भारतकोश
संग्रह पर लौटें

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

( ५ ) आक्षेपलभ्ये संख्येये नाभिधानस्य कल्पना । संख्येयमात्रलाभे तु साकाङ्क्षेण व्यवस्थितिः ॥ ११ ॥ अतिप्रसङ्गाच्च फलं नापूर्वं तत्त्वहानितः । तदलाभान्न कार्यञ्च न क्रियाऽप्यप्रवृत्तितः ॥ १२ ॥ असत्त्वादप्रवृत्तेश्च नाभिधाऽपि गरीयसी । बाधकस्य समानत्वात् परिशेषोऽपि दुर्लभः ॥ १३ ॥ हेतुत्वादनुमानाच्च मध्यमादौ वियोगतः । अन्यत्र क्लृप्तसामर्थ्यान्निषेधानुपपत्तितः ॥ १४ ॥ विधिर्वक्तुरभिप्रायः प्रवृत्त्यादौ लिङादिभिः । अभिधेयोऽनुमेया तु कर्तुरिष्टाभ्युपायता ॥ १५ ॥ कृत्स्न एव च वेदोऽयं परमेश्वरगोचरः । स्वार्थद्वारेव तात्पर्यं तस्य स्वर्गादिवद्विधौ ॥ १६ ॥ श्यामभूवं भविष्यामीत्यादौ संख्या प्रवक्तृगा । समाख्याऽपि च शाखानां नाद्यप्रवचनादृते ॥ १७ ॥ इत्येवं श्रुतिनीतिसंप्लवजलैर्भूयोभिराक्षालिते येषां नास्पदमधासि हृदये ते शैलसाराशयाः । किन्तु प्रस्तुतविप्रतीपविधयोऽप्युच्चैर्भवच्चिन्तकाः काले कारुणिक ! त्वयैव कृपया ते तारणीया नराः ॥ १८ ॥ अस्माकन्तु निसर्गसुन्दर ! चिराच्चेतो निमग्नं त्वयी- त्यद्धाऽऽनन्दनिधौ तथापि तरलं नाद्यापि सन्तृप्यते । तन्नाथ ! त्वरितं विधेहि करुणां येन त्वदेकाग्रतां याते चेतसि नाप्नुवाम शतशो याम्याः पुनर्यातनाः ॥ १९ ॥ इत्येष नीतिकुसुमाञ्जलिरुज्ज्वलश्री- र्यद्वासयेदपि च दक्षिणवामकौ द्वौ । नो वा, ततः किममरेशगुरोर्गुरुस्तु प्रीतोऽस्त्वनेन पदपीठसमर्पणेन ॥ २० ॥ ॥ इति कुसुमाञ्जलिकारिकाः ॥

कुसुमाञ्जलिप्रकरणीयकारिकानामकारादिक्रमेण प्रतीकसूची। ( अ ) स्तबके, पृष्ठे, पङ्क्तौ १ अतिप्रसङ्गान्न ... ... ५ ५४४ ५ २ अनियमस्य नायुक्तिः ३ ४१९ ४ ३ अनैकान्तः परिच्छेदे ३ ३९० ७ ४ अनैकान्त्यात ... ... ४ ४६० १० ५ अर्थेनैव विशेषः ... ... ४ ४६१ ११ ६ अवच्छेदग्रहध्रौव्यात् ३ ४४६ ३ ७ अव्याप्तेरधिक ... ... ४ ४५० ७ ८ असत्त्वादप्रवृत्तेश्च ... ... ५ ५५५ ३ ९ अस्माकन्तु निसर्गसुन्दर ... ... ५ १४९ १७ ( आ ) १० आगमादेः प्रमाणत्त्वे ... ... ३ ३३३ ८ ११ आक्षेपलभ्ये ... ... ५ ५३७ १ ( इ ) १२ इत्येवं श्रुतिनीति ... ... ५ ५७५ १५ १३ इत्येष नीतिकुसुमा ... ... ५ ५७६ ५ १४ इत्येषा सहकारिशक्तिः ... ... १ २०८ १ १५ इष्टसिद्धि- ... ... ३ ३३२ ५ १६ इष्टहानेरनिष्टाप्तेः ... ... ५ ५२६ ५ ( उ ) १७ उद्देश एव तात्पर्य्यम् ... ... ५ ५१९ ५ ( ए ) १८ एकस्य न क्रमः क्वापि १ ९२ ३ ( क ) १९ कर्तृधर्म्मा नियन्तारः ... ... १ १७४ ९ २० कारंकारमलौकिकाद्भुत ... ... २ ३०९ १ २१ कार्यत्वान्निरुपाधित्वं ... ... ५ ५०७ ९ २२ कार्यायोजन ... ... ५ ४७९ ७ २३ कृताकृतविभागेन ... ... ५ ५३० १ २४ कृत्स्न एव हि वेदोऽयम् ... ... ५ ५६८ १२ ( च ) २५ चिरध्वस्तं ... ... १ १०२ २ ( ज ) २६ जन्मसंस्कार ... ... २ २९२ ११

( ७ ) स्तबके, पृष्ठे, पङ्क्त. २७ जयेतरनिमित्तस्य ... ... १ १४८ ५ ( त ) २८ तर्काभासतयाऽन्येषाम् ... ... ५ ५०० १ ( द ) २९ दुष्टोपलम्भ- ... ... ३ ३३० १४ ३० दृष्टयदृष्टयोः ... ... २ ३३४ ७ ( न ) ३१ न चासौ क्वचिदेकान्तः ... ... ३ ४१६ ५ ३२ न प्रमाणमनाप्तोक्तिः ... ... ३ ४१५ ६ ३३ न बाधोऽस्त्युपजीव्यत्वात् ... ... ५ ४८५ १ ३४ न वैजात्यम् ... ... १ १८३ ५ ३५ नान्यदृष्टम् ... ... १ १८० ५ ३६ निमित्तभेद ... ... १ १४५ ६ ३७ निर्णीतशक्तेः ... ... ३ ४०१ ६ ३८ न्यायचर्चैयम् ... ... १ १९ ३ ( प ) ३९ परस्परविरोधे हि ... ... ३ ३७२ १ ४० पूर्वभावो हि हेतुत्वं ... ... १ २०३ ६ ४१ प्रतिपत्तेः ... ... ३ ४२७ ३ ४२ प्रतियोगिनि ... ... ३ ४४१ ७ ४३ प्रत्यक्षादिभिः ... ... ३ ४४९ १ ४४ प्रमायाः परतन्त्रत्वात् ... ... २ २१० ३ ४५ प्रवाहोनादिमान् ... ... १ ६३ १ ४६ प्रवृत्तिः कृतिरेवात्र ... ... ५ ५२५ १० ( भ ) ४७ भावनेव हि यत्नात्मा ... ... ५ ५३२ ७ ४८ भावो यथा ... ... १ १०७ ५ ( म ) ४९ मितिः सम्यक्परिच्छित्ति ... ... ४ ४७५ ३ ( य ) ५० योग्यादृष्टिः ... ... ३ ३१२ ४ ( व ) ५१ वर्षादिवद्भवोपाधि ... ... २ २८१ २ ५२ विधिर्वक्तुरभिप्रायः ... ... ५ ५६७ ४ ५३ विफला विश्ववृत्तिः ... ... १ ९६ ४ ५४ व्यस्तपुंदूषणाशङ्कैः ... ... ३ ४०४ २ ५५ व्यावर्त्त्याभाववत्तैव ... ... ३ ३२९ ३

( ८ ) स्तबके, पृष्ठे, पङ्क्तौ ( श ) ५६ श्रद्धा चेदनुमास्त्येव ... ... ३ ३४१ ७ ५७ श्रुतान्वयादनाकाङ्क्षं ... ... ३ ३८१ ६ ( स ) ५८ संस्कारः पुंस ... ... १ १३३ ६ ५९ सत्पक्षप्रसरः ... ... १ २ १ ६० सम्बन्धस्य परिच्छेदः ... ... ३ ३७७ २ ६१ साक्षाकारिणि नित्ययोगिनि ... ... ४ ४७८ १ ६२ सादृश्यस्यानिमित्तत्वात् ... ... ३ ३७९ १ ६३ साधर्म्यमिव ... ... ३ ३७५ ३ ६४ सापेक्षत्वादनादित्वात् ... ... १ १ २ ६५ स्थैर्य्यदृष्ट्योः ... ... १ १९९ २ ६६ स्वर्गापवर्गयोः : ... ... १ १ २ ६७ स्वातन्त्र्ये जडताहानिः ... ... ५ ५०३ १३ ६८ स्वाभावनियमाभावात् ... ... ४ ४५९ ७ ६९ स्यामभूर्वं भविष्यामि ... ... ५ ५७२ २ ( ह ) ७० हेतुत्वादनुमानाच्च ... ... ५ ५६३ ६ ७१ हेतुभूति ... ... १ ४९ २ ७२ हेतुशक्तिमनादृत्य ... ... १ २०१ ५ ७३ हेत्वभावे फलाभावात् ... ... ३ ४१७ १० इति कुसुमाञ्जलिकारिकासूचीसमाप्तिमगमत् ॥

न्यायकुसुमाञ्जलिप्रकरणस्य प्रस्तावक्रमेण विषयसूची । प्रथमस्तबके पृष्ठे पङ्क्तौ १ मङ्गलाचरणम् ... ... २ १ २ परमात्मनिरूपणप्रतिज्ञा ... ... ११ १ ३ ईश्वरे वादिनां मतानि ... ... १४ १ ४ ईश्वरमननावश्यकता ... ... १९ ३ ५ ईश्वरविषये विप्रतिपत्तयः ... ... २९ १ ६ कार्यकारणभावव्यवस्थापनम् ... ... ४१ २ ७ आकस्मिकत्ववादखण्डनम् ... ... ४९ १ ८ स्वभाववादखण्डनम् ... ... ५५ १ ९ कार्यकारणप्रवाहस्यानादित्वव्यवस्थापनम् ... ... ६३ १ १० तृणारणिमणीनां वह्निकारणत्वविचारः ... ... ७१ १ ११ शक्तिपदार्थखण्डनविचारः ... ... ,, २ १२ दहनसामान्यस्य प्रयोजनिरूपणम् ... ... ९० १ १३ ब्रह्मप्रकृतिकारणतावादखण्डनम् ... ... ९१ ३ १४ अपूर्वकारणताव्यवस्थापनम् ... ... ९६ ३ १५ प्रतिबन्धकपार्थनिर्वचनम् ... ... १०७ ५ १६ प्रध्वंसस्य व्यापारत्वखण्डनम् ... ... ११७ २ १७ उपलक्षणस्य कारणताखण्डनम् ... ... १३० १ १८ परमाणूनां पाकजविशेषेण कार्यविशेषजनकत्वम् ... ... १४३ २ १९ कारणतापवार्थनिर्णयः ... ... १५० २ २० शक्तिपदार्थनिर्णयः (न्यायमते) ... १५१ ३ २१ अदृष्टस्य भोक्तृनिष्ठत्वव्यवस्थापनम् ... ... १६७ १ २२ सांख्यमतप्रक्रिया, सांख्यमतखण्डनम् ... ... १६९ ४ २३ कार्यकारणयोः समानजातीयत्वनियमो न तु समानधर्मत्वनियमः ... ... १७६ ६ २४ भेदाभेदवादखण्डनम् ... ... १७८ ४ २५ भूतचैतन्यवादः ... ... १८० १ २६ भूतचैतन्यवादखण्डनम् ... ... ,, ५ २७ क्षणभङ्गवादः ... ... १८२ २ २८ क्षणभङ्गवादखण्डनम् ... ... १८३ ५ २९ जातिसांकर्यविचारः ... ... १८७ १ ३० नित्यविभोः कारणत्वशङ्का ... ... २०२ ९ ३१ नित्यविभोः कारणत्वव्यवस्थापनम् ... ... २०३ ६ ७४ न्या० कु०

१. प्रथम स्तबक: अदृष्ट एवं कर्म-फल व्यवस्था द्वारा ईश्वर-सिद्धि

( १० ) द्वितीयस्तबके पृष्ठे पङ्क्तौ १ ईश्वरानुमानम् ... २०९ ४ २ प्रामाण्यस्य गुणजन्यत्वव्यवस्थापनम् ... २११ १ ३ प्रामाण्यस्य परतो ग्राह्यव्यवस्थापनम् ... २२० ३ ४ शब्दानित्यत्वोपपादनम् ... २३३ ४ ५ जातिशक्तिवादखण्डनम् ... २७४ १ ६ प्रलयव्यवस्थापनम् ... २८० ६ ७ वेदहासव्यवस्थापनम् ... २९२ ११ ८ आचारस्य प्रत्यक्षश्रुतिमूलकत्वव्यवस्थापनम् ... २९९ ७ ९ महाजनपरिग्रहपदार्थनिर्वचनम् ... ३०२ ७ १० प्रलयान्तरं सृष्ट्युपपादनम् ... ३०३ ११ तृतीयस्तबके १ अनुपलब्धेरीश्वरबाधकत्वनिरासः ... ३११ ४ २ योग्यानुपलब्धेरभावनिश्चायक- व्यवस्थापनम् ... ३१३ १२ ३ मनोवैभववादः ... ३१४ ३ ४ मनोवैभववादखण्डनम् ... ३१५ १ ५ स्वापनिरूपणम् ... ३२३ ८ ६ सुषुप्तिनिरूपणम् ... ३२४ ३ ७ परमात्मनः परस्यायोग्यत्वव्यवस्थापनम् ... ,, ४ ८ प्रत्यक्षमात्रप्रमाणवादखण्डनम् ... ३३४ ७ ९ अनुमानप्रामाण्यव्यवस्थापनम् ... ३३६ ९ १० अप्रयोजक-निरूपणम् ... ३५१ २ ११ उपाधिलक्षणम् ... ३५२ १ १२ अप्रयोजकस्य हेत्वाभासान्तर्भावविचारः ... ३६६ १ १३ सिद्धसाधनस्य हेत्वाभासान्तर्भावविचारः ... ३७१ १ १४ सादृश्यस्यातिरिक्तपदार्थत्वखण्डनम् ... ,, ५ १५ शक्तिसंख्यादीनामतिरिक्तपदार्थत्वखण्डनम् ... ३७३ ६ १६ उपमानस्य प्रमाणान्तरत्वव्यवस्थापनम् ... ३७७ १ १७ उपमानस्य लक्षणम् ... ३८६ १ १८ शब्दस्य प्रमाणान्तरत्वव्यवस्थापनम् ... ३८८ १ १९ शब्दस्य बाधकत्वखण्डनम् ... ४१५ १ २० अर्थापत्तेर्बाधकत्वखण्डनम् ... ४१७ ७ २१ अपलब्धेः प्रमाणान्तरत्वखण्डनम् ... ४२७ १ चतुर्थस्तबके १ प्रमालक्षणम् ... ४५० ७ २ ज्ञातताखण्डने विचारः ... ४५९ ३ ३ क्षणिकत्वविचारः ... ४६४ ११

( ११ ) पञ्चमस्तवके पृष्ठे पङ्क्तौ १ ईश्वरानुमानम् ... ... १ ७ २ परमाण्वादीनामीश्वरशरीरत्व- 'व्यवस्थापनम् ... ... ४९४ ४ ३ ईश्वरस्यापि शरीरपरिग्रहः ... ... ५०८ १३ ४ वेदंलक्षणम् ... ... ५१७ १ ५ द्यणुकपरिमाणादीनां संख्याजन्यत्वव्यवस्थापनम् ... ... ५१४ ५ ६ विधिविचारः ... ... ५२५ ८ ७ स्वप्नस्थानुभवरूपत्वव्यवस्थापनम् ... ... १४६ १ इति कुसुमाञ्जलिप्रकरणसूची समाप्ता । कुसुमाञ्जलिवोधन्या-प्रकाशस्य च सन्दर्भानुसारण विषयसूची। प्रथमस्तवके पृष्ठे पङ्क्तौ १ मङ्गलाचरणम् ... ... १ ८-१५ २ स्वपितृपरिचयः ... ... १ २१९ ३ ग्रन्थस्य प्रयोजनाभिधेयसम्बन्धाः ... ... २ ५-२३ ४ न्यायशब्दस्य तात्पर्यार्थः ... ... ३ ५६५ ५ पदयुगशब्दस्य सारार्थः ... ... २ ८-६-८ ६ पदयुगशब्दस्य विकल्पार्थः ... ... २ ११-६-८ ७ पदयुगशब्दस्य शब्दानुमानातिरिक्तत्व- व्यवस्थापनम् ... ... ६ १५ ८ न्यायानामनघत्वव्यवस्थापनम् ... ... ६ १३-१८ ९ अमृतेत्यादि विशेषणस्य तात्पर्यार्थः ... ... ८ ११. १० कर्मयोगपद्ये न्यायप्रसूनांजलिशब्दार्थः ... ... ९ १ ११ अमृतेत्यादिविशेषणस्य तात्पर्यार्थे सतर्कता ... ... ९ ८ १२ मोक्षविषये सन्देहः ... ... १० ३-१६ १३ ईश्वरमननस्य मोक्षहेतुत्वे शङ्का ... ... " १८. १४ ईश्वरमननस्य सफलत्वसाधनम् । ... ... ११ ३-१० १५ आत्मनः परिणामिनित्यत्वखण्डनम् ... ... १२ १०-२१ १६ कपिलमते 'आदिविद्वान्' इति शब्दस्य तात्पर्यमाह ... ... " २३ १७ तत्र मिश्राणां सम्मतिः ... ... " २४ १८ क्लेशपदार्थकथम् ... ... " २७ १९ विपाकपदार्थकथनम् ... ... १५ ४-१५ २० आशयपदार्थकथनम् ... ... " ५-१५ २१ अनादिवेदस्य भगवता द्योतनम् ... ... " १७

( १२ ) पृष्ठे पङ्क्तौ २२ अस्मदायदृष्टैर्भगवच्छरीरनिष्पत्तिः ... ... १५ १८ २३ मिथ्याज्ञानवतः कर्मजन्यमदृष्टं न तत्त्वज्ञानिनः ... ... १६ ९ २४ प्रवरपदार्थकथनम् ... ... १८ ६-१३ २५ सिद्धसाधनस्य स्वार्थानुमानेऽदोषत्वम् ... ... २० ९ २६ पाठक्रमादर्थक्रमस्य बलवत्त्वम् ... ... २१ १ २७ सिद्धसाधनस्य हेत्वाभासतान्यवस्थापनम् ... ... २३ ४ २८ सिद्धसाधनस्य दशाविशेषे दोषत्वम् ... ... २५ ४ २९ सिद्धसाधनस्य पृथग्दूषणत्वाभावः ... ... ,, ५ ३० संशयं विनापि न्यायावतारः ... ... २७ ४ ३१ अलौकिकविप्रतिपत्तौ सावधानता ... ... २९ ३-११ ३२ अलौकिके विप्रतिपत्तिः ... ... ३० ५ ३३ अदृष्टे विप्रतिपत्तिः ... ... ३१ ६ ३४ अदृष्टविप्रतिपत्तौ यद्वाकल्पः ... ... ३४ १ ३५ स्वर्गे विप्रतिपत्तिः ... ... ३५ १ ३६ नरके विप्रतिपत्तिः ... ... ३६ १ ३७ परलोकमात्रे विप्रतिपत्तिः ... ... ,, ३ ३८ साधने विप्रतिपत्तिः ... ... ,, ५ ३९ तत्र यद्वाकल्पः ... ... ३८ १ ४० तत्र द्वितीययद्वाकल्पः ... ... ,, ३ ४१ साधनविप्रतिपत्तौ तृतीययद्वाकल्पः ... ... ३९ १ ४२ मीमांसकादिविप्रतिपत्तिकथनम् (बो०) ... ... ४० ४ ४३ विशिष्टे विप्रतिपत्तिः ... ... ,, १६ ४४ चार्वाकाभिप्रायः ... ... ,, १७ ४५ अलौकिकहेतुसाधकानुमानम् ... ... ४१ ११ ४६ कार्यकारणभावानभ्युपगन्तृचार्वाकानां युक्तिः ... ... ,, १६ ४७ कार्यकारणभावव्यवस्थापनम् ... ... ४२ १५ ४८ कार्यकारणभावे प्रत्यक्षप्रमाणप्रदर्शनम् ... ... ,, १९ ४९ कार्यकारणभावेऽनुमानेन प्रामाण्यप्रदर्शनम् ... ... ४३ ४ ५० कार्यकारणभावे प्रामाणिक्यनवस्थाङ्गीकारः ... ... ४४ ९ ५१ अदृष्टसाधनम् ... ... ,, १८ ५२ दध्यारंभकपरमाणुषु दधित्वानानावश्यकत्वम् ... ... ७३ १८ ५३ तत्र रत्नकोशकारमतम् ... ... ८० १ ५४ जात्यपेक्षया नियमनादि बौद्धमतखण्डनम् ... ... ८१ ३ ५५ शक्तिपदार्थखण्डनम् ... ... ८४ ३-९ ५६ तत्र गङ्गेशोपाध्यायमतम् ... ... ८५ १० ५७ धर्मधर्मिभेदानुपपत्त्या शक्तिभेदानुपपत्तिः ... ... ९५ ६-२१ ५८ शक्तौ विप्रतिपत्तिः ... ... १०३ २४ ५९ विशिष्टस्यानर्थान्तरत्वकथनम् ... ... ११० २७

( १३ ) पृष्ठे, पङ्क्तौ ६० तत्र गंगेशमतम् ... ... ११३ ११ ६१ शक्तिसाधकानुमानकथनम् ... ... १२१ ३१ ६२ उक्तानुमानखण्डनम् ... ... १२४ ४ ६३ प्रतियोगिध्वंसयोरेकत्राजनकत्वम् ... ... १३० १४ ६४ लाक्षारसावसिक्तबीजस्यारुणपुष्पजनकत्वम् ... ... १४१ १० २४ ६५ सौरभशैत्ययोरेकाधारत्वाभावः ... ... १४२ २७ ६६ कारणत्वपदार्थविचारः ... ... १५० २३ ६७ उत्पत्तिपदार्थनिरूपणम् ... ... १५१ १९ ६८ अन्यथासिद्धिपदार्थनिरूपणम् ... ... १५८ २ ६९ भेदाभेदवादः ... ... १७९ १० ७० अन्योन्याभावस्याव्याप्यवृत्तित्वमतम् ... ... ,, ११ ७१ भेदाभेदवादखण्डनम् ... ... ,, १७ ७२ क्षणिकत्वे विप्रतिपत्तिः ... ... १८२ २२ ७३ घटत्वजातेः साङ्कर्यविचारः ... ... १८८ ८ ७४ घटत्वजातेः संस्थानवृत्तित्वमतम् ... ... ,, १२ ७५ गुणगतजातौ साङ्कर्यस्यादोषत्ववादिमतम् ... ... ,, १५ ७६ घटत्वजातेर्नानात्वव्यवस्थापनम् ... ... ,, १६ ७७ घटत्वजातेः संस्थानवृत्तित्वमतखण्डनम् ... ... १८९ ८ ७८ घटत्वस्योपाधित्वव्यवस्थापनम् ... ... ,, १० ७९ स्थैर्यपक्षे कारणत्वानुपपत्तिशंका ... ... २०१ ८ ८० उक्तशंकासमाधिः ... ... ,, १८ द्वितीयस्तबके ८१ ज्ञानप्रामाण्ये विप्रतिपत्तिः ... ... २२० १३ ८२ भाट्टप्रभाकरमतखण्डनम् ... ... २३१ २५ ८३ परतः प्रामाण्यपक्षेऽनुमानासंभवाक्षेपः ... ... २२३ १० ८४ उक्ताक्षेपसमाधिः ... ... २२५ ४ ८५ प्रतियोगितावच्छेदकभेदेनाभावभेदः ... ... २४५ ३ ८६ तारत्वादिवैजात्याशङ्कासमाधी ... ... २६३ १५ ८७ संयोगस्याजातवादः ... ... २५५ २३ ८८ कालस्य षडिन्द्रियवेद्यत्वम् ... ... २६९ २६ ८९ जातिव्यक्त्युभयशक्तिवादिप्राभाकरमताक्षेपसमाधिः ... ... २७८ २६ ९० पक्षैकदेशस्य दृष्टान्तत्वम् ... ... २८३ १० ९१ प्रलयसद्भावे वैद्यकदृष्टान्तः ... ... २८५ १२ ९२ स्तुतिनिन्दार्थवादाभ्यां विधिनिषेधवाक्यकल्पनम् ... ... २९६ १७ तृतीयस्तबके ९३ द्रव्यसाक्षात्कारे योग्यविशेषगुणस्य प्रयोजकत्वम् ... ... ३१४ १५ ९४ विभुकार्यविशेषगुणस्य न स्वासमवायिकारणन्यूनदेशत्वमिति- नियमः ... ... ३१७ २२

( १४ ) पृष्ठे, पङ्क्तौ ९५ बुभुत्साप्रणिधानयोर्नानांशजंडंसमवायदशायां यः ९६ शब्दग्रहस्तत्र सहकारित्वम् ... ... ३२१ ६ ९७ अव्यभिचारपदार्थः ... ... ३४० १६ ९८ व्याप्तिनिरूपणम् ... ... ३४८ २७ ९९ उपाधिस्वरूपविचारः ... ... ३५२ १२ १०० असिद्धिस्वरूपनिर्वचनम् ... ... ३६७ २ १०१ बाधस्य पृथक् हेत्वाभासत्वाक्षेपसमाधी ... ३६९ २ १०२ लक्षणाबीजविचारः ... ... ३८१ २४ १०३ आकांक्षाकारणत्वविचारः ... ... ३९४ २४ १०४ प्रामाण्यप्रयोजकविचारः ... ... ४०४ २२ चतुर्थस्तबके १०५ अन्वयांशे शक्तिखण्डनम् ... ... ४०७ २० १०६ गृहनिष्ठाभावप्रतियोगित्वस्य लिङ्गत्ववाक्षेपसमाधी ... ४२२ १३ १०७ विशेष्यवति विशिष्टाभावस्य विशेषणाभावात्मकत्वम् ... ४२६ १९ १०८ धारावहनबुद्धौ मानम् ... ... ४५२ ८ १०९ वैशिष्ट्यसम्बन्धखण्डनम् ... ... ४५३ १६ ११० तत्तालक्षणम् ... ... ४५८ ८ १११ समवायिकारणस्य कार्यसमानकालत्वम् ... ... ४६१ १४ ११२ ज्ञाततासाधकानुमानखण्डनम् ... ... ” २८ पञ्चमस्तबके ११३ ईश्वरसाधकानुमाने पक्षादिविचारः ... ... ४७९ १६ ११४ विशेषणासामर्थ्यविचारः ... ... ४८६ २० ११५ ईश्वरसाधकानुमाने बाधोपाध्योर्निरासः ... ... ४९१ ८ ११६ वेद लक्षणम् ... ... ५११ १० ११७ पौरुषेयत्वलक्षणम् ... ... ” १९ ११८ द्व्यणुकमहत्त्वस्य परिमाणजन्यत्वविचारः ... ... ५१६ १७ ११९ आख्यातार्थविचारः ... ... ५३३ २६ १२० भावनान्वयविचारः ... ... ५३९ १७ १२१ लिङ्पदस्य कार्यत्वमात्रशक्तिखण्डनम् ... ... ५४७ १५ १२२ यागस्य स्वर्गसाधनताज्ञानविचारः ... ... ५५१ १७ १२३ देवताप्रीतेर्यागव्यापारत्वखण्डनम् ... ... ५५३ १६ १२४ विधिविचारः ... ... ५५६ ३२ इति कुसुमाञ्जलिवोधिनीप्रकाशगतविषयसूची समाप्ता ।

मेघठक्कुररचितप्रकाशिका (जलद) युतेन रुचिदत्तोपाध्यायकृतमकरन्दो- द्भासितेन झोपाख्यधर्म्मदत्तनिर्मितटिप्पण्यन्वितेन वर्द्धमानोपाध्यायकृत- प्रकाशेन वरदराजकृतबोधन्या च सहितः । महामहोपाध्यायश्रीमदुदयनाचार्यप्रणीतः न्यायकुसुमाञ्जलिः बोधनी । विशदयितुमर्थतत्त्वं विनिहन्तुं चान्तरीयसन्तमसम् । मम मनसि सन्निधत्तां नरहरिशवलावकृति ज्योतिः ॥ १ ॥ विश्वं यो विदधात्यदृष्टसचिवः सत्सम्प्रदायो यतः प्रामाण्यं लभते श्रुतिर्गुणवतो वक्तुर्यतो नान्यतः । यस्मिन् बाधकशाङ्कयापि विगतं-माता च मानं च यः सिद्धो यः श्रुतिनीतिसम्भृतवशस्तैस्तं मन्महे मानतः ॥ २ ॥ प्रकाशः । भक्तानां कामदस्तुष्टो रुषा कामं दहन्नपि । प्रकाशिका । भासयद्भक्तजनताचेतःकमलकोरकान् । वन्दे सन्देहतिमिरविच्छेदमिहिरं महः ॥ १ ॥ यः कौशोरे विश्वविख्यातकर्म्मा धर्म्माचार्यः श्रीमहादेवशर्मा । तत्सोदर्यो वर्द्धमानस्य सूक्तौ भावं मेघः सम्यगाविष्करोति ॥ कामद इति । कामः = काम्यं काम्यत इति व्युत्पत्त्या, अथ च कामः = कन्दर्पः, कामं मकरन्दः । भूतप्रभूतविकटध्वनिभीतिमत्या मानग्रहं मनसि धर्तुमपारयन्त्या । आलिङ्गितो गिरिजया चिरमस्मदादेरङ्गेषु मङ्गलमनङ्गरिपुर्दधातु ॥ १ ॥ कुसुमाञ्जलिमकरन्दः श्रीरुचिदत्तेन भण्यते कृतिना । स्तवकोपमर्दभाजां बुधमधुपानां विनोदाय ॥ २ ॥ कामं दहन्नपि कामद इति विरोधाभासः । कामः = काम्यम्, अर्शआदित्वात् कर्म्मणि टिप्पणी । श्रीगणेशाय नमः । भक्तानां कामद इति । काम्यत इति कामः, काम्यम् । कामं

२ न्यायकुसुमाञ्जलौ [ प्रथमः- सत्पक्षप्रसरः सतां परिमलप्रोधोधबद्धोत्सवो बोधनी । औदयने पथि गहने विदेशिकः प्रतिपदं स्खलति लोकः । तस्य कृते कृतिरेषा कुसुमाञ्जलिबोधनी जयति ॥ ३ ॥ प्रारिप्सितप्रकरणव्युत्पाद्यस्य परमात्मविषयन्यायस्य प्रसिद्धसमाराधनसाधनप्रसूनाञ्जलिसाधर्म्य- प्रदर्शनेन पञ्चरूपोपपत्तिसम्पत्तिलक्षणं विशुद्धिं निःश्रेयसात्मकं फलं च प्रतिपाद्य तथाविधन्यायव्युत्पा- दनेन परमात्मसमाराधनतया परिकल्पितेन परमात्मनिरूपणेन स्वारसिकश्रद्धायुक्तस्य स्वान्तःकरण- स्याविहतश्रद्धावत्त्वमारिप्सितग्रन्थाविघ्नपरिसमाप्तिफलमाशास्ते—सत्पक्षप्रसर इति। सति प्रमा- णसिद्धे प्रमाणाबाधिते च पक्षे सन्दिग्घसाध्यधर्मवति धर्मिणि प्रसरतीति सत्पक्षप्रसरः। तेनाश्रया- सिद्धिकालात्ययापदेशसिद्धसाधनानां मूले निहितः कुठारः। सत्पक्षे प्रसरः प्रकर्षेण सरणं व्याप्या वृत्तिर्यस्येति भागतोऽपि स्वरूपासिद्धेरुद्धारः । कुसुमाञ्जलिस्तु सन् शोभनः पक्षप्रसरः पत्रविकासो यस्येति स तथोक्तः । सतामन्वयव्यतिरेकविदामागमावगततत्त्वानां वा परिमलः परिशीलनं भूयो- दर्शनमिति यावत्, तज्जनितः प्रोद्वोधः भूयोदर्शने साहायकमाचरताऽनुकूलतर्केण निरस्तनिखिलो- पाधिशङ्कंव्याप्तिज्ञानं, तत्र बद्ध उत्सवोऽपेक्षा येन स तथोक्तः गृहीतव्याप्तिक इति यावत् । यद्वा तेन प्रोद्बोधेन स्वस्मिन् बद्धोत्सवः बद्धापेक्षः अनुमित्सतां गृहीतव्याप्तिकत्वादपेक्षणीय इत्यर्थः । अथवा सामान्यव्याप्तिमत्तया परिशीलनस्य प्रोद्बोधो विशेषे पर्यवसानं, तेन बद्धः स्थिरीकृतः उत्सवः पर- प्रकाशः । अपि ज्ञानमयः स्थाणुर्यस्तमीशं स्तुवीमहि ॥ १ ॥ यतः प्रकाशते ज्योतिरपि वाचामगोचरः । कायेन मनसा वाचा परां वाचं नमाम्यिताम् ॥ २ ॥ न्यायाम्भोजपतङ्गाय मीमांसापारदृश्वने । गङ्गेश्वराय गुरवे पित्रेऽत्रभवते नमः ॥ ३ ॥ सदाचारानुमितश्रुतिबोधितकर्त्तव्यताकं प्रारिप्सितप्रतिवन्धकविघ्नविघातकमिष्टदेवताकीर्त्तनरूपं सच्छब्दप्रयोगरूपञ्च मङ्गलमाचरन्नेव प्रयोजनाभिधेयसम्बन्धानाह । सत्पक्षेति : एषोऽनघो = प्रकाशिका । दहन्नपि कामद् इति विरोधद्योतनायापिः । ज्ञानमय इत्यभिव्याप्तौ मयट् , यथा जलमयो देश इत्यत्र, व्याप्तिश्च देशकालाभ्याम्, इदञ्चेशस्येश्वराभिन्नत्वपक्षे, अन्यथा शिवस्य संसारित्वेनानुपत्तेः। स्थाणुः=शिवः, स्थाणुर्दारुविशेषोऽपि ज्ञानमय इति विरोधद्योतनायापिः, स्तुवीमहीति । मकरन्दः । प्रत्ययाद्वा । स्थाणुः = स्थिरः, अथ च स्थाणोर्दारुविशेषस्य ज्ञानसम्बन्धो विरुद्ध इति विरोधा- भासः । यद्यपि वृक्षदेरपि चेतनत्वं, तथापि दारुविशेषे न तथात्वम् । यद्वा ज्ञानमय इत्यभि- व्याप्तौ मयट् , भगवज्ज्ञानस्य व्याप्यवृत्तत्वादिति विरोधाभासः ॥ टिप्पणी । दहन्नपीति । रोषतोषयोः समानकालिकयोस्तात्त्विक एव विरोधः काम्यकन्दर्पयोरेकशब्दप्रति- पाद्यत्वेन तद्दाननाशकत्वयोरारोपितो विरोधः शतृप्रत्ययेन सहापिना द्योत्यते, तेन च महिमातिशयो व्यज्यते। इदञ्च विग्रहविशेषपक्षे । ईशस्येश्वराभिन्नत्वपक्षे त्वाह । अपीति । मयटोऽभिव्याप्त्यर्थ- कत्वम्, व्याप्तिर्देशकालाभ्याम् तथा च विग्रहविशेषपक्षे तदभाव इति भावः। अनघो वाक्यदोष

स्तवकः १ ] व्याख्यात्रयोपेतप्रकाशबोधनीयुते ३ बोधनी। -मात्मोपासनेच्छा येनेति। एतदुक्तं भवति आगमावगते परमात्मनि व्याप्तिवशेन भूयस्तत्संवादिप्र- मित्युत्पादनेन तदुपासने श्रद्धां निश्चलामावद्वानिति। अनेन स्वरूपतो ज्ञानतश्च व्याप्त्यासिद्ध्यैः प्रकाशः। वाक्यदोषरहितः, विपया(१)शुद्धेः पूर्वार्द्धेनैव निरासात्। नीयते प्राप्यते विवक्षितार्थसिद्धिरनेनेति प्रकाशिका। नतिवत् स्तुतेरपि मङ्गलत्वमिति भावः। अघशब्दस्य पापवाचकत्वेन प्रकृतासङ्गतिरत आह— वाक्यदोषरहित इति। तथापि दोषसामान्यपरतैव किन्नेत्यत आह—विपयेति। तथाच तेन समं पौनरुक्त्यं मा भूदिति विशेषपरतेति भावः। न चैवमनघत्वमित्यग्रिमग्रन्थविरोध इति वाच्यम्। तस्य पूर्वोक्तमनघत्वन्नार्थः, किन्तु दोषसामान्याभाव एव, तथा च श्लोकस्थानघशब्देन वाक्य- दोषाभावे पूर्वार्द्धेन चार्थदोषाभावे लब्धे भवति सामान्याभावलाभ इति तदर्थात्, अत एव तन्त्रोक्त- मुपपादयन्निति न तूपपादयितुमिति। केचित्तु वाक्यपदं सम्पातायातं, कथं दोषसामान्याभावलाभ इत्यपेक्षायां विपयाशुद्धेरिति फक्किका। न चैवमपि शाब्ददोषाभावालाभादयुक्तता, न्यायप- देन नीयंत इति व्युत्पत्त्या बोधकमात्रपरेण तल्लाभादिति न पूर्वोत्तरग्रन्थविरोधश्चेति वदन्ति। न्यायपदस्यानुमितिचरमकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकवाक्यपरतायां पौनरुक्त्यमनघ- पदेन समं शब्दतोऽर्थतो वा स्यादत आह नीयत इति। तथाच योगार्थ एव न्यायपदेन विवक्षितो मकरन्दः। अनघत्वमपापत्वमत्राप्रकृतमित्यत आह। वाक्यदोषेति, वाक्येति स्वरूपनिर्वचनम्। तथाच दोषराहित्यमात्रमत्र विवक्षितम्। तत्र दोषो द्विविधो वाक्यस्य, अर्थगतो वाक्यगतश्च, तत्र पूर्वार्द्धश्लोकेन आद्ये निरस्तेऽपि अन्त्यस्य निरासो न लभ्यत इत्यर्थः। नन्वेवमर्थदोषनिव- न्धनदोषविशेषाभावे लब्धेऽपि तत्सामान्याभावो न लब्धः, शब्ददोषात्मकविशेषाभावस्याप्रा- प्तत्वादित्यत आह। नीयत इति। तथाच बोधकत्वेन सोऽपि सूचित इति भावः। नचैवं टिप्पणी। रहित इति। अघशब्दस्य दोषविशेषपरत्वे हेतुमाह। विपयेति। तथा च सामान्यपरत्वे पूर्वा- र्द्धेन सममनघपदस्य पौनरुक्त्यं, पूर्वार्द्धस्य प्रयोजनशून्यतापि स्यादिति भावः। न्यायपदेनानुमिति- चरमकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकवाक्यस्य विवक्षणेऽयोग्यपार्थकनिराकाङ्क्षादिवाक्या- च्छाब्दबोधाभावात् शब्दार्थदोषशून्यत्वलाभाद् विमर्द्दन इत्यन्तेनानघपदेन च पौनरुक्त्यं, ग्रन्थे न्यायेतरभागस्यानिवेशप्रसङ्गश्च स्यादित्यत आह। नीयते इति। तथा च स्वार्थ- स्मृत्युत्पादितमानसद्वारेण कचिद्विवक्षितार्थसिद्धिप्रापका यथोक्तशब्दा अपि भवन्तीति तयोरुप- न्यास इति न पौनरुक्त्यम्, एवं समुदितग्रन्थस्यैव विवक्षितेतरानुमितिप्रापकत्या न्यायपदा- र्थता, तेन च तर्कपक्ष इत्याद्यग्रिमफक्किकाया अपि नासङ्गतिः। अन्यथा पञ्चावयववाक्यरूपस्य तर्काप्रतिपादकत्वेन सा स्यात्। एवं यथोक्तन्यायस्य शब्दाप्रतिपादकत्वेन पदयुगस्य शब्दानुमा- नद्वयपरत्वे बाधितार्थत्वेन तत्र ग्रन्थविरोधलिङ्गनसंयुक्तं स्यादित्यपि प्रत्युक्तम्। यद्वा समस्तस्पे- त्यादितात्पर्यविषये उचितानुपूर्वीकवाक्यपञ्चकसमुदाये न्यायपदार्थतायार्नीयत इत्यादिना योगार्थो- ऽपि प्रदर्शितः। न्यायस्य तर्कविषयत्वासम्भवमाकलख्यैवान्वयीत्यादि व्याख्यान्तरानुसरणम्। अत्र न तु शब्देत्याद्यग्रिमग्रन्थस्त्वाचार्याणां शोचनीयतामासादयतीति विभाव्यम्। विवक्षितार्थसिद्धिप्रापकत्व- (१) वाक्यजन्यशाब्दवोधविषयार्थस्य अशुद्धेः=दोषस्य बाधितत्वादेर्हेत्वाभासस्येति यावत्।

४ न्यायकुसुमाञ्जलौ [ प्रथमः- बोधनी । कण्ठतः कुण्ठनम् । अनध्यवसितसव्यभिचारयोर्विरुद्धस्य चार्थतो निरासः । अन्यत्र, सतां श्लेष्मा- द्यनुपहतघ्राणानां सौरभोद्गारेण विहितप्रीतिः स्वस्मिन् बद्धेच्छो वा । प्रतिप्रमाणैः प्रतितर्कैश्च विम- प्रकाशः । न्यायः = समस्तरूपोपपन्नलिङ्गबोधकवाक्यजातम् , स एवाह्लादकतया प्रसूनम् ; तदेवावान्तर- वाक्यघटितत्वेन अञ्जलिः । मम चेतः, अविघ्नं यथा स्यादेवं रमयतु = दुःखसामग्रीविहीनं करोतु । ईशस्य पदयुगे रमयतु = तदेकाग्रं करोत्विति वा । मनः कीदृशम् ? भृङ्गायमानम् , भृङ्ग इव मकरन्दे संसारिणां दुःखविगमोपाये सतृष्णम् भ्रमद् = अनुसरत् । दुःखविगमोपायम् इत्य- र्थात् , तत्र सतृष्णस्य तदन्यानुसरणानौचित्यात् , तत्साधनानुसरणस्यापि तदर्थतया तदनुसरण- रूपत्वात् । परदुःखं दृष्ट्वा दुःखितस्य कारुणिकस्य तन्निदानोच्छेदे तृष्णा भवत्येवेत्यनुभवसिद्धम् । यद्वा, मम चेतो रमयतु = सफलयतु । परोपकारकरणाद् भृङ्गायमानम् उपकारलुब्धम् । भ्रमत् = दुःखितमुपकर्तुं व्याप्रीयमाणमित्यर्थः । तथापि भूयसो धूमादिविषयस्य न्यायस्य सत्त्वात् किमनेनेत्यत आह—ईशस्य पदयुगे = प्रकाशिका । न रूढ्यर्थ इति भावः । विवक्षितार्थप्रतिपादकत्वमपि न साक्षादिति द्वाराकाङ्क्षायामाह समस्तेति । अवान्तरेति । वाक्यपदमत्र प्रकृताभिप्रायम्, अवान्तरघटितत्वमात्रं विवक्षितम्, अन्यथा प्रसूनाञ्ज- लावनन्वयापत्तेः। प्रकृतन्यायस्य मोक्षजनकत्वात् सुखजनकत्वमसम्भवीत्यन्यथा व्याचष्टे । दुःखस- मकरन्दः । समस्तेत्यादिना विषयशुद्धेरपि लब्धत्वात् पूर्वार्द्धवैय्यर्थम् । तत्त्वेन बोधकस्याभाससाधारणस्य विवक्षितत्वादिति भावः । केचित्तु एकविशेषाभावस्य पूर्वार्द्धेनैव लब्धत्वादपरविशेषाभावमात्रला- भार्थं वाक्यपदम् । नचैवमनघत्वमित्याद्यग्रिमग्रन्थविरोधः । अनघपदेन विषयाशुद्धेरप्रतिपादित- त्वात् , अर्थदोषनिरासार्थमित्यस्यैव वक्तुमौचित्यात् । शब्ददोषद्वैविध्येनार्थदोषनिबन्धनशब्ददो- षाभावस्य ततः सम्भवादित्याहुः । अनघत्वपदं यत् कवित्वेऽस्ति तद्भिन्नमनघत्वं स्वातन्त्र्येण लिखितं परग्रन्थे । तत्रापि सामान्यशब्दस्यानघत्वमित्यस्य वक्ष्यमाणस्यार्थदोषरहितत्वमिति विशे- षपरत्वादित्यर्थः । अवान्तरघटितत्वमात्रं प्रयोजकं, वाक्येति प्रकृताभिप्रायकम् । विशिष्टस्य प्रसूनाञ्जलाव- भावाद् । रागित्वनिरासार्थमाह । दुःखेति । तर्हि तत्साधनं नानुसरेदित्यत आह । तत्साधनेति । टिप्पणी । मपि न्यायस्य न साक्षादतो द्वाराऽऽकाङ्क्षायामाह—समस्तेति । द्वारत्वं प्रतिपत्त्यन्तस्यैव, प्रतिप- त्तिरत्र मानसी, तज्जनकवाक्यजातमित्यन्तग्रन्थस्तु न्यायपदेन वाक्यसमूहरूपग्रन्थातिरिक्तस्यापि च प्राप्ततया तद्व्यवच्छेदार्थ इति ध्येयम् । प्रकृत उक्तन्यायस्य मोक्षोपायतवेन सुखजनकत्वमसम्भ- वीत्यन्यथा व्याचष्टे । दुःखसामग्रीत्यादि । दुःखविगमोपायमिति । अत्र उपाय पर्यन्तोपादानं मकरन्दसाम्याय उपायानुसरणे तत्र सतृष्णस्येत्यादेः साम्मुख्येन सङ्गमनाय चेति । अनुसरणकर्मणोऽनुक्तत्वात्तदाकाङ्क्षायामाह । दुःखेत्यादि । अर्थतस्तल्लाभे हेतुमाह । तत्रेत्यादि । दुःखनाशे सतृष्णस्य तत्रानुसरणासम्भवेन तदुपायस्यानुसरणात् उक्तन्यायविरोध इत्यत आह । तत्साधनेति । तथा च तदुपायस्यानुसरणं न तदन्यानुसरणमिति भावः । व्याप्रीयमाणमिति अतिशयेन व्यापारयुक्तमित्यर्थः । तद्विषय उत्पादित इति विषय-

स्तबकः १ ] व्याख्यात्रयोपेतप्रकाशबोधनीयुते ५ चिम्लानो न विमर्दनेऽमृतरसप्रस्यन्दमाध्वीकभूः । बोधनी । र्दने पीडने सति न म्लायति न दूष्यते, तेषां हीनाङ्गत्वेन दुर्बलत्वादिति भावः । अनेन प्रकरण- समः प्रतितर्कप्रतीघातश्च वारितः । अन्यत्र करतलादिमर्दने न म्लानः तदभावादेव न प्रत्यग्रापचित इत्यर्थः । यद्वा पुष्पाञ्जलिसाधर्म्यप्रसक्तविमर्दनासद्दत्वनिवारणेन न्यायस्य तद्वैधर्म्यमनेन प्रद्- र्श्यते, यथा विमर्दने सति पुष्पाञ्जलिम्लायति नायं तथेति । अमृतं ब्रह्म, रसयतीति रसस्तद्वि- षया बुद्धिः, तस्य प्रस्यन्दः = प्रवाहः ध्यानमिति यावत् । तेन यत् तस्य साक्षात्कारी ज्ञानं तद्द्वारा निर्वाणं वा, तदेव माध्वीकमिवान्ववहितपुरुषार्थतया माध्वीकमिति गौणो वादः, तस्य भूर्हेतुः । श्रवणानन्तरं न्यायावधृतपरमात्मतत्त्वानां तत्त्वानुचिन्तनेन साक्षात्कार उत्पद्यते ततोऽप- वर्ग इति स्थितिः । अथवा अमृतं = मोक्षः, तत्र रसः = तद्गोचरेच्छा, तस्य प्रस्यन्दोऽविच्छेदेन प्रवाहः, स एव माध्वीकं, तस्य भूर्भूमिरिति । श्रवणसञ्जातां मुमुक्षां नास्तिककुतर्कापादितशैथिल्या- पनयेन वर्द्धयतीत्यर्थः । अनेन न्यायस्य फलवत्त्वप्रदर्शनेन तद्व्युत्पादकस्य प्रकरणस्यापि प्रेक्षाव- प्रकाशः । पद्यते ज्ञायतेऽनेनेति व्युत्पत्त्या प्रत्यायकयुगे प्रमाणतर्करूपे । निवेशितः = तद्विषये उत्पादितः । अन्वयि व्यतिरेकि वा पदयुगम् । वेदस्य पौरुषेयत्वे केवलस्य व्यतिरेकिणोऽपि दर्शयिष्यमाण- त्वात् । यद्वा, पदं = ज्ञानं तद्युगं तदुभयोत्पादितम् , निमित्तसप्तम्या ज्ञानद्वयार्थमित्यर्थः । प्रमाणा- प्रकाशिका । मग्नेति । तर्कविषयो न न्याय इत्यरुचेराह । अन्वयीति । वेदस्येति । अत्र मिश्राः सम्भव- प्राचुर्यादिदमुक्तम् अन्वयव्यतिरेकिणोऽप्युदाहरणद्वयभेदेन न्यायभेदस्य सर्वसम्मतः। नचैवमपि विष- यिणो न्यायस्य भेदेऽपि तद्विषयस्य प्रमाणस्य न भेद इति वाच्यम् । अन्वयव्यतिरेकव्याप्तिद्वयविशिष्ट- प्रमाणस्यापि भेदादित्याहुः । तच्चिन्त्यम् । तत्र व्यतिरेकव्याप्त्युपदर्शनाभावेन तादृशन्यायाप्रदर्शनेन “तत्परतायामेष” इति मूलविरोधात् तादृशन्यायतात्पर्यस्य च कल्पने गौरवात् । ननु पदयुग इतीयं यद् विषयसप्तमी तद्विषयप्रतिपत्तिजनकत्वमाह, नचेह प्रमाणप्रतिपत्तिमात्रं विवक्षितं प्रयोजनास्पर्शा- दतस्तत्साध्यश्रुतप्रयोजनभगवदनुमितिपरतया पदपदं व्याचष्टे । यद्वेति । न च कर्मयोगं विनानेयं मकरन्दः । ननु तर्कविषयो न न्याय इत्यरुचेराह । अन्वयीति । वेदस्येति । इदञ्च सम्भवसाँकर्या- दुक्तम् । वस्तुतोऽन्वयव्यतिरेकिणोऽपि उदाहरणादिभेदेन न्यायभेदस्य सर्वसम्मतत्वादिति वदन्ति । तच्चिन्त्यम् । एवमपि विषयिणो भेदेऽपि विषयस्यैक्यमेवेति युगत्वानुपपत्तेः । व्यक्तिभेदविवक्षया तथात्वेऽप्यनुपपत्तेः । आनन्त्यात् । निमित्तेति । न च कर्मयोगाभावान्‍नेयं टिप्पणी । सप्तमीमनुसृत्येदम् । तद्रूपविषयार्थं तयोर्वा विषयार्थं सन्दर्भित इत्यर्थः । न चेह प्रमाणप्रतिपत्तिमात्रं विवक्षितम् , प्रयोजनास्पर्शानातस्तत्साध्यश्रुतप्रयोजनभगवदनुमितिपरतया पदपदं व्याचष्टे । यद्वेत्यादि । नन्वनुमितेः कथमुभयत्वमित्यत्राह। तदुभयेति । यतस्तदुभयोत्पादितं तत्, अतः, तथा चोत्पादकयोरन्वयिव्यतिरेकिणोरुभयत्वादेवानुमितावपि तदिति भावः । पर्य्यवसितार्थं सप्तम्या सहाह । ज्ञानद्वयेति । अत्र ग्रन्थे शब्दादिप्रमाणान्यपि व्युत्पादितानि सन्तीति कथमस्यानुमिति मात्रार्थत्वमत्राह । प्रमाणान्तरेति । तान्यपि साक्षात्परम्परयाऽनुमितावेवोपयोगीनीत्यत्र व्युत्पा- दनतात्पर्य्यम् । अथ शब्दादयोऽपि कथं न स्वतन्त्रप्रमाणतया व्युत्पादनीया इत्याह—

६ न्यायकुसुमाञ्जलौ [ प्रथमः- ईशस्यैष निवेशितः पदयुगे भृङ्गायमाणं भ्रम- च् चेतो मे रमयत्वविघ्नमनघो न्यायप्रसूनाञ्जलिः ॥ १ ॥ बोधनी । दुपादित्साप्रयोजिकामभिमतफलसाधनतां सूचितवानिति । अन्यत्र अमृतसमरसस्य प्रस्यन्द- मानस्य मकरन्दस्य भूमिरिति । एवमनघः=विशुद्धः, न्यायो नीयते ज्ञाप्यते विवक्षितार्थोऽनेनेति न्यायः परार्थानुमानं, स एव प्रसूनाञ्जलिः । यद्वा न्यायाः प्रसूनानीव तेषामञ्जलिः, विधेय- निषेध्यविषयलिङ्गात्मककरतलद्वयगोचरत्वेन न्यायानामञ्जलित्वमिति । ईशस्य=परमात्मनः परा- पररूपात्मनि पदयुगे निवेशितः । यद्वा, पद्यते गम्यतेऽनेनेति पदं, तद्द्वयमागमप्रामाण्यलिङ्गं कार्यलिङ्गं च तद्विषय इति । अन्यत्र सुगमम् । यथा कुसुमाञ्जलौ भ्रमति भृङ्गः तथा स्वस्मिन् मदीयं साभिलाषमन्तःकरणमविघ्नं रमयतु । यद्वा भृङ्गायमाणं यथा मधुमत्यमधुमति च कुसुमे विवेकानवधारणेन चञ्चलश्चञ्चरीकः, तथा तत्त्वेऽतत्त्वे च वर्त्तमानं सन्दिहानमित्यर्थः, भ्रमच्च कचिद्- तत्त्वमेव तत्त्वतयाऽध्यवस्यन् मदीयं चेतो रमयतु संशयविपर्ययनिरासेन तत्त्वास्पदं करोत्विति । अनघमिति व्यस्तपाठे चेतोविशेषणं, स्वारसिकश्रद्धावत्त्वेन निष्पापं चेत इति; क्रियाविशेषणं वा, प्रकाशः। न्तरव्युत्पादनस्याप्यत्र तदर्थत्वादिति भावः । न तु शब्दानुमानरूपं पदयुगमत्र विवक्षितम्, श्रुतो हि—इत्यादिना तदतीतत्वोप्रदर्शनविरोधात् , ग्रन्थे च शब्दोप्रदर्शनस्याऽनुमाने तदविरो- धमात्रप्रदर्शनतात्पर्य्यकत्वात् । अनघत्वं न्यायानामुपपादयन्नाह । सत्पक्षेति । सति = प्रामाणिके, पक्षे = सिषाधयि- षितसाध्यधर्म्मके धर्म्मिणि, प्रकर्षेण सरो ज्ञानं यस्मात् । अनेनाश्रयासिद्धिवाधसिद्धसाधनस्वरूपा- प्रकाशिका । सप्तमी साधुरिति वाच्यम्। निवेशितो निवेशनां प्रापित इत्यन्तर्भावितकर्मतया तयोरुपपत्तेरिति भावः। अनुमान इति । इदमुपलक्षणम् “अहं सर्वस्य प्रभव” इत्यादेः क्षित्यादिसकर्तृकत्वानुमानोत्थापक- तातात्पर्यकत्वस्यापि भावात् । प्रामाणिक इति । पक्षतावच्छेदकवतीत्यर्थः । तेन काञ्चनम- याद्रिः सकर्तृक इत्यादि न्यायाभासव्युदासः । आश्रयासिद्धेरपि तत्रैव भावात् , असत्पक्षत्वे त्वपार्थ- कतयाऽनघपदादेव व्यावृत्तिः । सिषाधयिषितेति । सिषाधयिषा सिद्धीच्छा सा च साध्यसिद्धि- निवर्त्तनीयेति सिद्धसाधनव्युदासः । धर्म्मिणीति साध्यरूपधर्मवतीत्यर्थः, तेन वाधव्युदासः । न च साध्यधर्मवतीत्यर्थकेन प्रथमपदेनैव तद्व्युदासः । तस्य सिषाधयिषारूपसम्बन्धमात्रतात्पर्यकत्वात् । अन्यथा धर्म्मिणीत्यस्य वैयर्थ्यापत्तेः । न च तस्य हेतुरूपधर्मवतीत्यर्थकस्य स्वरूपासिद्धिर्न्युदासे तात्पर्यम् , भागासिद्धिवारणार्थोपात्तव्याप्यर्थकप्रशब्देनैव तस्य व्युदासात् ज्ञानं हेतोरित्यर्थात् । न मकरन्दः । सप्तमी साधुरिति वाच्यम् । निवेशितो निवेशनां प्रापित इत्यन्तर्भूतकर्मतया तद्योगबलादुपपत्ते- रित्याहुः । प्रामाणिक इति । पक्षतावच्छेदकवतीत्यर्थः । तेन पक्षविशेषणाप्रसिद्ध्याऽऽश्रया- सिद्धिः परिहृता । अन्यथाऽव्यावर्त्तकतापत्तेः । अप्रामाणिकपक्षत्वेऽपार्थकतयाऽनघपदादेव व्यावृत्तेः । प्राचीनमतेनेदमित्यन्ये ॥ सिद्धसाधनवारणायाह । सिषाधयिषितेति । सिषाधयिषितं साध्यं धर्मो यस्येति बाध- टिप्पणी । न तु शब्दानुमानरूपमित्यादि । सिषाधयिषितेति अत्र सिषाधयिषितसाध्यवत्त्वपर्य्यन्त-

स्तबकः ] न्यायव्यात्रयोपेतप्रकाशशोधनीयुते ७ प्रकाशः । सिद्धिभागासिद्धयो निरस्ताः । तर्कपक्षे सन् = निर्दोषः । पक्षप्रसरः = पक्षव्यापकोऽनिष्टप्रसङ्ग- नरूपस्तर्को यस्मात् । सतां = परामर्शकुशलानाम् । परितः = सपक्षे सत्त्या विपक्षे चासत्त्या यो मलः = सम्बन्धो व्याप्तिरूपस्तस्य यः प्रोद्बोधः = अबाधितप्रतिबन्धनिश्चयः साध्यसाध- प्रकाशिका । चाबाधितेऽपि बाधावतारान्न्यायाभासेऽतिप्रसङ्गः । तस्य व्यतिरेकनिश्चयेनापक्षतया पक्षपदेनैव वार- णात् , तस्य सन्म्यायत्वाद्वा । न च भागासिद्धेऽपि व्याप्त्या ज्ञानमस्त्येवेति तद्व्युदासः, प्रकर्षेण व्याप्त्यालक्षितस्येत्यर्थात् ज्ञानपदस्य प्रमापरत्वाद्वा, प्रकर्षस्यैव व्याप्तिप्रामाण्योभयरूपत्वाद्वा । सन्निर्दोष इति । न चाग्रे परिमलेत्यादिनापाद्यापादकव्याप्तिप्रदर्शनेन मूलशैथिल्यस्य विमर्द्दन- भावेन मिथो विरोधस्य च निरसनात् पौनरुक्त्यमिति वाच्यम् , निर्दोषपदस्य तदतिरिक्तदोषाभा- वपरत्वात् , सामान्याभावे विशेषाभावस्येतरसहकृतस्य हेतुतया हेतुहेतुमद्भावेनान्वयाद्वा । सपक्षे सत्त्येति । न च सपक्षे नावश्यं हेतोः सर्वतः सम्बन्ध इति वाच्यम् , साध्याभावासामानाधिकर- ण्यसहकारस्यैव सर्वतः पदार्थत्वात् । पदार्थविचारपर्यवसितमर्थमाह । अबाधितेति । अन्यथा मकरन्दः । व्युदासः । धर्मिणि हेतुभूतधर्मवतीति स्वरूपासिद्धिव्युदासः । प्रकर्षेण व्याप्त्या, तेन भागासि- द्विव्युदासः । ज्ञानं हेतोरित्यर्थात् । न चाबाधितेऽपि बाधावतारात् तन्नायाभासस्य न व्युदास इति वाच्यम् । व्यतिरेकनिश्चये सिषाधयिषाविरहेण पक्षपदादेव तन्निरासात् । तस्य न्याय- त्वादेव वा । निर्दोष इति । नचाग्रे आपाद्यापादकव्याप्तिप्रदर्शनेन मूलशैथिल्यस्य विमर्दनाभावेन मिथोविरोधस्य च निरसनात् पुनरुक्तिरिति वाच्यम् । विशेषाभावस्य सामान्याभावोपपादकतया हेतुहेतुमद्भावेनान्वयादित्येके । निर्दोषपदं तदतिरिक्तदोषाभावपरमित्यन्ये । एतावता पर्यवसितम- र्थमाह । अबाधितेति । अन्यथा प्रतिबन्धपदार्थानन्वयापत्तेः । टिप्पणी । विवक्षणे धर्मिणीत्यस्य वैयर्थ्यापत्तिः स्यात् , स्वरूपासिद्धिनिरासाय हेतुमतीत्यर्थकत्वमपि तस्य न सम्भवति, तावतापि भागासिद्धेरनिरासेन प्रशब्दज्ञानशब्दाभ्यां हेतोरित्यस्य शेषेण चावच्छेदकाव- च्छेदेन हेतुप्रमाज्ञानस्यावश्यविवक्षणीयतया तेनैव स्वरूपासिद्धेरपि निरासादिति । अथ किं ग्रन्थकृदेवं विधं शब्दमुक्तवान् यत् सत्त्वासत्त्वयोरपि तुल्यैव गतिरिति चेत् । सत्यम् । तुल्यैव, परन्तु केवल मसन्देहार्थं तात्पर्यग्रहार्थञ्च, ततश्च सिषाधयिषितसाध्यके इत्युक्ते हृदादावपि सिषाधयिषितवह्र्यादि- साध्यकानुमित्युत्पादाद् बाधादिनिरासो न स्यादर्थान्तरे तु स वार्थोऽयं वार्थ इति सन्देहः स्याद् , धर्मिणीत्युक्तावुपस्थितत्वात् साध्यरूपधर्म एव गृह्यते, तथा सति साध्यवत्त्वस्य तत्राभिप्रेतत्वमवगत्य तत्पदस्यैव तादृशार्थे तात्पर्यमवधारणीयं भवेदिति । साध्यधर्मक इत्यत्र धर्मपदोपादानं साध्ये प्रामाणिकत्वलाभाय, तेन साध्याप्रसिद्धिनिरासः । आश्रयासिद्धिपदं साध्याप्रसिद्धत्यादेरप्युपलक्षक मिति ध्येयम् । सन्निर्दोषः पक्षप्रसर इत्यादि । न चाग्रे परिमलेत्यादिनापाद्यापादकयोर्व्याप्तिप्रदर्शनेन मूलशैथिल्यनिरासात् निर्दोषपदेन पौनरुक्त्यमिति वाच्यम् । अत्र दोषपदस्य तदितरदोषपरत्वात् सामान्यपरत्वेऽपि अग्रे विशेषाभावस्य तत्प्रयोजकतया विवक्षणे क्षत्यभावः । प्रोद्बोधोऽबाधि- तप्रतिबन्धनिश्चय इति । प्रतिबन्धो व्याप्तिः तस्याबाधितनिश्चयः प्रमात्मकनिश्चयः, नायं प्रोद्बोधपदस्यैवार्थः, अपि तु प्रोद्बोधान्तस्य पर्यवसितार्थः। अन्यथा परिमलपदार्थानन्वयप्रसङ्गः

८ न्यायकुसुमाञ्जलौ [ प्रथमः- बोधनी । ‘अघं’ क्लेशः यथा तन्न स्याद् यथा च विघ्नो न स्यात् तथा रमयतु । अक्लिष्टमविहतश्रद्धायुक्तं यथा स्यात्तथा करोत्वित्यर्थः । प्रकाशः । नयोः, साध्याभावसाधनाभावयोर्वा, आपाद्यापादकयोश्च, तेन बद्धः = स्थिरीकृत उत्सव आनन्दो येन स तथा । नित्यसापेक्षत्वादसमर्थेऽपि समासः । तेनान्वयव्यतिरेकिणि सपक्षसपक्षयोः सत्त्वा- सत्त्वे केवलव्यतिरेकिणि च विपक्षासत्त्वं दर्शितमिति व्याप्यत्वासिद्धिसव्यभिचारविरुद्धनिरासः । विमर्द्दनं = तद्विषयीभूतप्रमाणविरोधिप्रमाणप्रदर्शनम्, तेन न विम्लानो न कार्याक्षम इति सत्प्र- तिपक्षविरहो दर्शितः । ननु तथाविधप्रमाणव्युत्पादनं न स्वतः प्रयोजनं, प्रयोजनवत्सन्निधावश्रवणाच्च न तदङ्गमि- त्यत आह । अमृतेति । अमृतं = मोक्षः, तत्र रस = इच्छा । रस्यमानममृतमिति यावत् । “कृदभिहितो भावो द्रव्यवत् प्रकाशते” इति न्यायात् , तस्य प्रस्यन्दः = असम्बद्धसम्बन्धोप- प्रकाशिका । प्रतिबन्धपदार्थानन्वयापत्तेः । अत एव साध्याभावसाधनाभावयोरित्यपि युज्यते । अन्यथा सपक्षे सत्तयेत्यनेनास्यानानन्वयात् , तत्र च हेतोरित्यध्याहारेण सङ्गतिः, न च तथापि व्यतिरेकव्याप्तिस्थले हेतोः सम्बन्ध इत्यनेनानन्वय एवेति वाच्यम् । विपक्षव्यावृत्तेरेव सम्बन्धत्वात् तदिदमुक्तं विपक्षे- चासत्तयेति । ननु बद्धशब्दोऽसमस्तेन सतामिति पदेन सापेक्ष इत्युत्सवपदेनासामर्थ्यान्न समासोचित इत्यत आह । नित्येति । तथाचासमस्तसाकाङ्क्षतायाः समस्यमानापरपदवाकाङ्क्षाविच्छेदकत्वेन दूष- णत्वं-तच्चात्र नास्ति, बद्धशब्दस्य सम्बन्धवाचकतयोभाभ्यां प्रतियोग्यनुयोगिवाचकपदाभ्यां सह नित्यसाकाङ्क्षतयोत्सवपदेन निराकाङ्क्षत्वाभावादित्यर्थः । असमर्थेऽपीति । असमस्तपदसाकाङ्क्षे- ऽपीत्यर्थः । कृदभिहित इति । कृदन्तपदविशेष्यीभूतद्रव्यवाचकपदोपस्थाप्यद्रव्यवत्प्रत्ययविषयो भवति विशेष्यीभूतकृदन्तपदाभिहितोऽपि भावः, तेन रस्यमानममृतमित्यत्रेवामृतरस इत्यत्रान्वय इति भावः । इयञ्च व्युत्पत्तिस्तात्पर्याधीना न तु सर्वत्रेत्यवधेयम् । असम्बन्धेति(१) । प्रस्यन्द- मकरन्दः । नित्येति । सामर्थ्ये समासात् सापेक्षमसर्थं भवतीति यद्यपि सापेक्षे न समासः, तथापि नित्यसापेक्षे तदनिषेधादस्य च तथात्वादत्र समास इत्यर्थः । कृदभिहित इति । कृदभिहितो भावो द्रव्यवत् प्रकाशते, कृदभिहितद्रव्यवद् भासते । तेन रस्यमानममृतमिति यथा कृदभि- हितद्रव्ये प्रत्ययस्तथा द्रव्यसमभिव्याहृतकृदभिहितभावेऽपीत्यर्थः । इदञ्च तात्पर्याधीनेत्या- धेयमित्याहुः ॥ असम्बद्धेति । आद्यक्षणेत्यर्थः । इहापि कृदभिहित इति न्यायात् प्रस्यन्दमानेत्यर्थः । तेन टिप्पणी । स्यात्। साध्यसाधनयोरित्यादेरपि प्रतिबन्धपदार्थ एव निरूपितत्वेनान्वयः । सपक्षे सत्तयेत्यादिना साध्यसाधनयोरित्यस्यानन्वयसम्भवेऽपि साध्याभावसाधनाभावयोरित्यस्यान्वयासम्भव एवेति । साध्या भावसाधनाभावयोरिति तु केवलव्यतिरेक्यभिप्रायेण, तत्र प्रथमं तयोर्व्याप्तिं गृहीतवानन्तरं साध्यसाधनयोस्तद्ग्रह इति ध्येयम् । कृदभिहितो भावो द्रव्यवत्प्रकाशते इति न्यायादिति ( १ ) असम्बद्धेति प्रकाशे पाठः ।

स्तवकः ] व्याख्यात्रयोपेतप्रकाशबोधनीयुते ९ बोधनी । केचित्तु न केवलं कुसुमाञ्जलिना न्यायो निरूप्यते मननात्मकेन ज्ञानयोगेनेव कुसुमाञ्जलिप्रदाना- त्मकेन कर्मयोगेनापि परमात्मसमाराधनतया परिकल्पितेनाविघ्नपरिसमाप्तिराशास्यत इति व्याच- प्रकाशः । हिता क्रिया, उत्पत्तिरिति यावत् । तदेव माध्वीकं मधु, तस्य भूरुत्पत्तिस्थानम् । रसपदेन स्वरूपत इष्यमाणतां दर्शयता दुःखभावोऽपि नावेद्यः पुरुषार्थ इति निरस्तम् । माध्वीकपदेन चोत्कटेच्छाविषयत्वं दर्शयता सुखहानावपि तुल्याऽऽव्ययतया नायमपुरुषार्थ इति दर्शितम् । अमृतं = मोक्षः, तस्य रस = इच्छा, तस्य प्रस्यन्दः = प्रवाह उत्तरोत्तराऽनुवृत्तिः, स एव माध्वीकम् , तस्य भूरुत्पत्तिस्थानम्—इति तु न व्याख्यानम् । मोक्षेच्छायाः पूर्वं मोक्षज्ञानादेव सञ्जातत्वाद् , उत्तरोत्तरानुवृत्तेरपि उत्तरोत्तरज्ञानसाध्यत्वात् । एतावता मोक्षजनकेश्वरविषयकानु- मितिकरणलिङ्गपरामर्शविषयलिङ्गप्रतिपादनद्वारा मोक्षानुकूलत्वमस्य दर्शितम् । प्रकाशिका । शब्दस्य कर्मविशेषवाचकस्यासम्बद्धसम्बन्धोपहितधात्वर्थरूपक्रियावाचकत्वमजहत्स्वार्थलक्षणया, कर्मणोऽसम्बद्धदेशसम्बन्धोपहितत्वमुत्पत्तेरप्यसम्बद्धलक्षणायक्षणसम्बन्धोपहितत्वम्, तथा च भव- त्यसम्वद्भावक्षणसम्बन्धरूपोत्पत्तिः प्रस्यन्दपदवाच्येति भावः । अत्रापि "कृदभिहित" इति न्यायात् प्रस्यन्दमानेत्यर्थः, तेनोत्कटेच्छाविषयत्वं दर्शयतेत्यग्रिमग्रन्थविरोधो न भवति, अन्यथोत्पत्तेरुत्कटे- च्छाऽविषयतया तद्विरोधात् । उत्पत्तिरिति यावदिति । नचोत्पत्तेरुत्पत्तिस्थानमिति पर्यवसितं तथा चानन्वय इति वाच्यम् । भूरित्यस्य व्याख्यानं स्थानम्, उत्पत्तिरित्यनुवादमात्रमिति भावात् । रसपदेनेति । इदमुपलक्षणम् , प्रस्यन्दपदेनोत्पन्नत्वं दर्शयताऽत्यन्ताभावरूपतया कृत्यसाध्यत्वेना- पुरुषार्थत्वशङ्का निराकृतेत्यपि बोध्यम् । अञ्जलेः करसंस्थानभेदस्य न माध्वीकोत्पत्त्यधिकरणत्वमित्य- मकरन्दः । तस्य माध्वीकपदादुत्कटेच्छाविषयत्वमिति नाग्रिमग्रन्थविरोधः । अन्यथोत्पत्तेरुत्कटेच्छाविषयत्वं दर्शनाप्राप्तौ तद्विरुद्धध्येतेत्यवधेयम् । रसपदेनेति । एतच्चोपलक्षणम् । प्रस्यन्दपदेनोत्पन्नत्वं दर्श- यताऽत्यन्ताभावत्त्वादिना अपुरुषार्थत्वशङ्का निराकृतेत्यपि बोध्यम् । संयुक्तकरद्वयात्मकस्याञ्जलेर्मा- टिप्पणी । रस्यमानममृतमित्यत्र कृदन्तपदार्थस्य विशेष्यीभूतं यद् द्रव्यं लिङ्गसङ्ख्यान्वययोग्यं भावस्य धात्वर्थस्य कारकममृतादिकं यथा 'प्रकाशने' शाब्दविषयो भवति, तथैवामृतरस इत्यत्र द्रव्यपदार्थ विशेष्यतया प्रतीयमानभावार्थाभिधायिना कृदन्तपदेनापि तात्पर्थ्यवशाल्लक्षणया शाब्दविषयो- भवतीति न्यायार्थः । भावप्राधान्यप्रतिपत्तिरूपप्रयोजनाभिसन्धिना भावकारकपदमप्रयुज्य यत्र भावपदं प्रयुक्तं तत्र तद्भावपदं विवक्षितातिशयविशिष्टभावकारकं प्रकृतवाक्यार्थान्वययोग्यं लक्षयतीत्यत्र तात्पर्थ्यम् । तेन पाक इत्यादौ पाककर्म्मादिप्रतीतेर्नापत्तिः, स्वायत्ते शब्दप्रयोगे विवक्षिते च पक्त्वे पक्वपदमप्रयुज्य पाकपदप्रयोगे कारणस्य प्रयोजनविशेषप्रतिपित्साया अभावात् । अत्र हि यथा गङ्गायां घोष इत्यत्र गङ्गातारे घोष इति प्रयोगे सहृदयलभ्यस्य शैत्यपावनत्वविशे- षप्रतिपत्तिरूपप्रयोजनस्यानिरूप्तेः तत्सम्पादयिषया गङ्गापदप्रयोगः, तथा रस्यमानपदप्रयोगे स्वतः प्रयोजनार्थविषयकत्वरूपप्राधान्यरूपविशेषविशिष्टेच्छाप्रतिपत्तिरूपप्रयोजनस्य सहृदयलभ्य- स्य दुर्लभतया तत्सम्पादयिषया रसपदप्रयोगः । स च रस्यमानस्य रसात्मताप्रतिपत्तिमुखेन रसप्राधान्यपर्यवसायी शक्नोति प्रयोजनं सम्पादयितुमिति भावः । अमृतप्रायो यो रसस्तं २ न्या० कु०

१० न्यायकुसुमाञ्जलौ [ प्रथमः- बोधनी । क्षते, तत्र न्यायेनोपार्जितः प्रसूनाञ्जलिर्न्यायप्रसूनाञ्जलिरिति ॥ १ ॥ ननु देहादिव्यतिरिक्तस्य नित्यस्यापरस्यात्मनस्तत्त्वज्ञानं संसारनिदानतद्विषयमिथ्याज्ञानादि- निवृत्तिद्वारेण निर्वाणकारणं वर्णयन्ति । यथाहुः—"दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापा- यात्तदनन्तराभावादपवर्गः"(१) (न्या. सू. १. १. २) इति । विवेचितश्चायमात्मतत्त्वविवेक इति प्रकाशः । अथ च न्याय इव प्रसूनाञ्जलिः = अञ्जलिस्थानि कुसुमानि, तत्रानघत्वं न्यायोपात्तत्वमप र्युषितत्वादि च । रूपकपक्षेऽपि न साधर्म्यं विना तदिति तदुभयसाधर्म्यमाह--सत्पक्षेति । "पचि व्यक्तीकरणे" इति धात्वनुसारात् पक्षशब्दो दलवचनः । सत्पक्षाणां प्रसरो यत्र, सता पक्षेणानुकूलेन रविकरणादिना विकासो यस्येति वा । तेन हस्तादिना कलिकाप्रकाशो निषिद्धः । यद्वा, सत्पक्षप्रसरः = सदनुकूलविकासः । सतां = सुकृतिनामनुपहतघ्राणानां, परिमलः = सौरभविशेषः, तस्य यः प्रोद्बोधः = प्रकृष्टज्ञानम् । तेन बद्धः = स्थिरीकृत उत्सवो येन स तथा। विमर्दने = करपुटसम्पर्के, न विम्लानो = नान्यथाभूतसंस्थानः । अमृतप्रायो रसः, तं प्रस्यन्दते इति प्रस्यन्दः । कर्मण्यण् । अमृतरसप्रस्यन्द एव माध्वीकम् , तस्य भूरुत्पत्तिस्था- नम् । यद्वा, अमृतमिव रसो यस्य । प्रस्यन्दते इति प्रस्यन्दः । अनयोः कर्मधारयः ॥ १ ॥ ननु कर्मसु विद्यमानेषु जन्मानुच्छेदात् , तेषां चाभुक्तानामक्षयाद् भोगेन च तद्धेतुना पुनः कर्मान्तरार्जनात् काशेषविशेषगुणोच्छेदो मोक्षः । नापीश्वरे प्रमाणव्युत्पादनस्य मोक्षहेतुत्वे मानमिति तन्निष्फलम् । किञ्च, ईश्वरमननस्य मोक्षहेतुत्वे मानाभावः "आत्मा वा अरे श्रोतव्यो मन्तव्यो निदिध्यासितव्यः साक्षात्कर्तव्य"इति श्रुतौ सामानाधिकरण्याद् यद्विषयकः साक्षात्कारो मोक्षजनक- स्तद्विषयकं मननं मोक्षहेतुः । साक्षात्कारश्च न जीवात्ममात्रगोचरो, न वेश्वरविषयकस्तथा । मिथ्या- ज्ञानध्वंसद्वारा ह्यस्य तद्धेतुत्वम् । न च जीवात्ममात्रगोचरमीश्वरगोचरं वा मिथ्याज्ञानं संसारहेतु- र्येन तदुच्छेदस्तद्द्वारं स्यात् । किन्तु स्वात्मगोचरं मिथ्याज्ञानमिति तत्तत्त्वसाक्षात्कार एव मोक्ष- हेतुरित्यत आह । प्रकाशिका । न्यथा व्याचष्टे । अञ्जलिस्थानीति । नन्वमृतप्रायो रस इत्यत्र रसशब्दस्य गुणपरत्वे तं प्रस्यन्दत इत्यनन्वयः तस्य कर्मविशेषवाचकत्वात् , द्रव्यपरत्वे सुतरां तत एव । न च जनयतीति तस्यार्थः, तथाच गुणपरतयैव सङ्गतिरिति वाच्यम् । लक्षणापत्तेरित्यरुचेराह । यद्वेति ॥ १ ॥ नन्वीश्वरमननद्वारा प्रमाणव्युत्पादनं मोक्षोपयोगि स्यादित्यत आह--किञ्चेति । जीवा- मकरन्दः । ध्वीकोत्पत्तिस्थानकत्वादिकमसम्भवदित्यत आह । अञ्जलिस्थानीति ॥ १ ॥ किञ्चेति। तथाचेश्वरमननद्वाराऽपि तद्व्युत्पादनं न मोक्षप्रयोजनमिति भावः। ननु प्रमाणव्युत्पाद- टिप्पणी । प्रस्यन्दत इति अन्तर्भावितणिचः प्रयोगः, तेन स्यन्दधातोरकर्मकत्वेऽपि न क्षतिः ॥ १ ॥ नन्वीश्वरमननद्वारा प्रमाणव्युत्पादनं मोक्षोपयोगि स्यादित्यत आह--किञ्चेति । साक्षा- त्कारश्च न जीवात्ममात्रगोचर इति । नायं प्रकृतोपयोगी किन्तु विवेचनमात्रं, दृष्टान्तार्थं ( १ ) दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्ग इति विश्व- नाथपञ्चाननसम्मतः पाठः । तदनन्तराभावादिति न्यायसूचीनिबन्धे न्यायसूत्रविवरणे च पाठः ।