रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
नवमः सर्गः २९५
च पेशलं सुकुमारपत्रकिञ्जल्कमित्यर्थः । आहितं प्रियैरिति शेषः । तत्कुसुमं युवतयोंऽलके कुन्तले दधुः ।
भाषार्थ— प्रज्वलित अग्नि के समान कान्तिवाले जो पुष्प वनलक्ष्मी के कानों के कर्णफूल जैसे लगते थे, अपने प्रियतमों द्वारा लाये गये सुन्दर पंखुड़ी और परागवाले उन फूलों को स्त्रियों ने बालों में धारण किया ॥ ४० ॥
अलिभिरञ्जनबिन्दुमनोहरैः कुसुमपङ्क्तिनिपातिभिरङ्कितः ।
न खलु शोभयति स्म वनस्थलीं न तिलकस्तिलकः प्रमदामिव ॥ ४१ ॥
अन्वयः— अञ्जनबिन्दुमनोहरैः कुसुमपङ्क्तिनिपातिभिः अलिभिः अङ्कितः तिलकः वनस्थलीं तिलकः प्रमदाम् इव न शोभयति स्म इति न खलु ।
अलिभिरिति । अञ्जनबिन्दुमनोहरैः कज्जलकर्णसुन्दरैः कुसुमपङ्क्तिषु निपतन्ति ये तैः अलिभिरङ्कितश्चिह्नितस्तिलकः श्रीमान्नाम वृक्षः । ‘तिलकः क्षुरकः श्रीमान्’ इत्यमरः । वनस्थलीं तिलको विशेषकः । ‘तमालपत्रतिलकचित्रकाणि विशेषकम् । द्वितीयं च तुरीयं च नहि स्त्रियाम्’ इत्यमरः । प्रमदामिव न शोभयति स्मेति न खलु अपि त्वशोभयदेवेत्यर्थः । “लट्स्मे” इति स्मशब्दयोगाद्भूतार्थे लट् । तिलकेष्वञ्जनबिन्दवः शोभार्थं क्रियन्ते ।
भाषार्थ— कज्जल बिन्दु के समान, पुष्प समूह पर बैठते हुए भ्रमरों से चिह्नित तिलक वृक्ष वनस्थली को ललाट में टीका किये हुए स्त्री की तरह सुशोभित नहीं किया था ऐसा नहीं किन्तु सुशोभित किया ही था ॥ ४१ ॥
अमदयन्मधुगन्धसनाथया किसलयाधरसङ्गतया मनः ।
कुसुमसम्भृतया नवमल्लिका स्मितरुचा तरुचारुविलासिनी ॥ ४२ ॥
अन्वयः— तरुचारुविलासिनी नवमल्लिका मधुरागसनाथया किसलयाधरसंगतया कुसुमसम्भृतया स्मितरुचा पश्यतां मनः अमदयत् ।
अमदयदिति । तरुचारुविलासिनी तरोः पुंसश्च चारुविलासिनी नवमल्लिका सप्तलाख्या लता । ‘सप्तला नवमल्लिका’ इत्यमरः । मधुनो मकरन्दस्य मद्यस्य च गन्धेन सनाथया गन्धप्रधानेत्यर्थः । किसलयमेवाधरस्तत्र सङ्गतया प्रसृतरागयेत्यर्थः । कुसुमैः सम्भृतया सम्पादिताया कुसुमरूपयेत्यर्थः । स्मितरुचा हासकान्त्या मनः पश्यतामिति शेषः । अमदयत् ।
भाषार्थ— जैसे कोई विलासिनी स्त्री अपने मद्यगन्धयुक्त हास्य से दर्शकों को मदोन्मत्त करती है वैसे ही नवमल्लिका लता भी अपने मकरन्द रूपी गन्ध से भरी
२९६ रघुवंशमहाकाव्ये
लाल पत्तारूपी के ओठों पर फूलों की मुस्कान लेकर देखने वालों के मन् को मतवाला बनाए डालती थी ॥ ४२ ॥
अरुणरागनिषेधिभिरंशुकैः श्रवणलब्धपदैश्च यवांकुरैः । परभृताविरुतैश्च विलासिनः स्मरबलैरबलैकरसाः कृताः ॥ ४३ ॥
अन्वयः—विलासिनः अरुणरागनिषेधिभिः अंशुकैः श्रवणलब्धपदैः यवाङ्कुरैः च परभृताविरुतैः च इत्येतैः स्मरबलैः अबलैकरसाः कृताः ।
अरुणेति । विलासिनो विलसनशीलाः पुरुषाः । “वौ कषलसकत्वस्त्रम्भः” इत्यनेन घिनुण्प्रत्ययः । अरुणास्यानूरो रागमारुण्यं निषेधन्ति तिरस्कुर्वन्तीत्यरुणरागनिषेधिनस्तैः कुसुम्भादिरञ्जनात्तत्सदृशैरित्यर्थः । तमन्वेत्यनुबध्नाति तच्छीलं तन्निषेधति । “तस्यैवानुकरोतीति शब्दाः सादृश्यवाचकाः ।” इति दण्डी । अंशुकैरम्बरैः श्रवणेषु कर्णेषु लब्धपदैः निवेशितैरित्यर्थः । यवाङ्कुरैश्च परभृताविरुतैः कोकिलाकूजितैश्च इत्येतैः स्मरबलैः कामसैन्यैः अबलास्वेक एव रसो रागो येषां तेऽबलैकरसाः स्त्रीपरतन्त्राः कृताः ।
भाषार्थ—प्रातःकाल की लालिमा से भी अधिक लाल वस्त्रों ने, कर्ण भूषण बनाये गये यव के अंकुरों ने और कुहकनेवाली कोयलों की सेना लेकर चलने वाले कामदेव ने ऐसा जाल बिछाया कि सभी विलासी पुरुष, युवती स्त्रियों के प्रेम में सुध बुध खो बैठे ॥ ४३ ॥
उपचितावयवा शुचिभिः कणैरलिकदम्बकयोगमुपेयुषी । सदृशकान्तिरलक्ष्यत मञ्जरी तिलकजालकजालकमौक्तिकैः ॥ ४४ ॥
अन्वयः—शुचिभिः कणैः उपचितावयवा अलिकदम्बकयोगम् उपेयुषी तिलकजा मञ्जरी अलकजालकमौक्तिकैः सदृशकान्तिः अलक्ष्यत् ।
उपचितेति । शुचिभिः शुभ्रैः कणै रजोभिरुपचितावयवा पुष्टावयवा अलिकदम्बकयोगमुपेयुषी प्राप्ता तिलकजा तिलकवृक्षोत्था मञ्जरी अलकेषु यज्जालकमाभरणविशेषस्तस्मिन् । मौक्तिकैः सदृशकान्तिः अलक्ष्यत । भृङ्गसङ्गिनी शुभ्रा तिलकमञ्जरी नीलालकसक्ता जालमिवालक्ष्यतेति वाक्यार्थः ।
भाषार्थ—लोगों ने श्वेत परागों से भरे हुए अवयव वाली और भ्रमर समूह से व्याप्त तिलक वृक्ष की मञ्जरी को ऐसा देखा मानो किसी स्त्री ने अपने सिर पर मोतियों की जाली पहन लिया हो ॥ ४४ ॥
ध्वजपटं मदनस्य धनुर्भृतश्छविकरं मुखचूर्णमृतुश्रियः । कुसुमकेसररेणुमलिब्रजाः सपवनोपवनोत्थितमन्वयुः ॥ ४५ ॥
नवमः सर्गः २९७
नवमः सर्गः २९७
अन्वयः—अलिब्रजाः धनुर्भृतः मदनस्य ध्वजपटम् ऋतुश्रियः छविकरं मुखचूर्णं सपवनोपवनोत्थितम् कुसुमकेसररेणुम् अन्वयुः ।
ध्वजेति । अलिब्रजाः षट्पदनिवहा धनुर्भृतो धानुष्कस्य मदनस्य कामस्य ध्वजपटं पताकाभूतम् ऋतुश्रियो वसन्तलक्ष्म्याश्छविकरं शोभाकारं मुखचूर्णं मुखालंकारचूर्णभूतम् । 'चूर्णानि वासयोगाः स्युः' इत्यमरः । सपवनोपवनोत्थितं सपवनं पवनेन सहितं यदुपवनं यस्मिन्नुत्थितं कुसुमानां केसरेषु किञ्जल्केषु यो रेणुस्तम् । अन्वयुरन्वगच्छन् । यातेर्लङ् ।
भाषार्थ—भ्रमरों के झुण्ड उपवन में हवा से उड़नेवाले कुसुम पराग के पीछे-पीछे उनके गन्ध से लुब्ध होकर उड़ चले, हवा से उड़ता हुआ वह पराग ऐसा मालूम पड़ता था मानो धनुर्धारी कामदेव का झण्डा हो या वसन्त लक्ष्मी के मुख पर लगाने का अंगार चूर्ण हो ॥ ४५ ॥
अनुभवन्नवदोलमृतूत्सवं पटुरपि प्रियकण्ठजिघृक्षया ।
अनयदासनरज्जुपरिग्रहे भुजलतां जलतामबलाजनः ॥ ४६ ॥
अन्वयः—नवदोलम् ऋतूत्सवम् अनुभवन् अबलाजनः पटुः अपि प्रियकण्ठ-जिघृक्षया, आसनरज्जुपरिग्रहे भुजलतां जलताम् अनयत् ।
अनुभवन्निति । नवा दोला प्रेङ्खा यस्मिंस्तं नवदोलमृतूत्सवं वसन्तोत्सवमनुभवन्नबलाजनः पटुरपि निपुणोऽपि प्रियकण्ठस्य जिघृक्षया ग्रहीतुमालिङ्गितुमिच्छयाऽऽसनरज्जुपरिग्रहे पीठरज्जुग्रहणे भुजलतां बाहुलतां जलतां शैथिल्यं डलयोरभेदः "यमकश्लेषचित्रे तु बवयोडर्लयोर्न भित्" इति । अनयत् । दोलाक्रीडासु पतनभयनाटितकेन प्रियकण्ठमाश्लिष्यदित्यर्थः ।
भाषार्थ—वसन्तऋतु में नये फूलों के आनन्द का अनुभव करने वाली स्त्रियों ने चतुर होते हुए भी अपने प्रियतमों के आलिंगन की इच्छा से झूले की डोरी पकड़ने वाले हाथों को ढीला कर दिया ताकि हाथ छूटने पर हमारे प्रियतम हमें थाम ही लेंगे । इस प्रकार उनके गले लग जायेंगी । या गिरने के बहाने झूले की रस्सी को पकड़ने को ढीलाकर पति के गले का स्वयं आलिंगन कर लिया । ४६ ॥
त्यजत मानमलं बत विग्रहैर्न पुनरेति गतं चतुरं वयः ।
परभृताभिरितीव निवेदिते स्मरमते रमते स्म वधूजनः ॥ ४७ ॥
अन्वयः—बत 'अङ्गनाः मानं त्यजत, विग्रहैः अलं, गतं चतुरं वयः पुनः न एति' इति स्मरमते परभृताभिः निवेदिते सति इव वधूजनः रमतेस्म ।
त्यजतेति । बतेत्यामन्त्रणे 'खेदामुकम्पासंतोषविस्मयामन्त्रणे बत' इत्यमरः ।
२९८ रघुवंशमहाकाव्ये
बत अङ्गना मानं कोप त्यजत । तदुक्तम् “स्त्रीणामीर्ष्याकृतः कोपः मानोऽन्यासङ्गिनि प्रिये” इति । विग्रहे विरोधेरलं । विग्रहो न कार्य इत्यर्थः । गतमतीतं चतुरमुपभोगक्षमं वयो यौवनं पुनर्नैति इत्येवंरूपे स्मरमते स्मराभिप्राये । नपुंसके भावः क्तः । परभृताभिः कोकिलाभिर्निवेदिते सतीव वधूजनो रमते स्म रेमे । कोकिलाकूजितोद्दीपितेस्मरः स्त्रीजनः कामशासनभयादिवोच्छृङ्खलमखेलदित्यर्थः ।
**भाषार्थ—**उन दिनों कोयलायें मानो कामदेव का यह आदेश सुना रही थी कि हे स्त्रियो ! मानको छोड़ दो, लड़ाई झगड़ा न करो, बीती हुई नवजवानी फिर नहीं लौटती । इस प्रकार कोयलों के कामोद्दीपन वचन सुनने पर मानिनी स्त्रियाँ मान छोड़कर अपने २ पतियों के साथ फिर रमण करने लगी ॥ ४७ ॥
अथ यथासुखमार्तवमुत्सवं समनुभूय विलासवतीसखः । नरपतिश्चक्रमे मृगयारतिं स मधुमन्मधुमन्मथसन्निभः ॥ ४८ ॥
**अन्वयः—**अथ मधुमन्मधुमन्मथसन्निभः सः नरपतिः विलासवतीसखः सन् आर्तवम् उत्सवं, यथासुखं समनुभूय मृगयारतिं चकमे ।
अथेति । अथानन्तरं मधु मथनातीति मधुमद्विष्णुः संपदादित्वात्क्विप् । मधुवसन्तः मध्नातीति मथः पचाद्यच् । मनसो मथो मन्मथः । काम येषां सन्निभः सदृशो मधुमन्मधुमन्मथसन्निभः नरपतिर्दशरथो विलासवतीसखः स्त्री सहचरः सन् ऋतुः प्राप्तोऽस्यार्तवः तमुत्सवं यथासुखं समनुभूय मृगयारतिं मृगयाविहारं चकमे आचकांक्ष ।
**भाषार्थ—**इसके बाद विष्णु के समान पराक्रमो, वसन्त के समान प्रसन्न और कामदेव के समान सुन्दर दशरथ जी ने विलासिनी स्त्रियों के साथ वसन्त ऋतु का आनन्द अनुभव कर शिकार खेलने की इच्छा प्रगट की ॥ ४८ ॥
वासनासङ्गदोषं परिहरन्नाह— परिचयं चललक्ष्यनिपातने भयरुषोश्च तदिङ्गितबोधनम् । श्रमजयात्प्रगुणां च करोत्यसौ तनुमतोऽनुमतः सचिवैर्ययौ ॥४९॥
**अन्वयः—**असौ चललक्ष्यनिपातने परिचयं करोति, भयरुषोः तदिङ्गितबोधनं च करोति श्रमजयात् तनुं प्रगुणां च करोति अतः दशरथः सचिवैः अनुमतः सन् ययौ ।
परिचयमिति । असौ मृगया चललक्ष्याणि मृगगवयादीनि तेषां निपातने परिचयमभ्यासं करोति भयरुषोर्भयक्रोधयोस्तदिङ्गितबोधनं तेषां चललक्ष्याणामिङ्गितस्य चेष्टितस्य भयादिलिङ्गभूतस्य बोधनं ज्ञानं च करोति । तनुं शरीरं श्रमस्य जयान्निरासात्प्रगुणां प्रकृष्टलाघवादिगुणवतीं च करोति । अतो हेतो सचिवैरनुमतोऽ-
नवमः सर्गः २९९
मोदितः सन्ययौ । सर्वं चैतद्युद्धोपयोगीत्यतस्तदपेक्षया मृगयाप्रवृत्तिः। न तु व्यसनितयेति भावः ।
**भाषार्थ—**शिकार खेलने से अनेक लाभ होते हैं पहली बात तो यह होती है कि उससे चलते हुए लक्ष्य को वेधने का अभ्यास हो जाता है, फिर उससे जीवों के भय और क्रोध आदि विविध भावों की पहचान हो जाती है और परिश्रम करने से शरीर भी भली प्रकार दृढ़ हो जाता है इसलिए मन्त्रियों से राय लेकर राजा दशरथ शिकार के लिए निकल पड़े ॥ ४९ ॥
मृगवनोपगमक्षमवेषभृद्विपुलकण्ठनिषक्तशरासनः ।
गगनमश्वखुरोद्धतरेणुभिर्नृसविता स वितानमिवाकरोत् ॥ ५० ॥
**अन्वयः—**मृगवनोपगमक्षमवेषभृत् विपुलकण्ठनिषक्तशरासनः नृसविता सः अश्वखुरोद्धतरेणुभिः गगनं वितानम् इव अकरोत् ।
मृगेति । मृगाणां वनं तस्योपगमः प्राप्तिः तस्य क्षममहं वेषं बिभर्तीति स तथोक्तः । मृगयाविहारानुगुणवेषधारीत्यर्थः विपुलकण्ठे निषक्तशरासनो लग्नधन्वा ना सवितेव नृसविता पुरुषश्रेष्ठः । उपमितसमासः । स राजाऽश्वखुरोद्धतरेणुभिर्गगनं वितानं तुच्छमसदिवाकरोत् । गगनं नालक्षयतेत्यर्थः । वितानं तुच्छमन्दयः इति विश्वः । अथवा सवितानमित्येकं पदम् । सवितानमुल्लोचनसहितमिवाकरोत् । 'अस्त्री वितानमुल्लोचः' इत्यमरः ।
**भाषार्थ—**मृगों से परिपूर्ण वन के योग्य वेष बनाकर विशाल कण्ठ में धनुष को रखे हुए और राजाओं में सूर्य के समान तेजस्वी वे राजा दशरथ घोड़े पर चढ़कर चले, तब उनके घोड़ों की टापों से इतनी धूलि उठी कि आकाश में चंदोवा-सा बन गया ॥ ५० ॥
ग्रथितमौलिरसौ वनमालया तरुपलाशसवर्णतनुच्छदः ।
तुरगवल्गनचञ्चलकुण्डलो विरुरुचे रुरुचेष्टितभूमिषु ॥ ५१ ॥
**अन्वयः—**वनमालया ग्रथितमौलिः तरुपलाशसवर्णतनुच्छदः तुरगवल्गनचञ्चलकुण्डलः सः रुरुचेष्टितभूमिषु विरुरुचे ।
ग्रथितेति । वनमालया वनपुष्पस्रजा ग्रथितमौलिविबद्धधम्मिल्लः "पत्रपुष्पमयी माला बनमाला प्रकीर्तिता" इति । तरूणां पलाशैः पत्रैः सवर्णः समानस्तनुच्छदो वर्म यस्य स तथोक्तः । इदं च वर्मणः पलाशसावर्ण्याभिधानं मृगादीनां विश्वासायर्थम् । तुरगस्य वल्गनेन गतिविशेषेण चञ्चलकुण्डलोऽसौ दशरथो रुरुभिर्मृगविशेषैश्चेष्टिताश्चरिता या भूमयस्तासु विरुरुचे विदिद्युते ।
३०० रघुवंशमहाकाव्ये
भाषार्थ—राजा दशरथ के केशों में वनमाला गूंथी हुई थी और वे वृक्षों के पत्तों के समान गहरे रंग का कवच पहने हुए थे घोड़ों के वेग से चलने के कारण उनके कानों के कुण्डल भी हिल रहे थे, इस वेष में चलते-चलते वे उस वनस्थली में जा पहुँचे जहां रुरु जाति के मृग घूमा करते थे ॥ ५१ ॥
तनुलताविनिवेशितविग्रहा भ्रमरसङ्क्रमितेक्षणवृत्तयः । ददृशुरध्वनि तं वनदेवताः सुनयनं नयनन्दितकोसलम् ॥ ५२ ॥
अन्वयः—तनुलताविनिवेशितविग्रहाः भ्रमरसंक्रमितेक्षणवृत्तयः वनदेवताः सुनयनं नयनन्दितकोसलं तम् अध्वनि ददृशुः ।
तन्विति । तनुषु लतासु विनिवेशितविग्रहा संक्रामितदेहाः भ्रमरेषु संक्रमिता ईक्षणवृत्तयो दृग्व्यापारा यासां ता वनदेवताः सुनयनं सुलोचनं नयेन नीत्यानन्दितास्तोषिताः कोसला येन तं दशरथमध्वनि ददृशुः । प्रसन्नपावनतया तं देवता अपि गूढवृत्त्या ददृशुरित्यर्थः ।
भाषार्थ—सूक्ष्म लताओं में शरीर की ओर भ्रमरों में नेत्र व्यापार को संक्रमित करनेवाली वनदेवताओं ने भी उन सुन्दर नेत्रवाले कोसल की प्रजाओं को सदा सुख पहुँचाने वाले राजा दशरथ को मार्ग में देखा ॥ ५२ ॥
श्वगणिवागुरिकैः प्रथमास्थितं व्यपगतानलदस्यु विवेश सः । स्थिरतुरङ्गमभूमिनिपानवन्मृगवयोगवयोपचितं वनम् ॥ ५३ ॥
अन्वयः—सः श्वगणिवागुरिकैः प्रथमास्थितं व्यपगतानलदस्युः स्थिरतुरङ्गभूमिः निपानवत् मृगवयोगवयोपचितं वनं विवेश ।
श्वगणीति । स दशरथः शुनां गण, स एषामस्तीति श्वगणिनः श्वग्राहिणः तैः वागुरा मृगबन्धनरज्जुः । 'वागुरा मृगबन्धनी' इत्यमरः तथा चरन्तीति वागुरिका जालिकाः । "चरति" इति ठक्प्रत्ययः । 'द्वौ वागुरिकजालिकौ' इत्यमरः । तैश्च प्रथममास्थितमधिष्ठितं व्यपगता अनला दावाग्नयो दस्यवस्तस्कराश्च यस्मात्तथोक्तम् । 'दस्युतस्करमोषकः' इत्यमरः । "कारयेद्भवनशोधनमादौ मातुरन्तिकमपि प्रविविक्षुः । आप्तशस्त्रचनुगतः प्रविशेदद्वा संकटे च गहने च तिष्ठेत्" इति कामन्दकः । स्थिरा दृढाः पङ्कादिरहिता तुरङ्गमयोग्या भूमिर्यस्य तत् । निपानवदाहावयुक्तम् । 'अहावस्तुनिपानं स्यादुपकूपजलाशये' इत्यमरः । मृगैर्हरिणादिभिर्वयोभिः पक्षिभिर्गवयैर्गोहसदृशैररण्यपशुविशेषैश्चोपचितं समृद्धं वनं विवेश प्रविष्टवान् ।
भाषार्थ—वे राजा दशरथ उस वन में पहुँचे जहाँ पहले से ही जाल और शिकारी कुत्ते लेकर उनके सेवक पहुँच चुके थे, वहाँ न तो अग्नि का भय था न
नवमः सर्गः ३०१
चोरों का । घोड़ों के चलने योग्य वहाँ की जमीन सूखी हुई थी, कुओं का पास पशुओं के पानी पीने योग्य हौजें बनी हुई थीं और हरिण पक्षी एवं गवय प्रचुर मात्रा में वर्तमान थे ॥ ५३ ॥
अथ नभस्य इव त्रिदशायुधं कनकपिङ्गतडिद्गुणसंयुतम् ।
धनुरधिज्यमनाधिरुपाददे नरवरो रवरोषितकेसरी ॥ ५४ ॥
अन्वयः—अथ अनाधिः रवरोषितकेसरी नरवरः कनकपिङ्गतडिद्गुणसंयुतं त्रिदशायुधं नभस्य इव अधिज्यं धनुः उपाददे ।
अथेति । अथानाधिर्मनोव्यथारहितो नरवरो नरश्रेष्ठः रवेण धनुष्टङ्कारेण रोषिताः केसरिणः सिंहा येन स राजा । कनकमिव पिङ्गः पिशङ्गो यस्तडिदेव गुणो मौर्वी तेन संयुतं त्रिदशायुधमिन्द्रचापं नभस्यो भाद्रपदमास इव । 'स्युर्नभस्यः प्रौष्ठपदभाद्रपदाः समाः' इत्यमरः । अधिज्यमधिगतमौर्वीकं धनुरुपाददे जग्राह ।
भाषार्थ—तब वे नरश्रेष्ठ राजा दशरथ अपना वह धनुष चढ़ाये । जिसके टंकार से सिंह गरज उठे । वे उस समय उस भादो महीना के समान लग रहे थे जिसमें इन्द्रधनुष निकला हुआ हो और उसमें सुवर्ण के रङ्ग की पीली बिजली की डोरी बँधी हो ॥ ५४ ॥
तस्य स्तनप्रणयिभिर्मुहुरेणशावैर्व्याहन्यमानहरिणीगमनं पुरस्तात् ।
आविर्बभूव कुशगर्भमुखं मृगाणां यूथं तदग्रसरगर्वितकृष्णसारम् ॥ ५५ ॥
अन्वयः—स्तनप्रणयिभिः एणशावैः मुहुः व्याहन्यमानहरिणीगमनं कुशगर्भमुखं तदग्रसरगर्वितकृष्णसारं मृगाणां यूथं तस्य पुरस्तात् आविर्बभूव ।
तस्येति । स्तनप्रणयिभिः स्तनपायिभिरेणशावैर्हरिणशिशुभिः । 'पृथुकः शावकः शिशुः' इत्यमरः । व्याहन्यमानं तद्वत्सलतया तद्गमनानुसारेण मुहुर्मुहुः प्रतिषिध्यमानं हरिणीनां गमनं गतिर्यस्य तत् । कुशा गर्भे येषां तानि मुखानि यस्य तत्कुशगर्भमुखं । तस्य यूथस्याग्रेसरः पुरःसरो गर्वितो दृप्तश्च कृष्णसारो यस्य तत् । मृगाणां यूथं कुलम् । 'सजातीयैः कुलं यूथं तिरश्चां पुंनपुंसकम्' इत्यमरः । तस्य दशरथस्य पुरस्तादग्र आविर्बभूव । वसन्ततिलका वृत्तम् ।
भाषार्थ—उन्होंने देखा कि आगे मृगों का झुण्ड चला आ रहा है जिसमें हरिणियां भी हैं जो उन बच्चों के कारण रुकती चलती हैं जो कुश चरते-चरते अपनी मां के स्तनों से दूध पीने के लिए बीच-बीच में खड़े हो जाते हैं इस झुण्ड के आगे-आगे मुख में कुश लिए एक गर्वीला काला हरिण भी चल रहा है ॥ ५५ ॥
३०२ रघुवंशमहाकाव्ये
तत्प्रार्थितं जवनवाजिगतेन राज्ञा
तूणीमुखोद्धृतशरेण विशीर्णपङ्क्तिः।
श्यामीचकार वनमाकुलदृष्टिपातै-
र्वातेरितोत्पलदलप्रकरैरिवाद्रैः ॥ ५६ ॥
अन्वयः—जवनवाजिगतेन, तूणीमुखोद्धृतशरेण राज्ञा प्रार्थितं विशीर्णपङ्क्तिः तत् आर्द्रैः आकुलदृष्टिपातैः वातेरितोत्पलदलप्रकरैः इव वनं श्यामीचकार ।
तदिति । जवनो जवशीलः । “जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः” इत्यनेन युच्प्रत्ययः । 'तरस्वी त्वरितो वेगी प्रजवो जवनो जवः' इत्यमरः । तं वाजिनमश्वं गतेनारूढेन तूणीषूधिः । “बह्वादिभ्यश्च” इति स्त्रियां ङीष् । तस्या मुखाद्विवरादुद्धृतशरेण राज्ञा प्रार्थितमभियातम् । 'याच्ञायामभियाने च प्रार्थना कथ्यते बुधैः' इति केशवः । अत एव विशीर्णा पङ्क्तिः संघीभावो यस्य तत् । मृगयूथं कर्तृ आर्द्रैर्भयादश्रुसिक्तैराकुला भयचकिता ये दृष्टिपातास्तैः वातेरितोत्पलदलप्रकरैः पवनकम्पितेन्दीवरदलवृन्दैरिव वनं श्यामीचकार ।
भाषार्थ—अपने वेगगामी घोड़े पर चढ़े हुए राजा दशरथ ने ज्यों ही अपने तरकस से बाण निकाल कर उस झुण्ड का पीछा किया, त्यों ही वह तितर-बितर हो गया और हरिणों की घबड़ाई हुई आंखों से व्याप्त वह सारा वन ऐसा मालूम पड़ने लगा मानो वायु ने काले कमलों की पंखुड़ियां उड़ाकर वहाँ बिखेर दी हों ॥
लक्ष्यीकृतस्य हरिणस्य हरिप्रभावः
प्रेक्ष्य स्थितां सहचरीं व्यवधाय देहम् ।
आकर्णकृष्टमपि कामितया स धन्वी
बाणं कृपामृदुमनाः प्रतिसंजहार ॥ ५७ ॥
अन्वयः—हरिप्रभावः धन्वी सः लक्ष्यीकृतस्य हरिणस्य देहं व्यवधाय स्थितां सहचरीं प्रेक्ष्य कामितया कृपामृदुमनाः सन् आकर्णकृष्टम् अपि बाणं प्रतिसंजहार ।
लक्ष्यीकृतेति । हरिरिन्द्रो विष्णुर्वा तस्येव प्रभावः सामर्थ्यं यस्य स तथोक्तः । धन्वी धनुष्मान्स नृपः लक्ष्यीकृतस्य वेद्धुमिष्टस्य हरिणस्य स्वप्रेयसो देहं व्यवधायानुरागादन्तर्धाय स्थितां । सह चरतीति सहचरी । पदादिषु चरतेष्टित्कारणात्ङीप् । तथाह वामनः—'अनुचरीति चरेष्टित्त्वात्' इति । तां सहचरीं हरिणीं प्रेक्ष्य कामितया स्वयं कामुकत्वात्, कृपामृदुमना करुणाद्रैचित्तः । सन् आकर्णकृष्टमपि दुष्प्रतिसंहरमपीत्यर्थः । बाणं प्रतिसंजहार । नैपुण्यादित्यर्थः । नैपुण्यं तु धन्वीत्यनेन गम्यते ।
भाषार्थ—इन्द्र के समान शक्तिशाली धनुर्धारी उस राजा दशरथ ने देखा कि
नवमः सर्गः | ३०३
जिस हरिण को वे मारना चाहते थे उसकी स्त्री हरिणी उसके शरीर को व्यवहित करके बीच में आकर खड़ी हो गई । अपने प्रियतम हरिण के लिए हरिणी का यह प्रेम देखकर दशरथ का हृदय दया से भर आया और उन्होंने कान तक खींचा हुआ भी बाण उतार लिया ॥ ५७ ॥
तस्यापरेष्वपि मृगेषु शरान्मुमुक्षोः
कर्णान्तमेत्य बिभिदे निबिडोऽपि मुष्टिः ।
त्रासातिमात्रचटुलैः स्मरतः सुनेत्रैः
प्रौढप्रियानयनविभ्रमचेष्टितानि ॥ ५८ ॥
अन्वयः — त्रासातिमात्रचटुलैः सुनेत्रै प्रौढप्रियानयनविभ्रमचेष्टितानि स्मरतः अपरेषु अपि मृगेषु शरान् मुमुक्षोः तस्य निबिडः अपि मुष्टि कर्णान्तम् एत्य बिभिदे ।
तस्येति । त्रासाद्भयादतिमात्रचटुलैरत्यन्तचञ्चलैः सुनेत्रैः प्रौढप्रियानयनविभ्रमचेष्टितानि प्रगल्भकान्तविलोचनविलासव्यापारान्साहश्यात्स्मरतः अपरेष्वपि मृगेषु शरान्मुमुक्षोर्भोक्तुमिच्छोस्तस्य नृपस्य निबिडो दृढोऽपि मुष्टिः कर्णान्तमेत्य प्राप्य बिभिदे स्वयमेव भिद्यते स्म । भिदेः कर्मकर्तरि लिट् । कामिनस्तस्य प्रियाविभ्रमस्मृतिजनितकृपातिरेकान्मुष्टिभेदः । न त्वनैपुण्यादिति तात्पर्यार्थः ।
भाषार्थ — वे दूसरे मृगों पर बाण छोड़ने की इच्छा से बाण को कान तक खींच भी लिये थे किन्तु उन्होंने जब अत्यन्त भय से व्याकुल उनके सुन्दर नेत्रों को देखा तब उन्हें अपनी युवतीं प्रियतमाओं के चञ्चल नेत्रों का स्मरण हो आया, इससे करुणार्द्र हृदय होकर उन्होंने किसी हरिण को भी नहीं मारा ॥ ५८ ॥
उत्तस्थुषः सपदि पल्वलपङ्कमध्या-
न्मुस्ताप्ररोहकवलावयवानुकीर्णम् ।
जग्राह स द्रुतवराहकुलस्य मार्गं
सुव्यक्तमार्द्रपदपङ्क्तिभिरायताभिः ॥ ५९ ॥
अन्वयः — सः मुस्ताप्ररोहकवलावयवानुकीर्णम् आयताभिः आर्द्रपदपङ्क्तिभिः सुव्यक्तं सपदि पल्वलपङ्कमध्यात् उतस्थुषः द्रुतवराहकुलस्य मार्गं जग्राह ।
उत्तस्थुष इति । स नृपः मुस्ताप्ररोहाणां मुस्ताङ्कुराणां कवला ग्रासाः तेषामवयवैः श्रमविवृतमुखभ्रंशिभिः शकलैरनाकीर्णं व्याप्तम् । आयताभिर्दीर्घाभिरार्द्रपदपङ्क्तिभिः सुव्यक्तं सपदि पल्वलपङ्कमध्यादुत्तस्थुष उत्थितस्य द्रुतवराहकुलस्य पलायितवराहयूथस्य मार्गं जग्राहानुससार । जिघांसया तदीयपदवीमनुययावित्यर्थः ।
भाषार्थ — उन हरिणों को छोड़कर राजा दशरथ उधर घूम पड़े जिधर
३०४ | रघुवंशमहाकाव्ये
आधा चबाये हुए मोथा के टुकड़े स्थान-स्थान पर बिखरे हुए थे और दूर तक पैरों के गीले पदचिह्नों को देखकर मालूम पड़ता था कितालों के कीचड़ से निकल-निकल कर जंगली सूअरों का समूह उधर को ही गया है ॥ ५९ ॥
तं वाहनादवनतोत्तरकायमोष- द्विध्यन्तमुद्धृतसटाः प्रतिहन्तुमीषुः । नात्मानमस्य विविदुः सहसा वराह। वृक्षेषु विद्धमिषुभिर्जघनाश्रयेषु ॥ ६० ॥
अन्वयः—वराहाः वाहनात् ईषत् अवनतोत्तरकायम् विध्यन्तं तम् उद्धृत-सटाः सन्तः प्रतिहन्तुम् अस्य ईषुभिः सहसा जघनाश्रयेषु वृक्षेषु विद्धम् आत्मानं न विविदुः ।
तमिति । वराहाः वाहनादश्वादीषदवनतोत्तरकायं किंचिदानतपूर्वकायं विध्यन्तं प्रहन्तं नृपम् उद्धृतसटा उर्ध्वकेसराः सन्तः । 'शटा जटाकेसयोः' इति केशवः । प्रतिहन्तुमीषुः प्रतिहन्तुमैच्छन् । अस्य नृपस्येषुभिः सहसा जघना-नामाश्रेयेष्ववष्टम्भेषु वृक्षेषु विद्धमात्मानं न विविदुः । एतेन वराहाणां मनस्वित्वं नृपस्य हस्तलाघवं द्योक्तम् ।
भाषार्थ—घोड़े पर चढ़े हुए राजा दशरथ ने अपने शरीर को आगे झुका कर ज्यों ही उन सूअरों पर बाण चलाया त्यों ही वे अपने गर्दनों के बालों को खड़ा करके उन पर झपटे, किन्तु उन्होंने तत्काल ऐसे कसकर बाण मारे कि सूअरों को पता नहीं चला कि वे उन पेड़ों में बाणों साथ कसकर चिपक गये जिनके सहारे वे खड़े थे ॥ ६० ॥
तेनाभिघातरभसस्य विकृष्य पत्री वन्यस्य नेत्रविवरे महिषस्य मुक्तः । निर्भिद्य विग्रहमशोणितलिप्तपुङ्ख- स्तयं पातयां प्रथममास पपात पश्चात् ॥ ६१ ॥
अन्वयः—अभिघातरभसस्य वन्यस्य महिषस्य नेत्रविवरे तेन विकृष्य मुक्तः पत्री विग्रहं निर्भिद्य अशोणितलिप्तपुङ्खः ( सन् ) तं प्रथमं पातयामास स्वयं पश्चात् पपात ।
तेनेति । अभिघाते रभस औत्सुक्यं यस्य तस्य अभिहन्तुमुद्यतस्येत्यर्थः । वन्यस्य वने भवस्य महिषस्य नेत्रविवरे नेत्रमध्ये तेन नृपेण विकृष्याकृष्य मुक्तः पत्री शरो विग्रहं महिषदेहं निर्भिद्य विदार्य शोणितलिप्तो न भवतीत्यशोणितलिप्तः
नवमः सर्गः ३०५
पुङ्खो यस्य स तथोक्तः सन् । तं महिषं प्रथमं पातयामास स्वयं पश्चात्पपात । “कृञ्चानुप्रयुज्यते लिटि” इत्यत्रानुशब्दस्य व्यवहितविपर्यस्तप्रयोगनिवृत्त्यर्थत्वात् 'पातयां प्रथममास' इत्यार्षप्रयोग इति पाणिनीयाः। यथाह वार्तिककारः— 'विपर्यासिनिवृत्त्यर्थं व्यवहितवृत्त्यर्थं च' इति ।
**भावार्थ—**इतने में ही उन्होंने देखा कि एक वनैला भैंसा उनकी ओर झपटा चला आ रहा है उन्होंने उसकी आंख में एक ऐसा बाण मारा कि वह भैंसे के शरीर में से इतनी जल्दी पार हो गया कि बाण के पंख में थोड़ा सा भी रक्त नहीं लगा और विशेषता यह थी कि भैंसे के शरीर को विदीर्ण कर बाण तो देर से गिरा किन्तु भैंसा पहले ही पृथ्वी पर गिर पड़ा ॥ ६१ ॥
प्रायो विषाणपरिमोक्षलघूत्तमाङ्गा- न्वङ्गांश्चकार नृपतिर्निशितैः क्षुरप्रैः । शृङ्गं स दृप्तविनयाधिकृतः परेषा- मत्युच्छ्रितं ममृषे न तु दीर्घमायुः ॥ ६२ ॥
**अन्वयः—**नृपतिः निशितैः क्षुरप्रैः खङ्गान् प्रायः विषाणपरिमोक्षलघूत्तमाङ्गान चकार, दृप्तविनयाधिकृतः सः परेषाम् अत्युच्छ्रितं शृङ्गं न ममृषे दीर्घम् आयुः तु ( न ममृषे ) इति न ।
प्राय इति । नृपतिर्निशितैः क्षुरप्रैः शरविशेषैः चन्द्राद्धर्बाणैरित्यर्थः । खड्गानू खड्गाख्यान्मृगान् 'गण्डके खड्गखड्गिनौ' इत्यमरः । प्रायो बाहुल्येन विषाणपरिमोक्षण शृङ्गभङ्गेन लघून्यगुरुण्युत्तमाङ्गानि शिरांसि येषां तांश्चकार । न त्ववधीदित्यर्थः । कुतः दृप्तविनयाधिकृतो दुष्टनिग्रहनियुक्तः स राजा परेषां प्रतिकूलानामत्युच्छ्रितमुन्नतं शृङ्गं विषाणं प्राधान्यं च । 'शृङ्गं प्राधान्यसन्त्वोश्च' इत्यमरः । न ममृषे न सेहे । दीर्घमायुर्जीवितकालम् । 'आयुर्जीवितकालो ना' इत्यमरः । न ममृष इति न किन्तु ममृष एवेत्यर्थः ।
**भावार्थ—**इतने में उन्हें गैंडों का झुण्ड दिखाई पड़ा। राजा दशरथ ने अर्द्ध-चन्द्राकार तेज बाणों से उनके सींगों को काटकर उनके शिर का बोझ हल्का कर दिया। अभिमानियों के शासक वे राजा शिर उठाकर चलने वालों का दमन अवश्य करते थे इसीलिए उन्होंने उनके उन्नत सींग को नहीं सहन किया उनके प्राण से उनको वैर नहीं था। अर्थात्, राजा दशरथ ने दया करके उनके प्राण नहीं लिए, किन्तु उनके मान को नष्ट कर दिया ॥ ६२ ॥
२० र० सम्पू०
| ३०६ | रघुवंशमहाकाव्ये |
|---|
व्याघ्रानभीरभिमुखोत्पतितान्गुहाभ्यः
फुल्लासनाग्रविटपानिव वायुरुग्णान् ।
शिक्षाविशेषलघुहस्ततया निमेषा-
त्तूणीचकार शरपूरितवक्त्ररन्ध्रान् ॥ ६३ ॥
अन्वयः— अभीः सः गुहाभ्यः अभिमुखोत्पतितान् वायुरुग्णान् फुल्लासनाग्रविटपान् इव स्थितान् शरपूरितवक्त्ररन्ध्रान् व्याघ्रान् शिक्षाविशेषलघुहस्ततया निमेषात् तूणीचकार ।
व्याघ्रानिति । अभीर्निर्भीकः धन्वी गुहाभ्योऽभिमुखमुत्पतितान् वायुना रुग्णान्भग्नान् । फुल्ला विकसिताः । “अनुपसर्गात्फुल्लक्षीवकृशोल्लाघाः” इति निष्ठातकारस्य लत्वनिपातः । येऽसनस्य सर्जवृक्षस्य । ‘सर्जकासनबन्धूकपुष्पप्रियकजीवकाः’ इत्यमरः । अग्रविटपास्तानिव स्थितान् इषुधिभूतानित्यर्थः । व्याघ्राणां चित्ररूपत्वादुपमाने फुल्लविशेषणम् । शरैः पूरितानि वक्त्ररन्ध्राणि येषां तान्ब्याघ्रान् शिक्षाविशेषेणाभ्यासातिशयेन लघुहस्ततया क्षिप्रहस्ततया निमेषात्तूणीचकार । तूर्णं शरैः पूरितवानित्यर्थः ।
भाषार्थ— जब सैनिकों के कोलाहल से सिंह अपनी-अपनी गुफाओं से निकलकर राजा दशरथ पर टूट पड़े तब राजा दशरथ ने धनुर्विद्या में सिद्धहस्त होने के कारण इतनी शीघ्रता से उन पर बाण बरसाये कि उन सिंहों के खुले मुंह बाणों से ऐसे भर गये मानों बाणों से भरे हुए तरकस हों अर्थात् गुफा से उछलकर सामने आते ही उनके मुखों को बाणों से भर दिया ॥ ६३ ॥
निर्घातोप्रैः कुञ्जलीनाञ्जिघांसुर्ज्यानिर्घोषैः क्षोभयामास सिंहान् ।
नूनं तेषामभ्यसूयापरोऽभूद्वीर्योदग्रे राजशब्दो मृगेषु ॥ ६४ ॥
अन्वयः— कुञ्जलीनान् सिंहान् जिघांसुः निर्घातोग्रैः ज्यानिर्घोषैः क्षोभयामास, तेषां वीर्योदग्रे मृगेषु राजशब्दे अभ्यसूयापरः नूनम् अभूत् ।
निर्घातेति । कुञ्जेषु लीनान् । ‘निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे’ इत्यमरः । सिंहाञ्जिघांसुर्हन्तुमिच्छुः निर्घातो व्योमोत्थित औत्पातिकः शब्दविशेषः । तदुक्तं नारदीयसंहितायां ‘वायुनाभिहतो वायुर्गगनात्पतितः क्षितौ । दण्डादीसः सगरुतः सनिर्घातोऽतिदोषकृत् ॥’ इति तद्वदुग्रै रौद्रैर्ज्यानिर्घोषैर्मौर्वीशब्दैः क्षोभयामास । अत्रोत्प्रेक्षते—तेषां सिंहानां सम्बन्धिानि वीर्येणोदग्र उन्नते मृगेषु विषये यो राजशब्दस्तस्मिन्नभ्यसूयापरोऽभून्नूनम् । अन्यथा कथमेतानन्विष्य हन्यादित्यर्थः । ‘मृगाणाम्’ इति पाठे समासे गुणभूतत्वाद्रराजशब्देन सम्बन्धो दुर्घटः । शालिनीवृत्तम्— ‘शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकैः’ इति लक्षणात् ।
नवमः सर्गः ३०७
भाषार्थ—कुञ्जों में छिपे हुए सिंहों को मारने लिए राजा दशरथ ने बिजली की कड़क के समान तीव्र धनुष की प्रत्यञ्चा की टंकारों से व्याकुल कर दिया, मानों अपने आधिपत्य के सामने सिंहों का आधिपत्य वे सहन कर सके ॥ ६४ ॥
तान्हत्वा गजकुलबद्धतीव्रवैरान्काकुत्स्थः कुटिलनखाग्रलग्नमुक्तान्।
आत्मानं रणकृतकर्मणां गजानामानृण्यं गतमिव मार्गणैरमंस्त ॥ ६५ ॥
अन्वयः—काकुस्थः गजकुलबद्धतीव्रवैरान् कुटिलनखाग्रलग्नमुक्तान् तान् हत्वा आत्मानं रणकृतकर्मणां गजानाम् आनृण्यं मार्गणैः गतम् इव अमंस्त ।
तानिति । काकुत्स्थो दशरथः राजकुलेषु बद्धं तीव्रं वैरं यैस्तान् कुटिलेषु नखाग्रेषु लग्ना मुक्तगजकुम्भमौक्तिकानि येषां तान्सिहान्हत्वा आत्मानं रणेषु कृतकर्मणां कृतोपकाराणां गजानामानृणत्वं मार्गणैः शरैः । ‘मार्गणो याचके शरे’ इति विश्वः । गतं प्राप्तवन्तमिवामंस्त मेने ।
भाषार्थ—हाथियों ने संग्राम में राजा दशरथ के बहुत उपकार किये थे इसलिए उन्होंने बाणों से उनके रिपुभूत उन सिंहों को मारकर हाथियों का ऋण चुका दिया जिनके नुकीले टेढ़े अगले पञ्जों में तब गजमुक्तायें उलझी हुई थीं ॥ ६५ ॥
चमरान्परितः प्रवर्तिताश्वः क्वचिदाकर्णविकृष्टभल्लवर्षी।
नृपतीनिव तान्वियोज्य सद्यः सितबालव्यजनैर्जगाम शान्तिम् ॥ ६६ ॥
अन्वयः—क्वचित् चमरान् परितः प्रवर्तिताश्वः आकर्णविकृष्टभल्लवर्षी सः नृपतीन् इव तान् सितबालव्यजनैः वियोज्य सद्यः शान्ति जगाम ।
चमरानिति । क्वचिच्चमरान्परितः । “अभितः परितः समयानिकषाहा-प्रतियोगेऽपि” इत्यनेन द्वितीया । प्रवर्तिताश्वः प्रधाविताश्वः आकर्णविकृष्टभल्ला-निषुविशेषान्वर्षतीति तथोक्तः स नृपतीनिव तांश्चमरान्सितवालव्यजनैः शुभ्रचा-मरैर्वियोज्य विरहय्य सद्यः शान्तिं जगाम । शूराणां परकीयमैश्वर्यमेवासह्यं न तु जीवितमिति भावः । औपच्छन्दसिकं वृत्तम् ।
भाषार्थ—चामर मृगों के चारों ओर घोड़ों को दौड़ाते हुए और कान तक खींचकर भालाओं को बरसाने वाले राजा दशरथ ने उन मृगों की चंवरवाली पूंछें काट लीं, इससे उनको ऐसा सन्तोष हुआ मानों चंवरधारी राजाओं के चंवर ही उन्होंने छीन लिए हों । दशरथ को इस बात का बड़ा क्रोध था कि मेर एक छत्र राज्य करते हुए राजचिह्न चँवर को कैसे धारण कर सकते हैं ॥ ६६ ॥
| ३०८ | रघुवंशमहाकाव्ये |
|---|
अपि तुरगसमीपादुपतन्तं मयूरं
न स रुचिरकलापं बाण लक्ष्यीचकार ।
सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे
रतिविगलितबन्धे केशपाशे प्रियायाः ॥ ६७ ॥
अन्वयः—सः तुरगसमीपात् उत्पतन्तम् अपि रुचिरकलापं मयूरं चित्रमाल्यानुकीर्णे रतिविगलितबन्धे प्रियायाः केशपाशे सपदि गतमनस्कः न बाणलक्ष्यीचकार ।
अपीति । स नृपस्तुरगसमीपादुपतन्तमपि सुप्रहारमपीत्यर्थः । रुचिरकलापं भासुरबर्हं मह्यामतिशयेन रोतीति मयूरो बर्ही । पृषोदरादित्वात्साधुः । तं चित्रेण माल्येनानुकीर्णे रतौ विगलितबन्धे प्रियायाः । केशपाशे सपदि गतमनस्कः प्रवृत्तचित्तः । "उरः प्रभृतिभ्यः कप्" इति कप्प्रत्ययः । न बाणलक्ष्यीचकार न प्रजहारेत्यर्थः ।
भाषार्थ—कभी-कभी राजा दशरथ के घोड़े के पास रंग-वरंगी चमकीली पूंछों वाले मयूर भी उड़ जाया करते थे पर वे उन पर बाण नहीं चलाते थे क्योंकि उन्हें देखकर दशरथ जी विविध प्रकार के सुन्दर पुष्पों से सुशोभित और सम्भोग काल में खुले हुए अपनी प्रियाओं के केशपाशों स्मरण हो आता था, इसलिये उन्हें उनको मारने का ध्यान ही नहीं रहता था ॥ ६७ ॥
तस्य कर्कशविहारसम्भवं स्वेदमाननविलग्नजालकम् ।
आचचाम सतुषारशीकरो भिन्नपल्लवपुटो वनानिलः ॥ ६८ ॥
अन्वयः—सतुषारशीकरः भिन्नपल्लवपुटः वनानिलः कर्कशविहारसम्भवम्, आननविलग्नजालकं तस्य स्वेदम् आचचाम ।
तस्येति । कर्कशविहारादतिव्यायामात्संभवो यस्य तम् । आनने विलग्नजालकं बद्धकदम्बकं तस्य नृपस्य स्वेदं सतुषारशीकरः शिशिराम्बुकणसहितः भिन्ना निर्दलिताः पल्लवानां पुटाः कोशा येन सः वनानिल आचचाम । जहारेत्यर्थः । रथोद्धतावृत्तमेतत् ।
भाषार्थ—कठिन परिश्रम से राजा दशरथ के मुंह पर जो पसीना छा गया था उसे वनके उस वायु ने सुखा दिया, जो ठण्डे जलकणों से युक्त और पल्लवों के बन्द कोशों को स्फुटित करने वाला था ॥ ६८ ॥
इति विस्मृतान्यकरणीयमात्मनः सचिवावलम्बिधुरं धराधिपम् ।
परिवृद्धरागमनुबन्धसेवया मृगया जहार चतुरेव कामिनी ॥ ६९ ॥
नवम सर्गः ३०९
नवम सर्गः ३०९
अन्वयः— इति आत्मनः विस्मृतान्यकरणीयं सचिवावलम्बितधुरम् अनुबन्ध-सेवया परिवृद्धिरागं धराधिपं मृगया चतुरा कामिनी इव जहार ।
इतीति । इति पूर्वोक्तप्रकारेणात्मनो विस्मृतमन्यत्करणीयं कार्यं येन तम् । विस्मृतात्मकार्यान्तरमित्यर्थः । सचिवैरवलम्बिता धृता धूर्यस्य तम् । “ऋक्पूरब्धूः-पथामानक्षे” इति समासान्तोऽच्प्रत्ययः । अनुबन्धसेवया संततसेवया परिवृद्धो रागो यस्य तं धराधिपं मृग्यन्ते यस्यां मृगा इति मृगया । परिचर्यापरिसर्या-मृगयाटाट्यादानामुपसंख्यानम् इति शप्प्रत्ययान्तो निपातः । चतुरा विदग्धा कामिनीव जहाराचकर्ष । 'न जातु कामः कामानानुभोगेन शाम्यति । हविशा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥' इति भावः ।
भाषार्थ— इस प्रकार अपने दूसरे कर्तव्यों को भूले हुए, राज्य का भार मन्त्रियों पर छोड़ कर बन में आये हुए और निरन्तर सेवन करने से अधिक आसक्ति युक्त राजा दशरथ को शिकार के व्यसन ने वैसे ही लुभा लिया जैसे कोई चतुर स्त्री अपने पति की सेवा करके उसे अपने वश में कर लेती है । अर्थात् सब कार्य भूल कर राजा दशरथ शिकार में आसक्त हो गये ॥ ६९ ॥
स ललितकुसुमप्रवालशय्यां ज्वलितमहौषधिदीपिकासनाथाम् ।
नरपतिरतिवाहयाम्बभूव क्वचिदसमेतपरिच्छदस्त्रियामाम् ॥ ७० ॥
अन्वयः— स नरपतिः ललितकुसुमप्रवालशय्यां ज्वलितमहोषधिदीपिका-सनाथां त्रियामां क्वचित् असमेतपरिच्छदः सन् अतिवाहयाम्बभूव ।
स इति । स नरपतिः ललितानि कुसुमानि प्रवालानि पल्लवानि शय्या यस्यां तां ज्वलिताभिर्महोषधीभिरेव दीपिकाभिः सनाथां तत्प्रधानामित्यर्थः । त्रियामां त्रयो यामा यस्याः सा ताम् रात्रि क्वचिदसमेतपरिच्छदः परिहृत-परिजनः सन्नित्यर्थः । अतिवाहयाम्बभूव गमयामास । पुष्पिताग्रावृत्तम् ।
भाषार्थ— शिकार के वशीभूत राजा दशरथ ने राजाओं के योग्य सामग्री की परवाह न करके कभी २ परिजनों के बिना अकेले ही कोमल-कोमल पुष्पों और नवपल्लवों को शय्या बनाकर तथा जंगल की जलती हुई महौषधियों को दीपक का प्रकाश समझकर रात बिताई ॥ ७० ॥
उषसि स गजयूथकर्णतालैः पटुपटहध्वनिभिर्विनीतनिद्रः ।
अरमत मधुराणि तत्र शृण्वन्विहगविकूजितबन्दिमङ्गलानि ॥ ७१ ॥
अन्वयः— उषसि पटुपटहध्वनिभिः गजयूथकर्णतालैः, विनीतनिद्रः सः तत्र मधुराणि, विहगविकूजितवन्दिमंगलानि शृण्वन् अरमत ।
| ३१० | रघुवंशमहाकाव्ये |
|---|
उषसीति। उषसि प्रातः पटूनां पटहानाभिव ध्वनियैषां तैर्गजयूथानां हस्ति-समूहानां कर्णैरेव तालैर्वाद्यप्रभेदैर्विनीतनिद्रः स नृपस्तत्र वने मधुराणि विहगानां विहङ्गमानां विकूजितान्येव वन्दिनां मङ्गलाति मङ्गलगीतानि शृण्वन्नरमत।
भाषार्थ— वन में रहते हुए भी राजा दशरथ के सभी व्यवहार राजाओं के समान हुआ करते थे। प्रातःकाल जब बड़े-बड़े नगाड़ों के समान शब्द करने वाले हाथियों के कानों की फट-फट होती थी तब आंखें खुलती थी और उस समय वन के पक्षी चारणों के समान जो मंगल गीत गाते थे उन्हें सुन कर वे परम प्रसन्न होते थे॥ ७१ ॥
अथ जातु रुरोर्गृहीतवर्त्मा विपिने पार्श्वचरैरलक्ष्यमाणः।
श्रमफेनमुचा तपस्विगाढां तमसां प्राप नदीं तुरङ्गमेण॥ ७२ ॥
अन्वयः— अथ जातु रुरोः गृहीतवर्त्मा विपिने पार्श्वचरैः अलक्ष्यमाणः, श्रमफेनमुचा तुरङ्गमेण तपस्विगाढां तमसां नदीं प्राप ।
अथेति। अथ जातु कदाचिद्रुरोर्मृगस्य गृहीतवर्त्मा स्वीकृतरुरुमार्गो विपिने वनेपार्श्वचरैरनुचरैरलक्ष्यमाणः। तुरगवेगादित्यर्थः। श्रमेण फेनमुचा सफेनं स्विद्यतेत्यर्थः। तुरङ्गमेण तपस्विभिर्गाढामवगाढां सेवितां तमसां नाम नदीं सरितं प्राप।
भाषार्थ— इससे बाद एक दिन रुरुमृग का पीछा करते हुए राजा दशरथ को साथियों से साथ छूट गया, थकावट के कारण उनका घोड़ा मुंह से फेन फेंकने लगा उसी पर चढे हुए वे तमसा नदी के उस तीर पर पहुँच गये जहाँ तपस्वि लोग स्नान करते थे॥ ७२ ॥
कुम्भपूरणभवः पटुरुच्चैरुच्चचार निनदोऽम्भसि तस्याः।
तत्र स द्विरदबृंहितशङ्की शब्दपातिनमिषुं विससर्ज ॥ ७३ ॥
अन्वयः— तस्याः अम्भसि कुम्भपूरणभवः पटुः उच्चै निनदः उच्चचार, तत्र सः द्विरदबृंहितशङ्की सन् शब्दपातिनम् इषुं विससर्ज।
कुम्भेति। तस्यास्तमसाया अम्भसि कुम्भपूरणेन भव उत्पन्नः। पचाद्यच्। पटुर्मधुरः उच्चैर्गम्भीरो निनदो ध्वनिरुच्चचारोदियाय। तत्र निनदे स नृपः द्विरदबृंहितं शङ्कित इति द्विरदबृंहितशङ्की सन् शब्देन शब्दानुसारेण पततीति शब्दपातिनमिषुं विससर्ज। स्वागतावृत्तम्।
भाषार्थ— उस तमसा नदी में श्रवण कुमार अपने अन्धे माता-पिता के लिए घड़े में पानी भर रहा था, घड़ा भरते समय जो गम्भीर शब्द उत्पन्न हुआ
नवमः सर्गः ३११
उसको राजा दशरथ ने हाथी का शब्द समझकर झट शब्दवेधी बाण उसपर चला ही दिया ॥ ७३ ॥
नृपतेः प्रतिषिद्धमेव तत्कृतवान्पङ्क्तिरथो विलङ्घ्य यत् ।
अपथे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः ॥ ७४ ॥
अन्वयः—पङ्क्तिरथः यत् नृपतेः प्रतिषिद्धम् एव, तत् विलङ्घ्य कृतवान् श्रुतवन्तः अपि रजोनिमीलिताः (सन्तः) अपथे पदम् अर्पयन्ति हि ।
नृपतेरिति । तत्कर्म नृपतेः क्षत्रियस्य प्रतिषिद्धमेव निषिद्धमेव यदेतत्कर्म गजवधरूप पङ्क्तिरथो दशरथो विलङ्घ्य ‘लक्ष्मीकामो युद्धादन्यत्र करिवधं न कुर्यात्’ इति शास्त्रमुल्लंघ्य कृतवान् । ननु विदुषस्तस्य कथमीदृग्विचेष्टितमत आह—अपथ इति । श्रुतवन्तोऽपि विद्वांसोऽपि रजोनिमीलिताः रजोगुणावृताः सन्तः न पन्था इत्यपथम् । "पथो विभाषा" इति वा समासान्तः । "अपथं नपुंसकम्" इति नपुंसकम् । ‘अपन्थ्यास्त्वपथं तुल्यम्’ इत्यमरः । तस्मिन्नपथेऽमार्गे पदमर्पयन्ति हि निक्षिपन्ति हि । प्रवर्तन्त इत्यर्थः । वैतालीय वृत्तम् ।
भाषार्थ—युद्ध स्थल से अन्यत्र कहीं भी राजा को हाथी का वध नहीं करना चाहिए, इस लिए राजा दशरथ ने जो किया, वह राजा के लिए उचित नहीं था । कभी-कभी विद्वान् लोग भी जब रजो गुण के आवेश में अन्धे हो जाते हैं तब वे अयोग्य कार्य कर बैठते हैं ॥ ७४ ॥
हा तातेति क्रन्दितमाकर्ण्य विषण्ण-
स्तस्यान्विष्यन्वेतसगूढं प्रभवं सः ।
शल्यप्रोतं प्रेक्ष्य सकुम्भं मुनिपुत्रं
तापादन्तःशल्य इवासीत्क्षितिपोऽपि ॥ ७५ ॥
अन्वयः—हा तात इति क्रन्दितम् आकर्ण्य विषण्णः सः तस्य वेतसगूढम् प्रभवम् अन्विष्यन् शल्यप्रोतम् सकुम्भम् मुनिपुत्रम् प्रेक्ष्य क्षितिपः अपि तापात् अन्तःशल्यः इव आसीत् ।
हा तातेति । हेत्यातौ तातो जनकः । ‘हा विषादशुगर्तिषु’ इति ‘तातस्तु जनकः पिता’ इति चामरः । हा तातेति क्रन्दितं क्रोशनमाकर्ण्य विषण्णो भग्नोत्साहः सन् तस्य क्रन्दितस्य वेतसैर्गूढं छन्नं प्रभवत्यस्मादिति प्रभवः कारणं तमन्विष्यञ्छल्येन शरेण प्रोतं स्यूतम् । ‘शल्यं शङ्कौ शरे वंशे’ इति विश्वः । सकुम्भं मुनिपुत्रं प्रेक्ष्य स क्षितिपोऽपि तापाद्दुःखादन्तःशल्यं यस्य सोऽन्तःशल्य इवासीत् । मत्तमयूरं वृत्तम् ।
| ३१२ | रघुवंशमहाकाव्ये |
|---|
**भाषार्थ—**हा पिताजी ! इस प्रकार श्रवणकुमार का करुण क्रन्दन सुनकर दुःखी होकर बेंतों के कुञ्जों में छिपे हुए उस करुण ध्वनि के उत्पत्ति स्थान को ढूंढते हुए राजा दशरथ ने देखा कि बेंत की झाड़ियों में बाणों से विद्ध घड़े पर झुका हुआ कोई मुनिकुमार पड़ा हुआ है उसे देखकर उनको ऐसा कष्ट हुआ मानों इन्हें ही बाण लग गया हो ॥ ७५ ॥
तेनावतीर्य तुरगात्प्रथितान्वयेन
पृष्टान्वयः स जलकुम्भनिषण्णदेहः ।
तस्मै द्विजेतरतपस्विसुतं स्खलद्भि-
रात्मानमक्षरपदैः कथयाम्बभूव ॥ ७६ ॥
**अन्वयः—**प्रथितान्वयेन तेन तुरगात् अवतीर्य पृष्टान्वयः जलकुम्भनिषण्ण-देहः सः तस्मै स्खलद्भिः अक्षरपदैः आत्मानं द्विजेतरतपस्विसुतम् कथयाम्बभूव ।
तेनेति। प्रथितान्वयेन प्रख्यातवंशेन । एतेन पापभीरुत्वं सूचितं । तेन राज्ञा तुरगादवतीर्य पृष्टान्वयी ब्रह्महत्याशङ्कया पृष्टकुलः जलकुम्भनिषण्णदेहः स मुनिपुत्रस्तस्मै राज्ञे स्खलद्भिः अशक्तिवशादर्धोच्चारितैरित्यर्थः । अक्षरप्रायैः पदैरक्षरपदैरात्मानं द्विजेतरश्चासौ तपस्विसुतश्च तं द्विजेतरतपस्विसुतं कथयाम्बभूव । न तावत्त्रैवर्णिक एवाहमस्मि किन्तु करणः ‘वैश्यात्तु करणः शूद्रायाम्’ इति याज्ञवल्क्यः कुतो ब्रह्महत्येत्यर्थः । तथा च रामायणे—‘‘ब्रह्महत्याकृतं पापं हृदयादपनीयताम् ॥ न द्विजातिरिरहं राजन्मा भूत्ते मनसो व्यथा । शूद्रायमस्मि वैश्येन जातो जनपदाधिप ॥’’
**भाषार्थ—**राजा दशरथ अत्यन्त पापभीरु थे इस लिए घोड़े से शीघ्र उतर कर उन्होने ब्रह्महत्या की आशंका से घड़े पर झुके हुए उस मुनिकुमार से पहले उसकी जाति और नाम पूछा, उसने भी उनका आशय समझ कर सड़खड़ाती वाणी से बताया कि मैं द्विज से भिन्न वैश्य पिता से शूद्रा माता से उत्पन्न करण संज्ञक मुनि कुमार हूँ । इसलिए राजा दशरथ अपने को ब्रह्महत्या से मुक्त समझे ॥ ७६ ॥
तच्चोदितः स तमनुद्धृतशल्यमेव
पित्रोः सकाशमवसन्नदृशोर्निनाय ।
ताभ्यां तयागतमुपेत्य तमेकपुत्र-
मज्ञानतः स्वचरितं नृपतिः शशंस ॥ ७७ ॥
नवमः सर्गः ३१३
अन्वयः—तच्चोदितं नृपतिः अनुद्धतशल्यम् एव तम् अवसन्नदृशोः पित्रोः सकाशं निनाय च, समागतम् एकपुत्रम् तम् उपेत्य अज्ञानतः स्वचरितं ताभ्यां शशंस।
तदिति। तच्चोदितस्तेन पुत्रेण चोदितः प्रेरितः पितृसमीपं प्रापयेत्युक्तः स नृपतिरनुद्धृतशल्यमनुत्पाटितशरमेव तं मुनिपुत्रम् अवसन्नदृशोर्नष्टचक्षुषोः अन्धयोरित्यर्थः। पित्रोर्मातापित्रोः। "पिता माता" इत्येकशेषः। सकाशं समीपं निनाय। इदं च रामायणविरुद्धम् तत्र—'अथाहमेकस्तं देशं नीत्वा तौ भृशः- दुःखितौ। अस्पर्शयमहं पुत्रं तं मुनि सह भार्यया॥' इति नदीतीर एव मृतं पुत्रं प्रति पित्रोरानयनाभिधानात्। तथागतं वेतसगूढम् एकश्चासौ पुत्रश्चैकपुत्रस्तम्। एकग्रहणं पित्रोरनन्यगतिकत्वसूचनार्थं तं मुनिपुत्रमुपेत्य संनिकृष्टं गत्वाज्ञानतः करिभ्रान्त्या स्वचरितं स्वकृतं ताभ्यां मातापितृभ्यां। क्रियाग्रहणाच्चतुर्थी। शशंस कथितवान्।
भाषार्थ—उस श्रवणकुमार ने राजा दशरथ से कहा कि मुझे मेरे अन्धे माता-पिता के पास पहुँचा दीजिए। यह सुनकर उन्होंने उस बाण से बिधे हुए मुनिकुमार को उठाकर उसके माता-पिता के पास ले जाकर उनसे सारी कथा बता दी कि मैंने भूल से आपके एकलौते पुत्र पर किस प्रकार बाण चला दिया॥ ७७॥
तौ दम्पती बहु विलप्य शिशोः प्रहर्त्रा
शल्यं निखातमुदहारयतामुरस्तः।
सोऽभूत्परासुरथ भूमिपतिं शशाप
हस्तार्पितैर्नयनवारिभिरेव वृद्धः॥ ७८॥
अन्वयः—तौ दम्पती बहु विलप्य शिशोः उरस्तः निखातम् शल्यम् प्रहर्त्रा उदहारयता सः गतासुः अभूत् अथ वृद्धःहस्तार्पितैः नयनवारिभिः एव भूमिपतिं शशाप।
ताविति। तौ जाया च पतिश्च दम्पती। राजदन्तादिषु जायाशब्दस्य दम्भावो जम्भावश्च विकल्पेन निपातितः। 'दम्पती जम्पती जायापती भार्यापती च तौ' इत्यमरः। बहु विलप्य भूरि परिदेव्य। 'विलापः परिदेवनम्' इत्यमरः। शिशोरुरस्तो वक्षसः। "पञ्चम्यास्तसिल्"। निखातं शल्यं शरं प्रहर्त्रा राज्ञोदा- हारयतामुद्धारयामासतुः। स शिशुः परासुर्गतप्राणोऽभूत्। अथ वृद्धो हस्तार्पितै- र्नयनवारिभिरेव शापदानस्य जलपूर्वकत्वात्तैरेव भूमिपतिं शशाप।
भाषार्थ—यह सुनते ही उन दोनों स्त्री पुरुषों ने बहुत विलाप कर अपने पुत्र के मारने वाले राजा दशरथ को आज्ञा दी कि छाती से बाण निकाल लो,
३१४ रघुवंशमहाकाव्ये
बाण निकालते ही श्रवणकुमार के प्राण विकल गये इस पर बूढ़े तपस्वी ने चुल्लू में आंसू का जल लेकर राजा को ऐसा शाप दिया कि ॥ ७८ ॥
दिष्टान्तमाप्स्यति भवानपि पुत्रशोका- दन्त्ये वयस्यहमिवेति तमुक्तवन्तम्। आक्रान्तपूर्वमिव मुक्तविषं भुजङ्गं प्रोवाच कोसलपतिः प्रथमापराधः ॥ ७९ ॥
**अन्वयः—**हे राजन् भवान् अपि अन्त्ये वयसि अहम् इव पुत्रशोकात् दिशान्तम् आप्स्यति इति उक्तवन्तं आक्रान्तपूर्वं मुक्तविषम् भुजगं इव तम् प्रथमापराधः कोशलपतिः प्रोवाच ।
दिष्टान्तमिति । हे राजन् ! भवानप्यन्त्ये वयस्यहमिव पुत्रशोकाद्दिष्टान्तं कालावसानं मरणमित्यर्थः ‘दिष्टः काले च दैवे स्याद्दिष्टम्' इति विश्वः । आप्स्यति प्राप्स्यति प्राप्स्यसि इत्युक्तवन्तम् आक्रान्तः पादाहतः पूर्वमाक्रान्तपूर्वः । सुप्सुपेति समासः । "राजदन्तादिषु परम्" इत्यनेन परनिपातः । तं प्रथममपकृतमित्यर्थः । मुक्तविषमपकारात्पश्चादुत्सृष्टविषं भुजङ्गमिव स्थितं तं वृद्धं प्रति प्रथमापराधः प्रथमापराधी । कर्तरि क्तः । इदं च सहने कारणमुक्तम् । कोसलपतिर्दशरथः शापदानात्पश्चादप्येनं मुनिः प्रोवाच ।
**भावार्थ—**हे राजन् ! जाओ तुम भी वृद्धावस्था में मेरे ही समान पुत्र शोक में मरोगे । जिस प्रकार पैर से दबने पर सांप विष उगल कर शान्त हो जाता है उसी प्रकार शाप देकर जब वृद्ध मुनि शान्त हो हुये। तब पहले पहल अपराध करने वाले राजा दशरथ उनसे बोले ॥ ७९ ॥
शापोऽप्यदृष्टतनयाननपद्मशोभे सानुग्रहो भगवता मयि पातितोऽयत् । कृष्यां दहन्नपि खलु क्षितिमिन्धनेद्धो बीजप्ररोहजननीं ज्वलनः करोति ॥ ८० ॥
**अन्वयः—**अदृष्टतनयाननपद्मशोभे मयि भगवता पतितः अयं शापः अपि सानुग्रहः (एव) इन्धनेद्धः ज्वलनः कृष्याम् क्षितिम् दहन् अपि खलु बीजप्ररोहजननीं करोति ।
शाप इति । अदृष्टा तनयाननपद्मशोभा पुत्रमुखकमलश्रीयैन तस्मिन्नपुत्रके मयि भगवता पातितः वज्रप्रायत्वादित इत्युक्तम् । अयं पुत्रशोकान्निग्न्यस्वेत्येवंरूपः शापोऽपि सानुग्रहः वृद्धकुमारीवरन्यायेनेष्टावाप्तेरान्तरीयकत्वात्सोपकार एव । निग्राहकस्याप्यनुग्राहकत्वमर्थान्तरन्यासेनाह—कृष्यामिति । इन्धनैः काष्ठैरिद्धः प्रज्वलितो ज्वलनोऽग्नि कृष्यां कर्षणाहाम् । "ऋदुपधाच्चाक्लृपि चतेः" इति क्यप् । क्षिति दहन्नपि बीजप्ररोहाणां बीजांकुराणां जननीमुत्पादनक्षमां करोति ।