रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
नवम सर्गः ३०९
नवम सर्गः ३०९
अन्वयः— इति आत्मनः विस्मृतान्यकरणीयं सचिवावलम्बितधुरम् अनुबन्ध-सेवया परिवृद्धिरागं धराधिपं मृगया चतुरा कामिनी इव जहार ।
इतीति । इति पूर्वोक्तप्रकारेणात्मनो विस्मृतमन्यत्करणीयं कार्यं येन तम् । विस्मृतात्मकार्यान्तरमित्यर्थः । सचिवैरवलम्बिता धृता धूर्यस्य तम् । “ऋक्पूरब्धूः-पथामानक्षे” इति समासान्तोऽच्प्रत्ययः । अनुबन्धसेवया संततसेवया परिवृद्धो रागो यस्य तं धराधिपं मृग्यन्ते यस्यां मृगा इति मृगया । परिचर्यापरिसर्या-मृगयाटाट्यादानामुपसंख्यानम् इति शप्प्रत्ययान्तो निपातः । चतुरा विदग्धा कामिनीव जहाराचकर्ष । 'न जातु कामः कामानानुभोगेन शाम्यति । हविशा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥' इति भावः ।
भाषार्थ— इस प्रकार अपने दूसरे कर्तव्यों को भूले हुए, राज्य का भार मन्त्रियों पर छोड़ कर बन में आये हुए और निरन्तर सेवन करने से अधिक आसक्ति युक्त राजा दशरथ को शिकार के व्यसन ने वैसे ही लुभा लिया जैसे कोई चतुर स्त्री अपने पति की सेवा करके उसे अपने वश में कर लेती है । अर्थात् सब कार्य भूल कर राजा दशरथ शिकार में आसक्त हो गये ॥ ६९ ॥
स ललितकुसुमप्रवालशय्यां ज्वलितमहौषधिदीपिकासनाथाम् ।
नरपतिरतिवाहयाम्बभूव क्वचिदसमेतपरिच्छदस्त्रियामाम् ॥ ७० ॥
अन्वयः— स नरपतिः ललितकुसुमप्रवालशय्यां ज्वलितमहोषधिदीपिका-सनाथां त्रियामां क्वचित् असमेतपरिच्छदः सन् अतिवाहयाम्बभूव ।
स इति । स नरपतिः ललितानि कुसुमानि प्रवालानि पल्लवानि शय्या यस्यां तां ज्वलिताभिर्महोषधीभिरेव दीपिकाभिः सनाथां तत्प्रधानामित्यर्थः । त्रियामां त्रयो यामा यस्याः सा ताम् रात्रि क्वचिदसमेतपरिच्छदः परिहृत-परिजनः सन्नित्यर्थः । अतिवाहयाम्बभूव गमयामास । पुष्पिताग्रावृत्तम् ।
भाषार्थ— शिकार के वशीभूत राजा दशरथ ने राजाओं के योग्य सामग्री की परवाह न करके कभी २ परिजनों के बिना अकेले ही कोमल-कोमल पुष्पों और नवपल्लवों को शय्या बनाकर तथा जंगल की जलती हुई महौषधियों को दीपक का प्रकाश समझकर रात बिताई ॥ ७० ॥
उषसि स गजयूथकर्णतालैः पटुपटहध्वनिभिर्विनीतनिद्रः ।
अरमत मधुराणि तत्र शृण्वन्विहगविकूजितबन्दिमङ्गलानि ॥ ७१ ॥
अन्वयः— उषसि पटुपटहध्वनिभिः गजयूथकर्णतालैः, विनीतनिद्रः सः तत्र मधुराणि, विहगविकूजितवन्दिमंगलानि शृण्वन् अरमत ।
| ३१० | रघुवंशमहाकाव्ये |
|---|
उषसीति। उषसि प्रातः पटूनां पटहानाभिव ध्वनियैषां तैर्गजयूथानां हस्ति-समूहानां कर्णैरेव तालैर्वाद्यप्रभेदैर्विनीतनिद्रः स नृपस्तत्र वने मधुराणि विहगानां विहङ्गमानां विकूजितान्येव वन्दिनां मङ्गलाति मङ्गलगीतानि शृण्वन्नरमत।
भाषार्थ— वन में रहते हुए भी राजा दशरथ के सभी व्यवहार राजाओं के समान हुआ करते थे। प्रातःकाल जब बड़े-बड़े नगाड़ों के समान शब्द करने वाले हाथियों के कानों की फट-फट होती थी तब आंखें खुलती थी और उस समय वन के पक्षी चारणों के समान जो मंगल गीत गाते थे उन्हें सुन कर वे परम प्रसन्न होते थे॥ ७१ ॥
अथ जातु रुरोर्गृहीतवर्त्मा विपिने पार्श्वचरैरलक्ष्यमाणः।
श्रमफेनमुचा तपस्विगाढां तमसां प्राप नदीं तुरङ्गमेण॥ ७२ ॥
अन्वयः— अथ जातु रुरोः गृहीतवर्त्मा विपिने पार्श्वचरैः अलक्ष्यमाणः, श्रमफेनमुचा तुरङ्गमेण तपस्विगाढां तमसां नदीं प्राप ।
अथेति। अथ जातु कदाचिद्रुरोर्मृगस्य गृहीतवर्त्मा स्वीकृतरुरुमार्गो विपिने वनेपार्श्वचरैरनुचरैरलक्ष्यमाणः। तुरगवेगादित्यर्थः। श्रमेण फेनमुचा सफेनं स्विद्यतेत्यर्थः। तुरङ्गमेण तपस्विभिर्गाढामवगाढां सेवितां तमसां नाम नदीं सरितं प्राप।
भाषार्थ— इससे बाद एक दिन रुरुमृग का पीछा करते हुए राजा दशरथ को साथियों से साथ छूट गया, थकावट के कारण उनका घोड़ा मुंह से फेन फेंकने लगा उसी पर चढे हुए वे तमसा नदी के उस तीर पर पहुँच गये जहाँ तपस्वि लोग स्नान करते थे॥ ७२ ॥
कुम्भपूरणभवः पटुरुच्चैरुच्चचार निनदोऽम्भसि तस्याः।
तत्र स द्विरदबृंहितशङ्की शब्दपातिनमिषुं विससर्ज ॥ ७३ ॥
अन्वयः— तस्याः अम्भसि कुम्भपूरणभवः पटुः उच्चै निनदः उच्चचार, तत्र सः द्विरदबृंहितशङ्की सन् शब्दपातिनम् इषुं विससर्ज।
कुम्भेति। तस्यास्तमसाया अम्भसि कुम्भपूरणेन भव उत्पन्नः। पचाद्यच्। पटुर्मधुरः उच्चैर्गम्भीरो निनदो ध्वनिरुच्चचारोदियाय। तत्र निनदे स नृपः द्विरदबृंहितं शङ्कित इति द्विरदबृंहितशङ्की सन् शब्देन शब्दानुसारेण पततीति शब्दपातिनमिषुं विससर्ज। स्वागतावृत्तम्।
भाषार्थ— उस तमसा नदी में श्रवण कुमार अपने अन्धे माता-पिता के लिए घड़े में पानी भर रहा था, घड़ा भरते समय जो गम्भीर शब्द उत्पन्न हुआ
नवमः सर्गः ३११
उसको राजा दशरथ ने हाथी का शब्द समझकर झट शब्दवेधी बाण उसपर चला ही दिया ॥ ७३ ॥
नृपतेः प्रतिषिद्धमेव तत्कृतवान्पङ्क्तिरथो विलङ्घ्य यत् ।
अपथे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः ॥ ७४ ॥
अन्वयः—पङ्क्तिरथः यत् नृपतेः प्रतिषिद्धम् एव, तत् विलङ्घ्य कृतवान् श्रुतवन्तः अपि रजोनिमीलिताः (सन्तः) अपथे पदम् अर्पयन्ति हि ।
नृपतेरिति । तत्कर्म नृपतेः क्षत्रियस्य प्रतिषिद्धमेव निषिद्धमेव यदेतत्कर्म गजवधरूप पङ्क्तिरथो दशरथो विलङ्घ्य ‘लक्ष्मीकामो युद्धादन्यत्र करिवधं न कुर्यात्’ इति शास्त्रमुल्लंघ्य कृतवान् । ननु विदुषस्तस्य कथमीदृग्विचेष्टितमत आह—अपथ इति । श्रुतवन्तोऽपि विद्वांसोऽपि रजोनिमीलिताः रजोगुणावृताः सन्तः न पन्था इत्यपथम् । "पथो विभाषा" इति वा समासान्तः । "अपथं नपुंसकम्" इति नपुंसकम् । ‘अपन्थ्यास्त्वपथं तुल्यम्’ इत्यमरः । तस्मिन्नपथेऽमार्गे पदमर्पयन्ति हि निक्षिपन्ति हि । प्रवर्तन्त इत्यर्थः । वैतालीय वृत्तम् ।
भाषार्थ—युद्ध स्थल से अन्यत्र कहीं भी राजा को हाथी का वध नहीं करना चाहिए, इस लिए राजा दशरथ ने जो किया, वह राजा के लिए उचित नहीं था । कभी-कभी विद्वान् लोग भी जब रजो गुण के आवेश में अन्धे हो जाते हैं तब वे अयोग्य कार्य कर बैठते हैं ॥ ७४ ॥
हा तातेति क्रन्दितमाकर्ण्य विषण्ण-
स्तस्यान्विष्यन्वेतसगूढं प्रभवं सः ।
शल्यप्रोतं प्रेक्ष्य सकुम्भं मुनिपुत्रं
तापादन्तःशल्य इवासीत्क्षितिपोऽपि ॥ ७५ ॥
अन्वयः—हा तात इति क्रन्दितम् आकर्ण्य विषण्णः सः तस्य वेतसगूढम् प्रभवम् अन्विष्यन् शल्यप्रोतम् सकुम्भम् मुनिपुत्रम् प्रेक्ष्य क्षितिपः अपि तापात् अन्तःशल्यः इव आसीत् ।
हा तातेति । हेत्यातौ तातो जनकः । ‘हा विषादशुगर्तिषु’ इति ‘तातस्तु जनकः पिता’ इति चामरः । हा तातेति क्रन्दितं क्रोशनमाकर्ण्य विषण्णो भग्नोत्साहः सन् तस्य क्रन्दितस्य वेतसैर्गूढं छन्नं प्रभवत्यस्मादिति प्रभवः कारणं तमन्विष्यञ्छल्येन शरेण प्रोतं स्यूतम् । ‘शल्यं शङ्कौ शरे वंशे’ इति विश्वः । सकुम्भं मुनिपुत्रं प्रेक्ष्य स क्षितिपोऽपि तापाद्दुःखादन्तःशल्यं यस्य सोऽन्तःशल्य इवासीत् । मत्तमयूरं वृत्तम् ।
| ३१२ | रघुवंशमहाकाव्ये |
|---|
**भाषार्थ—**हा पिताजी ! इस प्रकार श्रवणकुमार का करुण क्रन्दन सुनकर दुःखी होकर बेंतों के कुञ्जों में छिपे हुए उस करुण ध्वनि के उत्पत्ति स्थान को ढूंढते हुए राजा दशरथ ने देखा कि बेंत की झाड़ियों में बाणों से विद्ध घड़े पर झुका हुआ कोई मुनिकुमार पड़ा हुआ है उसे देखकर उनको ऐसा कष्ट हुआ मानों इन्हें ही बाण लग गया हो ॥ ७५ ॥
तेनावतीर्य तुरगात्प्रथितान्वयेन
पृष्टान्वयः स जलकुम्भनिषण्णदेहः ।
तस्मै द्विजेतरतपस्विसुतं स्खलद्भि-
रात्मानमक्षरपदैः कथयाम्बभूव ॥ ७६ ॥
**अन्वयः—**प्रथितान्वयेन तेन तुरगात् अवतीर्य पृष्टान्वयः जलकुम्भनिषण्ण-देहः सः तस्मै स्खलद्भिः अक्षरपदैः आत्मानं द्विजेतरतपस्विसुतम् कथयाम्बभूव ।
तेनेति। प्रथितान्वयेन प्रख्यातवंशेन । एतेन पापभीरुत्वं सूचितं । तेन राज्ञा तुरगादवतीर्य पृष्टान्वयी ब्रह्महत्याशङ्कया पृष्टकुलः जलकुम्भनिषण्णदेहः स मुनिपुत्रस्तस्मै राज्ञे स्खलद्भिः अशक्तिवशादर्धोच्चारितैरित्यर्थः । अक्षरप्रायैः पदैरक्षरपदैरात्मानं द्विजेतरश्चासौ तपस्विसुतश्च तं द्विजेतरतपस्विसुतं कथयाम्बभूव । न तावत्त्रैवर्णिक एवाहमस्मि किन्तु करणः ‘वैश्यात्तु करणः शूद्रायाम्’ इति याज्ञवल्क्यः कुतो ब्रह्महत्येत्यर्थः । तथा च रामायणे—‘‘ब्रह्महत्याकृतं पापं हृदयादपनीयताम् ॥ न द्विजातिरिरहं राजन्मा भूत्ते मनसो व्यथा । शूद्रायमस्मि वैश्येन जातो जनपदाधिप ॥’’
**भाषार्थ—**राजा दशरथ अत्यन्त पापभीरु थे इस लिए घोड़े से शीघ्र उतर कर उन्होने ब्रह्महत्या की आशंका से घड़े पर झुके हुए उस मुनिकुमार से पहले उसकी जाति और नाम पूछा, उसने भी उनका आशय समझ कर सड़खड़ाती वाणी से बताया कि मैं द्विज से भिन्न वैश्य पिता से शूद्रा माता से उत्पन्न करण संज्ञक मुनि कुमार हूँ । इसलिए राजा दशरथ अपने को ब्रह्महत्या से मुक्त समझे ॥ ७६ ॥
तच्चोदितः स तमनुद्धृतशल्यमेव
पित्रोः सकाशमवसन्नदृशोर्निनाय ।
ताभ्यां तयागतमुपेत्य तमेकपुत्र-
मज्ञानतः स्वचरितं नृपतिः शशंस ॥ ७७ ॥
नवमः सर्गः ३१३
अन्वयः—तच्चोदितं नृपतिः अनुद्धतशल्यम् एव तम् अवसन्नदृशोः पित्रोः सकाशं निनाय च, समागतम् एकपुत्रम् तम् उपेत्य अज्ञानतः स्वचरितं ताभ्यां शशंस।
तदिति। तच्चोदितस्तेन पुत्रेण चोदितः प्रेरितः पितृसमीपं प्रापयेत्युक्तः स नृपतिरनुद्धृतशल्यमनुत्पाटितशरमेव तं मुनिपुत्रम् अवसन्नदृशोर्नष्टचक्षुषोः अन्धयोरित्यर्थः। पित्रोर्मातापित्रोः। "पिता माता" इत्येकशेषः। सकाशं समीपं निनाय। इदं च रामायणविरुद्धम् तत्र—'अथाहमेकस्तं देशं नीत्वा तौ भृशः- दुःखितौ। अस्पर्शयमहं पुत्रं तं मुनि सह भार्यया॥' इति नदीतीर एव मृतं पुत्रं प्रति पित्रोरानयनाभिधानात्। तथागतं वेतसगूढम् एकश्चासौ पुत्रश्चैकपुत्रस्तम्। एकग्रहणं पित्रोरनन्यगतिकत्वसूचनार्थं तं मुनिपुत्रमुपेत्य संनिकृष्टं गत्वाज्ञानतः करिभ्रान्त्या स्वचरितं स्वकृतं ताभ्यां मातापितृभ्यां। क्रियाग्रहणाच्चतुर्थी। शशंस कथितवान्।
भाषार्थ—उस श्रवणकुमार ने राजा दशरथ से कहा कि मुझे मेरे अन्धे माता-पिता के पास पहुँचा दीजिए। यह सुनकर उन्होंने उस बाण से बिधे हुए मुनिकुमार को उठाकर उसके माता-पिता के पास ले जाकर उनसे सारी कथा बता दी कि मैंने भूल से आपके एकलौते पुत्र पर किस प्रकार बाण चला दिया॥ ७७॥
तौ दम्पती बहु विलप्य शिशोः प्रहर्त्रा
शल्यं निखातमुदहारयतामुरस्तः।
सोऽभूत्परासुरथ भूमिपतिं शशाप
हस्तार्पितैर्नयनवारिभिरेव वृद्धः॥ ७८॥
अन्वयः—तौ दम्पती बहु विलप्य शिशोः उरस्तः निखातम् शल्यम् प्रहर्त्रा उदहारयता सः गतासुः अभूत् अथ वृद्धःहस्तार्पितैः नयनवारिभिः एव भूमिपतिं शशाप।
ताविति। तौ जाया च पतिश्च दम्पती। राजदन्तादिषु जायाशब्दस्य दम्भावो जम्भावश्च विकल्पेन निपातितः। 'दम्पती जम्पती जायापती भार्यापती च तौ' इत्यमरः। बहु विलप्य भूरि परिदेव्य। 'विलापः परिदेवनम्' इत्यमरः। शिशोरुरस्तो वक्षसः। "पञ्चम्यास्तसिल्"। निखातं शल्यं शरं प्रहर्त्रा राज्ञोदा- हारयतामुद्धारयामासतुः। स शिशुः परासुर्गतप्राणोऽभूत्। अथ वृद्धो हस्तार्पितै- र्नयनवारिभिरेव शापदानस्य जलपूर्वकत्वात्तैरेव भूमिपतिं शशाप।
भाषार्थ—यह सुनते ही उन दोनों स्त्री पुरुषों ने बहुत विलाप कर अपने पुत्र के मारने वाले राजा दशरथ को आज्ञा दी कि छाती से बाण निकाल लो,
३१४ रघुवंशमहाकाव्ये
बाण निकालते ही श्रवणकुमार के प्राण विकल गये इस पर बूढ़े तपस्वी ने चुल्लू में आंसू का जल लेकर राजा को ऐसा शाप दिया कि ॥ ७८ ॥
दिष्टान्तमाप्स्यति भवानपि पुत्रशोका- दन्त्ये वयस्यहमिवेति तमुक्तवन्तम्। आक्रान्तपूर्वमिव मुक्तविषं भुजङ्गं प्रोवाच कोसलपतिः प्रथमापराधः ॥ ७९ ॥
**अन्वयः—**हे राजन् भवान् अपि अन्त्ये वयसि अहम् इव पुत्रशोकात् दिशान्तम् आप्स्यति इति उक्तवन्तं आक्रान्तपूर्वं मुक्तविषम् भुजगं इव तम् प्रथमापराधः कोशलपतिः प्रोवाच ।
दिष्टान्तमिति । हे राजन् ! भवानप्यन्त्ये वयस्यहमिव पुत्रशोकाद्दिष्टान्तं कालावसानं मरणमित्यर्थः ‘दिष्टः काले च दैवे स्याद्दिष्टम्' इति विश्वः । आप्स्यति प्राप्स्यति प्राप्स्यसि इत्युक्तवन्तम् आक्रान्तः पादाहतः पूर्वमाक्रान्तपूर्वः । सुप्सुपेति समासः । "राजदन्तादिषु परम्" इत्यनेन परनिपातः । तं प्रथममपकृतमित्यर्थः । मुक्तविषमपकारात्पश्चादुत्सृष्टविषं भुजङ्गमिव स्थितं तं वृद्धं प्रति प्रथमापराधः प्रथमापराधी । कर्तरि क्तः । इदं च सहने कारणमुक्तम् । कोसलपतिर्दशरथः शापदानात्पश्चादप्येनं मुनिः प्रोवाच ।
**भावार्थ—**हे राजन् ! जाओ तुम भी वृद्धावस्था में मेरे ही समान पुत्र शोक में मरोगे । जिस प्रकार पैर से दबने पर सांप विष उगल कर शान्त हो जाता है उसी प्रकार शाप देकर जब वृद्ध मुनि शान्त हो हुये। तब पहले पहल अपराध करने वाले राजा दशरथ उनसे बोले ॥ ७९ ॥
शापोऽप्यदृष्टतनयाननपद्मशोभे सानुग्रहो भगवता मयि पातितोऽयत् । कृष्यां दहन्नपि खलु क्षितिमिन्धनेद्धो बीजप्ररोहजननीं ज्वलनः करोति ॥ ८० ॥
**अन्वयः—**अदृष्टतनयाननपद्मशोभे मयि भगवता पतितः अयं शापः अपि सानुग्रहः (एव) इन्धनेद्धः ज्वलनः कृष्याम् क्षितिम् दहन् अपि खलु बीजप्ररोहजननीं करोति ।
शाप इति । अदृष्टा तनयाननपद्मशोभा पुत्रमुखकमलश्रीयैन तस्मिन्नपुत्रके मयि भगवता पातितः वज्रप्रायत्वादित इत्युक्तम् । अयं पुत्रशोकान्निग्न्यस्वेत्येवंरूपः शापोऽपि सानुग्रहः वृद्धकुमारीवरन्यायेनेष्टावाप्तेरान्तरीयकत्वात्सोपकार एव । निग्राहकस्याप्यनुग्राहकत्वमर्थान्तरन्यासेनाह—कृष्यामिति । इन्धनैः काष्ठैरिद्धः प्रज्वलितो ज्वलनोऽग्नि कृष्यां कर्षणाहाम् । "ऋदुपधाच्चाक्लृपि चतेः" इति क्यप् । क्षिति दहन्नपि बीजप्ररोहाणां बीजांकुराणां जननीमुत्पादनक्षमां करोति ।
नवमः सर्गः ३१५
भाषार्थ—हे मुने ! मुझे आज तक पुत्र के मुखकमल का दर्शन तक नहीं हुआ है इसलिए मैं आपके इस शाप को वरदान ही समझता हूँ क्योंकि इसी व्याज से मुझे पुत्र तो प्राप्त होगा । घास फूस इन्धन आदि से प्रदीप्त अग्नि जिस प्रकार भूमि को जलाता हुआ भी बीज अंकुरित होने के योग्य बनाकर भूमिका उपकार ही करता है उसी प्रकार आपका शाप भी सफल होने के लिए.मुझे पुत्र उत्पन्न करके मेरा उपकारक ही होगा ॥ ८० ॥
इत्थं गते गतघृणः किमयं विधत्तां
वध्यस्तवेत्यभिहितो वसुधाधिपेन ।
एधान्हुताशनवतः स मुनिर्ययाचे
पुत्रं परासुमनुगन्तुमनाः सदारः ॥ ८१ ॥
अन्वयः—इत्थम् गते, ( सति ) वसुधाधिपेन गतघृणः तव वध्यः अयम् किं विधत्ताम् ? इति अभिहितः सदारः सः मुनिः परासुम् पुत्रम् अनुगन्तुमनाः ( सन् ) हुताशनवतः एधान् ययाचे ।
इत्यमिति । इत्थं गते प्रवृत्ते सति वसुधाधिपेन राज्ञा गतघृणो निष्करुणः । हन्तृत्वान्निष्कृप इत्यर्थः । अत एव तव वध्यो वधार्होऽयं जनः अयमिति राज्ञो निर्वेदादनादरेण स्वात्मनिर्देशः । किं विधत्तामित्यभिहित उक्तः । मया किं विधेयमिति विज्ञापित इत्यर्थः । स मुनिः सदारः सभार्यः परासुं पुत्रमनुगन्तुं मनो यस्य सोऽनुगन्तुमनाः सन् । “तुं काममनसोरपिः” इति मकारलोपः । हुताशनवतः साग्नीनेधान्काष्ठानि ययाचे । न चात्रात्मघातदोषः । 'अनुष्ठानासमर्थस्य वानप्रस्थस्य जीर्यतः । भृग्वग्निजलसंपातं मरणं प्रविधीयते ) इत्युक्तेः ।
भाषार्थ—यह कहकर राजा दशरथ ने पुनः उनसे कहा—मैं तो इसी योग्य हूँ कि आप मेरा वध कर दें, अब आप मुझे क्या आज्ञा देते हैं ? यह सुनकर उस मुनि ने कहा कि अब मैं और मेरी स्त्री दोनों अपने प्रिय पुत्र के साथ ही मर जायेंगे, अतः हमारे लिए अग्नि और ईंधन जुटा दो ॥ ८१ ॥
प्राप्तानुकः सपदि शासनमस्य राजा
सम्पाद्य पातकविलुप्तधृतिर्निवृत्तः ।
अन्तर्निविष्टपदमात्मविनाशहेतुम्
शापं दधज्ज्वलनमौर्वमिवाम्बुराशिः ॥ ८२ ॥
| ३१६ | रघुवंशमहाकाव्ये |
|---|
**अन्वयः—**प्राप्तानुगः, राजा सपदि अस्य शासनम् सम्पाद्य पातकविलुप्तधृतिः (सन्) अन्तर्निविष्टपदम् आत्मविनाशहेतुम् अम्बुराशिः और्वम् ज्वलनम् इव दधत् (वनात्) निवृत्तः।
प्राप्तेति। प्राप्तानुगः प्राप्तानुचरो राजा सपद्यस्य मुनेः शासनं काष्ठसम्भाष-णरूपं प्रागैकोऽपि सम्प्रति प्राप्तानुचरत्वात्त्वात्सम्पाद्य पातकेन मुनिवधरूपेण विलुप्तम् धृतिर्नष्टोत्साहः सन् अन्तर्निविष्टपदमन्तर्लब्धस्थानमात्मविनाशहेतुं शापम् अम्बुराशि-रौर्वं ज्वलनं वडवानलमिव। 'आर्वस्तु वाडवो वडवानलः' इत्यमरः। दधद्दधृतवान् निवृत्तः। वनादिति शेषः।
इति महामहोपाध्यायकोलचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये मृगयावर्णनं नाम नवमः सर्गः॥ ६॥
**भाषार्थ—**इतने में राजा दशरथ के अनुचर भी तब तक वहाँ पहुँच गये, तत्काल इन्धन और अग्नि जुटा दी गई। जिस प्रकार समुद्र के अन्दर वडवाग्नि जला करता है उसी प्रकार अपने पाप से अधीर हृदय में अपने विनाश का कारण मुनि का शाप लिए हुए राजा दशरथ अपने घर लौट आये ॥ ८२ ॥
यह त्रिपाठ्युपाव्ह पं० श्रीकृष्णमणिशास्त्री द्वारा लिखित अन्वय और चन्द्रकला नाम की हिन्दी टीका में रघुवंश महाकाव्य का मृगयावर्णन नामक नवम सर्ग समाप्त हुआ ॥ ९ ॥
दशमः सर्गः
आशंसे नित्यमानन्दं रामनामकथामृतम्।
सद्भिः स्वश्रवणैर्नित्यं पेयं पापं प्रणुदितुम्॥
पृथिवीं शासत्तस्तस्य पाकशासनतेजसः।
किंचिदूनमनूनर्द्धेः शरदमयुतं ययौ ॥ १ ॥
**अन्वयः—**पृथिवीं शासतः पाकशासनतेजसः अनूनर्द्धेः तस्य किञ्चित् ऊनम् अयुतम् शरदम् ययौ।
पृथिवीमिति। पृथिवीं शासतः पालयतः पाकशासनतेजस इन्द्रवर्चसः अनूनर्द्धे-
दशमः सर्गः ३१७
र्महासमृद्धैस्तस्य दशरथस्य किञ्चिदूनमीषन्न्यूनं शरदां वत्सराणाम् । 'स्यादृतौ वत्सरे शरत्' इत्यमरः । अयुतं दशसहस्रं ययौ 'एकदशशतसहस्राण्ययुतं लक्षं तथा प्रयु-तम् । कोट्यर्बुदं च पद्मं स्थानात्स्थानं दशगुणं स्यात् ॥' इत्यार्यभट्टः । इदं च मुनिशापात्परं वेदितव्यं न तु जननात् । 'षष्टिवर्षसहस्राणि जातस्य मम कौशिक । दुःखेनोत्पादितश्चमं न रामं नेतुमर्हसि ॥' इति रामायणविरोधात् । नाप्यभिषेकात्परं तस्यापि 'सम्यग्विनीतमथ वर्महरं कुमारमादिश्य रक्षणविधौ विधिवत्प्रजानाम्' इति कौमारानुष्ठितत्वाभिधानात्स एव विरोध इति ।
भाषार्थ—महासमृद्धिशाली और इन्द्र के समान तेजस्वी राजा दशरथ को पृथ्वी का पालन करते हुए लगभग दस हजार वर्ष बीत गये ॥ १ ॥
न चोपलेभे पूर्वेषामृणनिर्मोक्षसाधनम् ।
सुताभिधानं स ज्योतिः सद्यः शोकतमोपहम् ॥ २ ॥
अन्वयः—सः पूर्वेषाम् ऋणनिर्मोक्षसाधनम् सद्यः शोकतमोपहम् सुताभिधानम्, ज्योतिः न च उपलेभे ।
न चेति । स दशरथः पूर्वेषां पितॄणामृणनिर्मोक्षसाधनम् 'एष वा अनृणो यः पुत्री' इति श्रुतेः । पितॄणामृणविमुक्तिकारणं सद्यः शोक एव तमस्तममपहन्तीति शोकतमोपहम् । अत्राभयंकर इतिवदुपपदेऽपि तदन्तविधिमाश्रित्य । "अपक्लेशतमसः" इति डप्रत्ययः । सुताभिधानं सुताख्यं ज्योतिर्नोपलेभे न प्राप ।
भाषार्थ—किन्तु अभी तक पितरों का ऋण से मुक्त करने का साधन ओर शोकरूपी अन्धकार को दूर करने वाली वह ज्योति उन्हें नहीं मिली, जिसे पुत्र कहते हैं । अर्थात् अभी तक राजा की पुत्र नहीं हुआ ॥ २ ॥
अतिष्ठत्प्रत्ययापेक्षसंततिः स चिरं नृपः ।
प्राङ्मन्थानदनभिव्यक्तरत्नोत्पत्तिरिवार्णवः ॥ ३ ॥
अन्वयः—प्रत्ययापेक्षसन्ततिः स नृपः मन्थात् प्राक् अनभिव्यक्तरत्नोत्पत्तिः अर्णवः इव चिरम् अतिष्ठत् ।
अतिष्ठदिति । प्रत्ययं हेतुमपेक्षत इतिम्प्रत्ययापेक्षा सन्ततिर्यस्य स तथोक्तः । 'प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु' इत्यमरः । स नृपः मन्थात्प्राङ्मन्थानात्पूर्वमनभिव्यक्ताऽदृष्टा रत्नोत्पत्तिर्यस्य सोऽर्णव इव चिरमतिष्ठत् । सामग्रग्रभावाद्दि-लम्बो न तु वन्ध्यत्वादिति भावः ।
भाषार्थ—जिस प्रकार समुद्रों में रत्नों के रहते हुए भी मन्थन के पहले वे
| ३१८ | रघुवंशमहाकाव्ये |
|---|
प्रकट नहीं होते, उसी प्रकार दशरथ के भाग्य में पुत्रों के रहते हुए भी पुत्रेष्टि यज्ञ रूप कारण की अपेक्षा करने वाले पुत्र भी दशरथ को नहीं उत्पन्न हुए ॥ ३ ॥
ऋष्यशृङ्गादयस्तस्य सन्तः संतानकाङ्क्षिणः। आरेभिरे जितात्मानः पुत्रीयामिष्टिमृत्विजः ॥ ४ ॥
अन्वयः—ऋष्यशृङ्गादयः जितात्मानः ऋत्विजः सन्तानकाङ्क्षिणः तस्य पुत्रीयाम् इष्टिम् आरेभिरे।
ऋष्यशृङ्गेति। ऋष्यशृङ्गादयः ऋष्यशृङ्गो नाम कश्चिदृषिः तदादयः ऋतमृतो वा यजन्तीत्यृत्विजो याज्ञिकाः। 'ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च' इत्यनेन क्यबन्तो निपातः। जितात्मानः जितान्तःकरणाः सन्तः सतामकाङ्क्षिणः पुत्रार्थिनस्तस्य दशरथस्य पुत्रीयां पुत्रनिमित्ताम्। "पुत्राच्छ चः' इति छप्रत्ययः। इष्टिं यागमारेभिरे प्रचक्रमिरे।
भाषार्थ—तब ऋष्यशृङ्गादि जितेन्द्रिय और अन्य ऋत्विजों ने सन्तान चाहने वाले राजा दशरथ के लिए पुत्रेष्टि यज्ञ करना आरम्भ किया ॥ ४ ॥
तस्मिन्नवसरे देवाः पौलस्त्योपप्लुता हरिम्। अभिजग्मुर्निदाघार्ताश्छायावृक्षमिवाध्वगाः ॥ ५ ॥
अन्वयः—तस्मिन् अवसरे देवाः पौलस्त्योपप्लुताः, (सन्तः) निदाघार्ता अध्वगाः छायावृक्षम् इव हरिं अभिजग्मुः।
तस्मिन्निति। तस्मिन्नवसरे पुत्रकामेष्टिप्रवृत्तिसमये देवाः पुलस्त्यस्य गोत्रापत्यं पुमान्पौलस्त्यो रावणः तेनोपप्लुप्ताः पीडिताः सन्तः निदाघार्ता घर्मातुराः। अध्वानं गच्छन्तीत्यध्वगाः पन्थाः। "अन्तर्यन्ताध्वदूरपारसर्वानन्तेषु ड" इति डप्रत्ययः। छायाप्रधानं वृक्षं छायावृक्षमिव। शाकपार्थिवादित्वात्समास। हरिं विष्णुमभिजग्मुः।
भाषार्थ—उसी समय रावण के अत्याचार से घबड़ाकर देवता लोग उसी प्रकार भगवान् विष्णु के शरण में गये, जिस प्रकार धूप से व्याकुल होकर पथिक छायादार वृक्ष के नीचे जाते हैं ॥ ५ ॥
ते च प्रापुरुदन्वन्तं बुबुधे चादिपूरुषः। अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम् ॥ ६ ॥
अन्वयः—ते च उदन्वन्तं प्रापुः च आदिपुरुषः बुबुधे, हि अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेः लक्षणम्।
त इति। ते देवाश्चोदन्वन्तं समुद्रम्। "उदन्वानुदधौ च" इति निपातः। प्रापुः। आदिपुरुषो विष्णुश्च बुबुधे योगनिद्रां जहावित्यर्थः। गमनप्रतिबोधयोरविलम्बार्थो
दशमः सर्गः ३१९
चकार। तथा हि अव्याक्षेपो गम्यस्याव्यासङ्ग अविलम्ब इति यावत् । भविष्यन्त्याः कार्यसिद्धेर्लक्षणं लिङ्गं हि । उक्तं च —"अनन्यपरता चास्य कार्यसिद्धेस्तु लक्षणम् ॥" इति ।
भाषार्थ—देवता लोग ज्यों ही क्षीरसागर में पहुँचे त्यों ही भगवान् विष्णु भी योगनिद्रा से जग उठे । किसी कार्य में विलम्ब न होना पूर्ण होनेवाले कार्य की सिद्धि का शुभ लक्षण है ॥ ६ ॥
भोगिभोगासनासीनं ददृशुस्तं दिवौकसः ।
तत्फणामण्डलादर्चिर्मणियोतितविग्रहम् ॥ ७ ॥
अन्वयः—दिवौकसः भोगिभोगासनासीनम् तत्फणामण्डलादर्चिर्मणियोतितविग्रहम् तम् ( विष्णुम् ) ददृशुः ।
भोगीति । द्योरौको येषां ते दिवौकसो देवाः । पृषोदरादित्वात्साधुः । यद्वा दिवशब्दन्तोऽप्यस्ति । तथा च बुद्धचरिते—"न शोभते तेन हि नो विना पुरं मरुत्वता वृत्रवधे यथा दिवम् ।" इति 'दिवु क्रीडादौ' इति धातोः "इगुपधज्ञाप्रीकिरः कः" इति कः । दिवमोक एषामिति विग्रहः । भोगिनः शेषस्य भोगः शरीरम् । 'भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः' इत्यमरः । स एवासनं सिंहासनं तत्रासीनमुपविष्टम् । आस्ते शानच् 'इदास' इतीकारादेशः । तस्य भोगिनः फणमण्डले य उदचिष उद्रश्मयो मणयस्तैद्योतितविग्रहं विष्णुं ददृशुः ॥ ७ ॥
भाषार्थ—देवताओं ने देखा कि भगवान् विष्णु शेष शय्या पर लेटे हुए हैं और शेष के फणों की किरण मणियों से उनका शरीर और भी अधिक चमक उठा है ॥ ७ ॥
श्रियः पद्मनिषण्णायाः क्षौमान्तरितमेखले ।
अङ्के निक्षिप्तचरणमास्तीर्णकरपल्लवे ॥ ८ ॥
अन्वयः—( दिवौकसः कथंभूतं विष्णुं ददृशुः ) पद्मनिषण्णायाः श्रियः क्षौमान्तरितमेखले आस्तीर्णकरपल्लवे अङ्के निक्षिप्तचरणम् ।
श्रिय इति । कीदृशं विष्णुं पद्मे निषण्णाया उपविष्टायाः श्रियं क्षौमान्तरिता दुकूलव्यवहिता मेखला यस्य तस्मिन् । आस्तीणौ करपल्लवो पाणिपल्लवौ तस्मिन् । विशेषणद्वयेनापि चरणयोः सौकुमार्यात्कटिमेखलास्पर्शासहत्वं सूच्यते । तस्मिन्नङ्के निक्षिप्तौ चरणौ येन तम् ।
भाषार्थ—देवताओं ने देखा कि कमल पर बैठी हुई लक्ष्मी विष्णु के चरण
३२० रघुवंशमहाकाव्ये
को अपनी गोद में रखकर दबा रही हैं, विष्णु के चरणों में करधनी न चुभे इसलिए करधनी पर अपनी साड़ी का अंचला बिछाया है। इसपर जब लक्ष्मी जी को सन्तोष न हुआ तब उन्होंने अंचला पर अपना कर पल्लव रख दिया ॥ ८ ॥
प्रबुद्धपुण्डरीकाक्षं बालातपनिभांशुकम् ।
दिवसं शारदमिव प्रारम्भसुखदर्शनम् ॥ ६ ॥
अन्वयः— (पुनः कथंभूतम् ) प्रबुद्धपुण्डरीकाक्षम् बालातपनिभांशुकम् प्रारम्भ- मुखदर्शनम् शारदम् दिवसम् इव (स्थितम् )।
प्रबुद्धेति। पुनः कीदृशम् । प्रबुद्धे विकसिते पुण्डरीके सिताम्भोजे इवाक्षिणी यस्य तम् । दिवसे तु पुण्डरीकमेवाक्षि यस्येति विग्रहः । बालातपनिभमंशुकं यस्य तं पिताम्बरधरमित्यर्थः । अन्यत्र बालातपव्याजांशुकमित्यर्थः । 'निभो व्याज- सदृशयोः' इति विश्वः । प्रकृष्ट आरम्भो योगो येषां ते प्रारम्भाः योगिनः तेषां सुखदर्शनम् । अन्यत्र प्रारम्भ आदौ सुखदर्शनं शारदं शरत्सम्बन्धिनं दिवसमिव स्थितम् ।
**भाषार्थ'--**खिले हुए श्वेत कमल के समान नेत्रवाले, प्रातःकाल' की धूप के समान सुनहले पीताम्बर वस्त्र पहने हुए, आरम्भ सुख देने वाले और देखने में सुन्दर शरद ऋतु के दिन के समान आनन्द पहले देनेवाले भगवान् विष्णु को देखा ॥ ९ ॥
प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणम् ।
कौस्तुभाख्यमपां सारं बिभ्राणं बृहतोरसा ॥ १० ॥
अन्वयः— (पुनः कीदृशम् ? ) प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणं कौस्तुभाख्यम् अपाम् सारम् बृहता उरसा बिभ्राणम् ।
प्रभेति । पुनः किंविधं प्रभयाऽलिप्तमनुरंजितं श्रीवत्सं नाम लाञ्छनं येन तं । लक्ष्म्या विभ्रमदर्पणः । कौस्तुभ इत्याख्या यस्य तम् । अपां समुद्राणां सारं स्थिरांशम् । अम्मयमणिमित्यर्थः । वृहतोरसा विशालवक्षः स्थलेन बिभ्राणम् ।
**भाषार्थं—**विष्णु भगवान् के विशाल वक्षस्थल पर कौस्तुभ मणि चमक रहा था जिसमें लक्ष्मी जी कभी-कभी शृंगार के समय अपना मुंह देख लिया करती और जिसकी प्रभाव से भृगु के चरण के प्रहार से बना हुआ श्रीवत्स चिह्न भी चमक उठता था ॥ १० ॥
बाहुभिर्विटपाकारैर्दिव्याभरणभूषितै ।
आविर्भूतमपां मध्ये पारिजातमिवापरम् ॥ ११ ॥
दशमः सर्गः ३२१
दशमः सर्गः ३२१
अन्वयः— ( पुनः किंवधम् ? ) विटपाकारैः दिव्याभरणभूषितैः बाहुभिः अपां मध्ये अपरं परिजातम् इव आविर्भूतम् ।
बाहुभिरिति । विटपाकारैः शाखाकारैः दीर्घपीवरैरित्यर्थः । दिव्याभरणभूषितैर्बाहुभिरुपलक्षितं अत एवापां सैन्धवानां मध्य आविर्भूतमपरं द्वितीयं पारिजातमिव स्थितम् ।
भाषार्थ— दिव्य आभरणों से अलंकृत भगवान् विष्णु की बड़ी-बड़ी भुजायें वृक्ष की शाखा के समान थीं और उनसे वे ऐसे लगते थे मानो समुद्र में एक दूसरा कल्पवृक्ष निकल आया हो ॥ ११ ॥
दैत्यस्त्रीगण्डलेखानां मदरागविलोपिभिः ।
हेतिभिश्चेतनावद्भिरुदीरितजयस्वनम् ॥ १२ ॥
अन्वयः— ( पुनः कथंभूतम् ? ) दैत्यस्त्रीगण्डलेखानाम् मदरागविलोपिभिः चेतनावद्भिः, हेतिभिः उदीरितजयस्वनम् ।
दैत्येति । दैत्यस्त्रीगण्डलेखानामसुर्राङ्गनागण्डस्थलीनां यो मदरागस्तं विलोम्पन्ति हरन्तीति मदरागविलोपिभिः । तैश्चेतनावद्भिः सजीवैर्हेतिभिः सुदर्शनादिभिः शस्त्रैः । 'रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः' इत्यमरः । उदीरितजयस्वनं जयशब्दमुद्घोषयन्तीभिर्मूर्तिमतीभिरस्त्रदेवताभिरुपास्यमानमित्यर्थः ।
भाषार्थ— असुरों को मारकर उनकी स्त्रियों के गले से मद की लाली मिटाने वाले उनके चक्र गदा आदि अस्त्र सजीव होकर उनकी जय-जयकार कर रहे थे ॥ १२ ॥
मुक्तशेषविरोधेन कुलिशव्रणलक्ष्मणा ।
उपस्थितं प्राञ्जलिना विनीतेन गरुत्मता ॥ १३ ॥
अन्वयः— ( पुनश्च कथंभूतम् ? ) मुक्तशेषविरोधेन कुलिशव्रणलक्ष्मणा प्राञ्जलिना विनीतेन गरुत्मता उपस्थितम् ।
मुक्तेति । मुक्तो भगवत्सन्निधानात्त्यक्तः शेषेणाहीश्वरेण सह विरोधः सहजमपि वैरं येन तेन कुलिशव्रणा वज्रव्रणा अमृताहरणकाल इन्द्रयुद्धे ये वज्रप्रहारास्त एव लक्ष्माणि यस्य स तेन प्रबद्धोऽञ्जलिर्येन तेन प्राञ्जलिना । प्रबद्धाञ्जलिनेत्यर्थः । विनीतेनानुद्धतेन गरुत्मतोपस्थितमुपासितम् । पुरा किल मातलिप्रार्थितेन भगवता तद्दुहितुर्गुणकेश्याः पत्युः कस्यचित्सर्पस्य गरुडादभयदाने कृते स्वविपक्षरक्षणक्षुभितं पक्षिराजं त्वद्वोढाऽहं त्वत्तो बलाढ्य इति गर्वितं स्वावामतर्जनीभारेणैव भङ्क्त्वा भगवान्विनिनायेति महाभारतीयां कथां सूचयति विनीतेनेत्यनेन ।
२१ र० सम्पू०
३२२ | रघुवंशमहाकाव्ये
भावार्थ—शेषनाग से स्वाभाविक विरोध छोड़कर इन्द्र के वज्र की चोट का चिह्न धारण किए हुए गरुड़जी बड़ी नम्रता से हाथ जोड़कर उनकी सेवा में खड़े थे ॥ १३ ॥
योगनिद्रान्तविशदैः पावनैरवलोकनः ।
भृग्वादीननुगृह्णन्तं सौखशायनिकानृषीन् ॥ १४ ॥
अन्वयः— ( पुनः कथंभूतम् ? ) योगनिद्रान्तविशदैः पावनैः अवलोकनैः सौखशायनिकान् भृग्वादीन् ऋषीन् अनुगृह्णन्तम् ।
योगेति । योगो मनसो विषयान्तरव्यावृत्तिः । तद्रूपा या निद्रा यस्य अन्तेऽवसाने विशदैः प्रसन्नैः पावनैः शोभनैरवलोकनैः सुखशयनं पृच्छन्तीति सौखशायनिकास्तान् * पृच्छन्तो सुस्नातादिभ्यः * इत्युपसंख्यानाद्वक्प्रत्ययः । भृग्वादीनृषी-ननुगृह्णन्तम् ।
भावार्थ— योगनिद्रा से उठने के कारण निर्मल और पवित्र दृष्टि से सुख-पूर्वक सोने का कुशल पूछने के लिए आये हुए भृगु आदि ऋषियों को अनुगृहीत करते हुए ॥ १४ ॥
प्रणिपत्य सुरास्तस्मै शमयित्रे सुरद्विषाम् ।
अथैनं तुष्टुवुः स्तुत्यमवाङ्मनसगोचरम् ॥ १५ ॥
अन्वयः— अथ सुरा सुरद्विषाम् शमयित्रे तस्मै प्रणिपत्य स्तुत्यम् अवाङ्मनसगोचरम् एनं तुष्टुवुः ।
प्रणिपत्येति । अथ दर्शनान्तरं सुराः सुरद्विषामसुराणां शमयित्रे विनाशकाय तस्मै विष्णवे प्रणिपत्य स्तुत्यं स्तोत्राहंम् "एतिस्तुशास्वृहजुषः क्यप्" इति क्यप्प्रत्ययः । वाक्च मनश्च वाङ्मनसे । "अचतुर०" इत्यच्प्रत्ययान्तो निपातः । तयोर्गोचरो विषयो न भवतीत्यवाङ्मनसगोचरः यदा "यतो वाचो निवर्तन्ते अप्राप्य मनसा सह" इति श्रुते.। तमेनं विष्णुं तुष्टुवुरस्तुवन् ।
भावार्थ— इसके बाद देवता लोग असुरों को मारने वाले, नमस्कार करने योग्य और अवाङ्मनस-गोचर विष्णु की स्तुति करने लगे ॥ १५ ॥
नमो विश्वसृजे पूर्वं विश्वं तदनु बिभ्रते ।
अथ विश्वस्य संहर्त्रे तुभ्यं त्रेधा स्थितात्मने ॥ १६ ॥
अन्वयः— पूर्वम् विश्वसृजे तदनु विश्वं बिभ्रते अथ विश्वस्य संहर्त्रे ( एवं ) त्रेधास्थितात्मने तुभ्यं नमः ।
नम इति । पूर्वमादौ विश्वसृजे विश्वस्रष्ट्रे "यतो वा इमानि भूतानि जायन्ते" इति श्रुतेः । तदनु सर्गानन्तरं विश्वं बिभ्रते पुष्णते अथ विश्वस्य संहर्त्रे एवं त्रेधा
दशमः सर्गः । ३२३
दशमः सर्गः । ३२३
सृष्टिस्थितिसंहारकर्तृत्वेन स्थित आत्मा स्वरूपं यस्य तस्मै ब्रह्मविष्णुहरात्मने तुभ्यं नमः।
भाषार्थ—पहले संसार की सृष्टि करने वाले, उसके बाद विश्व का पालन करने वाले और अन्त में उनका संहार करने वाले, इस प्रकार तीन रूपों में स्थित आपको प्रणाम है ॥ १६ ॥
ननु कूटस्थस्य कथं त्रैरूप्यमित्याशङ्क्योपाधिकमित्याह—
रसान्तराण्येकरसं यथा दिव्यं पयोऽश्नुते ।
देशे देशे गुणेष्वेवमवस्थास्त्वमविक्रियः ॥ १७ ॥
अन्वयः—यथा एकरसं दिव्यं पयः देशे देशे रसान्तराणि अश्नुते एवम् अविक्रियः त्वं गुणेषु अवस्थाः ( अश्नुषे )।
रसान्तराणीति । एकरसं मधुरैकरसं दिवि भवं दिव्यं पयो वर्षोदकं देशे देशे ऊषरादिदेशेऽन्यान्रसान्रसान्तराणि लवणादीनि यथाश्नुते प्राप्नोति एवमविक्रयी निर्विकारः एकरूप इत्यर्थः। त्वं गुणेषु सत्त्वादिष्ववस्थाः स्रष्टृत्वादिरूपा अश्नुते।
भाषार्थ—जिस प्रकार एक रस वर्षा का जल भिन्न-भिन्न स्थानों में गिरकर अनेक रसवाला हो जाता है उसी प्रकार सब प्रकार के विकारों से दूर होते हुए भी आप सत्त्व, रज एवं तम इन तीनों गुणों के सम्बन्ध से अनेक रूप धारण कर लेते हैं ॥ १७ ॥
अमेयो मितलोकस्त्वमनर्थी प्रार्थनावहः ।
अजितो जिष्णुरत्यन्तमव्यक्तो व्यक्तकारणम् ॥ १८ ॥
अन्वयः—( हे देव ? ) त्वम् अमेयः ( सन् ) मितलोकः, अनर्थी ( सन् ) प्रार्थनावहः, अजितः ( सन् ) जिष्णुः, अत्यन्तम् अव्यक्तः ( सन् ) व्यक्तकारणम् ( असि )।
अमेय इति । हे देव ! त्वममेयो लोकैरियतया न परिच्छेद्यः मितलोकः परिच्छिन्नलोकः अनर्थी निस्पृहः। आवहतीत्यावहः। पचाद्यच्। प्रार्थनानामावहः कामदः अजितोऽन्यैर्न जितः जिष्णुर्जयशीलः अत्यन्तमव्यक्तोऽतिसूक्ष्मरूपः व्यक्तस्य स्थूलरूपस्य कारणम्।
भाषार्थ—हे विष्णो ! आप अपरिमेय होते हुए भी संसार को मापने वाले हैं, आप स्वयं निस्पृह होते हुए भी दूसरों की इच्छाओं को पूर्ण करने वाले हैं, आपको कोई नहीं जीत सकता, पर आपने सबको जीत लिया है और आप स्वयं सूक्ष्म होने पर भी स्थूल रूप के कारण हैं ॥ १८ ॥
३२४ | रघुवंशमहाकाव्ये
हृदयस्थमनासन्नमकामं त्वां तपस्विनम्।
दयालुमनघस्पृष्टं पुराणमजरं विदुः॥ १९॥
अन्वयः—( हे देव ! ) त्वां हृदयस्थं ( सन्तम् ) अनासन्नम्, अकामम् ( सन्तम् ) तपस्विनम्, दयालुं ( सन्तम् ) अनघस्पृष्टम्, पुण्यं ( सन्तम् ) अजरं विदुः।
हृदयेति। हे देव ! त्वां हृदयस्थं सर्वान्तर्यामितया नित्यसन्निहितं तथाप्यनासन्नमगम्यरूपत्वाद्विप्रकृष्टं च विदुः । सन्कृष्टस्यापि विप्रकृष्टत्वमिति विरोधः । तथाऽकामं न कामोऽभिलाषोऽस्य तं परिपूर्णत्वान्निस्पृहत्वाच्च । निष्कामम् । तथापि तपस्विनं प्रशस्ततपोयुक्तं विदुः । यो निष्कामः स कथं तपः कुरुत इति विरोधः । परिहारस्तु ऋषिरूपेण दुस्तरं तपस्तप्यते । दयालुं परदुःखप्रहरणपरं तथाप्यनघस्पृष्टं नित्यानन्दस्वरूपत्वाददुःखिनं विदुः । “अघं दुरितदुःखयोः' इति विश्वः । दयालुरदुःखी नेति विरोधः “ईर्ष्या घृणी त्वसंतुष्टः क्रोधनो नित्यशङ्कितः । परभाग्योपजीवी च षडेते नित्यदुःखिताः ।” इति महाभारते । पुराणमनादिमजरं निर्विकारत्वादक्षरं विदुः । चिरन्तनं न जीर्यत इति विरोधांलकारः । उक्तं च—“आभासत्वे विरोधस्य विरोधांलकृतिर्मता” इति । विरोधेन चालौकिकमहिमत्वं व्यज्यते ।
भाषार्थ—हे भगवन् ! ऋषि लोग आपको हृदयस्थ होने पर भी दूरवर्ती, निष्काम होने पर भी सकाम तपस्वी, दयालु होने पर भी दुःख से वर्जित पुण्य-पुरुष होने पर भी जरारहित जानते हैं ॥ १९ ॥
सर्वज्ञस्त्वमविज्ञातः सर्वयोनिस्त्वमात्मभूः।
सर्वप्रभुरनीशस्त्वमेकस्त्वं सर्वरूपभाक् ॥ २० ॥
अन्वयः—त्वं सर्वज्ञः ( सन् ) अविज्ञातः, त्वं सर्वयोनिः ( सन् ) आत्मभूः, त्वं सर्वप्रभुः ( सन् ) अनीशः, त्वम् एकः ( सन् ) सर्वरूपभाक् ।
सर्वज्ञ इति। त्वं सर्वं जानातीति सर्वज्ञः । “इगुपधज्ञाप्रीकिरः कः” इति कप्रत्ययः । अविज्ञातः न केनापि विज्ञात इत्यर्थः । त्वं सर्वस्य योनिः कारणं । त्वमात्मन एव भवतीत्यात्मभूः स्वयंभूः । न ते किंचित्कारणमस्तीत्यर्थः । त्वं सर्वस्य प्रभुः त्वमनीशः त्वमेकः सर्वरूपभाक् । त्वनेक एव सर्वात्मना वर्तस इत्यर्थः ।
भाषार्थ—आप सबको जानते हैं पर आपको कोई भी नहीं जानता, आप सबके कारण हैं पर आपका कोई कारण नहीं है, आप सबके स्वामी हैं पर आपका कोई भी स्वामी नहीं है और आप एक होते हुए भी संसार के सब रूप धारण किये हुए हैं ॥ २० ॥
दशमः सर्गः ३२५
दशमः सर्गः ३२५
सप्तसामोपगीतं त्वां सप्ताणंवजलेशयम् ।
सप्तार्चिर्मुखमाचख्युः सप्तलोकैकसंश्रयम् ॥ २१ ॥
अन्वयः—( हे देव ! ) त्वां सप्तसामोपगीतं सप्ताणंवजलेशयं सप्तार्चिमुखं सप्तलोकैकसंश्रयम् आचख्युः ।
सप्तेति । हे देव ! त्वां सप्तभिः सामभी रथन्तरबृहद्रथन्तरवामदेव्यवैरूप्य-पावमान्यवैराजचान्द्रमसैरुपगीतम् । “तद्धितार्थोत्तरपदसमाहारे च” इत्युत्तरपदसमासः । सप्तानामर्णवानां जलं सप्ताणंवजलं । पूर्ववत्समासः । तत्र शेते यः स सप्ताणंवजलेशयः तम् । “शयवासवासिष्वकालात्” इत्युलुक् । सप्तार्चिर्मुखं यस्य तम् “अग्निमुखा वै देवाः” इति श्रुतेः । सप्तानां लोकानां भूर्भुवःस्वरादीनामेकसंश्रयम् । एवंभूतमाचख्युः ।
**भाषार्थ—**हे देव ! विद्वान् लोग आपको ही सामवेद के सात प्रकार के गीतों में स्तुत्य सातों समुद्रों में शयन करने वाले, सात ज्वालावाली अग्नि मुखवाले तथा सातों लोकों का आश्रय स्थान बतलाते हैं ॥ २१ ॥
चतुर्वर्गफलं ज्ञानं कालावस्थाश्चतुर्युगाः ।
चतुर्वर्णमयो लोकस्त्वत्तः सर्वं चतुर्मुखात् ॥ २२ ॥
**अन्वयः—**चतुर्वर्गफलं ज्ञानं चतुर्युगाः कालावस्थाः चतुर्वर्णमयः लोकः ( एतत् ) सर्वं चतुर्मुखात् त्वत्तः ( जातम् ) ।
चतुरिति । चतुर्णां धर्मार्थकाममोक्षाणां वर्गश्चतुर्वर्गः त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकैः’ इत्यमरः । तत्फालकं यज्ज्ञानम् । चत्वारि युगानि कृतत्रेतादीनि यासु ताश्चतुर्युगाः कालावस्थाः कालपरिमाणम् । चत्वारो वर्णाः प्रकृता उच्यन्ते यस्मिन्निति चतुर्वर्णमयः । चतुर्वण्यंप्रकार इत्यर्थः । तत्प्रकृतवचने मयट् “तद्धितार्थोत्तरपदसमाहारे च” इत्यनेन तद्धितार्थे विषये तत्पुरुषः । स लोकः इत्येवंरूपं सर्वं चतुर्मुखाच्चतुर्मुखरूपिणस्त्वत्तः जातमिति शेषः । “इदं सर्वमसृजत यदिदं किंच” इति श्रुतेः ।
**भाषार्थ—**हे भगवन् ! धर्मार्थकाममोक्षरूप पुरुषार्थ चतुष्टय का फल ज्ञान, चारों युगों के समय का परिणाम और चार वर्ण वाला यह संसार सब आपके हो चारों मुखों से उत्पन्न हुए है ॥ २२ ॥
अभ्यासनिगृहीतेन मनसा हृदयाश्रयम् ।
ज्योतिर्मयं विचिन्वन्ति योगिनस्त्वां विमुक्तये ॥ २३ ॥
**अन्वयः—**योगिनः अभ्यासनिगृहीतेन मनसा हृदयाश्रयं ज्योतिर्मयं त्वां विसुक्तये विचिन्वन्ति ।
३२६ | रघुवंशमहाकाव्ये
अभ्यासेति । अभ्यासेन निगृहीतं विषयान्तरेभ्यो निवर्तितं तेन । मनसा योगिनो हृदयाश्रयं हृत्पद्मस्थं ज्योतिर्मयं त्वां विमुक्तये मोक्षार्थं विचिन्वन्त्यन्विष्यन्ति ध्यायन्तीत्यर्थः ।
भाषार्थ—योगी लोग अभ्यास के द्वारा वश में किये गये मन से अपने हृदय में स्थित ज्योतिःस्वरूप आपको ही मुक्ति के लिए ध्यान करते हैं ॥ २३ ॥
अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः ।
स्वपतो जागरूकस्य याथातथ्यं वेद कस्तव ॥ २४ ॥
**अन्वयः—**अजस्य ( अपि ) जन्मगृह्णतः निरीहस्य ( अपि ) हतद्विषः जागरुकस्य ( अपि ) स्वपतः ( इत्थम् ) तव याथातथ्यं कः वेद ।
अजस्येति । न जायत इत्यजः । “अन्येष्वपि दृश्यते” इति डप्रत्ययः । तस्याजस्य जन्मशून्यस्यापि जन्म गृह्णतः मत्स्यादिरूपेण जायमानस्य चेष्टारहितस्यापि हतद्विषः शत्रुघातिनो जागरूकस्य सर्वसाक्षितया नित्यप्रबुद्धस्यापि स्वपतो योगनिद्रामनुभवतः इत्थं विरुद्धचेष्टस्य तव याथातथ्यं को वेद वेत्ति । “विदो लटो वा' इति णलादेशः ।
**भाषार्थ—**हे भगवन् ! अजन्मा होने पर भी मत्स्य, वाराह आदि रूप से जन्म लेने वाले, इच्छारहित होने पर भी शत्रुओं का संहार करने वाले, योगनिद्रा में सोते हुए भी सदा जागरूक आपको यथार्थ रूप से कौन जान सकता है ? अर्थात् कोई नहीं ॥ २४ ॥
शब्दादीन्विषयान्भोक्तुं चरितुं दुश्चरं तपः ।
पर्याप्तोऽसि प्रजाः पातुमौदासीन्येन वर्तितुम् ॥ २५ ॥
अन्वयः—( किञ्च ) शब्दादीन् विषयान् भोक्तुं दुश्चरं तपः चरितुं प्रजाः पातुं ( च ) औदासीन्येन वर्तितुं पर्याप्तः असि ।
शब्देति । किञ्च कृष्णादिरूपेण शब्दादिरूपेण शब्दादीन्विषयान्भोक्तुं नरनारायणादिरूपेण दुश्चरं तपश्चरितुं तथा दैत्यमर्दनेन प्रजा पातुम् । औदासीन्येन टार्टस्थ्येन वर्तितुं च पर्याप्तः समर्थोऽसि । भोगतपसोः पालनोदासीन्ययोश्चपरस्परविरुद्धयोराचरणे त्वदन्यः कः समर्थ इत्यर्थः ।
**भाषार्थ—**आप ही कृष्ण आदि रूपों में शब्दादि विषयों का भोग करते हैं, नरनारायण रूप में कठोर तपस्या करते हैं, रामादि रूप धारणकर प्रजा का पालन करते हैं और बुद्ध आदि शान्त रूप धारण करके उदासीन भी बन जाते हैं ॥ २५ ॥
दशमः सर्गः ३२७
बहुधाप्यागमैर्भिन्नाः पन्थानः सिद्धिहेतवः ।
त्वय्येव निपतन्त्योघा जाह्नवीया इवार्णवे ॥ २६ ॥
अन्वयः—आगमैः बहुधा भिन्नाः अपि सिद्धिहेतवः पन्थानः जाह्नवीयाः ओघाः ( आगमैः बहुधाभिन्नाः अपि ) अर्णवे इव त्वयि एव निपतन्ति ।
बहुधेति—आगमैस्त्रयीसांख्यादिभिर्दर्शनैर्बहुधा भिन्ना अपि सिद्धिहेतवः पुरुषार्थसाधकाः पन्थान उपायाः । जाह्नव्या इमे जाह्नवीया गाङ्गाः । “वृद्धाच्छः” इति छप्रत्ययः । ओघाः प्रवाहाः तेऽप्यागमैरागतिभिर्बहुधा भिन्नाः सिद्धिहेतवश्च अर्णवं इव त्वय्येव निपतन्ति प्रविशन्ति । । येन केनापि रूपेण त्वामेवोपयान्तीत्यर्थः । ययाहुराचार्याः—“किं बहुना कारवोऽपि विश्वकर्मेत्युपासते” इति ।
भावार्थ— हे प्रभो ! जिस प्रकार गंगाजी की सभी धारायें समुद्र में ही गिरती हैं उसी प्रकार भिन्न-भिन्न शास्त्रों में भिन्न-भिन्न प्रकार से कहे हुए पुरुषार्थ प्राप्ति के उपाय आपसे ही सम्बन्ध रखते हैं ॥ २६ ॥
त्वय्यावेशितचित्तानां त्वत्समर्पितकर्मणाम् ।
गतिस्त्वं वीतरागाणामभूयः सन्निवृत्तये ॥ २७ ॥
अन्वयः—त्वयि आवेशितचित्तानां त्वत्समर्पितकर्मणां वीतरागाणां अभूयः सन्निवृत्तये त्वम् ( एव ) गतिः ( असि ) ।
त्वयीति । त्वय्यावेशितं निवेशितं चित्तं यैस्तेषां । तुभ्यं समर्पितानि कर्माणि यैस्तेषां “मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि कौन्तेय प्रतिजाने प्रियोऽसि मे ।।” इति भगवद्वचनात् । वीतरागाणां विरक्तानामभूयः सन्निवृत्तयेऽपुनरावृत्तये मोक्षायेत्यर्थः । त्वमेव गति साधनम् । “तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय” इति श्रुतेरित्यर्थः ।
भावार्थ—आपका ही सदा ध्यान करने वाले और आपको ही सब कर्म समर्पित करने वाले राग द्वेष शून्य योगियों को आप जन्म-मरण के बन्धन से छुटकारा देते हैं ॥ २७ ॥
प्रत्यक्षोऽप्यपरिच्छेद्यो मह्यादिर्महिमा तव ।
आप्तवागनुमानाभ्यां साध्यं त्वां प्रति का कथा ॥ २८ ॥
अन्वयः—तव मह्यादिः महिमा प्रत्यक्षः अपि अपरिच्छेद्यः आप्तवागनुमानाभ्यां साध्यं त्वं प्रति का कथा ? ।
प्रत्यक्ष इति । प्रत्यक्षः प्रमाणगम्योऽपि तव मह्यादिः पृथिव्यादिर्महिमैववयंम-
३२८ रघुवंशमहाकाव्ये
परिच्छेद्य इयत्तया नावधार्यः आप्तवाग्वेदः । “यतो वा इमानि भूतानि जायन्ते” इत्यादि श्रुतेः । अनुमानं क्षित्यादिकं सकर्तृकं कार्यत्वाद्धटवदित्यादिकं ताभ्यां साध्यं गम्यं त्वां प्रति का कथा । प्रत्यक्षमपि त्वत्कृतं जगदपरिच्छेद्यं तत्कारण-मप्रत्यक्षस्त्वमपरिच्छेद्य इति किमु वक्तव्यमित्यर्थः ।
**भावार्थ—**हे भगवन् ! प्रत्यक्ष दृश्यमान आपसे उत्पन्न समस्त पृथ्वी आदि ऐश्वर्यों से आपकी महिमा नहीं जानी जा सकतीं, तब केवल वेद और अनुमान से किसी तरह जानने योग्य आपका ज्ञान कैसे हो सकता है ॥ २८ ॥
केवलं स्मरणेनैव पुनासि पुरुषं यतः।
अनेन वृत्तयः शेषा निवेदितफलास्त्वयि ॥ २९ ॥
**अन्वयः—**यतः स्मरणेन केवलं पुरुषं पुनासि अनेन एव त्वयि शेषा वृत्तयः निवेदितफलाः ।
केवलमिति। स्मरणेन केवलं कृत्स्नं । 'केवलःकृत्स्नमेकश्च' इति शाश्वतः । पुरुषं स्मर्तारं जनं पुनासि यतः यदित्यर्थः । अनेन स्मृतिकार्येणैव त्वयि त्वद्विषये याः शेषाः अवशिष्टा वृत्तयो दर्शनस्पर्शनादयो व्यापारास्ता निवेदितफला विज्ञापितकार्याः । तवस्मरणस्यैतत्फलं दर्शनादीनां तु कियदिदि नावधारयाम इति भावः ।
**भावार्थ—**हे भगवन् ! जब आप केवल अपने स्मरण करने वालों को पवित्र कर देते हैं तो फिर आपके दर्शन और स्पर्शन आदि व्यापार की क्या कथा है ॥ २९ ॥
उदधेरिव रत्नानि तेजांसीव विवस्वतः ।
स्तुतिभ्यो व्यतिरिच्यन्ते दूराणि चरितानि ते ॥ ३० ॥
**अन्वयः—**उदधेः रत्नानि इव विवस्वतः तेजांसि इव दूराणि ते चरितानि स्तुतिभ्यः व्यतिरिच्यन्ते ।
उदधेरिति । उदधेरुदकं धीयत उदधिस्तस्य रत्नानीव विवस्वतस्तेजांसीव दूराण्यवाङ्मनसगोचराणि ते चरितानि व्यतिरिच्यन्ते । निःशेषं स्तोतुं न शक्यन्त इत्यर्थः ।
**भावार्थ—**हे भगवन् ! जिस प्रकार समुद्र के रत्नों को और सूर्य की किरणों को कोई गिन नहीं सकता, उसी प्रकार अवाङ्मनस गोचर आपके चरित्रों का वर्णन नहीं हो सकता ॥ ३० ॥
अनवाप्तमवाप्तव्यं न ते किञ्चन विद्यते ।
लोकानुग्रह एवैको हेतुस्ते जन्मकर्मणोः ॥ ३१ ॥