न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
३८० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १२ कारिकाव्याख्यायां वाक्यं स्मृतिसमारूढं फलिष्यति, अध्ययनसमयगृहीत इव वेदराशिरङ्गोपाङ्गपर्य- वदातस्य कालान्तरे । न च वाच्यं-'वाक्येन स्वार्थस्य प्रागेव बोधितत्वात् प्रागेव पर्यवसितमिति' । गोसादृश्यस्योपलक्षणनिमित्तत्वयोरन्यतरत्र तात्पर्य्यसन्देहात्, इदानीन्तु गवयत्वेऽवगते तर्कपुरस्कारात् सादृश्यस्योपलक्षणतायां व्यवस्थितायां, गङ्गायां घोष इतिवदन्वयप्रतिपत्तिरिति चेत्, न— श्रुतान्वयादनाकाङ्क्षं न वाक्यं ह्यन्यदिच्छति ॥ पदार्थान्वयवैधुर्यात्तदाक्षिप्तेन सङ्गतिः ॥ १२ ॥ गोसदृशो गवयशब्दवाच्य इति सामानाधिकरण्यमात्रेणान्वयोपपत्तौ विशेष- सन्देहेऽपि वाक्यस्य पर्यवसितत्वेन मानान्तरोपानीतानपेक्षणात् । रक्तरक्तसन्दे- हेऽपि घटो भवति इति वाक्यवत्, अन्यथा वाक्यभेददोषात् । न च गङ्गायां बोधनी। यद्गृहस्तथापि पश्चाद्भवगतस्य प्रवृत्तिनिमित्तोपलम्भे सति तत्सहकृतप्रागनुभूतमतिदेशवाक्यमेव स्मृ- तिस्थं तत्फलिष्यति संबन्धग्रहं, यथा ह्यध्ययनसमये पाठमात्रगृहीतो वेदः पश्चादङ्गोपाङ्गसंस्कृतः तस्य वाक्यार्थज्ञानं प्रसूत इति । ननु युक्तं तत्राऽध्ययनात्पूर्वं वाक्यार्थप्रतिपादनाय गृहीतस्य वेदस्यापर्य- वसानादङ्गादिसहकृतस्य तस्यैव धर्मद्विज्ञानहेतुत्वम् , अत्र त्वतिदेशवाक्यस्य स्वार्थप्रतिपादनेन पर्य- वसानादयुक्तः समयपरिच्छेदहेतुभाव इत्याशङ्कयाह न च वाच्यम् इति । अतिदेशवाक्यमपि न तावत्पर्यवस्यति गोसदृशपदस्य तात्पर्यानवधारणेनार्थानिश्चयात्पदार्थपूर्वकत्वाच्च वाक्यार्थस्य गवयत्वावगतौ तु तर्क पुरस्कृत्य गोसदृशपदस्योपलक्षणपरत्वसिद्धौ च गवयत्वविषयं समयवाक्यमेव प्रतिपादयति । यथा गङ्गायां घोष इत्यत्र मुख्यार्थबाधेन गङ्गापदस्य तीरोप लक्षणत्वस्थितौ पश्चा- दन्वयप्रतिपादनम् । तर्कश्चात्र-सादृश्यस्य गवयत्वातिरेकिणः निमित्तत्वे क्लृप्तकल्प्यविरोधः, सादृश्यमात्रनिमित्तत्वेऽतिप्रसङ्गः, सादृश्यस्य निमित्तत्वे विशेषगस्य गौरप्यभिधानेऽशक्ति कल्पना- गौरवमिति वक्ष्यते । तस्माच्छब्द एव समये प्रमाणमिति । न, श्रुतान्वयात् इति । तदर्थनामाकाङ्क्षा संनिधियोग्यतावशेन परस्परमन्वयादेव पर्यवसितम- तिदेशवाक्यं नान्यत्पक्षोपनीतं गवयत्वादिकमाकाङ्क्षति वाक्यार्थप्रतिपादनायेति शेषः । गङ्गायां घोष इत्यत्र तु गङ्गापदस्य मुख्यार्थेन पदार्थान्तरा गामनन्वयात् मुख्यार्थलक्षितेन तु कूलेन सह संगतिरिति व्याचष्टे गोसदृश इति । कोऽसौ गोसदृश इति विशेषसंदेहेऽपि यो गोसदृशः स गवयशब्द- वाच्य इति सामान्येनैवान्वयसिद्धेर्न मानान्तरोपमेयविशेषाकाङ्क्षा वाक्यस्य, न हि पटो भवतीति वाक्यं रक्तरत्वादिनिश्चयादृते न पर्यवस्यतीति, यदि हि वाक्यमेव सामान्येनान्वयं प्रतिपाद्य विशेषा- प्रकाशः। नीमिति । गवयत्वविशिष्टपिण्डप्रत्यक्षकाल इत्यर्थः । तर्केनेति । प्रागुक्ततर्काद्गवयत्वे प्रवृत्ति- निमित्ते तात्पर्यनिश्चयाद् गोसदृशपदं लक्षणया गवयत्वबोधकमित्यर्थः । उपलक्षणत्वनिमित्तत्वसन्देहेऽपि यो गोसदृशः स गवयपदवाच्य इति सामानाधिकरण्यरूपयथाश्रुतप- दार्थान्वयेनैव वाक्ये पर्यवसिते पश्चाल्लक्षणा न कल्प्यते, यत्र त्वयोग्यतया मुख्यार्थान्वयाऽसम्भवः, तत्रैव सेत्याह श्रुतेति । मानान्तरेति । मानान्तरं प्रत्यक्षं, तेनोपनीतं दर्शितमित्यर्थः । अन्यथेति । यदि पर्यवसिं- प्रकाशिका। मतेनेदमुपपादनीयम् । वस्तुतो गम्भीरायां नद्यामितिवदेकपदे एव लक्षणा पदान्तरन्तु नियामक- मकरन्दः। पूर्वत्वस्य किञ्चिन्निरूप्यत्त्वादह गवयपिण्डेति । गोसदृशपदमिति । यद्यप्येतन्न पदं किन्तु
तृतीयस्तवके ] उपमानस्य प्रमाणान्तरत्वखण्डनम् । ३८१ घोष इतिवत् पदार्था एवान्वयायोग्याः, येन प्रमाणान्तरोपनीतेनाऽन्वयः स्यात् । प्रतीतवाक्यार्थबलायातोऽप्यर्थो यदि वाक्यस्यैव, दिवाभोजननिषेधवाक्यस्यापि रात्रिभोजनमर्थः स्यात् । तस्माद्यथा गवयशब्दः कस्यचिद्वाचकः शिष्टप्रयोगादिति सामान्यतो निश्चितेऽपि विशेषे मानान्तरापेक्षा, तथा गोसदृशस्य गवयशब्दो वाचक इति वाक्यान्निश्चितेऽपि सामान्ये विशेषवाचकत्वेऽस्य मानान्तरमनुस- रणीयमिति ॥ अस्त्वनुमानम्–तथाहि-गवयशब्दो गवयस्य वाचकः, असति वृत्त्यन्तरेऽभि- युक्तैस्तत्र प्रयुज्यमानत्वात्, गवि गोशब्दवदिति-चेन्न, असिद्धेः । न ह्यसति बोधनी । वगस्र्युत्तरकालं तदन्वयमपि प्रतिपादयेत्, तदा वाक्यभेदः स्यादित्याह अन्यथा इति । गङ्गायां घोष इत्यत्र मुख्यार्थस्यान्वयायोग्यत्वात्तीरलक्षणयैवान्वयप्रतीतिः, नैवमत्र सामान्यस्यैवान्वययोग्यत्वा- दिति विशेष इत्याह न च इति । ननु पर्यवस्यतां नाम वाक्यं, तथापि तत्प्रतिपादितार्थवलायत्तः समयपरिच्छेदस्तस्यैव वाक्यस्यार्थः स्यादित्यत्राह अथ इति । यथा हि भवतः साधुत्वादेव गव- यपदस्य सामान्यतोऽर्थवत्त्वे सिद्धेऽपि विशेषज्ञानार्थं वाक्यार्थापेक्षा तथा गोसदृशस्य वाचक इति वाक्यावगतेऽपि तद्विशेषार्थं मानान्तरमित्युपसंहरति तस्मात्-इति । अस्तु तर्ह्यनुमानं प्रमाणं संज्ञासंज्ञिसम्बन्धे इत्याह अस्तु इति । नासिद्धेरिति । विशेष- णासिद्धिमेवाह न हि इति । संगतिग्रहे हि सति मुख्यवृत्त्यवगमेन वृत्त्यन्तरासत्त्वं ज्ञातुं शक्यते, प्रकाशः । तेऽपि वाक्ये तत्तदाकांक्षायां तत्तद्वाक्याऽर्थज्ञानं स्यात्तदा वाक्यभेद इत्यर्थः । यत्र तु लक्षणा, तत्र नैवं वाक्यपर्यवसानमित्याह न चेति । ननु प्रतीत्यपर्यवसानाभावेऽपि प्रतीताऽपर्यवसानाद् येन विनाऽनुपपत्तिः, सोऽपि वाक्यार्थः स्यादित्याह प्रतीतेति । यदि कल्पनावौरवाद् गोसादृश्यस्य प्रवृत्तिनिमित्तत्वानुपपत्तौ गवयत्वस्य तथात्वकल्पनाऽपि वाक्यार्थः स्यात्, तदा दिवाऽभोजिनः पीन- त्वानुपपत्त्या रात्रिभोजनकल्पनापि वाक्याऽर्थः स्यादित्यर्थः । तस्मादिति । ननु सामानाधिकरण्यमात्रेणान्वयोपपत्तावपि तात्पर्यानुपपत्त्या यष्टीः प्रवेशयेति- वल्लक्षणाऽस्तु, गवयपदव्युत्पित्सुं प्रति व्युत्पत्तये हि वाक्यमासेनोक्तम् , तच्च न प्रवृत्तिनिमित्तप्रति- पादनं विना, न च गोसादृश्यं तथेति तात्पर्यतो गोसदृशपदेन गोसादृश्यसमानाधिकरणं गवयत्व- मुपलक्षितमिति कल्प्यते । न च यथा धूमोऽस्तीत्यत्राग्नौ तात्पर्यमनुमानेन निर्वहतीति न लक्षणा, तथाऽत्र मानान्तरमस्ति, येन तन्निर्वाहम् । उपमानस्यासिद्धेः । न च वाक्ये न लक्षणा, तस्या वृत्ति- त्वेन शक्तिवच्छुद्धधर्मत्वादिति वाच्यम् । एकपद एव लक्षणा, पदान्तरं तन्नियामकमित्युपगमात् । न च गोसदृशपदस्य गवयत्वे साक्षात्तात्पर्यग्रह एव लक्षणा, सा च मानाभावान्नास्ति, अन्यथा धूमोऽ- स्तीत्यत्रापि सा स्यादिति वाच्यम् । उपस्थापकान्तराभावे सति तत्तातपर्यस्यैव साक्षात्तात्पर्यरूपत्वात् । अत्राहुः । यत्र प्रवृत्तिनिमित्तविशेषबोधने न तात्पर्यं, किन्तु यो गोसदृशः स गवयशब्दवाच्य इति स्वरूपाख्यानमात्रं तत्राप्युक्तसामग्रीतः प्रवृत्तिनिमित्तविशेषपरिच्छेदः । न च तत्र तात्पर्यं, यद- नुपपत्तिर्लक्षणात्रीजं स्यात् । यत्र वा करभनिन्दातात्पर्यकं धिक्करभमित्यादिकं, तत्रापि तादृशं पिण्डमनुभवतः स्मरतश्च वाक्यार्थमयङ्करभशब्दवाच्य इति धीः । न च प्रवृत्तिनिमित्तविशेषे .तत्र तात्पर्यम् । प्रकाशिका । मात्रमित्येवमित्याकार एवाग्रे व्यक्तम् । शक्यसम्बन्धमाह गोसादृश्यसमानाधिकरणमिति । मकरन्दः । .वाक्यं, तत्र च न लक्षणा तस्याः पदधर्मत्वात् , तथाप्येकपद एव लक्षणा पदान्तरञ्च नियामक मिति
३८२ व्याख्यात्रयोपेतप्रकाशवोधनीयुते न्यायकुसुमाञ्जलौ [ १२ कारिकाव्याख्यायां वृत्त्यन्तरे तद्विषयतया प्रयोगः सङ्गतिम्विज्ञाय ज्ञातुं शक्यते । सामानाधिकरण्या- दिति चेन्न । पिण्डमात्रे सिद्धसाधनात्, निमित्ते चासिद्धेः, सादृश्यस्यानिमित्त- त्वादित्युक्तम् ॥ ननु व्याप्तिपरमिदं वाक्यं स्यात्-यो गोसदृशः स गवयपदार्थ-इति, तथा च वाक्यादवगतप्रतिबन्धोऽनुमिनुयात्-अयमसौ गवयो गोसदृशत्वादतिदेशवाक्या- वगंतपिण्डवदिति । न । विपर्ययात्, न हि गोसदृशं बुद्ध्यारोप्यानेन पृष्टः स किंशब्दवाच्य इति, किन्तु सामान्यतो गवयपदार्थमवगम्य स कीदृगिति । तथा बोधनी । तदसत्त्वविशेषिताच्च प्रयोगारसङ्गतिग्रह इतीतरेतराश्रयप्रसङ्ग इति । अस्तु तर्हि गोसदृशपदेन सामानाधिकरण्यात् गवयपदस्य गोसदृशविषयत्वसिद्धेर्गवयत्वस्य तत्सदृशत्वात्तद्वाचकत्वसिद्धिरित्याह सामानाधिकरण्यात् इति। न इति । सामानाधिकरण्येन गोसदृशपिण्डमात्रविषयताप्रयोगः स्यात्, तेन च तन्मात्रवाचकत्वमेव सिध्येत् नाभिमतं गवयत्ववाचकत्वमिति । न च निमित्तेन च गवयत्वेन सामानाधिकरण्यं सिद्धं गवयत्वस्याप्रतीतेः, प्रतीतेन तु सादृश्येन सामानाधिकरण्यसिद्धावपि नास्त्यु- पयोगस्तस्यानिमित्तत्वादित्याह निमित्ते इति । नन्विति । गवयपदवाच्यं पृष्टः साक्षात्तत्प्रतिपादनाशक्तः तदनुमानसम्पन्नौ व्याप्तिमेवावष्टे यो प्रकाशः। अस्मत्पितृचरणास्तु, सर्वत्रान्वयानुपपत्तिरेव लक्षणाबीजम् । यष्टीः प्रवेशयेत्यत्रापि प्रकर- णादिना भोजनादिप्रयोजनकप्रवेशनस्य ज्ञानात् तादृशे च प्रवेशने यष्ट्यारेरनन्वयात, तात्पर्यग्रहार्थ- मपि प्रकरणादेरवश्योपजीव्यत्वादित्याहुः । मानान्तरमिति । तर्कः प्रमाणसहकारी, न च तस्यां दशायां मानान्तरमस्तीत्युपमानं तर्कोपकार्यमास्थेयमित्यर्थः । असिद्धेरिति । वस्तुतो गवयव्यक्तिवाचकत्वसिद्धावपि गवयत्वस्य प्रवृत्तिनिमित्तत्वं न सिद्ध्यतीति भावः । गवयसामानाधिकरण्येन गोसदृशो गवय इतिवाक्यप्रतिपाद- नाद्गवयवाचकत्वं गवयपदस्य ज्ञायते इत्याह सामानाधिकरण्यादिति । गवयसामानाधिकरण्येनेत्यत्र यदि पिण्डसामानाधिकरण्यं विवक्षितं, तदा पिण्डवाचकत्वसिद्धावपि गवयत्वविशिष्टवाच्यत्वासिद्धे- र्नोपमानपरिच्छेद्यस्य मानान्तरात् प्रतीतिरित्याह पिण्डेति । गवयत्वजातिसामानाधिकरण्यं तु मानाभावादसिद्धमित्याह निमित्ते चेति ॥ प्रकाशिका । सर्वत्रान्वयेति । यद्यप्येवमपि प्रकृते लक्षणा स्यादेव प्रकरणसाचिव्येनेव प्रवृत्तिनिमित्तविशिष्टपर- त्वनिश्चयात् तस्य धर्मिमात्रेऽनन्वयात, तथापि तात्पर्यानुपपत्त्या लक्ष्णैत्येतावन्निराकरणपरोऽयं ग्रन्थः । बाधकन्तु लक्षणायां तादृशप्रकरणाद्यभावेऽपि गवयत्वप्रवृत्तिनिमित्तत्वपरिच्छेद इत्येवेति स्मर्त्तव्यम् । असिद्धिरिति, मूलं विशिष्टस्य हेतोरिति शेषः । अत एवाग्रे विशेष्यसिद्धये सामानाधिकरण्यादिति मूलम् । वस्तुत इति । गवयत्वविशिष्टवाचकत्वे च साध्ये साध्याप्रसि- द्धिरिति भावः । गवयवाचकत्वमिति । गवये प्रयुज्यमानत्वमित्यर्थः । एवमग्रेऽपि वाचकत्वपदं प्रयुज्यमानत्वपरम् । केचित्तु सामानाधिकरण्यादिति मूलं न पूर्वहेतोर्विशेष्यसिद्धिपरं किन्तु गवयप- दस्य गवयत्ववाचकत्वे साध्ये हेत्वन्तरोपदर्शनपरमेवेति यथाश्रुतप्रकाश एव सम्यगित्याहुः । पिण्ड- सामानाधिकरण्यमिति । तादृशहेतौ गवयत्वविशिष्टवाचकत्वे साध्ये द्रव्यं प्रमेयमिति वाक्ये मकरन्दः। भावः । वाक्येऽपि लक्षणेतिमतेन पदमिह वाक्यमेवोक्तमित्यन्ये । शक्यसम्बन्धमाह गोसादृश्य- समानाधिकरणमिति । सर्वत्रान्वयेति । यद्यप्येवमपि प्रकृते लक्षणा स्यादेव, उक्तप्रकरणादिना प्रवृत्तिनिमित्तवाच्यत्वज्ञानात्, तस्य च धर्मिमात्रेऽनन्वयात्, तथापि तात्पर्यानुपपत्त्या लक्षणेति परोक्तनिराकरणमात्रपरोऽयं ग्रन्थ इति प्रतिभाति । यदीति । उद्देश्यस्य व्याप्यत्वं विधेयस्य
तृतीयस्तबके ] उपमानस्य प्रमाणान्तरत्वखण्डनम् । ३८३ च यद्योगप्राथम्यास्यां तस्यैव व्याप्यत्वं, ततः किं तेन ? प्रकृतानुपयोगात् । अथ किंलक्षणकोऽसाविति प्रश्नार्थः । तदा व्यतिरेकपरं स्यात् , लक्षणस्य तथाभावात् । तथा च गोसदृशो गवय इत्यस्यार्थो यो गवय इति 'न व्यवह्रियते नासौ गोसदृश इति । एवञ्च प्रयोक्तव्यम्—अयमसौ गवय इति व्यवहर्त्तव्यः गोसदृशत्वात्, यस्तु न तथा, नासौ गोसदृशो यथा हस्ती । न च हस्त्याऽऽदीनां विपक्षत्वे प्रमाणमस्ति, सर्व्वाप्रयोगस्य दुरवधारणत्वात् , कतिपयव्यवहारस्य चानैकान्तिकत्वात् ॥ बोधनी । गोसदृशः स गवयपदवाच्य इति, ततः श्रोतुरनुमानप्रवृत्तेर्नावकाशः प्रमाणान्तरस्य इति । न इति । व्याप्यव्यापकयोर्विपर्ययादिति । तमेवाह न हि इति । अस्तु तर्हि यो गवयपदार्थः स गोसदृश इति वाक्यार्थः, तत्राह ततः किम् इति । न हि गवयपदार्थं जिज्ञासमानस्य व्याप्यत्वेन तस्य निर्देश उपयुज्यत इति । अथ इति । असौ-गवयपदार्थवाच्य इति । तदा इति । लक्षणप्रश्ने सत्युत्तरवाक्यं केवल- व्यतिरेकिहेतुप्रतिपादनपरं स्यात् लक्षणस्य केवलव्यतिरेकित्वात् । तदुक्तं तार्किकरक्षायां—“असा- धारणधर्मत्वात् व्यतिरेक्येव लक्षणम्” इति । विवृतश्च सारसंग्रहेऽस्यार्थ इति । व्यतिरेकिपरत्वे चातिदेशवाक्यस्यायमर्थः स्यादित्याह तथा च इति । एवं वाक्यावगतव्यतिरेकव्याप्तिना च नाग- रिकेण लक्षणज्ञानार्थमेवमनुमानप्रयोगः कार्य इत्याह एवं च इति । तथा नाम प्रयुक्तम् इत्यत्राह न च इति । येन विपक्षाद्व्यतिरेकः सिध्येदिति । हस्त्यादिषु गवयपदाप्रयोगस्तेषां विपक्षत्वे प्रमाण- मित्याशङ्कयाह सर्व्वेति । मा भूतर्हि व्यतिरेकिरूपलक्षणविशेषप्रश्नः, सामान्यप्रश्नस्तु भविष्यति- प्रकाशः। न हीति ॥ येन सादृश्यस्य व्याप्यत्वं स्यादिति शेषः । यदि गोसदृशः किंशब्दवाच्य इति पृच्छेत् , तदा तमुद्दिश्य गवयशब्दवाच्य इति विदध्यादपि तु कीदृग्गवय इति पृष्टः, तथा च यो गवयशब्दवाच्यः स गोसदृश इति उत्तरयतो विपरीत एव व्याप्यव्यापकभाव इत्यर्थः । यद्योगेति । व्याप्यं यच्छब्देन पूर्वमुद्दिश्यते यथा यो धूमवान् सोऽग्निमानित्यर्थः ॥ यद्योगप्राथम्याभावेऽपि गन्धवती पृथिवीत्यादिवद्व्यतिरेकिरूपलक्षणपरत्वं स्यादित्याह— अथेति ॥ हस्त्यादीनां गवयव्यवहाराविषयत्वं तत्राप्रयोगेण निश्चेयं, तत्राह सर्व्वेति । न चैवं व्यवहारसाध्ये सर्वत्र लक्षणोच्छेदः स्यादिति वाच्यम् । यथा पृथिवीत्वेन पृथिवीपदवाच्यत्वं साध्यते, तथा गवयत्वेन निमित्तेन गवयपदवाच्यत्वस्य साधयितुमशक्यत्वात् , गवयत्वस्यातिदेश- वाक्यादप्रतीतेः । प्रकाशिका । प्रमेयपदे व्यभिचार इति धर्मिवाचकत्वमात्रं साध्यम् , तथा च तत्सिद्धावपि न विशिष्टवाचकत्वसि- द्धिरित्यर्थः । विदध्यादिति । तथा सति च विधेयस्य गवयशब्दवाच्यत्वस्य व्यापकता प्रतीये- तेति भावः । कीदृग् गवय इति । गवयपदवाच्यः कीदृगित्यर्थः । तथा चेति । न तु यो गोस- दृशः स गवयपदवाच्य इत्युत्तरम् येन ययोगादिना गोसादृश्यस्य व्याप्यत्वं प्रतीयेतेति भावः । पृथिवी- त्वेनेति । पृथिवीत्वनिमित्तकपृथिवीपदवाच्यत्वेनेत्यर्थः । एवमग्रे गवयत्वेनेत्यत्रापि धर्मिमात्रवा- मकरन्दः । व्यापकत्वं प्रतीयते इति भावः । कीदृग् गवय इति । गवयपदवाच्यः कीदृगित्यर्थः । गवयत्व- विशिष्टत्ववाच्यत्वमेवमपि न सिद्ध्यतीत्यपि बोध्यम् । तथा चेति । न तु यो गोसदृशः स गवयपद- वाच्य इत्युत्तरं, येन गोसादृश्यस्य वाच्यत्वं यद्योगादिना लभ्येतेति भावः । पृथिवीत्वेनेति । पृथिवीत्वनिमित्तकपृथिवीपदवाच्यत्वमित्यर्थः । गवयत्वेनेति । गवयत्वनिमित्तकगवयपदवाच्यत्व-
३८४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १२ कारिकाव्याख्यायां ननु लिङ्गमात्रे प्रश्नो भविष्यति - कीदृक् किं लिङ्गमिति । न । न ह्यनेन लिङ्गम- विज्ञाय गवयशब्दस्य वाचकत्वं कस्यचिद्वाच्यत्वं वाऽवगतं, येन तदर्थः प्रश्नः स्यात् । प्रवृत्तिनिमित्तविशेषलिङ्गे प्रश्नो, येन निमित्तेन गवयशब्दः प्रवर्त्तते तस्य किं लिङ्गमिति चेन्न । न हि तद्वश्यमनुमेयमेवेत्यनेन निश्चितं, यत इदं स्यात् । ज्ञानोपायमात्रप्रश्ने तद्विशेषेणोत्तरमिति चेन्न । अविशेषादिन्द्रियसन्निकर्षमप्युत्तर- येत्। पर्यायान्तरं वा, —यथा गवयमहं कथं जानीयामिति प्रश्ने, वनं गतो द्रक्ष्य- सीति। यथा वा कः पिक इत्यत्र, कोकिल इति । तस्मान्निमित्तभेदप्रश्न एवार्थं, गवयो गवयपदवाच्यः कीदृक् केन निमित्तेनेति युक्तमुत्पश्यामः ॥ · बोधनी । केन लिङ्गेन गवयपदार्थं जानीम—इति तदेतदाह ननु इति । न इति । जिज्ञासितविषयो हि प्रश्नः, यद्यनेन प्रष्ट्रा गवयपदप्रवृत्तिनिमित्तं ज्ञात्वा तस्य लिङ्गमात्रमेवाविज्ञातं जिज्ञास्येत तदा हि तदेव पृष्टं भवेदस्य तु प्रवृत्तिनिमित्तमेवावगतं जिज्ञासमानस्य तदेव प्रष्टुं युक्तमिति । तर्हि प्रवृत्ति- निमित्तमेव जिज्ञासमानस्य तत्र ज्ञानोत्पादाय लिङ्गप्रश्नो भविष्यतीत्याह प्रवृत्तिनिमित्तेति । न इति । स्पष्टम् । ननु ज्ञानोपायमात्रे जिज्ञासुराप्राक्षीदितरस्तु लिङ्गस्य तदुपायत्वात् तेनैवोप- येनोदतीतरदित्याह ज्ञानोपायेति । तर्हि ज्ञानोपायत्वाविशेषात्प्रत्यक्षं पर्यायान्तरं वोत्तरयेदित्याह न इति । न हि तल्लिङ्गैकवेद्यमिति भावः । गत्यन्तराभावादयमेव प्रश्नवाक्यार्थ इत्याह तस्मात् इति । तर्हि गवयत्वमेवोप दिशेत् न गोसादृश्यं तत्राह तस्य च इति । किमनेनोपमानस्य सिध्यतीत्यत्राह तच्च इति । तद्वाक्यं सादृश्यात्मकमुपलक्षणं चोपमानसामग्री वाक्यार्थस्मरणसह- प्रकाशः । न ह्यनेनेति । अज्ञातसामान्यस्य विशेषजिज्ञासा न युक्तेति भावः । उपसंहरति । तस्मादिति । ननु यदि निमित्तप्रश्नस्तत् किं तदेव नोत्तरयतीत्यत आह तस्य चेति । व्युत्पाद्यस्याप्रती- तगवयत्वजातिकत्वादिति भावः । तच्चेति । सामग्र्युत्थानानुकूलमित्यर्थः ॥ ननु सादृश्यप्रवृत्तिनिमित्ततायां गौरवानवतारे नोपमानस्याऽप्यवतारः, तथा च तर्केणेतरा- प्रवृत्तिनिमित्तकत्वे निश्चिते गवयपदं गवयत्वप्रवृत्तिनिमित्तकम् इतरप्रवृत्तिनिमित्तकत्वे सति सप्रवृत्तिनिमित्तकत्वात् , यन्नैवं तन्नैवमिति चेन्न । तर्कस्यानिश्चायकत्वात् । न चायं तर्को व्याप्ति- मूलको येन विपर्ययानुमानादर्थसिद्धिः स्यात् । न च गवयपदं किञ्चित्प्रवृत्तिनिमित्तकमिति सामान्यतो दृष्टमेव तर्कसहकृतं गवयपदस्येतराप्रवृत्तिनिमित्तकतां परिच्छिनत्ति, न तु मानान्तरं कल्पयित्वा तर्कः सहकारी कल्प्यते इति वाच्यम् । इदं सप्रवृत्तिनिमित्तमन्यच्च न प्रवृत्तिनिमित्तमिति बुद्धावपि प्रकाशिका । चकत्वस्य शब्दादेव प्रतीतेरिति भावः । अज्ञातेति । धर्म्मितावच्छेदकविशिष्टधर्म्यज्ञानेन तद्धर्म्म- विशेषजिज्ञासेत्यर्थः । तथा च, गवयपदवाच्यप्रतीतौ तल्लिङ्गमपि प्रतीतमेव प्रकारान्तरेण तदप्रतीते- रिति लिङ्गस्य तदप्रतीतत्वादेव न तत्र प्रश्नो गवयपदवाच्याज्ञाने न धर्म्मप्रतीतिरेव न तत्र प्रश्न इत्यर्थः । यद्वा गवयपदवाच्यस्य किञ्चिल्लिङ्गमस्तीति यदा न ज्ञानं तदा कथं लिङ्गविशेषजिज्ञासा अज्ञातसामान्यस्य विशेषजिज्ञासाविरहादित्यर्थः । अत्र च पठेऽविज्ञायेत्यस्य मूलस्य सामान्यतो ज्ञात्वेत्यर्थः । अयमिति । लाघवाद्य इत्यर्थः । अन्यच्च न प्रवृत्तिनिमित्तमिति । विशेषंत मकरन्दः । स्येत्यर्थः । धर्मिमात्रवाच्यत्वस्य शब्दादेव प्रतीतेरिति भावः । अज्ञातेति । गवयपदवाच्यस्य प्रतीतौ स किंलिङ्गक इति प्रश्नः, तत्प्रतीतिश्च तस्य लिङ्गादेव जातेति लिङ्गस्य ज्ञातत्वान्न तत्र प्रश्न इति भावः । अयमिति । लाघवाख्य इत्यर्थः । अनुमितेरिति । तथा चेतराप्रवृत्तिनिमित्तकतां परिच्छिनत्ती-
तृतीयस्तवके] उपमानस्य प्रमाणान्तरत्वखण्डनम् । ३८५ तस्य च निमित्तविशेषस्य साक्षादुपदर्शयितुमशक्यत्वात् पृष्टस्तदुपलक्षणं किञ्चिदाचष्टे, तच्चोपमानसामग्रीसमुत्थापनमेव । तस्य च प्रमाणस्य सतस्तर्कः सहायतामापद्यते, सादृश्यस्यैव निमित्ततायां कल्पनागौरवम्, निमित्तान्तरकल्पने च क्लृप्तकल्प्यविरोध इति तदेव निमित्तमवगच्छतीति ॥ बोधनी। कृतसादृश्यप्रत्यभिज्ञानरूपमुत्था प्यतीति किमेतावता गवयत्वमेव प्रवृत्तिनिमित्तमिति सिध्यतीत्याह- तस्य च इति । तर्कस्वरूपमाह - सादृश्यस्य इति । प्रकाशः । गवयत्वप्रवृत्तिनिमित्तकं गवयपदमिति मानान्तरमन्तरेणाप्रतीतेः, अनुमितेर्व्यापकतावच्छेदकप्र- कारकत्वात् ॥ ननु यथेच्छायां सामान्यतोदृष्टेन विशेषबाधकसहकृतेनाष्टद्रव्यानाश्रयत्वं ज्ञायते, अन्यथा विशेषबाधकानां पृथिव्याद्येकैकमात्रव्यतिरेकविषयत्वेनाष्टद्रव्यानाश्रयत्वं केन ग्राह्यम् , तथात्रापि गौरवाऽऽढ्यतर्कसहकृतसामान्यतोदृष्टादितराप्रवृत्तिनिमित्तकत्वे निश्चिते पश्चाद्व्यतिरेकि स्यात् , कल्प्यमानान्तरसहकारित्वापेक्षया क्लृप्तप्रमाणसहकारित्वस्य युक्तत्वात् ॥ मैवम् । इच्छायामेकैकबाधसहकृतापरापरबाधकैरेव तावद्विशिष्टवैशिष्ट्यरूपमष्टद्रव्यानाश्रयत्वप- रिच्छेदात् , न तु सामान्यतोदृष्टेन, विशेषणद्वयोपस्थित्यैव विशिष्टवैशिष्ट्यज्ञाननिर्वाहात् , तर्का- नवतारदशायां तस्य तदपरिच्छेदकत्वाच्चेति सङ्क्षेपः ॥ प्रकाशिका। उपस्थितं गोसादृश्यादित्यर्थः । मानान्तरमन्तरेणेति । सामान्यत इतराप्रवृत्तिनिमित्तकत्वज्ञा- नाभावेन व्यतिरेकिणोऽप्रवृत्तेरिति भावः । ननु सामान्यतोदृष्टादेवेतराप्रवृत्तिनिमित्तकत्वसिद्धि- रित्यदूषितमेवेत्यत आह अनुमितेरिति । तथात्रापीति । उक्तान्यथानुपपत्त्याऽनुमितेर्व्यापक- तावच्छेदकमात्रप्रकारकत्वमसिद्धमेवेत्याशयः । व्यतिरेकीति । पूर्वोक्तव्यतिरेकीत्यर्थः । अनु- मितेर्व्यापकतावच्छेदकप्रकारकत्वनियमभङ्गो यत्रानुपपत्त्या स्वीकरणीयः, तमेव खण्डयति इच्छा- यामिति । इदमुपलक्षणम् पृथिव्यनाश्रितत्वादिकं प्रत्येकमेव हेतुविशेषणमिति द्रष्टव्यम् । तर्काऽनवतारेति । सामान्यतोदृष्टस्येतराप्रवृत्तिनिमित्तकत्वापरिच्छेदकत्वादित्यर्थः । तथा च मकरन्दः। त्यप्युक्तमिति । तथाऽत्रापीति । अनुमितेर्व्यापकतावच्छेदकप्रकारकत्वनियमोऽसिद्ध एवेत्याशयः। व्यतिरेकीति । पूर्वोक्तव्यतिरेकीत्यर्थः । तस्य सामान्यतोदृष्टस्य । तदपरिच्छेदकत्वात् इतरा- प्रवृत्तिनिमित्तकत्वापरिच्छेदकत्वात्, तर्कसहकारेणैव तस्य तथात्वाभ्युपगमादिति भावः । यद्यपि तद्दशायां नोपमानस्याप्यवतारः, तथापि तर्कावतारे सामान्यतोदृष्टस्य किञ्चित्प्रवृत्तिनिमित्तकत्व- मात्रमनुमाय पर्यवसितत्वादग्रे पुनस्तर्कावतारे उपमानप्रवृत्तिरप्रत्यूहैवेति भावः । अत्रेदमलोच- नीयम्—क्लृप्तप्रमाणभावस्य सामान्यतोदृष्टस्य पुनरनुसन्धानमात्रं कल्पयितुमर्हं लाघवात् , न तु मानान्तरं, गौरवात् । न च पुनरनुसन्धीयमानादपि तर्कसहकृतादपि तस्मादितराप्रवृत्तिनिमित्तकत्व- परिच्छेदोऽनुमितेर्व्यापकतावच्छेदकप्रकारकत्वनियमादिति वाच्यम् । लाघवगौरवसहकारेण व्यापक- तानवच्छेदकस्यापि भानाभ्युपगमात् , अत एवेश्वरानुमाने क्षित्यादिकमेकमात्रकर्तृकत्वानुमितिः, अस्तु वा तथा, तथापि इतरद् न प्रवृत्तिनिमित्तं गुरुत्वादिति मानान्तरादितराप्रवृत्तिनिमित्तकत्वनिश्चये उक्तव्यतिरेकिणा गवयत्वप्रवृत्तिनिमित्तकत्वसिद्धिरविकलैव । न च साध्याप्रसिद्धेनं तत्सिद्धिरिति वाच्यम् । तथा सत्युपमानादपि तद्विशिष्टबुद्ध्यनुदयापत्तेः, विशेषणज्ञानं विना तदभावात् । टिप्पणी । तर्काऽनवतारदशायां तस्य तदपरिच्छेदकत्वाच्चेति । तदानीम्पर्यवसितस्य तस्य प्रत्य- ४६ न्या० कु०
३८६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १२ कारिकाव्याख्यायां लक्षणन्तत्त्वस्य - अनवगतसङ्गतिसंज्ञासमभिव्याहृतवाक्यार्थस्य संज्ञिन्यनुसन्धा- नमुपमानम् । वाक्यार्थश्च क्वचित् साध्यर्म्यं क्वचिद्वैधर्म्यमतो नाव्यापकम्, तस्मान्नि- यतविषयत्वादेव न तेन बाधो, न त्वनतिरेकादिति स्थितिः ॥ १२ ॥ बोधनी । एवमुपमानस्य प्रमाणान्तरेभ्यो विषयभेदाद् भेदं दर्शयित्वा लक्षणतोऽप्याह लक्षणं तु इति । अनवगतस्वार्थसम्बन्धया गवयादिसंज्ञया समभिव्याहृतं यद्वाक्यमतिदेशवाक्यमिति यावत्, तस्य योऽर्थस्तस्य संज्ञिनि गवयादिपिण्डे यदनुसंधानमयमसो गोसदृश इत्यादि प्रत्यभिज्ञानं तदुपमानमिति। नन्वव्यापकमेतत्, कीदृगश्व इति हि प्रश्ने गवयादिविलक्षणः केसरादिमानश्व इति वैधर्म्यरूप- वाक्यार्थप्रत्यभिज्ञानस्याप्युपमानत्वेनेष्टत्वादित्यत्राह वाक्यार्थश्च इति । ननु तथाप्यव्यापकं 'कीदृक्करभ' इति पृष्टेनोदीच्येनोदीरितं 'दीर्घग्रीवः प्रलम्बोष्ठः कठोरतीक्ष्णकण्टकाशी पशुः करभ' इति वाक्यं श्रुतवतो दाक्षिणात्यस्योत्तरपथे पुनस्तादृशपिण्डे तांस्तान् धर्मान् प्रत्यभिजानानस्यायं करभशब्दवाच्य इति । यथोक्तं तार्किकरक्षायाम्- अत्रातिदेशवाक्यार्थस्त्रिविधः परिगृह्यते । साधर्म्यं धर्ममात्रं च वैधर्म्यं चेति भेदतः ॥ इति । परमप्रकृतमुपसंहरति तस्मात्-इति । नियतविषयत्वात्संज्ञासंज्ञिसंबन्धमात्रविषयत्वादिति ॥१२॥ प्रकाशः । एवमुपमानस्य क्लृप्तमानातिरेकं प्रसाध्याव्याप्तिं परिहर्तुं लक्षणमाह लक्षणन्त्विति ॥ अनव- गतसङ्गतिकासौ संज्ञा चेति कर्मधारयः । न च गोविसदृशो न गवयपदवाच्य इत्यत्र अर्थादापद्यते -गोसदृशो गवयपदवाच्य इति, तथा च नात्र वाक्यार्थानुसन्धानमस्तीति वाच्यम् । परम्परया तत्रापि -वाक्य तात्पर्यात् । वस्तुतस्तु उपमितिकरणत्वमुपमानत्वम्, उपमितित्वञ्च जातिः । न च तदसिद्धिः। -सामग्रीविशेषे कार्यवैजात्यमावश्यकमिति कारणव्यङ्ग्यत्वात्, सैव सामग्री अनवगतसङ्गतिरित्यादिना -दर्शिता । क्वचिद्वैधर्म्यमिति ॥ धिक्करभमतिदीर्घग्रीवमित्यादौ ॥ प्रकृतमुपसंहरति तस्मादिति ॥१२॥ प्रकाशिका । तदनवतारदशायां सामान्यतोदृष्टे पर्यवसिते यत्रोत्तरकालं तर्कावतारः, तत्रोपमानं मानान्तरं सामान्यतोदृष्टपुनरनुसन्धानस्यानुभवकलहग्रस्तत्वादिति भावः । वस्तुतोऽनुमितेर्व्यापकतावच्छे- दकप्रकारेकेत्यादिपूर्वोक्तबाधकमेव सम्यगिति । अत्र वदन्ति-प्रमाणान्तरकल्पनापेक्षया सामा- न्यतोदृष्टानुसन्धानकल्पनमेव लघु, अन्यथा प्राङ्नास्तितास्थले लिङ्गानुसंधानकल्पनं न स्यादि- त्यनुपलब्धेर्मानान्तरतापत्तिः । न चानुमितेर्व्यापकतावच्छेदकप्रकारकत्वनियमः, क्षित्यादौ लाघवेनैक- मात्रकर्तृकत्वानुमानाभावापत्तिः । न चेष्टापत्तिः, एकानककर्तृकत्वसंशयापत्तेः, तस्मात् सप्रवृत्तितिनिमि- त्तिकत्वानु ( रोधेन ) मानमेवेतरप्रवृत्तिनिमित्तकत्वं विषयीकरोति, पक्षादुक्तव्यतिरेकिणा गवयत्व- मकरन्दः । यदि च गवयत्वं किञ्चित्पदप्रवृत्तिनिमित्तं जातिविशेषत्वादित्यादिना तस्य तुल्यवित्तिवेद्यतया किञ्चित्पदे तत्प्रसिद्धिसम्भवात्तथात्वं, तदा प्रकृतेऽपि तुल्यम् । व्यतिरेक्यन्तरेऽपीयमेव गतिः । किञ्च यथा देवदत्तो जीवनमरणान्यतरप्रतियोगी प्राणित्वादिति सामान्यतोदृष्टं तर्कसहकृतं पुनरनु- सन्धीयमानं जीवित्वप्रकारकं ज्ञानं जनयति, तथा गवयपदं गवयत्वतदितरान्यतरप्रवृत्तिनिमित्तकं पदत्वादिति सामान्यतोदृष्टं तर्कसहकृतमनुसन्धीयमानं गवयत्वप्रवृत्तिनिमित्तकत्वं परिच्छिनत्तु, कृतं मानान्तरेण । तदाह गङ्गेशः- 'विचित्रसहकारिवलेनैकस्यापि विचित्रफलजनकत्वादिति' । अन्यथा टिप्पणी । चेण परत्वोपस्थितौ तर्कसाम्राज्ये पुनः परिच्छेदकत्वासम्भवादिति भावः ।
तृतीयस्तवके ] उपमानस्य प्रमाणान्तरत्वखण्डनम् । ३६७
प्रकाशिका । प्रवृत्तिनिमित्तकत्वं गृह्यते । सामान्यतोदृष्टमेव वा गवयत्वप्रवृत्तिनिमित्तकत्वप्रकारकमुकलाघवसह- कारादिति । तदयुक्तम्—लाघवस्य विशेषविषयीकरणमात्रे सामर्थ्येन इतराप्रवृत्तिनिमित्तकत्ववि- षयतायां मानाभावात् तस्य व्यापकतावच्छेदक(ना)क्रान्तत्वात् । अत एव गवयत्वप्रवृत्तिनिमित्तप्रकार- कत्वमपि, सामान्यतोदृष्टस्यासंभवितस्य व्यापकतानवच्छेदकतया प्रकारत्वासम्भवात् , ईश्वरातुमानेऽ- प्येकमात्रकर्तृकत्वं प्रमाणान्तरगम्यमेव । यत्तु इतरन्न प्रवृत्तिनिमित्तं गुरुत्वादित्यनुमानेनेतराप्रवृत्तिनिमि- त्तकत्वावधारणमिति । तत्तूच्छम् । जात्यात्मकस्याप्यन्यस्य पक्षीकरणे हेतोरसिद्धेः । अपक्षीकरणे च तस्यैवोदासात् । न चैवमुपमानेनापि कथं गवयत्वस्य प्रवृत्तिनिमित्तपरिच्छेदः, अनुपस्थितानां तत्त्वेनोपस्थितानाञ्चातिप्रसङ्गौरवादिना निरासात् । न च स्वन्मते तथा घटेत, तदप्रवृत्तिनिमित्त- कस्य लिङ्गीभूतस्यानिश्चयात् । अस्तु वा इतराप्रवृत्तिनिमित्तकत्वपरिच्छेदो यथातथा, तथापि न व्यतिरेकिप्रवृत्तिः, गवयत्वप्रवृत्तिनिमित्तकत्वसाध्याप्रसिद्धेः । न च गवयत्वं किञ्चित्पदप्रवृत्ति- मकरन्दः । तत्र लिङ्गविशेषणजीविन्त्वानिश्चये अर्थापत्तिर्लब्धावकाशा स्यात् । तस्मात् त्यज चोपमानं मानान्तरं, स्वीकुरु वाऽर्थापत्ति संशयकरणिकामन्यामिति । वस्तुतस्तु संज्ञासंज्ञिपरिच्छेद उपमानार्थ इत्याकर एव स्फुटं, न तु प्रवृत्तिनिमित्तपर्य्यन्तपरिच्छेदोऽपि, तस्य शक्यत्वे शक्यवृत्तित्वे इत्यादिघटितस्य नियमत'उपस्थितौ मानाभावात् , तद्गृहस्य व्यवहारानङ्गत्वेनानुद्देश्यत्वाच्च, तथा च गवयत्वविशिष्ट- वाच्यत्वसिद्धिरवोद्देश्या । तदिदमुक्तम्—पिण्डवाचकत्वसिद्धावपि गवयत्वसिद्धावपि गवयत्वविशिष्ट- वाच्यत्वासिद्धेर्नोपमानपरिच्छेदस्य मानान्तरात् प्रतीतिरिति । एवञ्च शब्दाद्विशेष्यवाच्यत्वावगमेऽपि गवयत्ववाच्यत्वपरिच्छेदार्थमुपमानस्वीकार इति परमार्थः । तदिदमुक्तमाकरे 'सामान्यविशेषवाचक- त्वेऽस्य मानान्तरमनुसरणीयमिति' । तन्न ब्रूमः । एवं व्यवहारादेरपि शक्तिग्राहकस्य व्यक्तिग्राहकस्य व्यक्तिमात्रविषयत्वात् घटत्वादिवाच्यत्वग्रहार्थं मानान्तरमनुस्रियेत, यदि च लाघवादिसहकृतं व्यक्तिशक्तिग्राहकमेव तद्ग्राहकं, तदा प्रकृतेऽपि तुल्यम् । तदिदमुक्तं गङ्गेशेन—'शक्तिग्राहकमेव लाघवादिसहकृतं निमित्तमप्यवधारयति, यथा क्षित्यादौ कर्तृग्राहकं कर्तुरेकतामिति' । ननु प्रकृते विशिष्टशक्तिग्राहकं नास्ति शब्दस्य गवयत्वोपस्थितिकाले पर्य्यवसितत्वादिति चेत् । न । गवयत्व- विशिष्टोऽयं गवयपदवाच्यः गोसदृशत्वादित्यादेर्लाघवसहकृतस्य सत्त्वात् लिङ्गाभासादिनाप्यनुमित्य- विरोधाच्च । अन्यथा व्यवहारादिना घटत्वादिविशिष्टशक्तिग्रहोऽप्यशक्यः । यद्वा धर्मिवाच्यत्वे शब्दादेव सिद्धे गवयत्वं गवयपदवाच्यं गवयत्वादिति व्यतिरेकिणा लाघवसहकृतेन तद्वाच्यत्व- सिद्धिः । तस्मात् पिण्डादेः सपक्षाद्व्यावृत्तावसाधारण्यं, तस्य सत्प्रतिपक्षोत्थापकतया दोषत्वादस्य च तर्कसहकारेणाधिकबलत्वात् । अस्तु वा गवयपदप्रवृत्तिनिमित्तत्वमेव साध्यम्, तथा च सपक्षा- भावान्नासाधारण्यम् । न च साध्याप्रसिद्धिः, गवयपदं किञ्चित्प्रवृत्तिनिमित्तकमिति सामान्यतोदृष्टादेव सामान्यतस्तत्सिद्धेः । न च व्याप्त्याद्यप्रतिसन्धानदशायामपि तत्परिच्छेदान्नैवमिति वाच्यम्, माना- भावात् । अन्यथा मूलप्रकाशयोरनुमानदूषणप्रयासस्यासङ्गतत्वापातात् । तददुष्टत्वेऽपि तदनवतारे उपमानावतारसम्भवात् । तथा च यन्न यत्परिच्छेदस्तत्र क्लुप्तप्रमाणभावस्यैवावतारः कल्प्यते, लाघवात् , अतीन्द्रियादिलिङ्गे व्याप्यत्वपरामर्शवदुपपनयसहकृतेन मनसा विशिष्टवाच्यत्वपरिच्छेद- सम्भवाच्च । न चोपमिनोमीत्यनुव्यवसायबलाद्विजातीयप्रमासिद्धौ तत्करणसिद्धिरिति वाच्यम् । संज्ञासंज्ञिसम्बन्धबुद्धौ तादृशानुव्यवसायासिद्धेः । गव। गवयमुपमिनोमीत्यनुव्यवसायस्य सादृश्यबुद्धि- विषयत्वात् , अत एवान्यत्रापि मुखचन्द्रादिसादृश्यप्रतीतौ तथेति विद्वद्भिः परिचिन्तनीयमिति । नन्विदमुपमित्यावेवातिव्याप्तं लिङ्गोपहितलैङ्गिकभानवत् सादृश्यज्ञानोपनीतस्य तत्र भानसम्भवादित्य- रुचेराह वस्तुतस्त्विति ॥ १२ ॥
३८८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १३ कारिकाव्याख्यायौ शब्दोऽपि न बाधकमनुमानान्तरैकादिति वैशेषिकादयः । तथाहि—यद्यप्येते बोधनी । अथ प्रमाणान्तरस्यैव सतः शब्दस्याबाधकत्वं प्रतिपादयिष्यन्मतान्तरं तावदाह शब्दोऽपि इति । अनुमानान्तरैकात्तस्य चाबाधकत्वस्य स्थितत्वादिति शेषः । द्वयोरपि ‘यद्यपि’शब्दयोः तथापीति वक्ष्यमाणेन संबन्धः । पदार्थत्वस्य घटपटादिभिर्नैकान्तिकता, पदस्मारितत्वस्य तु गौरश्वः पुरुषो हस्तोत्यादिपदस्मारितैः, पदपक्षीकारेऽपि पूर्वोक्तदोषस्तावदस्ति, तन्निस्तारेऽपि साध्याभावेन बाधितविषयत्वं पदानां पदार्थसंसर्गेण सह संयोगादिसंबन्धलक्षणस्य मत्वर्थस्याभावाज्ज्ञापकत्वलक्ष- णस्य चानुमानप्रवृत्त्युत्तरकालीनत्वेन ततः पूर्वं भवतामसिद्धत्वादिति । तर्हि लिङ्गतया ज्ञापकत्वमेव प्रकाशः । शब्दोऽपीति ॥ यद्यपि शब्दस्याबाधकत्वेऽनुमानान्तरैक्तित्वं न हेतुरनुमानात्मकस्यैव शब्दस्य बाधकत्वसम्भवात् , तथाप्यनुमानबाधकत्वनिरासेनैव शब्दबाधकत्वमपि निरस्तमित्यर्थः । अनुमा- नान्तरैकादिति ल्यब्लोपे पञ्चमी । अनुमानाभेदं प्राप्य शब्दो न बाधकं, ‘प्रकृतेः क्रियमाणानि-’ इत्यादिशब्दस्य वक्तृय्युक्त्याऽन्यपरत्वादित्यन्ये ॥ प्रकाशिका । निमित्तम् द्रव्यवृत्तिजातित्वादित्यनुमानेन पदेऽपि गवयत्वप्रवृत्तिनिमित्तकतां समानसंवित्संवेद्य- तया विषयीकुर्वता साध्यप्रसिद्धिरिति वाच्यम् । बाल्यादिभिन्नगवादिशरीरवृत्तिजातौ व्यभिचारात् । उपमानेन तु गवयत्वस्यावच्छेदकत्वलक्षणः सम्बन्धः प्रथमं संसर्गविधया विषयीक्रियत इति न तज्ज्ञानापेक्षा तत्र । ननु तथापि यथा देवदत्तो जीवनमरणान्यतरप्रतियोगी प्राणित्वादिति सामा- न्यतोदृष्टेन जीवित्वे निश्चिते तेन लिङ्गेन बहिःसत्त्वनिश्चयेनार्थार्पत्तिर्मानान्तरम् , तथा गवयपदं गवयत्वतदितरान्तरप्रवृत्तिनिमित्तकमिति सामान्यतोदृष्टं लाघवसहकृतं गवयत्वप्रवृत्तिनिमित्तकतां विषयीकरोतीति नोपमानं मानान्तरम् , तथा च गङ्गेशः ‘विचित्रसहकारिबलेनेकस्यापि विचित्रकार्य- जनकत्वा’दिति, अन्यथा संशयकरणकार्थापत्तेरपि मानान्तरत्वप्रसङ्ग इति । मैवम् । आकाशपदे व्यभि- चारात् । नचतदपि सप्रवृत्तिनिमित्तमिति वाच्यम् । अस्तु तथा, तथापि हेतुसत्त्वसन्देहदशायां व्यभि- चारासंशयेनानुमानाप्रवृत्तारे उपमानस्यैव प्रमाणत्वात् । एतेन प्रत्यक्षवाचकपदत्वादिति हेतुरित्यपा- स्तम् । बाल्यादिभेदेऽप्यभिन्नमेव शरीरमित्यभिमानदशायां चैत्रादिपदे व्यभिचारसंशयात् । यत्तु व्यवहारेण शक्तिग्रहे यथा धर्मिणि शक्तिग्राहकमेव धर्मस्यावच्छेदकतामवगाहते तथा प्रकृते- पीति मतम् , तन्न, तत्रानुमानवदत्र तादृशप्रमाणाभावात् शब्दस्य प्रागेव पर्यवसानात् । न च गवय- त्वविशिष्टोऽयं गवयपदवाच्यो गोसदृशत्वादित्तिदेशवाक्यावगतपिण्डवदित्यनुमानेन प्रवृत्तिनिमित्त- परिच्छेदः, लिङ्गस्य व्यभिचारात् , व्यभिचारास्फुरणदशायामुत्पन्नानुमितिरिवाधेन प्रमेयेमिति वाच्यम् । तत्स्फुरणदशायामपि सङ्केतपरिच्छेदात् । यत्तु गवयत्वं गवयपदप्रवृत्तिनिमित्तं गवयत्वत्वा- दित्यनुमानेन प्रवृत्तिनिमित्तत्वपरिच्छेद इति । तन्न । साध्याप्रसिद्धेरित्यास्तां विस्तरः । यत्तूपमिनो- मोत्यनुव्यवसायेन विजातीयज्ञानसिद्धौ तत्करणं मानान्तरमिति मतम् । तदयुक्तम् । सङ्केतज्ञाने तादृगनुव्य- वसायाभावात् तस्य सादृश्यबुद्धिविषयकत्वात्, अत एव चन्द्रेण मुखमुपमीनोमीत्याकारकोऽनुव्यवसाय इति । अनवगतसङ्केतेतिपदस्य बहुव्रीह्यन्तस्य पुरुषपरत्वभ्रमो मा भूदित्यत आह कर्म्मधारय इति । वाक्यार्थतात्पर्यादिति । तथा च लक्षणे वाक्यार्थानुसन्धानं वाक्यातात्पर्यविषया- नुसन्धानमेव विवक्षितमिति भावः । ननु प्रसिद्धपदसामानाधिकरण्येन यत्र सङ्केतज्ञानं तत्रातिव्याप्तिः, किञ्च लिङ्गोपहितलैङ्गिकभानवत् सादृश्योपहितसङ्केतमानाभ्युपगमे उपमितावेवाति- व्याप्तिरित्यरुचेराह वस्तुतस्त्विति ॥ १२ ॥
तृतीयस्तबके ] शब्दस्य बाधकत्वखण्डनम् । ३८६ पदार्था मिथः संसर्गवन्तो वाक्यत्वादिति व्यधिकरणं, पदार्थत्वादिति चाऽनैका- न्तिकं, पदैः स्मारितत्वादित्यपि तथा। यद्यपि चैतानि पदानि स्मारितार्थसंसर्गवन्ति तत्स्मारकत्वादित्यादौ साध्याभावः। नह्यत्र मत्वर्थः संयोगः समवायस्तादात्म्यं विशेषणविशेष्यभावो वा सम्भवति । ज्ञाप्यज्ञापकभावस्तु स्वातन्त्र्येणानुमानान्तर्भा- ववादिभिर्नेष्यते। न च लिङ्गतया ज्ञापकत्वं, यल्लिङ्गस्य विषयस्तदेव तस्य, पर- स्पराश्रयप्रसङ्गात्—तदुपलम्भे हि व्याप्तिसिद्धिस्तत्सिद्धौ च तदनुमानमिति ॥ बोधनी । मत्वर्थः साध्यः स्यादित्याह न च लिङ्गतया इति । प्रसङ्गमेवाह तदुपलम्भे इति । तस्य लिङ्ग- तया ज्ञापकत्वस्य साध्यस्योपलम्भे हि सति तेन सह शब्दलिङ्गस्य व्याप्तिनिश्चयः तन्निश्चये च ज्ञाप- कत्वानुमानमिति प्रकारान्तरासम्भवेऽनतिरेक एव, पदार्थपक्षीकारेण तु तेषां मिथः संसर्गस्यैवमनुमा- प्रकाशः। पदानां तदर्थानां वाऽऽकाङ्क्षादिमतां वाक्यार्थप्रत्ययाने लिङ्गभावेनैव करणत्वमस्तु, किं शब्दे- नातिरिक्तमानेनेत्यभिप्रेत्य पदार्थकरणत्वपक्षेऽनुमानामेदं साधयति यद्यपीति ॥ अनैकान्ति- कमिति ॥ निराकाङ्क्षादिभिरित्यर्थः ॥ तथेति ॥ तैरेवानैकान्तिकमित्यर्थः । पदकरणत्वमाश्रि- त्याह यद्यपि चेति ॥ समवाय इति ॥ न पदार्थसंसर्गाणां पदेषु समवाय इत्यर्थः ॥ विशे- षणेति ॥ स हि पदार्थानां मिथोऽन्वयो न पदधर्म इत्यर्थः ॥ न चेति ॥ लिङ्गतया ज्ञापकत्वं यच्छ- ब्दस्य, तदेव तस्य लिङ्गस्य तत्स्मारकत्वादित्यर्थस्य विषयः कर्मेति न चेति योजना । परस्परा- श्रयत्वं स्पष्टयति तदुपलम्भे हीति ॥ लिङ्गतया ज्ञापकत्वोपलम्भे हीत्यर्थः । मानान्तरेण शब्द- स्य लिङ्गत्वसिद्धौ ततोऽनुमित्या लिङ्गतया ज्ञापकत्वे व्याप्तिः सिद्ध्येत , इत्यञ्च ज्ञापकत्वे लिङ्गत्वसि- द्धिरिति भावः । यद्यपि पूर्वपूर्वविषयानुमितिजनकत्वेनानादित्वाच्च परस्पराश्रयत्वं, तथापि ज्ञापकत्व- सिद्धावपि नार्थसिद्धिः, प्रमापकत्वे तु साध्येऽनैकान्तिकमिति भावः ॥ प्रकाशिका । तथापोति । तथा च शब्दो नेश्वरे बाधको अबाधकत्वव्यवस्थितानुमानाभिन्नत्वादिति हेत्वर्थ इति भावः । पञ्चम्या हेतुत्वार्थत्यागाद्धेत्वन्तरं पूरयति प्रकृतेरिति । हेत्वध्याहारगौरवेणारुचिं विभावयति अन्य इति । निराकाङ्क्षादिभिरिति । अतद्गुणसंविज्ञानबहुव्रीहिनाऽयोग्यैरित्यत्र तात्पर्यम् योग्यतासत्त्वे आकाङ्क्षादिविरहेण व्यभिचाराभावादिति ध्येयम् । पदपक्षकप्रयोगे मूले आकाङ्क्षासत्त्वादित्येव हेतुरधिकस्य व्यर्थत्वादित्यवधेयम् । प्रमापकत्व इति । पयसा सिञ्चती- मकरन्दः । एवं सति हेतुं पूरयति प्रकृतेरिति । निराकाङ्क्षादिभिरिति । अयोग्यैरित्यत्रैव तात्पर्यम् । योग्यतासत्त्वे आकाङ्क्षाविरहे व्यभिचाराभावादिति ध्येयम् । शेषं शब्दप्रकाशे विवक्षितम् । द्विती- यप्रयोगे मूले आकाङ्क्षादिमत्त्वादित्येव हेतुः तत्स्मारकत्वादित्यस्य व्यर्थत्वात् । प्रमापकत्वे इति । आकाङ्क्षादिमतोऽपि सहकारिविरहेण कदाचित् प्रमाऽनुत्पादकत्वादिति भावः । यद्यपि टिप्पणी । ज्ञापकत्वे लिङ्गत्वसिद्धिरित्यर्थ इति । न मानान्तरेणेति शेषः । तथा चान्योन्याश्रय- दोषसङ्गतिः॥ प्रमापकत्वे साध्येऽनैकान्तिक इति । पदार्थस्मारके सहकारिविरहेण प्रमाया अज- नके योग्यताभ्रमेण भ्रमजनके व्यभिचारः ॥
३६० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १३ कारिकाव्याख्यायां तथाप्याकाङ्क्षादिमद्भिः पदैः स्मारितत्वाद् गामभ्याजतिपदार्थवदिति स्यात् । न च विशेषासिद्धिर्दोषः, संसर्गस्य संसृज्यमानविशेषादेव विशिष्टत्वात् । यद्वा- एतानि पदानि स्मारितार्थसंसर्गज्ञानपूर्वकाणि आकाङ्क्षादिमत्त्वे सति तत्स्मारक- त्वात् गामभ्याजेति पदवत् । न चैवमर्थासिद्धिः । ज्ञानावच्छेदकतयैव तत्सिद्धेः । तस्य च संसृज्यमानोपहितस्यैवावच्छेदकत्वान्न विशेषाप्रतीतिलम्भ इति ॥ अत्रोच्यते - अनैकान्तः परिच्छेदे सम्भवे च न निश्चयः ॥ आकाङ्क्षा सत्तया हेतुर्योग्यासत्तिर्निबन्धना ॥ १३ ॥ बोधनी । नसंभव इत्याह तथापि इति । नन्वेतावता संसर्गमात्रं सिद्ध्येन्न द्विशेष इत्यत्राह न च इति । पद- स्मारितान् पदार्थविशेषान् पक्षीकृत्य तेषां संसर्गे साध्यमाने तद्विशेष एव सिध्यतीति । यद्वा इति । तथा ज्ञानपूर्वकत्वस्य साध्यत्वान्न साध्याभावः, न चानैकान्तिकता आकाङ्क्षादिमत्त्वेन विशेषात् । तदितिपदार्थपरामर्श इति । नन्वेवं कुतः संसर्गवत्ता सिद्ध्येत् कुतो वा तद्विशेष इत्यत्राह न चैवम् इति । तत्र प्रथमप्रयोगे दोषमाह अनैकान्त इति । यद्यत्र संसर्गवन्त एवेति परिच्छेदो नियमः प्रकाशः । तथापीति ॥ अत्रैते पदार्थास्तात्पर्यविषयमिथःसंसर्गवन्त इति साध्यमतो नानभिमतसंस- र्गसिद्धा अर्थान्तरम् । नन्वेवं संसर्गमात्रसिद्धावपि व्यवहारौपयिकस्तद्विशेषो न सिद्ध्येदत आह न चेति ॥ संसृज्यमानपदार्थव्यापकत्वेनावृहीतस्यापि संसर्गविशेषस्य पक्षधर्मताबलात् सिद्धिरि- त्यर्थः । ननु संसर्गज्ञानपूर्वकत्वसिद्धावपि कुतो वाक्यार्थसिद्धिरित्यत आह न चैवमिति ॥ संसर्ग- विशेषसिद्ध्यर्थमाह तस्य चेति ॥ तस्य संसर्गस्य पदार्थविशेषोपहितस्यैव ज्ञानावच्छेदकत्वाज्ज्ञा- नज्ञानस्य च तद्विषयविषयकत्वात् संसर्गे च सम्बन्धिन एव विशेषत्वादत्रापि पक्षधर्मताबलाद्व्यापक- त्वेनाज्ञातस्यापि संसर्गविशेषस्य सिद्धिरित्यर्थः ॥ नन्वेवं भ्रान्तिज्ञोऽपि भ्रान्तः स्यात् , न चेष्टापत्तिः, ईश्वरस्याऽपि भ्रान्तत्वापत्तेः, भ्रान्तस्येव भ्रान्तिज्ञस्यापि भ्रमात् प्रवृत्त्यापत्तेश्च । अत्राहुः । न भ्रमविषयविषयकत्वेन भ्रमत्वं, किन्तु विशे- ष्यावृत्तिप्रकारकत्वेन । न च शुक्तौ रजतत्वप्रकारकज्ञानवानयमित्यत्र विशेष्यावृत्तिः प्रकारः, रजत- त्वप्रकारकत्वस्य भ्रमे सत्त्वात् । न च प्रतारकवाक्ये व्यभिचारः । तत्र योग्यताविरहात्, तस्या प्याहार्यसंसर्गज्ञानवत्त्वाच्च । तथापि संसर्गज्ञानं विना शुकस्यान्यस्य वा वाक्ये भ्रान्तप्रतारकवाक्ये च व्यभिचारः । कथञ्च तत्र संसर्गप्रमा ? वक्तृज्ञानानुमानासम्भवादिति चेन्न । तत्र वेदवदीश्वरसंस- र्गज्ञानपूर्वकत्वादित्युक्तत्वात् ॥ अनैकान्त इति ॥ परिच्छेदेऽवधारणे । द्वितीयं दूषयति ॥ आकाङ्क्षेति ॥ आकाङ्क्षायाः प्रकाशिका । त्यादौ योग्यताया अन्वयप्रयोजकरूपवत्त्वात्मिकायाः सत्त्वादिति भावः । प्रमापकत्वं प्रमोपहित- त्वम् । तथा चानुपजातफले व्यभिचार इत्यन्ये । निराकाङ्क्ष इति । तत्र तात्पर्यघटितसाध्या- मकरन्दः । ज्ञापकत्वेऽपि व्यभिचारः, तथापि दूषणान्तरस्यैव सम्भवादयं नोद्भावित इति भावः । निराकाङ्क्ष
तृतीयस्तवके ] शब्दस्य बाधकत्वखण्डनम्। ३६१ . एते पदार्था मिथः संसर्गवन्त इति संसृष्टा एवेति नियमो वा साध्यः, सम्भा- वितसंसर्गा इति वा ? न प्रथमः । अनाप्तोक्तपदकदम्बस्मारितैरनेकान्तात् । आप्तो- क्तया विशेषणान्नैवमिति चेन्न । वाक्यार्थप्रतीतेः प्राक् तदसिद्धेः । न ह्यविप्रलम्भकत्व- मात्रमिहाप्तशब्देन विवक्षितं, तदुक्तेरपि पदार्थसंसर्गव्यभिचारात्, अपि तु तदनु- भवप्रामाण्यमपि । न चैतल्लक्ष्यमसर्वज्ञेन सर्वदा सर्वविषये सत्यज्ञानवानयमिति निश्चेतुम् । भ्रान्तेः पुरुषधर्मत्वात् । तत्र कचिदाप्तत्वमनाप्तस्याप्यस्तीति न तेनोप- योगः । ततोऽस्मिन्नर्थेऽयमभ्रान्त इति केनचिदुपायेन ग्राह्यम् । न चैतत् संसर्गवि- बोधनी । साध्येत तदा नामोक्तपदस्मारितैरनेकान्तो हेतुस्तेषां तन्नियमाभावात्, अथ संभवो योग्यतामात्रं साध्येत तदा वाक्यफलं निश्चयो न सिध्येदिति । द्वितीयोऽप्याह आकाङ्क्षा इति । आकाङ्क्षा नाम प्रतिपत्तुर्जिज्ञासा, सा च सत्तामात्रेणान्वयप्रतीतिहेतुस्ततः तया न व्यभिचारव्यावर्त्तनाय हेतुर्विशेष- णीयः, तर्हि योग्यतासन्निधिभ्यामेव विशेष्यत इत्यत्राह योग्यासन्निधीति । न हि तावन्मात्रमन्व- यप्रतीतौ निबन्धनमयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यादौ वाक्यद्वयस्थयो राजपुरुषयोः सतोरपि तयोरन्वयप्रतीत्यभावादिति ॥ आद्यं पादं व्याचष्टे एते इति । आप्तोक्तपदस्मारितत्वादिति हेतुः स्यादित्याह-आप्तोक्त्या इति । न इति । अस्मिन्नर्थेऽयमाप्त इति वाक्यार्थप्रतीतिपूर्वकमाप्तत्वमवगन्तव्यं, तदवगत्युत्तरकाले च तद्विशिष्टहेतुना वाक्यार्थप्रतिपत्तिरिति परस्पराश्रयतापत्तिरिति भावः । प्रागाप्तत्वासिद्धिमाह न हि इति । येन प्रागेव वाक्यार्थप्रतीतेस्तत्सिध्येत् इति । नन्वस्तु वाक्यार्थज्ञानसत्यत्वमाप्तितस्ततः प्रकाशः । सत्त्वमात्रेणैव कारणतया लिङ्गविशेषणत्वमनुपपन्नमित्यर्थः । योग्यताऽऽसत्तिमात्रेण विशेषणे दोषमाह योग्येति न बन्धनं सम्बन्धो व्याप्तिरूपो यस्यां, सा तथा । निराकाङ्क्षे व्यभिचारादित्यर्थः ॥ संसृष्टा एवेति ॥ नच सम्भावना नियमो वा न साध्यः, किन्तु संसृष्टा इत्येव साध्यमिति वाच्यम् । संसर्गव्यभिचार्यव्यभिचारिसाधारणतया ययोरेव घटानयनयोः परस्परसंसर्गो न ज्ञातस्ते- नैव व्यभिचारादिति भावः ॥ तदुक्तेरपीति ॥ भ्रान्तेन पित्रादिनाऽप्यप्रतारकेणोक्तपदानां तद- र्थानां वा संसर्गाभावादित्यर्थः । ननु पदार्थज्ञानमात्रनिरूपणादभ्रान्तत्वनिरूपणमस्त्वित्यत आह पदार्थेति ॥ तस्य चेति ॥ आप्तोक्तत्वरूपविशेषणासिद्धेरित्यर्थः ॥ तदेकेति ॥ निश्चयैकफल- प्रकाशिका । भावादिति भावः । संसर्गस्येति । क्वचिन्नियतः संसर्गः यथा घटे रूपं, क्वचिदनियतोऽपि यथा नीलं सरोजमित्यत्र- तथाचानियतसंसर्गस्थलेऽप्रयोजकरूपवत्त्वलक्षणयोग्यतासत्त्वाद् व्यभिचार इत्यर्थः । केचित्तु संसर्गव्यभिचारीति पाठः । तत्रोक्तहेतोरुक्तसाध्यतदभावसाधारणतया व्यभिचार इत्यर्थः । साधारण्यमेव दर्शयति ययोरितीति व्याख्यातवन्तः । अनिश्चयस्य सन्नि- मकरन्दः । इति । तात्पर्यघटितसाध्ये व्यभिचारोऽयमुन्नेयः । संसर्गव्यभिचारीति । आकाङ्क्षादिमत्पद- स्मारितत्वादिति हेतोः संसर्गव्यभिचारिसाधारणतया व्यभिचार इत्यर्थः । संसर्गव्यभिचारिसाधारण्य- मेव दर्शयति ययोरिति । न चैवं तत्र योग्यत्वं नेति कथं व्यभिचार इति वाच्यम्, घटस्यानय- नमित्यत्र संसर्गव्यभिचारिणोरपि घटानयनयोर्योग्यपदस्मारितत्वात् । संसर्गस्य व्यभिचारीति क्व- चित्पाठः स तु चिन्त्यः । अनिश्चयस्य सन्निहिततया तत्परामर्शभ्रमं वारयति निश्चयैकेति । योग्य- टिप्पणी । उक्तपदानां तदर्थानां वा संसर्गाभावादित्यर्थ इति । पदानां संसर्गाभावदित्यप्रकृतमिति
शेषमप्रतीत्य शक्यम्। बुद्धेरर्थभेदमन्तरेण निरूपयितुमशक्यत्वात्। पदार्थमात्रे चा- भ्रान्तत्वसिद्धौ न किञ्चित्। अनाप्तसाधारण्यात्। एतेषां संसर्गेऽयमभ्रान्त इति शक्यमिति चेन्न। एतेषां संसर्गे इत्यस्या एव बुद्धेरसिद्धेः। अननुभूतचरे स्मरणा- योगात्, तदनुभवस्य लिङ्गाधीनतया तस्य च विशेषणासिद्धत्वेनानुपपत्तेरिति॥ नापि द्वितीयः, योग्यतामात्रसिद्धावपि संसर्गाऽनिश्चयात्, वाक्यस्य च तदेक- फलत्वात्, योग्यतामात्रस्य प्रागेव सिद्धेः। अन्यथा तदसिद्धावासन्नसाकाङ्क्षपदस्मा- रितत्वादित्येव हेतुः स्यात्। तथा चाऽग्निना सिञ्चेदित्यादिना स्मारितैरनैकान्तः। तथाविधानां सर्वथा संसर्गायोग्यत्वादिति॥ द्वितीयेऽपि प्रयोगे हेतुराकाङ्क्षादिमत्त्वे सतीति। तत्र केयमाकाङ्क्षा नाम? न तावद्विशेषणविशेष्यभावः, तस्य संसर्गस्वभावतया साध्यत्वात्। नाऽपि तद्योग्यता, योग्यतयैव गतार्थत्वात्। नाप्यविनाभावः। नीलं सरोजमित्यादौ तदभावेऽपि वाक्या- र्थप्रत्ययात्। तत्रापि विशेषाङ्कितसामान्ययोरविनाभावोऽस्तीति चेन्न। 'अहो विमलं जलं नद्याः कच्छे महिषश्चरती'त्यादौ वाक्यभेदानुपपत्तिप्रसङ्गात्। नापि प्रतिपत्तु- र्जिज्ञासा। घटो भवतीत्यादौ शुक्लादिजिज्ञासायां, रक्तः घटो भवतीत्यस्यैकदेशवत् सर्वदा वाक्यापर्यवसानप्रसङ्गात्॥ बोधनी। किमित्यत्राह न चैतत् इति। क्वचिदाप्तत्वमवधार्य सर्वत्रायमीदृश इत्यनुमास्यामह इत्यत्राह यत्र क्वचित् इति। वाक्यार्थप्रतीतेः प्रागाप्तत्वासिद्धिसुपसंहरति ततोऽस्मिन् इति। ननु पदार्थास्ता- वत्प्रागेव प्रतीयन्ते तेषां सत्यत्वात्तत्राप्तिरप्यवधार्यत इत्यत्राह पदार्थमात्रे च इति। नन्वनवगतेऽपि वाक्यार्थे पदस्मारितानां पदार्थानां परस्परसंसर्गयोग्यतावगमादेतत् संसर्गेऽयमभ्रान्त इति निश्चेतुं शक्यमित्याह एतेषाम् इति। न इति। नहि तदानीमेषां संसर्ग इत्यनुभवात्मिका बुद्धिः सिध्यति कारणाभावादिति। तत एव न स्मरणात्मिकापीत्याह अननुभूत इति। द्वितीयं पादं व्याचष्टे नापि द्वितीयः इति। न परं साध्यासिद्धिः सिद्धसाधनं चेत्याह योग्य- प्रकाशः। त्वादित्यर्थः॥ प्रागेवेति॥ योग्यतया लिङ्गविशेषणेन सिद्धेरित्यर्थः॥ तस्येति॥ एकत्र पदार्थे पदार्थान्तरवैशिष्ट्यस्यैव संसर्गरूपत्वादित्यर्थः॥ विशेषेति॥ नीलेन गुणसामान्यमाक्षिप्यते, सरो- जेन द्रव्यमात्रं, तयोश्चाविनाभावोऽस्त्येवेत्यर्थः॥ अहो इति॥ जलान्विततया आश्रयीभूतकच्छे साकाङ्क्षतापत्तावेकवाक्यतापातादित्यर्थः॥ रक्त इति॥ यथा रक्तः पटो भवतीत्यत्र रक्तपदार्थान्वयं विना पटो भवतीत्येकदेशो न पर्यवस्यति, तथा रक्तपदं विना यत्र पटो भवतीत्येव वाक्यमुच्चा- रितं, तत्रापि तन्न पर्यवस्येदित्यर्थः। अजिज्ञासोरपि वाक्यार्थज्ञानाच्चेति भावः॥ प्रकाशिका। हितत्वात् परामर्शभ्रमं वारयति। निश्चयकैति। योग्यतयेति। इदञ्च सम्भावितपदस्य योग्यपरत्वे दूषणम्, सन्दिग्धपरत्वे तु संसर्गासिद्धिरेव दोष इति स्मर्त्तव्यम्। राजपदा- मकरन्द तया इति। सम्भावितपदस्य लिङ्गविशेषणयोग्यतापरत्वे दूषणमिदम्। सन्दिग्धपरत्वे संसर्गानिश्च- यादित्येव दूषणं बोध्यम्। टिप्पणी चिन्त्यम्। यथा वाक्यवाचकभावेनाभ्रान्तेनोक्तानां पदानामर्थेन यथा न वाच्यवाचकभावसंसर्गस्तथा योग्यताभ्रान्तेनोक्तपदार्थानां संसर्गः, वाकारः सादृश्य इत्येतु कथञ्चिद् व्याख्येयः॥
तृतीयस्तवके ] "शब्दस्य भावकत्वखण्डनम् ।" [ ३६३ गुणक्रियाद्यशेषविशेषजिज्ञासायामपि पदस्मारितविशेषजिज्ञासा आकाङ्क्षा । पट इत्युक्ते किंरूपः कुत्र किं करोतीत्यादिरूपजिज्ञासा । तत्र भवतीत्युक्ते किं करोतीत्येषा पदस्मारितविषया, न तु किंरूप इत्यादीरपि । यदा तु रक्त इत्यु- च्यते, तदा किंरूप इत्येषाऽपि स्मारितविषया स्याद्, इति न किञ्चिदनुपपन्न- मिति चेत् । एवं तर्हि चक्षुषी निमील्य परिभावयतु भवान् । किमस्यां जातायामन्वयप्र- त्ययोऽथ ज्ञातायामिति । तत्र प्रथमे नानया व्यभिचारव्यावर्त्तनाय हेतुर्विशेष- णीयः, मनःसंयोगादिवत् सत्तामात्रेणोपयोगात् । आसत्तियोग्यतामात्रेण विशि- ष्टस्तु निश्चितोऽपि न गमकः । अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यादौ व्यभि- चारात् । द्वितीयस्तु स्यादपि, यद्यनुमानान्तरवत्तत्सद्भावेऽपि तज्ज्ञानवैधुर्यादन्व- बोधनी । तामात्रस्य च इति । प्रागसिद्धौ दोषमाह अन्यथेति । उत्तरमर्थं व्याचक्षाणः पदानि स्मारि- तार्थसंसर्गज्ञानपूर्वकाणीति प्रयोगं दूषयति एवं द्वितीयेऽपि इति । एतच्च पूर्वत्रापि द्रष्टव्यम् । स एव संबन्धिनः साक्षादुप न्यस्य निरस्यति न तावत् इति । साध्यत्वादिति । न साध्यमेव हेतुविशेषणमा- काङ्क्षा भवतीति । अस्तु तर्हि विशेषणविशेष्यभावयोग्यतैवाकाङ्क्षा तत्राह नापि इति । तस्याः प्रागेव हेतुविशेषणत्वेनोपादानादिति ! तर्हि पदस्मारितानां पदार्थानामन्योन्याविनाभाव आकाङ्क्षेत्य- त्राह नापि इति । नन्वस्ति तावद् गुणद्रव्यविशेषाभ्यां नीलसरोजाभ्यामाक्षिप्तयोः गुणद्रव्यसामान्य- योरविनाभावः, सोऽप्याकाङ्क्षेत्याह विशेष इति । यद्यविनाभाव आकाङ्क्षा तर्ह्यहो विमलं जलं नद्या इत्येतद्वाक्यगतस्य नदीपदस्य कक्षे महिषश्वरतीति वाक्यान्तरगतस्य कक्षपदस्य स्वार्थाविनाभावल- क्षणं साकाङ्क्षत्वमस्तीत्यनयोर्वाक्यभेदो न स्याद्विभागे साकाङ्क्षाणामेकवाक्यत्वादित्याह न इति । ननु श्रोतुर्जिज्ञासा आकाङ्क्षा, तस्याश्च विमलं जलं नद्या इत्येतावत्तैव पर्यवसानाद्वाक्यभेदो- पत्पत्तिरित्यत्राह—नापि इति । ननु न वयं जिज्ञासामात्रमाकाङ्क्षेति ब्रूमः किन्तु पदस्मारितविशे- षविषयम्, अतो नातिप्रसङ्ग इत्याह—गुणक्रिया इति । सत्यमियमेवाकाङ्क्षा तथापि नैष हेतु- विशेषणं संभवतीत्याह—एवं तर्हि—इति । जातायां जातमात्रायामज्ञातायामेवेति । नानया इति । न ह्यज्ञातमेव विशेषणं हेतोर्विपक्षाद् व्यावृत्तिं बोधयतीति मा भूदाकाङ्क्षा विशेषणमित्यत्राह- आसत्ति-इति । अयमेति पुत्रो राज्ञ इति एकं वाक्यं, पुरुषोऽपसार्यतामित्यपरं, तत्र राज्ञः पुरुष इत्यनयोर्योग्यतासत्ती स्तः तथापि नैकवाक्यत्वं क्रियान्तरसंबन्धेन निराकांक्षत्वादिति । तर्ह्याकां- क्षापि ज्ञातैव विशेषणं भविष्यतीत्यत्राह द्वितीयस्तु इति । यथा हि सविशेषणेष्वनुमानान्तरेषु प्रकाशः । गुणक्रियेति । पट इत्युक्ते किंगुणः ? किंक्रियः ? इति जिज्ञासा । तत्र यदा भवतीत्युच्यते, तदा जिज्ञासाविषयस्य क्रियाविशेषस्य पदेन स्मारणात् सैव जिज्ञासा आकाङ्क्षा । रक्त इत्युक्तौ किंगुण इत्यपि सेत्स्यर्थः । सत्तामात्रेणेति ॥ स्वरूपसदाकाङ्क्षायोग्यतादिसामग्र्याच्छब्द् एव ज्ञानजनने सम्भृतसामग्रीको लिङ्गमेव विलम्बितमिति भावः । व्यभिचारादिति । राजपदा- प्रकाशिका । र्थेति । यद्यपि योग्यतासत्त्व ईश्वरसंसर्गज्ञानपूर्वकतया साध्यसत्त्वान्न व्यभिचारः । तथापि मकरन्दः । राजपदार्थेति । यद्यपि योग्यतासत्त्वे ईश्वरसंसर्गज्ञानसत्त्वान्न व्यभिचारः, तथाप्यजनितान्वयबोधे टिप्पणी । लिङ्गमेव विलम्बितमिति भाव इति । स्वविशेषणज्ञानानपेक्षणादिति । प्रतिपदार्थान्विता- ५० न्या० कु०
यप्रत्ययो न जायते । न त्वेतदस्ति, आसत्तियोग्यतामात्रप्रतिसन्धानादेव साका- ङ्क्षस्य सर्वत्र वाक्यार्थप्रत्ययात् , निवृत्ताकाङ्क्षस्य च तदभावात् ॥ कथमेष निश्चयः, साकाङ्क्ष एव प्रत्येति, न तु ज्ञाताकाङ्क्ष इति चेत्, तावन्मा- त्रेणोपपत्तावनुपलभ्यमानज्ञानकल्पनाऽनुपपत्तेः, अन्यत्र तथा दर्शनाच्च । यदा हि दूराद् दृष्टसामान्यो जिज्ञासते कोऽयमिति, प्रत्यासीदंश्च स्थाणुरयमिति प्रत्येति, तदाऽस्य ज्ञातुमहमिच्छामीत्यनुव्यवसायाभावेऽपि स्थाणुरयमित्यर्थप्रत्ययो भवति । तथेहाप्यविशेषाद् विशेषोपस्थानकाले संसर्गावगतिरेव जायते, न तु जिज्ञासावग-
बोधनी ।
सत्यपि विशेषणे तज्ज्ञानाभावेनानुमानप्रतीतिः तद्वदत्रापि सत्यामप्याकाङ्क्षायां तज्ज्ञानाभावे यदि संसर्गप्रतीतिर्न स्यात्स्यादपि तदा द्वितीयकल्पे, न चैतदस्ति योग्यतासत्तिमात्रं प्रतिसंदधानस्याकाङ्क्षा- स्वरूपमात्रान्वयव्यतिरेकानुविधायित्वेनान्वयप्रतीतेर्दर्शनादिति । नन्वाकाङ्क्षासत्तैवान्वयप्रतीतिहेतुर्न तु ज्ञानमिति कुतो निश्चय इत्याह कथम् इति । सत्तामा- त्रेणोपपत्तौ ज्ञानकल्पनायां प्रमाणाभावाच्छब्दादन्यत्र जिज्ञासाहेतुकेषु तावन्मात्रेण तदुपयोग- दर्शनाच्चेत्याह न इति । अविशेषादिति जिज्ञासाहेतुकत्वेनाविशेषादिति । किञ्च संसर्गप्रतियो- गिपदार्थविशेषस्मरणकाले तद्विषयजिज्ञासावगतिरपेक्षेत ततः प्रागेव वा ? न प्रथमः, घटमित्युक्ते पश्यतीतिपदस्मारिते क्रियाविशेषे तत्संसर्गस्यैवावगमात् । न द्वितीयः, पदस्मारितविशेषजिज्ञासाया एवाकाङ्क्षापदार्थत्वेन ततः प्राग्भाविन्त्यास्तस्या गुणक्रियाद्यशेषविषयत्वेनाकाङ्क्षानात्मनो वाक्यार्थ- ज्ञानं प्रत्यनङ्गतत्वादित्याह विशेषेति । अस्तु ज्ञातैवाकाङ्क्षा संसर्गज्ञानहेतुः अस्तु च हेतोर्वि-
प्रकाशः ।
र्थपुरुषपदार्थयोरन्योन्यान्वये वक्तृज्ञानाभावादित्यर्थः । अनुमानान्तरवदिति । अनुमितिकारणान्त- रव्याप्त्यादिवदित्यर्थः । यद्यपि प्रतिपदार्थान्विताकाङ्क्षायास्तत्काल एव नाशान्न कालान्तरे सत्त्वं, तज्ज्ञानहेतुत्वञ्च संस्कारद्वारा सम्भवति, तथापि पदार्थसमूहविषयाया एकस्या एवाकाङ्क्षायाः स्वरू- पसत्त्वमस्त्येवेति भावः । विशेषोपस्थानेति । अन्वयप्रतियोगिपदार्थस्मरणानन्तराव्यवहितकाले इत्यर्थः। नन्वाकाङ्क्षा ज्ञाताऽन्वयधीहेतुः ज्ञायमानकारणे ज्ञानोपयोगिव्यभिचारिवैलक्षण्याद् व्याप्तिवत् ।
प्रकाशिका ।
अजनितफले तात्पर्यघटितसाध्ये व्यभिचार इति भावः । नन्विति । तथा च तथा लिङ्गविशेषण-
मकरन्दः ।
तत्रेश्वरतात्पर्याभावात्तात्पर्यघटितसाध्ये व्यभिचार इति भावः । नन्विति । तथा चाकाङ्क्षाया
टिप्पणी ।
काङ्क्षेति । आकाङ्क्षाभाभ्यः सम्बन्धपदार्थः प्रतिपदार्थतदन्वितपदार्थावान्तरगोचरेत्यर्थः । तत्- काल एव नाशादिति । उत्तरपदश्रवणकाले नाशात्तन्न कालान्तरे सत्त्वमिति इति स्वरूपसत्या हेतुत्वन्न सम्भवतीत्यर्थः । तथापि पदार्थसमूहविषयाया इति । तत्तत्पदार्थान्वितजिज्ञासामूलिकायाः । नन्वाकाङ्क्षा ज्ञातान्वयधीहेतुरिति । कार्य्यत्वेनाभिमतसंसर्गज्ञानहेतुस्तेन न दृष्टान्ते साध्यवैकल्यम्। ज्ञायमानकारणे ज्ञानोपयोगिव्यभिचारीति । ज्ञायमानकारणे ज्ञानेन य उपयोगस्सहकारिसम्पा- दनन्तद्व्यभिचरितुं शीलमस्य तद्विलक्षणत्वात् कारणज्ञाननिष्ठव्यभिचारिनिरूपकज्ञानविषयान्यत्वा- दित्यर्थः । न हि कारणज्ञानमूलजनने व्याप्तिज्ञानम् व्यभिचरतीति भवति तत्तथा । यद्वा ज्ञायमान- कारणे ज्ञानस्य फलीभूतज्ञानस्योपयोगिव्यभिचारिज्ञानान्तरस्थलसाधारणम् साधारणकारणमनः- संयोगादिकन्तद्वैलक्षण्यादित्यर्थः, एतेन प्रथमहेतोराकाङ्क्षादेश्ज्ञायमानहेतुत्वाधीनहेतुत्वेऽपि न
तृतीयस्तवके ] \qquad\qquad\qquad\quad शब्दस्य बाधकत्वखण्डनम् । \qquad\qquad\qquad\quad ३६५ तिरिति । न च विशेषोपस्थानात् प्रागेव जिज्ञासाऽवगतिः प्रकृतोपयोगिनी, तादृ- ङ्मात्रस्यानाकाङ्क्षित्वात् । न चैवम्भूतोऽप्ययमैकान्तिको हेतुः । यदा ह्ययमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामिति वक्तोच्चारयति, श्रोता च व्यासङ्गादिना निमित्ते- नायमेति पुत्र इत्यश्रुत्वैव राज्ञः पुरुषोऽपसार्यतामिति शृणोति, तदाऽस्त्याकाङ्क्षादि- मत्त्वे सति पदकदम्वकत्वं, न च स्मारितार्थसंसर्गज्ञानपूर्वकत्वमिति ॥ बोधनी । शेषणं, तथापि न वाक्यार्थप्रतीतिरानुमानिकी विशेषणत्रयविशिष्टस्यापि पदार्थस्मारकत्वस्य हेतोर- नैकान्तिकत्वादित्याह न चैवम्भूतोऽपि इति । न च इति । न हि राज्ञ इत्यादिपदत्रयस्मारितानां राजपुरुषापसारणानां संसर्गबुद्ध्या तदुच्चारितं राजपुरुषयोः पुत्रापसारणाभ्यां संसर्गज्ञानपूर्वकत्वादिति । प्रकाशः । न चाप्रयोजकत्वम् , आकाङ्क्षासत्त्वेऽपि ज्ञानादन्वयबोधाभावापातात् । राजा पुत्रमाकाङ्क्षति पुरुषं वेति संशये तद्विपर्यये वाऽन्वयधीप्रतिबन्धाच्च । अत्रास्मत्पितृचरणाः— प्रवृत्तिपरत्वं शब्दस्य लिङ्गत्वे न स्यात् । अर्थज्ञानं हि प्रवर्त्तकं न तु तज्ज्ञानज्ञानं, गौरवात् , तदभावेऽप्यर्थज्ञानात् प्रवृत्तेश्च । अतो वक्ता घटज्ञानवानिति ज्ञानं न प्रवर्त्तकमपि स्वयं घट इति । घटज्ञानज्ञानमपि घटविषयमिति चेत् । सत्यम् । न तु घटत्वप्रकारकं, प्रवर्त्तकञ्च तथा । अन्यथा भ्रान्तस्येव भ्रान्तिज्ञस्याऽपि प्रवृत्तिप्रसङ्गः । अत एव लक्षणानानार्थाद्य- न्वयबोधात् तात्पर्यग्रहो वाक्यार्थधीहेतुस्तच्च पदार्थसंसर्गविशेषज्ञानोद्देश्यकत्वमतस्तद्ग्राहकानुमानादेव तात्पर्यज्ञानावच्छेदकतया संसर्गसिद्धिरित्यपास्तम् । तात्पर्यज्ञानं न वाक्यार्थहेतुरिति वक्ष्यमाणत्वाच्च । प्रकाशिका । मुचितमिति न व्यभिचार इति भावः । ननु संशयसाधारणं ज्ञानमित्यर्थमयुक्तं निश्चयस्य क्वचिदप्य- मकरन्दः । लिङ्गविशेषणत्वसम्भवादनुमान एवान्तर्भाव इति भावः । क चिदपि तदनिश्चये तत्संशयोऽपि टिप्पणी । क्षतिः । ज्ञायमानकारण इति प्रत्यक्षासाधारणकारणे स्वरूपत उपयोगिनि व्यभिचारवारणायेति बोध्यम् । अज्ञातोपयोगिव्यभिचारीति पाठे व्यभिचारिणो प्रमाणादज्ञातोपयोगिनो यद्वैलक्ष- ण्यन्तत्वादित्यर्थः । अप्रमाणदोषादि बोध्यम् । इष्टापतेराह राजेति । स्वज्ञानाधीनस्वसम्बन्धिविशेषजि- ज्ञासाविषयपदस्मारितपुत्रकत्वराजनि तादृशजिज्ञासाविषयस्मारकपुत्रसमभिव्याहृतत्वं राजपदे तादृश- जिज्ञासावत्त्वमप्रमातरि यथायथमाकाङ्क्षा बोध्या । न तु तज्ज्ञानज्ञानङ्गौर्वाद्दिति । शरीरगौरवात् सर्वत्रानुव्यवसायकल्पनागौरवाच्चेत्यर्थः । तदभावेऽप्यर्थज्ञानादिति । विपक्षबाधकतर्काभावे व्यभिचारसंशयस्यापि कारणत्वग्रहविरोधित्वादिदमुक्तम्, तेन तदभावानिश्चयेऽपि न क्षतिः । न तु घटत्वप्रकारकमिति । इदंत्वावच्छिन्नघटत्वप्रकारकम्, किन्तु इदंविशेष्यकघटत्वप्रकारकत्ववि- षयकमित्यर्थः । अन्यथा भ्रान्तस्येव भ्रान्तिज्ञस्यापीति । विशेष्ये प्रकारानवगाहिनोऽपि विशेष्यप्रकारकत्वमात्रेण प्रवर्त्तकत्वे बाधकाले भ्रान्तिभ्रान्तित्वेन प्रकाररहिते विशेष्ये तत्प्रकारकत्वेन ज्ञानं जनयतोऽपीत्यर्थः । अत एव लक्षणानानार्थादीति । लक्षणानुरोधान्नानार्थानुरोधाच्चेत्यर्थः । काकेभ्यो दधि रक्ष्यतामित्यत्रान्वयानुपपत्तेरभावात्तात्पर्यानुपपत्तेरेव तद्वीजत्वम् तच्च तात्पर्यज्ञान- स्यानपेक्षितत्वे न घटेतेति लक्षणानुरोधेन तात्पय्र्यज्ञानस्योपयोगः, नानार्थस्थलेऽपि तात्पर्यग्रहं विना व्यवस्थितैकार्थबोधो न स्यादिति तदुपयोग इति भावः । पदार्थसंसर्गविशेषज्ञानोद्देश्य- कत्वमिति । पदार्थसंसर्गविशेषज्ञानमुद्देश्यं स्वजन्यत्वेनेच्छाविषयो यस्य तत्कत्वम्, तदिच्छयोच्चारित- त्वमिति यावत् । संसर्गसिद्धिरित्यपास्तमिति । तत्प्रकारकत्वविशेष्यकत्वस्यैव ज्ञानविशेषणतया
३६६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १३ कारिकाव्याख्यायो स्यादेतत् । यावत्समभिव्याहृतत्वेन विशेषिते हेतौ नायं दोषः, तथाविधस्य व्यभिचारोदाहरणाऽसंस्पर्शात् । कुतस्तर्हि कतिपयपदश्राविणः संसर्गप्रत्ययः ? । अलिङ्ग एव लिङ्गत्वारोपात् । एतावानेवायं समभिव्याहार इति तत्र श्रोतूरभि- मानः । न । तत्सन्देहेऽपि श्रुतानुरूपसंसर्गावगमात् । भवति हि तत्र प्रत्ययो, न जाने किमपरमनेनोक्तमेतावदेव श्रुतं, यद्राज्ञः पुरुषोऽपसार्यतामिति । भ्रान्तिरसो- बोधनी । स्यादेतत् इति । यावन्ति समभिव्याहृतानि पदानि तावतामाकाङ्क्षादिमत्त्वे सति पदार्थस्मा- रकत्वं हेतुस्ततो न व्यभिचार इति यदि विशिष्टो हेतुः कुतस्तर्हि तदभावे संसर्गप्रत्यय इत्याह कुत- इति । वाक्यैकदेश एव यावत्समभिव्याहृतत्वभ्रान्तेरित्याह अलिङ्गे इति । भ्रान्तिमेव दर्श- यति एतावानेव इति । यावत्समभिव्याहृतत्वसन्देहेऽपि संसर्गावगमान्न तदध्यारोपकारणमिति । नन्वेकदेशभाविनः संसर्गप्रत्ययो भ्रान्तिरित्यत आह भ्रान्तिरिति । भवतु भ्रान्तिस्तथापि कुतश्चि- प्रकाशः । अपि चानुमितेर्व्यापकतावच्छेदकमात्रप्रकारत्वात् पदानि स्मारितार्थसंसर्गज्ञानपूर्व्वकानीत्यनुमितिः स्यान्न घटज्ञानपूर्व्वकानीति । योग्यतायाश्च लाघवात् संशयादिसाधारणं ज्ञानमात्रं हेतुः । बाधसंश- यस्य ज्ञानाप्रतिबन्धकत्वाच्च । अन्यथा प्रमामात्रोच्छेदप्रसङ्गात् । स्वपरबोधकप्रमाविरहः क्वचिनि- श्चीयेतेऽपि यंथेह भूतले घटो नास्तीत्यत्र स्वयोग्यानुपलब्ध्या घटाभावनिश्चयेनान्यस्यापि घटाप्रमा- विरहो निश्चीयते । अत एव सा न लिङ्गविशेषणम् । बाधकप्रमाणविरहस्य सर्व्वत्र निश्चेतुमशक्यत्वात्, तत्संशयेऽपि शब्दान्वयबोधान्निश्चविशेषणस्य च सर्व्वत्र निश्चितत्वादिति सङ्क्षेपः । एतदेवाभिसन्धाय पूर्वापरितोषेणाह न चैवमिति । आकाङ्क्षादेर्ज्ञायमानतया हेतुविशेषण- त्वेऽपीत्यर्थः । तत्सन्देहे इति । यावत्समभिव्याहृतत्वसन्देहेऽपीत्यर्थः । भ्रान्तिर साविति । प्रकाशिका । भावादत आह स्वपरेति । अत एवेति । यत एव संशयसाधारणं तज्ज्ञानं हेतुरित्यर्थः । ननु योग्यतासंशयस्य हेतुत्वमेव कुत इत्यत आह बाधकेति । एतदेवेति । आकाङ्क्षाज्ञानहेतु- मकरन्दः । दुर्लभं इत्यत आह स्वपरेति । अत एवेति । यत एव संशयसाधारणं तज्ज्ञानं हेतुरित्यर्थः । नन्वेतदेव कुत इत्यत आह बाधकेति । एतदेवेति । आकाङ्क्षाज्ञानहेतुत्वमेवेत्यर्थः । दोषवत इति विपर्य्यय टिप्पणी । तत्पदार्थज्ञाने मानाभ्युपगमान्न तु विशेष्यप्रकारस्येति भावः । तात्पर्य्यज्ञानं न वाक्यार्थधीहेतु- रिति । आवश्यकप्रकरणज्ञाने हेतुतयोपपत्तेर्लक्षणां विना विवक्षितस्य दध्युपघातकत्वस्यान्वयानुपप- त्तेरेव लक्षणाबीजत्वान्नक्षणाऽनुरोधेन तत्रोपयोगेऽपि हेतुत्वे मानाभावाच्चेति । न घटज्ञानपूर्व्वका- नीति । तथैवं तु न साध्यता दृष्टान्तेऽसम्भवादपूर्व्ववाक्यार्थस्थले साध्यज्ञानस्यैव सम्भवाच्चेति । योग्यतायाश्च लाघवादिति । बाधकप्रमाविरहो यत्र योग्यता स्वपरेत्याद्यग्रिमग्रन्थानुरोधात् न तु बाधकप्रमासंशयस्य बाधकसंशयपर्य्यन्तत्वात्तस्मिन् सति कथं शाब्दज्ञानं स्यादित्यत आह बाधसंशयस्येति । अथ बाधनिश्चयाभावस्यैव स्वरूपतो हेतुत्वमस्तु तस्य विशिष्टबुद्धिामान्ये क्लृप्तत्वात् । न च वह्निना सिञ्चतीत्यादायोग्यस्य शाब्ददर्शनाच्छाब्दबोधे योग्यतापेक्षणीया, सा न बाधनिश्चयविरहमात्रं योग्गे बाधभ्रमसम्भवेनायोग्यत्वापत्तेः, नापि सा स्वरूपसत्येव हेतुः बाधप्रमाविरहेऽभ्रमे शाब्दबोधास्यानुभविकत्वादिति वाच्यम् । वह्निना सिञ्चतीत्यादौ बाधनिश्चये कारणाभावादेव शाब्दाभावोप- पत्तेर्योग्यताया अनपेक्षितत्वादिति चेत् । सत्यम्, यत्र भ्रमतवप्रमात्वप्रमोदासीन्येन बाधनिश्चये सत्यपी- च्छावशादुक्तयोग्यताप्रहे काव्यादिस्थले शाब्दबोधोऽनुभवसिद्धस्तत्रैव योग्यताज्ञानकारणताया आव-
तृतीयस्तवके ] शब्दस्य बाधकत्वखण्डनम्। ३६७ चिति चेद्, न तावदसौ दुष्टेन्द्रियजा, परोक्षाकारत्वात्। न लिङ्गाभासजा, लिङ्गा- भिमानाभावेऽपि जायमानत्वात्। एतादृक् पदकदम्बप्रतिसन्धानमेव तां जनयतीति चेत्। यद्येवमेतदेवादुष्टं सद्भ्रान्तिं जनयत् केन वारणीयम् ? । व्याप्तिप्रतिसन्धानं विनापि तस्य संसर्गप्रत्यायने सामर्थ्यावधारणात्, चक्षुरादिवत्। नास्त्येव तत्र संसर्गप्रत्ययोऽसंसर्गाग्रहमात्रेण तु तथा व्यवहार इति चेत्। तर्हि यावत्समभि- व्याहारेणापि विशेषणे नाप्रतीकारः, तथाभूतस्यानाप्तवाक्यस्य संसर्गज्ञानपूर्वकत्वा- भावात्। असंसर्गाग्रहपूर्वकत्वमात्रे साध्ये न व्यभिचार इति चेत्। एवन्तर्हि
बोधनी। त्प्रमाणाभासाद्भवितव्यं, न तावत्प्रत्यक्षाभासात् लिङ्गाभासाद्वा भवति, तत्फलवैधर्म्यादित्याह न ता- वदिति। यदि कतिपयग्रहणदूषितं पदकदम्बकप्रतिसंधानमेव भ्रान्तिं जनयेत्तदैवादुष्टमभ्रान्तिं जनयेच्चानुमानं लिङ्गाभिमानाभावेऽपि यथोक्तप्रकारेण प्रतीतिजननसामर्थ्यावधारणादित्याह एता- दृक् इति । ननु स्यादेवं यदि यावत्समभिव्याहृतत्वसंदेहेऽपि व्याप्तिप्रतिसन्धानविधुरस्य संसर्गा- वगमो जायेत, न त्वेतदस्तीत्याह नास्त्येव इति । कुतस्तर्हि तत्र संसर्गव्यवहार इत्याह
प्रकाशः। कतिपयपदश्राविणो यः संसर्गप्रत्यय इत्यर्थः। व्याप्तीति। शब्दो न लिङ्गतया ज्ञापकः व्याप्त्यादि- ज्ञानरहितस्यापि दोषवतः अविपर्ययहेतुत्वाच्चक्षुर्वदित्यर्थः। नास्त्येवेति। कतिपयपदश्रवणं यत्रेत्यर्थः। संसर्गे बाधकाच्चेति भावः। एवं तर्हीति। असंसर्गाग्रहपूर्वकत्वसिद्धावपि तस्याप्रवर्त्त-
प्रकाशिका। त्वमेवेत्यर्थः। दोषवत इति। व्याप्तिज्ञानं विना ज्ञानहेतुत्वादिति हेतुः, ज्ञानहेतुत्वञ्च प्रकृते विपर्य- यमादायैव सिद्धमिति विभावयितुं विपर्ययपदम्। ननु कुतो विशेषाद् विपर्यय इत्यत उक्तं दोषवत
मकरन्दः। इति च स्वरूपनिर्वचनं, ज्ञानहेतुत्वादित्यत्र तात्पर्यम्। संसर्ग इति। समस्ताश्रवणमेव बाधकमित्याशयः।
टिप्पणी। श्यकत्वात्। नचैवं तदनुरोधेन बाधनिश्चयाप्रतिबन्धकत्वमेवास्त्विति वाच्यम्। वह्निना सिञ्चतीत्यादावपि तदापत्तेः, योग्यताज्ञानस्य चमत्कारिद्विष्टसाधनत्वग्रहविरहनिश्चयेच्छाविरहेणानुत्पत्त्या मन्मतेऽ- सम्भवात् । न चेच्छया शाब्द एवाङ्गीक्रियतामिति वाच्यम्। परोक्षं ज्ञानमनाहार्यमिति सिद्धान्त- भङ्गात्। योग्यताज्ञानाभावप्रत्यक्षे शाब्दसामग्र्याः प्रतिबन्धकत्वाकल्पनेन लाघवानुरोधेनापि योग्यता- याः कारणत्वाच्च । नचोक्तयुक्तिभिः पदार्थे तत्र तद्वत्त्वरूपयोग्यताज्ञानमेवास्तु हेतुर्लाघवादिति वाच्यम् । अपूर्ववाक्यार्थस्थले यत्र क्वचित् साधारणधर्मज्ञानादिविरहादुक्तयोग्यतायाः संशयोऽपि नोत्पन्नस्तत्रापि स्वस्य बाधकप्रमाविरहनिश्चये पुरुषत्वादिरूपसाधारणधर्मदर्शनात् पुरुषान्तरेऽप्युक्तयोग्यताया निश्चयस्य संशयस्य च सम्भवादस्मन्मते तत्रापि शाब्दसम्भवात्। ये त्वेतादृशं स्थलं न मन्यन्ते तैः पदार्थे तत्र तद्व- त्वमेव योग्यत्वमुपेयते तन्मतेऽपि स्वपरेत्यादिग्रन्थः स्वपरबाधकप्रमाविरहः क्वचिन्निश्चीयते न सर्वत्र तदा कैव कथा योग्यता निश्चयस्य सर्वत्रानेवंगरत्या व्याख्येयः अत्र पक्षे बाधकसंशयस्येत्यादिग्रन्थः यथाश्रुत इति । अन्यथा प्रमामात्रोच्छेदप्रसङ्गादिति । बाधसंशयस्थलीयप्रमाशेषवैजात्यावच्छि- न्नोच्छेदप्रसङ्गादित्यर्थः । एतदेवाभासमन्वायेति । संशयसाधारणं योग्यतादिज्ञानं हेतुरित्येतदेवे- त्यर्थः । पूर्वापरितोषेणाहैति । पूर्वदोषस्याकाङ्क्षादेः स्वरूपत एव कारणत्वात् लिङ्गविधया हेतुत्वे ज्ञानस्यापेक्षणीयत्वं स्यात् तच्च नास्तीत्येतदभिप्रायकत्वात् । ज्ञातस्योपयोगित्वे लिङ्गविधयापि हेतुत्वे उक्तदोषासम्भव इत्यपरितोषः। व्याप्त्यादिज्ञानेति । यथाश्रुतस्य प्रकृतहेतुत्वासम्भवात् प्रकृतसङ्गम- नाय व्याचष्टे व्याप्त्यादीति । आदिपदान्निङ्गतावच्छेदकस्य पक्षे लिङ्गस्य च परिग्रहः । यज्जातीयस्य व्याप्त्यादिप्रतिसन्धानं विना दोषवति विपर्ययहेतुत्वं तज्जातीयस्य न लिङ्गविधया प्रमाणत्वम् लिङ्गवि-
३६८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १३ कारिकाव्याख्यायां संसर्गो न सिद्ध्येत् । आप्तवाक्येषु सेत्स्यतीति चेन्न । सर्वविषयाऽऽप्तत्वस्यासिद्धेः । यत्र क्वचिदाप्तत्वस्यानैकान्तिकत्वात् । प्रकृतविषये चाप्तत्वसिद्धौ संसर्गविशेषस्य प्रागेव सिद्धयभ्युपगमादित्युकम् ॥ न च सर्वत्र जिज्ञासा निबन्धनम्, अजिज्ञासोरपि वाक्यार्थप्रत्ययात् । आका- ङ्क्षापदार्थस्तर्हि कः ? । जिज्ञासां प्रति योग्यता । सा च पदस्मारिततदाक्षिप्तयोरविना- भावे सति श्रोतरि तदुत्पाद्यसंसर्गावगमप्रागभावः । न चैषोऽपि ज्ञानमपेक्षते, प्रति- योगिनिरूपणाऽधीन निरूपणत्वात्, तदभावनिरूपणस्य च विषयनिरूप्यत्वादिति॥१३॥ बोधनी । असंसर्ग इति । यदि यावत्समभिव्याहृतत्वविशेषणविधुरस्य संसर्गज्ञानपूर्वकत्वाभावो न दोषाय, विशिष्टस्य हेतुत्वात् तर्हि तद्विशेषितेऽपि हेतावनैकान्तिकत्वं सुवचमित्याह तर्हि इति । नन्वनाप्त- वाक्यस्याप्यसंसर्गाग्रहपूर्वकत्वात्तन्मात्रसाधने न व्यभिचार इत्याह असंसर्गाग्रह इति । एवं हि न कुतश्चिदपि वाक्यात् संसर्गावगतिः स्यादित्याह एवं तर्हि इति । नन्वाप्तप्रणीतत्वेनापि हेतुं विशे- षयिष्यामः, तथा च तस्य न व्यभिचार इत्याह आप्तवाक्येषु इति । तदेतत्प्रथमानुमान एवाशङ्क्य निरस्तमित्याह न इति । एवमाकाङ्क्षा नाम जिज्ञासेत्यङ्गीकृत्य तस्याः सत्तायां वाक्यार्थज्ञानहेतुत्वाल्लिङ्गविशेषणत्वं न संभवतीत्युक्तम् , इदानीं तु सत्तायापि हेतुत्वं नास्तीत्याह न च सर्वत्र इति । न हि प्रथममेव पूर्णवाक्यश्राविणो जिज्ञासापूर्वकः संसर्गप्रत्यय इति । यदि न जिज्ञासा का तर्हि वाक्यार्थप्रतीतिहे- तुराकाङ्क्षत्याह कस्तर्हि इति । जिज्ञासां इति । अयमर्थः-पदस्मारितस्य स्मारितांशस्य वा स्मारितेन तदाक्षिप्तेन वाऽविनाभावे सति श्रोतरि तत्पदार्थोत्पाद्यस्य संसर्गावगमस्य प्रागभावो जिज्ञा- सां प्रति योग्यता, सा चात्राकाङ्क्तेति । पदार्थाविनाभाव आकाङ्क्षेत्युक्ते घटो भवतीतिवाक्यपदप- दार्थस्य गुणाविनाभावेन तत्साकाङ्क्षत्वात् रक्तः घटो भवतीति वाक्यैकदेशवन्न पर्यवस्येदत उक्तं पदस्मारित इति । तर्हि नीलं सरोजमित्यत्र पदस्मारितयोर्नीलसरोजयोरविनाभावाभावादेकवाक्यता न स्यादतः उक्तं तदाक्षिप्तस्य इति । तत्र च विशेषयोर्विनाभावेऽपि तदाक्षिप्तगुणवद्द्रव्यत्वसामा- प्रकाशः । कत्वात् प्रवर्त्तकं संसर्गज्ञानं न स्यादित्यर्थः । सर्वेति । आप्तोक्तत्वस्य च लिङ्गविशेषणतया ज्ञातस्यैव हेतुत्वादित्यर्थः । सिद्धयभ्युपगमादिति । सिद्धयभ्युपगमप्रसङ्गादित्यर्थः । तथा च शब्दस्यानुवा- दकत्वेनाप्रामाण्यापत्तिरिति भावः । तदेवं पदस्मारितपदार्थविषया जिज्ञासेत्यङ्गीकृत्य उक्तं, सम्प्रति तामप्यव्यापकतायाऽऽस्कन्दितुमाह न चेति । अथ योग्यतैव केत्यत आह सा चेति । शब्दस्मा- रितयोरविनाभावो, यथौदनं पचतीत्यत्र क्रियाकारकयोः । तदाक्षिप्तयोरविनाभावो यथा नीलं सरो- जमस्तीत्यत्र विशेषाक्षिप्तयोर्द्रव्यगुणसामान्ययोः । प्रतिपादके संसर्गज्ञानप्रागभावो नास्तीत्यत उक्तं श्रोतरीति । वाक्यान्तरोच्चारणेन तत्रापि सोऽस्तीत्यत उक्तं तदुत्पाद्येति । तद्वाक्योच्चारणजन्य इत्यर्थः । प्रतियोगीति । संसर्गावगमप्रागभावो हि प्रतियोगिनि तदवगमे ज्ञाते ज्ञातव्यः, स च स्वविषये संसर्गे ज्ञाते बोद्धव्य इति संसर्गस्य प्रागेव ज्ञानाद्वाक्यस्याऽनुवादकत्वादप्रामाण्यापत्तिरित्यर्थः । प्रकाशिका । इति । संसर्गबाधकाच्चेति । संसर्गज्ञाने समस्तांश्रवणमेव बाधकमिति भावः । चकारोऽ- नभ्युपगमादिति हेतुमाश्रयस्थं समुचिनोति । तर्हीति मूलम् असंसर्गाग्रहेणापि व्यवहार- स्वीकारेण शब्दप्रयोगात्मकोऽपि व्यवहारोऽनाप्तस्यासंसर्गाग्रहादेव स्यादिति यावत् । समभिव्याह्रा- टिप्पणी । धया प्रमाणं धूमः, दोषवति व्याप्यादिप्रतिसन्धानं विना ह्रदो वह्निमानिति भ्रमं न जनयति जनयति च चक्षुरतो धूमजातीयपर्वते वह्निबोधे न लिङ्गविधयैव प्रमाणं न चक्षुः, प्रकृते च भ्रान्तिजनकत्वेना-
तृतीयस्तबके ] शब्दस्य वाचकत्वखण्डनम्। ३६६ बोधनी। न्ययोरविनाभावात्साकाङ्क्षत्वेनैकवाक्यतेति । तथाऽहो विमलं नद्या जलं कच्छे महिषश्चरतीति वाक्ययोर्भेदो न स्यात् नदीकच्छयोरविनाभावेन साकाङ्क्षत्वादत उक्तं तदुत्पाद्य इति । अत्र हि पूर्ववाक्यस्थनदीपदार्थोत्पाद्यस्य जलसंसर्गावगमस्य न प्रागभावस्तथोत्तरवाक्यस्थकच्छपदार्थोत्पाद्यस्य महिषसंचरणसंसर्गावगमस्यापि न प्रागभावः, तेन तयोर्निराकाङ्क्षत्वान्नैकवाक्यतेति । अस्त्वियमाकाङ्क्षा ततः किमित्यत आह न चैष इति । तेन हेतुविशेषणत्वायोगान्नानुमानत्वमिति । कुतो नापे क्ष्यत· इत्यत्राह प्रतियोगि इति । संसर्गावगमप्रागभावोऽपि प्रतियोगिभूतसंसर्गावगमनिरूप्यः, स चाकाङ्क्षा- धीननिरूपण इति इतरेतराश्रयत्वप्रसङ्ग इति । तदेवं शब्दमात्रस्यानुमानान्तर्भावं वदन्तो निरस्ताः ॥ प्रकाशः। ननु निराकाङ्क्षे तदुच्चारणजन्यसंसर्गज्ञानप्रागभावस्य सिद्धयऽसिद्धिभ्यां व्याघातः । प्रागभावस्य च कार्यमात्रहेतुत्वान्न शब्दसाधारण्यम् । प्रागभावाभावस्य च कारणान्तराभावन्याप्यत्वात्तत एव कार्याभाव इति आकाङ्क्षा न हेतुः स्यात् । योग्यताऽऽसत्त्योरेवकारणत्वापत्तिश्च । अयोग्यानासन्नयो- स्तदुच्चारणजन्यसंसर्गधीप्रागभावाभावादेवान्वयबोधानुत्पत्तेः । अथ ज्ञाप्यतदितरान्वयप्रकारकजिज्ञासानुकूलोपस्थितिहेतुत्वे सत्यजनिततात्पर्यविषयान्वयबोधक- प्रकाशिका। रविशिष्टोऽपि हेतुस्तत्र व्यभिचारी स्यादित्यर्थः । असंसर्गाग्रहेति । संवादिप्रवृत्तौ विशिष्ट- ज्ञानस्य हेतुतयाप्तवाक्यादावपि संसर्गासिद्धौ प्रवृत्तिर्न स्यादित्यर्थः । एवं च संसर्गो न सिद्ध्येदिति मूले कचिदपीति शेषः । आप्तवाक्येष्विति मूलं, तथाचाप्तोक्तत्वेन हेतुविशेषणान्न व्यभिचार इति भावः । अभ्युपगमो वस्तुगत्या नास्तीत्यत आह सिद्धयभ्युपगमेति । तथा चेति । शब्दस्यानाभिक्षिकस्यानुमानस्याप्रामाण्यापत्तिरित्यर्थः । यथाश्रुते इष्टापत्तेः । स्मारितयोरिति । सत्यन्तं चाकांक्षा लक्षणे स्वरूपनिर्वचनपरमित्यवसेयम्। नन्वेवं गौरश्व इत्यादेरप्यभेदान्वये साकाङ्क्षा- तापत्तिरित्यत आह गौरश्व इति । तथाचेष्टापत्तिरिति भावः । पदार्थानां स्वरूपेणोपस्थितिस्- त्फजिज्ञासानुकूला न वा, अन्त्ये दोषमाह नामेति । आद्ये दोषमाह घटः कर्मत्वमिति । अभिधानेति । अन्वयबोधानिष्पत्तिरित्यर्थः । अन्वयाबोधापर्यवसानमात्रं स्वरूपायोग्येऽप्यस्तीत्यतः तद्विशेषणेति । येन विनेति । स्वरूपायोग्ये च तत्प्रयुक्तमेवान्वयबोधापर्यवसानम् न तु पदान्तरव्यतिरेकप्रयुक्तमिति भावः ॥ १३ ॥ मकरन्दः। तस्येति । असंसर्गाग्रहस्येत्यर्थः । स्मारितयोरिति । एतच्च सत्यन्तं विशेषणं स्वरूप- निर्वचनम् । नन्वेवं गौरश्व इत्यादावभेदान्वयबोधे आकाङ्क्षा स्यादित्यत्र आह गौरश्व इति । तथा चेष्टापत्तिरिति भावः । यदि च स्वरूपेणैव तदुपस्थितिस्तदनुकूला, तत्राह घटः कर्मत्वमिति । अभिधानेति। अभिधानमन्वयानुभवः, तस्यापर्यवसानमनिष्पत्तिरित्यर्थः । एतच्च घटः कर्मत्वमि- त्यादावप्यस्तीत्यन्मपर्यवसानपदार्थमाह येनेति । घटः कर्मत्वमित्यादेश्च नैतरव्यतिरेकप्रयुक्तं क्रियाकर्मभावेनान्वयानुभावकत्वं, किन्तु स्वरूप योग्यत्वप्रयुक्तं, तत्समवधानेऽपि तदननुभाकत्वात् अभेदान्वये च तत्राप्याकाङ्क्षाऽस्त्येव, अयोग्यत्वाच्च नान्वयधीरित्यत आह घटः कर्मत्वमिति । आकाङ्क्षालक्षादिकं शब्दप्रकाशे सम्यग्व्याख्यातमनुसन्धेयम् ॥१३॥ टिप्पणी। न्यत्र प्रमाणत्वेन सम्प्रतिपन्नशब्दजातीय एव तथा स्वीकृतो न च तत्रास्ति लिङ्गतावच्छेदकनिश्चय इति न शब्दो लिङ्गविधया प्रमाणमिति प्रकृते सङ्गतम् । व्याप्तिज्ञानविरहेऽपि ज्ञानजनकत्वमात्रपरत्वे- ऽदृष्टं सदा भ्रान्ति जनयेदित्यत्र किमिव सङ्गतं स्यात्, अत एव विपर्ययहेतुत्वादित्यस्य ज्ञानहेतुत्वादि- दित्यत्र तात्पर्यमित्युक्तिः केषाञ्चिदनादरणीयैव। सिद्धयसिद्धिभ्यां व्याघात इति । घटः कर्म्मत्व- मित्यादिवाक्यं निराकाङ्क्षमिति व्यवहारविज्ञेय इत्यर्थः । अथ ज्ञाप्यतदितरान्वयेति । यत्पदे