पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
चक्रधर बोला,-“यह कैसी कथा ?” सुवर्णसिद्धि बोला-
भाषाटीकासमेतम् । ( ४७३) वरं बुद्धिर्न सा विद्या विद्याया बुद्धिरुत्तमा । बुद्धिहीना विनश्यन्ति यथा ते सिंहकारकाः ॥ ३६ ॥ बुद्धि अच्छी है वैसी विद्या अच्छी नहीं बुद्धिहीन मनुष्य सिंहकारकोंकी समान नष्ट होते हैं ॥ ३६ ॥ चक्रधर आह-“कथमेतत् ?” सुवर्णसिद्धिः आह- चक्रधर बोला,-“यह कैसी कथा ?” सुवर्णसिद्धि बोला- कथा ४. कस्मिंश्चित् अधिष्ठाने चत्वारो ब्राह्मणपुत्राः परस्परं मित्र- भावम् उपगता वसन्ति स्म । तेषां त्रयः शास्त्रपारंगताः परन्तु बुद्धिरहिताः । एकस्तु बुद्धिमान्, केवलं शास्त्रपराङ्- मुखः। अथ तैः कदाचित् मित्रैः मन्त्रितम् । “को गुणो विद्या- या येन देशान्तरं गत्वा भूपतीन् परितोष्य अर्थोपार्जना न क्रियते ? तत्पूर्वदेशं गच्छामः” । तथानुष्ठिते किञ्चिन्मार्गे गत्वा तेषां ज्येष्ठतरः प्राह,-“अहो ! अस्माकमेकः चतुर्थो मूढः केवलं बुद्धिमान् । न च राजप्रतिग्रहो बुद्ध्या लभ्यते विद्यां विना । तन्न अस्मै स्वोपार्जितं दास्यामि । तद्गच्छतु गृहम्” । ततो द्वितीयेन अभिहितम्-“भो सुबुद्धे ! गच्छ त्वं स्वगृहं यतः ते विद्या नास्ति” । ततः तृतीयेन अभिहि- तम्,-“अहो ! न युज्यते एवं कर्तुं यतो वयं बाल्यात् प्रभृति एकत्र क्रीडिताः तत् आगच्छतु महानुभावोऽस्मदुपार्जितवि- त्तस्य समभागी भविष्यतीति । उक्तञ्च- किसी स्थानमें चार ब्राह्मणके पुत्र परस्पर मित्रभावको प्राप्त हुए रहते थे । उनमें तीन तो शास्त्रके पारगामी थे परन्तु बुद्धिहीन थे । एक उनमे बुद्धिमान् केवल शास्त्रसे पराङ्मुख था । तब उन मित्रोंने एक समय सम्मति करी । “विद्यासे क्या गुण है जिससे देशान्तरमें जाकर राजोंको सन्तुष्ट करके धन उपार्जन न किया जाय । सो पूर्व देशको चलैं । ऐसा कहकर कुछ मार्गमें जाकर उनमें ज्येष्ठतर बोला,-“अहो हममें एक ही चौथा मूढ केवल बुद्धिमान् परन्तु राजासे भेट केवल बुद्धिसे विद्याके बिना प्राप्त नहीं होती । सो हम इसको अपना
( ४७४ ) पञ्चतन्त्रम् ।
( ४७४ ) पञ्चतन्त्रम् । उपार्जन किया न देंगे । सो घर जाओ" । तब दूसरेने कहा-"भो सुबुद्धे ! तुम अपने घरको जाओ कारण कि तुमको विद्या नहीं है" । तब तीसरेने कहा-"ऐसा करनेको तुम योग्य नहीं हो हम बालकपनसे एक स्थानमें खेले हैं । सो आप महानुभाव आइये हमारे उपार्जन किये धनके समान भागी होंगे- किं तया क्रियते लक्ष्म्या या वधूरिव केवला । या न वेश्येव सामान्या पथिकैरुपभुज्यते ॥ ३७ ॥ कहा है उस लक्ष्मीसे क्या करें जो केवल वधूकी समान है और जो साधारण वेश्याकी समान पथिकोंसे नहीं भोगी जाती है ॥ ३७ ॥ तथाच- और देखो- अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानान्तु वसुधैव कुटुम्बकम् ॥ ३८ ॥ यह हमारा है यह पराया यह लघुचित्तवालोंकी गणना है । और उदार चरित्रवालोंको वसुधाभर कुटुम्ब है ॥ ३८ ॥ तदागच्छतु एषोऽपि" इति । तथा अनुष्ठिते तैः मार्गा- श्रितैः अटव्यां मृतसिंहस्य अस्थीनि दृष्टानि । ततश्च एकेन अभिहितम्,-"अहो ! अद्य विद्याप्रत्ययः क्रियते । किञ्चिदे- तत् सत्वं मृतं तिष्ठति, तद्विद्याप्रभावेण जीवनसहितं कुर्मः, अहम् अस्थिसञ्चयं करोमि" ततश्च एकेन औत्सुक्यात् अस्थिसञ्चयः कृतः । द्वितीयेन चर्ममांसरुधिरं संयोजितम् । तृतीयोऽपि यावज्जीवनं सञ्चारयति तावत् सुबुद्धिना नि- षिद्धः । "भोः ! तिष्ठतु भवान्, एष सिंहो निष्पाद्यते यदि एनं सजीवं करिष्यसि ततः सर्वानपि व्यापादयिष्यति" । इति तेन अभिहितः स "धिक् मूर्ख ! नाहं विद्याया विफ- लतां करोमि" । ततः तेनाभिहितम्-"तर्हि प्रतीक्षस्व क्षणं यावदहं वृक्षमDictारोहामि" तथानुष्ठिते यावत् सजीवः कृतः तावत् ते त्रयोऽपि सिंहेन उत्थाय व्यापादिताः स च पुनः वृक्षात् अवतीर्य्य गृहं गतः । अतोऽहं ब्रवीमि-
भाषाटीकासमेतम् । ( ४७५ ) सो यहभी चले” । ऐसा करनेपर उन बटोहीयोंने जङ्गलमे मरे सिंहकी हड्डी देखी । तब एकने कहा-“अहो ! आज विद्याकी परीक्षा करे । कोई यह जीव मृतक हुआ स्थित है । सो विद्याके प्रभावसे इसको जीवित करें । मैं अस्थिस- चय करूं” । तब एकने उत्कठासे अस्थिसंचय की । दूसरेनें ( मन्त्रसे ) चर्म मास रुधिरसे युक्त किया । तीसराभी जबतक उसको जीवित करने लगा । तबतक सुबुद्धिने निषेध किया-‘भो ! आप ठहरो । यह सिंह निर्मित किया जाता है । जो इसे जीवित करोगे तो यह सबको नष्टकर देगा” । इस प्रकार उसके कहनेपर वह बोला,-‘धिक् मूर्ख ! मैं विद्याको विफल नहीं करूंगा” । तब उसने कहा-“तो क्षणमात्र प्रतीक्षा करो जबतक मैं वृक्षपर चढ जाऊं” । ऐसा करनेपर जभी उन्होंने उसे जिलाया तबतक उन तीनोंको उठकर सिंहने मारडाला । और वह फिर वृक्षसे उतरकर घर गया । इससे मैं कहता हू- वरं बुद्धिर्न सा विद्या विद्याया बुद्धिरुत्तमा । बुद्धिहीना विनश्यन्ति यथा ते सिंहकारकाः ॥ ३९ ॥ बुद्धि अच्छी है विद्या नहीं विद्यासे बुद्धि श्रेष्ठ है बुद्धिहीन पुरुष सिंह बना- नेवालोकी समान नष्ट होते हैं ॥ ३९ ॥ अतः परमुक्तञ्च- औरभी कहा है- अपि शास्त्रेषु कुशला लोकाचारविवर्जिताः । सर्वे ते हास्यतां यांति यथा ते मूर्खपण्डिताः ॥ ४० ॥” शास्त्रमें भी कुशल लोकाचारसे हीन सब वे मूर्खपंडितोकी समान हास्यताको प्राप्त होते हैं ॥ ४० ॥” चक्रधर आह-“कथमेतत् ?” सोऽब्रवीत्- चक्रधर बोला-“यह कैसे ?” वह बोला- कथा ५. कस्मिंश्चित् अधिष्ठाने चत्वारो ब्राह्मणाः परस्परं मित्र- त्वम् आपन्ना वसन्ति स्म । बालभावे तेषां मतिः अजायत । “भो ! देशान्तरं गत्वा विद्याया उपार्जनं क्रियते” । अथ अन्यस्मिन् दिवसे ब्राह्मणाः परस्परं निश्चयं कृत्वा विद्योपा
( ४७६ ) पञ्चतन्त्रम् ।
[Header] ( ४७६ ) पञ्चतन्त्रम् ।
र्जनार्थं कान्यकुब्जे गताः, तत्र च विद्यामठे गत्वा पठन्ति । एवं द्वादशाब्दानि यावत् एकचित्ततया विद्याकुशलास्ते सर्वे सञ्जाताः । ततः तैः चतुर्भिर्मिलित्वा उक्तम्-“वयं सर्व- विद्यापारे गताः । तदुपाध्यायम् उत्कलापयित्वा स्वदेशे गच्छामः”।”तथैव क्रियताम्” इत्युक्ता ब्राह्मणा उपाध्याय- मुत्कलापयित्वा अनुज्ञां लब्ध्वा पुस्तकानि नीत्वा प्रचलिताः। यावत् किञ्चित् मार्गं यान्ति तावत् द्वौ पन्थानौ समायातौ । उपविष्टाः सर्वे । तत्रैकः प्रोवाच,–“केन मार्गेण गच्छामः ?” एतस्मिन् समये तस्मिन् पत्तने कश्चित् वणिक्पुत्रो मृतः तस्य दाहार्थे महाजनो गतोऽभूत् । ततः चतुर्णां मध्यात् एकेन पुस्तकम् अवलोकितम्-“महाजनो येन गतः स पन्थाः” इति “तत् महाजनमार्गेण गच्छामः” । अथ ते पण्डिता यावत् महाजनमेलापथिकेन सह यान्ति तावत् रासभः कश्चित् तत्र श्मशाने दृष्टः । अथ द्वितीयेन पुस्तकम् उद्घाट्य अवलोकितम्- किसी स्थानमें चार ब्राह्मण परस्पर मित्र रहतेथे । बालकभावमेंही उनकी यह बुद्धि हुई कि,–“भो ! देशान्तरमें जाकर विद्या उपार्जन करना चाहिये”। तब और दिन वे ब्राह्मण परस्पर निश्चय करके विद्या उपार्जनके निमित्त कन्नो- जको गये । वहां विद्यालयमें जाकर पढने लगे । इस प्रकार बारह वर्षमें एक चित्तसे विद्या पढनेमें ये सब विद्यामें कुशल हुए । तब उन चारोंने मिलकर कहा- “हम सब विद्याके पार हुए सो उपाध्यायको संतुष्ट कर अपने देशको जांय” । “ऐसाही करो” यह कहकर वे ब्राह्मण उपाध्यायको सन्तुष्ट कर उनकी आज्ञा लेकर पुस्तकें लेकर चले । जबतक कुछ मार्गमें जाते हैं कि तबतक दो मार्ग आये । सब बैठ गये । उनमें एक बोला,-“किस मार्गसे जांय ?” । इसी समय उस नगरमें कोई वणिक्पुत्र मरगया । उसके दाहके निमित्त महाजन जाते थे । तब चारोंके बीचमें एकने पुस्तक खोल कर कहा--“जिसमें बहुतसे लोग गमन करते हैं वही मार्ग है इससे महाजनोंके मार्गसे गमन करें” । तब वे महाजन जब महाजनके संग मार्गमें जाने लगे । तबतक श्मशानमें कोई गधा देखा । तब दूसरेने पुस्तक खोलकर देखा कि-
भाषाटीकासमेतम् । ( ४७७ ) “उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रुसंकटे । राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥ ४१ ॥ “उत्सव, व्यसनप्राप्ति, दुर्भिक्ष, शत्रुसंकट, राजद्वार और श्मशानमें जो स्थित हो वह बन्धु है ॥ ४१ ॥ तत् अहो ! अयम् अस्मदीयो बान्धवः” । ततः कश्चित् तस्य ग्रीवायां लगति । कोऽपि पादौ प्रक्षालयति । अथ यावत् ते पण्डिताः दिशाम् अवलोकनं कुर्वन्ति तावत् कश्चित् उष्ट्रो दृष्टः । तैश्च उक्तम्,-“एतत् किम् ?” तावत् तृतीयेन पुस्तकम् उद्घाट्य उक्तम्,-“धर्मस्य त्वरिता गतिः” “एष धर्मस्तावत्” । चतुर्थेन उक्तम्,-“इष्टं धर्मेण योजयेत् ।” अथ तैश्च रासभ उष्ट्रग्रीवायां बद्धः केनचित् रजकस्य अग्रे कथि- तम् । यावत् रजकः तेषां मूर्खपण्डितानां प्रहारकरणाय समायातः तावत् ते प्रनष्टाः यावदग्रे किञ्चित् स्तोकं मार्गं यान्ति तावत् काचित् नदी समासादिता । तत् तस्या जल- मध्ये पलाशपत्रम् आयातं दृष्ट्वा पण्डितेन एकेन उक्तम्- सो अहो यह हमारा बंधु है” । सो कोई उसकी ग्रीवामें लगता है कोई चरण धोता है । तब ज्योंही वे पंडित दिशाओकी ओर देखते हैं तबतक कोई ऊंट देखा । उन्होंने कहा-“यह क्या है?” तब तीसरेने पुस्तक खोलकर कहा-“धर्मकी शीघ्र गति है” । “यह धर्म है” चौथेने कहा-“इष्टको धर्मके साथ संयुक्त करना चाहिये” । तब उन्होंने गधेको ऊंटकी गरदनमें बांधा । तब यह किसीने धोबीके आगे कहा सो जबतक वह धोबी उन मूर्ख पंडितोंको प्रहार करनेको आया । तबतक वे पलायन करगये । जबतक आगे किसी लघु मार्गको प्राप्त हुए कि तबतक कोई नदी मिली तब उसके जलमें ढाकका पत्र आया देखकर एक पंडितने कहा- “आगमिष्यति यत्पत्रं तदस्मांस्तारयिष्यति ।” “जो यह पत्र आ रहा है सो हमको तार देगा ।” एतत् कथयित्वा तत्पत्रस्य उपरि पतितो यावत् नद्या नीयते तावत् तं नीयमानम् अवलोक्य अन्येन पण्डितेन केशान्तं गृहीत्वा उक्तम्-
( ४७८ ) पञ्चतन्त्रम् ।
( ४७८ ) पञ्चतन्त्रम् । ऐसे कह उस पत्रके ऊपर गिरे जबतक नदी उसे (पंडितको) बहा लेचली तबतक उसे बहता हुआ देख दूसरे पंडितने बाल पकड़कर कहा-- “सर्वनाशे समुत्पन्ने अर्द्धं त्यजति पण्डितः । अर्द्धेन कुरुते कार्य्यं सर्वनाशो हि दुःसहः ॥ ४२ ॥” सर्वनाश उपस्थित होनेमे पंडित जन आधा त्यागदेते है आधेसेही कार्य करते है कारण कि सर्वनाश नहीं सहा जाता है ॥ ४२ ॥ इत्युक्त्वा तस्य शिरश्च्छेदो विहितः । अथ तैश्च पश्चात् गत्वा कश्चिद्ग्राम आसादितः । तेऽपि ग्रामीणैः निमन्त्रिताः पृथक् पृथक् गृहेषु नीताः । ततः एकस्य सूत्रिका घृतखण्डसं- युक्ता भोजने दत्ता । ततो विचिन्त्य पंण्डितेन उक्तम्--“यद्दी- र्घसूत्री विनश्यति”--एवमुक्त्वा भोजनं परित्यज्य गतः। तथा द्वितीयस्य मण्डका दत्ताः । तेनापि उक्तञ्च--“अतिविस्तार- विस्तीर्णं तद्भवेन्न चिरायुषम्” । स च भोजनं त्यक्त्वा गतः । अथ तृतीयस्य वटिकाभोजनं दत्तम् । तत्रापि पण्डितेन उक्तम्--“छिद्रेष्वनर्था बहुलीभवन्ति”। एवं तेऽपि त्रयः पण्डि- ताः क्षुत्क्षामकण्ठा लोकैः हास्यमानाः ततः स्थानात् स्व- देशं गताः। अथ सुवर्णसिद्धिः आह--“यस्त्वं लोकव्यवहारम् अजानन् मया वार्य्यमाणोऽपि न स्थितः ततः ईदृशीमवस्थाम् उपगतः । अतोऽहं ब्रवीमि- ऐसा कह उसका शिर काट लिया । तब वह पीछे फिर कर किसी ग्राममें : पहुंचे । उन्हे ग्रामीण निमंत्रित कर पृथक् पृथक् अपने घर लेगये तब एकने सूत्रघृत खांड़से युक्त भोजनको दिया । तब विचार कर पंडितने कहा--“जो कि दीर्घसूत्री (आलसी) नष्ट होता है” । ऐसा कह भोजन त्याग कर गया । दूसरेने मण्ड (मिष्टान्न) दिया तब उसने कहा “अतिविस्तारसे विस्तीर्ण चिरायुके निमित्त नहीं होता है” । और वह भी भोजन त्याग कर चलागया । तीसरेने वटिका (पिष्टी) का भोजन दिया । वहां भी उस पांडेतने कहा--“छिद्र युक्त (पिष्टक) में बहुत अनर्थ होते हैं”। इस प्रकार वे तीनो पंडित भूखसे व्या- कुल लोकोंसे हंसीको प्राप्त हुए अपने देशोंको प्राप्त हुए । तब सुवर्णसिद्धि बोला--“जो कि तू लोकव्यवहारको न जानकर मुझसे निवारण किया हुआ भी न स्थित हुआ इस कारण ऐसी दशाको प्राप्त हुआ । इससे मैं कहता हूं-
भाषाटीकासमेतम् । ( ४७९ ) अपि शास्त्रेषु कुशला लोकाचारविवर्जिताः । सर्वे ते हास्यतां यान्ति यथा ते मूर्खपण्डिताः ॥ ४३ ॥” कि, शास्त्रमे कुशल भी लोकाचार न जाननेके कारण उन मूर्ख पंडितोकी समान वे सभी हास्यताको प्राप्त होते हैं ॥ ४३ ॥” तत् श्रुत्वा चक्रधर आह–“अहो ! अकारणमेतत् । यह सुनकर चक्रधर बोला--“अहो ! यह तो अकारण है । बहुबुद्धयो विनश्यन्ति दुष्टदैवेन नाशिताः । स्वल्पबुद्धयोऽप्येकास्मिन् कुले नन्दन्ति सन्ततम् ॥ ४४ ॥ दुष्ट दैवसे नाशित होकर महाबुद्धिमान् भी नष्ट होते हैं और स्वल्पबुद्धिवाले भी एक कुलमे निरन्तर आनन्दको प्राप्त होते है ॥ ४४ ॥ उक्तञ्च- कहा है कि- अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहतं विनश्यति । जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे न जीवति ॥ ४५ ॥ नहीं रक्षित किया दैवसे रक्षित होकर स्थित रहता है, भली प्रकार रक्षा किया हुआभी दैवसे हत होनेके कारण नष्ट हो जाता है, वनमे विसर्जन किया अनाथ भी जीता है, और यत्न करनेपर घरमें भी नही जीता ॥ ४५ ॥ तथाच- और देखो- शतबुद्धिः शिरस्थोऽयं लम्बते च सहस्रधीः । एकबुद्धिरहं भद्रे क्रीडामि विमले जले ॥ ४६ ॥” यह शतबुद्धि शिरपर है और यह सहस्रबुद्धि लटकता है हे भद्रे ! मै एक- बुद्धि हू जो उज्ज्वल जलमें क्रीडा करता हू ॥ ४६ ॥ सुवर्णद्धिः आह,-कथमेतत्” स आह,- सुवर्णसिद्धि बोला-“यह कैसे?” चक्रधर बोला-
(४८०) पञ्चतन्त्रम् ।
(४८०) पञ्चतन्त्रम् । कथा ६. कस्मिंश्चित् जलाशये शतबुद्धिः सहस्रबुद्धिश्च द्वौ मत्स्यौ निवसातः स्म। अथ तयोः एकबुद्धिर्नाम मण्डूको मित्रतां गतः। एवं ते त्रयोऽपि जलतीरे कञ्चित् कालं वेलायां सुभाषितसु- खम् अनुभूय भूयोपि सलिलं प्रविशन्ति । अथ कदाचित् तेषां गोष्ठीगतानां जालहस्तधीवराः प्रभूतैः मत्स्यैः व्यापादितैः मस्तके विधृतैः अस्तमनवेलायां तस्मिन् जलाशये समा- याताः। ततः सलिलाशयं दृष्ट्वा मिथः प्रोचुः- “अहो ! बहुम- त्स्योऽयं ह्रदो दृश्यते स्वल्पसलिलश्च । तत्प्रभाते अत्र आग- मिष्यामः”। एवमुक्त्वा स्वगृहं गताः । मत्स्याश्च विषण्ण- वदना मिथो । मन्त्रं चक्रुः ततो मण्डूक आह- “भोः ! शत- बुद्धे ! श्रुतं धीवरोक्तं भवता ? तत् किमत्र युज्यते कर्त्तुम् ! पलायनम् अवष्टम्भो वा ? यत्कर्त्तुं युक्तं भवति तत् आदिश्य- ताम् अद्य !” तत् श्रुत्वा सहस्रबुद्धिः प्रहस्य आह,- “भो मित्र ! मा भैषीर्यतो वचनस्मरणमात्रादेव भयं न कार्य्यम् । न भेतव्यम् । उक्तञ्च- किसी सरोवरमें शतबुद्धि और सहस्रबुद्धि नामके दो मच्छ रहते थे । उनका एकबुद्धिनाम मेडक मित्र होगया । इस प्रकार वे तीनों ही जलके किनारे किसी कालतक सुभाषित गोष्ठीका सुख अनुभव कर फिरभी जलमें प्रवेश कर जाते । कभी गोष्ठीमें प्राप्त होनेपर जाल हाथमें लिये धीमर बहुतसी मच्छियोंको मार- कर मस्तकपर धरे अस्तके 'समय उस सरोवरके निकट प्राप्त हुए । तब सरोव- रको देख परस्पर कहने लगे- “अहो ! यह ह्रद बहुत मछलियोंसे युक्त थोडे जलवाला है । सो प्रातःकाल यहां आवेंगे”। ऐसा कह अपने घर गये । तब मत्स्य व्याकुल हो परस्पर मंत्रणा करने लगे । तब मेडक बोला- “भो शतबुद्धि ! सुना तुमने धीमरोंका वचन ? सो अब क्या करना उचित है ? पलायन करना वा गुप्त होकर यहां रहना ? । जो करना उचित समझो वह अभी कहो?” यह सुन सहस्रबुद्धि हँसकर बोला,-- “मित्र ! डरो मत, वचनके स्मरण मात्रसेही भय न करना चाहिये, मत डरो । कहा है कि-
भाषाटीकासमेतम् । ( ४८१ ) सर्पाणाञ्च खलानाञ्च सर्वेषां दुष्टचेतसाम् । अभिप्राया न सिद्ध्यन्ति तेनेदं वर्त्तते जगत् ॥ ४७ ॥ सर्प, खल, और सब प्रकारके दुष्टचित्तवाले पुरुषोंके अभिप्राय सिद्ध नहीं होते हैं इसीसे यह जगत् वर्तता है ॥ ४७ ॥ तत् तावत् तेषाम् आगमनमपि न सम्पत्स्यते, भविष्य- ति वा, तर्हि त्वां बुद्धिप्रभावेण आत्मसहितं रक्षिष्यामि यतोऽनेकां सलिलगतिचर्याम् अहं जानामि" । तत् आक- र्ण्य शतबुद्धिः आह,-"भो ! युक्तमुक्तं भवता, सहस्रबुद्धिरेव भवान् । अथवा साधु इदमुच्यते- सो पहिले तो उनके आगमनकी भी सम्भावना नहीं । और होगा तो तुझे बुद्धिके प्रभावसे अपने सहित रक्षा करूंगा । कारण अनेक जलकी गतियोंमें चलना मैं जानता हूँ" यह सुनकर शतबुद्धि बोला,-"भो ! तुमने सत्य कहा । आप सहस्र बुद्धिही हो । अथवा यह अच्छा कहा है-- बुद्धेर्बुद्धिमतां लोके नास्त्यगम्यं हि किंचन । बुद्ध्या यतो हता नन्दाश्चाणक्येनासिपाणयः ॥ ४८ ॥ बुद्धिमानोंकी बुद्धिके सन्मुख संसारमें कोई वस्तु अगम्य नहीं होती बुद्धिसेही चाणक्यने खङ्गपाणि नन्दोंका वध किया ॥ ४८ ॥ तथाच- और देखो-- न यत्रास्ति गतिर्वायो रश्मीनाञ्च विवस्वतः । तत्रापि प्रविशत्याशु बुद्धिर्बुद्धिमतां सदा ॥ ४९ ॥ जहा वायु और सूर्यकी किरणोंकी गति नहीं है वहाभी बुद्धिमानोकी बुद्धि सदा प्रवेश कर जाती है ॥ ४९ ॥ ततो वचनश्रवणमात्रादपि पितृपर्यायागतं जन्मस्थानं त्यक्तुं न शक्यते । उक्तंच- सो वचनश्रवणमात्रसेही पिता आदिके क्रमसे प्राप्त हुई जन्मभूमि त्यागनेको समर्थ नहीं होता । कहा है कि- ३१
( ४८२ ) पञ्चतन्त्रम् ।
( ४८२ ) पञ्चतन्त्रम् । न तत्स्वर्गेऽपि सौख्यं स्याद्दिव्यस्पर्शनशोभने । कुस्थानेऽपि भवेत्पुंसां जन्मनो यत्र सम्भवः ॥ ५० ॥ वह दिव्य स्पर्शसे शुभग स्वर्गमेभी सुख नहीं है जो सुख पुरुषोको कुत्सित जन्मस्थानमें भी होता है ॥ ५० ॥ तन्न कदाचिदपि गन्तव्यम् । अहं त्वां सुबुद्धिप्रभावेण रक्षिष्यामि” । मण्डूक आह,-"भद्रौ ! मम तावद् एका एव बुद्धिः पलायनपरा, तत् अहम् अन्यं जलाशयमैवैद सभार्यो यास्यानि”। एवमुक्त्वा स मण्डूको रात्रौ एव अन्य- जलाशयं गतः। धीवरैः अपि प्रभाते आगत्य जघन्यमध्यमो- त्तमजलचरा मत्स्यकूर्ममण्डूककर्कटादयो गृहीताः तौ अपि शतबुद्धिसहस्रबुद्धी सभार्यौ पलायमानौ चिरम् आत्मानं गतिविशेषविज्ञानैः कुटिलचारेण रक्षन्तौ जाले पतितौ व्या- पादितौ च । अथ अपराह्नसमये प्रहृष्टास्ते धीवराः स्वगृहं प्रति प्रस्थिताः । गुरुत्वात् च एकेन शतबुद्धिः स्कन्धे कृतः । सह- स्रबुद्धिः प्रलम्बमानो नीयते । ततश्च वापीकण्ठोपगतेन मंडू- केन तौ तथा नीयमानौ दृष्ट्वा अभिहिता स्वपत्नी-“प्रिये ! पश्य पश्य । सो किसी प्रकार डरना न चाहिये । मैं तुम्हारी अपनी बुद्धिके प्रभावसे रक्षा करूंगा”। मण्डूक बोला-“भद्रो! मेरी तो एकही बुद्धि पलायनमें है, सो मैं तो दूसरे जलाशयको अभी भार्याके सहित जाता हू, ऐसा कहकर वह मण्डूक रात्रिमेंही दूसरे जलाशयको चलागया । धीमरोंनेभी प्रातःकाल आकर निकृष्ट, मध्यम,उत्तम जलचर मत्स्य,कछुए,मेंडक, केंकड़े आदि पकड़े यह दोनोंभी शत- बुद्धि सहस्रबुद्धि भार्यासहित भागतेहुए बहुत समयतक अपनेको गतिविशेषके विज्ञान और कुटिलाचरणसे रक्षा करतेहुए अन्तमें जालमें पडकर मारेगये । तब : तीसरे प्रहरके समय प्रसन्न हुए वे धीमर अपने घरकी ओर चले । भारी होनेसे एकने शतबुद्धिको कंधेपर धरा, सहस्रबुद्धिकोभी लटकाकर लेचले । तब बाव- डीके समीप प्राप्तहुए मण्डूकने उनको इस प्रकार लेजाते देख अपनी स्त्रीसे कहा-“प्रिये ! देखो देखो !
भाषाटीकासमेतम् । ( ४८३ ) शतबुद्धिः शिरस्थोऽयं लम्बते च सहस्रधीः । एकबुद्धिरहं भद्रे ! क्रीडामि विमले जले ॥ ५१ ॥” यह शतबुद्धि शिरपर है और यह सहस्रबुद्धि लटकता है हे भद्रे ! मैं एक- बुद्धि निर्मल जलमें क्रीडा करता हूं ॥ ५१ ॥” अतोऽहं ब्रवीमि-“न एकान्ते बुद्धिरपि प्रमाणम्” । सुव- र्णसिद्धिः आह-“यद्यपि एतदस्ति तथापि मित्रवचनम् अनु- ल्लंघनीयम् । परं किं क्रियते । निवारितोऽपि मया न स्थितोऽ- तिलौल्यात् विद्याहंकाराच्च । अथवा साधु इदमुच्यते,- इससे मैं कहता हूं-“निरी बुद्धिकाही प्रमाण नहीं है” सुवर्णसिद्धि बोला- “यद्यपि ऐसा है तथापि मित्रके वचन उल्लङ्घन करने नहीं चाहिये परन्तु क्या कियाजाय, मेरे निवारण करनेपरभी तौ चञ्चळतासे न ठहरे तथा विद्याका अह- ङ्कार किया । अथवा यह अच्छा कहा है- साधु मातुल गीतेन मया प्रोक्तोऽपि न स्थितः । अपूर्वोऽयं मणिर्बद्धः सम्प्राप्तं गीतलक्षणम् ॥ ५२ ॥” धन्य मामा ! धन्य ! मेरे कहनेपरभी गीतप्रिय होनेके कारण आप स्थित न हुए तिससे यह अपूर्व मणि बांधकर गीतका पुरस्कार प्राप्त किया ॥ ५२ ॥” चक्रधरः प्राह,-“कथमेतत् ?” सोऽब्रवीत- चक्रधर बोला-“यह कैसे ?” सुवर्णसिद्धि बोला- कथा ७. कस्मिंश्चित् अधिष्ठाने उद्धतो नाम गर्दभः प्रतिवसतिस्म । स सदैव रजकगृहे भारोद्वहनं कृत्वा रात्रौ स्वेच्छया पर्य्य- टति । ततः प्रत्यूषे बन्धनभयात् स्वयमेव रजकगृहम् आ- याति । रजकोऽपि ततस्तं बन्धने न नियुनाक्ति । अथ तस्य रात्रौ पर्य्यटतः क्षेत्राणि कदाचित् शृगालेन सह मैत्री सञ्जाता । स च पीवरत्वात् वृत्तिभंगं कृत्वा कर्कटिकाक्षेत्रे शृगालसहितः प्रविशति । एवं तौ यदृच्छया चिर्भटिकाभ- क्षणं कृत्वा प्रत्यहं प्रत्यूषे स्वस्थानं व्रजतः । अथ कदाचित् तेन मदोद्धतेन रासभेन क्षेत्रमध्यस्थितेन शृगालोऽभिहितः-
( ४८४ ) पञ्चतन्त्रम् ।
( ४८४ ) पञ्चतन्त्रम् । “भो भगिनीसुत ! पश्य पश्य, अतीव निर्मला रजनी । तदहं गीतं करिष्यामि । तत् कथय कतमेन रागेण करोमि ?” स आह,—“माम! किमनेन वृथा अनर्थप्रचालनेन यतः चौरकर्म- प्रवृत्तौ आवां निभृतैश्च चौरजारैः अत्र स्थातव्यम् । उक्तञ्च- किसी स्थानमें उद्धत नाम गधा रहता था । वह सदा धोबीके घरमें बोझ उठाकर रात्रिको स्वेच्छासे पर्यटन करता । और प्रातःकालही बन्धनके भयसे स्वयं ही धोबीके घर आजाता । रजक भी उसको बन्धनमें न नियुक्त करता । तब उसके रात्रिमें घूमतेहुए क्षेत्रोंमें शृगालके साथ एक समय उसकी मित्रता होगई । वह पुष्ट होनेसे बाड़ तोड़कर ककड़ीके खेतमें शृगालसहित घुस जाता । इस प्रकार वे यथेच्छ ककड़ी भक्षण करते प्रतिदिन प्रातःकाल अपने स्थानको जाते । तब कभी उस मदोद्धत गधेने क्षेत्रके मध्यस्थित हो शृगालसे कहा-“भो भानूजे ! देख २ बड़ी निर्मल रात्रि है । सो मैं गीत करता हूं । सो कह कौनसे राग (स्वर) से गाऊं ?” । वह बोला,—“मामा ! इन अन- र्थके व्यापारसे क्या है ? क्यों कि चौरकर्ममें प्रवृत्त हुए हम दोनो हैं । इस ससारमें चोर जारोंको मौन रहना चाहिये । कहा है- कासयुक्तस्त्यजेच्चौर्यं निद्रालुश्चैत्स चौरिकाम् । जिह्वालौल्यं रुजाक्रान्तो जीवितं योऽत्र वाञ्छति ॥५३॥ खांसीवाला चोरी न करे, बहुत सोनेवाला चोरीकी वृत्तिको त्यागन करे, रोगी जिह्वाका स्वाद त्यागदे, जो जीवनकी इच्छा करे तो ॥ ५३ ॥ अपरं त्वदीयं गीतं न मधुरस्वरं शंखशब्दानुकारं दूरा- दपि श्रूयते । तदत्र क्षेत्रे रक्षापुरुषाः सन्ति । ते उत्थाय वधं बन्धं वा करिष्यन्ति । तद्भक्षय तावत् अमृतमंयाः चिर्भटीः । मा त्वम् अत्र गीतव्यापारपरो भव” । तत् श्रुत्वा रासभ आह,—“भो ! वनाश्रयत्वात् त्वं गीतरसं न वेत्सि । तेन एत- द्ब्रवीषि । उक्तञ्च- फिर तेरा गीतभी मधुर स्वरका नहीं है शंखके शब्दकी समान दूरसे भी सुना जाता है । और इस खेतमें रक्षा पुरुष हैं । वे उठकर वध वा बंधन करेंगे सो अमृतमय ककड़ी खाओ । इस समय तुम गीतका व्यापार मतकरो” । यह सुनकर गधा बोला,—“भो ! वनवासी होनेसे तू गीतरसको नहीं जानता है इससे ऐसा कहता है । कहा है-
निकट वडभागी पुरुषोंके कानमें गीतके झंकारसे उत्पन्न हुई सुधा प्राप्त
भाषाटीकासमेतम् । (४८५) शरज्ज्योत्स्नाहते दूरं तमसि प्रियसन्निधौ । धन्यानां विशति श्रोत्रे गीतझंकारजा सुधा ॥ ५४ ॥” शरदमें चन्द्रकिरणद्वारा अन्धकार दूर (नाश) करनेपर प्रिय जनोंके निकट वडभागी पुरुषोंके कानमें गीतके झंकारसे उत्पन्न हुई सुधा प्राप्त होती है ॥ ५४ ॥” शृगाल आह-“माम ! अस्ति एतत्, परं न वेत्सि त्वं गीतं केवलम् उन्नदसि । तत् किंतेन स्वार्थभ्रंशकेन ?” रासभ आह,-“धिक् धिक् मूर्ख ! किमहमं न जानामि गीतम् ? तद्यथा तस्य भेदान् शृणु- शृगाल बोला,-“मामा ! है तो ऐसाही परन्तु तुम गीत नहीं जानते केवल कुत्सित शब्द करते हो, सो उस स्वार्थनाशक (गीत) से क्या है”। रासभ बोला-“धिक् ! धिक् मूर्ख ! क्या मैं गीत नहीं जानता सो उसके भेद सुन- सप्त स्वरास्त्रयो ग्रामा मूर्च्छनाश्चैकविंशतिः । तालास्त्वेकोनपञ्चाशत्तिस्रो मात्रा लयास्त्रयः ॥ ५५ ॥ सात स्वर (निषाद, ऋषभ, गान्धार, षड्ज, मध्यम, धैवत, पञ्चम), तीन ग्राम, इक्कीस मूर्च्छना, आरोह अवरोहक स्वर, उनचाश ताल, तीन मात्रा, तीन लय ॥ ५५ ॥ स्थानत्रयं यतीनाञ्च षडास्यानि रसा नव । रागाः षट्त्रिंशतिर्भावाश्चत्वारिंशत्ततः स्मृताः ॥ ५६ ॥ यतियोंके तीन विराम स्थान, छः मुख, नौ (शृंगार, हास्य, करुणा, रौद्र, वीर, भयानक) रस, छत्तीस राग, ४० चालीस भाव ॥ ५६ ॥ पञ्चाशीत्यधिकं ह्येतद्गीताङ्गानां शतं स्मृतम् । स्वयमेव पुरा प्रोक्तं भरतेन श्रुतेः परम् ॥ ५७ ॥ यह एकसौ पचासी गीतोंके अंग श्रुति पर भरत मुनिने स्वयं कहे हैं ॥५७॥ नान्यद्गीतात्प्रियं लोके देवानामापि दृश्यते । शुष्कस्नायुस्वराह्लादाद्त्र्यक्षं जग्राह रावणः ॥ ५८ ॥ गीतसे अधिक लोकमें प्रिय और कुछ नहीं है तप करनेसे शुष्क इन्द्रिय श्शिरा युक्त होकरभी स्वरसे ही रावणने शिवजीको वशीभूत कियाथा ॥ ५८ ॥
( ४८६ ) पञ्चतन्त्रम् ।
( ४८६ ) पञ्चतन्त्रम् । तत् कथं भगिनीसुत ! माम् अनभिज्ञं वदन् निवार- यसि ?” । शृगाल आह,-“माम ! यदि एवं तदहं तावद् वृतेः द्वारस्थितः क्षेत्रपालम् अवलोकयामि । त्वं पुनः स्वेच्छया गीतं कुरु” । तथा अनुष्ठिते रासभरटनम् आकर्ण्य क्षेत्रपः क्रोधात् दन्तान् घर्षयन् प्रधावितः । यावत् रासभो दृष्टः तावत् लगुडप्रहारैः तथा हतो, यथा प्रताडितो भूपृष्ठे पतितः । ततश्च सच्छिद्रम् उलूखलं गले बद्धा क्षेत्र- पालः प्रसुप्तः । रासभोऽपि स्वजातिस्वभावात् गतवेदनः क्षणेन अभ्युत्थितः । हे मान्जे ! सो तू मुझे अनभिज्ञ किस प्रकार कहकर निवारण करता है” । शृगाल बोला,-“जो ऐसा है तो मैं वृति के द्वार पर स्थित हुआ क्षेत्रपाल को अवलोकन करूं । तू अपनी इच्छा से गीत का गान कर” । ऐसा करने पर गधे का शब्द सुनकर क्षेत्रपाल क्रोध से दांत पीसता धावमान हुआ और गधे को देखते ही इस प्रकार लगुड प्रहार से ताडन किया कि वह ताडित हो पृथ्वी पर गिर पड़ा । तब सछिद्र उलूखल को उसके गले में बांधकर क्षेत्रपाल सो गया । और गधा भी जातिस्वभाव से वेदना रहित हो क्षणमात्र में उठ बैठा । उक्तञ्च- कहा है- “सारमेयस्य चाश्वस्य रासभस्य विशेषतः । मुहूर्तात्परतो न स्यात्प्रहारजनिता व्यथा ॥ ५९ ॥” “कि कुत्ता घोडा और विशेष कर गधा एक मुहूर्त से पीछे इनको प्रहार की व्यथा नहीं होती है ॥ ५९ ॥” ततः तदेव उलूखलम् आदाय वृतिं चूर्णयित्वा पलायि- तुम् आरब्धः । अत्रान्तरे शृगालोऽपि दूरादेव तं दृष्ट्वा सस्मि- तम् आह- इस कारण उसी उलूखल को लेकर उस वाड को तोड भागने लगा । इसी समय शृगाल भी दूर से उसे देख हँसता हुआ बोला,- “साधु मातुल गीतेन मया प्रोक्तोऽपि न स्थितः। अपूर्वोऽयं मणिर्बद्धः सम्प्राप्तं गीतलक्षणम् ॥ ६० ॥”
भाषाटीकासमेतम् । (४८७) “धन्य मामा ! मेरे कहे हुए गीतसेभी आप यथेष्ट स्थित न हुए यह अपूर्व मणि वाव ली भला गीतका लक्षण प्राप्त हुआ ॥ ६० ॥” तद्भगवानपि मया वार्यमाणोऽपि न स्थितः ” । तत् श्रुत्वा चक्रधर आह,-“भो मित्र ! सत्यमेतत् । अथवा साधु इदमुच्यते- इसी कारण तुमभी मेरे निवारण करनेसे स्थित न हुए”। यह सुन चक्रधर बोला,-“भो मित्र ! यह सत्य है । अथवा यह अच्छा कहा है- यस्य नास्ति स्वयं प्रज्ञा मित्रोक्तं न करोति यः । स एव निधनं याति यथा मन्थरकौलिकः ॥ ६१ ॥” जिसको स्वयं बुद्धि नहीं और मित्रका कहा नहीं करता है वह मन्थर कौलि- ककी समान निधनको प्राप्त होता है ॥ ६१ ॥” सुवर्णसिद्धिः आह-“कथमेतत् ?” सोऽब्रवीत्- सुवर्णसिद्धि बोला-“यह कैसे ?” वह बोला- कथा ८. कस्मिंश्चित् अधिष्ठाने मन्थरो नाम कौलिकः प्रति- वसति स्म, तस्य कदाचित् पट्टकर्माणि कुर्वतः सर्वपट्टकर्म- काष्ठानि भग्नानि । ततः स कुठारम् आदाय वने काष्ठार्थं गतः । स च समुद्रतटं यावत् भ्रमन् प्रयात:, ततश्च तत्र शिं- शपापादपस्तेन दृष्टः। ततः चिन्तितवान् “महान् अयं वृक्षो दृश्यते । तदनेन कर्त्तितेन प्रभूतानि पट्टकर्मोपकरणानि भवि- ष्यन्ति”। इति अवधार्य्य तस्योपरि कुठारमुत्क्षिप्तवान् । अथ तत्र वृक्षे कश्चित् व्यन्तरः समाश्रित आसीत् । अथ तेन अभिहितं-“भो ! मदाश्रयोऽयं पादपः, सर्वथा रक्षणीयो, यतोऽहम् अत्र महासौख्येन तिष्ठामि समुद्रकल्लोलस्पर्शनात शीतवायुना आप्यायितः”। कौलिक आह-“भोः ! किमहं करोमि, दारुसामग्रीं विना मे कुटुम्बं बुभुक्षया पीड्यते । तस्मात् अन्यत्र शीघ्रं गम्यताम् । अहम् एनं कर्त्तयिष्यामि”। व्यन्तर आह-“भोः ! तुष्टः तव अहम् । तत् प्रार्थ्यताम् अ-
( ४८८ ) पञ्चतन्त्रम् ।
( ४८८ ) पञ्चतन्त्रम् ।
भीष्टं किञ्चित् । रक्षैनं पादपम्" इति । कौलिक आह- "यदि एवं तदहं स्वगृहं गत्वा स्वमित्रं स्वभार्याञ्च पृष्ट्वा आगमि- ष्यामि । ततः त्वया देयम्" । अथ "तथा" इति प्रतिज्ञाते व्यन्तरेण स कौलिकः प्रहृष्टः स्वगृहं प्रति निवृत्तः । यावत अग्रे गच्छति तावत् ग्रामप्रवेशे निजसुहृदं नापितम् अपश्यत्। ततस्तस्य व्यन्तरवाक्यं निवेदयामास । "यदहो मित्र ! मम कश्चित् व्यन्तरः सिद्धः तत्कथय किं प्रार्थये ? । अहं त्वां प्रष्टुम् आगतः" । नापित आह- "भद्र ! यदि एवं तत् राज्यं प्रार्थय येन त्वं राजा भवसि अहं त्वन्मन्त्री च । द्वौ अपि इह सुखमनुभूय परलोकसुखम् अनुभवावः । उक्तञ्च- किसी स्थानमें मन्थरक नाम कौलिक रहता था । किसी समय वस्त्र कार्य करते हुए उसके संपूर्ण कपडे बुननेके कर्मकाष्ठ ( तुरीवेमादि ) भग्न होगये । तब वह कुल्हाडी लेकर वनमे काठके निमित्त गया । वह जबतक घूमता समुद्रके किनारे गया, तब वहां उसने सीसोंका एक वृक्ष देखा । तब विचारने लगा। "यह बडा वृक्ष दिखता है । सो इसके काटनेसे अनेक पट्ट निर्माणकी वस्तु हो जायगी ऐसा विचार उसपर कुठाराघात किया । उस वृक्षमें कोई व्यन्तर (पक्षी विशेष) रहता था । उसने कहा- "भो ! यह वृक्ष मेरे रहनेका स्थान है । सब प्रकार रक्षा करना चाहिये । क्योकि मै यहां महासुखसे रहता हूं, समुद्रकी लहरोंके स्पर्शसे शीत वायुसे प्रसन्न हुआ रहता हूं" । कौलिकने कहा- "भो ! मैं क्या करूं ? काठके विना मेरा कुटुम्ब भूखसे पीडित है । इस कारण शीघ्र और स्थानमें जाओ । मैं इसे काटूंगा" । व्यन्तर बोला,- "भो ! मैं तुम्हारे ऊपर प्रसन्न हू, सो कुछ अभीष्ट वर मांगो । इस वृक्षको रहने दो" । कौलिक बोला "जो ऐसा है तो मैं अपने घर जाकर अपनी मित्र भार्यासे पूछ आऊं तब तुम देना" । तब "बहुत अच्छा" यह व्यन्तरसे प्रतिज्ञा करके वह कौलिक प्रसन्न हो अपने घरकी ओर चला । जबतक आगे जाता है तबतक ग्राममें प्रवेशकर निजमित्र नाईको देखा । तब उसने उससे व्यन्तरका वाक्य निवेदन किया । कि,- "अहो मित्र ! मुझे व्यन्तर सिद्ध हे कहो क्या मांगू ? । मैं तुझसे पूछ- नेको आया हूं" । नाई बोला,- "भद्र ! जो ऐसा है तो राज्यकी प्रार्थना कर। जिससे तू राजा हो और मैं तेरा मन्त्री, दोनोंही यहां सुख अनुभवकर पर- लोकका सुख प्राप्त करें कहा है-
भाषाटीकासमेतम् । ( ४८९ ) राजा दानपरो नित्यमिह कीर्तिमवाप्य च । तत्प्रभा वात्पुनः स्वर्गे स्पर्द्धते त्रिदशैः सह ॥ ६२ ॥ नित्य दान करनेवाला राजा इस लोकमे कीर्तिको प्राप्त होकर उसके प्रभा- वसे फिर स्वर्गमे देवताओँसे स्पृहा किया जाता है ॥ ६२ ॥ कौलिक आह-'अस्ति एतत्परं तथापि गृहिणीं पृच्छा- मि" । स आह- "भद्र ! शास्त्रविरुद्धमेतत् यत् स्त्रिया सह मन्त्रः, यतस्ताः स्वल्पमतयो भवन्ति, उक्तञ्च- कौलिक बोला- "है तो योही परन्तु अपनी स्त्रीसे पूछू" । वह बोला,- 'भद्र ! यह शास्त्रके विरुद्ध है जो कि स्त्रीसे सम्मति करनी कारण कि, वह स्वल्प बुद्धिवाली होती हैं। कहा है- भोजनाच्छादने दद्यादृतुकाले च सङ्गमम् । भूषणाद्यञ्च नारीणां न ताभिर्मन्त्रयेत्सुधीः ॥ ६३ ॥ उनको भोजन आच्छादन दे ऋतुकालमे सङ्गम करे तथा उनको भूषण दैदे परन्तु उनके साथ सम्मति न करे ॥ ६३ ॥ यत्र स्त्री यत्र कितवो बालो यत्राप्रशासितः । तद्गृहं क्षयमायाति भार्गवो हीदमब्रवीत् ॥ ६४ ॥ जहा स्त्री अप्रशासित ( अशिक्षित ) है जहा दुर्जन और बालकको शासना नही वह घर क्षय होजाता है, ऐसा भार्गव ऋषिने कहा है ॥ ६४ ॥ तावत्स्यात्सुप्रसन्नास्यस्तावद्गुरुजने रतिः । पुरुषो योषितां यावन्न शृणोति वचो रहः ॥ ६५ ॥ जबतक यह एकान्तमे स्त्रीजनोंके वचन नही सुनता है तभीतक इसकी गुरु- जनोंमें रति है तभीतक प्रसन्न मुख है ॥ ६५ ॥ एताः स्वार्थपरा नार्य्यः केवलं स्वसुखे रताः । न तासां वल्लभः कोऽपि सुतोऽपि स्वसुखं विना ॥ ६६ ॥" यह स्वार्थमें तत्पर स्त्री केवल अपने सुखमेंही रत रहती हैं अपने सुखके विना उनको कोई प्यारा नहीं बहुत क्या पुत्रभी नहीं ॥ ६६ ॥" कौलिक आह,-"तथापि प्रष्टव्या सा मया, यतः पति- व्रता सा। अपरं तामपृष्ट्वा अहं न किञ्चित्करोमि। एवं तमभि- धाय सत्वरं गत्वा तां उवाच,-"प्रिये ! अद्य अस्माकं
( ४९० ) पञ्चतन्त्रम् ।
( ४९० ) पञ्चतन्त्रम् । कश्चित् व्यन्तरः सिद्धः, स वाञ्छितं प्रयच्छति, तदहं त्वां प्रष्टुम् आगतः । तत्कथय किं प्रार्थये ? एष तावत् मम मित्रं नापितो वदति एवं यत् राज्यं प्रार्थयस्व” । सा आह,- “आर्य्य पुत्र ! का मतिर्नापितानाम् । तत न कार्य्य तद्वचः । उक्तञ्च- कौलिक बोला,-“तौभी उससे पूंछना चाहिये । कारण कि वह पतिव्रता है । और उसके बिना पूछे मैं कुछभी नहीं करता । ऐसा उससे कह शीघ्र जाकर उससे बोला,-“प्रिये ! हमको आज कोई व्यन्तर सिद्ध हुआ है वह मनोवांछित देता है सो मैं तुमको पूछनेको आया हूं । सो कह क्या मांगूं ? । और यह मेरा मित्र नाई तो कहता है कि राज्यकी प्रार्थना करो” । वह बोली- “स्वामिन् नाईयोंको क्या बुद्धि होती है। सो उसके वचन न करना। कहा है कि- चारणैर्बन्दिभिर्नीचैर्नापितैर्बालकैरपि । न मन्त्रं मतिमान्कुर्यात्सार्द्धं भिक्षुभिरेव च ॥ ६७ ॥ चारण, बन्दीजन, नीच, नापित और बालकों भिक्षुकोंके साथ बुद्धिमान सम्मति न करे ॥ ६७ ॥ अपरं महती क्लेशपरम्परा एषा राज्यस्थितिः सन्धिविग्र- हयानासनसंश्रयद्वैधीभावादिभिः कदाचित् पुरुषस्य सुखं न प्रयच्छतीति । यतः- और यह राज्यकी स्थिति तो बडे क्लेशकी करनेवाली है। संधि, विग्रह, यान, आसन, संश्रय, द्वैधीभावादिसे कभी पुरुषको सुख नहीं मिलता । कारण कि- यदैव राज्ये क्रियतेऽभिषेकस्तदैव याति व्यसनेषु बुद्धिः । घटा नृपाणामभिषेककाले सहाम्भसैवापद्मुद्गिरन्ति ६८॥ जबी राज्य अभिषेक किया जाता है उसी समय व्यवसनोंमें बुद्धि लग जाती है राजोंके अभिषेक समयमें घडे जलोंके साथ आपत्तिको उद्गीर्ण करते हैं ॥ ६८ ॥ तथाच- और देखो- रामस्य व्रजनं वने निवसनं पण्डोः सुतानां वने वृष्णीनां निधनं नलस्य नृपते राज्यात्परिभ्रंशनम् !
भाषाटीकासमेतम् । (४९१
सौदासं तदवस्थमर्जुनवधं सञ्चिन्त्य लंकेश्वरं दृष्ट्वा राज्यकृते विडम्बनगतं तस्मान्न तद्वाञ्छयेत् ॥ ६९ ॥ रामचन्द्रको वनमें जाना, पाण्डुपुत्रोंका वनगमन, वृष्णिवंशियोका निधन, नलराजाका राज्यसे भ्रष्ट होना, सौदास राजाका गुरु शापसे राक्षस होना, कार्तवीर्य अर्जुन और रावणका वध विचार राज्यके निमित्त अनेक विडम्बना देखकर राज्यकी वाञ्छा न करे ॥ ६९ ॥
यदर्थं भ्रातरः पुत्रा अपि वाञ्छन्ति ये निजाः। वधं राज्यकृतां राज्ञां तद्राज्यं दूरतस्त्यजेत् ॥ ७० ॥” जो अपने भाई पुत्र हैं वेभी जिस राज्यके निमित्त राजाके वधकी इच्छा करते हैं इस कारण दूरसेही राज्यको त्यागे ॥ ७० ॥”
कौलिक आह,-“सत्यमुक्तं भवत्या । तत् कथय किं प्रार्थये ?” सा आह,-“त्वं तावदेकं पटं नित्यमेव निष्पाद- यसि, तेन सर्वा व्ययसिद्धिः सम्पद्यते । इदानीं त्वं आत्म- नोऽन्यद् बाहुयुगलं द्वितीयं शिरश्च याचस्व, येन पटद्वयं सम्पादयसि पुरतः पृष्ठतश्च, एकस्य मूल्येन गृहे यथापूर्वं व्ययं सम्पादयिष्यसि । द्वितीयस्य मूल्येन विशेषकृत्यानि करिष्यसि । एवं सौख्येन स्वजातिमध्ये श्लाघमानस्य कालो यास्यति । लोकद्वयस्य उपार्जना च भविष्यति” सोऽपि तदाकर्ण्य प्रहृष्टः प्राह.-“साधु पतिव्रते ! साधु, युक्तमुक्तं भवत्या; तदेवं करिष्यामि, एष मे निश्चयः”। ततोऽसौ गत्वा व्यन्तरं प्रार्थयाञ्चक्रे,-“भो ! यदि मम ईप्सितं प्रयच्छसि तत् देहि मे द्वितीयं बाहुयुगलं शिरश्च”। एवम् अभिहिते तत्क्षणादेव द्विशिराः चतुर्बाहुश्च सञ्जातः । ततो हृष्टमना यावत् गृहम् आगच्छति, तावत् लोकैः राक्ष- सोऽयमिति मन्यमानैः लगुडपाषाणप्रहारैः ताडितो मृतश्च । अतोऽहं ब्रवीमि-
कौलिक बोला-“तैने सत्य कहा, सो बता कि क्या मांगू ?” वह बोली- “तुम एक पट प्रतिदिन बुन लेतेहो उससे सब खर्च भली प्रकार चलता है; इस
(४९२) पञ्चतन्त्रम् ।
(४९२) पञ्चतन्त्रम् । समय तुम अपनी दो भुजा और एक शिर मांग लो जिससे आगे पीछे दो कपडे बुन सकोगे एकके मूल्यसे तौ यथापूर्व घरका खर्च चलेगा । और दूसरेके मूल्यसे विशेष कार्य होंगे, इस प्रकार सुखपूर्वक अपनी जातिके मध्यमें श्लाघित हो समय बीतेगा, और दोनो लोककी प्राप्ति होगी” । वहभी यह सुन प्रसन्न हो बोला-“धन्य पतिव्रता धन्य ! तैने अच्छा कहा । वही करूंगा जो तेरा निश्चय है” । वहभी यह सुनकर व्यन्तरसे मांगता हुआ,-“भो यदि मुझको यथेच्छ वर देता है तो दो भुजा और एक शिर पीछे करदो” । ऐसा कहतेही वह उसी समय दो शिर और चार भुजावाला होगया, सो प्रसन्न होकर जब घर आने लगा तबतक मनुष्योंने राक्षस है यह ऐसा मानकर लकडी पाषाणोके प्रहारसे ताडित किया जिससे वह मरगया । इससे मैं कहता हूं- यस्य नास्ति स्वयं प्रज्ञा मित्रोक्तं न करोति यः । स एव निधनं याति यथा मन्थरकौलिकः ॥ ७१ ॥” जिसको स्वयं प्रज्ञा नहीं और मित्रका कहना भी नहीं मानता वह मन्थर कौलिककी समान नष्ट होता है ॥ ७१ ॥” चक्रधरः आह,-“भोः ! सत्यमेतत् । सर्वोऽपि जनोऽश्रद्धे- यामाशापिशाचिकां प्राप्य हास्यपदवीं याति । अथवा साधु इदमुच्यते, केनापि- चक्रधर बोला-“भो ! यह सत्य है सबही मनुष्य श्रद्धाके अयोग्य आशा- रूपी पिशाचिनीको प्राप्त होकर हास्य पदवीको प्राप्त होते हैं, यह किसीने अच्छा कहा है- अनागतवतीं चिन्तामसम्भाव्यां करोति यः । स एव पाण्डुरः शेते सोमशर्मपिता यथा ॥ ७२ ॥” जो होनेके अयोग्य नहीं आई हुईभी चिन्ताको करता है वह सोमशर्माके पिताके समान पाण्डुर होकर शयन करता है ॥ ७२ ॥” सुवर्णसिद्धिः आह,-“कथमेतत् ?” सोऽब्रवीत्- सुवर्णसिद्धि बोला,-“यह कैसे ?” वह बोला- कथा ९. कस्मिंश्चित् नगरे कश्चित् स्वभावकृपणो नाम ब्राह्मणः प्रतिवसति स्म, तेन भिक्षार्जितैः सक्तुभिः भुक्तशेषैः कलशः