन्धस्य कारणम् ॥ क ॥ अस्ति मत्परिग्रहे मृणालिकानामवननायिका, सापरागस्थगितमु- खकमलापि बलादनेन विनाशिता, विनिपत्योपरि जर्जरिता नखैः खण्डितमधरदलम्, दलितमलिकालकमण्डनम्, अपनीतः सुकुमार- भावः ॥ ख ॥ अनेकेति ॥ हे हंसिके, यः सदा जगतोऽपि सर्वस्यापि सदम्भो दाम्भिकः । तथानेकधोक्तोऽपि प्रणतिप्रत्युपकारादिना पक्षपातं ममत्वं करोति । तथा दार- क्रीडारतोऽब्रह्मचारी । तथा बहून्नाशयत्येवंविधः कुन्तः प्रासो यस्येति हिंसापा- परतः । स कथं न बध्यते । संसारकारायामिति शेषः । इति हंसीवचनप्रतिव- चनौचित्येन समपक्षे व्याख्या ॥ अथवा यो दाम्भिकः सदा जगतोऽपि पक्षस्य मित्रवर्गस्य पातं नाशं करोति । तथा जगतोऽपि दारेषु क्रीडापरः । तथा बहु- घातिकुन्तास्रः । स महापराधी बध्यत एव । नर्मणैव हंसीवचसोऽन्यथालम् । तत्त्वतस्तु प्रामाण्यम् । तद्यथा । हे हंसि । किं बहुना किं बहूक्त्या । सदम्भोजं सत्पद्मं, गतः प्राप्तः, सन्यः पक्षतिपातं करोति केदारविहारं च शीलयति स शकुन्तः पक्षी न बध्यते । किं तर्हि मुच्यत एव । तस्माद्युक्तमुक्तं त्वयेति वास्त- वोऽर्थः । एवमुत्तरत्रापि ॥ २० ॥ अपरपरिभोगप्रतिपादनेर्ष्ययोत्कृष्टदोषदर्शनेन च हंसं प्रति हंसीं कलहयन्नाह— किंचेति ॥ चकारः पराभिप्रायाक्षेपपूर्वके विशेषे । एवं नामासौ दुरात्मा निःशङ्को निर्मर्यादश्च ॥ क ॥ अस्तीति ॥ येन । आसतां लोकदाराः । मम राज्ञोऽपि परिग्रहे स्थितायां नायिकायां प्रवृत्तम् । मृणालिकानां पद्मिनीनामवने रक्षणे, नायिका स्वामिनी, सा ततोऽपरागाद्रागाभावात्, संवृतवक्त्रकमलापि बलात्कारादनेन लङ्घित्री विनाशिता । विनाशोऽत्र शीलखण्डनम्। तदाह—विनिपत्येति । अधर ओष्ठः, अलिकं ललाटं तस्य, तथा अलकानां केशानां च मण्डनम् । लुलितम् । उदस्तः सुकुमारभावः । अर्थात्क- न्यात्वम् ॥ वास्तवे तु । मृणालिका पद्मिनी । नामेति संबोधने । वनस्य नायिकेव । परागो मकरन्दस्तेन छन्नमुखानि कमलानि यस्याम् । बलादपि अनेन विना पक्षिणा सा अशिता भक्षिता । अशेर्भोजनार्थात्कर्मणि क्तः । अधरदलमधःपत्रम् । अलय एव कालं कृष्णं कस्य शिरस उपरिभागस्य मण्डनम् । अपनीतो मृदुभावः । नखैर्जर्जरितत्वात् ॥ ख ॥ CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
द्वितीय उच्छ्वासः। ५१ किं वापीवरेणानेन न कृतम् ॥ क ॥ तदेष यावन्मध्यं बहुधापाञ्जरन्नावगाहते तावन्मे कुतः संतोषः । न च नदीक्षितेद्विजन्मनि निगृहीतेऽपि गरीयः पातकमस्ति ॥ ख ॥ अयि मुग्धे कलहंसिके, त्वं पुनः मानसंगतापि विमाननां सहसे, विपरीत: खल्वेषः । यतः सद्वंशकान्तारागविमुखो मधुपश्रेणिश्रयणी- यां सुराजीविनीं कान्तां कामयते । तदलमेन । गच्छ वत्से, यथा- प्रियम' इत्यभिहितवति वसुंधरेश्वरे ॥ ग ॥ सापि सपरिहासं हंसी 'हंहो विहंगभुजंग, मृणालिकां तामरसा- किमिति ॥ अथवानेन पीवरेण स्थूलेन किं न कृतम् । सर्वं कृतमेव तदित्युप- संहारे ॥ वास्तव तु वाप्यां वरेण प्रधानेनानेन ॥ क ॥ तदिति ॥ तस्मादेषोऽपराधी, पञ्जरस्येदं पाञ्जरं मध्यं यावन्नावगाहते । मे मम । तावत्कुतः संतोषः । अथायं द्विजन्मत्वादनिग्राह्य इत्यत आह—न चेति ॥ द्वाभ्यां सकाशाजन्म यस्य स द्विजन्मा न द्विजन्मा तथोक्ते . अर्थात्ति्रजाते निगृहीतेऽपि गरीयोऽत्यर्थं पातकं नच नैवास्ति । तस्मिन्कीदृशे । नदीक्षिते दीक्षा शैवादिमतपरिग्रहः संजातोऽस्येति । एतेन दीक्षितो लिङ्गी त्रिजातोऽप्यवध्य एव । अथवा अपिः समुच्चयार्थो भिन्नक्रमो द्विजन्मनीत्यनेन संयोज्यः । तथथा दीक्षिते व्रतिनि द्विजन्मनि ब्राह्मणे निगृहीते नच न पातकम् । पातकमेवेत्यर्थः । वास्तव तु तस्मादेष लत्पतिः । अपां जलानां मध्यं जरन्त्यावद्वार्धकावधि नावगाहते तावन्मे कुतः संतोषः । नयां क्षित उषिते द्विजन्मनि विहंगे नितरां गृहीते स्नेहात्स्वीकृते गरीयो- ऽत्यर्थं न च पातकमस्ति । श्रेय एवास्तीत्यर्थः । गरीय इति क्रियाविशेषणम् । अपिर्विरोधोद्भावने गृहीतशब्दस्य दण्डितार्थत्वात् ॥ ख ॥ अयीति ॥ मानेन संगता । विमानना अवगणना । पक्षे मानसं सरः । विषु पक्षिषु मानना पूजा । विपरीतो विरुद्धवृत्तः । पक्षे विभिः पक्षिभिः परिवृतः। कादम्ब- ककदम्बकेश्वरत्वात् । सदन्ययकान्तानुरागपराङ्मुखे । मद्यपश्रेणिसेव्याम् । सुरया जीवति या ताम् । इच्छति । पक्षे शोभना वंशा मस्करा येषु तेषु कान्तारेषु नगेभ्यो विमुखो भृङ्गपङ्किश्रितां सुष्ठु शोभनां राजीविनीं नलिनीम् । प्रियस्थानतिक्रमेण यथा- प्रियम् । प्रियो भर्ता इष्टप्रदेशश्च । इत्युक्तवति नृपे ॥ ग ॥ सापीति ॥ हंस्यपि हंसमवादीत् । हंहो इति प्रश्नपूर्वामन्त्रणे । विहंगविला- सिन् । तां राजनिवेदिताम् । मृणालिकानां पालननायिकाम् । अरसां निःस्ने- हाम् । तरसा बलेन । अनुरागेण खासक्त्या रञ्जितचित्त इच्छसि । नुः किमर्थे । न चायं विलासिधर्मः । वस्तुतस्तु मृणालिकां पद्मिनीम् । तामरसान्ते अम्भोने रसो निर्यासस्तत्रानुरागो यस्येति संबोधनम् । अन्तशब्दः स्वरूपार्थः । अथवा तामरस- १. 'अयि तु कलहंसिके', २ 'सुराजीविनीं कामयते' ३ 'नृपेश्वरे'
५० नलचम्पूः । 'अनेकधा यः किल पक्षपातं सदा सदम्भोजगतः करोति । स हंसिकेदारविहारशीलो न बध्यते किं बहुनाशकुन्तः' ॥ २० ॥ किं चान्यदपि श्रूयतां बन्धस्य कारणम् ॥ क ॥ अस्ति मत्परिग्रहे मृणालिकानामवननायिका, सापरागस्थगितमु- खकमलापि बलादनेन विनाशिता, विनिपत्योपरि जर्जरिता नखैः खण्डितमधरदलम्, दलितमलिकालकमण्डनम्, अपनीतः सुकुमार- भावः ॥ ख ॥ अनेकेति ॥ हे हंसिके, यः सदा जगतोऽपि सर्वस्यापि सदम्भो दाम्भिकः । तथानेकधोक्तोऽपि प्रणतिप्रत्युपकारादिना पक्षपातं ममत्वं करोति । तथा दार- क्रीडारतोऽब्रह्मचारी । तथा बहून्नाशयत्येवंविधः कुन्तः प्रासो यस्येति हिंसापा- परतः । स कथं न बध्यते । संसारकारायामिति शेषः । इति हंसीवचनप्रतिव- चनौचित्येन समपक्षे व्याख्या ॥ अथवा यो दाम्भिकः सदा जगतोऽपि पक्षस्य मित्रवर्गस्य पातं नाशं करोति । तथा जगतोऽपि दारेषु क्रीडापरः । तथा बहु- घातिकुन्तास्त्रः । स महापराधी बध्यत एव । नर्मणैव हंसीवचसोऽन्यथालम् । तत्त्वतस्तु प्रामाण्यम् । तद्यथा । हे हंसि । किं बहुना किं बहूक्त्या । सदम्भोजं सत्पद्मं, गतः प्राप्तः, सन्यः पक्षतिपातं करोति केदारविहारं च शीलयति स शकुन्तः पक्षी न बध्यते । किं तर्हि मुच्यत एव । तस्माद्युक्तमुक्तं लयेति वास्त- वोऽर्थः । एवमुत्तरत्रापि ॥ २० ॥ अपरपरिभोगप्रतिपादनेर्ष्ययोत्कृष्टदोषदर्शनेन च हंसं प्रति हंसीं कलहयन्नाह— किंचेति ॥ चकारः पराभिप्रायाक्षेपपूर्वके विशेषे । एवं नामासौ दुरात्मा निःशङ्को निर्मर्यादश्च ॥ क ॥ अस्तीति ॥ येन । आसतां लोकदाराः । मम राज्ञोऽपि परिग्रहे स्थितायां नायिकायां प्रवृत्तम् । मृणालिकानां पद्मिनीनामवने रक्षणे, नायिका स्वामिनी, सा ततोऽपरागाद्रागाभावात्, संवृतवक्त्रकमलापि बलात्कारादनेन लङ्घर्त्री विनाशिता । विनाशोऽत्र शीलखण्डनम्। तदाह—विनिपत्येति । अधर ओष्ठः, अलिकं ललाटं तस्य, तथा अलकानां केशानां च मण्डनम् । लुप्तम् । उदस्तः सुकुमारभावः । अर्थात्क- न्यात्वम् ॥ वास्तवे तु । मृणालिका पद्मिनी । नामेति संबोधने । वनस्य नायिकेव । परागो मकरन्दस्तेन छन्नमुखानि कमलानि यस्याम् । बलादपि अनेन विना पक्षिणा सा अशिता भक्षिता । अशेर्भोजनार्थात्कर्मणि क्तः । अधरदलमधःपत्रम् । अलय एव कालं कृष्णं कस्य शिरस उपरिभागस्य मण्डनम् । अपनीतो मृदुभावः । नखैर्जर्जरितत्वात् ॥ ख ॥
[Page Header] द्वितीय उच्छ्वासः । ५१
किं वापीवरेणानेन न कृतम् ॥ क ॥ तदेष यावन्मध्यं बहुधापाञ्जरन्नावगाहते तावन्मे कुतः संतोषः । नच नदीक्षितेद्विजन्मनि निगृहीतेऽपि गरीयः पातकमस्ति ॥ ख ॥ अयि मुग्धे कलहंसिके, त्वं पुनः मानसंगतापि विमाननां सहसे, विपरीतः खल्वेषः । यतः सद्वंशकान्तारागविमुखो मधुपश्रेणिश्रयणी- यां सुराजीविनीं कान्तां कामयते । तदलमेन । गच्छ वत्से, यथा- प्रियम' इत्यभिहितवति वसुंधरेश्वरे ॥ ग ॥ सापि सपरिहासं हंसी 'हंहो विहंगभुजंग, मृणालिकां तामरसा-
किमिति ॥ अथवानेन पीवरेण स्थूलेन किं न कृतम् । सर्वं कृतमेव तदित्युप- संहारे ॥ वास्तव तु वाप्यां वरेण प्रधानेनानेन ॥ क ॥ तदिति ॥ तस्मादेषोऽपराधी, पञ्जरस्येदं पाञ्जरं मध्यं यावन्नावगाहते । मे मम । तावत्कुतः संतोषः । अथायं द्विजन्मलादनिग्राह्य इत्यत आह—न चेति ॥ द्वाभ्यां सकाशाजन्म यस्य स द्विजन्मा न द्विजन्मा तथोक्ते, अर्थात्तिजाते निगृहीतेऽपि गरीयोऽत्यर्थं पातकं नच नैवास्ति । तस्मिन्कीदृशे । नदीक्षिते दीक्षा शैवादिमतपरिग्रहः संजातोऽस्येति । एतेन दीक्षितो लिङ्गी त्रिजातोऽप्यवध्य एव । अथवा अपिः समुच्चयार्थो भिन्नक्रमो द्विजन्मनीत्यनेन संयोज्यः । तथथा दीक्षिते व्रतिनि द्विजन्मनि ब्राह्मणे निगृहीते नच न पातकम् । पातकमेवेत्यर्थः । वास्तव तु तस्मादेष लत्पतिः । अपां जलानां मध्यं जरन्यावद्वार्धकावधि नावगाहते तावन्मे कुतः संतोषः । नयां क्षित उषिते द्विजन्मनि विहंगे नितरां गृहीते स्नेहात्स्वीकृते गरीयो- ऽत्यर्थं न च पातकमस्ति । श्रेय एवास्तीत्यर्थः । गरीय इति क्रियाविशेषणम् । अपिर्विरोधोद्भावने गृहीतशब्दस्य दण्डितार्थत्वात् ॥ ख ॥ अयीति ॥ मानेन संगता । विमानना अवगणना । पक्षे मानसं सरः । विषु पक्षिषु मानना पूजा । विपरीतो विरुद्धवृत्तः । पक्षे विभिः पक्षिभिः परिवृतः । कादम्ब- ककदम्बकेश्वरत्वात् । सदन्ययकान्तानुरागपराङ्मुखे । मद्यपश्रेणिसेव्याम् । सुरया जीवति या ताम् । इच्छति । पक्षे शोभना वंशा मस्करा येषु तेषु कान्तारेषु नगेभ्यो विमुखो भृङ्गपङ्किश्रितां सुष्ठु शोभनां राजीविनीं नलिनीम् । प्रियस्थानतिक्रमेण यथा- प्रियम् । प्रियो भर्ता इष्टप्रदेशश्च । इत्युक्तवति नृपे ॥ ग ॥ सापीति ॥ हंस्यपि हंसमवादीत् । हंहो इति प्रश्नपूर्वामन्त्रणे । विहंगविला- सिन् । तां राजनिवेदिताम् । मृणालिकानां पालननायिकाम् । अरसां निःस्ने- हाम् । तरसा बलेन । अनुरागेण खासक्त्या रञ्जितचित्त इच्छसि । नुः किमर्थे । न चायं विलासिधर्मः । वस्तुतस्तु मृणालिकां पद्मिनीम् । तामरसान्ते अम्भोने रसो निर्यासस्तत्रानुरागो यस्येति संबोधनम् । अन्तशब्दः स्वरूपार्थः । अथवा तामरस-
१ 'अपि तु कलहंसिके' २ 'सुराजीविनीं कामयते' ३ 'नृपेश्वरे'
५२ नलचम्पूः । न्तरसानुरागरञ्जितमनाः कामयसे किं वापीनदेहे नीरसेवके त्वयि न संभाव्यते' इत्याकलितकलहं कलहंसमवादीत् ॥ क ॥ सोऽपि 'वैदग्ध्यधुरंधर, धूर्तालापपण्डित, प्रज्ञाप्राग्भारगुरो, चातु- र्याचार्य, मा मे प्रियां प्रकोपय । सदृशा एव यूयं वयं च राजहंसाः । सरसां श्रियमनुभवामः । नदीनां पात्रेष्वेवस्थितिं कुर्मः । न चरणच- र्यायां न श्लाघ्यामहे । तत्सपक्षेषु विपक्षो माभूः ॥ ख ॥ एषा मे हृदयं जीव उच्छ्वासः प्राण एव च । संसारसुखसर्वस्वं प्राणिनां हि प्रियो जनः ॥ २१ ॥ रूपसंपन्नमग्राम्यं प्रेमप्रायं प्रियंवदम् । कुलीनमनुकूलं च कलत्रं कुत्र लभ्यते ॥ २२ ॥ तदलमलीककलहारम्भेण भवानप्येवं प्रेमप्रपञ्चनाटकनायको ना- तिचिरादेव यथा भवति तथा कमप्युपकारं करिष्यामि' इति राजान- मवादीत् ॥ ग ॥ अत्रान्तरेऽन्तरिक्षमण्डलादतिस्पष्टवर्णव्यक्तिर्मनोहारिणी वागश्रूय- त ॥ घ ॥ स्यान्तरे मध्ये सानुरागेति संबोधनम् । अथवा पीने स्थूलाङ्गे । नीरसे निःस्नेहे । निर्वीर्ये वा । बकप्राये त्वयि किं न संभाव्यते । अन्यत्र । त्वयि किंभूते वाप्यश्च नदाश्च तेष्वीहा यस्य । तथा नीरं जलं सेवते यः । किं न संभाव्यत इति । संभावना प्रशंसा- विषया । एकमेव हि वाक्यं प्रकरणादौचित्याच्च प्रशंसां निन्दां च प्रतिपादयति । यथा 'त्वमस्माकं किं किं न करिष्यसि' इति प्रसन्नेनोक्तं प्रशंसां गमयति, रुष्टेन च निन्दाम् ॥ क ॥ सोऽपीति ॥ राजहंसा राजमुख्या यूयं सरसां जनानुरागकरीं लक्ष्मीमनुभ- वथ । तथा पात्रेषु धर्मपात्रादिषु दीनां स्थितिं व्यवस्थां न कुरुथ ॥ तथा रणविधौ न न श्लाघ्यध्वे । चः समुच्चये । वयं पक्षे सरसां तडागानाम् । नदीनां सरितां कूल- मध्येषु । चरणं चर्या गतिविशेषः ॥ तत्तस्मादुक्तप्रकारेण समानपक्षेषु पक्षतिसहि- तेषु च । विरुद्धपक्षो माभूः ॥ ख ॥ एषेति ॥ एषैव मे हृदयं मनः । अभिन्नभावात् । जीवो जीवितम् । तत्सद्भावे जीवनात् । उच्छ्वासः श्वासरोधकचिन्तादिदुःखभरापगमहेतुत्वात् । प्राणः प्रधान- भूतो वायुः । देहाधारत्वात् । प्राणो बलमपि । जीवितात्यों बलाथों नतु वाय्वर्थः । यत्प्रशस्तपादः—'प्राणोऽन्तःशरीरे रसमलधातूनां प्रेरणादिहेतुः' इति ॥ २१ ॥ रूपेति ॥ प्रेम्णा तुल्यं प्रेमप्रायम् । सस्नेहमित्यर्थः ॥ २२ ॥ १ 'पात्रेस्थितिम्'; 'पात्रेषु स्थितिम्'. २ 'श्लाघामहे'. ३ 'प्रियाजनः'. ४ 'अपि च'. ५ 'प्रियंवद'. ६ 'तवाप्येवं विधेप्रेम'. ७ 'मनोहरा'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
द्वितीय उच्छ्वासः । ५३ 'राजन्राजीवपत्राक्ष क्षिप्रं हंसो विमुच्यताम् । भविष्यत्येष ते दूतो दमयन्त्याः प्रलोभने' ॥ २३ ॥ राजा तुं तस्याः सोष्मवलातैलपूरेणेवाङ्गममुत्पुलकयता, कर्णान्तरम- वतीर्णेन, दमयन्तीति नाम्ना कोमलतैत्तिरिपिच्छस्पर्शसुखमिवानुभव- न्मनाङ्किमीलिताक्षश्चिन्तयांचकार ॥ क ॥ 'आह्लादयन्ति सौख्याम्भः शातकुम्भीयकुम्भिकाः । काञ्चीकलापसँश्रीकाः श्रोणीबिम्बाः श्रुता अपि ॥ २४ ॥ तँत्केयं दमयन्ती, कश्चायमाश्चर्यभूतो विहंगः, का चेयं नभोभार- ती, सर्वमेतद्विस्तरेण वेदितव्यम्' इत्यवधारयन्नेकस्यामुत्फुल्लपल्लवितल- तामण्डपच्छायायामुन्निद्रकुसुममकरन्दशीकरासारशिशिरे शिलातले निषद्य तं हंसमवादीत् ॥ ख ॥ 'भद्र, साप्तपदीनं सख्यम्, उँत्पन्नकतिपयप्रियालापा प्रीतिः, प्रयो- जननिरपेक्षं दाक्षिण्यम्, अकारणप्रगुणं वात्सल्यम्, अनिमित्तसुन्दरो मैत्रीभावः सतां लक्षणम् ॥ ग ॥ अँस्ति च तत्सर्वं भवन्मूर्तावती निःशङ्कमभिधीयसे । कथय केयं दमयन्ती, कस्य सुँता, कीदृग्रूपम्, कुत्र सा वसति, कँश्च भवानस्माक- मुपकर्तुमिच्छति, का चेयं दिँव्यवाणी' इत्येवमुक्तः सँ कथयितुमा- रेभे ॥ घ ॥ 'शृङ्गाररसशृङ्गार तस्याः सौन्दर्यवीरुधः । कर्णमारोप्यतां देव वार्ताविस्मयपल्लवः ॥ २५ ॥ राजा त्विति ॥ बला गन्धद्रव्यविशेषस्तस्य तैलम् ॥ क ॥ आह्लादेति ॥ सौख्यजलसौवर्णकलश्यः । आसतां दृष्टाः स्पृष्टा वा । श्रुता अप्याह्लादयन्ति । यतः सौख्यस्य सर्वात्मना आधारभूताः ॥ २४ ॥ भद्रेति ॥ सप्त पदानि गम्यन्त उच्यन्ते वा यत्र सख्ये तत्साप्तपदीनम् । मैत्र्याः प्रीतेर्भावोऽभिप्रायः ॥ ग ॥ शृङ्गारेति ॥ रसेन सिच्यमाना वीरुद्धर्धते । शृङ्गारोऽपि कर्णकण्ठे निहितेन पल्लवेन शोभत इत्युभयसमागमौचित्यात् । सौन्दर्येण वीरुदिव सौकुमार्यात् । वार्तया विस्मयो वार्ताविस्मयः स एव पल्लवः ॥ २५ ॥ १ 'तु तेन तस्याः'. २ 'तित्तिर'. ३ 'सश्रीक'. ४ 'तत्का नाम सा दमयन्ती'. ५ 'उपपन्नकतिपय'. ६ 'अस्ति तत्सर्वम्'. ७ 'तनया'. ८ 'कश्चभवान्कस्मादस्माकम्'. ९ 'दिव्या वाणी'. १० 'सोऽथ कथयितुम्'.
५४ नलचम्पूः । अस्ति विस्तीर्णमेदिनीमण्डलमण्डनायमानो नगनगरपुरविहारारा- मरमणीयः सीतासहायसंचरितरघुपतिपादपद्मपवित्रारण्यः पुण्यतर- तरङ्गगङ्गागोदावरीवारिवारितदुरितदावानलप्रसरः मन्दर इव बलि- राजजनितपरिवर्तनः, कैलास इव महेश्वरलोककृतवसतिः, मेरुरिव सुवर्णप्रकृतिकमनीयो, यदुवंश इव दृष्टशूरपुरुषावतारः, सोमान्वय इव बुधप्रधानः वेदपाठ इवानेकैः सवनैरुपेतः पर्वते पर्वते स्थाणुभिः, पुरे पुरे पुराणपुरुषैः, जले जले कमलोद्भवैः पदे पदे देवकुलैः वने वने वरुणैः, स्थाने स्थाने नन्दनोद्यानैः, अर्गलः स्वर्गस्य, तापीप्रायो- ऽप्यनुतापी जनस्य, विन्ध्याद्रिसुद्रितायां दिशि देशानामुत्तरोऽपि दक्षिणो देशः ॥ क ॥ यत्र । शास्त्रे शस्त्रे च वेदे वैद्ये च भरते भारते च कल्पे शिल्पे च प्रधानो, धनी, धन्यो, धान्यवान्, विदग्धो वाचि, मुग्धो मुखे, स्निग्धो मनसि, वसति निरन्तरमशोको लोकः ॥ ख ॥ यंत्र क्रुद्धधूर्जटिललाटलोचनानलज्वालाकवलनाकुलः, त्रासादपा- ङ्गालोकनमात्रनिर्जितपरमेश्वरमनसां विलासिनीनामुच्चकुचकुम्भयोः अस्तीति ॥ देशानामुत्तरो मुख्यो दक्षिणदेशोऽस्ति । अपिर्विरोधे । उत्तर- शब्दस्य दिग्देशार्थत्वात् । बलिना बलवता, राज्ञा भीमक्षणेन जनितं परि समन्ताद्वर्तनं परिपालनं यस्य । पक्षे बलिराजो दैत्यः । परिवर्तनं भ्रमणम् । महानीश्वरोऽतिसमृद्धः शिवश्च । सुष्ठु वर्णा द्विजातयः । प्रकृतयोऽमात्याद्याः । पक्षे सुवर्णप्रकृत्या स्वर्णस्वभावेन काम्यः । शूरो विक्रमी वसुदेवपिता च । बुधो विद्वान्ग्रहविशेषश्च । स इति भिन्नम् । वनैः काननैः । पक्षे सवनैर्य- जैर्युक्तः ॥ स्थाणुः कीलः स्थिरपदार्थश्च । पुराणपुरुषो वृद्धो विष्णुश्च । कमलोद्भवैः कमलोत्पत्तिभिर्ब्रह्मभिश्च । कुलं गृहं वृन्दं च । वरुणो वृक्षो जलं वा । पक्षे प्रचेताः सूर्यो वा । नन्दन इति क्रियावचन इन्द्रवनसंज्ञा च । तैस्तै- र्बहुलविशिष्टैर्देवोऽर्गलोऽधिकः । स्वर्गे ह्येकैक एव स्थाणुप्रभृतिः । अस्मिंस्तु बहव इत्यर्थः । तापी नदी प्रायेण यत्र । विरोधे तु तापयत्यवश्यमिति तापी ॥ क ॥ यत्रेति ॥ कल्पे शिल्पे चेति । कल्पो यज्ञकर्मणामुपदेशकः । प्रधान इति । प्रकृष्टं धानं धारणं यस्य । शस्त्रास्त्रादीनि प्रकर्षेण धारयतीत्यर्थः । एवं सर्वत्र वाच्यलिङ्गता । मुख्यार्थस्य हि प्रधानशब्दस्याविष्टनपुंसकलिङ्गत्वम् ॥ ख ॥ यत्रेति ॥ देशे विलासिनीनां कुचादिष्ववयवेषु खोपकरणानि शृङ्गारादीनि स्थापयित्वा त्रासान्निलीनो मन्मथः । यतः । किंविशिष्टानां तासाम् । निर्जितं परमे- १ 'पवित्रारामः'. २ 'पुरुषैः'. ३ 'अनुतापी'. ४ 'यत्र च'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA