भारतकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

षष्ठः सर्गः

१६१

असाविति । महेन्द्राद्रेः समानसारस्तुल्यसत्त्वोऽसौ हेमाङ्गदो महेन्द्रस्य नाम कुलपर्वतस्य महोदधेश्च पतिः स्वामी । महेन्द्रमहोदधी एवास्य गिरिजलदुर्गे इति भावः । यस्य यात्रासु क्षगतां मदस्राविणां सैन्यगजानां छलेन महेन्द्रो महेन्द्रादिः पुरोऽग्रे यातीव अद्रिकल्पा अस्य गजा इत्यर्थः ।

भाषार्थ—ये महेन्द्रपर्वत के समान शक्तिशाली हैं और इनका अधिकार महेन्द्र पर्वत एवं समुद्र दोनों पर है । जब ये युद्ध के लिये प्रस्थान करते हैं तब इनके आगे २ चलनेवाले मस्त हाथी ऐसे मालूम पड़ते हैं मानों महेन्द्र पर्वत स्वयं हाथियों का वेष बनाकर इनके आगे चल रहा है ।। ५४ ।।


ज्याघातरेखे सुभुजो भुजाभ्यां बिभर्ति यश्चापभृतां पुरोगः ।
रिपुश्रिया साञ्जनबाष्पसेके बन्दीकृतानामिव पद्धती द्वे ॥ ५५ ॥

अन्वयः—सुभुजः चापभृतां पुरोगः यः बन्दीकृतानां रिपुश्रिया साञ्जन-बाष्पसेके पद्धती इव द्वे ज्याघातरेखे भुजाभ्यां विभर्ति ।

ज्याघातेति । सुभुजश्चापभृतां पुरोगो धनुर्द्धराग्रेसरो यः बन्दीकृतानां प्रगृहीतानाम् 'प्रग्रहोपग्रहो बन्द्याम्' इत्यमरः । रिपुश्रिया साञ्जनो बाष्पसेको ययोस्ते कज्जलमिश्राश्रुसिकते इत्यर्थः । पद्धती इव द्वे ज्याघातानां मोर्वीकिणानां रेखे राजी भुजाभ्यां विभर्ति । द्विवचनात्सव्व्यसाचित्वं गम्यते । रिपुश्रिया भुजाभ्यामेवाहरणात्तद्गमरेखयोस्तत्पद्धतित्वेनोत्प्रेक्षा । तयोः श्यामलत्वात्साञ्जनाश्रुसेकोक्तिः।

भाषार्थ—सुन्दर भुजा वाले और धनुर्धारियों में श्रेष्ठ इस हेमाङ्गद राजा के दोनों भुजाओं में धनुष की डोरी खींचने से जो दो काली २ रेखायें बन गई हैं वे ऐसी मालूम पड़ती हैं मानों बन्दिनी बनाई गई शत्रुओं की राजलक्ष्मी के अञ्जन-युक्त आंसुओं से सिक्त उनके आने के लिए दो मार्ग बने हों ॥ ५५ ॥


यमात्मनः सद्मनि संनिकृष्टो मन्द्रध्वनित्याजितयामतूर्यः ।
प्रासादवातायनदृश्यवीचिः प्रबोधयत्यर्णव एव सुप्तम् ॥ ५६ ॥

अन्वयः—आत्मनः सद्मनि सुप्तं यं सन्निकृष्टः मन्द्रध्वनित्याजितयामतूर्यः वातायनदृश्यवीचिः अर्णवः एव प्रबोधयति ।

यमिति । आत्मनः सद्मनि सुप्तं हेमाङ्गदं संनिकृष्टः समीपस्थोऽत एव प्रासादवातायनैर्दृश्यवीचिर्मन्द्रेण गम्भीरेण । 'मन्द्रस्तु गम्भीरे' इत्यमरः । ध्वनित्रात्रिव त्याजितं निर्जितं यामस्य तूर्यं प्रहरावसानसूचकं वाद्यं येन स तथोक्तः । 'द्वौ यामप्रहरौ समौ' इत्यमरः । अर्णव एव प्रबोधयति अर्णवस्यैव तूर्यकार्यकारित्वात्तद्वैयर्थ्यमित्यर्थः । समुद्रस्यापि सेव्यः किमन्येषामिति भावः ।

१६२ | रघुवंशमहाकाव्ये

भाषार्थ—ठीक, इनके राजभवन के पास ही समुद्र वर्तमान है जिसकी लहरें राजभवन के झरोखों से स्पष्ट दिखाई देती हैं। जब ये अपने महल में सोते हैं तब अपनी गम्भीर गर्जना से रात्रि के चतुर्थ प्रहर के अन्त में बजनेवाले बाजों को व्यर्थ कर देने वाला वह समुद्र ही इन्हें प्रातः काल में जगाता है ॥ ५६ ॥

अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु ।
द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिः ॥ ५७ ॥

अन्वयः—अनेन सार्द्धं तालीवनमर्मरेषु अम्बुराशेः तीरेषु द्वीपान्तरानीत-लवङ्गपुष्पैः मरुद्भिः अपाकृतस्वेदलवा सती त्वं विहर ।

अनेनेति । अनेन राज्ञा सार्धं तालीवनैमर्मरेषु मर्मरेति ध्वनत्सु । ‘अथ मर्मरं स्वनिते वस्त्र-पर्णानाम्’ इत्यमरवचनाद्गुणपरस्यापि मर्मरशब्दस्य गुणिपरत्वं प्रयोगादवसेयम् । अम्बुराशेः समुद्रस्य तीरेषुद्वीपान्तरेभ्य आनीतानि लवङ्गपुष्पाणि देवकुसुमानि यैस्तैः । लवङ्गं देवकुसुमम् इत्यमरः । मरुद्भिर्वातैरपाकृताः प्रशमिताः स्वेदस्य लवा बिन्दवो यस्यः सा तथाभूता सती त्वं विहर क्रीड ।

भाषार्थ—यदि तुम चाहो तो इनके साथ विवाह करके समुद्र के उन तटों पर विहार करो, जहां पर रातों दिन ताड़ के वृक्षों की मर्मरध्वनि सुनाई पड़ती रहती है और विहार करनेवालों के पसीनों को अन्य द्वीपों से लवंग के पुष्पों की गन्ध को लेकर बहने वाली हवा दूर करती है ॥ ५७ ॥

प्रलोभिताप्याप्याकृतिलोभनीया विदर्भराजावरजा तथैवम् ।
तस्मादपावर्तत दूरकृष्टा नीत्येव लक्ष्मीः प्रतिकूलदैवात् ॥ ५८ ॥

अन्वयः—आकृतिलोभनीया विदर्भराजावरजा तथा एवं प्रलोभिता अपि नीत्या दूरकृष्टा लक्ष्मीः प्रतिकूलदैवात् जनात् इव तस्मात् अपावर्तत ।

प्रलोभितेति । आकृत्या रूपेण लोभनीयाऽकर्षणीया न तु वर्णनमात्रेणेत्यर्थः । विदर्भराजावरजा भोजानुजेन्दुमती तया सुनन्दयैवं प्रलोभितापि प्रचोदितापि नीत्या पुरुषकारेण दूरकृष्टा दूरमानीता लक्ष्मीः प्रतिकूलं दैवं तस्य तस्मात्पुंस इव तस्माद्धे-माङ्गदादपावर्तत प्रतिनिवृत्ता ।

भाषार्थ—केवल वर्णनमात्र से नहीं किन्तु सौन्दर्य से आकृष्ट होनेवाली विदर्भराज भोज की छोटी बहन वह इन्दुमती सुनन्दा की लुभावनी बातें सुनकर भी उस राजा को छोड़कर उसी प्रकार आगे बढ़ गई जिस प्रकार पुरुषार्थ से पाई गई लक्ष्मी भाग्यहीनपुरुष को छोड़कर चली जाती है ॥ ५८ ॥

षष्ठः सर्गः १६३

अथोरगाख्यस्य पुरस्य नाथं दौवारिकी देवसरूपमेत्य । इतश्चकोराक्षि ! विलोकयेति पूर्वानुशिष्टां निजगाद भोज्याम् ॥ ५६ ॥

**अन्वयः—**अथ दौवारिकी देवसरूपं उरगाख्यस्य पुरस्य नाथं एत्य हे चकोराक्षि ! इतः त्वं विलोकय इति पूर्वानुशिष्टां भोज्यां निजगाद ।

अथेति । अथ द्वारे नियुक्ता दौवारिकी सुनन्दा । “तत्र नियुक्तः” इति ठक्प्रत्ययः । “द्वारादीनां च” इत्यौ आगमः । अकारेण देवरूपं देवतुल्यम् उरगाख्यस्य पुरस्य पाण्ड्यदेशे कान्यकुब्जतीरवर्तिनागपुरस्य नाथमेत्य प्राप्य हे चकोराक्षि ! इतो विलोकयेति पूर्वानुशिष्टां पूर्वमुक्तां भोजस्य राज्ञो गोत्रापत्यं स्त्रियं भोज्यामन्दिन्दुमतीम् । “क्रोष्ट्यादिभ्यश्च” इत्यत्र भोजात्क्षत्रियादित्युपसंख्यानात्यङ्प्रत्ययः । “यङश्चाप्” इति चाप् । निजगाद । इतो विलोकयेति पूर्वमुक्त्वा पश्चाद्वक्तव्यं निजगादेत्यर्थः ।

**भावार्थ—**इसके बाद द्वारपालिका सुनन्दा देवताओं के समान सुन्दर उरगपुर (नागपुर) के राजा के पास ले जाकर भोजवंश में उत्पन्न उस इन्दुमती से बोली कि चकोर के समान नेत्र वाली इन्दुमती ! इधर तो देखो ॥ ५९ ॥

पाण्ड्योऽयमंसार्पितलम्बहारः कॢप्ताङ्गरागो हरिचन्दनेन । आभाति बालातपरक्तसानुः सनिर्झरोद्गार एवाद्विराजः ॥ ६० ॥

**अन्वयः—**अंसार्पितलम्बहारः हरिचन्दनेन कॢप्ताङ्गरागः अयं पाण्ड्यः बालातपरक्तसानुः सनिर्झरोद्गारः अद्रिराजः इव आभाति ।

पाण्ड्य इति । अंसयोरर्पिताः लम्बन्त इति लम्बाः हारा यस्य सः हरिचन्दनेन गोशीर्षाख्येन चन्दनेन । ‘तैलपर्णिकगोशीर्षे हरिचन्दनमस्त्रियाम्’ इत्यमरः । कॢप्ताङ्गरागः सिद्धानुलेपनोऽयं पाण्डूनां जनपदानां राजा पाण्ड्यः । पाण्डोर्जनपदशब्दात्क्षत्रियाडण् वक्तव्यः ॐ इति ङ्यण्प्रत्ययः । तस्य राजन्यपत्यदिति वचनात् बालातपेन रक्ता अरुणाः सानवो यस्य स सनिर्झरोद्गारः प्रवाहस्यन्दनसहितः । ‘वारिप्रवाहो निर्झरो झरः’ इत्यमरः । अद्रिराज इवाभाति ।

**भावार्थ—**ये पाण्ड्य देश के राजा हैं इनके कन्धों पर बड़ा हार लटक रहा रहा है और शरीर में हरिचंदन का लेप लगा हुआ है । इस देश में ये उस हिमालय के समान सुन्दर लग रहे हैं जिसका शिखर प्रातःकाल की धूप से लाल हो गया हो और जिस पर से पानी के अनेक झरने गिर रहे हों ॥ ६० ॥

विन्ध्यस्य संस्तम्भयिता महाद्रेर्निःशेषपीतोज्झितसिन्धुराजः । प्रीत्याऽवमेधावभृथार्द्रमूर्तेः सोल्लासिको यस्य भवत्यगस्त्यः ॥ ६१ ॥

१३ र० सम्पू०

१६४रघुवंशमहाकाव्ये

अन्वयः—विन्ध्यस्य महाद्रेः संस्तम्भयिता निःशेषपीतोज्झितसिन्धुराजः अगस्त्यः अश्वमेधावभृथार्द्रमूर्तेः यस्य प्रीत्या सौस्नातिकः भवति।

विन्ध्यस्येति। विन्ध्यस्य नाम्नो महाद्रेः तपनमार्गनिरोधाय वर्धमानस्येति शेषः। संस्तम्भयिता निवारयिता। निःशेषं पीत उज्झितः पुनस्त्यक्तः। सिन्धुराजः समुद्रो येन सोऽगस्त्योऽश्वमेधस्यावभृथे दीक्षान्ते कर्मणि। 'दीक्षान्तोऽवभृथो यज्ञे' इत्यमरः। आर्द्रमूर्तेः स्नातस्येत्यर्थः। यस्य पाण्ड्यस्य प्रीत्या स्नेहेन न तु दाक्षिण्येन सुस्नातं पृच्छतीति सौस्नातिकः भवति। * पृच्छतौ सुस्नातादिभ्यः * इत्युपसंख्यानाद्वुक्।

भाषार्थ—जब ये अश्वमेध यज्ञ के अन्त में अवभृथ स्नान कर लेते हैं तब वे अगस्त्य ऋषि आकर इनसे कुशल पूछते हैं जिन्होंने महापर्वत विन्ध्याचल को ऊपर बढ़ने से रोक दिया था और समुद्र को पीकर पुनः उगल दिया था॥६१॥

अस्त्रं हरादाप्तवता दुरापं येनेन्द्रलोकावजयाय दृप्तः ।
पुरा जनस्थानविमर्दशङ्की संधाय लङ्काधिपतिः प्रतस्थे ॥ ६२ ॥

अन्वयः — पुरा जनस्थानविमर्दशङ्की दृप्तः लंकाधिपतिः दुरापं अस्त्रं हराद् आप्तवता येन इन्द्रलोकावजयाय प्रतस्थे।

अस्त्रमिति। पुरा पूर्वं जनस्थानस्य खरालयस्य विमर्दशङ्की दृप्त उद्धतो लङ्काधिपती रावणो दुरापं दुर्लभमस्त्रं ब्रह्मशिरोनामकं हरादाप्तवता येन पाण्ड्येन संधाय इन्द्रलोकावजयायेन्द्रलोकं जेतुं प्रतस्थे। इन्द्रविजयिनो रावणस्यापि विजेतेत्यर्थः।

भाषार्थ—जब महाप्रतापी रावण इन्द्र को जीतने के लिए चला तब उसने इनसे इस डरसे सन्धि कर लिया कि कहीं ऐसा न हो कि ये मेरे पीछे खरदूषण के निवास स्थान दण्डकारण्य को नष्ट भ्रष्ट कर दें क्योंकि इन्होंने भी शिवजी से ब्रह्मशिरा नाम का एक दुर्लभ अस्त्र प्राप्त किया है ॥ ६२ ॥

अनेन पाणौ विधिवद्गृहीते महाकुलीनेन महीव गुर्वी ।
रत्नानुविद्धाणवमेखलाया दिशः सपत्नी भव दक्षिणस्याः ॥ ६३ ॥

अन्वयः—महाकुलीनेन अनेन पाणौ विधिवद् गृहीते सती त्वं गुर्वी मही इव रत्नानुविद्धाणवमेखलायाः दक्षिणस्याः दिशः सपत्नी भव।

अनेनेति। महाकुलीनेन महाकुले जातेन। “महाकुलादञ्खञौ” इति खञ्प्रत्ययः। अनेन पाण्ड्येन त्वदीये पाणौ विधिवद्यथाशास्त्रं गृहीते सति गुर्वी

षष्ठः सर्ग १६५

षष्ठः सर्ग १६५

गुरुः । “वोतो गुणवचनात्” इति ङीष् । महीव रत्नेरनुविद्धो व्यासोऽर्णव एव मेखला यस्यास्तस्याः । इदं विशेषणं मह्यामिन्दुमत्यों च योज्यम् । दक्षिणस्याः दिशः सपत्नी भव । अनेन सपत्न्यन्तराभावो ध्वन्यते ।

भाषार्थ—उच्चकुल में उत्पन्न इस राजा के साथ विधिपूर्वक विवाह कर लेने पर तुम पृथ्वी के समान उस दक्षिण दिशा की सौत बन जाओगी जिसकी करधनी रत्नों से परिपूर्ण समुद्र ही है ॥६३॥

ताम्बूलवल्लीपरिणद्धपूगास्वेलालतालङ्गितचन्दनासु । तमालपत्रास्तरणासु रन्तुं प्रसीद शश्वन्मलयस्थलीषु ॥ ६४ ॥

अन्वयः—ताम्बूलवल्लीपरिणद्धपूगासु एलालतालिङ्गितचन्दनासु तमालपत्रा- स्तरणासु मलयस्थलीषु शश्वत् रन्तुं त्वं प्रसीद ।

ताम्बूलेति । ताम्बूलवल्लीभिर्नागवल्लीभिः परिणद्धाः परिरब्धाः पूगाः क्रमुका यासु तासु ‘ताम्बूलवल्ली नागवल्लद्यपि’ इति ‘घोण्टा तु पूगः क्रमुकः’ इति चामरः । एलालताभिरालिङ्गिताश्चन्दना मलयजा यासु तासु । गन्धसारो मल- यजो भद्रश्रीश्चन्दनोऽस्त्रियाम्’ इत्यमरः । तमालस्य तापिच्छस्य पत्राण्येवास्तर- णानि यासु तासु । ‘कालस्कन्धस्तमालः स्यात्तापिच्छोऽपि’ इत्यमरः । मलय- स्थलीषु । शश्वन्मुहुः सदा वा रन्तुं प्रसीदानुकूला भव ।

भाषार्थ—यदि तुम मलय पर्वत की उन घाटियों में सर्वदा विहार करना चाहती हो तो इनसे विवाह कर लो वहाँ पर नागवल्ली लताओं से परिवेष्टित सुपारी के वृक्ष हैं एवं इलायची की लता से लिपटे हुए चन्दन के वृक्ष हैं और तमाल के पत्ते ही बिछौने हैं ॥ ६४ ॥

इन्दीवरश्यामतनुर्नृपोऽसौ त्वं रोचनागौरशरीरयष्टिः । अन्योन्यशोभापरिवृद्धये वां योगस्तडित्तोयदयोरिवास्तु ॥ ६५ ॥

अन्वयः—असौ नृपः इन्दीवरश्यामतनुः त्वं रोचनागौरशरीरयष्टिः असि तडित्तोयदयोः इव वां योगः अन्योऽन्यशोभापरिवृद्धये अस्तु ।

इन्दीवरेति । असौ नृप इन्दीवरश्यामतनुः त्वं रोचना गोरोचनेव गोरी शरीरयष्टिर्यस्याः सा ततस्तडित्तोयदयोर्विद्युन्मेघयोरिव वां युवयोर्योगः समागमोऽ- न्योन्यशोभायाः परिवृद्धयेऽस्तु ।

भाषार्थ—ये राजा नोलकमल के समान श्यामवर्ण हैं तुम गं०रोचन जैसी गोरी हो । अतः यदि इनके साथ तुम्हारा विवाह हो जायेगा तो तुम ऐसी सुन्दरी लगोगी जैसे बादल के साथ बिजली सुन्दर लगती है ॥ ६५ ॥

१६६ रघुवंशमहाकाव्ये

स्वसुर्विदर्भाधिपतेस्तदीयो लेभेऽन्तरं चेतसि नोपदेशः। दिवाकरादर्शनबद्धकोशे नक्षत्रनाथांशुरिवारविन्दे ॥ ६६ ॥

अन्वयः—विदर्भाधिपतेः स्वसुः चेतसि तदीयः उपदेशः दिवाकरादर्शनबद्ध- कोशे अरविन्दे नक्षत्रनाथांशुः इव अन्तरं न लेभे।

स्वसुरिति। विदर्भाधिपतेर्भोजस्य स्वसुरिन्दुमत्यश्चेतसि तदीयः सुनन्दा- सम्बन्ध्युपदेशो वाक्यं दिवाकरस्य दर्शनेन बद्धकोशे मुकुलितेऽरविन्दे नक्षत्रनाथां- शुश्चन्द्रकिरण इव अन्तरमवकाशं न लेभे।

भाषार्थः—जिस प्रकार सूर्य के न देखने से बन्द होने वाले कमल में चन्द्रमा की किरणों को स्थान नहीं मिलता है उसी प्रकार सुनन्दा का उपदेश विदर्भ नरेश भोज की बहन इन्दुमती के हृदय में स्थान नहीं प्राप्त कर सका ॥ ६६ ॥

संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा। नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ॥ ६७ ॥

अन्वयः—पतिम्वरा सा रात्रौ सञ्चारिणी दीपशिखा इव यं यं व्यतीयाय सः सः भूमिपालः नरेन्द्रमार्गाट्टः इव विवर्णभावं प्रपेदे।

संचारिणीति। पतिंवरा सेन्दुमती रात्रौ सञ्चारिणी दीपशिखेव यं यं भूमि- पालं व्यतीयायातीत्य गता स स भूमिपालः। स सर्व इत्यर्थः। "नित्यवीप्सयोः' इति वीप्सायां द्विवंचनम्। नरेन्द्रमार्गे राजपथेऽट्टारूढ्यो गृहभेद इव। 'स्यादट्टः क्षोममस्त्रियाम्' इत्यमरः। विवर्णभावं विच्छायत्वम् अट्टस्तु तमोवृतत्वं प्रपेदे।

भाषार्थ—जिस तरह रात में आगे बढ़ने वाली दीपशिखा राजमार्ग में बने हुए जिस महल को पारकर जब आगे बढ़ जाती है तब वह महल अंधेरा व्याप्त हो जाने के कारण शोभारहित हो जाता है। उसी तरह पति को स्वयं वरण करने वाली वह इन्दुमती जिस-जिस राजा को छोड़कर आगे बढ़ती जाती थी वह राजा उदासीन होता जाता था ॥ ६७ ॥

तस्यां रघोः सूनुरुपस्थितायां वृणोत मां नेति समाकुलोऽभूत् । वामेतरः संशयमस्य बाहुः केयूरबन्धोच्छ्वसितैर्नु नोद ॥ ६८ ॥

अन्वयः—तस्यां उपस्थितायां सत्यां रघोः सूनुः माम् वृणीत न वा इति समा- कुलः अभूत् । अस्य वामेतरः बाहुः केयूरबन्धोच्छ्वसितैः संशयं नुनोद ।

तस्यामिति। तस्यामिन्दुमत्यमुपस्थितायामासन्नायां सत्यां रघोः सूनुरजौ मां वृणीत न वेति समाकुलः संशयितोऽभूत् । अथाजस्य वामेतरो वामादितरो

षष्ठः सर्गः १६७

दक्षिणो बाहुः केयूरं बध्यतेऽत्रेति केयूरबन्धोऽङ्गदस्थानं तस्योच्छ्वसितैः स्फुरणैः संशयं नुनोद ।

**भाषार्थ—**जब वह इन्दुमती रघु के पुत्र अज के पास आकर खड़ी हो गई तब उनका मन इसलिये व्याकुल हो उठा कि यह मुझे वरण करेगी या नहीं ? किन्तु उसी समय दक्षिण भुजा ने विजयमठ बांधने की जगह को फड़का कर उनके सन्देह को दूर कर दिया । शकुन शास्त्र के अनुसार दाहिनी भुजा फड़कने से स्त्री की प्राप्ति होती है अतः अब अज को सन्देह नहीं रहा ॥ ६८ ॥

तं प्राप्य सर्वावयवानवद्यं व्यावर्ततान्योपगमात्कुमारी ।
नहि प्रफुल्लं सहकारमेत्य वृक्षान्तरं काङ्क्षति षट्पदालीः ॥ ६६ ॥

**अन्वयः—**कुमारी सर्वावयवानवद्यं तं प्राप्य अन्योपगमात् व्यावर्तत हि षट्पदालीः प्रपुल्लं सहकारवृक्षम् एत्य वृक्षान्तरं नहि काङ्क्षति ।

तमिति। कुमारी सर्वेष्ववयवेष्वनवद्यमदोषं तमजं प्राप्य अन्योपगमाद्राजान्तरो पगमाद्वयावर्तत निवृत्ता । तथा–हि षट्पदालीः भृङ्गावलिः प्रफुल्लतीति प्रफुल्लं विकसितम् । पुष्पितमित्यर्थः । प्रपूर्वात्फुल्लतेः पचाद्यच् । फलतेस्तु प्रफुल्लमिति पठितव्यम् । "अनुपसर्गात् फुल्लक्षीवकृशांल्लाघा" इति निषेधात् इत्युभयथापि न कदाचिदनुपपत्तिरित्युक्तः प्राक् । सहकारं चूतावशेषमेत्य 'आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभ' इत्यमरः । वृक्षान्तरं न काङ्क्षति । नहि सर्वोत्कृष्टवस्तुलाभेऽपि वस्त्वन्तरस्याभिलाषः स्यादित्यर्थः ।

**भाषार्थ—**जिस प्रकार पुष्पित आम के वृक्ष को पाकर भ्रमर की पंक्ति दूसरे वृक्ष की चाह नहीं करती, उसी प्रकार सर्वांग सुन्दर उस अज को पाकर वह इन्दुमती दूसरे राजा के पास जाने से रुक गई ॥ ६९ ॥

तस्मिन्समावेशितचित्तवृत्तिमिन्दुप्रभामिन्दुमतीमवेक्ष्य ।
प्रचक्रमे वक्तुमनुक्रमज्ञा सविस्तरं वाक्यमिदं सुनन्दा ॥ ७० ॥

**अन्वयः—**अनुक्रमज्ञासुनन्दा इन्दुप्रभां इन्दुमतीं तस्मिन् समावेशितचित्तवृत्तिं अवेक्ष्य सविस्तरं इदं वाक्यं वक्तु प्रचक्रमे ।

तस्मिन्निति। तस्मिन्नजे समावेशिता संक्रामिता चित्तवृत्तिर्यया ताम् इन्दोः प्रभेव प्रभा यस्यास्ताम् आह्लादकत्वादिन्दुसाम्यम् । इन्दुमतीमवेक्ष्यानुक्रमज्ञा वाक्यपौर्वापर्याभिज्ञा सुनन्देदं वक्ष्यमाणं सविस्तरं सप्रपञ्चम् । "प्रथने वावशब्दे" इति घञो निषेधात् "ऋदोरप्" इत्यप्प्रत्ययः । 'विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः' इत्यमरः । वाक्यं वक्तुं प्रचक्रमे ।

१६८ रघुवंशमहाकाव्ये

**भाषार्थ—**बोलने का क्रम जाननेवाली सुनन्दा चन्द्रमा की कान्ति के समान सुन्दर कान्तिवाली इन्दुमती को अज में अनुरक्त जानकर विस्तारपूर्वक बात बनाती हुई बोली ॥ ७० ॥

इक्ष्वाकुवंशयः ककुदं नृपाणां ककुत्स्थ इत्याहितलक्षणोऽभूत् ।
काकुत्स्यशब्दं यत उन्नतेच्छाः श्लाघ्यं दधत्युत्तरकोसलेन्द्राः ॥ ७१ ॥

**अन्वयः—**इक्ष्वाकुवंशयः नृपाणां ककुदम् आहितलक्षणः ककुत्स्थः इति राजा अभूत्, यतः उन्नतेच्छाः उत्तरकोशलेन्द्राः श्लाघ्यं काकुत्स्यशब्दं, दधति ।

इक्ष्वाक्विति । इक्ष्वाकोर्मनुपुत्रस्य वंशयो वंशे भवः नृपाणां ककुदं श्रेष्ठः 'ककुच्च ककुदं श्रेष्ठे वृषांसे राजलक्ष्मणि' इति विश्वः। आहितलक्षणः प्रख्यातगुणः । 'गुणैः प्रतीते तु कृतलक्षणाहितलक्षणो' इत्यमरः । ककुदि वृषांसे तिष्ठतीति ककुत्स्थ इति प्रसिद्धः कश्चिद्राजाऽभूत् । यतः ककुत्स्थादारभ्योन्नतेच्छा महाशयाः। 'महेच्छस्तु महाशयः' इत्यमरः । उत्तरकोसलेन्द्रा राजानो दिलीपादयः श्लाघ्यं प्रशस्तं ककुत्स्थस्यापत्यं पुमान्काकुत्स्य इति शब्दां संज्ञां दधति बिभ्रति । तन्नामसंस्पर्शोऽपि वंशस्य कीर्तिकर इति भावः । पुरा किल पुरञ्जयो नाम साक्षाद्भगवतो विष्णोरंशावतारः कश्चिदिक्ष्वाको राजा देवैः सह समयबन्धेन देवासुरयुद्धे महोक्षरूपधारिणो महेन्द्रस्य ककुदि स्थित्वा पिनाकिलीलया निखिलमसुरकुलं निहत्य ककुत्स्थसंज्ञां लेभे इति पौराणिकी कथानुसंधेया । वक्ष्यते चायमेवार्थे उत्तरश्लोके ।

**भाषार्थ—**इक्ष्वाकु के वंश में उत्पन्न राजाओं में श्रेष्ठ प्रख्यातगुणशाली एक ककुत्स्थ नाम के राजा हो गये हैं जिनके कारण उत्तर कोशल के सभी राजा प्रसिद्धि की इच्छा से अपने को काकुत्स्थ कहते आये हैं ॥ ७१ ॥

महेन्द्रमास्थाय महोक्षरूपं यः संयति प्राप्तपिनाकिलीलः ।
चकार बाणैरसुराङ्गनानां गण्डस्थलीः प्रोषितपत्रलेखाः ॥ ७२ ॥

**अन्वयः—**यः प्राप्तपिनाकिलीलः सन् महोक्षरूपं महेन्द्रम् आस्थाय संयति बाणैः असुराङ्गनानां गण्डस्थलीः प्रोषितपत्रलेखाः चकार।

महेन्द्रमिति । यः ककुत्स्थः संयति युद्धे महानुक्षा महोक्षः । "अचतुर०" इत्यादिना निपातः । तस्य रूपमिव रूपं यस्य तं महेन्द्रमास्थायारुह्य अत एव प्राप्ता पिनाकिन ईश्वरस्य लीला येन स तथोक्तः सन्बाणैरसुराङ्गनानां गण्डस्थलीः प्रोषितपत्रलेखा निवृत्तपत्ररचनाश्चकार । तद्भर्तॄनसुरानावधीदित्यर्थः । नहि विधवा प्रसाध्यन्त इति भावः ।

**भावार्थ—**जिस ककुत्स्थ राजा ने देवासुर संग्राम में बैल का रूप धारण किये

षष्ठः सर्गः १६६

हुए इन्द्र के ऊपर सवार होकर नन्दी पर चढ़े हुए शंकरजी की लीला को प्राप्त होकर अपने बाणों से असुरों का संहार कर दिया जिससे उनकी स्त्रियां विधवा होने के कारण अपने कपोलों पर पत्र रचना रूप शृङ्गार करना सदा के लिए छोड़ दिया ॥ ७२ ॥

ऐरावतास्फालनविशलथं यः संघट्टयन्नङ्गदमङ्गदेन । उपेयुषः स्वामपि मूर्तिमग्र्यामर्धासनं गोत्रभिदोऽधितष्ठौ ॥ ७३ ॥

अन्वयः— यः ऐरावताऽऽस्फालनविशलथम् अङ्गदम् अङ्गदेन संघट्टयन् स्वाम् अग्र्यां मूर्तिम् उपेयुषः अपि गोत्रभिदः अर्धासनम् अधितष्ठौ ।

ऐरावतेति । यः ककुत्स्थ ऐरावतस्य स्वर्गजस्यास्फालनेन ताडनेन विश्लथं शिथिलमङ्गदमैन्द्रमङ्गदेन स्वकीयेन संघट्टयन्·संघर्षयन्स्वामग्र्यां श्रेष्ठां मूर्त्तिमुपेयुषोऽपि प्राप्तस्यापि गोत्रभिद इन्द्रस्यार्धमासनमर्धासनम् । "अर्धं नपुंसकम्" इति समासः । अधितष्ठावधितिष्ठवान् । "स्यादिष्वभ्यासेन चाभ्यासस्य" इत्यभ्यासेन व्यववायेऽपि षत्वम् । न केवलं महोक्षरूपधारिण एव तस्य ककुदमारुक्षत् किन्तु निजरूपधारिणोऽपीन्द्रस्यार्धासनमित्यपिशब्दार्थः । अथवा अर्धासनमपीत्यपेरन्वयः ।

भाषार्थं— जो ककुत्स्थ राजा संग्राम समाप्त हो जाने पर जब इन्द्र अपना असली रूप धारण करके ऐरावत पर सवार होकर स्वर्ग में जाकर सिंहासन पर बैठे, तब ऐरावत को बारबार हांकने से इन्द्र का जो विजावठ ढीला पड़ गया था उसे अपने विजावट से रगड़ता हुआ अपने ही श्रेष्ठ मूर्ति को प्राप्त किये हुए इन्द्र के आधे आसन पर बैठे ॥ ७३ ॥

जातः कुले तस्य किलोरुकीर्तिः कुलप्रदीपो नृपतिर्दिलीपः । अतिष्ठदेकोनशतक्रतुत्वे शक्राभ्यसूयाविनिवृत्तये यः ॥ ७४ ॥

अन्वयः— उरुकीर्तिः कुलप्रदीपः नृपतिः दिलीपः तस्य कुले जातः किल यः शक्राभ्यसूयाविनिवृत्तये एकोनशतक्रतुत्वे अतिष्ठत् ।

जात इति । उरुकीर्त्तिर्महायशाः कुलप्रदीपो वंशदीपको दिलीपो नृपतिस्तस्य ककुत्स्थस्य कुले जातः किल । यो दिलीपः शक्राभ्यसूयाविनिवृत्तये न त्वशक्त्येति भावः । एकेनोनाः शतं क्रतवो यस्य स एकोनशतक्रतुः तस्य भावे तत्त्वेऽतिष्ठत् । इन्द्रप्रीतये शततमं क्रतुमवशेषितवानित्यर्थः ।

भाषार्थ— उस ककुत्स्थ राजा के वंश में महायशस्वी कुलदीपक दिलीप नाम के राजा उत्पन्न हुए थे जो इन्द्र की डाह को दूर करने के लिए निन्यानवे अश्वमेध यज्ञ करके ही रुक गये सौवां यज्ञ पूर्ण नहीं किये ॥ ७४ ॥

२०० रघुवंशमहाकाव्ये

यस्मिन्महीं शासति वाणिनीनां निद्रां विहाराधंपथे गतानाम् ।
वातोऽपि नास्रंसयदंशुकानि को लम्बयेदाहरणाय हस्तम् ॥ ७५ ॥

अन्वयः—यस्मिन् महीं शासति सति विहाराधंपथे निद्रां गतानां वाणिनीनाम् अंशुकानि वातः अपि न अस्रंसयत् आहरणाय हस्तं कः लम्बयेत् ।

यस्मिन्निति । यस्मिन्दिलीपे महीं शासति सति विहरत्यत्रेति विहार क्रीडा-स्थानम् तस्यार्धंपथे निद्रां गतानां - वाणिनीनां मत्ताङ्गनाताम् । 'वाणिनी नर्तकी मत्ताविदग्धवनितासु च" इति विश्वः । 'वाणिन्यो नर्तकीदूत्यो' इत्यमरश्च । अंशुकानि वस्त्राणि वातोऽपि नास्रंसयन्नाकम्पयत् आहरणायोपहर्तुं को हस्तं लम्बयेत् तस्याज्ञासिद्धत्वादकुतोभयसंचाराः प्रजा इत्यर्थः । अर्धञ्चासौ पन्थाश्चेति विग्रहः । समप्रविभागे प्रमाणाभावान्नै कदेशिसमासः ।

भावार्थ—जिस राजा दिलीप के शासन करते समय क्रीडा स्थान में मद पीकर सोई स्त्रियों के वस्त्रों को वायु भी नहीं छू सकता था तो फिर दूसरा कौन पुरुष उन्हें छूने के लिए हाथ बढ़ा सकता है ॥ ७५ ॥

पुत्रो रघुस्तस्य पदं प्रशास्ति महाक्रतोर्विश्वजितः प्रयोक्ता ।
चतुर्दिगावर्जितसंभृतां यो मृत्पात्रशेषामकरोद्विभूतिम् ॥ ७६ ॥

अन्वयः—विश्वजितः महाक्रतोः प्रयोक्ता तस्य पुत्रः रघुः पदं प्रशास्ति यः चतुर्दिगावर्जितसम्भृतां विभूतिं मृत्पात्रशेषाम् अकरोत् ।

पुत्र इति । विश्वजितो नाम महाक्रतोः प्रयोक्ताऽनुष्ठाता तस्य दिलीपस्य पुत्रो रघुः पदं पैत्र्यमेव प्रशास्ति पालयति । यो रघुश्चतसृभ्यो दिग्भ्य आर्वाजिताऽऽहृता संभृता सम्यग्वर्धिता च या तां चतुर्दिगावर्जितसंभृतां विभूतिं सम्पदं मृत्पात्रमेव शेषो यस्यास्तामकरोत् । विश्वजिद्यागस्य सर्वस्वदक्षिणकत्वादित्यर्थः ।

भावार्थ—उन्हीं के पुत्र रघु उनके बाद राजा हुए हैं जिन्होंने चारों दिशाओं को जीतकर इकट्ठा किया हुआ अपार धनराशि विश्वजित नामक यज्ञ में ब्राह्मणों को दान देकर अपने पास केवल मिट्टी के पात्र को ही शेष रखा था ॥ ७६ ॥

आरूढमद्रीनुदधीन्वितीर्णं भुजङ्गमानां वसतिं प्रविष्टम्।
ऊर्ध्वं गतं यस्य न चानुबन्धि यशः परिच्छेत्तुमियत्तयाऽलम् ॥ ७७ ॥

अन्वयः—अद्रीन् आरूढम् उदधीन् वितीर्णं भुजङ्गमानां वसतिं प्रविष्टम् ऊर्ध्वं गतम् अनुबन्धि च यस्य यशः इयत्तया परिच्छेत्तुम् अलं न अस्ति ।

आरूढमिति—किं च अद्रीना रूढम् उदधीन्वितीर्णमवगाढम् सकलभूगोलव्यापक-

षष्ठः सर्गः २०१

षष्ठः सर्गः २०१

मित्यर्थः । भुजङ्गमानां वसतिं पातालं प्रविष्टम् ऊर्ध्वं स्वर्गादिकं गतं व्याप्तम् । इत्थं सर्वदिग्व्यापीत्यर्थः । अनुबध्नातीत्यनुबन्धि चाविच्छेदि कालत्रयव्यापकं चेत्यर्थः । अत एवैवंभूतं यस्य यश इयत्तया देशतः कालतो वा केनचिज्ज्ञानेन परिच्छेतुं परिमातुं नालं न शक्यम् ।

**भाषार्थ—**पर्वतों तक पहुँचा हुआ, समुद्रों के पार गया हुआ, नागलोक से भी व्याप्त हुआ, स्वर्गादिलोंकों में फैला हुआ और अविच्छन्न रूप से सर्वत्र व्याप्त जिस रघु के यश की कोई इयत्ता नहीं कर सकता है ॥ ७७ ॥

असौ कुमारस्तमजोऽनुजातस्त्रिविष्टपस्येव पतिं जयन्तः । गुर्वी धुरं यो भुवनस्य पित्रा धुर्येण दम्यः सदृशं बिभर्ति ॥ ७८ ॥

**अन्वयः—**असौ कुमारः अजः त्रिविष्टपस्य पतिं जयन्तः इव तम् अनुजातः दम्यः यः भुवनस्य गुर्वी धुरं धुर्येण पित्रा सदृशं बिभर्ति ।

असाविति । असावजाख्यः कुमारः त्रिविष्टपस्य स्वर्गस्य पतिमिन्द्रं जयन्त इव । ‘जयन्तः पाकशासनिर’ इत्यमरः । तं रघुमनुजातः तस्माज्जात इत्यर्थः । तज्जातोऽपि तदनुजातो भवति जन्यजनकयोरानन्तर्यात् । “गत्यर्थाकर्मकश्लिष-शीङ्स्थासवसज्जनरुहजीर्यतिभ्यश्च” इति क्तः । सोपसृष्टत्वात्सकर्मकत्वम् । आह चात्रैव सूत्रे वृत्तिकारः—“श्लिषादयः सोपसृष्टाः सकर्मका भवन्ति” इति । दम्यः शिक्षणीयावस्थः योऽजो गुर्वी भुवनस्य धुरं धुर्येण धुरंधरेण चिरनिरूढेन पित्रा सदृशं तुल्यं यथा तथा बिभर्ति । यथा कश्चिद्वत्सतरीऽपि धर्मेण महोक्षेण समं वहतीत्युपमालङ्कारो ध्वन्यते । ‘दम्यवत्सतरौ समौ’ इत्यमरः ।

**भाषार्थ—**ये कुमार अज स्वर्ग के स्वामी इन्द्र से जयन्त के समान उस महाराज रघु से उत्पन्न हुए हैं और ये भी अपने प्रतापी पिता के सामान राज्य का सब काम सम्भालते हैं ॥ ७८ ॥

कुलेन कान्त्या वयसा नवेन गुणैश्च तैस्तैर्विनयप्रधानैः । त्वमात्मनस्तुल्यममुं वृणीष्व रत्नं समागच्छतु काञ्चनेन ॥ ७९ ॥

**अन्वयः—**कुलेन कान्त्या नवेन वयसा विनयप्रधानैः तैस्तैः गुणैः आत्मनः तुल्यम् अमुं त्वं वृणीष्व, रत्नं काञ्चनेन समागच्छतु ।

कुलेनेति । कुलेन कान्त्या लावण्येन नवेन वयसा यौवनेन विनयः प्रधानं येषां तैस्तैर्गुणैः श्रुतशीलादिभिश्चात्मस्तुल्यं स्वानुरूपममुमजं त्वं वृणीष्व किं बहुना रत्नं काञ्चनेन समागच्छतु संगच्छताम् । प्रार्थनायां रत्नकाञ्चनयोरिवात्यन्तानुरूपत्वायुवयोः समांगमः प्रार्थ्यंत इत्यर्थः ।

२०२ रघुवंशमहाकाव्ये

भाषार्थ—कुल से सौन्दर्य से नई युवावस्था से और विनय, दया, दाक्षिण्य, शील, शक्ति आदि सद्गुणों से ये तुम्हारे अनुरूप हैं इसलिये तुम इन्हें वरण करो जिससे सुवर्ण का रत्न के साथ मेल हो जाय । क्योंकि रत्न की शोभा उसके अनुरूप सुवर्ण से ही होती है दूसरे से नहीं ॥ ७९ ॥

ततः सुनन्दावचनावसाने लज्जां तनूकृत्य नरेन्द्रकन्या । दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत्संवरणस्रजेव ॥ ८० ॥

अन्वयः—ततः सुनन्दावचनावसाने नरेन्द्रकन्या लज्जां तनूकृत्य प्रसादामलया दृष्ट्या संवरणस्रजा इव कुमारं प्रत्यग्रहीत् ।

तत इति । ततः सुनन्दावचनस्यावासानेऽन्ते नरेन्द्रकन्येन्दुमती लज्जां तनूकृत्य संकोच्य प्रसादेन मनः प्रसादेनामलया प्रसन्नया दृष्ट्या संवरणस्य स्रजा स्वयंवर-णार्थं स्रजेव कुमारमजं प्रत्यग्रहीत्स्वीचकार । सम्यक्सानुरागमपश्यदित्यर्थः ।

भाषार्थ—इस प्रकार सुनन्दा के कहने के बाद राजकुमारी इन्दुमती ने संकोच छोड़कर प्रेम भरी दृष्टि से देखकर अज को स्वीकार कर लिया, मानो वह दृष्टि ही स्वयंवर की माला हो ॥ ८० ॥

सा यूनि तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्तुम् । रोमाञ्चलक्ष्येण स गात्रयष्टिं भित्त्वा निराक्रामदरालकेश्याः ॥ ८१ ॥

अन्वयः—सा यूनि तस्मिन् अभिलाषबन्धं शालीनतया वक्तुं न शशाक, तथापि अरालकेश्याः सः रोमाञ्चलक्ष्येण गात्रयष्टिं भित्त्वा निराक्रामत् ।

सेति । सा कुमारी यूनि तस्मिन्नजेऽभिलाषबन्धमनुरागग्रन्थि शालीनतयाऽधृष्टतया । 'स्यादधृष्टस्तु शालीनः' इत्यमरः । ''शालीनकौपीने अधृष्टाकार्ययोः'' इति निपातः । वक्तुं न शशाक तथाप्यरालकेश्याः सोऽभिलाषबन्धो रोमाञ्चलक्ष्येण पुलकव्याजेन । 'व्याजाऽपदेशो लक्ष्यं च' इत्यमरः । गात्रयष्टिं भित्त्वा निराक्रामत् सात्त्विकाविर्भावलिङ्गेन प्रकाशित इत्यर्थः ।

भाषार्थ—वह कुमारी इन्दुमती उस युवक अज विषयक अपने अनुराग को धृष्ट न होने के कारण वाणी से प्रगट तो नहीं कर सकी, पर घुँघराले बालवाली उस इन्दुमती के हृदय का वह अनुराग छिपाने पर भी नहीं छिप सका, रोमाञ्च के बहाने बाहर आ ही गया ॥ ८१ ॥

तथागतायां परिहासपूर्वं सख्यां सखी वेत्रभृदाबभाषे । आर्ये व्रजामोऽन्यत इत्यथैनां वधूरसूयाकुटिलं ददर्श ॥ ८२ ॥

षष्ठः सर्गः २०३

षष्ठः सर्गः २०३

**अन्वयः—**सख्यां तथागतायां ( सत्यां ) सखी, वेत्रभृत्, हे आर्ये ? (वयम्) अन्यतः व्रजामः इति परिहासपूर्वम्, आवभाषे अथ वधूः एनाम्, असूयाकुटिलम् ददर्श ।

तथेति । सख्यामिन्दुमत्यं तथागतायां तथाभूतायां दृष्टानुरागायां सत्यामित्यर्थः । सखी सहचरी । "सख्यशिश्वीति भाषायाम्” इति निपातनान्ङीष् । वेत्रभृत्सुनन्दा हे आर्ये पूज्ये । अन्यतोऽन्यं प्रति व्रजाम इति परिहासपूर्वमाबभाषे । अथ वधूरिन्दुमत्येनां सुनन्दामसूयया रोषेण ददर्श अन्यागमनस्यासह्यत्वादित्यर्थः ।

**भाषार्थ—**अज में इन्दुमती को इस प्रकार अनुरक्त जानकर द्वारपालिका इन्दुमती परिहास की दृष्टि से कहने लगी—आयें ! आगे बढ़िए। दूसरे राजा के पास चलें, इस पर उस राजकुमारी ने उसे असूयापूर्वक कुटिल दृष्टि से देखा ॥८२॥

सा चूर्णगौरं रघुनन्दनस्य धात्रीकराभ्यां करभोपमोरुः ।
आसञ्जयामास यथाप्रदेशं कण्ठे गुणं मूर्त्तमिवानुरागम् ॥ ८३ ॥

**अन्वयः—**करभोपमोरुः सा चूर्णगौरं गुणं मूर्त्तम् अनुरागम् इव धात्रीकराभ्यां रघुनन्दनस्य कण्ठे यथाप्रदेशम् आसञ्जयामास ।

सेति । करभः करप्रदेशविशेषः । 'मणिबन्धादाकनिष्ठं करस्य करभो बहिः' इत्यमरः । करभ उपमा ययोस्तावूरू यस्याः सा करभोपमोरूः । "ऊरूत्तरपदादौपम्ये” इत्यूङ्प्रत्ययः । सा कुमारी चूर्णेन मङ्गलचूर्णेन गौरं लोहितं गुणं स्रजां मूर्त्तं मूर्तिमन्तमनुरागमिव धात्र्या उपमातुः सुनन्दायाः कराभ्यां रघुनन्दनस्याजस्य कण्ठे यथाप्रदेशं यथास्थानमासञ्जयामासासक्तं कारयामास । न तु स्वयमाससञ्ज अनौचित्यात् ।

**भाषार्थ—**करभ के समान जंघावाली उस इन्दुमती ने मंगल चूर्ण से लाल रंगवाली स्वयंवर की माला को सुनन्दा के हाथों से रघु के पुत्र अज के गले में पहनवा दिया । वह माला उस समय ऐसी मालूम पड़ती थी कि मानों इन्दुमती ने अपना साक्षात् मूर्तिमान् अनुराग ही अज के ऊपर न्योछावर कर दिया हो ॥ ८३ ॥

तया स्रजा मङ्गलपुष्पमय्या विशालवक्षःस्थललम्बया सः ।
अमंस्त कण्ठार्पितबाहुपाशां विदर्भराजावरजां वरेण्यः ॥ ८४ ॥

**अन्वयः—**वरेण्यः सः मङ्गलपुष्पमय्या विशालवक्षःस्थललम्बया तया स्रजा विदर्भराजावरजां कण्ठार्पितबाहुपाशाम् अमंस्त ।

तयेति । वरेण्यो वरणीय उत्कृष्टः । वृञ एण्यः । सोऽजो मङ्गलपुष्पमय्या

२०४ रघुवंशमहाकाव्ये

मधूकादिकुसुममया विशालवक्षःस्थले लम्बया लम्बमानया तया प्रकृतया स्रजा विदर्भराजावरजामिन्दुमतीं कण्ठर्पितौ बाहू एव पाशौ यया ताममंस्त मन्यतेर्लुङ् । बाहुपाशकल्पसुखमन्वभूदित्यर्थः ।

भाषार्थ—मंगलमय पुष्पों से बनी हुई और अपने वक्षःस्थल पर लटकती हुई उस माला को धारण करके अज को ऐसा मालूम होने लगा कि मानों आलिंगन करने के लिए विदर्भ राज भोज की छोटी बहन इन्दुमती ने उनके गले में अपनी भुजायें डाल दी हों ॥ ८४ ॥

शशिनमुपगतेयं कौमुदी मेघमुक्तं
जलनिधिमनुरूपं जह्नुकन्यावतीर्णा ।
इति समगुणयोगप्रीतयस्तत्र पौराः
श्रवणकटु नृपाणामेकवाक्यं विवव्रुः ॥ ८५ ॥

अन्वयः—तत्र समगुणयोगप्रीतयः पौराः इयं मेघमुक्तं शशिनम् उपगता कौमुदी इव अनुरूपं जलनिधिम् अवतीर्णा जह्नुकन्या इव इति नृपाणां श्रवणकटु एकवाक्यं विवव्रुः ।

शशिनमिति । तत्र स्वयंवरे समगुणयोस्तुल्यगुणयोरिन्दुमतीरघुनन्दनयोर्योगेन प्रीतिर्येषां ते समगुणयोगप्रीतयः पौराः पुरे भवा जनाः इयमजसंगतेन्दुमती मेघमुक्तं शशिनं शरच्चन्द्रमुपगता कौमुदी अनुरूपं सदृशं जलनिधिमवतीर्णा प्रविष्टा जह्नुकन्या भागीरथी तत्सदृशीत्यर्थः । इत्येवं नृपाणां श्रवणयोः कटु परुषमेकमवि-संवादि वाक्यमेकवाक्यं विवव्रुः । मालिनीवृत्तम् ।

भाषार्थ—उस स्वयंवर में उन दोनों समान गुणवालों के सम्बन्ध हो जाने से प्रसन्न होकर पुरवासी एक स्वर से प्रशंसा करते हुए कहने लगे कि यह इन्दुमती मेघमुक्त निर्मल चन्द्रमा को प्राप्त चांदनी और अनुरूप समुद्र को प्राप्त गंगा के समान सौभाग्यवती हो गई । पर यह सुनकर अन्य राजाओं को बड़ा कड़ुआ लगता था ॥ ८५ ॥

प्रमुदितवरपक्षमेकतस्तत्क्षितिपतिमण्डलमन्यतो वितानम् ।
उषसि सर इव प्रफुल्लपद्मं कुमुदवनप्रतिपन्ननिद्रमासीत् ॥ ८६ ॥

अन्वयः—एकतः प्रमुदितवरपक्षम् अन्यतः वितानं तत् क्षितिपतिमण्डलम् उषसि प्रफुल्लपद्मं कुमुदवनप्रतिपन्ननिद्रं सर इव आसीत् ।

प्रमुदितेति । एकत एकत्र प्रमुदितो हृष्टो वरस्य जामातुः पक्षो वर्गो यस्य त्तत्तथोक्तम् । अन्यतोऽन्यत्र वितानं शून्यं भग्ननाशत्वादप्रहृष्टमित्यर्थः । तत्क्षितिपति-

सप्तमः सर्गः२०५

मण्डलं उषसि प्रभाते प्रफुल्लपद्मं कुमुदवनेन प्रतिपन्ननिद्रं प्राप्तनिमीलनं सर इव सरस्तुल्यम् आसीत् । पुष्पिताग्रावृत्तमेतत् ।

इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीवनीसमाख्यया व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये स्वयंवरवर्णनो नाम षष्ठः सर्गः ॥ ६ ॥

भावार्थ—उस समय वह स्वयम्बर मण्डप सुबह में उस सरोवर के समान लगने लगा जिसमें एक ओर तो खिले हुए कमल दिखाई दे रहे हों और दूसरी ओर संकुचित कुमुदों का समूह मौजूद हो । क्योंकि एक ओर अज के समर्थक व्यक्ति हँसते हुए खड़े थे दूसरी ओर इन्दुमती को न पाने से निराश होकर अप्रसन्न ( उदासीन ) राजा लोग थे ॥ ८६ ॥

यह त्रिपाठ्युपाव्ह पं० श्रीकृष्णमणि शास्त्री द्वारा लिखित अन्वय और चन्द्रकला नाम की हिन्दी टीका में रघुवंशमहाकाव्य का स्वयम्बरवर्णन नामक षष्ठ सर्ग समाप्त हुआ ।

❋ ❋ ❋

सप्तमः सर्गः

अजेमहि निपौयकं मुहुरन्यं पयोधरम् ।
मार्गन्तं बालमालोक्याश्वासयन्तौ हि दम्पती ॥

अथोपयन्त्रा सदृशेन युक्तां स्कन्देन साक्षादिव देवसेनाम् ।
स्वसारमादाय विदर्भनाथः पुरप्रवेशाभिमुखो बभूव ॥ १ ॥

अन्वयः—अथ विदर्भनाथः सदृशेन उपयन्त्रा युक्तां साक्षात् स्कन्देन (युक्तां) देवसेनाम् इव, (स्थितां) स्वसारम् पुरप्रवेशाभिमुखः बभूव ।

अथेति । अथ विदर्भनाथो भोजः सदृशेनोपयन्त्री वरेण युक्ताम् अत एव साक्षात्प्रत्यक्षम् । 'साक्षात्प्रत्यक्षतुल्ययोः' इत्यमरः । स्कन्देन युक्तां देवसेनामित्र देवसेना नाम देवपुत्री स्कन्दपत्नी । पूर्वं हि ब्रह्मणा निर्मिते देवसेनादैत्यसेने इन्द्र- * कन्येऽभूतां तयोः पूर्वस्याः पतित्वे स्कन्दोऽभिषिक्त इत्यागमः । तामिव स्थितां स्वसारं भगिनीमिन्दुमतीमादाय गृहीत्वा पुरप्रवेशाभिमुखो बभूव । उपजातिवृत्तं सर्गेऽस्मिन् ।

२०६ रघुवंशमहाकाव्ये

भावार्थ—स्वयंवर हो चुकने के बाद, विदर्भ देश के राजा योग्य वर से युक्त अपनी बहन इन्दुमती को लेकर नगर की ओर चले। अपनी पत्नी इन्दुमती के साथ जाते हुए अज ऐसे चल रहे थे मानों देवसेना के साथ साक्षात् स्कन्द जा रहे हों ॥ १ ॥

सेनानिवेशात्पृथिवीक्षितोऽपि जग्मुर्विभातग्रहमन्दभासः । भोज्यां प्रति व्यर्थमनोरथत्वाद्रूपेषु वेषेषु च साभ्यसूयाः ॥ २ ॥

अन्वयः—विभातग्रहमन्दभासः पृथिवीक्षितः अपि भोज्यां प्रति व्यर्थमनोरथत्वात् रूपेषु वेषेषु च साभ्यसूया सन्तः सेनानिवशान् जग्मुः ।

सेनेति भोजस्य राज्ञो गोत्रापत्यं स्त्री भोज्या तामिन्दुमतीं प्रति व्यर्थमनोरथत्वाद्रूपेष्वाकृति वेषेषु नेपथ्येषु च साभ्यसूया वृथेति निन्दन्तः किञ्च विभाते प्रातःकाले ये ग्रहाश्चन्द्रादयस्त इव मन्दभासः क्षीणकान्तयः पृथिवीक्षितो नृपा अपि सेनानिवेशाञ्छिविराणि जग्मुः ।

भावार्थ—इन्दुमती के प्रति असफल मनोरथ होने के कारण प्रातःकालीन नक्षत्रों के समान फीके पड़े हुए अपने-अपने रूप और वेशभूषा पर ग्लानि करते हुए अज के अतिरिक्त राजा लोग अपने-अपने शिविरों में गये ॥ २ ॥

ननु क्रुद्धाश्चेद्युध्यन्तां तत्राह—

सान्निध्ययोगात्किल तत्र शच्याः स्वयंवरक्षोभकृतामभावः । काकुत्स्यमुद्दिश्य समत्सरोऽपि शशाम तेन क्षितिपाललोकः ॥ ३ ॥

अन्वयः—तत्र शच्याः सान्निध्ययोगात् स्वयम्बरक्षोभकृताम् अभावः (बभूव) किल तेन काकुत्स्थम् उद्दिश्य समत्सरः अपि क्षितिपाललोकः शशाम ।

सान्निध्येति । तत्र स्वयंवरक्षेत्रे शच्या इन्द्राण्याः सन्निधिरेव सान्निध्यम् । तस्य योगात्सद्भावाद्धेतोः स्वयंवरस्य क्षोभकृतां विघ्नकारिणामभावः किल । किलेति स्वयंवरविघातकाः शच्या विनाश्यन्त इत्यागमसूचनार्थम् । तेन हेतुना काकुत्स्थमजमुद्दिश्य समत्सरोऽपि सवैरोऽपि क्षितिपाललोकः शशाम नाक्षुभ्यत् ।

भावार्थ—उस स्वयंम्बर स्थल में इन्द्राणी स्वयं उपस्थित थीं इसलिए किसी का साहस नहीं हुआ कि कोई गड़बड़ी कर सके । इसलिए अज से ईर्ष्या करने वाले राजा लोग भी शान्त रहे ॥ ३ ॥

तावत्प्रकीर्णाभिनवोपचारमिन्द्रायुधद्योतिततोरणाङ्कम् । वरः स वध्वा सह राजमागं प्राप ध्वजच्छायनिवारितोष्णम् ।। ४ ।।

सप्तमः सर्गः २०७

सप्तमः सर्गः २०७

अन्वयः— सः वरः वध्वा सह तावत् प्रकीर्णाभिनवोपचारम् इन्द्रायुधद्योतिततोरणाङ्कं ध्वजच्छायनिवारितोष्णम् राजमार्गं प्राप।

तावदिति। 'यावत्तावच्च साकल्ये इत्यमरः' । तावत्प्रकीर्णाः साकल्येन प्रसारिता अभिनवा नूतना उपचारः पुष्पप्रकरादयो यस्य तं तथोक्तम् इन्द्रायुधानीव द्योतितानि प्रकाशितानि तोरणान्यङ्काश्चिह्नानि यस्य तम् । ध्वजानां छाया ध्वजच्छायम् । "छाया बाहुल्ये" इति नपुंसकत्वम् । तेन निवारित उष्ण आतपो यत्र तं तथा राजमार्गं स वरोवोढा वध्वा सह प्राप विवेश ।

भाषार्थ— वह अज अपनी पत्नी इन्दुमती के साथ उस मुख्य राजमार्ग पर पहुँचे जहाँ स्थान २ पर नये २ सुन्दर फूल उन पर बरसाये जा रहे थे इन्द्रधनुष के समान रंग विरंग के तोरण उनके सत्कार के लिए सजाये गये थे और वहीं इतनी झंडियां ध्वजा पताका आदि लगाई गई थी कि धूप भी नहीं मालूम पड़ती थी ॥ ४ ॥

ततस्तदालोकनतत्पराणां सौधेषु चामीकरजालवत्सु ।
बभूवुरित्थं पुरसुन्दरीणां त्यक्तान्यकार्याणि विचेष्टितानि ॥ ५ ॥

अन्वयः— ततः चामीकरजालवत्सु सौधेषु तदलोकनतत्पराणां पुरसुन्दरीणाम् इत्थं त्यक्तान्यकार्याणि विचेष्टितानि बभूवुः ।

तत इति। ततस्तदनन्तरं चामीकरजालवत्सु सौवर्णगवाक्षयुक्तेषु सौधेषु तस्याजस्यालोकने तत्पराणामासक्तानां पुरसुन्दरीणामित्थं वक्ष्यमाणप्रकाराणि त्यक्तान्यान्यकार्याणि केशबन्धनादीनि येषु तानि विचेष्टितानि व्यापाराः । नपुंसके भावे क्तः । बभूवुः ।

भाषार्थ— इसके बाद अज को देखने के लिए नगर की सुन्दरियां अपना २ काम छोड़कर महल में सुनहले झरोखों की ओर दौड़ पड़ीं ॥ ५ ॥

तान्येवाह पञ्चभिः श्लोकैः—

आलोकमार्गं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः ।
बद्धुं न सम्भावित एव तावत्करेण रुद्धोऽपि च केशपाशः ॥ ६ ॥

अन्वयः— सहसा आलोकमार्गं व्रजन्त्या कयाचित् उद्वेष्टनवान्तमाल्यः करेण रुद्धः अपि केशपाशः तावत् बद्धुं न एव सम्भावितः ।

आलोकेति। सहसाऽलोकमार्गं गवाक्षपथं व्रजन्त्या कयाचित्कामिन्योद्वेष्टनवान्तमाल्यः उद्वेष्टनो द्रुतगतिवशादुन्मुक्तबन्धनः अत एव वान्तमाल्यो बन्धविश्लेषेणोद्गीर्णमाल्यः करेण रुद्धो गृहीतोऽपि च केशपाशः केशकलापः । 'पाशः पक्षश्च

२०८ | रघुवंशमहाकाव्ये

हस्तश्च कलापार्थाः कचात्परे' इत्यमरः। तावदालोकमागंप्राप्तिपर्यन्तं बद्धं बन्धनार्थं न सम्भावितो न चिन्तित एव।

**भाषार्थ—**अज को देखने के लिए झरोखों पर शीघ्रता से जाती हुई किसी स्त्री का केश खुल गया, जल्दी में जूड़ा बांधने की भी उसे सूधि नहीं रही। वह उसे हाथ में पकड़े ही खिड़की पर पहुँच गई। केश पाश ढीले पड़ जाने से उसमें गूंथे हुए पुष्प बराबर नीचे गिरते जाते थे ॥ ६ ॥

प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्द्रवरागमेव ।
उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्कां पदवीं ततान ॥ ७ ॥

**अन्वयः—**काचित् प्रसाधिकालम्बितं द्रवरागं एव अग्रपादम् आक्षिप्य उत्सृष्ट लीलागतिः सती आगवाक्षात् अलक्तकाङ्कां पदवीं ततान ।

प्रसाधिकेति । काचित् प्रसाधिकयालङ्कर्त्र्या लम्बितं रञ्जनार्थं धृतं द्रवरागमेवार्द्रालक्तकमेव अग्रश्चासौ पादश्चेत्यग्रपाद इति कर्मधारयसमासः । "हस्ताग्राग्रहस्यादयो गुणगुणिनोर्भेदाभेदाभ्याम्" इति वामनः । तमाक्षिप्याकृष्य उत्सृष्टलीलागतिस्त्यक्तमन्दगमना सती आगवाक्षाद्गवाक्षपर्यन्तं पदवीं पन्थानमलक्तकाङ्कां लाक्षारागचिह्नां ततान विस्तारयामास ।

**भाषार्थ—**एक स्त्री शृङ्गार करने वाली अपनी दासी से पैरों में महावर लगवा रही थी उसी समय अज के आने की कल-कल शब्द को सुनकर शृङ्गार करने वाली के हाथों से गीले महावर वाले पैरों को खींचकर झरोखे की ओर दौड़ पड़ी जिससे झरोखे तक उसके पैर के महावर का लाल २ चिह्न पड़ गया ।

विलोचनं दक्षिणमञ्जनेन सम्भाव्य तद्वञ्चितवामनेत्र ।
तथैव वातायनसन्निकर्षं ययौ शलाकामपरा वहन्ती ॥ ८ ॥

**अन्वयः—**अपरा दक्षिणं विलोचनं अञ्जनेन सम्भाव्य तद्वञ्चितवामनेत्रा सती तथा एव शलाकां वहन्ती वातायनसन्निकर्षं ययौ ।

विलोचनमिति । अपरा स्त्री दक्षिणं विलोचनमञ्जनेन सम्भाव्यालंकृत्य सम्भ्रमादिति भावः । तद्वञ्चितं तेनाञ्जनेन वर्जितं वामनेत्रं यस्याः सती तथैव शलाकां मञ्जनतूलिकां वहन्ती सती वातायनसन्निकर्षं गवाक्षसमीपं ययौ । दक्षिणग्रहणं संभ्रमाद्व्युत्क्रमकरणद्योतनार्थम् । सव्यं हि पूर्वं मनुष्या अञ्जते इति श्रुतेः ।

**भाषार्थ—**एक दूसरी स्त्री अपनी आंखों में अञ्जन लगा रही थी दाहिनी आँख में अञ्जन लगा कर अज को देखने की जल्दी में बाईं आँख में बिना अञ्जन लगाये ही हाथ में सलाई लिए हुए झरोखे के पास पहुँच गई ॥ ८ ॥

सप्तमः सर्गः २०६

सप्तमः सर्गः २०६

जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्नां न बबन्ध नीवीम् ।
नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाववलम्ब्य वासः ॥ ९ ॥

अन्वयः—अन्या जालान्तरप्रेषितदृष्टिः सती प्रस्थानभिन्नां नीवीं न बबन्ध, किन्तु नाभिप्रविष्टाभरणेन हस्तेन वासः अवलम्ब्य तस्थौ ।

जालेति । अन्या स्त्री जालान्तरप्रेषितदृष्टिर्गवाक्षमध्यप्रेरितदृष्टिः सती प्रस्थानेन गमनेन भिन्नां त्रुटितां नीवीं वसनग्रन्थिम् । 'नीवी परिपणे ग्रन्थौ स्त्रीणां जघनवाससि' इति विश्वः । न बबन्ध किन्तु नाभिप्रविष्टा आभरणानां कङ्कणादीनां प्रभा यस्य तेन प्रभैव नाभेराभरणमभूदिति भावः । हस्तेन वासोऽवलम्ब्य गृहीत्वा तस्थौ ।

भावार्थ—इसके अतिरिक्त कोई अन्य स्त्री झरोखे की ओर देखती हुई जल्दी से चल रही थी कि उसकी फुकनी खुल गई । उसे बिना बांधे ही हाथ से पकड़ कर खिड़की के पास जाकर खड़ी हो गई । हाथ के आभूषणों की चमक उसकी नाभी तक पहुँच रही थी ॥ ९ ॥

अर्धाञ्चिता सत्वरमुत्थितायाः पदे पदे दुर्निमिते गलन्ती ।
कस्याश्चिदासीद्रशना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा ॥ १० ॥

अन्वयः—सत्वरम् उत्थितायाः कस्याश्चित् अर्धाञ्चिता, दुर्निमिते पदे पदे गलन्ती रशना तदानीम् अङ्गुष्ठमूलार्पितसूत्रशेषा आसीत् ।

अर्धेति । सत्वरमुत्थितायाः कस्याश्चिदर्थाश्रिता मणिभिरर्धगुम्फिता दुर्निमिते सम्भ्रमादुदुरुत्क्षिप्ते । 'डुमिक्षेपणे' इति धातोः कर्मणि क्तः । पदे पदे प्रतिपदम् । वीप्सायां द्विर्भावः । गलन्ती गलद्रत्ना सती रशना मेखला तदानीं गमनसमयेऽङ्गुष्ठमूलेऽर्पितं सूत्रमेव शेषो यस्या साऽऽसीत् ।

भावार्थ—एक स्त्री बैठी हुई मणियों से करधनी गूँथ रही थी जिसका एक छोर उसने पैर के अँगूठे में बाँध रखा था । वह अभी आधी ही गूँथ पाई थी कि एका-एक उठकर अज को देखने के लिए झरोखे की ओर दौड़ पड़ी । उसका परिणाम यह हुआ कि झरोखे तक पहुँचते-पहुँचते मणि तो निकल कर इधर-उधर बिखर गये किन्तु केवल उसके अँगूठे में सूत बँधा रह गया ॥ १० ॥

तासां मुखैरासवगन्धगर्भैर्व्याप्तान्तराः सान्द्रकुतूहलानाम् ।
विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्रपत्राभरणा इवासन् ॥ ११ ॥

अन्वयः—सान्द्रकुतूहलानां तासां आसवगन्धगर्भैः विलोलनेत्रभ्रमरैः मुखैः व्याप्तान्तराः गवाक्षाः सहस्रपत्राभरणा इव आसन् ।

, १४ २० सम्पू०

२१०रघुवंशमहाकाव्ये

तासामिति। तदानीं सान्द्रकुतूहलानां तासां स्त्रीणामासवगन्धो गर्भे येषां तैः विलोलानि नेत्राण्येव भ्रमरा येषां तैः मुखैर्व्यासान्तराश्छन्नावकाशा गवाक्षाः सहस्रपत्राभरणा इव कमलाङ्कृत इव। 'सहस्रपत्रं कमलम्' इत्यमरः। आसन्।

भाषार्थ— मदिरा की सुगन्ध से वासित मुखवाली, झरोखों में उत्सुकता से झांकती हुई वे स्त्रियां ऐसी जान पड़ती थीं मानों झरोखों में बहुत से कमल सजे हुए हों और उन पर अनेक भौंरे बैठे हुए हों। अर्थात् उन स्त्रियों सुन्दर मुखो पर उनकी आंखें ऐसी मालूम पड़ती थीं जैसे कमल पर भौंरे बैठे हों।

ता राघवं दृष्टिभिरापिबन्त्यो नार्यो न जग्मुर्विषयान्तराणि ।
तथाहि शेषेन्द्रियवृत्तिरासां सर्वात्मना चक्षुरिव प्रविष्टा ॥ १२ ॥

अन्वयः— ताः नार्यः राघवं दृष्टिभिः आपिबन्त्यः 'सत्यः' विषयान्तराणि न जग्मुः, तथा हि आसां शेषेन्द्रियवृत्तिः सर्वात्मना चक्षुः प्रविष्टा इव ( बभूव )।

ता इति । ता नार्यो रघोरपत्यं राघवमजम्। “तस्यापत्यम्” इत्यण्प्रत्ययः। दृष्टिभिरापिबन्त्योऽपि तृष्णया पश्यन्त्यो विषयान्तराण्यान्विषयान्न जग्मुः न विविदुरित्यर्थः। तथाहि आसां नारीणां शेषेन्द्रियवृत्तिश्चक्षुर्व्यतिरिक्तश्रोत्रादीन्द्रियव्यापारः सर्वात्मना स्वरूपकात्स्न्र्येन चक्षुः प्रविष्टेव श्रोत्रादीनीन्द्रियाणि स्वातन्त्र्येण ग्रहणशक्तेश्चक्षुरेव प्रविश्य कौतुकात्स्वयमप्येनमुपलभन्ते किमु अन्यथा स्वत्वविषयाधिगमः किं न स्यादिति भावः।

भाषार्थ— वे स्त्रियां एक टक होकर अज को अपने नेत्रों से इस प्रकार देख रही थी कि मानों उनका ध्यान किसी दूसरे काम की ओर गया ही नहीं था, क्योंकि इन स्त्रियों के दूसरी इन्द्रियों का व्यापार नेत्रों में ही प्रविष्ट हो गया है।

स्थाने वृता भूपतिभिः परोक्षैः स्वयंवरं साधुममंस्त भोज्या ।
पद्मेव नारायणमन्यथाऽसौ लभेत कान्तं कथमात्मतुल्यम् ॥ १३ ॥

अन्वयः— भोज्या परोक्षैः भूपतिभिः वृता ( अपि ) स्वयम्वरम् एव साधुम् अमंस्त ( इति ) स्थाने अन्यथा असौ पद्मा नारायणम् इव आत्मतुल्यं कान्तं कथं लभेत।

स्थान इति । भोज्येन्दुमती परोक्षैरदृष्टैर्भूपतिभिः वृता ममैवेयमिति प्रार्थितापि स्वयंवरमेव साधु हितममंस्त मेने न तु परोक्षमैव कश्चित्प्रार्थकं वव्रे स्थाने युक्तमेतत्। 'युक्ते द्वे सांप्रतं स्थाने' इत्यमरः। कुतः अन्यथा स्वयंवराभावेऽसाविन्दुमती पद्मा लक्ष्मीः। “अर्शआदिभ्योऽचः” इत्यच्प्रत्ययः नारायणमिव आत्मतुल्यं स्वानुरूपं कान्तं पतिं कथं लभेत न लभेतैव सदसद्विवेकासौकर्यादिति भावः।

भाषार्थ— स्त्रियां आपस में बातें कर रही थीं कि बहुत से राजाओं ने अपने