भारतकोश
संग्रह पर लौटें

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

( ३३० ) पञ्चतन्त्रम् ।

हुए उसके महाकाय होनेसे दैव वशसे लघु विवर होनेसे उसके शरीरमें ( छिल-नेसे ) व्रण होगये । तब व्रणके और शोणितकी गन्धके अनुसरण करनेवाली चींटियोंने सबओरसे व्याप्त कर उसको व्याकुल करादिया । किनको मारे किनको ताडन करे । तब उनके अधिक होनेसे व्रण बढगये सर्वाङ्गमें घाव होनेसे अति-दर्प पंचत्वको प्राप्त होगया । इससे मैं कहता हूं कि-

“ बहवो न विरोद्धव्या दुर्जया हि महाजनाः । स्फुरन्तमपि नागेन्द्रं भक्षयन्ति पिपीलिकाः ॥ १२४ ॥”

“ बहुतोंके साथ विरोध न करै महाजन दुर्जय होते हैं चीटियां तेजस्वी सर्प-को भक्षण करगईं ॥ १२४ ॥”

तत् अत्रास्ति किञ्चित् मे वक्तव्यमेव । तदवधार्य्य यथोक्त-मनुष्ठीयताम् ।” मेघवर्ण आह-“तत् समादिशय-तवादेशो नान्यथा कर्त्तव्यः” । स्थिरजीवी प्राह-“ वत्स ! समाकर्णय तर्हि सामादीनतिक्रम्य यो मया पञ्चम उपायो निरूपितः । तन्मां विपक्षभूतं कृत्वा, अतिनिष्ठुरवचनैः निर्भर्त्स्य, यथा विपक्षप्रणिधीनां प्रत्ययो भवति, तथा समाहतरुधिरैः आ-लिप्य, अस्यैव न्यग्रोधस्य अधस्तात् प्रक्षिप्य मां गम्यतां पर्वतम् ऋष्यमूकं प्रति, तत्र सपरिवारस्तिष्ठ । यावदहं सम-स्तान् सपत्नान् सुप्रणीतेन विधिना विश्वास्य अभिमुखान् कृत्वा कृतार्थो ज्ञातदुर्गमध्यः दिवसे तान् अन्धतां प्राप्तान् ज्ञात्वा व्यापादयामि, ज्ञातं मया सम्यक्, नान्यथा अस्माकं सिद्धिरिति । यतो दुर्गमेतत् अपसाररहितं केवलं वधाय भविष्यति । उक्तञ्च यतः ।

..सो इस विषयमें मुझे कुछ वक्तव्य है । सो यह निश्चय करके यथोक्त अनुष्ठान करो” । मेघवर्ण बोला-“तुम्हारा आदेश अन्यथा नही होगा” स्थिरजीवी बोला- “वत्स ! सुनो जो सामादि उपायोको छोड़कर मैंने पांचवा उपाय निरूपण किया है । तू मुझे अपना शत्रुरूप कर निठुर बचनोंसे घुडक जिससे शत्रु पक्षी दूतोंके विश्वास होजाय । और कहींसे लाये हुए रुधिरसे आलितकर इसी न्यग्रोधके नीचे

भाषाटीकासमेतम्। ( ३३१ )

मुझको डालदे । और तू ऋष्यमूक पर्वतके निकट जाकर वहा परिवारके सहित स्थित हो । जबतक मै सब शत्रुओंको अपने आचरणकी विधिसे विश्वासी कर सन्मुख कर कृतार्थहो दुर्गको जानकर दिनके मध्यमें अधताको प्राप्त हुए उनको जानकर मार डालू । जाना है मैने भली प्रकार । हमारी सिद्धि अन्यथा न होगी । कारण किं हमारा आवास दुर्गम निकलनेके उपायसे शून्य केवल वधके लिये होगा । कारण कहा है कि-

अपसारसमायुक्तं नयज्ञैर्दुर्गमुच्यते ।
अपसारपरित्यक्तं दुर्गं व्याजेन बन्धनम् ॥ १२५ ॥

नीति जाननेवालोंने निकलनेके उपायसे युक्त ही दुर्गकी प्रशसा की है ( १ ) अपसारके बिना दुर्ग कारावासकी समान है ॥ १२५ ॥

न च त्वया मदर्थं कृपा कार्या । उक्तञ्च-

तुझे मेरे निमित्त कृपा करनी नहीं चाहिये । कहाहै-

अपि प्राणसमानिष्टान्पालिताँल्लालितानपि ।
भृत्यान्युद्धे समुत्पन्ने पश्येच्छुष्कमिन्धनम् ॥ १२६ ॥

प्राणोंकी समान प्यारे पालित और लालित भृत्योंको युद्धके उत्पन्न होनेमें सूखे काठको अग्निमे जैसे प्रेरण करे ॥ १२६ ॥

तथाच-
और देखो-

प्राणवद्रक्षयेद्भृत्यान्स्वकायमिव पोषयेत् ।
सदैकदिवसस्यार्थे यत्र स्याद्रिपुसंगमः ॥ १२७ ॥

भृत्योंको प्राणकी समान रक्षा करे अपने कायाकी नाई पुष्ट करे यह उसी एक दिनके निमित्त है जब शत्रुंका सगमहो ॥ १२७ ॥

तव त्वया अहं न अत्रविषये प्रतिषेधनीयः" । इत्युक्त्वा तेन सह शुष्ककलहं कर्तुमारब्धः । अथ अन्ये तस्य भृत्याः स्थिरजीविनमुच्छृंखलवचनैर्जल्पन्तमवलोक्य तस्य वधाय उद्यताः मेघवर्णेन अभिहिताः—"अहो ! निवर्तध्वं यूयम् । अहमेव अस्य शत्रुपक्षपातिनो दुरात्मनः स्वयं निग्रहं करिष्यामि" ।

१-निकलनेका मार्ग ।

( ३३२ ) पञ्चतन्त्रम् ।

इत्यभिधाय तस्योपरि समारुह्य लघुभिश्चञ्चुप्रहारैस्तं प्रहृत्य आहतरुधिरेण प्लावयित्वातदुपदिष्टं ऋष्यमूकपर्वतं सपरिवारो गतः। एतस्मिन्नन्तरे कृकालिकया द्विषत्प्रणिधिभूतया तत् सर्वं मेघवर्णस्य अमात्यस्य व्यसनमुलूकराजस्य निवेदितम् । “तत् तव अरिः सम्प्रति भीतः क्वचित् प्रचालितः सपरिवार इति”। अथ उलूकाधिपः तदाकर्ण्य अस्तमनवेलायां सामात्यः सपरिजनो वायसवधार्थं प्रचालितः प्राह च,-“त्वर्यताम् त्वर्यताम् । भीतः शत्रुः पलायनपरः पुण्यैर्लभ्यते । उक्तञ्च-

सो तुम इस विषयमें मुझे निषेध मतकरो”। ऐसा कह उसके साथ सूखा क्लेश करना प्रारम्भ किया १ तब दूसरे उसके भृत्य स्थिरजीवीको उच्छृंखलवचनोंसे जल्पना करते देखकर उसके वधके निमित्त उद्यतहुए मेघवर्ण द्वारा कहेगये “अहो ! तुम निवृत्त हो मैं इस शत्रुपक्षपाती दुरात्माका आपही निग्रह करूंगा” ऐसा कह उसके ऊपर चढ, लघुचोंचके प्रहारोंसे उसको प्रहार कर लाये हुए रुधिरसे रंगकर उसके उपदेश किये ऋष्यमूक पर्वतमें परिवार सहित गया । इसी समय शत्रुके प्रणिधिभूत दूती हुई कृकालिकाने उस सब मेघवर्णके अमात्यका दुःख उलूक राजाके आगे कह दिया । कि, “तुम्हारा शत्रु इस समय डरा हुआ परिवार सहित कहीं चलागया”। तब उलूकराज यह सुनकर अस्तके समय अमात्य परिजन सहित वायसके वधके निमित्त चला । और बोला-“शीघ्रता करो । शीघ्रता करो । डराहुआ शत्रु भागनेमें तत्पर पुण्यसेही प्राप्त होता है। कहाहै-

शत्रोः प्रचलने छिद्रमेकमन्यच्च संश्रयम् । कुर्वाणो जायते वश्यो व्यग्रत्वे राजसेविनाम् ॥ १२८ ॥”

शत्रुके पलायनमें एक छिद्रका अवलम्बन होनेसे तथा राजसेवियोंके व्यग्रहोनेसे उनके वशीभूत होजाताहै ( राजा प्रियकारी सेवकोंके आधीन होजाताहै ) १२८

एवं ब्रुवाणः समन्तात् न्यग्रोधपादपमधः परिवेष्ट्य व्यवस्थितः । यावत् न कश्चित् वायसो दृश्यते । तावत् शाखाग्रमधिरूढो हृष्टमना वन्दिभिः अभिष्टूयमानोऽरिमर्दनः तान् परि-

भाषाटीकासमेतम् । ( ३३३ )

जनान् प्रोवाच-“अहो ! ज्ञायतां तेषां मार्गः । कतमेन मार्गेण प्रनष्टाः काकाः । तत् यावत् न दुर्गं समाश्रयन्ति, तावत् एव पृष्ठतो गत्वा व्यापादयामि । उक्तञ्च-

ऐसा कह चारों ओरसे न्यग्रोध वृक्षके नीचे घेरकर स्थितहुआ। जब कि, कोई कौआ न देखा तब शाखाके आगे आरूढ होकर प्रसन्न मन बन्दी जनोंसे स्तुतिं को प्राप्त होकर शत्रुमर्दैन वह उन परिजनोको बोला,-“अहो ! उनका मार्ग जाना जावे किस मार्गसे वे काक भागे हैं । सो जबतक वे किसी दुर्गका आश्रय नकरें तबतक उनके पीछे जाकर उन्हे नष्ट करू, कहाहै-

वृतिमप्याश्रितःशत्रुरवध्यः स्याज्जिगीषुणा । किं पुनः संश्रितो दुर्गं सामग्र्या परया युतम् ॥ १२९ ॥ ”

आवरणमे स्थित हुआ शत्रु जीतनेकी इच्छा करनेवालेको अवध्य होता है फिर सम्पूर्ण सामग्रीसे युक्त दुर्गमे स्थित हुआ तो ( अवध्य हेही ) ॥ १२९ ॥”

अथ एतस्मिन् प्रस्तावे स्थिरजीवी चिन्तयामास “यत एते अस्मत् शत्रवोऽनुपलब्धास्मद्वृत्तान्ता यथागतमेव यान्ति ततो मया न किंचित् कृतं भवति । उक्तंच-

तब इस प्रस्तावके होनेमें स्थिरजीवी विचारने लगा "जो यह हमारे शत्रु हमारे वृत्तान्तको न जाननेवाले यथेच्छ गमनकरेंगे तो मेरा कुछ भी कृत्य न हुआ। कहाहै-

अनारम्भो हि कार्याणां प्रथमं बुद्धिलक्षणम् । प्रारब्धस्यान्तगमनं द्वितीयं बुद्धिलक्षणम् ॥ १३० ॥

कार्यका आरम्भ न करनाही प्रथम बुद्धिकी चिन्हहै और आरम्भ कर उसके अन्तमें गमनकरना यह दूसरा बुद्धिका चिन्हहे ( बुद्धिमान् प्रथम तौ कार्य आरम्भ नहीं करते और आरम्भकर पूरा करते हैं यह भावहै ) ॥ १३० ॥

तद्वरमनारम्भो न च आरम्भविघातः । तदहमेतान् शब्दं संश्राव्य आत्मानं दर्शयामि” इति । विचार्य मन्दं मन्दं शब्दमकरोत् । तत् श्रुत्वा ते सकला अपि उलुकाः तद्वधाय प्रजग्मुः अथ तेनोक्तम्-“अहो ! अहं स्थिरजीवी नाम मेघवर्णस्य मन्त्री । मेघवर्णेन एव ईदृशीमवस्थां नीतः । तन्निवेदयत

( ३३४ ) पञ्चतन्त्रम् ।

आत्मस्वाम्यग्रे,तेन सह बहु वक्तव्यमस्ति''। अथ तैःनिवेदितः स उलूकराजो विस्मयाविष्टस्तत्क्षणात् तस्य सकाशं गत्वा प्रोवाच- "भो भोः ! किमेतां दशां गतस्त्वम् ? तत्कथ्यताम्"। स्थिरजीवी प्राह- "देव ! श्रूयतां तदवस्थाकारणम् । अती- तदिने स दुरात्मा मेघवर्णो युष्मद्व्यापादितप्रभूतवायसानां पीडया युष्माकमुपरि कोपशोकग्रस्तो युद्धार्थं प्रचलित आसीत् । ततो मया अभिहितम्- "स्वामिन् ! न युक्तं भवत- स्तदुपरि गन्तुं बलवन्त एते, बलहीनाश्च वयम्। उक्तञ्च-

सो आरंभ न करना अच्छा परन्तु आरंभ कर उसका विघात करना अच्छा नहीं। सो मैं इनको शब्द सुना कर अपनेको दिखाऊं" ऐसा विचार कर मन्द मन्द शब्द करता हुआ। यह सुनकर वे सब उलूक उसके मारनेको आये। तब उसने कहा- "अहो ! मैं स्थिरजीवीनाम मेघवर्णका मंत्रीहूं। मेघवर्णने मेरी यह दशा करदी। सो अपने स्वामीके आगे निवेदन करो। उससे बहुत कुछ कहना है"। तब उनसे कहा हुआ वह उलूकराज विस्मयको प्राप्त हो उसी समय उसके निकट जाकर बोला- "भो ! तू क्यों ऐसी दशाको प्राप्त हुआहै ? सो कहो"। स्थिरजीवी बोला- "देव ! इस अवस्थाका कारण सुनो। पिछले दिन वह दुरात्मा मेघवर्ण तुम्हारे मारे हुए बहुत वायसोंकी पीडासे तुमपर क्रोध शोकसे ग्रस्त होकर युद्ध करनेको चला। तब मैंने कहा- "स्वामिन् ! तुमको उनपर चढाई करनी उचित नहीं यह बलीहै और हम बलहीनहैं। कहाहै-

बलीयसा हीनबलो विरोधं
न भूतिकामो मनसापि वाञ्छेत् ।
न बध्यतेऽत्यन्तबलो हि यस्मात्
व्यक्तं प्रणाशोऽस्ति पतङ्गवृत्तेः ॥ १३१ ॥

ऐश्वर्यकी इच्छा करनेवाले हीनबल बलवान्‌के साथ मनसे भी विरोध नकरें कारणकि अत्यन्त बलवाला नष्टतो नहीं होता परंतु पतंगवृत्तिकी समान हीनब- लकाही प्रणाश होताहै ॥ १३१ ॥

तत् तस्य उपायनप्रदानेन सन्धिरेव युक्तः । उक्तञ्च-

सो भेंट देकर उससे सन्धि करनाही युक्त है। कहाहै कि-

भाषाटीकासमेतम् । ( ३३५ )

बलवन्तं रिपुं दृष्ट्वा सर्वस्वमपि बुद्धिमान् । दत्त्वा हि रक्षेत्प्राणान् रक्षितैस्तैर्धनं पुनः ॥ १३२ ॥

बुद्धिमान्‌को उचित है कि, बलवान् शत्रुको सर्वस्व देकर प्राणोंकी रक्षा करे 'कारणकि उनके रक्षा करनेसे धन फिर होजाताहै ॥ १३२ ॥

तच्छ्रुत्वा तेन दुर्जनप्रकोपितेन त्वत्पक्षपातिनं माम् आशङ्कमानेन इमां दशां नीतः । तत् तव पादौ साम्प्रतं मे शरणम्, किं बहुना विज्ञाप्तेन । यावत् अहं प्रचलितुं शक्नोमि, तावत् त्वां तस्य आवासे नीत्वा सर्ववायसक्षयं विधास्यामि इति” । अथ अरिमर्दनः तदाकर्ण्य पितृपितामहक्रमागतमन्त्रिभिः सार्द्धं मन्त्रयाञ्चक्रे । तस्य च पञ्च मन्त्रिणः । तयथा रक्ताक्षः-क्रूराक्षो-दीप्ताक्षो-वक्रनासः-प्राकारकर्णश्चेति । तत्रादौ रक्ताक्षमपृच्छत्-“भद्र ! एष तावत् तस्य रिपोर्मन्त्री मम हस्तगतः । तत् किं क्रियताम्” इति । रक्ताक्ष आह-“देव ! किमत्र चिन्त्यते । अविचारितमयं हन्तव्यः । यतः-

यह सुन उस दुर्जनने क्रोधकर मुझे तुम्हारे पक्षपातीकी शंका जानकर मेरी यह दशा करदी । सो इस समय तुम्हारे चरणही मेरे शरण हैं बहुत कहने से क्या है जबतक मैं चलनेको समर्थ हू तब तुमको उसके स्थानमें लेजाकर संपूर्ण वायसोंका क्षय कराऊंगा” । तब अरिमर्दन यह वचन सुन पिता दादाके क्रमसे आये हुए मँत्रियोंके साथ मन्त्रणा करने लगा । उसके पाच मंत्री ये रक्ताक्ष, क्रूराक्ष, दीप्ताक्ष, वक्रनास और प्राकारकर्ण, आदिमे रक्ताक्ष से पूछा-“भद्र ! यह उसके शत्रु का मंत्री मेरे हस्तगत हुआ है । सो क्या किया जाय?”। रक्ताक्ष बोला-“देव! क्या विचार कियाजाय । विना विचारे इसे मारडालो । जिससे-

हीनः शत्रुुर्निहन्तव्यो यावन्न बलवान् भवेत् । प्राप्तस्वपौरुषबलः पश्चाद्भवति दुर्जयः ॥ १३३ ॥

हीन शत्रु जबतक वह बलवान् न हो मारडाला जाय, पुरुषार्थ, बल प्राप्त होने पर पीछे शत्रु दुर्जय हो जाता है ॥ १३३ ॥

किञ्च-स्वयमुपागता श्रीस्त्यज्यमाना शपतीति लोके प्रवादः । उक्तञ्च-

( ३३६ ) पञ्चतन्त्रम् ।

और—स्वयं आई हुई लक्ष्मी त्याग न की जायतो शाप देती है यह लोकमें प्रसिद्ध है । कहा है कि—

कालो हि सकृदभ्येति यन्नरं कालकाङ्क्षिणम् । दुर्लभः स पुनस्तेन कालकर्माचिकीर्षता ॥ १३४ ॥

जो समय सुसमयके चाहने वाले मनुष्यको एक बार प्राप्त होता है उसकाल कर्मके समान कृत्य न करनेपर वह समय दुर्लभ होजाता है ॥ १३४ ॥

श्रूयते च यथा— ऐसा सुना भी है कि—

चितिकां दीपितां पश्य फटां भग्नां ममैव च । भिन्नश्लिष्टा तु या प्रीतिर्न सा स्नेहेन वर्द्धते ॥ १३५ ॥

( हे ब्राह्मण ) जलती हुई इस चिता और फटे हुए इस मेरे फनको देखो ( तेरे पुत्रने मेरे फण पर प्रहार किया उससे फटा मेरा फण देख और मेरे काटेसे मरे अपने पुत्रकी चिताको देख ) इससे अलग होकर फिर जोडी हुई प्रीति स्नेहसे नहीं बढती ॥ १३५ ॥

अरिमर्द्दनः प्राह,—“कथमेतत् ?” रक्ताक्षः कथयति— अरिमर्दन बोला—“यह कैसे ?” रक्ताक्ष बोला—

कथा ५.

अस्ति कस्मिंश्चित् अधिष्ठाने हरिदत्तो नाम ब्राह्मणः तस्य च कृषिं कुर्वतः सदा एव निष्फलः कालोऽतिवर्त्तते अथ एकस्मिन् दिवसे स ब्राह्मण उष्णकालावसाने घर्म्मार्त्तः स्वक्षेत्रमध्ये वृक्षच्छायायां प्रसुप्तः अनतिदूरे वल्मीकोपरि प्रसारितं बृहत्फणायुक्तं भीषणं भुजङ्गमं दृष्ट्वा चिन्तयामास । “नूनमेषा क्षेत्रदेवता मया कदाचिदपि न पूजिता । तेन इदं मे कृषिकर्म विफलीभवति । तदस्या अहं पूजामद्य करिष्यामि” इति अवधार्य्य कुतोऽपि क्षीरं याचित्वा, शरावे निक्षिप्य वल्मीकान्तिकमुपागम्य उवाच—“भो क्षेत्रपाल ! मया एतावन्तं कालं न ज्ञातं यत् त्वं अत्र वससि, तेन पूजा न कृता, तत् साम्प्रतं क्षमस्व” इत्येवमुक्त्वा, दुग्धञ्च निवेद्य,

भाषाटीकासमेतम् । ( ३३७ )

गृहाभिमुखं प्रायात् । अथ प्रातः यावत् आगत्य पश्यति, तावत् दीनारं एकं शरावे दृष्टवान् । एवं च प्रतिदिनमेकाकी समागत्य तस्मै क्षीरं ददाति, एकैकञ्च दीनारं गृह्णाति । अथ एकस्मिन् दिवसे वल्मीके क्षीरनयनाय पुत्रं निरूप्य ब्राह्मणो ग्रामान्तरं जगाम । पुत्रोऽपि क्षीरं तत्र नीत्वा संस्थाप्य च पुनर्गेहं समायातः। दिनान्तरे तत्र गत्वा दीनारमेकञ्च दृष्ट्वा गृहीत्वा च चिन्तितवान् । “नूनं सौवर्णदीनारपूर्णोऽयं वल्मीकः । तत् एनं हत्वा सर्वमेकवारं ग्रहीष्यामि” इत्येवं सम्प्रधार्य अन्येद्युः क्षीरं ददता ब्राह्मणपुत्रेण सर्पो लगुडेन शिरसि ताडितः ततः कथमपि दैववशात् अमुक्तजीवित एव रोषात् तमेव तीव्रविषदशनैः तथा अदशत्, यथा सद्यः पञ्चत्वमुपागतः । स्वजनैश्च नातिदूरे क्षेत्रस्य काष्ठसञ्चयैः संस्कृतः। अथ द्वितीयदिने तस्य पिता समायातः। स्वजनेभ्यः सुतविनाशकारणं श्रुत्वा तथैव समर्थितवान् । अब्रवीच्च-

किसी स्थानमे हरदत्त नाम ब्राह्मण रहताथा । खेती करते हुए उसको सदा निष्फल समय बीतता । एक दिन वह ब्राह्मण उष्ण कालके अन्तमे धूपसे घबडाया हुआ अपने खेतमे वृक्षकी छायाके नीचे सोया थोडीदूर बंबईके ऊपर फैलाये हुए बडे फणासे युक्त भीषण सर्पको देखकर विचारने लगा । अवश्यही यह क्षेत्रकी देवता है मैंने यह कभी नहीं पूजी । इस कारण मेरी खेतीका फल नष्ट होता है । सो इसकी आज मैं पूजा करूंगा ऐसा विचार कहींसे दूध लाकर सिकोरेमें डालकर वल्मीकके निकट पहुच कर बोला,-“भो ! क्षेत्रपाल मैंने इतने समयतक न जाना कि तुम यहा रहते हो इससे पूजा न की। सो अब क्षमा करो ऐसा कह दूध निवेदन कर घरकी ओर आया फिर प्रातःकाल जब आकर देखा तो एक सुवर्ण मुद्रा सिकोरेमें देखी । तब प्रतिदिन इकला आकर उसको दूध देता और एक दीनार ग्रहण करता । तब एक दिन बंबईमे क्षीरले जानेके लिये पुत्रसे कहकर ब्राह्मण ग्रामान्तरको गया । पुत्रभी क्षीरको वहा लेजाय स्थापन

२२

( ३३८ ) पञ्चतन्त्रम् ।

कर फिर घर आया दूसरे दिन वहां जाय एक दीनार देखकर ग्रहण कर विचारने लगा-“अवश्यही यह वांबी सुवर्णके दीनारसे पूर्ण है । सो इसे मारकर सबको एकही बार ग्रहण करूं” । ऐसा विचार दूसरे दिन दूध देते हुए ब्राह्मणपुत्रने सर्पके शिरमें लकडीसे प्रहार किया । वह किसी प्रकार दैववशसे प्राणसे विमुक्त नहोकर रोषसे उसे तीव्र दांतोंसे इस प्रकार काटता हुआ कि वह शीघ्र पंचत्वको प्राप्त हुआ । स्वजनोने थोडीही दूर खेतमे काष्ठ संचय कर संस्कार किया । दूसरे दिन उसका पिता आया । अपने जनोंसे पुत्रके नाशका कारण सुनकर वैसाही समर्थन करता हुआ । बोला भी-

“भूतान्यो नानुगृह्णाति ह्यात्मनः शरणागतान् ।
भूतार्थास्तस्य नश्यन्ति हंसाः पद्मवने यथा ॥ १३६ ॥”

जो प्राणियोंपर अनुग्रह नहीं करता और जो अपने शरणमे आये हैं उनको नहीं रखता उसके निश्चित अर्थ इस प्रकार नष्ट होजाते हैं जैसे पद्मवनमें हंस १३६

पुरुषैरुक्तम्-“कथमेतत् ?”ब्राह्मणः कथयति-
पुरुषोंने कहा-“यह कैसे ?”ब्राह्मण कहने लगा-

कथा ६.

अस्ति कस्मिंश्चिदधिष्ठाने चित्ररथो नाम राजा । तस्य योधैः सुरक्ष्यमाणं पद्मसरो नाम सरस्तिष्ठति । तत्र च प्रभूता जाम्बूनदमया हंसास्तिष्ठन्ति । षण्मासे षण्मासे पिच्छमेकैकं परित्यजन्ति । अथ तत्र सरसि सौवर्णो बृहत् पक्षी समायातः तैश्चोक्तः-“अस्माकं मध्ये त्वया न वस्तव्यम् । येन कारणेन अस्माभिः षण्मासान्ते पिच्छैकैकदानं कृत्वा गृहीतमेतत्सरः” । एवं च किं बहुना परस्परं द्वैधमुत्पन्नम् । स च राज्ञः शरणं गतोऽब्रवीत्-“देव ! एते पक्षिण एवं वदन्ति-“यत् अस्माकं राजा किं करिष्यति ? न कस्यापि आवासं दद्मः” । मया च उक्तं,-“न शोभनं युष्माभिः अभिहितम् । अहं गत्वा राज्ञे निवेदयिष्यामि। एवं स्थिते देवः प्रमाणम्” ततो राजा भृत्यान् अब्रवीत्,-“भो भो ! गच्छत, सर्वान्

भाषाटीकासमेतम् । ( ३३९ )

पक्षिणो गतासून् कृत्वा शीघ्रमानयत” । राजादेशानन्तर- मेव प्रचेलुस्ते । अथ लगुडहस्तान् राजपुरुषान् दृष्ट्वा तत्र एकेन पक्षिणा वृद्धेन उक्तं,-“भोः स्वजनाः ! न शोभनमाप- तितम् । ततः सर्वैः एकमतीभूय शघ्रिमुत्पतितव्यम्” । तैश्च तथानुष्ठितम् । अतोऽहं ब्रवीमि-

किसी स्थानमें एक चित्ररथ नाम राजा था। उसके योधायोंसे रक्षित पद्मसरनाम एक सरोवर था वहा बहुतसे सुवर्णमय हसथे । छठे २ महीनेसे एक एक पख त्यागते रहे तब उस सरोवरमें सुवर्णमय बडा पक्षी आया । उन्होंने कहा,-“हमारे बीचमे तुमको रहना न चाहिये । जिस कारणसे कि हमने छःमहीनेमे एक २ पखदान करके यह सरोवर प्राप्त किया है । ऐसा बहुत कहनेसे परस्पर उनका द्वेष उत्पन्न हुआ । वह राजाकी शरणमे जाकर कहने लगा,-“देव यह पक्षी इस प्रकारसे कहते हैं कि,-“हमारा राजा क्या करेगा ? । किसीको हम स्थान न देंगे” मैने कहा-“तुमने अच्छा नही कहा । मै जाकर राजासे कहूँगा” । इस कार्यमें स्वामीही प्रमाणहैं” । तब राजा भृत्योंसे बोला-“भो भो ! जाओ सब पक्षियोंको प्राणरहित करके शीघ्र लाओ ” । वे राजाकी आज्ञा पातेही चले । तब लगुड हाथमें लिये राजपुरुषोको देख एक वृद्ध पक्षीने कहा,-“भो सुजनो भलीबात न हुई सो सब एकमत होकर शीघ्र उडो” और उन्होंने वैसाही अनुष्ठान किया इससे मैं कहताहूं-

भृत्यान्यो नानुगृह्णाति ह्यात्मनः शरणागतान् । भूतार्थास्तस्य नश्यन्ति हंसाः पद्मवने यथा ॥ १३७ ॥”

कि अपनी शरणमे आये हुए भृत्योंपर जो अनुग्रह नहीं करताहै उसके भूत अर्थ नष्ट हो जातेहैं जैसे पद्मवनमें हस ॥ १३७ ॥”

इत्युक्त्वा पुनरपि ब्राह्मणः प्रत्यूषे क्षीरं गृहीत्वा, तत्र गत्वा तारस्वरेण सर्पमस्तौत् । तथा सर्पश्विरं वल्मीकद्वारान्तर्लीन एव ब्राह्मणं प्रत्युवाच त्वं लोभादत्र आगतः पुत्रशोकमपि विहाय । अतः परं तव मम च प्रीतिर्नोचिता । तव पुत्रेण यौवनोन्मदेन अहं ताडितः । मया स दष्टः । कथं मया लगु

( ३४० ) पंचतन्त्रम् ।

डप्रहारो विस्मर्त्तव्यः, ? त्वया पुत्रशोकदुःखं कथं विस्मर्त्त-व्यम् ?”। इत्युक्त्वा बहुमूल्यं हीरकमणिं तस्मै दत्त्वा “अतः परं पुनस्त्वया न आगन्तव्यम्” इति पुनरुक्त्वा विवरान्तर्गतः। ब्राह्मणश्च मणिं गृहीत्वा पुत्रबुद्धिं निन्दन् स्वगृहमागतः । अतोऽहं ब्रवीमि–

यह कह फिरभी ब्राह्मण प्रातःकाल दूध ग्रहण कर वहां जाकर ऊंचे स्वरसे सर्पकी स्तुति करने लगा । तब सर्प अधिक वल्मीकके भीतर लीन हुआही ब्राह्मणसे बोला—“तू लोभसे यहां आया है पुत्रशोक भी छोड दिया ! अब तेरी और मेरी प्रीति उचित नहीं । यौवनके मदसे तेरे पुत्रने मुझे ताडन किया है। मैंने उसे काट लिया । किस प्रकार मै लगुडप्रहार भूल जाऊंगा ? और तू पुत्रशोकका दुःख किस प्रकार भूल सकता है ?” । ऐसा कह एक बहुत मोलका हीरा उसे देकर “बस अब तू यहां न आना” यह फिर कह विवरके भीतर गया । ब्राह्मणभी मणिको ले पुत्रकी बुद्धिकी निन्दा करता अपने घर आया । इससे मैं कहता हूं–

“चितिकां दीपितां पश्य फटां भग्नां ममैव च । भिन्नश्लिष्टा तु या प्रीतिर्न सा स्नेहेन वर्द्धते ॥ १३८ ॥”

“प्रज्वलित चिता और फटा हुआ मेरा फन देखकर जानले कि भिन्न होकर जुडी प्रीति स्नेहसे नहीं बढती ॥ १३८ ॥”

तदस्मिन् हते यत्नादेव राज्यमकण्टकं भवतो भवति” । तस्य एतद्वचनं श्रुत्वा क्रूराक्षं पप्रच्छ,–“भद्र ! त्वं तु किं मन्यसे ?” सोऽब्रवीत,–“देव ! निर्दयमेतत्, यदनेन अभि-हितम् । यत् कारणं शरणागतो न वध्यते । सुष्ठु खलु इदमाख्यातम्–

सो इसके मारनेसे यत्नपूर्वक तुम्हारा अकंटक राज्यहो”, उसके यह वचन सुन क्रूराक्षसे पूछा–“भद्र ! तुम इसमें क्या मानते ?” । वह बोला–“देव यह निर्दयता है जो इस मन्त्रीने कहा है । कारण कि शरणमें आया हुआ नहीं मारा जाता । यह सत्य कहा गया है कि–

भाषाटीकासमेतम् । ( ३४१ )

श्रूयते हि कपोतेन शत्रुः शरणमागतः । पूजितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः ॥ १३९ ॥”

सुना है कि, कबूतरने शरणमें आये हुए शत्रुको यथायोग्य पूजन कर अपने मांससे निमंत्रित किया ॥ १३९ ॥”

अरिमर्द्दनोऽब्रवीत्— “कथमेतत् ?” । क्रूराक्षः कथयति—
अरिमर्द्दन बोला—“यह कैसे ?” क्रूराक्ष कहने लगा—

कथा ७.

कश्चित्क्षुद्रसमाचारः प्राणिनां कालसन्निभः ।
विचचार महारण्ये घोरः शकुनिलुब्धकः ॥ १४० ॥

कोई क्षुद्र आचारवाला प्राणियोंको कालकी समान घोर पक्षियोंका लुब्धक वनमें विचरता था ॥ १४० ॥

नैव कश्चित्सुहृत्तस्य न सम्बन्धी न बान्धवः ।
स तैः सर्वैः परित्यक्तस्तेन रौद्रेण कर्मणा ॥ १४१ ॥

न कोई उसका सुहृत्, न सम्बन्धी, न बान्धव था, उसके क्रूर कर्मसे सबने उसे त्याग दिया ॥ १४१ ॥

अथवा—
अथवा—

ये नृशंसा दुरात्मानः प्राणिनां प्राणनाशकाः ।
उद्वेजनीया भूतानां व्याला इव भवन्ति ते ॥ १४२ ॥

जो क्रूर दुरात्मा प्राणियोंके प्राण नाशक हैं वे भूतोंके उद्वेगकारक कालकी समान होते हैं ॥ १४२ ॥

स पञ्जरकमादाय पाशं च लगुडं तथा ।
नित्यमेव वनं याति सर्वप्राणिविहिंसकः ॥ १४३ ॥

वह सब प्राणियोंकी हिंसा करनेवाला पिंजरा पाश और लगुड लेकर नित्यही वनको जाता ॥ १४३ ॥

अन्येद्युर्भ्रमतस्तस्य वने कापि कपोतिका ।
जाता हस्तगता तां स प्राक्षिपत्पञ्जरान्तरे ॥ १४४ ॥

( ३४२ ) पञ्चतन्त्रम् ।

एक दिन उसके वनमें घूमते हुए कोई कबूतरी हाथ आई उसने उसे पिंजरेमें डाल लिया ॥ १४४ ॥

अथ कृष्णा दिशः सर्वा वनस्थस्याभवन्घनैः ।
वातवृष्टिश्च महती क्षयकाल इवाभवत् ॥ १४५ ॥

तब उस वनकी सब दिशा मेघोंसे श्याम होगईं क्षय कालकी समान बडी पवन चली और वर्षा हुई ॥ १४५ ॥

ततः सन्त्रस्तहृदयः कम्पमानो मुहुर्मुहुः ।
अन्वेष्यन्परित्राणमाससाद वनस्पतिम् ॥ १४६ ॥

तब संत्रस्त हृदय होकर वारम्वार कम्पित हुआ वह परित्राण (रक्षा) खोजता हुआ वृक्षके नीचे प्राप्त हुआ ॥ १४६ ॥

मुहूर्त्तं भ्रश्यते यावद्वियद्विमलतारकम् ।
प्राप्य वृक्षं वदत्येव योऽत्र तिष्ठति कश्चन ॥ १४७ ॥

जब मुहूर्त्त मात्रमें आकाश निर्मल तारेवाला हुआ तब वृक्षको प्राप्त होकर बोला,–"जो कोई यहां स्थितहो ॥ १४७ ॥

तस्याहं शरणं प्राप्तः स परित्रातु मामिति ।
शीतेन भिद्यमानञ्च क्षुधया गतचेतसम् ॥ १४८ ॥

उसीकी मैं शरणमे प्राप्त हूं मेरी वह रक्षा करे मैं शीतसे भेदित और भूखसे व्याकुल हूं ॥ १४८ ॥

अथ तस्य तरोः स्कन्धे कपोतः सुचिरोषितः ।
भार्याविरहितस्तिष्ठन्विललाप सुदुःखितः ॥ १४९ ॥

उसी वृक्षकी शाखामें कबूतर बहुत कालसे रहताथा वह उस समय स्त्रीके बिना विलाप कर रहा दुःखी था ॥ १४९ ॥

वातवर्षो महानासीन्न चागच्छति मे प्रिया ।
तया विरहितं ह्येतच्छून्यमद्य गृहं मम ॥ १५० ॥

बडी वात और वर्षा हुई है अभीतक मेरी प्यारी नहीं आई उसके विना आज यह मेरा घर सूना है ॥ १५० ॥

पतिव्रता पतिप्राणा पत्युः प्रियहिते रता ।
यस्य स्यादीदृशी भार्या धन्यः स पुरुषो भुवि ॥ १५१ ॥

भाषाटीकासमेतम् । ( ३४३ )

पतिव्रता पतिकी प्राण पतिके प्रिय और हितमे तत्पर जिसके ऐसी भार्या है वह पुरुष पृथिवीमें धन्य है ॥ १९१ ॥

न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते ।
गृहं हि गृहिणीहीनमरण्यसदृशं मतम् ॥ १५२ ॥

घरका नाम घर नहीं किन्तु स्त्रीका नाम गृह है, गृहिणीके बिना घर वनके समान है ॥ १५२ ॥

पञ्जरस्था ततः श्रुत्वा भर्तुर्दुःखान्वितं वचः ।
कपोतिका सुसन्तुष्टा वाक्यञ्चेदमथाह सा ॥ १५३ ॥

तब पींजरेमें स्थित हुई कबूतरी उसके दुःखभरे वचन सुनकर इस प्रकार सन्तुष्ट होकर कहने लगी ॥ १५३ ॥

न सा स्त्रीत्यभिमन्तव्या यस्यां भर्त्ता न तुष्यति ।
तुष्टे भर्त्तरि नारीणां तुष्टाः स्युः सर्वदेवताः ॥ १५४ ॥

उसमें स्त्रीपन मत मानो जिससे कि स्वामी प्रसन्न नहीं होता नारियोंके पति प्रसन्न होनेमें सब देवता उसपर प्रसन्न होजाते हैं ॥ १५४ ॥

दावाग्निना विदग्धेव सपुष्पस्तवका लता ।
भस्मीभवतु सा नारी यस्यां भर्त्ता न तुष्यति ॥ १५५ ॥

दावाग्निसे दग्ध हुई फल गुच्छेवाली लताकी समान वह स्त्री भस्म होजातीहै जिसपर स्वामी प्रसन्न नहीं होता ॥ १५५ ॥

मितं ददाति हि पिता मितं भ्राता मितं सुतः ।
अमितस्य हि दातारं भर्त्तारं का न पूजयेत् ॥ १५६ ॥

पिता माता पुत्र परिमित सुख देते हैं, इससे अमित दान देनेवाले भर्त्ताका पूजन कौन न करे ॥ १५६ ॥

पुनश्च अब्रवीत्-
फिरभी बोली-

शृणुष्वावहितः कान्त यत्ते वक्ष्याम्यहं हितम् ।
प्राणैरपि त्वया नित्यं संरक्ष्यः शरणागतः ॥ १५७ ॥

हे स्वामी ! सावधान होकर सुनो जो मैं तुमको हितकर वचन कहतीहूं शरणमें आया पुरुष प्राणोंसे अधिक रक्षा करना चाहिये ॥ १५७ ॥

( ३४४ ) पञ्चतन्त्रम् ।

एष शाकुनिकः शेते तवावासं समाश्रितः ।
शीतार्त्तश्च क्षुधार्त्तश्च पूजामस्मै समाचर ॥ १६८ ॥

यह पक्षीका पकडनेवाला तुम्हारे स्थानमें प्राप्त हुआ सोता है और भूखसे व्याकुल है तू इसका सत्कार कर ॥ १६८ ॥

श्रूयते च—
सुना है कि—

यः सायमतिथिं प्राप्तं यथाशक्ति न पूजयेत ।
तस्यासौ दुष्कृतं दत्त्वा सुकृतं चापकर्षति ॥ १६९ ॥

संध्याके समय प्राप्त हुए अतिथिको जो यथाशक्ति पूजन नहीं करता है उसको यह अपना पाप दे उसका पुण्य लेकर चला जाता है ॥ १६९ ॥

मा चास्मै त्वं कृथा द्वेषं बद्धानेनेति मत्प्रिया ।
स्वकृतैरेव बद्धाहं प्राक्तनैः कर्मबन्धनैः ॥ १६० ॥

इसने मेरी प्रिया बांधली है इस कारण इससे द्वेष मत करो मैं अपने किये पूर्व जन्मके कर्मानुसारही बन्धी हूं ॥ १६० ॥

दारिद्र्यरोगदुःखानि बन्धनव्यसनानि च ।
आत्मापराधवृक्षस्य फलान्येतानि देहिनाम् ॥ १६१ ॥

दरिद्र, रोग, दुःख, बन्धन, व्यसन यह आत्मापराधवृक्षके फल देह धारियोंको होते हैं ॥ १६१ ॥

तस्मात्त्वं द्वेषमुत्सृज्य मद्धन्धनसमुद्भवम् ।
धर्मे मनः समाधाय पूज्यैनं यथाविधि ॥ १६२ ॥

इस कारण तू मेरे बंधनसे उत्पन्न हुए द्वेषको त्यागन कर धर्ममें मनको लगाय यथाविधिसे इसको पूजनकर ॥ १६२ ॥

तस्यास्तद्वचनं श्रुत्वा धर्मयुक्तिसमन्वितम् ।
उपगम्य ततोऽधृष्टः कपोतः प्राह लुब्धकम् ॥ १६३ ॥

उसके धर्म और युक्तिके वचन सुनकर लुब्धकके पास जाय नम्रतासे कपोत बोला ॥ १६३ ॥

सुस्वागतं भद्र तेऽस्तु ब्रूहि किं करवाणि ते ।
सन्तापश्च न कर्त्तव्यः स्वगृहे वर्त्तते भवान् ॥ १६४ ॥

भाषाटीकासमेतम् । ( ३४५ )

हे भद्र! आपका शुभागमनहो कहो मै तुम्हारा क्या प्रिय करू दु ख मत मानना तुम अपने घरमेंही प्राप्त हो ॥ १६४ ॥

तस्य तद्वचनं श्रुत्वा प्रत्युवाच विहंगमम् । कपोत खलु शीतं मे हिमत्राणं विधीयताम् ॥ १६५ ॥

उसके यह वचन सुन ( वह व्याधा ) पक्षीसे बोला हे कबूतर, मुझे जाडा बहुत लगता है जाडेसे बचाओ ॥ १६५ ॥

स गत्वाङ्गारकं नीत्वा पातयामास पावकम् । ततः शुष्केषु पर्णेषु तमाशु समदीपयत् ॥ १६६ ॥

तब वह जाकर ( चोंचमें ) अंगारेकी लकडी लाकर अग्निको गिराता हुआ और फिर सूखे पत्तोंमे उसको जलाता हुआ ॥ १६६ ॥

सुसन्दीप्तं ततः कृत्वा तमाह शरणागतम् । सन्तापयस्व विश्रब्धं स्वगात्राण्यत्र निर्भयः । न चास्ति विभवः कश्चिन्नाशये येन ते क्षुधम् ॥ १६७ ॥

अग्निको दीप्तकर उस शरणमे आये हुएसे बोला अब निर्भय होकर तुम अपने गात्रको तपायो और कुछ वैभव तो है नहीं जिससे तुम्हारी क्षुधा निवृत्त करूं ॥ १६७ ॥

सहस्रं भरते कश्चिच्छतमन्यो दशापरः । मम त्वकृतपुण्यस्य क्षुद्रस्यात्मापि दुर्भरः ॥ १६८ ॥

कोई सहस्रको, कोई सौको, कोई दशको पालन करताहै अपुण्यकारी मुझ क्षुद्रका शरीर तो एककी तृप्तिके निमित्त भी पूर्ण नहींहै ॥ १६८ ॥

एकस्याप्यतिथेरन्नं यः प्रदातुं न शक्तिमान् । तस्यानेकपरिक्लेशे गृहे किं वसतः फलम् ॥ १६९ ॥

जो एक अतिथिको भी अन्नदेनेकी सामर्थ्य नहीं रखता उसका अनेक क्लेश-वाले घरमे रहनेसे क्या फलहै ? ॥ १६९ ॥

तत्तथा साधयाम्येतच्छरीरं दुःखजीवितम् । यथा भूयो न वक्ष्यामि नास्तीत्यर्थिसमागमे ॥ १७० ॥

सो इस दुःख जीवित शरीरको इस प्रकारसे साधन करूंगा कि जो फिर अर्थीके समीप मेरे पास कुछ नहीं ऐसा न कहसकू ॥ १७० ॥

( ३४६ ) पञ्चतन्त्रम् ।

स निनिन्द किलात्मानं न तु तं लुब्धकं पुनः । उवाच तर्पयिष्ये त्वां मुहूर्त्तं प्रतिपालय ॥ १७१ ॥

वह अपनी ही निन्दा करके न कि उस लुब्धककी इस प्रकार वह (कबूतर) लुब्धकसे बोला एक मुहूर्त्ततक तू ठहर ॥ १७१ ॥

एवमुक्त्वा स धर्मात्मा प्रहृष्टेनान्तरात्मना । तमग्निं सम्परिक्रम्य प्रविवेश स्ववेश्मवत् ॥ १७२ ॥

ऐसा कह वह धर्मात्मा प्रसन्न मनसे उस अग्निकी परिक्रमाकर अपने घरकी समान उसमें प्रवेश करगया ॥ १७२ ॥

ततस्तं लुब्धको दृष्ट्वा कृपया पीडितो भृशम् । कपोतमग्नौ पतितं वाक्यमेतदभाषत ॥ १७३ ॥

तब यह लुब्धक उसको देख कृपासे अत्यन्त पीडितहो अग्निमें गिरते कबूतरसे यह वचन बोला ॥ १७३ ॥

यः करोति नरः पापं न तस्यात्मा ध्रुवं प्रियः । आत्मना हि कृतं पापमात्मनैव हि भुज्यते १७४ ॥

जो मनुष्य पाप करता है अवश्यही उसको आत्मा प्रिय नहीं है आत्माके किये पापको आत्माही भोगता है ॥ १७४ ॥

सोऽहं पापमतिश्चैव पापकर्मरतः सदा । पतिष्यामि महाघोरे नरके नात्र संशयः ॥ १७५ ॥

वह मैं पापमति पापकर्ममें सदा रत महाघोर नरकमें पडूंगा इसमें कुछ सन्देह नहीं ॥ १७५ ॥

नूनं मम नृशंसस्य प्रत्यादर्शः सुदर्शितः । प्रयच्छता स्वमांसानि कपोतेन महात्मना ॥ १७६ ॥

अवश्यही अपना मांस देते हुए इस महात्मा कपोतने मुझ निर्दयीको शिक्षा दी है ॥ १७६ ॥

अद्य प्रभृति देहं स्वं सर्वभोगविवर्जितम् । तोयं स्वल्पं यथा ग्रीष्मे शोषयिष्याम्यहं पुनः ॥ १७७ ॥

आजसे सम्पूर्ण भोगरहित इस देहको गरमीमें थोडे जलकी समान सुखा डालूंगा ॥ १७७ ॥

भाषाटीकासमेतम् । ( ३४७ )

शीतवातातपसहः कृशाङ्गो मलिनस्तथा ।
उपवासैर्बहुविधैश्चरिष्ये धर्ममुत्तमम् ॥ १७८ ॥

शीत वात गरमीका सहनेवाला कृश अंग मलीन मैं अनेक उपवास कर धर्म करूंगा ॥ १७८ ॥

ततो यष्टिं शलाकाञ्च जालकं पञ्जरं तथा ।
बभञ्ज लुब्धकोपीमां कपोतीञ्च मुमोचह ॥ १७९ ॥

तब वह लुब्धक लकडी शलाका जाल पींजरा तोडकर उस दीन कपोतीको भी छोड देता हुआ ॥ १७९ ॥

लुब्धकेन ततो मुक्ता दृष्ट्वाग्नौ पतितं पतिम् ।
कपोती विललापार्त्ता शोकसन्तप्तमानसा ॥ १८० ॥

वह लुब्धकसे छोडी हुई कपोती अग्निमें पतिको गिरा देख शोक सन्ताप मनसे व्याकुल हो विलाप करने लगी ॥ १८० ॥

न कार्य्यमद्य मे नाथ जीवितेन त्वया विना ।
दीनायाः पतिहीनायाः किं नार्य्या जीविते फलम् ॥ १८१ ॥

हे नाथ ! तुम्हारे बिना मुझे जीनेसे अब काम नहीं है दीन पतिहीन स्त्रीके जीनेसे क्या फल है ? ॥ १८१ ॥

मनोदर्पस्त्वहङ्कारः कुलपूजा च बन्धुषु ।
दासभृत्यजनेष्वाज्ञा वैधव्येन प्रणश्यति ॥ १८२ ॥

मनका हर्ष, अहंकार, बन्धुओंमें कुल गौरव, दास तथा भृत्यजनोंमें आज्ञा यह सब वैधव्य होनेमें नष्ट होजाता है ॥ १८२ ॥

एवं विलप्य बहुशः कृपणं भृशदुःखिता ।
पतिव्रता सुसन्दीप्तं तमेवाग्निं विवेश सा ॥ १८३ ॥

इस प्रकार बहुत विलाप कर दीन दुखी हो वह पतिव्रता उस प्रदीप्त अग्निमें प्रवेश कर गई ॥ १८३ ॥

ततो दिव्याम्बरधरा दिव्याभरणभूषिता ।
भर्त्तारं सा विमानस्थं ददर्श स्वं कपोतिका ॥ १८४ ॥

तब दिव्य वस्त्र पहरे दिव्य गहनोंसे भूषित वह कपोती विमानमें अपने स्वामीको देखने लगी ॥ १८४ ॥

( ३४८ ) पञ्चतन्त्रम् ।

सोऽपि दिव्यतनुर्भूत्वा यथार्थमिदमब्रवीत् ।
अहो मामनुगच्छन्त्या कृतं साधु शुभे त्वया ॥ १८५ ॥

और वह भी दिव्य शरीर हो यथार्थ ऐसा कहने लगा हे शुभे ! मेरे पीछे आई यह तुमने अच्छा किया ॥ १८५ ॥

तिस्रः कोट्योऽर्द्धकोटी च यानि रोमाणि मानुषे ।
तावत्कालं वसेत्स्वर्गे भर्त्तारं यानुगच्छति ॥ १८६ ॥

साढेतीन करोड जितने रोम मनुष्यके हैं इतने समयतक वह स्त्री स्वर्गमें निवास करती है जो अपने स्वामीके पीछे अनुगमन करतीहै ॥ १८६ ॥

कपोतदेवः सूर्यास्ते प्रत्यहं सुखमन्वभूत् ।
कपोतदेहवत्सासीत्प्राक्पुण्यप्रभवं हि तत् ॥ १८७ ॥

वह कपोतदेव सूर्यास्तमें प्रतिदिन सुख अनुभव करता था और वह कपोती पूर्वजन्मके पुण्यप्रभावसे कपोत देहवत् होगई ॥ १८७ ॥

हर्षाविष्टस्ततो व्याधो विवेश च वनं घनम् ।
प्राणिहिंसां परित्यज्य बहुनिर्वेदवान्भृशम् ॥ १८८ ॥

तब प्रसन्न हो वह व्याधा गहन वनमें प्रवेश करगया । और प्राणीकी हिंसा त्यागन कर बहुत निर्वेदवाला होकर ॥ १८८ ॥

तत्र दावानलं दृष्ट्वा विवेश विरताशयः ।
निर्दग्धकल्मषो भूत्वा स्वर्गसौख्यमवाप्तवान् ॥ १८९ ॥

वहां दावानल लगी देखकर उसमें प्रवेश करगया और पापरहित होकर स्वर्गका सुख भोगने लगा ॥ १८९ ॥

अतोऽहं ब्रवीमि—
इससे मैं कहता हूं—

"श्रूयते हि कपोतेन शत्रुः शरणमागतः ।
पूजितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः ॥ १९० ॥"

"सुना है कि, कपोतने शरणमें आये शत्रुको यथायोग्य पूजन कर अपने मांससे निमंत्रित किया ॥ १९० ॥"

तत श्रुत्वा अरिमर्दनो दीप्ताक्षं पृष्टवान्—"एवमवस्थिते किं भवान् मन्यते?" सोऽब्रवीत्,—"देव ! न हन्तव्य एवायम् ।

भाषाटीकासमेतम् । ( ३४९ )

यह सुन अरिमर्दनने दीप्ताक्षसे पूछा- "ऐसा कहनेपर आप क्या मानते हो?" । वह बोला- "देव ! इसको मत मारो-

यतः-
जिससे-

या ममोद्विजते नित्यं सा मामद्यावगूहते ।
प्रियकारक भद्रं ते यन्ममास्ति हरस्व तत् ॥ १९१ ॥

जो निरन्तर मुझसे क्लेश मानती थी वह आज मुझे आलिंगन करती है हे प्रियकारक ! तुम्हारा मगल हो जो मेरा है उसे ग्रहण कर ( चोरके प्रति गृहस्थीका वचन है ) ॥ १९१ ॥

चौरेण चापि उक्तम्-
तब चोरने भी कहा-

"हर्त्तव्यं ते न पश्यामि हर्त्तव्यं चेद्भविष्यति ।
पुनरप्यागमिष्यामि यदीयं नावगूहते ॥ १९२ ॥"

तेरे हरने योग्य धनको नहीं देखता हू जो हरने योग्य होगा तो फिर भी आऊंगा जो यह स्त्री आलिंगन न करेगी ॥ १९२ ॥

अरिमर्दनः पृष्टवान्,-" का च नावगूहते ? कश्चायं चौर इति विस्तरतः श्रोतुमिच्छामि" । दीप्ताक्षः कथयति-
अरिमर्दन पूछने लगा-"कौन नहीं आलिंगन करती ? कौन यह चोर है ? यह विस्तारसे सुननेकी इच्छा करता हूं"। दीप्ताक्ष कहने । लगा-

कथा ८.

अस्ति कस्मिंश्चिदधिष्ठाने कामातुरो नाम वृद्धवणिक्, तेन च कामोपहतचेतसा मृतभार्य्येण काचित्निर्द्धनवणिक्-सुता प्रभूतं धनं दत्त्वा उद्वाहिता । अथ सा दुःखाभिभूता तं वृद्धवणिकं द्रष्टुमपि न शशाक । युक्तञ्चैतत्-

किसी एक स्थानमे कामातुर नाम वृद्ध वणिक् रहता था, उसने कामसे उपहत चित्त हो भार्याके मृत होजानेसे कोई निर्धन वणिक्पुत्री बहुतसा धन देकर विवाही । वह दुःखसे व्याकुल हुई उस वृद्ध वणिकको देखनेको भी समर्थ न हुई । यह युक्तही हे-