भारतकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

३२८ रघुवंशमहाकाव्ये

परिच्छेद्य इयत्तया नावधार्यः आप्तवाग्वेदः । “यतो वा इमानि भूतानि जायन्ते” इत्यादि श्रुतेः । अनुमानं क्षित्यादिकं सकर्तृकं कार्यत्वाद्धटवदित्यादिकं ताभ्यां साध्यं गम्यं त्वां प्रति का कथा । प्रत्यक्षमपि त्वत्कृतं जगदपरिच्छेद्यं तत्कारण-मप्रत्यक्षस्त्वमपरिच्छेद्य इति किमु वक्तव्यमित्यर्थः ।

**भावार्थ—**हे भगवन् ! प्रत्यक्ष दृश्यमान आपसे उत्पन्न समस्त पृथ्वी आदि ऐश्वर्यों से आपकी महिमा नहीं जानी जा सकतीं, तब केवल वेद और अनुमान से किसी तरह जानने योग्य आपका ज्ञान कैसे हो सकता है ॥ २८ ॥

केवलं स्मरणेनैव पुनासि पुरुषं यतः।
अनेन वृत्तयः शेषा निवेदितफलास्त्वयि ॥ २९ ॥

**अन्वयः—**यतः स्मरणेन केवलं पुरुषं पुनासि अनेन एव त्वयि शेषा वृत्तयः निवेदितफलाः ।

केवलमिति। स्मरणेन केवलं कृत्स्नं । 'केवलःकृत्स्नमेकश्च' इति शाश्वतः । पुरुषं स्मर्तारं जनं पुनासि यतः यदित्यर्थः । अनेन स्मृतिकार्येणैव त्वयि त्वद्विषये याः शेषाः अवशिष्टा वृत्तयो दर्शनस्पर्शनादयो व्यापारास्ता निवेदितफला विज्ञापितकार्याः । तवस्मरणस्यैतत्फलं दर्शनादीनां तु कियदिदि नावधारयाम इति भावः ।

**भावार्थ—**हे भगवन् ! जब आप केवल अपने स्मरण करने वालों को पवित्र कर देते हैं तो फिर आपके दर्शन और स्पर्शन आदि व्यापार की क्या कथा है ॥ २९ ॥

उदधेरिव रत्नानि तेजांसीव विवस्वतः ।
स्तुतिभ्यो व्यतिरिच्यन्ते दूराणि चरितानि ते ॥ ३० ॥

**अन्वयः—**उदधेः रत्नानि इव विवस्वतः तेजांसि इव दूराणि ते चरितानि स्तुतिभ्यः व्यतिरिच्यन्ते ।

उदधेरिति । उदधेरुदकं धीयत उदधिस्तस्य रत्नानीव विवस्वतस्तेजांसीव दूराण्यवाङ्मनसगोचराणि ते चरितानि व्यतिरिच्यन्ते । निःशेषं स्तोतुं न शक्यन्त इत्यर्थः ।

**भावार्थ—**हे भगवन् ! जिस प्रकार समुद्र के रत्नों को और सूर्य की किरणों को कोई गिन नहीं सकता, उसी प्रकार अवाङ्मनस गोचर आपके चरित्रों का वर्णन नहीं हो सकता ॥ ३० ॥

अनवाप्तमवाप्तव्यं न ते किञ्चन विद्यते ।
लोकानुग्रह एवैको हेतुस्ते जन्मकर्मणोः ॥ ३१ ॥

दशमः सर्गः ३२९

**अन्वयः—**अनवाप्तम् (च) अवाप्तव्यम् ते किञ्चन न विद्यते, एकः लोकानुग्रहः एव ते जन्मकर्मणोः हेतुः ।

अनवाप्तमिति । अनवाप्तमप्राप्तम् अवाप्तव्यं प्राप्तव्यं ते तव किंचन किञ्चिदपि न विद्यते नित्यपरिपूर्णत्वादिति भावः । तर्हि किंनिबन्धने जन्मकर्मणी तत्राह—लोकेति । एको लोकानुग्रह एव ते तव जन्मकर्मणोर्हेतुः । परमकारुणिकस्य ते परार्थैव प्रवृत्तिः । न स्वार्थेत्यर्थः ।

**भाषार्थ—**हे भगवन् ! संसार में कोई ऐसी वस्तु नहीं है जिसकी प्राप्ति के लिए आप जन्म लेते हैं और मनुष्यों सा व्यवहार करते हैं, आपके जन्म-कर्म का एक मात्र यही उद्देश्य है कि आप संसार पर अनुग्रह करना चाहते हैं ॥ ३१ ॥


महिमानं यदुत्कीर्त्य तव संह्रियते वचः ।
श्रमेण तदशक्त्या वा न गुणानामियत्तया ॥ ३२ ॥

**अन्वयः—**तव महिमानं संकीर्त्य वचः संह्रियते यत् तत् श्रमेण अशक्त्या वा, गुणानाम् इयत्तया न ।

महिमानमिति । तव महिमानमनुकीर्त्य वचः संह्रियते इति यत् तद्वचः संहरणं श्रमेण वाग्व्यापारश्रान्त्या अशक्त्या कार्त्स्न्येन वक्तुमशक्यत्वाद्वा गुणानामियत्तया इदं परिमाणं अस्य इयान् तस्य भावः इयत्ता तया एतावन्मात्रतया न । तेषामानन्त्यादिति भावः ।

**भाषार्थ—**आपकी महिमा का वर्णन कर जो हम लोग चुप हो रहे हैं इसका मतलब यह नहीं कि हम लोगों ने आपके सब गुण बखान डाले, किन्तु आपके गुण अनन्त हैं उन्हें सम्पूर्ण कोई जान नहीं सकता आपके गुणगान करते-करते हम थक गये हैं और आगे बोलने की शक्ति हममें नहीं रह गई है ॥ ३२ ॥


इति प्रसाद्यामासुस्ते सुरास्तमधोक्षजम् ।
भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः ॥ ३३ ॥

**अन्वयः—**ते सुरा अधोक्षजम् तं प्रसाद्यामासुः । हि परमेष्ठिनः भूतार्थव्याहृतिः न स्तुतिः ।

इतीति । इति ते सुरास्तमधोभूतंमक्षजमिन्द्रियजं ज्ञानं यस्मिंस्तमधोक्षजं विष्णुं प्रसाद्यामासुः प्रसन्नं चक्रुः । हि यस्मात्परमेष्ठिनः सर्वोत्तमस्य तस्य देवस्य सा देवैः कृता भूतार्थव्याहृतिर्भूतस्य सत्यस्यार्थस्य व्याहृतिरुक्तिः । युक्ते क्षमादावृते भृतम्' इत्यमरः । न स्तुतिर्न प्रशंसामात्रं महान्तो हि यथाकथंचिन्न सुलभा इति भावः । परमे स्थाने तिष्ठतीति परमेष्ठी । "परमे कित्" इत्युणादि-

३३०रघुवंशमहाकाव्ये

सूत्रेण निष्ठेतेरिनिः। "तत्पुरुषे कृति बहुलम्" इति सप्तम्या अलुक्। स्यास्थ्यन्स्थूणाम् इति वक्तव्यात्षत्वम्।

भाषार्थ—इस प्रकार उन देवताओं ने विष्णु की स्तुति करके उन्हें प्रसन्न कर लिया। वह स्तुति भी उनकी झूठी प्रशंसा नहीं थी किन्तु भगवान् के गुणों का यथार्थ वर्णन था॥ ३३ ॥

तस्मै कुशलसंप्रश्नव्यञ्जितप्रीतये सुराः।
भयमप्रलयोद्वेलादाचचक्षुर्नैर्ऋतोदधेः ॥ ३४ ॥

अन्वयः—सुराः कुशलसप्रश्नञ्जितप्रीतये तस्मै अप्रलयोद्वेलात् नैर्ऋतोदधे भयम् आचख्युः।

तस्मा इति। सुरा देवाः कुशलस्य संप्रश्नेन व्यञ्जिता प्रकटीकृता प्रीतिर्यस्य तस्मै। लक्षितप्रसादायेत्यर्थः। अन्यथा अनवसरविज्ञप्तिर्मुखराणामिव निष्फला स्यादिति भावः। तस्मै विष्णवेऽप्रलये प्रलयाभावेऽप्युद्वेलादुन्मर्यादात् नैर्ऋतो राक्षसः स एवोदधिः तस्माद्भूयंम्। चख्युः कथितवन्तः।

भाषार्थ—भगवान् विष्णु ने प्रसन्न होकर देवताओं से कुशल मंगल पूछा, इसके उत्तर में उन्होंने कहा कि आजकल ऐसे राक्षस उत्पन्न हो गये हैं जिन्होंने बिना प्रलयकाल के आये ही समस्त संसार की मर्यादाओं को भंग करके सर्वत्र हाहाकार मचा दिया है। अर्थात् मर्यादा भंग करने वाले रावणादि राक्षसों से हमें बहुत बड़ा कष्ट हो रहा है॥ ३४ ॥

अथ वेलासमासन्नशैलरन्ध्रानुनादिना।
स्वरेणोवाच भगवान्परिभूतार्णवध्वनिः॥ ३५॥

अन्वयः—अथ परिभूतार्णवध्वनिः भगवान् वेलासमासन्नशैलरन्ध्रानुनादिना स्वरेण उवाच।

अथेति। अथ वेलायामब्धिकूले समाासन्नानां सन्निकृष्टानां शैलानां रन्ध्रेषु गह्वरेष्वनुनादिना प्रतिध्वनिवता स्वरेण परिभूतार्णवध्वनिस्तिरस्कृतसमुद्रघोषो भगवानुवाच।

भाषार्थ—इसके बाद समुद्र से भी गम्भीर स्वर में जब भगवान् विष्णु उत्तर देने लगे, तब क्षीर समुद्र तट के निकटवर्ती पहाड़ों की कन्दरायें गूंज उठीं॥ ३५ ॥

पुराणस्य कवेस्तस्य वर्णस्थानसमीरिता।
बभूव कृतसंस्कारा चरितार्थैव भारती ॥ ३६ ॥

दशमः सर्गः ३३१

दशमः सर्गः ३३१

अन्वयः—पुराणस्य कवेः तस्य वर्णस्थानसमीरिता कृतसंस्कारा भारती चरितार्था एव बभूव ।

पुराणस्येति । पुराणस्य चिरन्तनस्य कवेस्तस्य भगवतो वर्णस्थानेषूरःकण्ठादिषु समीरिता सम्यगुच्चारिता अत एव कृताः संपादिताः संस्कारः साधुत्वस्पृष्टतादिप्रयत्नो यस्याः सा भारती वाणी चरितार्था कृतार्था बभूवैव । एवकारस्त्वसंभावना विपरीतभावनाव्युदासार्थः ।

भाषार्थ—सबसे पुराने कवि उस विष्णु भगवान् के कण्ठतालु दन्त ओष्ठ आदि अक्षरों के उच्चारण स्थानों से जब संस्कारयुक्त वाणी निकली, तब मानों सरस्वती ने अपने जन्म लेने का फल पा लिया ॥ ३६ ॥

बभौ सदशनज्योत्स्ना सा विभोर्वदनोद्गता ।
निर्याताशेषा चरणाद्गङ्गेवोर्ध्वप्रवर्तिनी ॥ ३७ ॥

अन्वयः—विभोः वदनोद्गता सदशनज्योत्स्ना सा चरणात् निर्याताशेषा उर्ध्वप्रवर्तिनी गङ्गा इव बभौ ।

बभाविति । विभोर्विष्णोर्वदनानुद्गता । निःसृता सदशनज्योत्स्ना दन्तकान्तिसहिता इदं च विशेषणं धावल्यातिशयार्थम् । अत एव सा भारती चरणादङ्घ्रै-निर्याता चासौ शेषा च निर्याताशेषा निःसृतावशिष्टेत्यर्थः । “स्त्रियाः पुंवद्भाषितपुंस्कादनूङ्त्समानाधिकरणे स्त्रियामपूरणीप्रियादिषु" इत्यनुवर्त्य “पुंवत्कर्मधारयजातीयदेशीयेषु" इति पुंवद्भावः । निर्यातशब्दस्य या निर्याता सावशेषा सा गङ्गेवेति सामानाधिकरण्यनिर्वाहः । निर्यातायाः शेषेति विग्रहे पुंवद्भावो दुर्घट एव । ऊर्ध्वप्रवर्तिन्यूर्ध्ववाहिनी गङ्गेव बभौ इत्युत्प्रेक्षा ।

भावार्थ—सर्वसमर्थ भगवान् विष्णु के मुखारविन्दु से निकली एवं उनके दाँतों की चमक से जगमगाती हुई विशुद्ध वाणी ऐसी मालूम पड़ने लगी मानों उनके चरण से निकलने वाली गंगा जी अब ऊपर की ओर बह रही हैं ॥ ३७ ॥

यदाह भगवांस्तदाह—

जाने वो रक्षसाऽऽक्रान्तावनुभावपराक्रमौ ।
अङ्गिनो तमसेवोभौ गुणौ प्रथममध्यमौ ॥ ३८ ॥

अन्वयः—(हे देवाः !) वः अनुभावपराक्रमौ रक्षसा अङ्गिनो प्रथममध्यमौ उभौगुणौ तमसा इव आक्रान्तौ जाने ।

३३२रघुवंशमहाकाव्ये

जान इति। हे देवाः वो युष्माकमनुभावपराक्रमौ महिमपुरुषकारौ रक्षसा रावणेन अङ्गिनां शरीरिणां प्रथममध्यमावुभौ गुणौ सत्त्वरजसी तमसेव तमोगुणेनेव। 'राहो ध्वान्ते गुणे तमः' इत्यमरः। आक्रान्तौ इति जाने। वाक्यार्थः कर्म।

**भावार्थ—**हे देवताओ ! यह मैं जानता हूँ कि आप लोगों के तेज और बल को राक्षसराज रावण ने उसी प्रकार दबा दिया है जिस प्रकार संसारी जीवों के सतोगुण और रजोगुण को उनका तमोगुण दबा देता है ॥ ३८ ॥

विदितं तप्यमानञ्च तेन मे भुवनत्रयम्। अकामोपनतेनेव साधोर्हृदयमेनसा ॥ ३९ ॥

**अन्वयः—**अकामोपहतेन एनसा साधोः हृदयम् इव तेन तप्यमानं भुवनत्रयम् च मे विदितम् (अस्ति)।

विदितमिति। किंच अकामेनानिच्छयोपनतेन प्रमादादागतेनैनसा पापेन साधोः सज्जनस्य हृदयमिव तेन रक्षसा तप्यमानं सन्तप्यमानं। तपेर्भौवादिकात्कर्मणि शानच्। भुवनत्रयं च मे विदितं मया ज्ञायत इत्यर्थः। "मतिबुद्धिपूजार्थेभ्यश्च" इत्यनेन वर्तमाने क्तः। "क्तस्य च वर्तमाने" इति षष्ठी।

**भावार्थ—**और मैं यह भी जानता हूँ कि जिस प्रकार अनजान में किये हुए पाप से सज्जन का मन घबरा जाता है उसी प्रकार सारा संसार रावण के अत्याचार से घबरा उठा है ॥ ३९ ॥

कार्येषु चैककार्यत्वादभ्यर्थ्योऽस्मि न वज्रिणा। स्वयमेव हि वातोऽग्नेः सारथ्यं प्रतिपद्यते ॥ ४० ॥

**अन्वयः—**एककार्यत्वात् कार्येषु वज्रिणा अभ्यर्थ्यः न अस्मि। हि वातः स्वयमेव अग्नेः सारथ्यं प्रतिपद्यते।

कार्येष्विति। किंच एककार्यत्वात् एकं कार्यं ययोस्तौ तयोर्भावः एकाकार्यत्वं तस्मादावयौरेककार्यकत्वाद्धेतोः कार्येषु कर्त्तव्यार्थेषु विषयेषु वज्रिणेन्द्रेणाभ्यर्थ्यं एवं कुर्विति प्रार्थनीयो नास्मि। तथाहि वातः स्वयमेवाग्नेः सारथ्यं साहाय्यं प्रतिपद्यते प्राप्नोति। न तु वह्निप्रार्थनया इत्येवकारार्थः प्रेक्षावतां हि स्वार्थेषु स्वत एवं प्रवृत्तिः न तु परप्रार्थनया। स्वार्थश्चायं ममापीत्यर्थः।

**भावार्थ—**मेरा और इन्द्र का एकमात्र कार्य असुर संहार एवं शिष्टों की रक्षा करना है। अतः इस कार्य के लिए इन्द्र को मुझसे प्रार्थना करने की कोई आवश्यकता नहीं है, क्योंकि आग की सहायता करने के लिए वायु से कहने की आवश्यकता नहीं पड़ती है, वह तो स्वयं उसका सहायक बन जाता है ॥४०॥

दशमः सर्गः । ३३३

दशमः सर्गः । ३३३

पुरा किल त्रिपुरारिप्रीणनाय स्वशिरांसि छिन्दता दशकन्धरेण यद्दशमं शिरोऽवशेषितं तन्मच्चक्रार्थमित्याह— स्वासिधारापरिहृतः कामं चक्रस्य तेन मे । स्थापितो दशमो मूर्धा लभ्यांश इव रक्षसा ॥ ४१ ॥

**अन्वयः—**स्वासिधारा परिहृतः दशमः मूर्धा मे चक्रस्य कामं लभ्यांश इव तेन रक्षसा स्थापितः ।

स्वेति । स्वासिधारया स्वखड्गधारया परिहृतः अच्छिन्न इत्यर्थः । दशमो-मूर्धा मे मम चक्रस्य कामं पर्याप्तं लभ्यांशः प्राप्तव्यभाग इव तेन रक्षसा स्थापितः । तत्सर्वथा तमहं हनिष्यामीत्यर्थः ।

**भाषार्थ—**भगवान् शङ्कर को प्रसन्न करने के लिए रावण ने पहले यज्ञों में तलवार से अपने ९ शिरों को काटकर हवन कर दिया है, अब मालूम पड़ता है कि उसने अपना दशवाँ शिर मेरे चक्र से कटने के लिए ही रख छोड़ा है । अर्थात् अब मैं उसको अवश्य मारूँगा ॥ ४१ ॥

तर्हि किं प्रागुपेक्षितमत आह— स्रष्टुर्वरातिसर्गात्तु मया तस्य दुरात्मनः । अत्यारूढं रिपोः सोढं चन्दनेनेव भोगिनः ॥ ४२ ॥

**अन्वयः—**तु मया स्रष्टुः वरातिसर्गात् तस्य दुरात्मनः रिपोः अत्यारूढं चन्दनेन भोगिनः ( अत्यारूढम् ) इव सोढम् ।

स्रष्टुरिति । किन्तु स्रष्टुर्ब्रह्मणो वरातिसर्गाद्वरदानाद्धेतोः मया तस्य दुरात्मनो रिपोः रावणस्यात्यारूढमत्यारोहणम् अतिवृद्धिरित्यर्थः । नपुंसके भावे क्तः। भगिनः सर्पस्यात्यारूढं चन्दनेनेव सोढुम् । चन्दनद्रुमस्यापि तया सहनं स्रष्टुनियतेरिति द्रष्टव्यम् ।

**भाषार्थ—**जिस प्रकार चन्दनवृक्ष अपने ऊपर चढ़ते हुए सर्प को सह लेता है उसी प्रकार ब्रह्माजी के वरदान देने के कारण मैंने भी उस दुष्ट रावण की वृद्धि को सहन किया है ॥ ४२ ॥

सम्प्रति वरस्वरूपमाह— धातारं तपसा प्रीतं ययाचे स हि राक्षसः । दैवात्सर्गादवध्यत्वं मर्त्येष्वास्थापराङ्मुखः ॥ ४३ ॥

**अन्वयः—**हि सः राक्षसः तपसा प्रीतं धातारं मर्त्येषु आस्थापराङ्मुखः ( सन् ) दैवात् सर्गात् अवध्यत्वं ययाचे ।

धातारमिति । स राक्षसस्तपसा प्रीतं सन्तुष्टं धातारं ब्रह्माणं मर्त्येषु विषय

३३४ रघुवंशमहाकाव्ये

आस्थापराङ्मुख आदरविमुखः सन् मर्त्याननाहत्येत्यर्थः दैवदष्टविधात्सर्गाद्दिव- सृष्टेरवध्यत्वं ययाचे हि।

भाषार्थ—अपनी तपस्या से प्रसन्न ब्रह्माजी से उसने यह वरदान माँगा था कि मैं देवताओं के हाथ से न मारा जा सकूं क्योंकि वह मनुष्यों को तो तृण के समान अति तुच्छ समझता था ॥ ४३ ॥

तर्हि का गतिरित्याशङ्क्य मनुष्यावतारेण हनिष्यामीत्याह—

सोऽहं दाशरथिर्भूत्वा रणभूमेर्बलिक्षमम् ।
करिष्यामि शरैस्तीक्ष्णैस्तच्छिरःकमलोच्चयम् ॥ ४४ ॥

अन्वयः--सः अहं दाशरथिः भूत्वा तच्छिरः कमलोच्चयं तीक्ष्णैः शरैः रणभूमेः बलिक्षमं करिष्यामि।

सोऽहमिति--सोऽहं दशरथस्यापत्यं पुमान्दाशरथिः। “अत इञ्” इति इञ्प्रत्ययः। रामो भूत्वा तीक्ष्णैः शरैस्तस्य रावणस्य शिरांस्येव कमलानि तेषामुच्चयं राशिं रणभूमेर्बलिक्षमं पूजाहं करिष्यामि। पुष्पविशदा हि पूजेति भावः।

भाषार्थ—इसलिए मैं राजा दशरथ के यहाँ जन्म लेकर अपने तीखे बाणों से उसके शिरों को कमल के समान रणभूमि को भेंट चढ़ा दूंगा अर्थात् युद्धस्थल में अपने बाणों से रावण को अवश्य मारूँगा ॥ ४४ ॥

अचिराद्यज्वभिर्भागं कल्पितं विधिवत्पुनः ।
मायाविभिरनालीढमादास्यध्वे निशाचरैः ॥ ४५ ॥

अन्वयः—(यूयम्) यज्वभिः विधिवत् कल्पितं भागं मायाविभिः निशाचरैः अनालीढम् अचिरात् पुनः आदास्यध्वे।

अचिरादिति— हे देवाः ! यज्वभिर्याज्ञिकैर्विधिवत्कल्पितमुपहृतं भागं हविर्भागं मायाविभिर्मायावद्भिः। “अस्मायामेधास्रजो विनिः” इति विनिप्रत्ययः। निशाचरैः रक्षोभिरनालीढमनास्वादितं यथा तथाचिरात्पुनरादास्यध्वे।

भाषार्थ—हे देवताओ ! याज्ञिकों द्वारा विधिपूर्वक आप लोगों को दिया गया यज्ञभाग अब राक्षस नहीं छीन सकेंगे, शीघ्र ही आप अपने भाग को प्राप्त कर सकेंगे ॥ ४५ ॥

वैमानिकाः पुण्यकृतस्त्यजन्तु मरुतां पथि ।
पुष्पकालोकसङ्क्षोभं मेघावरणतत्पराः ॥ ४६ ॥

अन्वयः--मरुतां पथि वैमानिकाः मेघावरणतत्पराः पुण्यकृतः (भवन्तः) पुष्पकालोकसङ्क्षोभं त्यजन्तु।

दशमः सर्गः । ३३५

वैमानिका इति। मरुतां देवानां यद्वा वायूनां पथि व्योम्नि वैमानिका विमानैश्चरन्तः। “चरति” इति ठक्प्रत्ययः। मेघावरणतत्परा रावणभयान्मेघेष्वन्तर्द्धानतत्पराः पुण्यकृतः सुकृतिनः पुष्पकालोकेन यदृच्छया रावणविमानदर्शनेन यः सङ्क्षोभो भयचकितं तं त्यजन्तु। ‘संक्षोभो भयचकितम्’ इति शब्दार्णवः।

भाषार्थ—अब आप लोग निर्भय होकर अपने-अपने विमानों पर चढ़कर आकाश में घूमिये और रावण के पुष्पक विमान को देखकर डर के मारे बादलों में छिपना छोड़ दीजिए॥ ४६ ॥

मोक्ष्यध्वे स्वर्गवन्दीनां वेणीबन्धानदूषितान्। शापयन्त्रितपौ Must beware of scanning typo: शापयन्त्रितपौलस्त्यबलात्कारकचग्रहैः॥ ४७ ॥

अन्वयः—(यूयम्) शापयन्त्रितपौलस्त्यबलात्कारकचग्रहैः, अदूषितान् स्वर्गवन्दीनां वेणीबन्धान् मोक्ष्यध्वे।

मोक्ष्यध्व इति। हे देवाः ! यूयं शापेन नल Falcon-typo? नलकूबरशापेन यन्त्रिताः प्रतिबद्धाः पौलस्त्यस्य रावणस्य बलात्कारेण ये कचग्रहाः केशाकर्षास्तैरदूषिताननुपहतान्स्वर्गवन्दीनां हृतस्वर्गाङ्गनानां वेणीबन्धान्मोक्ष्यध्वे। पुरा किला नलकूबरेणात्मानमभिसरन्त्या रम्भया बलात्कारेण सम्भोगात्क्रुद्धेन दुरात्मा रावणः शप्तः स्त्रीणां बलाद्ग्रहणे मूर्धा ते शतधा भविष्यतीति भारतीया कथानुसंधेया।

भाषार्थ—रावण ने स्वर्ग की जिन स्त्रियों को अपने यहाँ बन्दी बना लिया है उनके जूड़ों को नलकूबर के शाप के डर से उसने अभी हाथ से भी तो नहीं स्पर्श किया है, अब आपलोग ही उन बन्दी स्त्रियों के जूड़े अपने हाथों से खोलेंगे॥४७॥

रावणावग्रहक्लान्तमिति वागमृतेन सः। अभिवृष्य मरुत्सस्यं कृष्णमेघस्तिरोदधे ॥ ४८ ॥

अन्वयः—सः कृष्णमेघः रावणावग्रहक्लान्तं मरुत्सस्यम् इति वागमृतेन अभिवृष्य तिरोदधे।

रावणेति। स कृष्णो विष्णुः स एव मेघो नीलमेघश्च विश्रवसोऽपत्यं पुमानिति विग्रहे रावणो। विश्रवःशब्दः च्छिद्वादित्वादणि ‘विश्रवसः विश्रवणरवणौ’ इत्यन्तर्गणसूत्रेण विश्रवःशब्दस्य वृत्तिविषये रावणादेशे रावण इति सिद्धम्। स एवावग्रहो वर्षप्रतिबन्धः तेन क्लान्तं म्लानं मरुतो देवा एव सस्यं तत् इत्थएवंरूपेण वागमृतेन वाक्सलिलेन। ‘अमृतं यज्ञशेषे स्यात्पीयूषे सलिलेऽमृतम्’ इति विश्वः। अभिवृष्याभिषिच्य तिरोदधेऽन्तर्दधे।

भाषार्थ—इस प्रकार भगवान् विष्णुरूपी नील मेघ रावणरूपी वृष्टि के

३३६रघुवंशमहाकाव्ये

प्रतिबन्धक से दुःखी देवता रूप सस्य को वागमृत से सींचकर अन्तर्हित हो गये । अर्थात् जिस प्रकार सूखे खेत पर पानी बरसाकर बादल निकल जाता है उसी प्रकार रावण के डर से भयभीत देवताओं को अपने मधुर वचनामृत से तृप्तकर विष्णु अन्तर्धान हो गये ॥ ४८ ॥

पुरुहूतप्रभृतयः सुरकार्योद्यतं सुराः ।
अंशैरनुययुर्विष्णुं पुष्पैर्वायुमिव द्रुमाः ॥ ४९ ॥

अन्वयः—पुरुहूतप्रभृतयः सुराः अंशैः सुरकार्योद्यतं विष्णुं द्रुमाः पुष्पैः वायुः इव अनुययुः ।

पुरुहूतेति—पुरुहूतप्रभृतय इन्द्राद्याः सुराः सुरकार्ये रावणवधरूप उद्यतं विष्णुमंशैर्मात्राभिः द्रुमाः पुष्पैः स्वांशैर्वायुमिव अनुययुः । सुग्रीवादिरूपेण वानर-योनिषु जाता इत्यभिप्रायः ।

भाषार्थ—जिस प्रकार वृक्ष अपने अंश पुष्पों से वायु का अनुगमन करते हैं उसी प्रकार इन्द्रादि में देवताओं ने रावण-वधरूप देवकार्य करने के लिए उद्यत भगवान् विष्णु का अपने-अपने अंशों से अनुगमन किया । अर्थात् सुग्रीवादि रूप से वानर जन्म लेने लगे ॥ ४९ ॥

अथ तस्य विशांपत्युरन्ते काम्यस्य कर्मणः ।
पुरुषः प्रबभूवाग्नेर्विस्मयेन सहर्त्विजाम् ॥ ५० ॥

अन्वयः—अथ तस्य विशांपत्युः काम्यस्य कर्मणः अन्ते अग्नेः पुरुषः ऋत्विजां विस्मयेन सह प्रबभूव ।

अथेति । अथ तस्य विशांपत्युर्दशरथस्य संवन्धिनः काम्यस्य कामयितुमहं-स्यार्थात्पुत्रार्थं वाञ्छितस्य कर्मणः पुत्रकामेष्टेरन्तेऽवसाने पावकात्पुरुषः कश्चिद्दिव्यः पुमानृत्विजां विस्मयेन सह प्रबभूव प्रादुर्बभूव । तदाविर्भावात्तेषामपि विस्मयोऽभूदित्यर्थः ।

भाषार्थ—इसके बाद ज्यों ही राजा दशरथ का पुत्रेष्टि यज्ञ समाप्त हुआ त्यों ही यज्ञ की अग्नि में से एक दिव्य पुरुष प्रकट हुआ जिसे देखकर सभी याज्ञिक आश्चर्य्यान्वित हो गये ॥ ५० ॥

तमेव पुरुषं विशिनष्टि—

हेमपात्रगतं दोर्भ्यामावदधानः पयश्चरुम् ।
अनुप्रवेशादाद्यस्य पुंसस्तेनापि दुर्वहम् ॥ ५१ ॥

अन्वयः—आद्यस्य पुंसः अनुप्रवेशात् तेन अपि दुर्वहं हेमपात्रगतं पयश्चरुं दोर्भ्याम् आदधानः ( प्रबभूव ) ।

दशमः सर्गः ३६७

हेमपात्रेति। आद्यस्य पुंसो विष्णोरनुप्रवेशादधिष्ठानाद्धेतोस्तेन दिव्यपुरुषेणापि दुर्वहम् चतुर्दशभुवनोदरस्य भगवतो हरेरतिगरीयस्त्वाद्वोढुमशक्यम् । हेमपात्रगतं पयसि पक्वं चरुं पयश्चरुं पायसान्नं दोर्भ्यामादधानो वहन् । अनल्पाग्निभिरूष्मपक्व ओदनश्चरुः' इति याज्ञिकाः ।

भाषार्थ—उस पुरुष के हाथ में खीर से भरी हुई सोने की थाल थी, उस खीर में भगवान् विष्णु स्वयं अनुप्रविष्ट थे, इसलिए उसको धारण करने में उसे बहुत कष्ट हो रहा था ॥ ५१ ॥

प्राजापत्योपनीतं तदन्नं प्रत्यग्रहीन्नृपः ।
वृषेव पयसां सारमाविष्कृतमुदन्वता ॥ ५२ ॥

अन्वयः—नृपः प्राजापत्योपनीतं तत् अन्नम् उदन्वता आविष्कृतं पयसां सारं वृषा इव प्रत्यग्रहीत् ।

प्राजापत्येति । नृपो दशरथः प्राजापत्येन प्रजापतिसंबन्धिना पुरुषेणोपनीतं न तु वसिष्ठेन । 'प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप ।' इति रामायणात् । तदन्नं पायसान्नम् । अद्यते इत्यन्नं । उदन्वतोदधिनाविष्कृतं प्रकाशितं पयसां सारममृतं वृषा वासव इव । 'वासवो वृत्रहा वृषा' इत्यमरः प्रत्यग्रंहीत् स्वीचकार ।

भाषार्थ—जिस प्रकार समुद्र द्वारा दिये गये अमृत के कलश को इन्द्र ने स्वीकार किया था, उसी प्रकार प्रजापति सम्बन्धी उस पुरुष के द्वारा दिये गये उस खीर को राजा दशरथ ने स्वीकार किया ॥ ५२ ॥

अनेन कथिता राज्ञो गुणास्तस्यान्यदुर्लभाः ।
प्रसूतिं चकमे तस्मिंस्त्रैलोक्यप्रभवोऽपि यत् ॥ ५३ ॥

अन्वयः—तस्य राज्ञः अन्यदुर्लभाः गुणाः अनेन कथिताः यत् त्रैलोक्यप्रभवः अपि तस्मिन् प्रसूतिं चकमे ।

अनेनेति । तस्य राज्ञो दशरथस्यान्यैर्दुर्लभा असाधारणा गुणा अनेन कथिता व्याख्याताः । यद्यस्मात्त्रयो लोकास्त्रैलोक्यम् । चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ् । तस्य प्रभवः कारणं विष्णुरपि तस्मिन् राज्ञि प्रसूतिमुत्पत्तिं चकमे कामितवान् । त्रिभुवनकारणस्यापि कारणमिति परमावधिर्गुणसमाश्रय इत्यर्थः ।

भाषार्थ—उस दिव्य पुरुष ने राजा दशरथ के असाधारण गुणों की इतनी प्रशंसा की कि भगवान् विष्णु को भी उनके वहाँ जन्म लेने की इच्छा होने लगी ॥ ५३ ॥

२२ र० सम्पू०

३३८ रघुवंशमहाकाव्ये

स तेजो वैष्णवं पत्न्योर्विभेजे चरुसंज्ञितम् । द्यावापृथिव्योः प्रत्यग्रमहर्पतिरिवातपम् ॥ ५४ ॥

**अन्वयः—**सः चरुसंज्ञितं वैष्णवं तेजः पत्न्योः द्यावापृथिव्योः अहर्पतिप्रत्यग्रम् इव विभेजे ।

स इति । स नृपः चरुसंज्ञाऽस्य संजाता चरुसंज्ञितं वैष्णवं तेजः पत्न्योः कौसल्याकैकेय्योः द्यौश्च पृथिवी च द्यावापृथिव्यौ । “दिवसश्च पृथिव्याम्” इति चकाराद्दिव्शब्दस्य द्यावादेशः । तयोर्द्यावापृथिव्योः । अह्नः पतिरहर्पतिः । सूर्य “अहरादीनां पत्यादिषु वा रेफः” इत्युपसंख्यानाद्वैकल्पिको रेफस्य रेफादेशो विसर्गापवादः । प्रत्यग्रमातपं बालातपमिव विभेजे विभज्य ददावित्यर्थः ।

**भाषार्थ—**जिस प्रकार सूर्य अपने प्रातःकाल के धूप को आकाश और पृथ्वी दोनों के लिए विभक्त कर देते हैं, उसी प्रकार राजा दशरथ ने खीर के रूप में पाये हुए उस वैष्णव तेज को कौशल्या और कैकेयी नामक अपनी दोनों रानियों को बराबर-बराबर बांट दिया ॥ ५४ ॥

पत्नीत्रये सति द्वयोरेव विभागे कारणमाह—

अर्चिता तस्य कौसल्या प्रिया केकयवंशजा । अतः सम्भावितां ताभ्यां सुमित्रामैच्छदीश्वरः ॥ ५५ ॥

**अन्वयः—**तस्य कौसल्या अर्चिता (आसीत्) केकयवंशजा प्रिया (आसीत्) अतः ईश्वरः सुमित्रां ताभ्यां सम्भाविताम् ऐच्छत् ।

अर्चितेति । तस्य राज्ञः कौ पृथिव्यां सलति गच्छतीति कोसलः । ‘सल गतौ’ पचाद्यच् । कुशन्दस्य पृषोदरादित्वादद्गुणः । कोसलस्य राज्ञोऽपत्यं स्त्री कौसल्या । “वृद्धेत्कोसलाजादाञ्ज्यङ्” इति ज्यङ् “यङश्चाप्” इति चाप् । अतएव सूत्रे निर्देशात्कोसलशब्दो दन्त्यसकारमध्यमः । अर्चिता ज्येष्ठा मान्या । केकयवंशजा कैकेयी प्रियेष्टा अतो हेतोरीश्वरो भर्ता नृपः सुमित्रां ताभ्यां कौसल्याकैकेयीभ्यां संभावितां भागदानेन मानितामैच्छदिच्छति स्म । एवं च सामान्यं तिसृणां च भागप्रापणमिति राज्ञ्युचितज्ञता कौशलं च लभ्यते ।

**भाषार्थ—**कौशल्या उस राजा दशरथ की बड़ी रानी थीं और कैकेयी उनकी प्यारी रानी थीं । इसलिए राजा दशरथ ने अपने हाथ से उन्हीं दोनों को वह खीर दी, पर उनकी यह स्वाभाविक इच्छा थी कि ये दोनों अपने-अपने हाथ से सुमित्रा को भी इसका भाग दे दें ॥ ५५ ॥

दशमः सर्गः [१३१]

ते बहुज्ञस्य चित्तज्ञे पत्न्यौ पत्युर्महीक्षितः । चरोरर्धार्धभागाभ्यां तामयोजयतामुभे ॥ ५६ ॥

अन्वयः— बहुज्ञस्य महीक्षितः चित्तज्ञे ते उभे पत्न्यौ चरोः अर्धार्धभागाभ्यां ताम् अयोजयताम् ।

ते इति । बहुज्ञस्य सर्वज्ञस्य उचितज्ञस्येत्यर्थः । पत्युर्महीक्षितः क्षितीश्वरस्य विशेषणत्रयेण राज्ञोऽनुसरणीयतामाह—चित्तज्ञे अभिप्रायज्ञे ते उभे पत्न्यौ कौसल्या-कैकेय्यौ चरोर्धार्धभागौ समभागौ तयोरर्धौ तौ च तौ भागौ चेत्यर्ध-भागावेकदेशौ ताभ्यामर्धार्धभागाभ्याम् । 'पुंस्यर्धोऽर्धं समेंऽशके' इत्यमरः । तां सुमित्रामयोजयतां युक्तां चक्रतुः । अयं च विभागो न रामायणसंवादी तत्र चरोरर्धं कोसल्यायै अवशिष्टार्धं कैकेय्यै शिष्टं सुमित्रायै इत्यभिधानात् किंतु पुराणान्तरसंवादो द्रष्टव्यः । उक्तं च नारसिंहे—'ते पिण्डप्राशने काले सुमित्रायै महीपतेः । पिण्डाभ्यामल्पमल्पं तु स्वभगिन्यै प्रयच्छतः ॥' इति एवमन्यत्रापि विरोधे पुराणान्तरातसमाधातव्यम् ।

भाषार्थ— सर्वज्ञ राजा दशरथ के मनोभाव को जाननेवाली उन दोनों रानियों ने अपनी-अपनी खीर का आधा-आधा भाग सुमित्रा को दे दिया ॥५६॥

सा हि प्रणयवत्यासीत्सपत्न्योरुभयोरपि । भ्रमरी वारणस्येव मदनिस्पन्दरेखयोः ॥ ५७ ॥

अन्वयः— हि सा उभयोः अपि सपत्न्योः भ्रमरी वारणस्य मदनिस्पन्दरेखयोः इव प्रणयवती आसीत् ।

सेति । सा सुमित्रा उभयोरपि । समान एकः पतिर्ययोस्तयोः सपत्न्योः । "नित्यं सपत्न्यादिषु" इति ङीप् नकारादेशश्च भ्रमरी भृङ्गाङ्गना वारणस्य गजस्य मदनिस्पन्दरेखयोरिव गण्डद्वयगतयोरिति भावः । प्रणयवती प्रेमवत्यासीत् । सपत्न्योरित्यत्र समासान्तर्गतस्य पत्युरुपमानं वारणस्येति ।

भाषार्थ— जिस प्रकार भ्रमरी हाथी के दोनों कपोलों से निकलनेवाली मद की दोनों धाराओं से बराबर प्रेम करती है, उसी प्रकार सुमित्रा भी अपनी दोनों सौतों से बराबर प्रेम करती थी ॥ ५७ ॥

ताभिर्गर्भः प्रजाभूत्यै दध्रे देवांशसम्भवः । सौरिभिरिव नाडीभिरमृताख्याभिरम्मयः ॥ ५८ ॥

अन्वयः— ताभिः प्रजाभूत्यै देवांशसम्भवः गर्भः सौरिभिः अमृताख्याभिः नाडीभिः अम्मयः इव दध्रे ।

ताभिरिति । ताभिः कौसल्यादिभिः प्रजानां भूत्यै अभ्युदयाय देवस्य विष्णोरंशः

३४०रघुवंशमहाकाव्ये

संभवः कारणं यस्य स गर्भः। सूर्यस्येमाः सौर्यः, ताभिः सौरीभिः। “सूर्यतिष्या-गस्त्यमत्स्यानां य उपधायाः” इत्युपधायाकारस्य लोपः। अमृता इत्याख्या यासां ताभिः जलवहनसाम्यान्नाडीभिरिव नाडिभिर्वृष्टिविसर्जनीभिर्दीधितिभिः। अपां विकारोऽम्मयो जलमयो गर्भ इव दध्रे धृतः जातावेकवचनम्। गर्भा दधिर इत्यर्थः। अत्र यादवः—'तासां शतानि चत्वारि रश्मीनां वृष्टिसर्जने। शतत्रयं हिमोत्सर्गे तावद्गर्भस्य सर्जने॥ आनन्दाश्च हि मेध्याश्च नूतनाः पूतना इति। चतुःशतं वृष्टिवाहास्ताः सर्वा अमृतः स्त्रियः ॥' इति।

भाषार्थ—जिस प्रकार जल बरसानेवाली अमृता नामक सूर्य की किरणें प्रजाओं के कल्याण के लिए जल रूप गर्भ को धारण करती हैं, उसी प्रकार उन तीनों रानियों ने लोककल्याण के लिए विष्णु के अंश से परिपूर्ण गर्भ को धारण किया ॥ ५८ ॥

सममापन्नसत्त्वास्तां रेजुरापाण्डुरत्विषः ।
अन्तर्गतफलारम्भाः सस्यानामिव सम्पदः ॥ ५६ ॥

अन्वयः—समम् आपन्नसत्त्वाः आपाण्डुरत्विषः ताः अन्तर्गतफलारम्भाः सस्यानां सम्पदः इव रेजुः।

सममिति। समं युगपदापन्ना गृहीताः सत्त्वाः प्राणिनो याभिस्ता आपन्नसत्त्वा गर्भिण्यः। 'आपन्नसत्त्वा स्याद्गुर्विण्यन्तर्वत्नी च गर्भिणी' इत्यमरः। अत एव-आपाण्डुरत्विष ईषत्पाण्डुरवर्णास्ताः राजपत्न्यः अन्तर्गतं गुप्ताः फलारम्भाः फल-प्रादुर्भावा यासां ताः सस्यानां सम्पद इव रेजुर्बभुः।

भाषार्थ—ये तीनों रानियां एक साथ गर्भवती हुईं और इनकी शरीर की कान्ति धीरे-धीरे पीली पड़ने लगी, उस समय ये उस अनाज की बालों के समान पीली लगती थीं, जिनके अन्दर अंकुर ( दाने ) पड़ गये हैं ॥ ५९ ॥

संप्रति तासां स्वप्नदर्शनान्याह—

गुप्तं ददृशुरात्मानं सर्वाः स्वप्नेषु वामनैः ।
जलजासिगदाशाङ्गर्चक्रालाञ्छितमूर्तिभिः ॥ ६० ॥

अन्वयः—सर्वाः स्वप्नेषु जलजासिगदाशाङ्गर्चक्रालाञ्छितमूर्तिभिः वामनैः गुप्तम् आत्मानं ददृशुः।

गुप्तमिति। सर्वास्ताः स्वप्नेषु जलजः शङ्खः। जलजासिगदाशाङ्गर्चक्रैर्लाञ्छिता मूर्तयो येषां तैर्वामनैर्ह्रस्वैः पुरुषैर्गुप्तं रक्षितमात्मानं स्वरूपजातावेकवचनं ददृशुः दृष्टवन्तः।

दशमः सर्गः ३४१

दशमः सर्गः ३४१

भाषार्थं—उन तीनों रानियों ने रात में स्वप्न देखा कि शंख, खड्ग, गदा, शार्ङ्ग नामक धनुष और चक्र लिये हुए कोई बौना पुरुष हमारी रक्षा कर रहा है ॥ ६० ॥

हेमपक्षप्रभाजालां गगने च वितन्वता ।
उह्यन्ते स्म सुपर्णेन वेगाकृष्टपयोमुचा ॥ ६१ ॥

अन्वयः—हेमपक्षप्रभाजालां वितन्वता वेगाकृष्टपयोमुचा सुपर्णेन गगने 'ताः' उह्यन्ते स्म ।

हेमेति । किञ्चेति चार्थः । हेम्नः सुवर्णस्य पक्षाणां प्रभाजालं कान्तिपुञ्जं वितन्वता विस्तारयता वेगेनाकृष्टाः पयोमुचा मेघा येन तेन । सुपर्णेन गरुत्मता गरुडेन गगने ता उह्यन्ते स्मोढाः ।

भाषार्थं—और यह भी देखा कि आकाश में सुनहले पंखों के प्रभाजाल को फैलाते हुए और अपने वेग से बादलों को भी खींचकर ले जाते हुए गरुड़ हमें आकाश में उड़ाकर ले जा रहे हैं ॥ ६१ ॥

विभ्रत्या कौस्तुभन्यासं स्तनान्तरविलम्बिनम् ।
पर्युपास्यन्त लक्ष्म्या च पद्मव्यजनहस्तया ॥ ६२ ॥

अन्वयः—स्तनान्तरविलम्बिनं कौस्तुभन्यासं बिभ्रत्या पद्मव्यजनहस्तया लक्ष्म्या च 'ताः' पर्युपास्यन्त ।

बिभ्रत्येति । किंच स्तनयोरन्तरे मध्ये विलम्बिनं लम्बमानम् । न्यस्यत इति न्यासः । कौस्तुभ एव न्यासस्तम् । पत्या कौतुकान्यस्तम् । कौस्तुभमित्यर्थः । बिभ्रत्या पद्ममेव व्यजनं हस्ते यस्यास्तया लक्ष्म्या पर्युपास्यन्तोपासिताः ।

भाषार्थं—भगवान् ने धरोहर के रूप में प्राप्त स्तनों के बीच में लटकते हुए कौस्तुभमणि को धारण करती हुई लक्ष्मी हाथ में कमल रूप पंखा लेकर हमारी सेवा कर रही हैं, यह भी देखा ॥ ६२ ॥

कृताभिषेकैर्दिव्यायां त्रिस्रोतसि च सप्तभिः ।
ब्रह्मर्षिभिः परं ब्रह्म गृणद्भिरुपतस्थिरे ॥ ६३ ॥

अन्वयः—दिव्यायां त्रिस्रोतसि कृताभिषेकैः परं ब्रह्म गृणद्भिः सप्तभिः ब्रह्मर्षिभिः 'ता' उपतस्थिरे ।

कृतेति । किंच । दिवि भवायां दिव्यायां त्रिस्रोतस्याकाशगङ्गायां कृताभिषेकैः कृतावगाहैः परं ब्रह्म वेदरहस्यं गृणद्भिः पठद्भिः सप्तभिर्ब्रह्मर्षिभिः कश्यपप्रभृ-तिभिरुपतस्थिरे उपासाञ्चक्रिरे ।

३४२रघुवंशमहाकाव्ये

**भाषार्थ—**इतना ही नहीं आकाश गंगा में स्नान करके कश्यपादि सप्तर्षि वेदपाठ करते हुए हम लोगों की ही स्तुति करते है—इस प्रकार के स्वप्नों को देखकर रानियों ने राजा से कहा ॥ ६३ ॥

ताभ्यस्तथाविधान्स्वप्नाञ्छ्रुत्वा प्रीतो हि पार्थिवः।
मेने परार्ध्यमात्मानं गुरुत्वेन जगद्गुरोः॥ ६४॥

**अन्वयः—**पार्थिवः ताभ्यः तथाविधान् स्वप्नान् श्रुत्वा प्रीतः 'सन्' जगद्गुरोः गुरुत्वेन आत्मानं परार्ध्यं मेने हि।

ताभ्य इति। पार्थिवो दशरथस्ताभ्यः पत्नीभ्यः। "आख्यातोपयोगे" इत्यपादानत्वात्पञ्चमी। तथाविधानुक्तप्रकारान्स्वप्नाञ्छ्रुत्वा प्रीतः सन् आत्मानं जगद्गुरोर्विष्णोरपि गुरुत्वेन पितृत्वेन हेतुना परार्ध्यं सर्वोत्कृष्टं मेने हि।

**भाषार्थ—**रानियों से इस प्रकार के स्वप्नों को सुनकर राजा दशरथ अतिप्रसन्न हुए और उन्होंने समझ लिया कि अब संसार में मेरे समान कोई सौभाग्यशाली नहीं है क्योंकि मैं अब संसार के गुरु विष्णु का भी पिता बन रहा हूँ ॥ ६४ ॥

विभक्तात्मा विभुस्तासामेकः कुक्षिष्वनेकधा।
उवास प्रतिमाचन्द्रः प्रसन्नानामपामिव ॥ ६५॥

**अन्वयः—**एकः विभुः तासां कुक्षिषु प्रसन्नानां अपां 'कुक्षिषु' प्रतिमाचन्द्रः इव अनेकधा विभक्तात्मा 'सन्' उवास।

विभक्तेति। एक एकरूपो विभुर्विष्णुस्तासां राजपत्नीनां कुक्षिषु गर्भेषु प्रसन्नानां निर्मलानामपां कुक्षिषु प्रतिमाचन्द्रः प्रतिबिम्बचन्द्र इव। अनेकधा विभक्तात्मा सन् उवास।

**भाषार्थ—**यद्यपि भगवान् विष्णु का एक ही रूप है, फिर भी निर्मल जल के भीतर प्रतिबिम्बित चन्द्रमा के समान अनेक रूप में विभक्त होकर उन रानियों के गर्भ में निवास करने लगे ॥ ६५ ॥

अथाग्रमहिषी राज्ञः प्रसूतिसमये सती।
पुत्रं तमोपहं लेभे नक्तं ज्योतिरिवौषधिः॥ ६६॥

**अन्वयः—**अथ राज्ञः सती अग्रघमहिषी प्रसूतिसमये ओषधिः नक्तं तमोपहं ज्योतिः इव 'तमोपहं' पुत्रं लेभे।

अथेति। अथ राज्ञो दशरथस्य सती पतिव्रता। अग्र्या चासौ महिषी चाग्रघ-महिषी कौसल्या। प्रसूतिसमये प्रसूतिक़ाले ओषधीर्नक्तम् रात्रिसमये तमोऽपहन्तीति

दशमः सर्गः ३४३

तमोपहम् । “अपे क्लेशतमसोः” इति डप्रत्ययः । ज्योतिरिव तमोपहं तमोनाशकरं पुत्रं लेभे प्राप ।

**भावार्थ—**इसके बाद साध्वी राजा दशरथ की पटरानी कौशल्या, प्रसव-काल पूर्ण होने पर दशवें मास में जिस प्रकार रात में दिव्य औषधि अन्धकार को नाश करनेवाले प्रकाश को प्राप्त करती है, उसी प्रकार तमोगुण को दूर करने वाला पुत्र प्राप्त किया ॥ ६६ ॥

राम इत्यभिरामेण वपुषा तस्य चोदितः ।
नामधेयं गुरुश्चक्रे जगत्प्रथममङ्गलम् ॥ ६७ ॥

**अन्वयः—**अभिरामेण वपुषा चोदितः गुरुः यस्य जगत्प्रथममंगलं राम इति नामधेयं चक्रे ।

राम इति । अभिरमन्तेऽत्रेत्यभिरामं मनोहरम् । अधिकरणार्थे घञ्प्रत्ययः । तेन वपुषा चोदितः प्रेरितो गुरुः पिता दशरथस्तस्य पुत्रस्य जगतां प्रथमं मङ्गलं सुलक्षणं राम इति नामधेयं चक्रे । अभिरामत्वमेव रामशब्दप्रवृत्तिनिमित्तमित्यर्थः ।

**भाषार्थ—**उस बाल के मनोहर शरीर को देखकर पिता दशरथ ने संसार में सबसे अधिक मंगलकारी यह नाम रखा ॥ ६७ ॥

रघुवंशप्रदीपेन तेनाप्रतिमतेजसा ।
रक्षागृहगता दीपाः प्रत्यादिष्टा इवाभवन् ॥ ६८ ॥

**अन्वयः—**रघुवंशप्रदीपेन अप्रतिमतेजसा तेन रक्षागृहगताः दीपाः प्रत्यादिष्टाः इव अभवन् ।

रध्विति । रघुवंशस्य प्रदीपेन प्रकाशकेन अप्रतिमतेजसा तेन रामेण रक्षागृहगताः सूतिकागृहगता दीपाः प्रत्यादिष्टाः प्रतिषिद्धा इवाभवन् । महादीपसमीपे नाल्पाः स्फुरन्तीति भावः ।

**भावार्थ—**रघुवंश में दीपक के समान प्रकाशमान अपरिमित तेजस्वी उस राम से प्रसूति गृह में रखे हुए दीपक मानों फीके पड़ गये ॥ ६८ ॥

शय्यागतेन रामेण माता शातोदरी बभौ ।
सैकताम्भोजबलिना जाह्नवीव शरत्कृशा ॥ ६६ ॥

**अन्वयः—**शातोदरी माता शय्यागतेन रामेण सैकताम्भोजबलिना शरत्कृशा जाह्नवी इव बभौ ।

शय्येति । शातोदरी गर्भमोचनात्कृशोदरी माता शय्यागतेन रामेण । सैकते पुलिने योऽम्भोजबलिः पद्मोपहारस्तेन शरदि कृशा जाह्नवी गङ्गेव । बभौ ।

३४४ रघुवंशमहाकाव्ये

भाषार्थ—बालक को उत्पन्न करने के कारण कृश उदरवाली माता कौशल्या नन्हें से राम को लेकर पलंग पर लेटी हुई ऐसी सुन्दर लगती थीं, मानों शरद ऋतु में पतली धार वाली गङ्गा के तट पर चढ़ाया हुआ नीला कमल हो ॥ ६९ ॥

कैकेय्यास्तनयो जज्ञे भरतो नाम शीलवान् ।
जनयित्रीमलंचक्रे यः प्रश्रय इव श्रियम् ॥ ७० ॥

अन्वयः—कैकेय्याः भरतः नाम शीलवान् तनयः जज्ञे यः प्रश्रयः श्रियम् इव जनयित्रीम् अलञ्चक्रे ।

कैकेय्या इति । कैकेयस्य राज्ञोऽपत्यं स्त्री कैकेयी । “तस्यापत्यम्” इत्यणि कृते “कैकेयमित्रयुप्रलयानां यादेरियः' इतीयादेशः । तस्या भरतो नाम शीलवांस्तनयो जज्ञे जातः । यस्तनयः प्रश्रयो विनयः श्रियमिव । जनयित्रीं मातरमलञ्चक्रे ।

भाषार्थ—कैकेयी को भरत नामक शीलवान् पुत्र उत्पन्न हुआ, जिसने लक्ष्मी को विनय के समान माता को सुशोभित किया ॥ ७० ॥

सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रा सुषुवे यमौ ।
सम्यगाराधिता विद्या प्रबोधविनयाविव ॥ ७१ ॥

अन्वयः—सुमित्रा लक्ष्मणशत्रुघ्नौ यमौ सुतौ सम्यगाराधिता विद्या प्रबोधविनयौ इव सुषुवे ।

सुताविति । सुमित्रा लक्ष्मणशत्रुघ्नौ नाम यमौ युग्मजातौ सुतौ पुत्रौ । सम्यगाराधिता स्वभ्यस्ता विद्या प्रबोधविनयौ तत्त्वज्ञानेन्द्रियजाताविव सुषुवे ।

भाषार्थ—जिस प्रकार अच्छी तरह अभ्यास की हुई विद्या तत्त्वज्ञान और नम्रभाव को उत्पन्न करती है, उसी प्रकार सुमित्रा ने लक्ष्मण और शत्रुघ्न नामक दो पुत्रों को एक साथ उत्पन्न किया ॥ ७१ ॥

निर्दोषमभवत्सर्वमाविष्कृतगुणं जगत् ।
अन्वगादिव हि स्वर्गो गां गतं पुरुषोत्तमम् ॥ ७२ ॥

अन्वयः—सर्वं जगत् निर्दोषम् आविष्कृतगुणं च अभवत् स्वर्गः हि गां गतं पुरुषोत्तमम् अन्वगात् ।

निर्दोषमिति । सर्वं जगद्भूलोको निर्दोषं दुर्भिक्षादिदोषरहितम् आविष्कृतगुणं प्रकटीकृतारोग्यादिगुणं चाभवत् । अत्रोत्प्रेक्षते—गां भुवं गतमवतीर्णं पुरुषोत्तमं विष्णुं स्वर्गोऽप्यन्वगादिव । स्वर्गो हि गुणनान्निर्दोषश्चेत्यागमः । स्वर्गतुल्यमभूदित्यर्थः ।

दशमः सर्गः ३४५

दशमः सर्गः ३४५

भाषार्थ—उन लोगों के जन्म से संसार के समस्त दोष दूर हो गये और गुणों का प्रादुर्भाव हो गया। उस समय ऐसा मालूम पड़ता था, मानों अवतार लेकर पृथ्वी पर आते हुए भगवान् विष्णु के पीछे-पीछे स्वर्ग भी उतर आया हो, अर्थात् भूलोक स्वर्ग के समान दोषवर्जित और समृद्धिसम्पन्न हो गया ॥ ७२ ॥

तस्योदये चतुर्मूर्तेः पौलस्त्यचकितेश्वराः ।
विरजस्कैर्नभस्वद्भिर्दिश उच्छ्वसिता इव ॥ ७३ ॥

अन्वयः—चतुर्मूर्तेः तस्य उदये सति पौलस्त्यचकितेश्वराः दिशः विरजस्कैः नभस्वद्भिः उच्छ्वसिताः इव।

तस्येति । चतुर्मूर्ते रामादिरूपेण चतूरूपस्य सतस्तस्य हरेरुदये सति । पौलस्त्याद्रावणच्चकिता भीता ईश्वरा नाथा इन्द्रादयो यासां ता दिशश्चतस्रो विरजस्कैरपधूलिभिर्नभस्वद्भिर्वायुभिः । मिषेण । उच्छ्वसिता इव इत्युत्प्रेक्षा । श्वसेः कर्तरि क्तः । स्वनाथशरणलाभसंतुष्टानां दिशामुच्छ्वासवाता इव वाता ववुरित्यर्थः । चतुर्दिगीशरक्षणं मूत्तिचतुष्टयप्रयोजनमिति भावः ।

भाषार्थ—सर्वत्र धूलि के बिना निर्मल हवा बहने लगी, वह ऐसी लगती थी मानों रावण से डरे हुए कुबेर आदि दिक्पालों ने पृथ्वी पर चार रूपों में आते हुए भगवान् विष्णु को पाकर सन्तोष की सांस ली हो ॥ ७३ ॥

कृशानुरपधूमत्वात्प्रसन्नत्वात्प्रभाकरः ।
रक्षोविप्रकृतावास्तामपविद्धशुचाविव ॥ ७४ ॥

अन्वयः—रक्षोविप्रकृतौः कृशानुः प्रभाकरः अपधूमत्वात् प्रसन्नत्वात् च अपविद्धशुचौ इव आस्ताम् ।

कृशानुरिति । रक्षसा रावणेन विप्रकृतावपकृतौ पीडितावित्यर्थः । कृशानुरग्निः प्रभाकरः सूर्यश्च यथासंख्यमपधूमत्वात्प्रसन्नत्वाच्चापविद्धशुचौ निरस्तदुःखाविवास्तामभवताम् ।

भाषार्थ—रावण से पीडित अग्नि तथा सूर्य सदा दुखी रहते थे, किन्तु भगवान् के जन्म लेने पर अग्नि निर्धूम होकर और सूर्य ने प्रकाश करके अपनी प्रसन्नता प्रकट की ॥ ७४ ॥

दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रियः ।
मणिव्याजेनपर्यस्ताः पृथिव्यामश्रुबिन्दवः ॥ ७५ ॥

अन्वयः—तत्क्षणं राक्षसश्रियः अश्रुबिन्दवः दशाननकिरीटेभ्यः मणिव्याजेन पृथिव्यां पर्यस्ताः ।

३४६रघुवंशमहाकाव्ये

दशाननेति । तत्क्षणं तस्मिन्क्षणे रामोत्पत्तिसमये राक्षसश्रियोऽश्रुबिन्दवो दशाननकिरीटेभ्यो मणीनां व्याजेन मिषेण पृथिव्यां पर्यस्ताः पतिताः । रामोदये सति तद्वधस्य रावणस्य किरीटमणिभ्रंशलक्षणं दुर्निमित्तभूदित्यर्थः ।

भाषार्थ—उसी समय रावण के मुकुट से कुछ मणि पृथ्वी पर गिर पड़े, वे ऐसे मालूम पड़े, मानों राक्षसों की लक्ष्मी के आंसू ही बह रहे हों ॥ ७५ ॥

पुत्रजन्मप्रवेश्यानां तूर्याणां तस्य पुत्रिणः ।
आरम्भं प्रथमं चक्रुर्देवदुन्दुभयो दिवि ॥ ७६ ॥

अन्वयः—पुत्रिणः तस्य पुत्रजन्मप्रवेश्यानां तूर्याणाम् आरम्भं प्रथमं दिवि देवदुन्दुभयः चक्रुः ।

पुत्रेति । पुत्रिणो जातपुत्रस्य तस्य दशरथस्य पुत्रजन्मनि प्रवेश्यानां प्रवेशयितव्यानाम् । वादनीयानामित्यर्थः । तूर्याणां वाद्यानामारम्भमुपक्रमं प्रथमं दिवि देवदुन्दुभयश्चक्रुः । साक्षात्पितुर्दशरथादपि देवा अधिकं प्रहृष्टा इत्यर्थः ।

भाषार्थ—पुत्रवान् उस राजा दशरथ के पुत्रजन्म से बजाने योग्य बाजाओं का आरम्भ पहले स्वर्ग में देवताओं की दुन्दुभियों ने किया अर्थात् राजा दशरथ से अधिक प्रसन्नता देवताओं को हुई ॥ ७६ ॥

सन्तानकमयी वृष्टिर्भवने चास्य पेतुषी ।
सन्मङ्गलोपचाराणां सैवादिरचनाऽभवत् ॥ ७७ ॥

अन्वयः—अस्य भवने सन्तानकमयी वृष्टिः च पेतुषी सा एव सन्मङ्गलोपचाराणां आदिरचना अभवत् ।

सन्तानकेति । अस्य राज्ञो भवने सन्तानकानां कल्पवृक्षकुसुमानां विकारः सन्तानकमयी वृष्टिश्च पेतुषी पपात । "क्वसुश्च" इति क्वसुप्रत्ययः । "उगितश्च" इति ङीप् । सा वृष्टिरेव सन्तः पुत्रजन्मन्यावश्यका ये मङ्गलोपचारास्तेषामादिरचना प्रथमक्रियाऽभवत् ।

भाषार्थ—राजा दशरथ के राजभवन में आकाश से कल्पवृक्ष के फूलों की जो वर्षा हुई, उसी से उनके मांगलिक कार्यों का आरम्भ हुआ ॥ ७७ ॥

कुमाराः कृतसंस्कारास्ते धात्रीस्तन्यपायिनः ।
आनन्देनाग्रजेनेव समं ववृधिरे पितुः ॥ ७८ ॥

अन्वयः—कृतसंस्काराः धात्रीस्तन्यपायिनः ते कुमाराः अग्रजेन इव पितुः आनन्देन समं ववृधिरे ।

दशमः सर्गः ३४७

दशमः सर्गः ३४७

कुमारा इति । कृताः संस्कारा जातकर्मादयो येषां ते । धात्रीणामुपमातृणां स्तन्यानि पयांसि पिबन्तीति तथोक्ताः । ते कुमारा अग्रे जातेनाग्रजेन ज्येष्ठेनेव स्थितेन पितुरानन्देन समं ववृधिरे । कुमारवृद्धया पितामहान्तमानन्दमवापेत्यर्थः । कुमारजन्मनः प्रागेव जातत्वादग्रजत्वोक्तिरानन्दस्य ।

भावार्थ—इन पुत्रों के उत्पन्न होने से पहले राजा दशरथ के हृदय में बड़ा आनन्द उत्पन्न हुआ । उस प्रथम उत्पन्न पिता के आनन्द के साथ जातकर्मादि संस्कारों से संस्कृत तथा धाई के दूध पीने वाले कुमार भी बढ़ने लगे ॥ ७८ ॥

स्वाभाविकं विनीतत्वं विनयकर्मणा ।
मुमूर्च्छ सहजं तेजो हविषेव हविर्भुजाम् ॥ ७९ ॥

अन्वयः—तेषां स्वाभाविकं विनीतत्वं विनयकर्मणा हविर्भुजां सहजं तेजः हविषा इव मुमूर्च्छ ।

स्वाभाविकमिति । तेषां कुमाराणां संबन्धि स्वाभाविकं सहजं विनीतत्वं विनयकर्मणा शिक्षया हविर्भुजामग्नीनां सहजं तेजो हविषाऽऽज्यादिकेनेव । मुमूर्च्छ ववृधे । निःसर्गसंस्काराभ्यां विनीता इत्यर्थः ।

भाषार्थ—जिस प्रकार घी आदि पड़ने से अग्नि का स्वाभाविक तेज बढ़ जाता है, उसी प्रकार राम आदि का स्वाभाविक विनय आदि उत्तमशिक्षा से और भी अधिक बढ़ गया ॥ ७९ ॥

परस्पराविरुद्धास्ते तद्रघोरनघं कुलम् ।
अलमुद्द्योतयामासुर्देवारण्यमिवर्तवः ॥ ८० ॥

अन्वयः—परस्पराविरुद्धाः ते तद् अनघं रघोः कुलम् ऋतवः देवारण्यम् इव अलम् उद्द्योतयामासुः ।

परस्परेति । परस्पराविरुद्धा अविद्विष्टाः । सौभ्रात्रगुणवन्त इत्यर्थः । ते कुमाराः तत्प्रसिद्धमनघं निष्पापं रघोः कुलम् । ऋतवो वसन्तादयो देवारण्यं नन्दनमिव । सहजविरोधानामप्यूतूनां सहावस्थानसंभावनार्थं देवविशेषणम् । अलमत्यन्तमुद्द्योतयामासुः प्रकाशयामासुः सौभ्रात्रवन्तः कुलभूषणायन्त इति भावः ।

भाषार्थ—जिस प्रकार सर्वदा सब प्रकार के पुष्पों की सम्पत्ति से परस्पर अविरोधी ऋतुओं ने नन्दन वन की शोभा बढ़ाई, उसी प्रकार परस्पर प्रेम से उन चारों राजकुमारों ने रघुकुल की शोभा बढ़ाई ॥ ८० ॥

समानेऽपि हि सौभ्रात्रे यथोभौ रामलक्ष्मणौ ।
तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं बभूवतुः ॥ ८१ ॥