भारतकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

[ अधि - १८. सू - ४६. ] दीपिकासहितम्. ६२१ ( १३) यथा तेजोंशस्यैव कालाग्नेः खद्योतस्य च नैकप्रकार- ता । यथा जलांशस्यामृतसमुद्रस्य मूत्रादेश्च । यथा च पृथ्व्यंशस्य मेरोर्विष्ठादेश्च । ( १४) अभिमानिदेवतापेक्षयैतत् ॥ ४६ ॥ वेन सर्वथा समो न, कुतः ? यतः ‘एवंविधो न’ जीववद्भिन्नांशो न, किन्तु एवंविधः स्वरूपांश इत्यनुवृत्त्या योजना । केवलांशत्वं तु सर्व- साम्ये न प्रयोजकमिति भावः ॥ ( १३ ) ननु जीवेषु भेद एव मत्स्यादिष्वभेद एवेति वैषम्यमनुप- पन्नम्, उभयोरंशत्वे विशेषाभावादित्याशङ्कोत्तरत्वेन प्रवृत्तं प्रकाशा- दिवदित्यंशं अभिन्नांशास्तु मत्स्याद्यास्तेजसः कालवह्निवत् । जीवाः भिन्नांशकास्तत्र तेजसः प्रतिबिम्बवत् ॥ इति तत्त्वप्रदीपोक्तप्रमाणानुसारेण विवृणोति—यथेति ॥ एवकारोऽ- प्यर्थः । चशब्दः समुच्चये । ‘एकप्रकारता’ उभयोर्भिन्नांशत्वाभिन्नां- शत्वाख्यैकप्रकारता न, किन्तु प्रलयकालीनाग्नेरभिन्नांशत्वं, खद्योत- शब्दितकीटविशेषस्य भिन्नांशत्वमिति भिन्नप्रकारतैवेत्यर्थः । सौत्रादि- शब्दगृहीतदृष्टान्तान्तरं विवृणोति—यथा जलांशस्येति । जलांशस्या- पीत्यर्थः । जलांशत्वाविशेषेऽपीति यावत् । ‘अमृतसमुद्रस्य’ शुद्धोद- कसमुद्रस्य । मूत्रादेश्चेत्यनन्तरं नैकप्रकारतेत्यनुषज्यते । किन्त्वमृत- समुद्रस्याभिन्नांशत्वं मूत्रादेर्भिन्नांशत्वमेवेति भावः । आदिपदेन क- श्मलोदकं गृह्यते । आदिपदगृहीतदृष्टान्तान्तरं विवृणोति—यथा पृ- थिवीति । अत्राप्यर्थकैवकारोऽनुषज्यते, नैकप्रकारतेति च । किन्तु मे- रुगिरेः पृथ्व्यभिन्नांशत्वं विष्ठागदिताशुद्धादेस्तु भिन्नांशत्वमेवेति भावः । तथेति शेषः । पूर्वेणान्वयः ॥ ( १४ ) ननु कालाग्निखद्योतयोः तेजोलक्षणभूतकार्यत्वात् मूत्रामृत- समुद्रयोरब्लक्षणभूतकार्यत्वात् मेरुविष्ठयोश्च पृथिवीलक्षणभूतकार्य- त्वात् कार्यकारणानां च सिद्धान्तिभिर्भेदाभेदाभ्युपगमेन भेदाभेदसा- म्यात् कथमेतन्मत्स्यादीनामभिन्नांशत्वे जीवानां च भिन्नांशत्वे दृष्टा- न्ता भवेरन्नित्यत आह—अभिमानीति ॥ प्रकाशाद्यभिमानिदेवतापेक्ष- येत्यर्थः । ‘एतत्’ प्रकाशादिवदिति दृष्टान्ताभिधानं एतेषां दृष्टान्तत्वं वा । तथा च तेजोजलपृथिव्यभिमानिनीनां सूर्यवरुणधराणां काला-

६२२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] ( १५ ) सू- ॐ ॥ स्मरन्ति च ॥ ॐ ॥ ४७ ॥ ( १६ ) एते स्वांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् । प्रथमतः समुद्रमेर्वाभिमानिनां तदंशानां च क्रमेणान्योन्यमभिन्नत्वात्, खद्योतमूत्रविष्ठाद्यभिमानिनीनां अपभ्रष्टाख्यदेवतानां तु क्रमेण तेजो जलपृथिव्यभिमानिभ्यो भिन्नत्वात् युक्तं दृष्टान्तत्वमिति भावः । अनेन सूत्रे प्रकाशादिशब्द उभयविधतेजोंशादिपरोऽभिमानिदेवतापरश्च। त था च प्रकाशादिवदित्यस्य कालाग्निखद्योतादिषु तेजाद्यंशेष्वेव भिन्न त्वाभिन्नत्ववैषम्यवदित्यर्थ इत्युक्तं भवति । अनेनैवानंशत्वश्रुतेरभि न्नांशत्वनिषेधपरत्वेन गतिरुक्ता भवति । अत एवांशत्वश्रुतेः तद्विरो धोऽपि परिहृतः ॥ ( १५ ) ननु दृष्टान्तमात्रस

[ अधि - १८. सू - ४७. ] दीपिकासहितम्. ६२३ इन्द्रारिव्याकुलं लोकं मृडयन्ति युगेयुगे ॥ ( १७ ) अतः परं यदव्यक्तमव्यूढगुणबृंहितम् । भागरूपत्वेनावतिष्ठन्ते तत्सामर्थ्यैकदेशेन जायन्ते चेत्यभिहिते, के ते अंशा इत्याकांक्षायां 'द्वितीये तु भवायास्य' इत्यारभ्य 'अथासौ युगस न्ध्यायाम्' इत्यन्तेन सविस्तरं वराहादीनां भगवदंशत्वमुक्त्वा, ऋषयो मनवो देवाः मनुपुत्रा महौजसः । कलाः सर्वे हरेरेव सप्रजापतयस्स्मृताः ॥ इत्यनेन ऋष्यादीनां प्रियव्रतादिमनुपुत्राणां दक्षादिप्रजेश्वराणां च जी वानामपि कला इत्यनेन भगवदंशत्वमुक्तम् । तत्र किमविशेषेण सर्वे अंशा इत्याशङ्कानिरासाय भगवदवतारेषु जीव इव कलात्वस्योपच रितत्वशङ्कावारणाय च 'एते' इत्यनेन वराहादीनां स्वरूपांशत्वमभि धीयते । 'एते' वराहाद्या अवताराः 'पुंसः' परमपुरुषस्य नारायण स्य 'स्वांशकलाः' कल्प्यन्त इति कलाः स्वरूपांशरूपा एव विभा गाः, न तु भिन्नांशाः, उपचारेण कला इव कला वा । भेदवद्भेदाभेदा वपि नेत्याह—कृष्ण इत्यादिना । कृष्णशब्दोऽयं 'कृष्णो मुक्तैरिज्यते वीतमोहैः' इत्यादाविव नारायणेऽस्ति । तुशब्दोऽवधारणे । तथा च एते न स्वांशकला इत्येतावन्मात्रं, किन्तु 'स्वयं' साक्षात् भगवान् कृ ष्णो मूलरूप्येव तदत्यन्ताभिन्नोऽपि । उक्तं हि प्रमेयदीपे—एते वरा हाद्याः पुंसः स्वांशकलाः । कोऽर्थः ? कृष्णः परमपुरुषो भगवान् स्वय मेव एत इति स्वांशकला इत्यस्यैव भेदाभेदशङ्कावारणार्थंक थने, कृष्ण इत्यादीत्यस्याभिप्रायः । आदिसृष्टाववतीर्णाः एते वराहाद य एव इन्द्रारिभिः दैत्यैर्व्याकुलं पीडितं जनं 'युगेयुगे' पुनरवतीर्य 'मृडयन्ति' रक्षन्ति सुखयन्ति चेत्यर्थः । यथोक्तं गीताभाष्ये—'रू पाण्यनेकान्यसृजत् प्रादुर्भावभवाय सः' इति । सः नारायणः 'असृ जत्' व्यभजत् । उत्तरत्रेति शेषः ॥ ( १७ ) एवं वराहादीनां स्वरूपांशत्वमुक्त्वा ऋषय इत्यादिना भग वदंशत्वेनोक्तानां जीवानां भिन्नांशत्वमुच्यते—अतः परमित्यादिना ॥ यत 'अतः' परमपुरुषात् जडाच्च 'परं' भिन्नं 'अव्यक्तं' अकार्यं सू क्ष्ममिति वा 'अव्यूढगुणबृंहितं' अनादिकालात्कदाचिदपि अनपगत सत्त्वादिगुणयुक्तं चैतन्यं यच्च 'अदृष्टाश्रुतवस्तुत्वात्' श्रुतपदं मनना देरप्युपलक्षणम् । तथा च अश्रुतामतानुपासितासाक्षात्कृतपरमात्मस्व

६२४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] अदृष्टाश्रुतवस्तुत्वात्स जीवो यः पुनर्भवः ॥ ( १८ ) स्वांशाश्चाथो विभिन्नांश इति द्वेधांश इष्यते । अंशिनो यत्तु सामर्थ्यं यत्स्वरूपं यथा स्थितिः ॥ तदेव नाणुमात्रोऽपि भेदः स्वांशांशिनोः क्वचित् । विभिन्नांशोऽल्पशक्तिस्स्यात्किञ्चित् सादृश्यमात्रयुक् ॥ इति वाराहे । ( १९ ) न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः । (गी. ११-४३.) रूपत्वात् 'पुनर्भवः' पौनःपुन्येन जायमानो म्रियमाणश्च संसारी स जी व इत्यर्थः । तत्त्वप्रदीपे तु—अदृष्टाश्रुतवस्तुत्वादित्यस्य अव्यूढगुणबृं हितमित्यनेन अन्वय उक्तः । पुनर्भव इत्यनन्तरमिति भागवते इति शेषः ॥ ( १८ ) न केवलमसंसारित्वसंसारित्वाभ्यां रक्षकत्वरक्ष्यत्वाभ्यां गु णबन्ध्यागुणबन्ध्याभ्यां मत्स्यादीनां जीवानां चांशिनोऽभेदभेदावसाम्यं च, किन्तु मत्स्यादीनां स्वरूपांशत्वलक्षणयुक्तत्वात् जीवानां तु भिन्नां शलक्षणयोगित्वात् अंशिना भेदाभेदावसाम्यं चेति भावेन स्वरूपा स्वरूपांशविभागपूर्वकं तयोर्लक्षणं तावत् स्मृत्या दर्शयति—स्वांश श्चेति ॥ स्वरूपांश इत्यर्थः । चशब्दो द्वैधैवेत्यवधारणार्थः । अथो इत्य र्थान्तरे । 'सामर्थ्यं' जगत्सृष्ट्यादिलक्षणं, तुश्चार्थः । 'यत्स्वरूपं' य थाज्ञानानन्दादि 'यथा स्थितिः' यथा सर्वोत्तमत्वादि । सुधारीत्या सर्वगतत्वादि परिमाणं वा, देशतः कालतो गुणतः व्याप्तत्वेन स्थिति रिति वा । तदेव स्वरूपांशस्य भवतीति शेषः । न तु ततो भिन्नमित्ये वार्थः । कुत इत्यत आह—न भेदस्स्वांशांशिनोरिति । स्वरूपांशांशि नोः 'क्वचिदपि' काले भेदो नास्तीत्यर्थः । ननु केवलभेदाभावेऽपि अ भेदसहितः किं न स्यादित्यत आह—अणुमात्रोऽपीति । अभेदसहितो ऽपीत्यर्थः विभिन्नांशलक्षणमाह—विभिन्नांश इति । किञ्चित्सादृश्यमा त्रयुगित्येतत् सुधारीत्या परमेश्वरेण चित्त्वादिरूपेण किञ्चित्सादृश्यमा त्रयुगिति, अंशिशब्दमुख्यवाच्येन मत्स्यादिना किञ्चित्सादृश्यं तत्सत्त यैव सत्तावत्त्वरूपं तन्मात्रयुगिति च द्वेधा व्याख्येयम् । मात्रशब्देन सर्वथा सादृश्यमभेदो भेदाभेदौ च निरस्तौ ॥ ( १९) एतच्च स्वरूपांशत्वलक्षणं कृष्णाद्यवतारेऽस्तीति स्मृत्याऽऽ ह—नेति ॥ त्वत्समोऽन्यो नास्ति कुतोऽधिक इत्यर्थः । कृष्णं प्रति पा

[ अधि - १८. सू - ४८. ] दीपिकासहितम्. ६२५ इति च ॥ ४७ ॥ ( २० ) सू— ॐ ॥ अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादि वत् ॥ ॐ ॥ ४८ ॥ परानुज्ञया प्रवृत्तिः परतो बन्धनिवृत्तिश्च जीवस्य प्र तीयते , अंशत्वेऽपि देहसम्बन्धात् । र्थवचनमेतत् । गीतायामिति शेषः । सप्तम्यन्तानां स्मरन्तीत्यनेनान्व यः । जीवेषु भिन्नांशलक्षणवत्त्वं साक्ष्यनुभवसिद्धमिति न तत्र प्रमाण मुदाहृतम् । अनेन—यतः स्मृतिकर्तारो मत्स्यादीनां जीवानां च भ गवदंशत्वं स्वरूपास्वरूपांशत्वे तल्लक्षणे मत्स्यादीनां तद्योगित्वं च 'स्म रन्ति' भागवतादिस्मृतिषु प्रतिपादयन्ति अतोऽपि नोभयेषां अविशे ष इति सूत्रार्थ उक्तो भवति ॥ ( २० ) एवं जीवानां मत्स्यादीनां च अंशिना क्रमेण भेदाभेदस

६२६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] ( २१ ) 'य आत्मानमन्तरोऽयमयति' ( माध्यन्दिनशा. ) 'तमेवं विद्वान्' ( तै.आ.३-१२. ) इत्यादिना । न तु परस्य । ( २२ ) 'वासुदेवस्सङ्कर्षणः प्रद्युम्नोऽनिरुद्धोऽहं मत्स्यः कूर्मो व राहो नारसिंहो वामनो रामो रामः कृष्णो बुद्धः क ल्किरहं शतधाऽहं सहस्रधाऽहममितोऽहमनन्तोऽहं नै वैते जायन्ते न म्रियन्ते नैषामनुज्ञा न बन्धो न मुक्ति स्सर्व एव ह्येते पूर्णा अजरा अमृताः पराः परानन्दाः' ( २१ ) न केवलं देहसम्बन्धाज्जीवस्यानुज्ञापरिहारौ प्रतीयेते, कि न्तु श्रुत्याऽपीत्याशयेन तत्र क्रमेण श्रुती आह—य इत्यादिना ॥ 'यः' इ- ति श्रुतिः कर्त्रधिकरणे 'तम्' इति श्रुतिश्च जिज्ञासाधिकरणे व्याख्या [L1

[ अधि - १८. सू - ४८. ] दीपिकासहितम्. ६२७ इति चतुर्वेदशिखायाम् ॥ ( २३ ) युज्यते च ज्योतिरादिवत् । यथाऽऽदित्यो वियद्गतस्त त्प्रकाशश्चैकप्रकारः । ( २४ ) ' शुक्लं कृष्णं कनीनिका ' ( ऐ. आ. २-१-५. ) इति तद्देश स्याप्यक्ष्णो देहसम्बन्धान्न तादृशी शक्तिः । तदनुज्ञा श्लोकेनापि मत्स्यादिषु ईश्वरस्वरूपांश लक्षणोक्त्या अतथाभूतानां म त्स्यादिवैषम्यमुपपादितं भवति । चतुर्वेदशिखायामित्यनन्तरं वचना दिति शेषः । अस्य न तु परस्य परतोऽनुज्ञापरिहारौ स्त इति पूर्ववा क्येनान्वयः ॥ ( २३ ) यदुक्तं जीवः अंशपरमात्माधीनप्रवृत्त्यादिमान् स्वांशिकर्मानि र्मितदेहसम्बन्धित्वादिति, तन्न युज्यते व्याप्त्यभावादित्यतः प्रकृतं दृ ष्टान्तांशं सशेषं योजयति-- युज्यते चेति ॥ एतदिति शेषः । अनेन सू त्रे युज्यते चैतदित्यध्याहारस्सूचितः । ' एतत् ' साधनम् । सूत्रे ज्यो तिरादिवदित्युक्त्या मत्स्यादिः स्वांश्यधीनप्रवृत्तिर्न भवति स्वांशिक र्मनिर्मितदेहासम्बन्धित्वात् वियद्गतप्रकाशाद्यभिमानिवदिति यत् प्र योगान्तरमप्यभिप्रेतम्, तदपि युज्यत इत्याशयेन दृष्टान्तवचनमेव स्फु टयति-- यथेति । ' वियद्गतः ' अन्तरिक्षगतः ' आदित्यः ' तन्मण्डलाभि मानी सूर्यः अंशी तत्प्रकाशः सूर्यप्रकाशाभिमानी सूर्यांशश्च ' एकप्र कारः ' एकविधः द्वावेकलक्षणोपेतौ, अत एवांशः अंश्यधीनानुज्ञादि रहित इत्यर्थः । तथा परो मत्स्यादिश्चैकप्रकार इति वाक्यशेषः ॥ ( २४ ) एवं ज्योतिरादिवदित्यंशं देहसम्बन्धित्वहेतोर्व्यतिरेकव्या प्तो तदसम्बन्धित्वहेतोरन्वयव्याप्तौ दृष्टान्तपरतया व्याख्याय वैपरी त्येन तदुभयव्याप्तिदृष्टान्तपरतयाऽपि व्याचष्टे-- शुक्लमिति ॥ यथेत्य त्रापि संयोज्यम् । इतीत्यनन्तरं श्रुताविति शेषः । तद्देशस्यापीति । सू र्यमण्डलांशत्वेनोक्तस्यापीत्यर्थः । यद्वा-- मण्डलाभिमान्यंशत्वेन उक्त स्यापीत्यर्थः । एवमक्षिपदमपि चक्षुस्तदभिमान्यपन्नष्ठाख्यदेवतोभयप रततया व्याख्येयम् । यद्यपितापीत्यर्थेऽपिशब्दः । अयं भावः-- छान्दोग्ये 'अथ यदेतदादित्यस्य शुक्लं भाः सैव ऋक्, अथ यन्नीलं परः कृष्णं तत्सा म . . अथ यदेतदक्ष्णश्शुक्लं भाः सैव ऋक्, अथ यन्नीलं परः कृष्णम्' (छा. १-६, ७.) इत्यधिदैवताध्यात्मप्रकरणगतवाक्यद्वयेनाक्ष्यादित्यमण्डल योरुभयोरपि शुक्लादिरूपत्रयवत्त्वोक्त्या साम्यं सिद्धम् । एवं च चक्षु

"? No. Could it be "ह्रस्वं"? Look at the characters: ह + ्र = ह्र स + ्व + ं = स्वं Yes, it literally reads: ह्रस्वं ! Wait, could it be "ह्यस्य"? No, there's definitely an anusvara on the second letter, and the second letter is a conjunct with 'स'. Wait, what about 'ह्रस्वं'? Yes, 'ह्र' 'स्वं' = ह्रस्वं.

Wait, let's read the commentary in line 4 onwards: पि श्रुत्यन्तरसिद्धशुक्लादिरूपत्रयवरूपादित्यमण्डलसाम्यस्य 'त्रि- Notice the first word in line 4: "पि" - this is the continuation of line 3: "तदंशस्या-" -> "पि"! Wait! Line 3 ends with: "तदंशस्या-" And line 4 starts with: "पि"! Wait, but line 4 has "पि" in regular text, not bold? Wait, look at line 3: "( २५ ) यथा बाह्यामृतजलस्यामृतसमुद्रस्य चैकत्वं तदंशस्या" Wait, is line 3 bold? Yes, line 3 is BOLD: "( २५ ) यथा बाह्यामृतजलस्यामृतसमुद्रस्य चैकत्वं तदंशस्या" And line 4 starts with: "पि श्रु

[ अधि - १८. सू - ४८. ] दीपिका सहितम्. ६२९

पि श्लेष्मणस्तदनुग्राह्यत्वं तेनैव विरोधिनिवृत्तिश्च । ( २६ ) मोक्षधर्मे च- यत्किञ्चिदिह लोकेऽस्मिन् देहबद्धं विशाम्पते । सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः ॥ ईश्वरो हि महद्भूतं प्रभुर्नारायणो विराट् । थेत्यादौ योज्यम् । अपिशब्दार्थः पूर्ववत् । 'श्लेष्मणः' तदभिमान्यप भ्रष्टदेवतायाः इत्यर्थः । तच्छब्दद्वयेन वरुणो गृह्यते । विरोधीति । 'श्लेष्मा पित्तस्य विरोधी पित्तं श्लेष्मणः' इति श्लेष्मविरोधिनः पित्त धातोः निवृत्तिर्भवतीत्यर्थः । अत्र पूर्वत्र च तथेति दार्ष्टान्तिकवाक्या ध्याहार उक्तरीत्या कर्तव्यः ॥ ( २६ ) ननु यदुक्तं जीवस्य स्वांशिककर्मनिर्मितदेहसम्बन्धित्वादप भ्रष्टवदीशाधीना प्रवृत्तिः, ततो बन्धनिवृत्तिश्चेति । यच्च यथेत्यादिना दृष्टान्तविवरणेन अभिसंहितं देहासम्बन्धित्वाद्वियद्गतप्रभाभिमानिव त् मत्स्यादेरीश्वराधीनप्रवृत्त्यभाव इति । तद्वयमप्यनुपपन्नम् । आ द्ये मत्स्यादौ व्यभिचारात्, द्वितीये दृष्टान्तासिद्धेरित्यत आह---मो क्षधर्मे चेति ॥ चशब्दः शङ्काव्यावर्तकः । युधिष्ठिरं प्रति भीष्मवचनमे तत् । हे 'विशां' प्रजानां पते अस्मिन् 'लोके' जगति यत्किञ्चिज्जीव जातं देहबद्धं वर्तते, तदीश्वरबुद्धिजैः तन्निमित्तकैः पञ्चभिर्भूतैः 'आ विष्टं' बद्धमित्यर्थः । एवं जीवानां भौतिकदेहसम्बन्धमुक्त्वा ईश्वर स्य तदसम्बन्ध उच्यते---ईश्वरो हीति । हिर्हेतौ, प्रसिद्धौ वा । हेतुने वाह---महदिति । महच्च तद्भूतं च महद्भूतं भूतेभ्यो महदिति वा 'म हत्' पूज्यं अपरिच्छिन्नं 'भूतं' सदा स्थितं निर्विकारं वा । 'ईश्वरो हि जगत्स्रष्टा' इति गीताभाष्ये पठितम् । स चेश्वरो नान्यः, किन्तु 'नारायणः' मुक्ताश्रयो विष्णुः विशेषेण राजत इति 'विराट्' नित्या भिव्यक्तरूपः । 'भूतान्तरात्मा' सर्वजीवान्तर्यामी 'वरदो' मोक्षदः । ध्येय इति क्वचित्पाठः । 'सगुणः' ऐश्वर्यादिगुणोपेतः 'निर्गुणः' स त्त्वादिगुणाकार्यदेहः । अपिचौ समुच्चये । पुनर्जीवस्वरूपमुच्यते---भू तेति । तस्येति शेषः । अस्य तमिति यावत् । नृपश्चासावतिशयितस त्त्वश्च, तस्य सम्बुद्धिः नृपसत्तमेति । हे नृपसत्तम भूतसम्बन्धाधीन प्रलयोपेतमकार्यत्वादव्यक्तशब्दितं जीवचैतन्यं तस्य नारायणस्य 'शु

? No, where is र्? Look above the ि of शि: is there a repha? NO, the top of the ि is completely smooth! It's just a normal ि curve! So it is definitely NOT र्शि! It is definitely शि! Then what is the word? ...शिवान्! Before शिवान्: is it दृशिवान्? Yes! In Sanskrit, दृशिवान् is the kvasu-anta of दृश् (दृश् + क्वसुँ = दृशिवान्, like ऋग्वेद / ऐतरेय: "दृशिवान् भवति")! With यत्तद् prefixed: यत्तद् + दृशिवान् = यत्तद्दृशिवान्! Wait, why are there two s? यत्तद् ends in द्, दृशिवान् starts with दृ. द् + दृ = द्द्दृ or द् दृ (separated) or द्द्दृ! Look at the image: य त्त द् दृ शि वा न्! Wait, is that a द् followed by दृ? Let's look at the first of the two: it is ! Does it have a virama? Yes, look closely at the bottom of the first : there is a tiny slant to the left

[ अधि - १८. सू - ४९. ] दीपिकासहितम्. ६३१ अदेहबन्धयोग्यत्वाद्यथा सूर्यप्रभाऽक्षिणी । यथाऽमृतसमुद्रस्य श्लेष्मादेश्च द्विरूपता ॥ अनुग्राह्यत्वमन्यस्य तेनैवावृतिरोधनम् ॥ इति ॥ ४८ ॥ ( २८ ) सू—ॐ ॥ असन्ततेश्चाव्यतिकरः ॥ ॐ ॥ ४९ ॥ अपूर्णशक्तित्वाच्च जीवस्य न मत्स्यादिसाम्यम् । ( २९ ) तथा च चतुर्वेदशिखायाम्— ‘ तस्य ह वा एतस्य परमस्य त्रीणि रूपाणि कृष्णो रामः कपिल इति । तस्य ह वा एतस्य परमस्य पञ्च न सङ्गृहीताः । अनेन देहसम्बन्धित्वहेतोस्तत्र भागासिद्धिश्श्च परिहृ- ता । अदेहेति । देहसम्बन्धायोग्यत्वादित्यर्थः । अनुमानद्वये व्युत्क्रमे- ण दृष्टान्तमाह—यथेति । सूर्यप्रभा चाक्षि चेति विग्रहः । नैकप्रकारे इति शेषः । ‘ अमृतसमुद्रस्य ’ शुद्धोदकसमुद्रस्य ‘ द्विरूपता ’ भिन्नप्रकारता । ‘ अन्यस्य ’ अक्षिश्लेष्मादेः भिन्नांशस्य ‘ तेनैव ’ अंशि- नैव आवृत्तिः तमःपित्तादिः । तस्य रोधनं निवृत्तिर्भवतीत्यर्थः । इति वाराहे इत्यन्वयः । सूत्रोक्तमुक्तमिति शेषः ॥ ( २८ ) युक्त्यन्तरेण मत्स्यादीनां जीवानां चैकविध्यं पराकुर्वत्सूत्रं पठित्वा व्याचष्टे—असन्ततेश्चेति ॥ अपूर्णशक्तित्वादित्यनेनासन्ततेरि- त्यस्य सम्यक्कृतिः सन्ततिः पूर्णता शक्त्येति योग्यतयाऽन्वये नञ्स- म्बन्धे चापूर्णशक्तित्वादित्यर्थ उक्तः । सूत्रे भाष्ये चशब्दो न केवलमी- शाधीनप्रवृत्तितदभावादिना जीवानां मत्स्यादीनां च नैकविधता, कि- न्त्वसन्ततेश्चेति युक्तिसमुच्चये । अनुवृत्तपदस्यार्थमाह—जीवस्येति । ‘ न मत्स्यादिसाम्यम् ’ सर्वसाम्यमिति । अनेनाव्यतिकर इत्यस्य नैवं पर इत्युक्तस्य व्यत्यासाभाव इति वा, जीवानां मत्स्यादीनां च शास्त्रो- क्तस्वरूपस्याव्यत्यास इति वार्थ उक्तो भवति ॥ ( २९ ) मत्स्यादीनां पूर्णशक्तित्वं, न जीवस्येत्येतत्कुत इत्यत आह- तथा चेति ॥ परावरभेदेन चेतनद्वैविध्यमभिधाय तत्र परो नारायण इत्यप्यभिधाय तस्य व्यूहरूपाण्युच्यन्ते—तस्येत्यादिना । ‘ तस्य ’ प्र- सिद्धस्य ‘ एतस्य ’ प्रकृतस्य ‘ परमस्य ’ नारायणस्य कृष्णो रामः क- पिल इति त्रीणि रूपाणीत्यन्वयः । तस्येत्यादेः सर्वत्रान्वयग्रहणा- य द्विर्ग्रहणम् । कृष्णादित्रयं कश्चन व्यूहः । न तु ‘ पञ्चात्मकः ’ इत्युक्तसप्तव्यूहान्तर्गतम् । केचित्त—कृष्णादिकस्तु न व्यूहः ना

An exact, line-by-line transcription of the Sanskrit text in Devanagari Unicode:

६३२ ब्रह्मसूत्रभाष्यम्. [अध्या - २. पा - ३.] रूपाणि दशरूपाणि सहस्ररूपाण्यमितरूपाणि । ता नि ह वा एतानि सर्वाणि पूर्णानि सर्वाण्यनन्तानि स र्वाण्यसम्मितानि सर्वाण्यमितानि । अथावरास्सर्व ए वापूर्णाः सर्व एव बध्यन्ते अथ मुच्यन्ते च केचन ' इति ॥ ४९ ॥ ( ३० ) सू-ॐ॥ आभास एव च ॥ ॐ ॥ ५० ॥ 'रूपं रूपं प्रतिरूपो बभूव' (ऋ. ६-४७-१८.) इति प्र तिरिक्तव्यूह इति टीकार्थमाश्रित्य सप्तव्यूहान्तर्गतमेवैतदित्याहुः । 'पञ्च' नारायणाद्यनिरुद्धान्तानि 'दश' मत्स्यादीनि 'शतं' नाराय णाद्यष्टोत्तरशतनामवाच्यानि । विश्वादीनि सहस्राणि । अजितादीन्य नन्तानि रूपाणि पूर्णानि देशकालाभ्यामनन्तानि गुणतः 'असम्मिता [

[ अधि - १८. सू - ५०. ] दीपिकासहितम्. ६३३ तिबिम्बत्वान्न साम्यम् । ( ३१ ) वाराहे च— द्विरूपावंशकौ तस्य परमस्य हरेर्विभोः । प्रतिबिम्बांशकश्चाथ स्वरूपांशक एव च ॥ प्रतिबिम्बांशका जीवाः प्रादुर्भावाः परे स्मृताः । प्रतिबिम्बेष्वल्पसाम्यं स्वरूपाणीतराणि तु ॥ इति ॥ ( ३२ ) सोपाधिरनुपाधिश्च प्रतिबिम्बो द्विधेयते । त्त्यादिसाम्यामित्यर्थः । जीवस्येत्यनुवर्तते । साम्यमेकविधत्वम् ॥ रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रति चक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दश ॥ (ऋ. ६-४७-१८.) इति ऋङ्मन्त्रस्यायमर्थः—'शृण्वे वीरः' (ऋ. ६-४७-१६.) इत्यादिना प्रकृ तः त्रिविधजीवसमुदायः अस्य परमेश्वरस्य रूपंरूपं प्रति 'प्रतिरूपः' प्र तिबिम्बो 'बभूव' प्रतिबिम्बो भूत्वा वर्तते । तद्बिम्बरूपमस्य प्रतिबिम्बत्वे नोक्तस्य योग्यजीवस्य मुक्त्यर्थे 'प्रतिचक्षणाय' साक्षात्कारााय भवति तद्विषयो भवति । स च 'इन्द्रः' परमेश्वरः 'मायाभिः' स्वसामर्थ्यैः इच्छाभिर्वा 'पुरुरूपः' अनन्तजीवबिम्बरूपः 'ईयते' ज्ञायते । 'अ स्य' ईश्वरस्य 'शतमन्तं भवति' इति वचनात् शतानि अजिताद्य नन्तरूपाणि, एवं दशशतानि विश्वादिसहस्ररूपाणि, एवं शतानि 'ना रायणो नरः शौरिः' इत्यादीनि, दश मत्स्यादीनि, एवं दश बहूनि प रादीनि, 'हरयो' हरिनामकानि रूपाणि 'युक्ताः' व्यूहशः सन्ति 'हि' प्रसिद्धमिति ॥ ( ३१ ) सूत्रार्थे स्मृतिं चाह—वाराहे चेति ॥ अंश एवांशक इति स्वार्थे कप्रत्ययः । एवमुत्तरत्रापि । 'परे' स्वरूपांशाः 'प्रादुर्भावाः' मत्स्याद्यवतारा इत्यर्थः । मनु जीवानां प्रतिबिम्बांशत्वं मत्स्यादीनां तु स्वरूपांशत्वमिति कुतः ?, उभयोः स्वरूपांशत्वं किं न स्यादित्यत आ ह—प्रतिबिम्बेष्विति । यत इति शेषः । सर्वसाम्ये स्वरूपत्वमेव स्या दतोऽल्पेत्युक्तम् । 'स्वरूपाणि' स्वरूपांशरूपाणि प्रादुर्भावात्मकानि मत्स्यादीनि 'इतराणि' अल्पसाम्यवद्भिन्नानि यावत्साम्यवन्तीत्यर्थः। तुशब्दोऽवधारणे । इति वाराह इत्यन्वयः । सूत्रार्थ उक्त इति शेषः ॥ ( ३२ ) ननु न जीवस्य परमात्मप्रतिबिम्बांशत्वं युक्तम्, जीवश्वरू ८०

६३४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] जीव ईशस्यानुपाधिरिन्द्रचापो यथा रवेः ॥ इति पैङ्गिश्रुतिः ॥ ( ३३ ) 'यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततम्' (प्र.३-३.) इति च श्रुतिः ॥ ५० ॥ —————:*::————— पातिरिक्तप्रतिबिम्बोपाध्यभावादित्यत आह—सोपाधिरिति ॥ इति शब्दोऽध्याहार्यः । 'ईयते' ज्ञायते । 'इन्द्रचापः' तत्संज्ञका वृष्टिसूचक धनुरकृतिः 'रवेः' सूर्यस्य तत्तेजसो यथा निरुपाधिप्रतिबिम्बः बिम्बा तिरिक्तोपादानोपाध्यभावात्, अत एव न तस्य सूर्यात्यन्तसादृश्यम्, त था जीवः परस्य हरेः 'अनुपाधिः' स्वरूपातिरिक्तोपाधिरहितप्रतिबिम्ब इत्यर्थः । अत्र दृष्टान्ते बिम्बातिरिक्तोपाध्यभावः । दार्ष्टान्तिके तु प्रति बिम्बातिरिक्तोपाध्यभावः । अतिरिक्तोपाध्यभावस्तु उभयत्र सम इति द्रष्टव्यम् । सोपाधिप्रतिबिम्बस्य दर्पणादिप्रतिबिम्बितत्वं प्रसिद्धमेवे ति नोदाहृतम् । केचित्तु—सोपाधिप्रतिबिम्बस्य इन्द्रचाप उदाहरणं, तस्य च मेघमण्डलं वा सूर्यतेजो वोपाधिः । उपादानं च तदेव । निरुपा धिप्रतिबिम्बस्य तु जीव उदाहरणमिति यथाशब्दावृत्त्या वाक्यद्वयम पि दृष्टान्तपरतया योजयन्ति । तन्नु चन्द्रिकाननुगुणत्वान्मूलाभावा च्चोपेक्ष्यम् । अनेन सूत्रपञ्चकेन जीवस्य मत्स्यादिवत्स्वरूपांशत्वाभा वोक्त्याऽनंशत्वश्रुतेः स्वरूपांशत्वाभावाविषयत्वेन गतिरुक्ता भवति । श्रुतिरित्त्यस्य जीवस्य प्रतिबिम्बत्वमुक्तवाऽतिरिक्तोपाध्यभावमपि वक्ती ति शेषः । अतो नातिरिक्तोपाध्यभावेऽपि प्रतिबिम्बत्वहानिरिति भावः॥ ( ३३ ) जीवस्य निरुपाधिप्रतिबिम्बत्वे छायारूपदृष्टान्तान्तरप्रतिपा दकं षट्प्रश्नवाक्यं पठति—यथेति ॥ यथा पुरुषस्य देहस्य छाया 'पु रुषे' देहे 'आतता' तदधीना तत्प्रतिरूपा भवतीति यावत् । तद्वत् 'एतस्मिन्' पुरुषोत्तमे विष्णौ 'एतत्' प्रतिबिम्बरूपं विश्वं जीवजा तं वा 'आततं' आयत्तं तदधीनतया वर्तते तत्प्रतिबिम्बभूतमित्य र्थः तत्त्वप्रदीपोक्तो ध्येयः । अत्र सर्वस्यापि शरीरस्य छायया ग्रस्त त्वात् उपहितानुपहितांशद्वयाभावाच्छायाया इन्द्रचापवन्निरुपाधिप्र तिबिम्बत्वोक्तिः । छायोपादानं तु नीरूपि द्रव्यानन्तरमिति चन्द्रिका काराः । इति चेति । इति श्रुतिश्चोक्तार्थमाहेत्यर्थः । चस्समुच्चये ॥१८॥ ॥ इति अंशाधिकरणम् ॥

ः, किन्तु सर्वोऽपि ज्ञः पराभास इति सूत्रार्थ उक्तो भवति ॥` Matches!

*   Now let's check line 30:
    `( २ ) देवदानवादिवैचित्र्यस्य रागद्वेषमोहाख्यदोषनिमित्तकत्वो`
    Matches!

*   Now let's check line 31:
    `पपत्तेः किमदृष्टकारणकत्वकल्पनयेत्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्या`
    Matches!

*   Now let's check line 32:
    `चष्टे—अभिसन्धीति ॥ न केवलं सुरनरादिवैचित्र्यं, किन्तु इच्छादि`
    Wait, look at the pratika in L32:
    `चष्टे—अभिसन्धीति ॥` or `अभिसन्ध्यादिष्वपि`?
    In L32: `चष्टे—अभिसन्धीति ॥` or `अभिसन्धीति`?
    Let's zoom in on `अभिसन्ध्वीति` or `अभिसन्धीति`:
    Letters: `अ` `भि` `स` `न्ध्` ... wait, is that `धी` or `वी` or `ध्या`?
    Look at: `अ-भि-स-न्धी-ति`?
    Wait, the Sutra is: `अभिसन्ध्यादिष्व

इच्छाद्वेषसुखदुःखादिवैचित्र्यं चादृष्टादेव । चशब्देन प्रतिक्षणवैचित्र्यं च ॥ ५२ ॥ ( ३ ) सू—ॐ ॥ प्रदेशादिति चेन्नान्तर्भावात् ॥ ॐ ॥ ५३ ॥ न स्वर्गनरकभूम्यादिप्रदेशविशेषाद्वैचित्र्यम्, तत्प्रा वैचित्र्यं चेति चशब्दार्थः । ‘इच्छा’ रागः । आदिशब्देन मोहो गृह्यते । वैचित्र्यमिति अनुवृत्तानियमपदव्याख्यानम् । एवमित्युक्तं व्यनक्ति- अदृष्टादिति । अदृष्टवैचित्र्यादित्यर्थः । भवतीति शेषः । न कारणान्त रादित्येवार्थः । नन्वस्माभिरपि सिद्धान्तिवत्पूर्वपूर्वदोषवैचित्र्यमेव उत्तरोत्तरदोषवैचित्र्ये कारणमित्यङ्गीकारान्न काऽप्यदृष्टवैचित्र्यापेक्षे त्यतः प्रवृत्तं चशब्दं व्याचष्टे—चशब्देनेति । प्रतिक्षणेति । पुरुषविशेष निष्ठप्रतिक्षणवैचित्र्यमित्यर्थः । सङ्गृहीतमिति शेषः । चः समुच्चये । अ नेन—यतो न केवलमाभासे देवदानवाद्यनियमोऽदृष्टानियमात्, किं न्तु अभिसन्धिपदोक्तरागादिष्वनियमोऽपि तत एव भवति, न रागा द्यनियमात् । अतो न तस्मात्सुरासुरादिवैचित्र्यं वाच्यम् । न केवल मभिसन्ध्यादिषु वैचित्र्यमदृष्टानियमात्, किन्त्वेकपुन्निष्ठप्रतिक्षणवैचि त्र्यं च ‘एवं’ अदृष्टानियमादेव भवति, न कारणान्तरादिति सूत्रार्थ उक्तो भवति । दोषवैचित्र्याभावेऽपि एकस्मिन् पुंसि प्रतिक्षणवैचि त्र्यदर्शनेन कारणान्वेषणे तत्कारणतयाऽदृष्टवैचित्र्यस्यैवाङ्गीकार्य त्वावश्यकत्वात् जीववैचित्र्येऽपि तदेव कारणमिति भावः ॥ ( ३ ) ननु स्वर्गस्थाः सुराः, भूमिस्थाः नराः, इत्यादिरूपेण स्थान वैचित्र्यादेव सुरनरादिवैचित्र्योपपत्तेः किमदृष्टवैचित्र्येणेत्याशङ्कां प रिहरत्सूत्रमुपन्यस्य व्याचष्टे—प्रदेशादिति ॥ अत्र प्रदेशपदं तद्वैचि त्र्यपरमित्याह--स्वर्गेति । ‘प्रदेशः’ स्थानं ‘वैचित्र्यं’ सुरनरादि भेदः । प्रतिबिम्बानामिति वाच्यमिति शेषः । कुतो न वाच्यमित्यतः प्रवृत्तमन्तर्भावादित्येतत्तात्पर्यतो व्याचष्टे—तत्प्राप्तेरिति । विचित्रप्रदे शप्राप्तेरप्यदृष्टसापेक्षत्वादित्यर्थः । अदृष्टस्यापेक्षा यस्यामिति विग्रहः । न केवलमाभासवैचित्र्यस्येत्यपिशब्दार्थः । निष्कारणस्थानवैचित्र्य स्यैवानुपपत्त्या तत्कारणान्वेषणे अन्ततोऽदृष्टस्यैव तत्कारणतयाऽङ्गी कार्यत्वादिति भावः । अनेन प्रदेशवैचित्र्यकारणस्यादृष्ट एवान्तर्भा वात्तस्यैतद्रूपत्वादिति सूत्रखण्डार्थ उक्तो भवति । युक्त्यन्तरमाह—

[ अधि - १९. सू - ५३. ] दीपिकासहितम्. ६३७ तैरदृष्टापेक्षत्वात् । एकदेशस्थितानामेव वैचित्र्यद र्शनाच्च ॥ ५३ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये द्वितीयस्याध्यायस्य तृतीयः पादः. —* ✡ *— ॥ ॐ ॥ — एकेति । एकस्थाने स्थितानामेव सुरनरादिजीवानामित्यर्थः । मिथ इ ति शेषः। तथा च इतोऽप्यदृष्टवैचित्र्यं कारणतयाऽङ्गीकार्यमिति भावः। अनेनैकस्थानस्थितानां मिथो वैचित्र्यकारणस्यादृष्ट एवान्तर्भावादि ति सूत्रखण्डस्यार्थान्तरमुक्तं भवति । अनेन ‘ न सम्बन्धः ’ इति प्रति बिम्बत्वनिषेधकश्रुतेः स्वरूपातिरिक्तोपाधिनिमित्तकप्रतिबिम्बत्वाभा वविषयत्वान्न तद्विरोधो जीवप्रतिबिम्बत्वश्रुतेरित्युक्तं भवति ॥ १९ ॥ ॥ इति अदृष्टाधिकरणम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपि कायां द्वितीयाध्यायस्य तृतीयः पादः. —: ꣼ :— ॥ ॐ ॥ —

६३८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ] १०. अधिकरणम् ॥ ( १ ) युक्तिसहितश्रुतिविरोधं श्रुतीनामपाकरोत्यनेन पादेन। 'प्राणा एवेदमग्र आसुस्तेभ्यो भूतानि जज्ञिरे भूतेभ्यो ऽण्डमण्डस्यान्तस्त्विमे लोका अथ प्राणा एवानादयः प्राणा नित्याः' इति काषायणश्रुतौ प्राणानामनुत्प- त्तिश्श्रूयते । ( २ ) नोपादानं हीन्द्रियाणां अतोऽनुत्पत्तिरिष्यते । उपादानकृता सृष्टिः सर्वलोकेषु दृश्यते ॥ इति भविष्यत्पर्वणि । 'एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च' (मु.२-१-३.) इति च । १०. अधिकरणम् ॥ ( १ ) एतत्पादार्थं दर्शयति-युक्तीति॥ सिद्धान्त्यभिहितानां श्रुतीनां युक्तिसहिताभिः श्रुतिभिर्विरोधं 'अनेन' चतुर्थपादेन निराकरोति सूत्रकार इत्यर्थः । अत्राधिकरणे इन्द्रियोत्पत्तिविषयश्रुतिविरोधः परिह्रियते । तत्र किमिन्द्रियाण्युत्पत्तिमन्ति न वेति संशयबीजं श्रुतिविरोधं दर्शयन् पूर्वपक्षं च दर्शयति—प्राणा इति ॥ 'इदं' अस्य जगतः 'अग्रे' प्रलये 'प्राणाः' इन्द्रियाण्येव 'आसुः' बभूवुरित्यर्थः । 'तेभ्यः' इन्द्रियेभ्यः पञ्च 'भूतानि' आकाशादीनि जज्ञिरे । भूतेभ्यो ब्रह्माण्डं, अण्डस्यान्तः 'इमे' चतुर्दश लोका आसुः । यतएवं 'अथ' तस्मात्सर्वकारणत्वेन प्रलयेऽवस्थानात् प्राणाः 'अनादयः, उत्पत्तिशून्या एव' अतएव नित्या इत्यर्थः । अत्रा- नादित्वोपपादनाय पूर्वांशोदाहरणम् ॥ ( २ ) एव मिन्द्रियाणामनुत्पत्तिश्रुतिमुपन्यस्य तस्याः प्राबल्या- यानुत्पत्तावुपादानशून्यत्वादिति युक्तिमभिप्रेत्य तस्या असिद्ध्यादि परिहाराय स्मृति माह—नेति ॥ 'हि' यतः 'उपादानं' परिणामि कारणं, 'अतो' निरुपादानत्वात् । ब्रह्मवदित्यन्वयदृष्टान्तसम्भवे ऽपि व्यभिचारशङ्कानिरासायोक्तहेतोर्व्यतिरेकव्याप्तिं दर्शयति— उपादानकृतेति । तन्निमित्तेत्यर्थः । 'सर्वलोकेषु' घटादिकार्येषु । इतीति । युक्तिरुक्तेति शेषः । इतीति । प्राणानामुत्पत्तिश्च श्रूयत इति सम्बन्धः । श्रुतिस्त्वन्यत्रे व्याख्याता ॥

[ अधि - १०. सू - २. ] दीपिकासहितम्. ६३९ ( ३ ) अत उच्यते-- सू--ॐ ॥ तथा प्राणाः ॥ ॐ ॥ १ ॥ यथाऽऽकाशादयः परमात्मन उत्पद्यन्ते तथा प्राणा अपि ॥ १ ॥ ( ४ ) सू--ॐ ॥ गौण्यसम्भवात् ॥ ॐ ॥ २ ॥ अनादित्वश्रुतिर्गौणानदित्वापेक्षया, मुख्यासम्भवात् । ( ५ ) नित्यान्येतानि सौक्ष्म्येण हीन्द्रियाणि तु सर्वशः। ( ३ ) सिद्धान्तयत्सूत्रमवतारयति--अत इति ॥ यतः श्रुतिवि- रोधः संशयकारणमस्ति अतस्तत्परिहाराय सिद्धान्त उच्यते सूत्र- कृतेत्यर्थः । सूत्रे तथाशब्दः पूर्वोक्तयुक्तीनां साध्यस्य च परामर्श- क इत्यभिप्रेत्य सूत्रं व्याचष्टे--यथेति । यैर्हेतुभिरित्यर्थः । 'उत्पद्यन्ते' उत्पत्तिमत्त्वेन सिध्यन्ति 'तथा' तैरेव हेतुभिः 'उत्पद्यन्ते' पराधीनवि- शेषावाप्तिरूपोत्पत्तिमन्त एव सिध्यन्तीत्यर्थः । हेतवस्तु वियदधि- करण एवोक्ताः । तेजआदेर्ब्रह्मान्यकार्यत्वे घर्मात्स्वेददृष्टिवत् अत्र पुनः प्राणानां तदन्यकार्यत्वे प्रापकहेत्वभावेन विप्रतिपत्त्यभावात् अत एव प्राणानां कारणस्याविवादात् सिद्धवत्कृत्य परमात्मन इत्यु- क्तम् ॥ ( ४ ) नन्वाकाशोत्पत्तिसिद्ध्यर्थमनुत्पत्तौ श्रुत्यभावाख्यो हेतुरु- क्तः । न चासाविह सम्भवति । 'प्राणाः' एवेत्यनुत्पत्तिश्रुतेर्विद्यमा- नत्वादित्याशङ्कां परिहरत्सूत्रमुपन्यस्यति--गौणीति ॥ प्रतिज्ञांशं व्या- चष्टे--अनादीति । 'प्राणा अनादयः' ( काषायण. ) इति अनादित्वप्र- तिपादक श्रुतिरित्यर्थः । गौणानदित्वापेक्षयेति । अमुख्यानादित्वविव- क्षयेत्यर्थः । प्रवृत्ता यत इति शेषः । अतो मुख्यानुत्पत्तौ श्रुत्यभाव इति प्रतिज्ञावाक्यशेषश्च कर्तव्यः । कुत इत्यतः प्रवृत्तमसम्भवादिति हेतुसाधकहेतुं व्याचष्टे--मुख्येति । श्रुतेर्मुख्यानुत्पत्तिवाचित्वासम्भ- वात् । सोऽपि कुतः ? इन्द्रियाणां मुख्यानुत्पत्तेरसम्भवात् 'एतस्मा- त्' इत्यादिश्रुत्यन्तरासम्भवाच्च, अकारवाच्याद्विष्णोः सम्भवाच्चेत्यर्थः॥ ( ५ ) ननु प्राणानां गौणानादित्वं किं नाम, यत्परा श्रुतिर्भवेत् । कथं च गौणार्थग्रहणहेतुर्मुख्यासम्भवः। प्रत्युत उत्पत्तिरेव न सम्भव- त्युपादानाभावादित्यत आह--नित्यानीति ॥ 'सर्वशः' सर्वाणीन्द्रि- याणि 'सौक्ष्म्येण' सूक्ष्मेण रूपेण 'नित्यानि' चकारादनादीनि च ।

६४० ब्रह्मसूत्रभाष्यम् [ अध्या - २. पा - ४. ] तेषां भूतैरुपचयः सृष्टिकाले विधीयते ॥ परेण साम्यसम्प्राप्तेः कस्य स्यान्मुख्यनित्यता ॥ न च सृष्टिवाक्यविरोधः । 'हि' यतः 'तेषां' इन्द्रियाणां सृष्टिकाले 'भूतैः' पञ्चमहाभूतैः 'उपचयो' वृद्धिः स्थूलभावो 'विधीयते' परेण क्रियते । तर्ह्युपचयात्पूर्वमसमर्थानीन्द्रियाणि न संसारकारणानि स्यु रित्याशङ्क्य तत्परिहाराय-सृष्टिकाल इत्याह । प्रलये वियुक्तांशानां ते षां प्रतिसृष्टिकालं उपचयो विधीयत इत्यर्थः । तथा च यस्मिन् लय कालेऽनुपचयः तदा न समर्थान्येव । यस्मिंस्तु सृष्टिकाले समर्था नि तदाऽस्त्येवोपचयः । स च न कादाचित्कः, किन्तु प्रतिसृष्टिकाले भावीति नोक्तदोष इति भावः । मुख्यानादित्वासम्भवे हेतुमाह--'प रेण' परमात्मनेति । साम्यं स्वातन्त्र्याविभक्तत्वादिधर्मेण । कस्य स्यात्, न कस्यापि भवेदित्यर्थः । मुख्यनित्येति । देहस्वरूपविशेषैः अविकृतत्वरूपेत्यर्थः । उपलक्षणमेतत् । मुख्यानादिता चेत्यपि द्रष्टव्य म् । अनेन सूक्ष्मरूपेण अनादित्वमेव गौणानादित्वम् । अनादित्वश्रुति रपि तत्परैव । जन्मश्रुतिस्तूपचितस्थूलेन्द्रियपरा । भूतान्येवोपादाना नीति न तदभावोऽपि । स्वातन्त्र्याद्यापत्तेः न मुख्यानादित्वादिसम्भ वोऽपीति सर्वस्योत्तरमुक्तं भवति । परेण साम्येत्यनेन यावद्विकारमि त्यादियुक्तयो गृहीता भवन्ति । भविष्यपर्वणीयस्य उक्तत्वादित्य ध्याहारेणानादीति पूर्ववाक्येनान्वयः । नन्विन्द्रियाणां भूतैरुपचया भ्युपगमे तैजसात्तु विकुर्वाणादिन्द्रियाणि दशाभवन् । तैजसानीन्द्रियाण्याहुः ॥ इत्यादितैजसाहङ्कारकार्यत्ववाचिभागवतादिवाक्यविरोध इति चेत्- न, भूतैरुपचयोक्तावप्यत्र अहङ्कारकारणत्वस्यानिषेधात् । तथाऽपि तथा विशिष्टकार्यत्वाद्देवा वैकारिकाः स्मृताः । अतिजाज्वल्यमानत्वात्तैजसानीन्द्रियाण्यपि ॥ तामसानि तु भूतानि ततस्तावद्भूतत्रयम् ॥ इति पाद्मस्मृतौ भूतानां तामसाहङ्कारकार्यत्वोक्तेः । 'तेभ्यो भूतानि जज्ञि रे' (काषायण.) इति श्रुतौ च तेषां प्राणशब्दितेन्द्रियकार्यत्वोक्तेर्विरोध इति चेत्-न, अहङ्कारोत्पन्नभूतानामपि सूक्ष्मप्राणैरुपचयाभ्युपगमात् ।