भारतकोश
संग्रह पर लौटें

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

३२-३३ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १३७ अत एव ‘नान्तादसङ्ख्यादेरि’ति चरितार्थम्; अन्यथा ‘पञ्चम’ इत्यादावपि व्यपदेशिवद्भावेन सङ्ख्यादित्वात्तद्वैयर्थ्यं स्पष्टमेव । इयं च प्रातिपदिकग्रहणे एव न, तु प्रातिपदिकाऽप्रातिपदिकग्रहणे, तेन ‘उगितश्चे’त्यत्र न दोष इति तत्रैव भाष्ये स्पष्टम् । इयं ग्रहणवतेति च परिभाषा प्रत्ययविधिविषयैवेति ‘असमासे निष्कादिभ्य’ इति सूत्रे भाष्य-कैयटयोः, तेन ‘अहन्नि’त्यादेः परमाहन्शब्दे केवलाहन्शब्दे च प्रवृत्तिरित्यन्यत्र विस्तरः ॥ ३२ ॥ ननु ‘वान्तो यी’त्यादौ ‘यादौ प्रत्यय’ इत्यर्थः कथमंत आह— यस्मिन्विधिस्तदादावल्ग्रहणे ॥ ३३ ॥ — : ० : — योगेऽपि तावतोन्तमात्रस्य उत्तरत्र इष्टादि

१३८ परिभाषेन्दुशेखरः [ १ प्रकरणे- तदन्तविधेरपवाद इयम् । वाचनिक्येषा येन विधिरित्यत्र भाष्ये ऽके पदे यो विधिः स तदलादौ बोद्धव्यः । वाचनिक्येवेति । भाष्ये वचनरूपेणैवेषा पठिता, न तु ज्ञापकमुपन्यस्तमिति भावः । अत्र ज्ञापकं तु 'नल्प्यपी'ति सूत्रम् ; अन्यथा 'प्रदाये'- त्यादौ हलन्तविङत्प्रत्ययपरत्वाभावेन ईत्वाप्राप्त्या सूत्रवैयर्थ्यं स्पष्टमेव । न च 'प्रदाय- च्छत्त्रमि'त्यादौ तुकि तत्संभवः, न च तुको बहिरङ्गासिद्धत्वम्, 'नाजानन्तर्य' इति निषेधादिति वाच्यम् ; 'आतो लोप इटि चे'त्यादावपि 'अजन्ताधं धातुक' इत्यर्थेन तुकः पूर्वमेव लोपप्रवृत्त्या ईत्वस्य प्राप्त्यभावेन तद्वैयर्थ्यस्य सूपपादत्वात् । केचित्तु—'रथवदयोश्चे'ति सूत्रमस्यां ज्ञा

३३ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १३९ पठिता । अस्याश्च स्वरूपसतो सप्तमी निमित्तम् । अत एव 'नेड्-वशि- कृती'त्यादौ वशादेः कृत इत्याद्यर्थलाभः । इयं च 'आर्धधातुकस्येडि'ति सूत्रे वलादेरित्यादिग्रहणसामर्थ्याद् स्वरूपसती सप्तमीति । न तु तदर्थो विवक्षित इति भावः । आदिग्रहणसामर्थ्यादिति । इदं च न्यायसिद्धार्थानुवादकम्, 'येन विधिरि'ति सूत्रस्य समानाधिकरणे विशेषण एव प्रवृत्त्याऽर्थाधिकारानुरोधात् 'उत्सर्गसमानदेशा०, इति न्यायेन चास्या अपि समानाधिकरणविशेषण एव प्रवृत्त्या सामानाधिकरण्यस्य समानविभक्तिकत्व एव संभवादिति भावः । केचित्तु – 'आर्धधातुके वलो'ति न्यासेन सिद्धे आदिग्रहणं व्यर्थमेवेति वदन्ति । अत्र सदृशलाक्षणिकत्वेन गौणत्वात् गौणमुख्यन्यायेन 'त्रौ च' इत्यस्याप्रवृत्तेः । आचष्टेऽर्थे णिचि तदन्तात् क्विपि तुकि त्रौ चे'त्यस्य चारितार्थ्यमिति तु न भ्रमितव्यम् ; णिचः स्थानिवत्त्वेन तुको- ऽप्राप्तेः । 'क्वौ विधिं प्रति न स्थानिवत्' इत्यस्य तु क्विपमुच्चार्य विहितं प्रति न स्थानिवदित्यर्थ- स्वीकारेणात्र तुकि तस्यानुच्चारणेन तद्वचनस्याप्राप्तेः । 'क्वौ लुप्तमि'त्यस्य तु 'स्रुघ्नः, गोमान्' पदस्त्वञ्च क्वौ लुप्तस्य निदर्शनमि'ति वचनात्परिगणितेष्वेव प्रवृत्तेरत्र तदप्राप्तेः । न चान्यपदार्थं विशेष्यीकृत्य त्रिशब्दस्य यशब्देन सह समासे ततो णिचि क्विचि अल्लोप-यलोपयोः कृतयोः 'त्रि' इत्यस्यामवस्थायां ततः पदद्वित्वे णिचि क्विपि टिलोपे 'त्रित्र्' इति जाते 'कत्रित्र्' इत्यत्र कदा- देशाय 'त्रौ चे'त्यस्य चारितार्थ्यमिति वाच्यम् ; न पदान्ताः परेणाऽणः सन्तीति तादृशानामनभि- धानात् । न च त्रिशब्दाण्णिचि ततः 'एरचि' इति वृद्धौ 'त्राय' इति जाते पुनर्णिचि क्विपि अल्लोप- यलोपयोः 'त्रा' इति जाते, ततो णिचि क्विपि 'प्रकृत्येकाजि'ति प्रकृतिभावे आदन्तत्वात् पुकि 'त्राप्' इति जाते 'कुत्सिता+स्त्राप् कत्त्राप्' इत्यत्र अजन्तोत्तरपदत्वाभावेन तेन कदादेशाप्राप्त्या तत्रादेशाय 'त्रौ चे'त्यस्य चारिवार्थ्यमिति वाच्यम् ; द्वितीयणिचः स्थानिवत्त्वेन तृतीयणिन्निमित्तक- पुकोऽप्राप्त्या अदोषात् । न चात्र द्वितीयणिन्निमित्तक एव पुक् कस्मान्न भवतीति वाच्यम् ; अल्लोपस्य स्थानिवत्त्वात् बहिर्भूतक्विब्निमित्तकयलोपस्य बहिरङ्गत्वेनासिद्धत्वाच्चेति वदन्ति । तन्न सम्यक् ; तस्यैव 'त्रा'शब्दस्य ऋशब्देन सह समासे 'ऋत्यक' इत्यनेन ह्रस्वसमुच्चिते प्रकृति- भावे ततो णिचि टिलोपे क्विपि णिलोपे च 'त्र' इति जाते ततो वृद्धौ पुकि च 'त्रा' इति जाते 'कत्त्राप्' इत्यत्र 'त्रौ चे'त्यस्य चारितार्थ्यसम्भवेन परिभाषाज्ञापकत्वासम्भवात् । पुकि टिलोपस्य स्थानिवद्भावस्तु न ऋ इति पदे परतः पूर्वस्य त्रेत्यस्य कार्यविधानेन 'न पदान्तेति' तन्निषेधात्, वृद्धेः प्राक् टिलोप-णिलोपयोः सत्त्वाद्दचः पूर्वत्वेन दृष्टत्वाभावाच्च । अचः पूर्वत्वेन दृष्टत्वं यथा स्थानिवद्भावेन नायाति, तथाऽन्यत्र प्रपञ्चितमिति दिक् । व्यर्थमेवेतीति । न चोभयोः सप्तम्यन्तत्वकरणे प्रकृतेरिट् स्यादिति वाच्यम् ; निषेधस्य प्राप्तिपूर्वकत्वात् 'नेड्वशीकृति०' इति प्रत्ययस्थेण्निषेधार्थकशास्त्रस्य चारितार्थ्याभावेन तत्सामर्थ्यादार्धधातुके इति षष्ठ्यर्थे सप्तमीं स्वीकृत्य 'आर्धधातुकस्येडि'त्यर्थकरणेन अदोषात् ।

विशेष्य-विशेषणयोरुभयोः सप्तम्यन्तत्व एव प्रवर्तते, तेन ‘ङः सि धुट्’त्यादौ सादेः पदस्येति नार्थः । ‘तीषसह, सेसिची’त्यादौ यथा तादेरित्याद्यर्थलाभस्तथा शब्देन्दु- शेखरे निरूपितम् ॥ ३३ ॥ अन्ये तु—'तस्मिन्नि'ति परिभाषया सप्तमीनिर्देशस्य निरवकाशत्वाद् वलाद्यार्ध- धातुकाव्यवहितपूर्वस्येडागमापत्त्या नैतद्युक्तमिति प्राहुः । नार्थ इति । समानाधिकरणविशेषणाभावात्, असंभवाच्च सान्तस्य पदस्येत्यपि नार्थं इति भावः । 'दिवस्पृथिव्योरि'त्यत्र तत्सम्भवेऽपि 'नैकमुदाहरणमि'ति न्यायेन सामान्यतः सूत्रस्य वैयर्थ्यमित्याशयः । शब्देन्दुशेखरे निरूपितमिति । तत्र हि तीति प्रथमार्थे सप्तमी, तस्य वलादिपदा- र्थैकदेशे वल्पदार्थेऽभेदेनान्वयः । तथा च 'तकाराभिन्नो यो वल् तदादेरि'त्यर्थं उक्तपरिभाषाप्रवृत्तिं विनाऽपि सिद्ध्यति । एवं 'सेसिची'त्यत्रापि बोध्यम् । वस्तुतः—तीत्यादिसप्तम्याऽव्यवहितपूर्वोपस्थित्या 'तकाराव्यवहितपूर्वेभ्य इषा- दिभ्यः परस्य वलादेरार्धधातुकस्येडि'त्याद्यर्थाश्रयणेनैव इष्टसिद्धिरिति शेखरकारोक्त- प्रयासो व्यर्थ एवेति बोध्यम् । नैतद्युक्तमिति प्राहुरिति । नन्वनुपदोक्तरीत्या युक्तमेवेति वाच्यम् ; 'नेड्बशी'त्यत्रापि द्वयोः सप्तम्यन्तत्वात्तत्रापि षष्ठीप्रकल्पकाभावेन 'आर्धधातुकस्ये'त्यनेन प्रकृतेरिडागमविधानं 'नेड्- वशी'त्यनेन निषेध इति प्राप्ति-निषेधयोः सूपपादत्वेन प्रकृतेरिडागमे महादोषापत्तेः । षष्ठ्यन्तत्वे तु निषेधस्यापि 'उत्सर्गसमानदेशा अपवादाः' इति न्यायेन षष्ठ्यन्तत्वेन विपरिमाणेऽदोषो बोध्यः । समानाधिकरणविशेषणाभावादिति । तत्र समानविभक्तिकत्वस्य तन्त्रत्वादिति भावः । यत्तु—'स्तोकं पचति, मृदु पचति, सोमेन यजेत, प्रकृत्या चारुः' इत्यत्र असमानविभक्ति- कयोरपि सामानाधिकरण्यदर्शनेन विरुद्धविभक्तिकयोरपि सामानाधिकरण्यं भवतीति । तन्न ; 'नीलस्य घटः' इत्यत्रापि भेदान्वयबोधापत्तेः, प्रातिपदिकार्थानुयोगिकाभेदसंसर्गकशाब्दबोधे एव समानविभक्तिकत्वस्य प्रयोजकत्वाङ्गीकारेण 'स्तोकं पचति' इत्यादावदोषाच्च । 'प्रकृत्या चारुः' इत्यत्र तु अभेदप्रकारक एव बोध इति न दोषः । विशेषणविभक्तेरभेदार्थकत्वपक्षेऽपि प्रकृत्यादि- शब्दोत्तरतृतीयातिरिक्ततृतीयायाऽभेदबोधने तृतीयान्तविशेष्यवाचकपदसमभिव्याहारस्य प्रयोज- कत्वाङ्गीकारेण 'प्रकृत्या चारुरि'त्यत्र न दोष इति बोध्यम् । असम्भवाच्च सान्तस्य पदस्येत्यपि नार्थ इति । समानविभक्तिकत्वाभावेऽपि 'ङ' इति पञ्चम्या सौति सप्तम्यन्तस्य षष्ठीप्रकल्पकतया समानाधिकरणविशेषणभावात् 'येन विधिरि'त्यस्य प्राप्तेः । 'असम्भवादि'ति हेतुकथनं न युक्तम् , सम्प्रति निरवकाशतया रुत्वापवा- दकत्वकल्पनेन सूत्रस्य चारितार्थ्यसम्भवात्, 'न लोपः ०' इति सूत्रेऽन्तग्रहणसामर्थ्यात् 'पदस्ये'- त्यधिकारे प्रकारद्वयस्य कॢप्तत्वेन प्रकृते वैयधिकरण्यान्वयेनादोषाच्च ।

AH! गव्युगचि कर्तव्ये!! The sutra or vārtika makes a pratyaya युगच् or गव्युगच्? Wait: गव्युगच्! Look at L5-6: गव्युगचि कर्तव्ये प्रत्यये! Wait! In गव्युगचि (when गव्युगच् is to be formed): If the pratyaya is युगच् after गो? No, after गो, if युगच् pratyaya is added, it becomes गव्युगम् or गव्यूतिः? Wait, गो + युगच् -> गो-युग -> गव्युगम्? Wait, why उष्ट्रगोयुगम् in L3? न च 'उष्ट्रगोयुगम्' इत्यत्र उष्ट्रगोशब्दस्योकारान्ततदादित्वेन अवादेशापत्तिरिति वाच्यम्! Because in उष्ट्रगोयुगम्, उष्ट्रगो is followed by युग (from युगच् pratyaya)! युगच् begins with ! So if वान्तो यि प्रत्यये meant: "प्रत्ययघटकयकाराव्यवहितपूर्वस्य", then `युगच्

१४२ परिभाषेन्दुशेखरः [ १ प्रकरणे- 'घटपटं घटपटावि'त्यादिसिद्धय आह— सर्वो द्वन्द्वो विभाषयैकवद्भवति ॥ ३४ ॥ —: 🌸 :— ‘द्वन्द्वश्च प्राणी'त्यादिप्रकरणाविषयः सर्वो द्वन्द्व इत्यर्थः । 'चार्थे द्वन्द्व' इति सूत्रेण समाहारेतरेतरयोगयोरविशेषेण द्वन्द्वविधानान्न्यायसिद्धेयम् । 'तिष्यपुनर्वस्वोरि'ति सूत्रस्थं बहुवचनस्येति ग्रहणमस्या ज्ञापकम् । तद्धीदं ‘तिष्यपुनर्वस्वि’त्यत्र तद्द्व्यावृत्त्यर्थम् । न चैवमप्यत्र 'जातिरप्राणिनामि'ति नित्यैकवद्भावेन बहुवचनाभावा- दिदं सूत्रं व्यर्थमिति वाच्यम् ; तद्वैकल्पिकत्वस्याप्यनेन ज्ञापनात् । न चैते घटपटं घटपटावित्यादिसिद्धय इति । न च नवीनमते उद्भूतावयवभेदविवक्षाया- मितरेतरयोगद्वन्द्वेन तिरोहितावयवभेदविवक्षायां समाहारद्वन्द्वेन चोकरूपद्वयं सिद्ध्यतीति वाच्यम् ; सर्वनामातिरिक्तशब्देषु एकत्रोभयविवक्षाया अभावेन रूपद्वयानापत्तेः । अत एवानेकवृक्षतात्पर्येऽपि 'वृक्षा' इति 'वनमि'ति च व्यवस्थयैव प्रयोगो न तु 'वनानि, वृक्ष' इति । 'सर्वो लोकः, सर्वे लोका' इति द्विविधस्यापि लोके प्रयोगात् सर्वनामस्थले उभयविवक्षाऽपि । सर्वो द्वन्द्व इति । इयञ्च परिभाषा द्वन्द्वविषयेऽप्युभयविवक्षायां तात्पर्यग्राहिका । बहुवचनस्येति ग्रहणमिति । द्वन्द्वविषये उद्भूतावयवभेदविवक्षामात्रस्वीकारे सर्वत्र बहुवचन- स्यैव सत्त्वेन तद्ग्रहणं निष्फलम् ; तिरोहितावयवभेदविवक्षामात्रस्वीकारे सर्वत्र एकवचन- स्यैवोत्पत्त्या बहुवचनासंभवात्तद्व्यर्थमिति भावः । तद्वैकल्पिकत्वस्यापीति । जातिप्राधान्ये एकवद्भावो व्यक्तिप्राधान्ये तदभाव विवक्षिते इत्यर्थो न लभ्येत ; प्राग्दीव्यतीयघटकेऽचि विवक्षिते इत्यर्थे तु 'गर्ग्यरूप्यमि'त्यत्रापि दोषः स्यात् । न च प्राग्दीव्यतीयघटकत्वमचः सर्वत्रैवास्तीति सामर्थ्यात् अजादावित्यर्थलाभ इति वाच्यम् ; सामर्थ्यकल्पनापेक्षया अनेकत्रानेकक्लिष्टकल्पनापेक्षया च वरं परिभाषाश्रयणम् । 'येन विधिरि'त्यनेन प्राप्ततदन्तविधिं बाधित्वा वैयधिकरण्यान्वये प्रमाणाभावः, गौरवञ्चेत्यलमवि- स्तरेण ॥ ३३ ॥ पूर्वपरिभाषायां 'तीषसह' इत्यस्य 'ताद्यार्धधातुक' इत्यादिशेखरे निरूपितार्थस्य प्रदर्श- नाय उपन्यस्तत्वात् तत्र समाहारद्वन्द्वैकवद्भावस्य कृतत्वात्प्रसङ्गात् तदेकवद्भावस्य विकल्प- सम्बन्धिविचारणायामाह—घटपटं घटपटाविति । मूले—न्यायसिद्धेयमिति । ननु 'चार्थे द्वन्द्व' इत्यस्य क्वचल्लक्ष्यावच्छेदेन इतरेतरयोगस्य करणेन क्वचिच्च समाहारद्वन्द्वकरणेन च चारितार्थ्ये सम्भवति उभयविवक्षायां मानाभावेन कथं न्यायसिद्धत्वमित्यरुचेराह मूले—तिष्यपुनर्वस्वोरिति ।

३४-३५ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १४३ प्राणिन इति वाच्यम् ; ‘आपोमयः प्राण’ इति श्रुतेरद्भिर्विना ग्लायमान- प्राणानामेव प्राणित्वात् । स्पष्टं चेदं ‘तिष्यपुनर्वस्वोरि’ति सूत्रे भाष्ये । अत एव ‘द्वन्द्वश्च प्राणी’त्यादेः प्राण्यङ्गादीनामेव समाहार इति विपरीत- नियमो न ॥ ३४ ॥ सर्वे विधयश्छन्दसि विकल्प्यन्ते ॥ ३५ ॥ —: ✤ :— ‘व्यत्ययो बहुलमि’ति सूत्रे भाष्ये बहुलमिति योगविभागेन ‘षष्ठीयुक्त- श्छन्दसी’ति सूत्रे वेति योगविभागेन चैषा साधिता, तेन ‘प्रतीपमन्य, ऊर्मि- र्युद्ध्यति’त्यादि सिद्धम् । ‘युद्धयत्’ इति प्राप्नोति ॥ ३५ ॥ ननु ‘क्षिय’ इत्यादौ इयङ् कथमत आह—

इत्येवंरूपस्य व्यवस्थितविकल्पस्येत्यर्थः । न चैतद्वैकल्पिकत्वज्ञापनेन बहुवचनग्रह- णस्य चारितार्थ्येन उक्तपरिभाषाज्ञापकत्वासंभव इति वाच्यम् ; ‘फल्गुनीप्रोष्ठपदा- नामि’त्यतो नक्षत्रग्रहणानुवृत्तिसंभवे पुनः सूत्रे नक्षत्रग्रहणे नक्षत्रव्यक्तिप्राधान्य एवैतत्प्रवृत्तेर्जातिप्राधान्ये प्रवर्तमानस्य ‘जातिरप्राणिनाम्’त्येकवद्भावस्यात्र विषया- भावेन, व्यक्तिप्राधान्येऽपि पूर्ववदेकतरविवक्षामात्रस्वीकारे बहुवचनग्रहणवैयर्थ्यस्य सूपपादत्वात् । अत एव = बहुवचनग्रहणज्ञापित-परिभाषासत्त्वादेव । उक्तविपरीत- नियमे त्वन्यत्र तिरोहितावयवभेदविवक्षाया अभावेन बहुवचनग्रहणं व्यर्थमेव स्यादिति भावः ॥ ३४ ॥ विकल्पस्य प्रक्रान्तत्वादाह—सर्वे विधय इति । आचार्यैरिति शेषः । विकल्पन्त इति पाठस्तूचितः । मूलमाह—व्यत्यय इति । वेति योगविभागेनेति चेति । एवं चानेन योगविभागेन सर्वेष्टसिद्धौ छन्दसि विकल्पविधायकानि अन्यानि वचनानि निरर्थकानीति ध्वनितम् । तेन=सर्वविधानां वैकल्पिकत्वेन ॥ ३५ ॥ इयङ् कथमिति। सूत्रघटकक्षिशब्दस्य धात्वनुकरणत्वेऽपि धातुत्वाभावादिति भावः।

बहुवचनग्रहणं व्यर्थमिति । तिष्यपुनर्वसुशब्दस्य व्यक्तिप्राधान्ये एकवद्भावा- प्राप्त्या व्यावर्त्याभावेन बहुवचनग्रहणेन ज्ञापितेऽपि स्वांशे चारितार्थ्याभावेन ‘यावता विने’ति न्यायेन प्राण्यङ्गादीनां समाहार एवेति नियमकल्पनस्य ‘जातिरप्राणिनामि’त्यत्र व्यवस्थितविभाषा- श्रयणस्य ‘चार्थे द्वन्द्वः’ इत्यत्रोभयविवक्षायाश्च बहुवचनग्रहणेन ज्ञापनमिति बोध्यम् ॥ ३४ ॥ अनुकरणत्वञ्च—स्वसदृशबोधतात्पर्यकोच्चारणविषयत्वम् । अनुकार्यत्वञ्च—स्वसदृश-

१४४ परिभाषेन्दुशेखरः [ १ प्रकरणे - प्रकृतिवदनुकरणं भवति ॥ ३६ ॥ —: ❖ :— ‘क्षिय’ इति इयङ्निर्देशोऽस्या ज्ञापकः । तत्रैव प्रातिपदिकत्वनिबन्धनविभक्तिकरणादनित्या चेयमिति ‘क्षियो दीर्घादि’ति सूत्रे भाष्ये स्पष्टम् ॥ ३६ ॥ प्रकृतिवदनुकरणं भवति । प्रकृतिवत् = अनुकार्यवृत्तिधर्मवदित्यर्थः । नन्वनेन धातुत्वातिदेशे प्रातिपदिकसंज्ञा न स्यादत आह—अनित्येति । ननु ‘क्षिय’ इति सूत्रे दीर्घान्तानुकरणे दीर्घग्रहणवैयर्थ्यापत्तिः, ह्रस्वान्तानुकरणे ‘विपराभ्यां जेरि’तिवद् गुणापत्तिश्चेति चेन्न । लक्ष्यघटकानुकार्यस्य क्षिशब्दस्य फलाभावाद् घित्वाभावेन तदनुकरणस्यास्य अनेन न्यायेन घित्वाभावातिदेशाद् गुणाप्राप्तेः । सखिशब्दसाहचर्येण अनुकरणक्षिशब्दावयवेकारभिन्नस्यैव घिसंज्ञासूत्रे ग्रहणादस्य घित्वाभावेन गुणाप्राप्तेश्चेति दिक् ॥ ३६ ॥ शब्दप्रतिपाद्यत्वे सति शब्दत्वम् । अत्र शास्त्रीयाया एव प्रकृतेराश्रयणम्, अनया च शास्त्रीयस्यैव धर्मस्यातिदेशः, तेनापशब्दानुकरणेषु नापशब्दत्वमिति ‘ऋऌक्’सूत्रे भाष्ये स्पष्टम् । अनित्येतीति । इदमनित्यत्वं कार्यभेदेन, न तु लक्ष्यभेदेन; तथा सत्येकत्रैव लक्ष्ये एकस्मिन् कार्ये तस्यैव धर्मस्यातिदेशो भवति, अपरस्मिन् न भवति । तथा च प्रातिपदिकत्वाभावाय धातुत्वातिदेशे न भवति इयङर्थञ्च भवति । न च प्रातिपदिकत्वाभावोऽशास्त्रीय इति वाच्यम् ; ‘अधातुरि’ति पर्युदासलब्धमशास्त्रीयेऽपि शास्त्रतात्पर्यत्वेन शास्त्रीयत्वबोधनात् । अथ ‘क्षि + अस्’ इत्यवस्थायामिकारान्तत्वाद् घिसंज्ञायां ‘घेङिति’ इत्यनेन इयङः परत्वाद् गुणे क्षेरिति प्राप्तौ ज्ञापितेऽपि स्वांशे चारितार्थ्यासम्भवात् कथं ज्ञापकत्वम् ? न च सूत्रस्थ‘क्षिय’-इत्यस्य निष्ठापरतो दीर्घीभूतस्यानुकरणत्वाद् घिसंज्ञाया अप्राप्तेर्दोष इति वाच्यम् ; दीर्घीभूतस्यानुकरणे सूत्रस्थेन बोध्यस्यापि दीर्घत्वेन दीर्घादित्यस्याभावेऽपि दीर्घात्परीभूतस्य क्षस्येत्यर्थस्य सत्त्वेन ह्रस्वात्परस्य तकारस्य नकाराप्राप्तौ तद्वारणार्थं कृतस्य दीर्घादिति ग्रहणस्य वैयर्थं स्यादित्याशयेनाशङ्कते—नन्विति । घित्वाभावातिदेशादिति । ननु घित्वाभावरूप- धर्मस्य अशास्त्रीयत्वात् कार्यस्य गुणाभावस्य चाशास्त्रीयत्वादतिदेशो न स्यादित्यरुचेराह— सखिशब्देति । न चैतादृशसाहचर्यग्रहणे मानाभावः; अन्यथा विनिगमनाविरहेण हरिशब्दावयवे- कारभिन्नस्यापि ग्रहणस्य आपादयितुं शक्यत्वादिति वाच्यम् ; ‘यावता विना०’ इति न्यायेन इयङा निर्देशो दीर्घग्रहणञ्च तथा साहचर्यग्रहणे मानमिति तात्पर्यात् । केचित्तु—सूत्रे दीर्घान्तस्यैवानुकरणम् ; दीर्घग्रहणञ्च तस्यैवानुकरणमस्तीत्यत्र तात्पर्य- ग्राहकम् । तथा च गुणप्राप्तेराशङ्कवै नोदेतीति वदन्ति ॥ ३६ ॥

३७ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १४५ ननु 'रामावि'त्यादौ वृद्धौ कृतायां कार्यकालपक्षे कथं पदत्वम्, उभयत कार्यकाल इति । ननु पदसंज्ञायां यथोद्देशस्यैव पूर्वं सिद्धान्तितत्वादेतत्पक्षयोः- व्यवस्थिततया आद्यपक्षेणेष्टसिद्धेश्चात्र कार्यकालपक्षोद्भावनमयुक्तम् । किञ्च—सुसदादि- त्वयोर्व्यपवर्गघटितत्वाभावेन अन्तादिवत्त्वेनैव सिद्धेः 'उभयत' इति निषेधोल्लेखोऽप्य- सङ्गत इति चेन्न । कार्यकालपक्षस्य 'यदा कार्यं तदा संज्ञा, स्वदेशत्याग' इत्यंशद्वयरूप- तया यथोद्देशपक्ष एवेत्येवकारेण स्वदेशत्यागस्यैव व्यावृत्त्या कार्यप्रवृत्तिकाले संज्ञाया आवश्यकत्वात् भपदसंज्ञेत्यादौ भसाहचर्यात् स्वादिष्विति पदसंज्ञाया एव ग्रहणाच्च । 'उभयत' इति निषेधस्य प्राचीनमते सर्वत्रैव प्रवृत्तेस्तदनुसारेण एतद्ग्रन्थप्रवृत्तेः, मूले—वृद्धौ कृतायामिति । द्विवचनात् प्रागिति शेषः । नित्यत्वाद् वृद्धेः पूर्वं प्राप्ते- रिति भावः । मूले—कार्यकालपक्ष इति । यथोद्देशे तु न दोषः, कार्यविशेषानुसन्धानं विना नित्यादप्येकादेशात् पूर्वमन्तरङ्गत्वात्, 'राम+औ' इत्यवस्थायां प्रवृत्तायाः पदसंज्ञाया आनु- मानिकस्थानिवद्भावेन समुदायेऽपि सुलभत्वात् । व्यपवर्गेति । पौर्वापर्यलक्षणेति तदर्थः । अंशद्वयरूपतयेति । कार्यकालस्य उपेक्षा- बुद्धिप्रयुक्तत्वादेकत्र वाक्यार्थबोधेन तदर्थमावश्यकत्वज्ञानेऽपि अन्यत्रापि फलवत्त्वमस्तीत्यस्य ज्ञाने प्रमाणाभावादेकत्रैव संज्ञाशास्त्रस्य प्रवृत्तिः स्यात्तदर्थं यदा कार्यं तदा संज्ञेत्यावश्यकम् । लक्षणोपप्लववत् संज्ञाशास्त्रोपप्लवोऽपि भवतीत्यर्थः । संज्ञाशास्त्राणां विधिदेशीयत्वसिद्धयर्थञ्च स्वदेशत्याग इत्यपि स्वीकार्यमिति भावः । भसाहचर्यादिति । इदं चिन्त्यम्—तथा सति 'राजन्यः' इत्यत्र नलोपैकवाक्यतापन्न- पदसंज्ञाया कार्यकालपक्षेऽसिद्धत्वेन भसंज्ञया बाधानापत्त्या नलोपापत्तेः । यदि तु 'अन् ये चाभाव- कर्मणोः' इत्यादिज्ञापकाजाद्यव्यवहितपूर्वत्ववन्तान्ते पदत्वबाध इत्युच्यते; तदाऽपि कर्तृशब्दादणि भसंज्ञायां प्राप्तायामन्तर्वर्तिविभक्त्या पदसंज्ञायाञ्च प्राप्तायां भसंज्ञाया यथोद्देशपक्षीयत्वेन स्वदेश- स्थत्वात् पदसंज्ञायाश्च कार्यकालपक्षीयत्वेन 'इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च' इति सूत्रस्थत्वात् परत्वात् पदसंज्ञायाम् 'इकोऽसवर्णे' इति प्रकृतिभावे 'कर्तृ+अ' इत्यनिष्टरूपप्रसङ्गात् । न च तस्याः परत्वेऽपि भसंज्ञाया निरवकाशत्वेन तस्या बाध एवेति वाच्यम् ; 'राज्ञे'त्यादौ 'सुप्- तिङन्तमि'त्यस्याप्राप्तिविषये भसंज्ञायाश्चारितार्थ्येन निरवकाशत्वासम्भवात् । तदनुसारेण एतद्ग्रन्थप्रवृत्तेरिति । ननु प्राचां मते सर्वत्रैव उभयत आश्रयणे अन्तादि- वत्त्वाभावेऽपि आनुमानिकस्थान्यादेशभावेन स्थानिवत्सूत्रेण तदादितदन्तत्वातिदेशेन पदसंज्ञा सुलभेति तन्मतेऽपि नावतरणं सम्भवतीति चेन्न । तस्य अशास्त्रीयत्वेन तेन तदनतिदेशात्, प्राचीनमते अन्तादिवत्सूत्रस्य स्थानिवत्सूत्रेणैव गतार्थत्वात् , अन्तादिवत्त्वस्य असत्त्वे सत्त्वे च १९

आश्रयणेऽन्तादिवत्त्वाभावाद्यस्माद्विहितस्तदादितदन्तत्वाभावादत आह—


तदादित्वस्य प्रत्ययाव्यवहितपूर्वत्वघटितरूपतया व्यपवृक्तत्वेन नवीनमतेऽपि एतद्ग्रन्थस्य सुवचत्वाच्च। यथोद्देशपक्षेणेष्टसिद्धावपि कार्यकालपक्षेऽपि दोषवारणसंभवप्रदर्शनस्यैव ग्रन्थकृदभिप्रेतत्वाच्च। वस्तुतः—परिभाषाफलं तु 'चकारे'त्यत्र 'कर' इत्यस्य अभ्याससंज्ञारूपं बोध्यम्। आनुमानिकस्थान्यादेशभावेन तु न निर्वाहः। पूर्वस्य 'कृ' इत्यस्यानर्थकत्वेन तद- प्रवृत्तेः। न च 'अरे'त्यत्र अरित्यस्य सर्वविकारत्वेन एतन्न्यायाप्रवृत्त्या कथमभ्यासत्वमिति वाच्यम्; द्वित्वशास्त्रीयोद्देश्यताश्रयद्वित्वशास्त्रीयविधेयताश्रयैतदुभयमात्रारब्धसमुदाय- त्वस्य 'ऋ ऋ' इति समुदायनिष्ठस्य 'अनेनार् ऋ' इत्यत्रातिदेशेन अरित्यस्य तादृश-


समानफलाय तदपवादस्य स्थानिवत्सूत्रापवादत्वेनावश्यं स्वीकारणीयत्वात्, प्रकृते स्थानिवत्सूत्र- प्रवृत्तेरपि 'उभयत आश्रयणे' इत्यनेन प्रतिरोधुं शक्यत्वाच्च। नवीनमतेनाव्यवतरणं योजयितुमाह—तदादित्वस्येति। अयम्भावः—नवीनमते 'अन्ता- दिवच्चे'त्यनेन अशास्त्रीयस्यातिदेशेऽपि तेन तदादित्वमत्र अतिदेष्टुमशक्यम्, एकादेशात् प्राग् तदादित्वस्य 'राम + औ' इति समुदाये सत्त्वेन रामशब्दे तदभावात्। न च व्यपदेशिवद्भावेन रामशब्दे तदादित्वमतिदिश्य ततः पूर्वान्तवद्भावेन विशिष्टे स्यादिति वाच्यम्; रामशब्दस्य मुख्यधर्मवद्धटकतया असहायत्वाभावेन तेन तत्र तदतिदेशासम्भवात् स्थानिन्येव तदादित्वस्या- भावात्। तस्मात् प्रत्ययाव्यवहितपूर्वत्वसमानाधिकरणतदादित्वस्यैव पूर्वान्तवद्भावेन विशिष्टेऽति- देशो वाच्यः, स तु न सम्भवति, पूर्वत्वघटितत्वेन व्यपवृक्तत्वादिति; तदाऽऽह—तदादित्वस्ये- त्यादिः। तदादित्वस्येत्यस्य अतिदेष्टव्यस्य तदादित्वघटितधर्मस्येत्यर्थः। एतेन—तदादित्वस्य प्रत्ययाव्यवहितपूर्वत्वघटितत्वस्य कथमप्यसम्भवात् तदादित्वस्य प्रत्ययाव्यवहितपूर्वत्वघटितरूपतया व्यपवृत्तत्वेन नातिदेश इत्यसङ्गतमित्यपास्तम्। पाणिनिमतेन आदित्वस्य स्वघटकावधिकपूर्वत्वघटितत्वाच्च। यथोद्देशपक्षमादाय 'रामौ' इत्यस्य सिद्धौ फलन्तरमाह—वस्तुत इति। अभ्याससंज्ञा- रूपमिति। मुखप्रविष्टवर्णस्य जातिव्यञ्जकत्वात् जातिव्यञ्जकस्य ककारस्य प्रकृते विकाराभावेन अर्धाधिकविकारेऽपि परिभाषाप्रवृत्तेरिति भावः। कथमभ्यासत्वमिति। स्थानिवद्भावेन तु नैतल्लभ्यम्, नवीनमतेन 'अनल्विधावि'ति तन्निषेधात् 'हलादिः शेषः' इत्यस्य 'अभ्यासोऽहल् भवति आदिश्चेच्छिष्यते' इत्येतदर्थकतया तस्याभ्यासत्वेन साक्षादवच्छिन्नोद्देश्यकत्वादिति भावः। समुदायत्वस्येति। ननु तादृशसमुदायस्य उद्देश्यताश्रयसत्ताधीनतया विकृतावयवसत्ताव्याप्य-

३७ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १४७ एकदेशविकृतमनन्यवत् ॥ ३७ ॥ —: ० :— अनन्यवदित्यस्यान्यवन्नेत्यर्थः ; तत्रान्यसादृश्यनिषेधेऽन्यत्वाभावः समुदायघटकत्वेन तादृशविधेयताश्रयावधिकपूर्वत्वेन च तत्सिद्धेः । 'पूर्वोऽभ्यास' इत्यनेन द्वित्वशास्त्रीयविधेयताश्रय द्वित्वशास्त्रीयोद्देश्यताश्रयैतदुभयमात्रारब्धसमुदाय- घटकस्यैव तादृशविधेयताश्रयावधिकपूर्वस्य अभ्याससंज्ञाविधानात् 'नोर्णु' इत्यस्याभ्यास- संज्ञाप्रसङ्ग इति बोध्यम् । एकदेशविकृतमिति । एकदेशः = स्वावयवो विकृतमिति भावक्तान्तप्रकृतिकार्श- आद्यजन्तम् । अनन्यवत् = स्ववदित्यर्थः । तथा च स्वावयवविकारघटितं स्ववद्भवतीति यावत् । अत्रैकदेशेन विकृतमेकदेशो वा विकृतो यस्येति व्युत्पत्तिद्वयं तु न

१४८ परिभाषेन्दुशेखरः [ १ प्रकरणे-

सुतराम् । अत एव तादृशादर्थबोधः ; अन्यथा शक्ततावच्छेदकानुपूर्व्य- ज्ञानात्ततो बोधो न स्यात् । एवञ्च रामिति मान्तस्य यस्माद्विहितस्तत्त्वमौ इत्यस्य परादिवत्त्वेन सुत्त्वमिति तदादितदन्तत्वमार्थसमाजग्रस्तम् । छिन्नपुच्छे शुनि श्वत्वव्यवहारवन्मान्ते तत्त्वं लोकन्यायसिद्धम् ।


यावद्घटितस्यापि एकदेशविकृतपदेन ग्रहणात् । इत्थं च स्वघटकोद्देश्यकविकार- घटितत्व-स्वघटकोद्देश्यकविकारेतरयावद्घटितत्व-स्वविशिष्टघटितत्वैतत्त्रितयसम्बन्धेन स्वविशिष्टं स्ववद्भवतीति परिभाषार्थः । अत्र वैशिष्ट्यं च स्वाघटकत्व-स्वघटकमात्रो- द्देश्यकविकारेतरत्वरूपं पूर्वोक्तमनुसन्धेयम् । अत्र मात्रपदनिवेशादेव ‘काण्ड’ इत्यादौ एतन्न्यायेन प्रातिपदिकत्वानतिदेशान्न प्रकारान्तरेण ह्रस्ववारणपरभाष्यविरोधः । शक्ततावच्छेदकानुपूर्वीति । न च शक्ततावच्छेदकानुपूर्वीरूपधर्मस्य विकृतावयव- घटितत्वेन तदतिदेशासंभवात्कथं परिभाषासत्त्वेऽपि तादृशादर्थबोध इति वाच्यम् ; ‘एकदेशविकृतमनन्यवद्यथा भवेत्तथा करणीयमि’ति परिभाषार्थस्वीकारेण मान्तवृत्त्यानु- पूर्व्यमिव तच्छक्ततावच्छेदकत्वारोपेण मान्तेऽपि तादृशशक्त्यनुमानेन ततो बोधस्य निष्प्रत्यूहत्वात् । केचित्तु—रामशब्दत्वस्य अखण्डतया विकृतावयवनिबन्धनकार्यत्वाभावेन परि- भाषाप्रवृत्तिः सुलभवैव । न चैवमेकदेशविकृतत्वासंभवः ; तत्तच्छब्देषु वर्णकल्पनायामपि रामशब्दत्वादेरखण्डत्वे बाधकाभावात् । न चानुपूर्व्येव रामशब्दत्वावगमप्रयोजिका, अत एव घटशब्दे न रामशब्दत्वबुद्धिः । तथा चात्र पूर्वोक्तदिशा आनुपूर्व्या अनति- देशेन कथं रामशब्दत्वावगतिरिति वाच्यम् ; आनुपूर्व्या अभावेऽपि परिभाषाया एवात्र खण्डरामशब्दत्वावगतिप्रयोजकत्वात् । आर्थसमाजेति । अर्थानामयमर्थः, स चासौ समाजस्तेन ग्रस्तम् । अर्थसमाजेति पाठे तु ‘अर्थानां समाज’ इति व्युत्पत्तिर्बोध्या ।


ननु मूलोक्तव्याख्यानपि कथं सङ्गतम् ? यद्येकदेशविकृतापेक्षयाऽन्यो गृह्यते, तर्हि सादृश्यस्य भेदघटिततया मान्तापेक्षया अन्यघटपटादिभिन्नत्वे सति घटपटादिगतभूयोधर्मवत्त्वरूप- सादृश्यस्य निषेधेऽपि मान्ते अदन्तरामशब्दत्वं सुदुर्लभम् । अपि च—अदन्तरामशब्दस्यापि अन्य- शब्देन सङ्ग्रहात्तद्गतसादृश्यनिषेधे अदन्तरामभिन्नत्वे सति रामगतभूयोधर्मवत्त्वरूपसादृश्या- भाववत्त्वं मान्तस्येति सुतरामन्यत्वाभावः कथमिति चेत्—अत्रोच्यते ; अन्यो नाम भेदाधि- करणम्, स च भेदो रामशब्दत्वावच्छिन्नप्रतियोगिताको ग्राह्यः, यद्गतधर्मारोपः कर्तव्यस्तद्गत- धर्मावच्छिन्नप्रतियोगिताकभेदस्य ग्रहणात् । तथा च भेदाधिकरणगतधर्मः सादृश्यम्, तादृशभेद- वत्त्वमिति यावत् । तच्च भेदस्वरूपम् । यथा च प्रकृते रामशब्दत्वावच्छिन्नप्रतियोगिकभेदस्य राम-

३७ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १४९ अत एव 'प्राग्दीव्यत' इति सूत्रे भाष्ये दीव्यतिशब्दैकदेशदीव्यच्छब्दानु- करणमिदमित्युक्त्वा, 'किमर्थं विकृतनिर्देशः ? एतदेव ज्ञापयत्याचार्यो भवत्येषा परिभाषा 'एकदेशविकृतमनन्यवदि'त्युक्तम् । एतेन अयं न्यायः शास्त्रीयकार्य एव शास्त्रीयविकार एवेत्यपास्तम् । विकृतावयवनिबन्धन- अत्र एवेति । एतन्न्यायाङ्गीकारादेवेत्यर्थः । दीव्यतिशब्दैकदेशेति । दीव्यतिशब्दवृत्त्यर्थं- वत्त्वं तान्ते आरोप्य कृतमनुकरणमित्यर्थः । अत एव अवध्यवधिमतोः साजात्यादर्थ- निर्देशघटितसूत्र एवाणः सम्बन्धः, तेन 'बाह्वादिभ्यश्चे'त्यादौ नाणः सम्बन्धः । एतेन रीश्वरादितिवन्निरर्थकतान्तस्य अवधित्वस्वीकारेऽपि दोषाभावेन परिभाषा- प्रवृत्तिर्निष्फलेत्यपास्तम् । शब्दे निषेधात्

कार्ये तु नायम् , छिन्नपुच्छे शुनि पुच्छवत्त्वव्यवहारवद् विकृतावयवव्यव- हारस्य दुरुपपादत्वात् । एवमक्तपरिमाणग्रहणेऽपि नायम् , अक्तपरिमाणेति । अक्तपरिमाणम् = परिच्छिन्नपरिमाणम्, तेन संख्यात्वव्याप्य- धर्मानयने परिमाणत्वव्याप्यधर्मानयने तद्घटितधर्मानयने चैतदप्रवृत्तिरित्यर्थः । तेन शतत्व-शतमुद्गघटतममञ्जूषात्वयोः शेटकत्व-शेटकपरिमितधान्यघटितमञ्जूषा- त्वयोश्च नातिदेशः । केचित्तु-परिच्छेदकधर्मसमनियतधर्मस्यापि नानेनातिदेशः । अत एव शेखरे चतुष्ट्वसमनियत-जराशब्दत्वस्यानेन अतिदेशाभावेन स्थानिवत्सूत्रेण तदतिदिश्य जरसादेश उपपादितः । 'गुडोदकमि'त्यत्र दकशब्दे उदकशब्दत्वमनेन न्यायेन परिच्छिन्नपरिमाणमिति । परिमाणेन परिच्छिन्नार्था अक्तपरिमाणपदेन गृह्यन्ते । परि

[३७ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १५१

उक्तयुक्तेः ; एतत् 'येन विधिरि'त्यत्र भाष्य-कैयटयोर्ध्वनितम् । यत्र त्वर्धं तदधिकं वा विकृतं तत्र जातिव्यञ्जकभूयोवयवदर्शना- भावेन तत्त्वाप्रतीतौ कार्यसिद्धयर्थं विकृतानल्रूपावयवत्वप्रतीत्यर्थं च स्थानिवत्सूत्रम् । क्वचित्तु लक्ष्यानुरोधान्न्यायानाश्रयणम् , तेन 'अभीयादि'- त्यादिसिद्धिः ।


आश्रित्य 'उदके केवल' इति स्वरापादनपरं भाष्यं त्वेकदेश्युक्तिः । अत एव 'अभीयादि'- त्यत्र भान्ते अभिशब्दत्वातिदेशाभावेन उत्सर्गात्परत्वाद् ह्रस्वो नेति प्राहुः । अन्ये तु— 'उदके केवल' इति सूत्रस्थभाष्यविरोधान्नैतद्युक्तम् । 'अभीयादि'- त्यत्र तु न्यायस्यानित्यत्वाद् ह्रस्वाप्रवृत्तिः ; अत एव 'अभीयात् पतञ्जलिर्'त्यादौ न जश्त्वमिति वदन्ति । उक्तयुक्तेरिति । लोकव्यवहारादित्यर्थः । ध्वनितमिति । तत्र हि 'अक्तपरिमाण- वाचकाः संख्यापरिमाणशब्दा नैवाधिके न्यूने वा प्रवर्तन्त' इत्युक्तम् । नन्वनेनैव न्यायेन सर्वत्र सिद्धेः स्थानिवत्सूत्रं व्यर्थमत आह—यत्रेति । अर्धं तदधिकं वेति जातिव्यञ्जकभूयोऽवयवदर्शनाभावे हेतुभूतमेवैतत् , न तु न्यायाप्रवृत्तौ । अत एव अर्धाधिकविकारभूते मुखादौ न्यायेन श्वत्वावगतिः । कार्येति । 'रामाये'त्यादौ सर्वविकारे स्थानिवत्त्वेन दीर्घसिद्धयर्थमित्यर्थः । वस्तुतस्तु— स्वसमभिव्याहृतवर्णघटितत्व-स्वनिष्ठोद्देश्यता निरूपितविधेयताश्रया- वधिकपूर्वत्वैतदुभयसम्बन्धेन द्वित्वशास्त्रीयोद्देश्यताश्रयविशिष्टस्य 'पूर्वोऽभ्यास' इत्यनेन अभ्याससंज्ञाबोधनात् 'चकारारे'त्यादौ दोषाभावेन परिभाषा निष्फलैव, न वा 'रामौ' इत्यादौ पदत्वाद्यसिद्धिः । यथोद्देशपक्षे पूर्वं जातपदत्वस्य आनुमानिकस्थान्यादेशभावेन औकारान्ते सुलभत्वात् । न च शक्ततावच्छेदकातिदेशार्थं तत् ; अकारान्तवृत्तिशक्तताव- च्छेदकधर्मातिदेशाभावेऽपि औकारान्तवृत्तेस्तस्य पूर्ववदतिदेशेन 'रामावि'त्यादौ बोध- सम्भवात् । न च 'उदके केवल' इति सूत्रस्थभाष्यविरोधः, ज्ञापकपरभाष्यविरोधवत्


ह्रस्वाप्रवृत्तिरिति । 'वार्णादाङ्गं बलीयः' इति परिभाषया प्रथमं ह्रस्वे पश्चात्सवर्ण- दीर्घे कृतेऽनन्तरं 'लक्ष्ये लक्षण'न्यायेन ह्रस्वाप्रवृत्तौ 'अभीयादि'त्यस्य सिद्धौ न तदर्थमस्य अनित्यत्वमत आह—अत एवेति । मूले—विकृतानल्रूपेति । विकृतोऽनल्रूपोऽवयवस्तत्त्वमित्यर्थः, तेन यशश्शब्दाण्णिचि टिलोपे अनेनास्त्वालाभेन स्थानिवत्त्वेन तत्त्वमाश्रित्य अस्मायेति विनिः सिद्ध्यति । अनेन न्यायेन तु विकृतावयवनिबन्धनकार्यं न सेत्स्यतीति भावः ।

१५२ परिभाषेन्दुशेखरः [ १ प्रकरणे, ३७ प० विचारः ] स्पष्टं च क्वचिन्न्यायाप्रवृत्तिः 'प्रथमयोः पूर्वसवर्ण' इत्यत्र कैयटेन दर्शितेत्यन्यत्र विस्तरः ॥ ३७ ॥ ॥ इति शास्त्रत्वसम्पादनोद्देशनामकं प्रथमं प्रकरणम् ॥ तस्याकिञ्चित्करत्वात् । न च 'देवदत्तौ आरतुरि'त्यादौ देवादेः समुदायस्याभ्याससंज्ञा- पत्तिः । पदसंस्कारपक्षे 'आरतुरि'त्यस्य सिद्ध्युत्तरं देवदत्तशब्देन तयोगादिति वाच्यम् ; वाक्यसंस्कारपक्षाऽऽश्रयणेन देवदत्तादिशब्दस्य द्वित्वशास्त्रीयोद्देश्यताश्रयसमभि- व्याहृतत्वेन तद्घटिततादृशसमुदायेऽभ्याससंज्ञाया अप्रवृत्तेः । अभ्याससंज्ञीयविशिष्टपदार्थे स्वनिष्ठोद्देश्यता निरूपितविधेयताश्रयद्वित्वप्रयोजकप्रत्ययान्ततदादिघटकेति विशेषणदानेन अदोषाच्चेति दिक् ॥ ३७ ॥ ॥ इति भूत्तितिलके शास्त्रत्वसम्पादनोद्देशनामकं प्रथमं प्रकरणम् ॥ मूले—स्पष्टं चेति । अत्र स्पष्टं यथा स्यात्तथेति योज्यम् ; अन्यथा 'दर्शिते'त्यस्य स्त्रीलिङ्गत्वेन तदसङ्गतिः स्पष्टैव ॥ ३७ ॥ ॥ इति श्रीवैयाकरणप्रवर-'गणपतिशास्त्रिमोकाटे'कृते तत्त्वप्रकाशिकाभिधे 'भूति'-व्याख्याने शास्त्रत्वसम्पादनोद्देशनामकं प्रथमं प्रकरणम् ॥

२ प्रकरणे ३८-३९ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १५३ अथ बाधबीजनाम द्वितीयं प्रकरणम् -: ० :- पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः ॥ ३८ ॥ पूर्वात्परं बलवत् , विप्रतिषेधशास्त्रात् पूर्वस्य परं बाधकमिति यावत् ॥ ३८ ॥ नन्वेवं 'भिन्धी'त्यत्र परत्वात्तातङा बाधितो धिर्न स्यादत आह— पुनः प्रसङ्गविज्ञानात्सिद्धम् ॥ ३९ ॥ -: ० :- अथ भूतिलके द्वितीयं प्रकरणम् शास्त्रत्वसम्पादकोद्देशप्रकरणानन्तरं क्रमप्राप्तं बाधबीजप्रकरणमारभमाणस्तद्- बीजानि सङ्कल्य दर्शयति—पूर्वपरेति । उत्तरोत्तरं बलीय इति । आनुपूर्व्ये द्वे वाच्ये इति द्वित्वम् । पूर्वपरेति समस्तपदघटक-पूर्वपूर्वपदप्रतिपाद्य-शास्त्रापेक्षया उत्तरोत्तरपद- प्रतिपाद्यशास्त्रस्य बलवत्त्वमित्यर्थः । तथा च सति विरोधे बलीयसा दुर्बलं बाध्यत एवेति तु लोकतः सिद्धम् । अनुमानप्रयोगमाह—पूर्वादिति । 'परशास्त्रं पूर्वशास्त्रावधिकबलवत् परशास्त्र- त्वात्' । पक्षतावच्छेदकस्य हेतुत्वेनांस्य अप्रयोजकतया विपरीतशङ्काकलुषितत्वात् तन्निरासायाऽऽह—विप्रतिषेधशास्त्रादिति । एतेन विप्रतिषेधशास्त्ररूपहेतोः शब्दरूपत्वेन आकाशवृत्तित्वाद्वैयधिकरण्येन नानुमानसम्भव इत्यपास्तम् ॥ ३८ ॥ नन्वेवमिति । एवम् = परशास्त्रस्य परत्वरूपबलवत्त्वेन बाधकत्वकल्पनायाम् । धिर्न स्यादिति । अत्र केचित्—तातङ्विधेर्वैकल्पिकत्वेन तदभावपक्षे ध्यादेशेनोक्त- रूपसिद्धेरवतरणासङ्गत्या 'भिन्धको'त्यत्र धिना परत्वाद बाधितोऽकज् न स्यादिति पाठभेदेन अवतारयन्ति । तन्न ; घेरन्तरङ्गत्त्वेनातुल्यबलत्वात् परत्वेन बाधासम्भवात् । अत एव भाष्ये 'अन्तरङ्गत्वाद्वित्वेकजि'त्येवोक्तम् । यत्त—विकल्पस्थलेऽभावस्यापि विधेयत्वेन 'तातङा बाधित' इत्यस्य 'तातङ- भावेन बाधित' इत्यर्थादवतरणसङ्गतिरिति केचित् । तदपि न समीचीनम् ; अप्राप्त- विभाषास्थलेऽभावस्य सिद्धत्वेन शास्त्रेण तद्विधानासम्भवात् । अत एव 'मुमुक्षत' इत्यत्र 'मुचोऽकर्मंस्ये'ति गुणाभावपक्षे अत्र 'लोपोऽभ्यासस्ये'त्यभ्यासलोपो न । अन्ये तु—'भिन्धी'ति भिन्तादित्यस्योपलक्षणम्, क्वचिद् भिन्तादित्येव मूल- पाठः । तथा च 'भिन्तादि'त्यत्र तातङा बाधितो धिर्नैव स्यादिति तातङि स्थानि- वद्भावप्रतिषेधानर्थक्यमिति शङ्कायामाह—पुनः प्रसङ्गेति । अत एव 'पुनः प्रसङ्ग- २०

१५४ परिभाषेन्दुशेखरः [ २ प्रकरणे- नन्वेवं 'तिसृणामि'त्यत्र परत्वात्तिस्रादेशे पुनस्त्रयादेशः स्यादत आह— सकृद्गतौ विप्रतिषेधे यद्बाधितं तद् बाधितमेव ॥ ४० ॥ -: ० :- तत्र क्वचिच्चरितार्थयोरेकस्मिन् युगपदुभयोरसम्भवेन बाधकाभावात् पर्यायेण तृजादिवच्छास्त्रद्वयप्रसङ्गे नियमार्थं विप्रतिषेधसूत्रमिति 'सकृद्-

विज्ञानमि'त्येतावदनुक्त्वा, 'सिद्धमि'त्येतदन्तं भाष्यकृतोक्तम् । इत्थञ्च 'पुनः प्रसङ्गविज्ञानमि'त्येव परिभाषा, भाष्ये तातङि स्थानिवद्भावप्रतिषेधानर्थक्य- शङ्कानिवारकतया सिद्धशब्दान्तमुपन्यस्तम् । प्रसङ्गे सति = शास्त्रस्य प्राप्तौ सत्याम् ; पुनस्तस्य विज्ञानात् = पुनर्बुद्धिविषयीकरणात् सिद्धमतो वार्तिकं तत्प्रतिषेधाय आवश्यक- मिति तदाशयमुपवर्णयन्ति ।

४० प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १५५ गति'न्यायसिद्धिः । यथा तुल्यबलयोरेकः प्रेष्यो भवति, स तयोः पर्यायेण कार्यं करोति, यदा तमुभौ युगपत्प्रेषयतो नानादिक्षु च कार्ये, तदा उभयोर्न करोति यौगपद्यासम्भवात् , तथा शास्त्रयोर्लक्ष्यार्थयोः क्वचिल्लक्ष्ये यौग- पद्येन प्रवृत्त्यसम्भवादप्रतिपत्तौ प्राप्तायामिदं परविध्यर्थम् । तत्र कृते यदि पूर्वप्राप्तिरस्ति, तर्हि तदपि भवत्येवेति पुनः प्रसङ्गविज्ञानसिद्धिरिति विप्रतिषेधसूत्रे भाष्ये स्पष्टम् । यत्तु कैयटादयो व्यक्तौ पदार्थे प्रतिलक्ष्यं लक्षणोपप्लवादुभयोरपि शास्त्रयोस्तल्लक्ष्यविषययोरचारितार्थ्येन पर्यायेण द्वयोरपि प्राप्तौ परमेवेति नियमार्थमिदमिति 'सकृद्गति'न्यायसिद्धिः । अत्र पक्षे एतन्नियमवशात् एतल्लक्ष्यविषयपूर्वशास्त्रानुपप्लव एव । जातिपक्षे तु उद्देश्यतावच्छेदका- क्रान्ते क्वचिल्लक्ष्ये चरितार्थयोर्द्वयोः शास्त्रयोः 'सत्प्रतिपक्ष'न्यायेन युगपदु- भयासम्भवरूपविरोधस्थल उभयोरप्यप्राप्तौ परविध्यर्थमिदमिति पुनः प्रसङ्ग- विज्ञानसिद्धिरित्याहुः । तन्न ; व्यक्तिपक्षे सर्वं लक्ष्यं शास्त्रं व्याप्नोति, न जातिपक्षे इत्यत्र मानाभावात् । 'न ब्राह्मणं हन्यादि'त्यादौ जात्याश्रयसकल- व्यक्तिविषयत्वार्थमेव जातिपक्षाश्रयणस्य भाष्ये दर्शनात् । अत एव 'सरूप'सूत्रे भाष्ये जातौ पदार्थेऽनवयवेन साकल्येन विधि- प्रवृत्तेः 'गौरनुबन्ध्य' इत्यादौ सकलगवानुबन्धनासम्भवात् कर्मणो वैगुण्य- मुक्तम् । द्रव्यवादे चासर्वद्रव्यावगते 'गौरनुबन्ध्य' इत्यादावेकः शास्त्रोक्तो- ऽपरोऽशास्त्रोक्त" इत्युक्तम् । किञ्च नहि भाष्योक्ततृजादिदृष्टान्तस्य व्यक्ति- ण्वुल्तृजूरहितप्रयोगस्यापि साधुतापत्तेः । इत्थञ्च प्रकृतेऽपि बाधकाभावात् 'त्रेस्त्रय' एतच्छास्त्रीयोद्देश्यतावच्छेदकव्यापकत्वं त्रयादेशस्य तिसृत्रयैतद्वृत्त्यन्यतरत्वेनैव स्यात् । एवं 'त्रिचतुरोरि'ति शास्त्रविधेयस्य 'तिसृ'त्यस्यापि उक्तान्यतरत्वेनैव व्यापकत्वं स्यादिति भावः । व्यक्तौ पदार्थ इति । 'व्यक्तिः पदानां वाच्ये'ति मत इत्यर्थः । ननु परमेवेति नियमकल्पने तद्व्यक्तिविषयक कल्पितपूर्वशास्त्रस्य वैयर्थ्यं दुर्वारमित्यत आह - अत्र पक्ष इति । जातिपक्ष इति । जातिपदं प्रवृत्तिनिमित्तपरम् । सत्प्रतिपक्षन्यायेनेति । यथा सत्प्रति- पक्षस्थले न कस्यापि साध्यस्यानुमितिः, परस्परप्रतिबन्धात्तत्रापि तथैव न कस्यापि शास्त्रस्य प्रवृत्तिः स्यादित्यर्थः । इदमिति । विप्रतिषेध इति शास्त्रमित्यर्थः । सर्वं लक्ष्य- मिति । कर्म द्वितीयान्तम् । शास्त्रमिति । कर्तृ प्रथमान्तम् । उद्देश्यतावच्छेदकावच्छेदेन अन्वयस्य सर्वस्मिन्नेव पक्षे अभियुक्तैरङ्गीकारादित्यर्थः । अस्मिन् लोकसिद्धेऽर्थे भाष्य- सम्मतिं सप्रपञ्चं निरूपयति - न ब्राह्मणं हन्यादिति ।

पक्ष एव सर्वविषयत्वं न जातिपक्ष इत्यत्र मानमस्ति । अपि च व्यक्तिपक्षेऽप्यन्यव्यक्तिरूपविषयलाभेन चरितार्थयोर्व्यक्ति- विरोधात्स्वविषयकत्वं न कल्पयतीति वक्तुं शक्यम्। जातिपक्षेऽपि तज्जात्या- श्रयतद्व्यक्तिविषयकत्वमेव नैतद्व्यक्तिविषयत्वमित्यत्र विनिगमकाभावः । तत्र लक्ष्यानुसारात् क्वचिच्छास्त्रीयदृष्टान्ताश्रयणम्, क्वचिल्लौकिक- दृष्टान्ताश्रयणमिति भाष्यसम्मतमार्ग एव युक्त इति बोध्यम् । द्वयोः कार्ययोर्यौगपद्येनासम्भव एव विप्रतिषेधशास्त्रोपयोगी । इदम्

कैयटमतं दूषयित्वा स्वमतं निगमयति—तत्रेति । शास्त्रीयदृष्टान्तेति । 'तृजादिभि- स्तुल्यं पर्यायः प्राप्नोती'ति भाष्योक्ततृजादिदृष्टान्तेत्यर्थः। लौकिकेति। यथा 'तुल्यबले'ति भाष्योक्तलौकिकदृष्टान्तेत्यर्थः । यौगपद्येनासम्भव इति । एकस्मिन् प्रयोगे यौगपद्येनासम्भवो विप्रतिषेध- शास्त्रप्रवृत्त्युपयोगी, न तु केवलमेकस्य कार्यद्वयासम्भव एव । अत एव भाष्ये

कैयटमतं दूषयित्वेति । अयम्भावः—कैयटः व्यक्तिपक्षे प्रतिलक्ष्यं लक्षणोपप्लवात् 'राम + भ्यस्'इत्यर्थमुपप्लुत-'सुपि च, बहुवचने झल्येदि'त्येतयोरचारितार्थ्यात् तृजादिदृष्टान्तेन अन्यतरत्वेन व्यापकत्वं व्यापकत्वकुक्षिप्रविष्टाधिकरणतायां वा सङ्कोचे निरुक्तलक्ष्ये उभयोः पर्यायेण प्राप्तौ परनियमत्वार्थत्वेन सकृद्गतिन्यायसिद्धिः। जातिपक्षे हि उपप्लवाभावात् क्वचित् चारितार्थयोः 'सत्प्रतिपक्ष'न्यायेन निरुक्तलक्ष्येऽप्राप्त्या परविध्यर्थत्वेन 'पुनः प्रसङ्ग- विज्ञान'न्यायसिद्धिरित्याह । तन्न ; उभयपक्षेऽपि सम्भवति लघुधर्मस्य व्यापकतावच्छेदकत्वे गुरुधर्मस्य तत्त्वासम्भवेन उद्देश्यतावच्छेदके सङ्कोचः स्यादित्युभयन्यायासिद्धिरिति नागेशेनोक्तम्- 'व्यक्तिपक्ष' इत्यारभ्य 'अपरोऽशास्त्रोक्तः' इत्यन्तेन । तत्र कैयटः प्रत्यवतिष्ठते—'नैवम्, यतो ह्युद्देश्यतावच्छेदके सङ्कोचे व्यक्तिपक्षे तल्लक्ष्ये उभयोरप्राप्तौ उपप्लुतशास्त्रवैय्यर्थ्यमेव स्यादिति तत्राधिकरणतायामेव सङ्कोचः । जातिपक्षे तु सूत्रवैय्यर्थ्याभावात् सम्भवति उद्देश्यतावच्छेदके सङ्कोच' इति ; अत आह नागेशो मूले—किञ्चेति । तृजादिदृष्टान्तेनाधिकरणतायां सङ्कोचे तस्य च दृष्टान्तस्य जातिव्यक्त्युभयपक्षकत्वे बाधकाभावेन जातिपक्षेऽप्यधिकरणतायां सङ्कोचे उभय- न्यायासिद्धिस्तदवस्थैवेति तदाशयः । न केवलं प्राप्तिमात्रेणाधिकरणतायां सङ्कोचः, अपि तु यत्रोभयशास्त्रवैयर्थ्यं तत्रैवा- धिकरणतायां सङ्कोचः । अन्यथा 'श्रीशः' इत्यत्र 'इको यणचि' इत्यस्य 'अकः सवर्णे दीर्घः' इत्यस्य च प्राप्त्या तत्राप्यधिकरणतायां सङ्कोचे पर्यायापत्तिर्दुर्द्धरैव स्यात् । तस्मात् सूत्रवैयर्थ्ये- ऽधिकरणतायां सङ्कोचः, तत्सार्थक्ये च उद्देश्यतावच्छेदके एव । तत्र सूत्रवैयर्थ्यं व्यक्तिपक्षे एव, न जातिपक्षे इति तत्र तृजादिदृष्टान्तप्रसक्तिरिति कैयटाभिमतमाशयं खण्डयन्नाह नागेशो मूले-अपि चेति । यत्रोपप्लवकशास्त्रवैयर्थ्यं तत्रैवाधिकरणतायां सङ्कोचो न पुनरुपप्लुतशास्त्रवैयर्थ्यं तत्प्रयो- जकम् । अत एव व्यक्तिपक्षे 'श्रीशः' इत्यत्र यण् न इति तदाशयः । तस्माल्लक्ष्यानुरोधेन क्वचित् तृजादिदृष्टान्ताश्रयणम्, क्वचिच्च लौकिकन्यायाश्रयणमिति भाष्यसम्मत एव पक्षः श्रेयानिति तत्त्वम् ।