नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
( २ ) प्राकृतमञ्जरी—श्रीमत्कात्यायनमुनिप्रणीतप्राकृतसूत्रवृत्तिः । संस्कृतनाटकादि- प्रबन्धेषु नट्यादिपात्रेषु प्राकृतभाषा प्रयुक्तोपलभ्यते । सा किल मागधी- शौरसेनी-पैशाचीत्यादिभेदेन षोढा प्रविभक्ता प्राचीनैः प्राकृतभाषाव्याक- र्तृभिः प्राकृतकल्पलतिकाकारादिभिः । तेष्वन्यतमस्य प्राथमकल्पिकस्य प्राकृतभाषाभेदस्येयं परिचायिकास्माभिर्भूयसायासेन संपाद्य मुद्रिता. मूल्यं •।• मार्गव्ययः ०- भास्करोदया—तर्कसंग्रह-दीपिका-प्रकाश (नीलकण्ठी) संवलितेयमपूर्वा व्याख्या मुद्रितास्ति । तर्कसंग्रहदीपिकाया यथावदवबोधाय यथा नीलकण्ठ्युपक- रोति एवमेव नीलकण्ठ्या अप्यवयवशो यथावज्ज्ञानायेयं भास्करोदयातीव साहाय्यकारिण्यस्ति. मूल्यं •॥॥= मार्गव्ययः ०= मध्यसिद्धान्तकौमुदी—वरदराजप्रणीता, इदं पुस्तकं विपुलटिप्पण्या- दिभिरलंकृतं, मध्यकौमुदीगतसूत्राणामकारादिवर्णक्रमकोशसहितं च- मुद्रितमस्ति. मूल्यं •॥• मार्गव्ययः ०= साहित्यदर्पणः—विश्वनाथकविराजप्रणीतः, श्रीरामचरणतर्कवागीशभट्टाचार्य- कृतया टीकया समेतः । साहित्यशास्त्रसर्वस्वभूतोऽयं ग्रन्थः कारिकाव्या- ख्योदाहृतिभिस्त्रिधा सविस्तरं निरूपितोऽस्ति । अत्र च कारिकाः स्वीया एव सन्ति । उदाहृतयस्तु परकीयाः स्वीयाश्चाप्यासते । अस्मिन्दश परि- च्छेदाः (प्रकरणानि) सन्ति । अत्र कविराजः सुकुमारमतिभिरप्यवगन्तुं शक्यान्विषयान्निवबन्धेति पुस्तकदर्शनसमकालमेव सर्वं स्फुटीभविष्यति । मूल्यं ३ रु., मार्गव्ययः •।• सिद्धान्तकौमुदी (तत्त्वबोधिनीसमाख्यव्याख्यासंवलिता.) इयं चोत्तरकृद- न्तान्तं श्रीमत्परमहंसपरिव्राजकाचार्यज्ञानेन्द्रसरस्वतीभिर्विरचिता, तत्त्व- बोधिनीसंवलिता उत्तरत्र स्वरवैदिकीप्रकरणयोस्तु श्रीमज्जयकृष्णविरचि- ता सुबोधिनी; लिङ्गानुशासनोपरि भैरवटीका च वर्तते । ग्रन्थान्ते च पाणिनीयशिक्षा, गणपाठः, धातुपाठः, लिङ्गानुशासनं चेति परिशिष्टानि अकाराद्यनुक्रमेण कौमुदीगताष्टाध्यायीसूत्राणां पृष्ठाङ्कसूची, वार्तिक-गणसूत्र- परिभाषाणां समुचितसूची, धातूनां पृष्ठाङ्कसूची, उणादिसूत्रसूची फिट्सूत्र- सूचीति कोशपञ्चकं च संगृहीतम्. मूल्यं ४ रु., मार्गव्ययः •॥॥• निर्णयसागरमुद्रणयन्त्रालयाध्यक्षः, काळबादेवी रथ्या, } तुकाराम जावजी. मुंबई.
॥ श्रीः ॥ नलचम्पूः । अथवा दमयन्तीकथा । महाकविश्रीत्रिविक्रमभट्टविरचिता । चण्डपालकृतया विषमपदप्रकाशाख्यव्याख्यया सहिता । जयपुरराजधानीस्थैः राजगुरूपर्वणीकरोपनाम नारायणभट्ट-पण्डितदुर्गाप्रसाद- पाठशालाध्यापकपण्डितशिवदत्तैः, पाठान्तरानु- क्रमणिकाशुद्धिपत्रैः संयोज्य संशोधिता । (द्वितीयं संस्करणम् ।) सा च मुम्बय्यां निर्णयसागराख्यमुद्रणयन्त्रालयाधिपतिना मुद्रयित्वा प्रसिद्धिं नीता । शाकः १८२५, सन १९०३. मूल्यं १॥ रूप्यकः
॥ श्रीः ॥ (इमां च १८६७ ख्वेः २५ तिसंख्याकराजनियमानुसारतो लेखारूढां कृत्वास्वाः सर्वेऽधिकाराः प्रसिद्धिकर्त्रा स्वाधीना रक्षिताः ।)
भूमिका ।
संप्रति हि चक्रवर्तिभूपालप्रोत्साहनेन विद्यावृद्धिमभिलषमाणेषु तत्र तत्र विद्वत्सु प्राचीनाप्रसिद्धान्वेदशास्त्रादिग्रन्थान्प्रकटीकुर्वत्सु सत्सु, श्रीमथुरापुष्कराख्यप्रसिद्धत- रक्षेत्रद्वयान्तरालवर्तिजयपुराख्यराजधानीनिवासी दाक्षिणात्यमहाराष्ट्रजातीयो म- हाराजाधिराजविद्यागुरुत्वाश्रयपर्वणीकरकुलोत्पन्नः श्रीगङ्गारामभट्टपुत्रः श्रीगुरुचर- णरविन्दलब्धशास्त्रदृष्टिः कश्चिदेकोऽहमपि पूर्वजसंगृहीतपुस्तकेषु प्राचीनतरमति- मनोहरं नलचम्पूनामकं काव्यग्रन्थमुपलभ्य लोके प्रायोऽप्रसिद्धस्यास्य प्रसिद्धिमभी- प्समानः प्रथमं पुस्तकाल्पत्वेन प्रायोऽशुद्धस्य शोधने प्रवृत्तोऽस्मि ।
अथायं ग्रन्थः केन कदा कथं निर्मित इति जिज्ञासायामेतद्ग्रन्थस्य विवृत्तिनाम- कवृहट्टीकालिखितकिंवदन्तीतः किंचिदवगम्यते ।
तथाहि ।
'पुरा किल कस्मिंश्चित्पुरेऽधीतसकलशास्त्रो राजपूज्यः कश्चिद्देवादित्यनामा द्वि- जन्मा बभूव । तस्य जन्मारभ्याधीतकुकर्म्मानधीतविद्यस्त्रिविक्रम इति सुतोऽभूत् । एकदा हि केनचित्प्रयोजनेन देवादित्यभट्टे ग्रामान्तरं गते तदुद्वेजितः परमामर्षी कश्चिद्विपश्चित्तदन्तरं विचार्य तत्रागत्य 'राजन्, मया सह शास्त्रार्थे केनापि बुधेन कारय, अन्यथा जयपत्रं देहि' इति राज्ञे निवेदितवान् । अथ भूपता 'देवादित्य- मानय' इत्यादिष्टेन दूतेन तद्गृहं गत्वा तं ग्रामान्तरगतं निशम्य तत्पुत्र एव राजसभायां शास्त्रार्थार्थमाहूतः। अथ तेन त्रिविक्रमभट्टेन पश्चात्तापपरितप्तेन 'भगवति भारति, मयि मूर्खे कृपाकटाक्षपातं मुञ्च, अद्यात्रागतेन महापण्डितेन त्वत्पक्षस्य सर्वमपि यशो मा हीयेत, यथाहं तेन संवादं कृत्वा विजेष्ये' इति स्वगृहवासिनी पितृपराराधिता सरस्वती देवी समभ्यर्थिता । ततोऽपारकरुणानिधिरियम् 'याव- त्त्वत्पितागमिष्यति तावत्त्वन्मुखे वसामि' इति प्रोचे । अथ प्राप्तसरस्वतीवरप्रसादः सोऽयं राजसभागतोऽनेककोटिभिस्तं पान्थपण्डितं पराजित्य प्रसन्नतरपार्थिवविती- र्णानेकाभरणभूषितो गजस्कन्धाधिरूढः स्वगृहानान्दितपरिजनस्वजनान्प्रतिनिवृत्य च 'यावत्पित्रागमनं मदीयमुखे सरस्वती वसतीति तावद्यशोऽर्थे कमपि प्रबन्धं करिष्यामि' इति संचिन्त्य, 'पुण्यश्लोको नलो राजा पुण्यश्लोको जनार्दनः । पुण्य- श्लोका च वैदेही पुण्यश्लोको युधिष्ठिरः' इति पुराणात्पुण्यश्लोकनलय महाभारतौ- यवनपर्वान्तर्गतं सुचरितं गद्यपद्यैर्ग्रन्थितुमारब्धवान् । एवं प्रवृत्तस्यास्य सप्तमोच्छा- ससमाप्तिदिवस एव ग्रन्थसमाप्तिप्रतिबन्धकपित्रागमनेन मुखारविन्दान्निर्जगाम सर- स्वती । तेनैष चम्पूग्रन्थोऽसमाप्तकथ एव स्थित इति गुरुमुखोद्गतः प्रवादः' इति ।
अयं कविः श्लेषोक्तिचतुरोऽतिप्राचीनोऽतिप्रसिद्धश्चेति सरस्वतीप्रासवरप्रसादस्य नात्याश्चर्यकृत् । तथापि कस्मिन्समयेऽनेनेयं चम्पूविरचितेति किंचिदुच्यते । अत्र चम्प्यां प्रथमोच्छ्वासे कादम्बरीकथाकर्तृबाणभट्टस्य नामोल्लेखनेन, प्रसिद्धतरश्रीभो- जराजविनिर्मितसरस्वतीकण्ठाभरणाख्यसाहित्यग्रन्थे ‘पर्वतभेदिपवित्रं जैत्रं नरकस्य बहुमतङ्कहनम् । हरिमिव हरिमिव हरिमिव वहति पयः पश्यत पयोष्णी’ (६ उ. २९ श्लो.) इत्येतच्चम्पूगतपद्यस्यैकावल्यलंकारोदाहरणेन च, बाणभट्टभोजराजस- मयान्तरालसमये लब्धजन्मनानेनेयं नलचम्पूरुत्पादितेत्यनुमीयते । अस्याः, चण्ड- पालजैनकृतैका, गुणविनयगणिकृतैका, दामोदरभट्टकृतैकेति तिस्रष्टीका उपलभ्यन्ते। त्रिविक्रमप्रशंसायां च ‘प्राच्यां द्विष्णुपदीहेतोरपूर्वोऽयं त्रिविक्रमः । निर्ममे विमलं- व्योम्नि यत्पदं यमुनामति’ इति पद्यं षष्ठोच्छ्वासारम्भे चण्डपालकृतटीकायामुपल- भ्यते । अत एव घण्टामाघादिवद्यमुनात्रिविक्रमेति तस्य संज्ञान्तरम् । अथ किंनाम चम्पूरिति चेत् । उच्यते । काव्यं हि तावद्दृश्यश्रव्यभेदेन द्विवि- धम् । तत्राद्यं रूपकोपरूपकभेदाद्विविधम् । द्वितीयं गद्यमयपद्यमय मिश्रभेदेन त्रि- विधम् । इदमेव च मुख्यं पञ्चकाव्यम् । तत्र यन्मिश्रमित्युक्तं तदेव चम्पूः । ‘ग- द्यपद्यमयं काव्यं चम्पूरित्यभिधीयते’ इति साहित्यदर्पणोक्तेः । यथा रामायणच- म्प्वादिः । इयं च चम्पूः सर्वास्वेव चम्पूषु मूर्धन्यभूतेति सहृदयहृदयविनोदायाधि- जिगमिषूपकाराय चावश्यं प्रकटयितव्येति सर्वोऽप्ययं श्रमः सफलः स्यात् । एवंभूतस्यास्य ग्रन्थस्य प्रकटीकरण उद्यतस्य संध्यावन्दनाद्याश्रमकर्मादिभिरल- ब्धविशेषसमयस्य व्यग्रीभूतहृदयस्य मम परममित्रेण लट्टूजीति प्रसिद्धाख्येन संस्कृ- तपाठशालाध्यापकपण्डितशिवदत्तेन, इतस्ततो द्वित्रपुस्तकसंपादनेन, तिसृषु टीका- सु परमोत्तमया विषमपदप्रकाशाख्यया व्याख्यया सह अनायासेनान्वयप्रदर्शकवि- षयविभागमण्डितमुद्रणोपयोगिनूतनपुस्तकलेखनेन, प्राप्तैकटीकापुस्तकस्य प्रथमो- च्छासेऽलब्धपत्रषट्कूलात्तत्पूरणेन, टीकायां जैनव्याकरणीयसूत्राण्यपनीय सर्वत्र पाणिनीयव्याकरणसूत्रलेखनेन, क्वचित्क्वचिद्दृष्टटीकातष्टिप्पणीकरणेन एतद्ग्रन्थीया- वत्पद्यानामकारादिवर्णरीत्यानुक्रमणीसंपादनेन, तथा मित्रवरपण्डितदुर्गाप्रसादश- र्मणा च नूतनलिखितपुस्तकावलोकनेन प्रूफ़संशोधनेन, आधुनिकानकसंकेतावबोध- नेन च साहाय्यमदायीति ताभ्यामतीव प्रसन्नान्तरात्मना धन्यवादमाशीर्वादं च वितरामि । अथैवं परमपरिश्रमेण कृतशोधनस्याप्यस्य ग्रन्थस्य प्रकटीभवनमवेक्षमाणः सा- मर्थ्याभावान्मुद्रणं कर्तुमनीप्समानः संप्रति विचारसिकशिरोमणये मुम्बयीनगरप्र- तिष्ठिताय निर्णयसागरनामकमुद्रायन्त्रालयाधिपतये जावजीदादाजीतिनाम्ने श्रेष्ठिने इदं पुस्तकं समर्पितवान् । तेन स्वमुद्रया, मायया परमेश्वरेण विश्वमिव, इदं पुस्त- कमेकमपि क्षणादेवानेकतां प्रापितमिति तमप्याशिषा संयोजयामि ।
३ अत्र परमदयालुभिर्यैर्य्यानि पुस्तकान्यत्र विषये वितीर्णानि तेऽपि धन्यास्तानि च धन्यानीति पुनः पुनरभ्याशासे जगदीश्वरमिति । । तानि च यथा । १ मूलपुस्तकम्- राजगुरुमैथिलश्रीनरहरिशर्मणः । १ टीकापुस्तकम्, दामोदरकृता- ” १ वृहट्टीकासहितपुस्तकम्- वैद्यश्रीकृष्णरामस्य । १ एवम्भूतमेवान्यत्पुस्तकम्- पण्डितदुर्गाप्रसादशर्मणः । १ चण्डपालटीकापुस्तकम्- पण्डितशिवदत्तस्य । १ मूलपुस्तकम्- मम । १ पुनर्द्वितीयम्- ” १ चण्डपालटीकापुस्तकम्- ” १ मूलपुस्तकम्- खाडिल्करोपनामकस्यापाशास्त्रिणः इत्येवं परपरिश्रमेण वारंवारं कृतशोधनस्य पाठान्तरलेखनेनालंकृतस्य मुद्रणो- त्तरं शुद्धिपत्रेण सनाथीकृतस्याप्यस्य ग्रन्थस्य प्रमादादिपुरुषस्वभावसुलभदोषात् यदि कुत्रचिद्दोष आपतेत्तं सकलसहृदयजनाः ‘गच्छतः स्खलनं क्वापि भवत्येव प्र- मादतः । हसन्ति दुर्जनास्तत्र समादधति सज्जनाः’ इत्यभियुक्तोक्तेः समाधाय क्षाम्यन्त्विति कृताञ्जलिः प्रार्थयते, भट्टनारायणशर्मा ।
(नोट: यह पृष्ठ अत्यधिक धुंधला/फीका (faded/overexposed) होने के कारण अधिकांश पाठ अपाठ्य है।)
॥ श्रीः ॥ [अत्यधिक धुंधला/अपाठ्य पाठ] [अत्यधिक धुंधला/अपाठ्य पाठ] [अत्यधिक धुंधला/अपाठ्य पाठ] [अत्यधिक धुंधला/अपाठ्य पाठ] [अत्यधिक धुंधला/अपाठ्य पाठ] [अत्यधिक धुंधला/अपाठ्य पाठ] [अत्यधिक धुंधला/अपाठ्य पाठ] [अत्यधिक धुंधला/अपाठ्य पाठ] [अत्यधिक धुंधला/अपाठ्य पाठ] [अत्यधिक धुंधला/अपाठ्य पाठ] [अत्यधिक धुंधला/अपाठ्य पाठ] [अत्यधिक धुंधला/अपाठ्य पाठ] [अत्यधिक धुंधला/अपाठ्य पाठ] [अत्यधिक धुंधला/अपाठ्य पाठ] [अत्यधिक धुंधला/अपाठ्य पाठ] [अत्यधिक धुंधला/अपाठ्य पाठ] [अत्यधिक धुंधला/अपाठ्य पाठ] [अत्यधिक धुंधला/अपाठ्य पाठ] [अत्यधिक धुंधला/अपाठ्य पाठ] [अत्यधिक धुंधला/अपाठ्य पाठ] [अत्यधिक धुंधला/अपाठ्य पाठ] [अत्यधिक धुंधला/अपाठ्य पाठ] [अत्यधिक धुंधला/अपाठ्य पाठ] [अत्यधिक धुंधला/अपाठ्य पाठ] [अत्यधिक धुंधला/अपाठ्य पाठ] [अत्यधिक धुंधला/अपाठ्य पाठ] [अत्यधिक धुंधला/अपाठ्य पाठ] [अत्यधिक धुंधला/अपाठ्य पाठ]
श्रीः । नलचम्पूः । (दमयन्तीकथा ।) विषमपदप्रकाशटीकया समेता । प्रथम उच्छ्वासः । जयति गिरिसुतायाः कामसंतापवाहि- न्युरसि रसनिषेकश्चान्दनश्चन्द्रमौलिः । तदनु च विजयन्ते कीर्तिभाजां कवीना- मसकृदमृतबिन्दुस्यन्दिनो वाग्विलासाः ॥ १ ॥ सृष्टिप्रबन्धे चतुराननस्य भावानशेषान्विलसद्विशेषान् । विवृण्वती स्वेन वचश्चयेन स्ताद्भारती बोधविवृद्धये वः ॥ शक्तिस्त्रिविक्रमस्येव जीयाल्लोकातिलङ्घिनी । दमयन्तीप्रबन्धेन सदा बलिमतोदिता ॥ त्रैविक्रमाणि विषमाणि पदानि यानि तेषां प्रकाशमभिनन्दति चण्डपालः । यं स्थायिभावघटनात्पटुदृष्टिभाजः संप्राप्य बिभ्रतितरां रसनिर्भरत्वम् ॥ भङ्गश्लेषनिबन्धाः स्युर्गिरः संदेहमन्दिरम् । सम्यक्तदर्थनिश्चित्यै निबन्धोऽयं विधीयते ॥ प्रथममुपमेयमस्मिन्नुपमानमतो विचार्यते सम्यक् । अविरोधविरोधावपि गम्यावेवं क्रमेणैव ॥ क्वचन विशेषेण मया यथोचितसमासकारकप्रभृति । सुगमत्वान्न यदुक्तं तन्मतिमद्भिः स्वयं ज्ञेयम् ॥ सूक्ष्मार्थाः प्रस्फुरिष्यन्ते कुशाग्राम्यधियां स्वतः । तद्व्याख्योपेक्षिता प्रायः संक्षेपाय ततो मया ॥ सकलमङ्गलकारणं दुरितनिवारणमभिधेयोपयोगि चावश्यमेव शास्त्रादौ कविनां किमपि प्रणेयं तदेतन्मनसि कृत्वाभीष्टदेवताप्रणतिपूर्वकमेव समारब्धव्यमिति पूर्वाचार्यप्रणीतसमाचारमर्यादानुल्लङ्घनः सूक्तजलनिधिरपि जडैरलब्धमध्यो विचि- १ 'या दुग्धापि न दुग्धेव कविदोग्धृभिरन्वहम् । हृदि नः संनिधत्तां सा सूक्तिधेनुः सरस्वती ॥' इति श्लोकः क्वचित्पुस्तके दृश्यते.
१. प्रथम-द्वितीय उच्छ्वास: आर्यावर्त-वर्णन, राजा नल पराक्रम एवं वसन्तोत्सव
२ नलचम्पूः । जयति मधुसहायः सर्वसंसारवल्ली- जननजरठकन्दः कोऽपि कंदर्पदेवः । तदनु पुनरपाङ्गोत्सङ्गसंचारितानां जयति तरुणयोषिल्लोचनानां विलासः ॥ २ ॥ अगाधान्तःपरिस्पन्दं विबुधानन्दमन्दिरम् । वन्दे रसान्तरप्रौढं स्रोतः सारस्वतं वहत् ॥ ३ ॥ त्रपदपङ्क्तिसरित्पाथोवीचिसंघट्टः श्रीत्रिविक्रमभट्टः प्रतिपादनीयसर्वरसकथोपक्रमे सदारशृङ्गारलादिन्द्रादीनेकान्तशान्तलाद्रीतरागप्रभृतीन्पहाय सर्वरसात्मकं परमेश्वरं शंकरमेव प्रणवन्नाह—जयतीत्यादि ॥ हैमवत्याः संवन्धिनि कामसंतापवाहिनि कंदर्पदेवपीडां दधान उरसि चान्दनो रसनिषेक इव संतापापहरणाद्रौहणद्रुमरसा- भिषेक इव योऽसौ भगवांश्चन्द्रमौलिः सुधांशुशेखरः स जयति सर्वोत्कृष्टो भवति । 'सर्वोत्कृष्टश्च सर्वेषां नमस्यः स्यात्' इति नमस्कारः प्रतीयते । नमस्कारेण च प्रबन्धकर्तृव्याख्यातृश्रोतृणामिष्टफलसंपत्तिः । रसा निषिच्यन्तेऽस्मिन्निति रसनि- षेको रसाधार इत्यप्येकदेशेन प्रतिपत्तव्यम् । रसाश्च शृङ्गारादयः । तांश्च कवय एव व्यक्तीकर्तुं प्रभवन्ति । अतस्तदनु रसाधारस्य भगवतः पश्चाद्रसव्यक्तिनिमि- त्तानां कवीनां वाल्मीकिव्यासकालिदासप्रभृतीनां निरन्तररसाविष्कारिणो वाग्वि- लासा विजयन्ते ॥ अत्र च पूर्वार्धेन वक्ष्यमाणप्रबन्धार्थोऽपि सूच्यते । गिरिर्भी- मन्नृपः । 'गिरिर्भीमन्नृपे सूर्ये क्ष्माभवे पर्वते जले' इत्युक्तेः । तस्य सुताया दम- यन्त्या दुर्वारस्मारविकारसंतप्त उरसि नलश्चन्दनरसनिषेको भविष्यति । स च चन्द्रवंश्यानां मौलिर्मुकुटायमान इति ॥ १ ॥ स किंसहायः किंमूलः किमुपकरणश्च कामो यो जगतः शिवतातिभ्यां शिवा- भ्यामपि स्वीकृत इत्याह—जयतीति ॥ कोऽप्यद्भुतवैभवः कंदर्पदेवो जयति । किंभूतः । मधुसहायो वसन्तसखः । नहि सहायमन्तरेण कश्चिन्महाकार्यकरणाय प्रवर्तते । तथा सर्वस्याः संसारवल्ल्या उत्पादनाय कठिनकन्दः । कठिनकन्दाद्व्यवि- च्युता वीरुद्वृद्धिः । कंदर्पदेवादनन्तरं पुनःपुनर्नेत्रापाङ्गप्रदेशक्रोडे कामुकजनलक्ष्यी- करणाय प्रवर्त्तितानां नववयःसुन्दरीनेत्राणां कटाक्षादिविभ्रमो जयति ॥ २ ॥ अथ यदवाचि 'तदनु च विजयन्ते वाग्विलासाः' इति तद्गुणानेव श्लोकत्र- येणाह—अगाधेति ॥ सरस्वती भारती नदीविशेषश्च । तस्या इदं सारस्वतम् । स्रोतः प्रवाहं वन्दे नमस्कुर्वे स्तुवे वा । नदीपक्षे प्रवाहस्य तद्धर्मत्वान्न किंचिद्दुर्घ- टम् । परं भारतीपक्षेऽन्यधर्मस्यान्यत्रारोपलक्षणसमाधिना गिरां नैरन्तर्येऽपि स्रोतःशब्दः । यथा 'उन्मिमील कमलं सरसीनां कैरवं च निमिमील मुहूर्तात्' इत्यत्रोन्मीलननिमीलने नेत्रधर्मावपि कमलकुमुदयोरारोपिते । किं कुर्वत् । वहत्प्रवर्त॑मानम् । पक्षे प्रसरत् । तथा अगाधो महार्थतयालब्धमध्योऽन्तर्मध्ये १ 'परिस्पन्दि'. २ 'महत्'.
प्रथम उच्छ्वासः । ३
प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः । भवन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः ॥ ४ ॥ किं कवेस्तेन काव्येन किं काण्डेन धनुष्मतः । परस्य हृदये लग्नं न घूर्णयति यच्छिरः ॥ ५ ॥ अप्रगल्भाः पदन्यासे जननीरागहेतवः । सन्त्येके बहुलालापाः कवयो बालका इव ॥ ६ ॥
प्रकरणान्मनसि परिस्पन्दश्चमत्कारी स्फूर्तिर्विशेषो यस्य । पक्षेऽगाधो गम्भी- रोऽन्तर्मध्ये परि समन्तात्स्पन्दश्चलनमावर्तविशेषो यस्य । तथा विबुधानां देवानां पण्डितानां वा हर्षस्थानम् । भारतीविलासेन हि सुराणामपि प्रमोदः संपद्यते । पक्षे वीनां पक्षिणां मध्ये बुधा राजहंसास्तेषां हर्षस्थानम् । तथा रसानां शृङ्गारादीनामन्तरेण विशेषेण प्रौढं प्रगल्भम् । पक्षे रसाया भूमेरन्तरे मध्ये प्रवहति स्म । कर्तरि क्तः । सरस्वती किल म्लेच्छदेशे न्यग्भूय तदन्ते पुनरुद्भवतीति लोकश्रुतिः ॥ ३ ॥
प्रसन्ना इति ॥ कीदृश्यो वाचः । नानानेकधा प्रसन्नाः प्रसादगुणोपेताः । शब्दगुणः प्रसाद ओजोमिश्रितशैथिल्यात्मा । अर्थगुणस्तु प्रसादो वैमल्यं झटि- त्यवबोधगोचरत्वम् । तथाच काव्यप्रकाशकारः—'श्रुतिमात्रेण शब्दानां येनार्थ- प्रत्ययो भवेत् । साधारणः समग्राणां स प्रसादो गुणः स्मृतः ॥' इति । यद्वा प्रसन्नाः समासरहिताः । उक्तं च—'माधुर्यमभिवाञ्छन्तः प्रसादं च सुमे- धसः । समासवन्ति भूयांसि न पदानि प्रयुञ्जते ॥' इति । तथानेकधा कान्ति- गुणेन हर्तुं मनो वशीकर्तुं शीलं यासाम् । शब्दगुणः कान्तिरुज्ज्वल्यम् । ग्राम्यादिभिरनभिप्रयुक्तत्वमिति यावत् । अर्थगुणस्तु कान्तिर्दीप्तरसत्वम् । तथा नाना शब्दगुणार्थगुणार्यालंकारशब्दांलकाररूपं चतुर्विधं श्लेषं विशेषेण चक्षते याः । शब्दगुणो मसृणत्वं श्लेषः । अर्थगुणस्तु श्लेषो घटना । शब्द- कृतः शब्दालंकारः श्लेषः । अर्थकृतस्तु श्लेषोऽर्थालंकारः । स्त्रियस्तु प्रसन्नास्तो- षान्विताः । तथा कान्त्या वपुषो गुणविशेषेण मनोज्ञाः । तथा नानानेकविधे स्पृष्टक- विद्धक-उद्घृष्ट-पीडन-लतावेष्टक-वृक्षाधिरूढ-तिलतण्डुल-क्षीरनीर-ऊरु-पगूढ- जघनोपश्लेष-स्तनालिङ्गन-ललाटिक-रूपे द्वादशविध आलिङ्गने विचक्षणा दक्षाः ॥ ४ ॥ ५ ॥
अथ कुकविनिन्दाव्याजेन विपरीतगिरामग्राह्यत्वमाह—अप्रगल्भा इति ॥ एके कवयो बालका इव सन्ति । किंभूताः कवयः । पदानां सुप्तिङन्तरूपाणां न्यासे नैयत्यप्रयोगेऽप्रगल्भा अनिपुणाः । तथा जनानां विदुषां नीरागे रागाभावे हेतवः कारणम् । नहि तादृशां काव्यं श्रुत्वा रसिकानां कश्चिच्चमत्कारः संजायते । तथा बहुल आलापो येषाम् । एतेन निःसारवक्तृत्वोक्तिः । बालकास्तु पदन्यासे
१ 'तस्य'.
४ नलचम्पूः । अक्षमालाप्रवृत्तिज्ञा कुशासनपरिग्रहा । ब्राह्मीव दौर्जनी संसद्वन्दनीया समेखला ॥ ७ ॥ रोहणं सूक्तरत्नानां वृन्दं वन्दे विपश्चिताम् । यन्मध्यपतितो नीचः काचोऽप्युच्चैर्मणीयते ॥ ८ ॥ अत्रिजातस्य या मूर्तिः शशिनः सज्जनस्य च । क्व सा वै रात्रिजातस्य तमसो दुर्जनस्य च ॥ ९ ॥ निश्चितं ससुरः कोऽपि न कुलीनः समेऽमतिः । सर्वथासुरसंबद्धं काव्यं यो नाभिनन्दति ॥ १० ॥ चरणक्षेपेऽनिपुणाः । तथा जनन्या मातृ रागहेतवोऽनुरागकारणम् । तथा वही- र्लीला निष्ठीवनजलानि पिबन्तीति बहुलालापाः । यद्वा बह्व्यो लाला अप्सुरूपा येषु ॥ 'ऋक्पूर-' इति सूत्रेण समासान्तः ॥ ६ ॥ कारणं विनापि केचित्परोत्कर्षमसहिष्णवः । ततस्तानेव क्षुद्रान्काव्यप्रवृत्तिभङ्ग- हेतुञ्छब्दमात्रेण गौरवयन्नाह—अक्षेति ॥ दुष्टानां कृत्याकृत्यभव्याभव्यविशेषवि- वेकविकलानां जनानांमियं दौर्जनी संसद्सभा वन्दनीया नमस्कार्येत्युपहासवाक्य- म् । श्लेषतस्तु वन्दे गृसौ करणीया वन्दनीया । केव । ब्रह्मणां विप्राणामियं ब्राह्मी द्विजसभेव । यथा द्विजसभा वन्यते तथा दुर्जनसंसदपि वन्या । किंभूता दौर्जनी । अक्षमया रुषा संभाषणस्य वृत्तिं जानाति कोपोल्लापयुग्वाक्प्रसरा । तथा कुशासनस्य कुत्सितशिक्षणस्य स्वीकारो यस्याः । तथा समे साधावपि खला प्रतिपक्षभूता । द्विजसभा लक्षमालाया भ्रमणं जानाति या । तथा दर्भासनस्य स्वीकारो यस्याः । तथा मेखलया मौञ्ज्या सहिता ॥ ७ ॥ रोहणमिति ॥ सुभाषितान्येव रत्नानि तेषां प्रशस्तरत्नानां वा रोहणमुत्पत्ति- स्थानं माणिक्यशैलो वा । 'कच बन्धे' कच्यन्तेऽर्था अनेनास्मिन्वा काचः प्रबन्धः क्षारमृद्विकारश्च । विपश्चितो ह्येतादृशमपि प्रबन्धं व्याख्यानप्रागल्भ्यादनुगृह्योत्कर्षं लम्भयन्ति ॥ ८ ॥ आस्तां सज्जनदुर्जनयोः शीलेन साम्यम् । यावन्मूर्त्यापि महदन्तरमिति निरूप- यन्नाह—अत्रीति ॥ अत्रिमुनिजातस्य शशाङ्कस्य न त्रिभिर्जातस्य सज्जनस्य च या मूर्तिः सर्वाभीष्टा सा वै स्फुटं रात्रिजातस्य तमसस्त्रिजातस्य दुर्जनस्य च क्व । यतो दुर्जनस्य वैरा वैरप्रधाना । सज्जनस्य त्ववैरा ॥ ९ ॥ निश्चितमिति ॥ सुष्ठु रसाः शृङ्गारादयो यत्र तथा बद्धं रचितं काव्यं ग्रन्थं यो नाभिनन्दति स निश्चितं ध्रुवं ससुरो मद्यपः कोऽपि । नच कुलीनः नाभि- जातः । सर्वथा समे साधावमतिः । असुरैः संबद्धं मिलितं काव्यं भृगुं यो न नन्दति स सुरो देवः कोऽपि । तथा न कौ भूम्यां लीन आश्लिष्टः । स्वर्ग एव CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
प्रथम उच्छ्वासः । ५ सदूषणापि निर्दोषा सखरापि सुकोमला । नमस्तस्मै कृता येन रम्या रामायणी कथा ॥ ११ ॥ व्यासः क्षमाभृतां श्रेष्ठो वन्द्यः स हिमवानिव । सृष्टा गौरीदृशी येन भवे विस्तारिभारता ॥ १२ ॥ कर्णान्तविभ्रमभ्रान्तकृष्णार्जुनविलोचना । करोति कस्य नाह्लादं कथा कान्तेव भारती ॥ १३ ॥ शश्वद्वाणद्वितीयेन नमदाकारधारिणा । धनुषेव गुणाढ्येन निःशेषो रञ्जितो जनः ॥ १४ ॥ तस्यावस्थानात् । तथा मा लक्ष्मीः, इः कामः, ताभ्यां सहितः समेर्विष्णुस्तत्र सेव- नाय मतिर्यस्य । विष्णुपक्षीय इति भावः ॥ १० ॥ संप्रति वाग्विलासाधारानुदारान्वाल्मीकिप्रभृतीनकतिचित्कवीन्वर्णयन्नाह—स- दूषणेति ॥ अपिर्विरोधे । स च दूषणखरयोर्दोषार्थकठिनार्थकत्वे भवेत् । परिहारस्तु दूषणखरौ राक्षसौ यत्र वर्णितौ । इह्यानुक्तोऽपि वाल्मीकिः प्रतीयते । 'प्रौढविशे- षणयोगाद्विशेष्यप्रतिपत्तिः' इति वचनात् । किं चासौ भगवान्मर्त्यलोके काव्यसृ- ष्टिप्रथमवेधा निरुपमरमणीयकरामायणनिर्माणप्रवीणतयैव निर्दिश्यमानः प्रकृष्यते । नत्वितरसाधारणसंज्ञामात्रनिर्देशेन । अतएव कवितोत्कर्षचमत्कृतेन वाक्यसमाप्तिं प्रतीक्षितुमक्षमेण त्रिविक्रमेण वाक्यगर्भेऽपि तस्मै नम इति भक्तिप्रकर्षप्रकाशनमु- क्तम् । अर्धयोर्व्यत्यासपाठे तु गर्भितदोषशङ्कैव न स्यात् ॥ ११ ॥ व्यास इति ॥ स कृष्णद्वैपायनो वन्द्यः । किंभूतः । क्षान्तानां मध्येऽतिशयेन प्रशस्यः । तथा येनेदृशी सर्वत्र विख्याता विस्तरणशीलं भारतं यस्यां सा भवे संसारे गौर्वाक्सृष्टा । क इव । हिमवानिव । किंभूतः सः । क्षमाभृतां भूभृतां श्रेष्ठः । तथा येन भवे शिवे रतानुरक्तैवंभूता गौरी सृष्टा । किंभूता । विस्तारिणी भा कान्तिर्यस्याः ॥ १२ ॥ कर्णेति ॥ कर्णस्य राधेयस्यान्ते विनाशे सति विभ्रमेण विस्मयेन वेगरुडस्य भ्रमेण वाऽतिलाघवेन भ्रान्ता विचरितुं प्रवृत्ताः कृष्णपार्थधृतराष्ट्रा यस्याम् । केव । कान्तेव । किंभूता । श्रवणपर्यन्ते विलासेन भ्रान्ते स्फुरिते कृष्णार्जुने श्यामवलक्षे विलोचने नेत्रे यस्याः ॥ १३ ॥ शश्वदिति ॥ वाणः कविः शरश्च । गुणाढ्यकविर्वृहत्कथाकारो गुणेन ज्यया युक्तश्च । न मदाकारं स्तब्धत्वादिरूपं धरतीत्येवंशीकः कविः । बाणाकर्षणाय नम- दाकारं धरतीत्येवंशीलं धनुः । रञ्जितः प्रमोदं प्रापितः । अरमत्यर्थे जितो जनः प्रतिपक्षलोकश्च ॥ १४ ॥ १ 'तस्मै नमः'.
६ नलचम्पूः । इत्थं काव्यकथाकथानकरसैरेषां कवीनाममी विद्वांसः परिपूर्णकर्णहृदयाः कुम्भाः पयोभिर्यथा । वाचो वाच्यविवेकविप्लवधियामीदृग्विधां मादृशां लप्स्यन्ते क्व किलावकाशमथवा सर्वसहाः सूरयः ॥ १५ ॥ वाचः काठिन्यमायान्ति भङ्गश्लेषविशेषतः । नोद्वेगस्तत्र कर्तव्यो यस्मान्नैको रसः कवेः ॥ १६ ॥ काव्यस्याम्रफलस्येव कोमलस्येतरस्य च । बन्धच्छायाविशेषेण रसोऽप्यन्यादृशो भवेत् ॥ १७ ॥ अस्ति समस्तमुनिमनुजवृन्दवृन्दारकवन्दनीयपादारविन्दस्य भगव- तो विधेर्विश्वव्यापिन्यापारपारवश्यादवतीर्णस्य संसारचक्रे क्रतुक्रिया- काण्डशौण्डस्य शाण्डिल्यनाम्नो महर्षेर्वंशः ॥ क ॥ श्रूयन्ते च यत्र श्रवणोचिताश्चन्दनपल्लवा इव केचिदनूचानाः शुचयः सत्यवाचो विरञ्चिवर्चसोऽर्चनीयाचारा ब्रह्मविदो ब्राह्मणाः । पुण्यज- नाश्च न च ये लङ्कापुरुषाः, सूसूत्राश्च न च ये लम्पटाः, प्रसिद्धाश्च न- च ये लम्पाकाः, कामवर्षाश्च न च ये लङ्घनाः सन्मार्गस्य, नववयसो- इत्थं कविवर्णनं संक्षिपन्नाह—इत्थमिति ॥ तर्हि कथाग्रथनप्रयत्नेन किमि- त्याह—अथवेति ॥ १५ ॥ भङ्गश्लेषमुक्तिविशेषेण संवृण्वन्नाह—वाच इति ॥ यतो हेतोः कवेः काव्य- कर्तुर्नेको रसो नैका रुचिः प्रसत्तिलक्षणा व्युत्पत्तिलक्षणाप्यस्ति ॥ १६ ॥ ननु प्रसत्तिमार्गेण कोमलमेव काव्यं निबध्यताम्, किमितरेण व्युत्पत्तिमार्गेण भङ्गश्लेषकृतकाठिन्येनोद्वेगहेतुनेत्यत आह—काव्यस्येति ॥ कोमलस्य प्रसन्नस्ये- तरस्य व्युत्पन्नस्य काव्यस्य रचनाचारुत्वेन रसोऽपि शृङ्गारादिरसोऽप्यन्यादृशोऽन्य- रूपो व्युत्पत्तिचर्चया सोत्कर्ष इव स्यात् । कस्येव । आम्रफलस्येव । यथाम्रफलस्या- कारवैसादृश्यं बन्धस्य वृन्तस्य नीलपीतादिच्छायायाश्च विशेषेण यावद्रसः स- खादोऽप्यन्यादृग्भवति । बध्यतेऽनेनेति कृत्वा बन्धो वृन्तं फलारम्भकरसकणि- कारूपो वा । काव्यपक्षे बन्धो रचना ॥ १७ ॥ क ॥ श्रूयन्त इति ॥ यत्र महर्षेर्वंश ईदृशा ब्राह्मणाः श्रूयन्त इत्यन्वयः । कीदृशाः । श्रवण आकर्णन उचिता योग्याः । पुण्यरूपत्वात् । चन्दनपल्लवास्तु श्रवणयोः कर्णयोरवतंसीकरणाय योग्याः । पुण्यजना यातुधाना लङ्कावासिनो नेति विरोधः । पुण्याः पवित्रा जना लोका अलमर्थे न कापुरुषा इति विरोधपरिहारेण ब्राह्मणाः प्रशस्यन्ते । एवमग्रेऽपि । तथा सूत्रेण तन्तुना सहिता अप्यत्यन्तं पटाभाववन्तः । १ 'फलस्यापि'. २ 'च श्रवणोचिताः'. ३ 'इव तत्र केचित्'. ४ 'सूरयः'. ५ 'सत्यवाचिनः'. ६ 'सुसूत्राश्च'.
प्रथम उच्छ्वासः । ७ ऽपि नच ये लम्बालकाः, महाभारतिकाश्च नच ये रङ्गोपजीविनः, सेविताप्परसोऽपि नच ये रम्भयान्विताः ॥ ख ॥ किं बहुना । जानन्ति हि गुणान्वक्तुं तद्विधा एव तादृशाम्¹ । वेत्ति विश्वंभरा भारं गिरीणां गरिमाश्रयम् ॥ १८ ॥ तेषां वंशे विशदयशसां² श्रीधरस्यात्मजोऽभू- र्देवा³दित्यः स्वम⁴तिविकसद्वेदविद्याविवेकः । उत्कल्लोलां दिशि दिशि जनाः कीर्तिपीयूषसिन्धुं यस्याद्यापि श्रवणपुटकैः कूणिताक्षाः पिबन्ति ॥ १९ ॥ तैस्तैरात्मगुणैर्येन त्रिलोक्यास्तिलकायितम् । तस्मादस्मि सुतो जातो जाड्यपात्रं त्रिविक्रमः ॥ २० ॥ सोऽहं हंसायितुं मोहाद्वकः पङ्गुर्यथेच्छति । मन्दधीस्तद्वदिच्छामि कविबृन्दारकायितुम् ॥ २१ ॥ भङ्गश्लेषकथाबन्धं दुष्करं कुर्वता मया । दुर्गस्तरीतुमारब्धो बाहुभ्यामम्भसां पतिः⁵ ॥ २२ ॥ उत्फुल्लगल्लैरालापाः⁶ क्रियन्ते दुर्मुखैः सुखम् । जानाति हि पुनः सम्यक्कविरेव कवेः श्रमम्⁷ ॥ २३ ॥ सूत्रेणोपवीतेन वेदपाठेन वा युक्ता अपि न लम्पटा लालसाः । तथा प्रकर्षेण सिद्धा अग्निसंस्कारेण निष्ठां प्राप्ता अपि पूपाद्यास्ते कथमलं न पच्यन्ते स्म। प्रसिद्धा विख्याता न लम्पाका लम्पटाः । तथा कामवर्षिणोऽपि नालं मेघाः । अभिलषित- दातारोऽपि सन्मार्गस्य लङ्घना न। तथाल्यावस्था अपि नालं शिशवः । तरुणावस्था अपि न दीर्घकेशाः । अग्निहोत्रित्वात् । तथा महान्तो नटा अपि न नृत्यभूम्युप- जीविनः । महान्तो भारताख्यायका अपि नात्यर्थं गोपाश्चापञ्जीवन्ति । ‘राजान्नं तेज आदत्ते’ इति दोषश्रवणात् । तथा भुक्तदेवाङ्गना अपि न रम्भया युक्ताः। सेवितानि जलप्रधानानि सरांसि यैस्तथाविधा अपि नच येऽरमत्यर्थं भयान्विताः ॥ ख ॥१८॥ तेषामिति ॥ कूणिताक्षाः सुखात्किंचिन्निमीलितनेत्राः ॥ १९ ॥ २० ॥ सोऽहमिति ॥ मोहादज्ञानादतिमानपि बकः स्वभावसुभगगतेर्हंसस्यापेक्षया पङ्गुः । अथवा दैवात्कथंचिद्भग्नचरणत्वाद्वकः पङ्गुः ॥ २१ ॥ भङ्गेति ॥ यथा बाहुभ्यां दुस्तरः समुद्रस्तथा भङ्गश्लेषकथाबन्धोऽपि दुष्कर इत्यौपम्यादङ्गस्तुसंबन्धः । ‘अभवन्वस्तुसंबन्ध उपमा परिकल्पकः’ इति ॥ २२ ॥ उत्फुल्लेति ॥ दुर्मुखैः क्रियमाणह्लादालापा अपि दुष्टा निन्दाकराः ॥ १ ‘तादृशाः’. २ ‘वचसाम्’. ३ ‘नेमादित्यः’. ४ ‘सुमति’. ५ ‘निधिः’. ६ ‘उल्लापाः’. ७ ‘कविश्रमम्’.
८ नलचम्पूः । संगता सुरसार्थेन रम्या मेरुचिराश्रया । नन्दनोद्यानमालेव स्वस्थ्यैरालोक्यतां कथा ॥ २४ ॥ उदात्तनायकोपेता गुणवद्वृत्तमुक्तका । चम्पूश्च हारयष्टिश्च केन न क्रियते हृदि ॥ २५ ॥ अस्ति समस्तविश्वंभराभोगभास्वल्लामलीलायमानः, समानः से- व्यतया नाकलोकस्य, ग्राम्यकविकथाबन्ध इव नीरसस्यमनोहरः, भी- म इव भारतालंकारभूतः, कान्ताकुचमण्डलस्पर्श इवाग्रणीः सर्वविष- याणाम्, अनधीतव्याकरण इवादृष्टप्रकृतिनिपातोपसर्गलोपवर्णविकारः, पशुपतिजटाबन्ध इव विकसितकनककमलकुवलयोच्छलितरजःपुञ्जपि- ञ्जरितहंसावतंसया प्रचुरचलचकोरचक्रवाककारण्डवमण्डलीमण्डित- 'उल्लापाः' इति पाठे काकुभाषितानि ॥ दुर्मुखैः खरैं क्रियन्ते । गल्लशब्दो ग्राम्यो- ऽप्यत्र दुर्मुखानामकवीनां ग्राम्याणां निन्दाभिधाने प्रयुक्तः समुचित एव ॥ २३ ॥ संगतेति ॥ रुचिरो रम्य आश्रयो नलोपाख्यानलक्षणो यस्याः सेयं मम स्वस्थ्यैर्व्यग्रैरालोक्यतां विमृश्यताम् । स्वस्थे चित्ते बुद्धयः संचरन्ति । किंभूता । शोभनो रसः शृङ्गारादिर्यत्र तथोक्तेनार्थेन संगतोचिता । औचित्यं हि रसस्य परमरहस्यम् । उक्तं च—'अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् । प्रसिद्धौ- चित्यबन्धो हि रसस्योपनिषत्परा ॥' तथा रम्या भङ्गश्लेषोक्तिभिर्मनोहरा । पक्षे खः स्वर्गे तिष्ठन्तीति कृत्वा स्वस्थ्यैः स्वर्गवासिभिः ॥ खर्परे शरि वा विसर्गलोपः ॥ किंभूता । सुराणां सार्थो वृन्दं तेन संगता कृतसङ्गा । तथा मेरुः सुरगिरिस्थिरमा- श्रयो यस्याः ॥ २४ ॥ उदात्तेति ॥ उदात्तेन महात्मना नायकेन नलेनोपेता । तथौजःप्रसादादिगु- णयुक्तं वृत्तं छन्दोबद्धं मुक्तकं गद्यात्मकं च यस्यां सा चम्पूर्गद्यपद्यमयी साङ्गो- पङ्गा सा कथोदात्तेन महार्घेण नायकेन हारमध्यरत्नेनोपेता । तथा तन्तुमयो वृत्तमुक्ता वर्त्तुलमौक्तिकानि यस्यां सा मुक्ताहारलता च केन चित्ते वक्षसि च न क्रियते ॥ २५ ॥ अस्तीति ॥ 'आ समुद्रात्तु वै पूर्वादा समुद्राच्च पश्चिमात् । तयोरेवान्तरं गिर्योरार्यावर्तं विदुर्मुधाः ॥' इति मनूक्तलक्षण आर्यावर्तो नाम प्रसिद्धो देशोऽस्ति । किंभूतः । नीरेण धान्येन च मनोज्ञः । पक्षेऽरसिकस्य मनोज्ञः । तथा भरतवर्षस्य मण्डनभूतः । पक्षे भारतस्येतिहासस्य । तथा विषयो देशः । पक्षे इन्द्रियार्थः । तथा न दृष्टः प्रकृतीनां निपातः स्वपदात्पतनम्, उपसर्गो धनापहारादिरुपद्रवः, लोपो देवदायब्रह्मदायाद्यपालनम्, वर्णविकारश्चातुर्वर्ण्याव्यवस्था यस्मिन् । पक्षे प्रकृतयो धात्वादयः, निपाताश्चादयः, उपसर्गाः प्रादयः, लोपः प्रसक्तस्यादर्श- १ आलोच्यताम् । २ प्रबन्धः । ३ जटाजूटबन्धः । ४ राजहंस ।
प्रथम उच्छ्वासः । ९ तीरया भगीरथभूपालकीर्तिपताकया स्वर्गगमनसोपानवीथीयमानरिङ्ग- त्तरङ्गया गङ्गया पुण्यसलिलैः प्लावितश्चन्द्रभागालंकृतैकदेशश्च, सारः सकलसंसारचक्रस्य, शरण्यः पुण्यकारिणाम्, आरामो रमणीयकक- दलीवनस्य, धाम धर्मस्य, आस्पदं संपदाम्, आश्रयः श्रेयसाम्, आ- करः साधुव्यवहाररत्नानाम्, आचार्यभवनमार्यमर्यादोपदेशानामार्या- वर्तोनाम देशः ॥ क ॥ यस्मिन्ननवरतधर्मकर्मोपदेशशान्तसमस्तव्याधिव्यतिकराः पुरुषा- युषजीविन्यः सकलसंसारसुखभाजः प्रजाः । तथाहि । कुष्ठयोगो गान्धिकापणेषु, स्फोटप्रवादो वैयाकरणेषु, संनिपातस्तालेषु, ग्रहसं- क्रान्तिर्ज्योतिःशास्त्रेषु, भूतविकारवादः सांख्येपु, क्षयस्थितिषु, गुल्म- वृद्धिवनभूमिषु, गलग्रहो मत्स्येषु, गण्डकोत्थानं पर्वतवनभूमिषु, शूलसंबन्धश्चण्डिकायतनेषु, दृश्यते न प्रजासु ॥ ख ॥ नम्, वर्णविकारोऽक्षरविकृतिः । तथा चन्द्रभागया नद्या चन्द्रखण्डेन च भूषि- तैकदेशः ॥ क ॥ यस्मिन्निति ॥ कुष्ठमौषधविशेषो रोगविशेषश्च । स्फुट्यते व्यज्यतेऽर्थोऽने- नेति स्फोटो वैयाकरणप्रसिद्धं शब्दब्रह्म । स च वाक्यस्फोटः पदस्फोटश्चेति द्विधा नित्यश्च । तस्य प्रकर्षेण वादः कथनम् । स्फोटस्य पिटकस्य प्रवादश्च । संनिपात उभयहस्तयोजनम् । यदुक्तम्- 'यस्यां दक्षिणहस्तेन तालं वामेन योजयेत् । उभयोर्हस्तयोः पातः संनिपातः स उच्यते ॥' वातपित्तश्लेष्मणामेकत्र योगो रोगविशेषश्च । ग्रहाणां सूर्यादीनां मेषादिराशौ संक्रान्तिः । ग्रहो बन्धनं तस्य संक्रान्तिश्च । भूततः प्रधानाख्यं तत्त्वं मूलप्रकृतिः । ततो महान् । महतस्तस्माद- हंकारः । अहंकाराच्च पञ्च तन्मात्राणि ( पृथिव्यादिपञ्चतन्मात्राणि ) । एवमष्टौ । तत एकादशेन्द्रियाणि पञ्च भूतानि चेति षोडश विकाराः । एवं चतुर्विंशति तत्त्वानि । पञ्चविंशस्तु पुरुषः । तथाच- 'मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृ- तयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥' इति सांख्याः । ततश्च तेष्वेव भूतविकाराणां वादः प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः । पक्षे भूतस्य प्रेतस्य विकारः । क्षयः सूर्योदयकालाद्वृत्तित्वं रोगविशेषश्च । गुल्मः स्तम्बो रुग्वा । गले ग्रहणं बडिशेन रोगविशेषश्च । गण्डकाः खङ्गिपशवो ह्रस्वस्फोटका वा । शूल आयुधविशेषो रोगविशेषश्च ॥ ख ॥ १ 'रङ्गत'. २ 'व्यवहाराणाम्'. ३ 'धर्मकर्मोपशान्त'; 'धर्म्यधर्मोपदेश'; 'धर्मकर्मपोपशान्त'. ४ 'समस्ताधिव्याधि'; 'सर्वव्याधि'. ५ 'प्रयोगः'. ६ 'पर्वतभूमिषु'.
१० नलचम्पूः ।
यत्र चतुरगोपशोभिताः सङ्ग्रामा इव ग्रामाः, तुङ्गसकलभवनाः सर्वत्र नगा इव नगरप्रदेशाः, सदाचरणमण्डनानि नूपुराणीव पुराणि, सदानभोगाः प्रभञ्जना इव जनाः, प्रियालपनसाराणि यौवनानीव वनानि, विटपिहिताश्चेटिका इव वाटिकाः, निर्वृतिस्थानानि सुकलत्राणी- वेक्षुक्षेत्रसत्राणि, जलाविलक्षणाः पशुपुरुषा इवाप्रमाणास्तडागभागाः, कुपितकपिकुलाकुलिता लङ्केश्वरकिंकरा इव भग्नकुम्भकर्णघनस्वापाः कूपाः, पीवरोधसः सरित इव गावः, सतीव्रतापदोषाः सूर्यद्युतय इव कुलस्त्रियः ॥ क ॥
यत्रेति ॥ यत्र देश एते पदार्थाः । तद्यथा । येषु परिषन्मण्डपेषु ग्रामवृद्धा उपविशन्ति ते चतुरास्तैस्तथा गोपै रुपशोभिताः । यद्वा चतुरैर्दक्षैर्गोपैः पाशुपाल्य- जीविभिरुपशोभिताः । गोशब्दस्य पशुमात्रवचनत्वात् । सङ्ग्रामपक्षे ‘च’ इति छेदनीयम् । तुङ्गान्युच्चानि सकलानि सर्वाणि संपूर्णानि वा भवनानि गृहा यत्र । नगाश्च तुङ्गैः पुंनागैरुपलक्षितं कलभैरिभडिम्भैः सहितं वनं यत्र । पुंनागकरिपो- तयुता इत्यर्थः । यद्विश्वप्रकाशः—‘तुङ्गः पुंनागनागयोः । तुङ्गः स्यादुन्नतेऽन्यवत्’ । पुराणि शोभनमाचरणमेव मण्डनं यत्र । नूपुराणि सर्वथा चरणभूषणानि । दानभो- गाभ्यां सहिता जनाः । श्वश्नन्भोगा वायवः । दयितानां सकामोल्लापेन साराणि यौवनानि । वनानि प्रियालं राजादनं पनसंचेति प्राप्नुवन्ति । विटपिभ्यस्त- रुभ्यो हिता वाटिकाः । चेटिका दास्यस्तु विटैः पिहिता वेष्टिताः । इक्षुक्षेत्रे सत्राणि दानशालाः । निर्वृत्त्या वृत्तेरभावेन स्वच्छन्दं स्थीयते यंत्र । निर्वृतेः सुखस्यास्पदानि कलत्राणि । तडागभागा जलाविलां जलार्थिभिः सदा सेव्यतया जलपिच्छिलाः क्षणाः अवतारादितीरप्रदेशा यत्र । यद्वा जलैराविला नीरन्ध्राः पूर्णा क्षणाः खातकानि यत्र । अगाधाः । पशुपुरुषास्तु जडा विलक्षणा व्यपेत- शास्त्राः । यद्वा अविभिर्मेण्डैर्लक्ष्यन्ते । यद्वावीन्मेण्डॉंल्लक्षयन्ति । पश्चात्कर्मधारयः । प्रत्यक्षादिप्रमाणरहिताश्च । कूपा भग्नकुम्भकर्णाः स्फुटितघटकण्ठाः । घनाः प्राचुराः खाः स्वकीयाः पातालमूलोत्था न तु प्रवाहादिपूरिता आपः पानीयानि येषु । यद्वा घनस्वा बहुद्रव्या आपो येषु । वापीकूपादौ हि जीर्णोद्धारार्थं निधिर्भवतीति ख्यातिः । किंकरास्तु भग्नः श्रीरामागमनकथनेन कुम्भकर्णस्य रक्षसो घनः प्रचुरः षण्मासा- वधिकः स्वापः शयनं यैः । गावः पीवरं च तदूधश्च पीवरोधस्तस्मात्पीवरोधसो हेतोः सरित इव । यद्वा पीवरमूर्ध आपीनं येषाम् । अत्र ‘गोशब्दो धेन्वर्थोऽपि स्त्रीनरलिङ्गः’ इति व्याडिः । ततः पुंस्त्वादनङ् न । सरितस्तु पीव स्थूलं रोधस्तटं यासाम् । कुलस्त्रियः सतीव्रतेनापगता नष्टा दोषाः कलङ्का यासाम् । सूर्यद्युतयस्तु तीव्रतापदोषेण सहिताः ॥ क ॥
१ 'चतुरङ्ग' २ 'सकलत्राणि' ३ 'कुलित'
प्रथम उच्छ्वासः । ११ यत्र च मनोहारिसारसंद्वन्द्वास्तत्पुरुषेण द्विगुना चाधिष्ठिताः काद- म्बरीगद्यबन्धा इव दृश्यमानबहुव्रीहयः केदाराः ॥ क ॥ किं बहुना । नास्ति सा नगरी यत्र न वापी न पयोधरा । दृश्यते न च यत्र स्त्री नवापीनपयोधरा ॥ २६ ॥ अपि च । भवन्ति फाल्गुने मांसि वृक्षशाखा विपल्लवाः । जायन्ते न तु लोकस्य कदापि चै विपप्लवाः ॥ २७ ॥ यत्र सौराज्यरञ्जितमनसः सकलसमृद्धिवर्धितमहोत्सवपरम्परार- यत्रेति ॥ किंभूताः केदाराः । मनोहारिणि सारसानां द्वन्द्वानि येषु । तथा तत्पुरुषेण तत्स्वामिना द्विगुना गोयुगयुक्तेनाधिष्ठिताः बहवोऽपि गावः सन्ति । द्विगुनेति चोपलक्षणम् । अथवा चकारोऽप्यर्थे । द्विगुणापि तत्पुरुषेणाधिष्ठिताः । तथा दृश्यमाना बहवो व्रीहयो येष्विति भूमेः सस्यसंपदुक्ता । गद्यबन्धास्तु मनो- हारिणः साराः श्रेष्ठाः । सद्द्वन्द्वाः द्वन्द्वसमाससहिताः । तथा तत्पुरुषेण द्विगुना च समासेनाधिष्ठिताः । तथा दृश्यमानबहुव्रीहिसमासाः । तथाच द्वन्द्वतत्पुरुषद्विगुब- हुव्रीहिसमासबहुला इत्यर्थः ॥ क ॥ नास्ति सेति ॥ यत्र देशे सा क्वापि नगरी नास्ति । यस्यां न वापी निपा- नम् । न पयोधरा पयःप्रधाना भूमिः । नच तरुणी पीनस्तनी स्त्री दृश्यते । यदि पुनस्त्रयमपि चतुर्थपादेन विशेषणीकर्तुमाग्रहस्तर्हि पयोभूम्योरेवं व्याख्यायते । ‘णु स्तुतौ’ । नवं स्तुतिमाप्तुतोऽभीक्ष्णमिति नवापिनी । तथाभूते इनपयसी स्वामिजले धरतीति तथोक्ता वापी । भूस्तु वपन्त्यभीक्ष्णमिति वापिनः कर्षकास्ते- षामिना आजीवहेतुत्वात्स्वामिनः पयोधरा मेघा यस्यां तथाभूता । पश्चात्तन्नसंबन्धः। अवृष्टिनिष्पाद्यसस्येति भावः । अयमर्थस्तेनार्हः । प्रशस्तस्वामिपयस्का वापी, अवृष्टिनिष्पादितसस्या भूमिः, तरुणी पीनस्तनी च कान्ता, यस्यां दृश्यते सैव नगरी यत्र देशेऽस्तीति । अथवा यत्र देशे सा नगरी नास्ति यस्यां नगर्यां वापी स्त्री च न दृश्यते । कीदृशी वापी । न न पयोधरा । अपि तु पयोधरा । नञ्द्वयस्य प्रकृतार्थसूचकत्वात् । स्त्री च किंभूता । नवा तरुणी । तथा पीनप- योधरा । सर्वासपि नगरीषु पयोधरा वाप्यस्तरुणयः पीनस्तन्यश्च स्त्रियो दृश्यन्त इति भावः ॥ २६ ॥ भवन्तीति ॥ शाखा विगतपल्लवा यत्र भवन्ति । जनस्य विपदां लवा अपि न स्युः ॥ २७ ॥ 'यत्रेति ॥ यत्र जनाः खर्गिणमपि न्यक्कुर्वन्ति । कुलीना अभिजाताः । विमा- १ 'मासे'. २ 'च'. ३ 'न'. ४ 'यत्र च'. ५ 'समृद्धिवृद्धिवर्धित'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
१२ नलचम्पूः । म्मनिर्भरः, सततभकुलीनं कुलीनाः, प्राप्तविमानमप्राप्तविमानभंगाः, कतिपयवसुविराजितमनेकवसवः, समुपहसन्ति स्वर्गवासिनं जनं जनाः ॥ क ॥ कथं चौसौ स्वर्गान्न विशिष्यते ॥ ख ॥ यत्र गृहे गृहे गौर्यः स्त्रियः, महेश्वरो लोकः, सश्रीका हरयः, पदे पदे धनदाः सन्ति लोकपालाः । केवलं न सुराधिपो राजा । नैच विनायकः कश्चित् ॥ ग ॥ यत्र चलतासंवन्धः कलिकोपक्रमश्च पादपेषु दृश्यते न पुरुषेषु ॥ घ॥ यत्र चमरकवार्ता परमहिमोपघातश्च तुहिनाचलस्थलीषु श्रूयते न प्रजासु ॥ ङ ॥ यश्च नीतिमत्पुरुषाधिष्ठितोऽप्यनीतिः, सवटोऽप्यटसंकुलः, कारू- पयुतोऽप्यगतरूपशोभः ॥ च ॥ नता तिरस्कारः । वसु धनम् । पक्षे कुः पृथ्वी तस्यां लीनाः । विमानं देवयानम् । वसवोऽष्टौ ध्रुवादयः । देवन्यक्कारस्तुल्यार्थे व्याख्येयः ॥ क ॥ कथं चायं स्वर्गान्नाधिकः ॥ ख ॥ यत्रेति ॥ गौर्यो गौराङ्गयः शुद्धोभयान्वया वा स्त्रियः । महानीश्वरोऽतिसमृद्धः। सहश्रिया शोभया सश्रीकाः । हरयोऽश्वाः । धनप्रदा नृपाः । स्वर्गे त्वेकस्मिन्नेव गृहे गौरी उमा । एक एव महेश्वरः शिवः । सलक्ष्मीको विष्णुरेव एव । न बहवः । धनदः कुबेर एकस्मिन्नेव स्थान एक एव । केवलं परम् । अधिपिवतीत्यधिपः । सुराया मद्यस्याधिपः सुराधिपो न राजा । नच कोऽपि विरुद्धनायकः । सुरामधि- पिवतीति वाक्ये लक्ष्यदूषणमप्रसङ्गात् । सुराप्रपावत् । स्वर्गे तु सुराणामधिप इन्द्रः । विनायको गणेशः ॥ ग ॥ यत्रेति ॥ लतासंबन्धो वल्लीयोगः । कलिकाया उपक्रमः । पक्षे 'चलतासं- बन्धः' इति समुदितं पदम् । चलता लौल्यम् । कलिः कलहः । कोपः क्रुधू । तयोः क्रमः ॥ घ ॥ यत्रेति ॥ चमरका गोविशेषाः । परममुत्कृष्टं हिमं तुहिनम् । पक्षे मरको मरणबाहुल्यम् । परस्य महिमा माहात्म्यम् । तस्योपघातः ॥ ङ ॥ यश्चेति ॥ न विद्यत ईतिरूपद्रवोऽस्मिन्नित्यनीतिः । वटा न्यग्रोधाः । अवटाः कूपादिगर्ताः । कारवः शिल्पिनः । तथा न गता न भ्रष्टा रूपशोभा यस्य । अगै- र्नेगैस्तरुभिश्चोपशोभा यस्येति वा । अपिर्विरोधे । स च तुल्यार्थेनाव्याख्या । कुत्सितमीषद्वारूपं कारूपम् ॥ च ॥ १ 'सङ्गाः'. २ 'राजित'. ३ 'स स्वर्गलोकान्न'. ४ 'सर्वत्र महेश्वरः'. ५ 'न विनायकः'. ६ 'कारूप्यम्'.
प्रथम उच्छ्वासः । १३ यत्र च गुरुव्यतिक्रमं नक्षत्रराशयः, मात्राकलहं लेखशालिकाः, मित्रोदयद्वेषमुलूकाः, अपत्यत्यागं कोकिलाः, बन्धुजीवविर्घातं ग्रीष्म- दिवसाः, कुर्वन्ति न जैनाः ॥ क ॥ किं बहुना । देशः पुण्यतमोदेशः कस्यासौ न प्रियो भवेत् । युक्तोऽनुक्रोशसंपन्नैर्ये जनैरिव योजनैः ॥ २८ ॥ तस्य विषयस्य मध्ये निषधो नामास्ति जनपदः प्रथितः । तत्र पुरी पुरुषोत्तमनिवासयोग्यास्ति निषधेति ॥ २९ ॥ जननीतिमुदितमनसा सततं सुखामिना कृतानन्दा । सा नगरी नगतनया गौरीव मनोहरा भाति ॥ ३० ॥ यस्यामभ्रंलिहेन्द्रनीलशालशिखरसहस्रनिँभृतांशुजालवालशाद्वला- ङ्कुराग्रग्रौसलालसाः सर्व्वलन्तः खे खेदयन्ति मध्यैदिनं सादिनं रविर- थतुंरंगमाः ॥ ख ॥ यस्यां च स्फटिकमणिशिलानिबद्धभवनप्राङ्गणगँतासु संचरद्गृहिणी- चरणालक्तकपङ्क्तिषु पतँन्ति निर्मलसलिलाभ्यन्तरतरत्तरुणरुणक- नलकाङ्क्षया मुग्धमधुपपटलानि ॥ ग ॥ यत्र चेति ॥ इदमेते कुर्वन्ति न जनाः । गुरुर्वृहस्पतिः । मात्रा वर्णावयवः । मित्रः सूर्यः । बन्धुजीवं बन्धूकम् । पक्षे सुगमम् । मात्रा जनन्या सह ॥ क ॥ देश इति ॥ अनुक्रोशेन कृपया संपन्नैर्जनैर्युक्तोऽसौ देशः सर्वस्यापि प्रियः । पक्षेऽनुक्रोशे संपन्नान्यन्नजलतृणादिभिः समृद्धानि । अथवाऽनुगताः परस्परसंबद्धाः क्रोशा अनुक्रोशास्तैः संपन्नानि ॥ २८ ॥ तस्येति ॥ पुरुषोत्तमो विष्णुः पुंश्रेयाश्च ॥ २९ ॥ जनेति ॥ जनस्य नीत्या हृष्टमनसा सुप्रभुणा कृतहर्षा । तथा न अष्टनया अपि तु सन्नीतिमती । सा पुरी रम्या भाति । यत एवानष्टनया अतएव जनो नीतिमान् । गौरी तु नगस्य हिमाद्रेस्तनया । तथा जननी मातेति हेतोर्हृष्टमनसा । अतएव शोभनेन हर्षोचिताकृतिसुन्दरेण स्वामिना स्कन्देन कृतानन्दा । तथा मनसि हरो यस्याः ॥ ३० ॥ यस्यामिति ॥ शालः प्राकारः । इन्द्रनीलमणिकिरणान्नीलतृणतु·द्याँल्लिलिक्षवः सप्तसप्तयः स्खलन्ति ॥ ख ॥ यस्यां चेति ॥ स्फटिकस्य सलिलं पदपङ्क्तेश्च कमलमुपमानम्॥ ग ॥ १ 'घातम्'. २ 'प्रजाः'. ३ 'नासौ'. ४ 'निःसृतांशु'. ५ 'ग्रासग्रहणलालसाः'. ६ 'स्खलन्तः खेदयन्ति'. ७ 'मध्यंदिने'. ८ 'तुरंगाः'. ९ 'संगतासु'. १० 'निपतन्ति'.