भारतकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

२६ | रघुवंशमहाकाव्ये

भावार्थ—जितेन्द्रिय सभ्य मुनियों ने रक्षक, योग्य, नीतिविशारद, सपत्नीक उस राजा दिलीप का सत्कार किया ॥ ५५ ॥

सायङ्कालीनक्रियान्तेऽरुन्धतीसहितस्य गुरोर्दर्शनमित्याह—

विधेः सायन्तनस्यान्ते स ददर्श तपोनिधिम् ।
अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम् ॥ ५६ ॥

अन्वयः—सायन्तनस्य विधेः अन्ते सा अरुन्धत्या अन्वासितं तपोनिधिं स्वाहया ( अन्वासितं ) हविर्भुजं इव ददर्श ।

विधेरिति । स राजा सायन्तनस्य सायम्भवस्य । ‘सायंचिरम्-’ इत्यादिना ट्युप्रत्ययः । विधेर्जपहोमाद्यनुष्ठानस्यान्तेऽवसानेऽरुन्धत्यान्वासितं पश्चादुपवेशनेनोपसेवितम् । कर्मणि क्तः । उपसर्गवशात्सकर्मकत्वम् ‘अन्वास्यैनाम्’ इत्यादि-वदुपपद्यते । तपोनिधिं वसिष्ठम् । स्वाहया स्वाहादेव्या । ‘अथाग्नायी, स्वाहा च हुतभुक्प्रिया’ इत्यमरः । अन्वासितं हविर्भुजमिव ददर्श । ‘समित्पुष्पकुशाग्न्यम्बु-मृदन्नाक्षतपाणिकाः । जपं होमं च कुर्वाणो नाभिवाद्यो द्विजो भवेत्’ । इत्यनु-ष्ठानस्य मध्येऽभिवादननिषेधाद्विधेरन्ते ददर्शेत्युक्तम् । अन्वासनं चात्र पतिव्रता-धर्मत्वेनोक्तं न तु कर्माङ्गत्वेन । विधेरन्त इति कर्मणः समाप्यभिधानात् ।

भावार्थ—सायंकालीन अनुष्ठान के अनन्तर उन सुदक्षिणा सहित राजा ने अरुन्धती से उपसेवित तपस्वी वसिष्ठ को स्वाहा देवी से उपसेवित अग्नि के समान देखा ॥ ५६ ॥

सुदक्षिणादिलीपयोः सपत्नीकस्य गुरोः पादाभिवन्दनमित्याह—

तयोर्जगृहतुः पादान् राजा राज्ञी च मागधी ।
तौ गुरुर्गुरुपत्नी च प्रीत्या प्रतिननन्दतुः ॥ ५७ ॥

अन्वयः—सा मागधी राज्ञी राजा च तयोः पादान् जगृहतुः । गुरुपत्नी च तौ प्रीत्या प्रतिननन्दतुः ।

तयोरिति । मागधी मगधराजपुत्री राज्ञी सुदक्षिणा राजा च तयोररुन्धती-वसिष्ठयोः । पादाञ्जगृहतुः । ‘पादः पदङ्घ्रिश्चरणोऽस्त्रियाम्’ इत्यमरः । पादग्रह-णमभिवादनम् । गुरुपत्नी गुरुश्च कर्तारौ, सा च स च तौ सुदक्षिणादिलीपौ कर्म-भूतौ । प्रीत्या हर्षेण प्रतिननन्दतुः । आशीर्वादादिभिः संभावयाञ्चक्रतुरित्यर्थः ।

भावार्थ—राजा दिलीप और मगध वंश में उत्पन्न रानी सुदक्षिणा ने उन दोनों वशिष्ठ और अरुन्धती के पैरों को पकड़ा और उन्होंने उनको प्रसन्नता-पूर्वक आशीर्वाद दिया ॥ ५७ ॥

प्रथमः सर्गः २७

वसिष्ठो दिलीपं राज्यविषयककुशलं पृष्टवानित्याह— तमातिथ्यक्रियाशान्तरथक्षोभपरिश्रमम् । पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः ॥ ५८ ॥

**अन्वयः—**मुनिः आतिथ्यक्रियाशान्तरथक्षोभपरिश्रमं राज्याश्रममुनिं तं राज्ये कुशलं पप्रच्छ ।

तमिति । मुनिः । अतिथ्यर्थमातिथ्यम् । ‘अतिथेर्य्यः’ इति ञ्यप्रत्ययः । आतिथ्यस्य क्रिया तथा सान्तो रथक्षोभेण यः परिश्रमः स यस्य स तं तथोक्तम् । राज्यमेवाश्रमस्तत्र मुनिं मुनितुल्यमित्यर्थः । तं दिलीपं राज्ये कुशलं पप्रच्छ । पृच्छतेस्तु द्विकर्मकत्वमित्युक्तम् । यद्यपि राज्यशब्दः पुरोहितादिष्वन्तर्गतत्वाद्भावकर्मवचनः । तथाऽप्यत्र सप्ताङ्गवचनः । ‘उपपन्नं ननु शिवं सप्तस्वङ्गेषु’ इत्युत्तरविरोधात् । तथाऽऽह मनुः—‘‘स्वाम्यमात्यपुरं राष्ट्रं कोशदण्डौ तथा सुहृत् । सप्तैतानि समस्तानि लोकेऽस्मिन् राज्यमुच्यते’’ इति । तत्र ‘‘ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम् । वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च’’ इति मनुवचने सत्यपि तस्य राज्ञो महानुभावत्वाद् ब्राह्मणोचित कुशलप्रश्न एव कृत इत्यनुसंधेयम् । अत एवोक्तं—‘राज्याश्रममुनिम्’ इति ।

**भावार्थ—**मुनि वसिष्ठ ने अतिथिसत्कार से रथ की झोकों की थकावट दूर हो जाने पर मुनितुल्य राजा दिलीप से कुशल पूछा ॥ ५८ ॥

वसिष्ठस्य कुशलप्रश्नान्तरं दिलीपस्योत्तरदानोपक्रमः— अथाथर्वनिधेस्तस्य विजितारिपुरः पुरः । अर्थ्यामर्थपतिर्वाचमाददे वदतां वरः ॥ ५९ ॥

**अन्वयः—**अथ विजितारिपुरः वदतां वरः अर्थपतिः अथर्वनिधेः तस्य पुरः अर्थ्यां वाचं उवाच ।

अथेति । अथ प्रश्नान्तरं विजितारिपुरो विजितशत्रुनगरी वदतां वक्तॄणां वरः श्रेष्ठः ‘यतश्च निर्धारणम्’ इति षष्ठी । अर्थपतिः राजाऽथर्वणोऽथर्ववेदस्य निधेस्तस्य मुनेः पुरोऽग्रेऽर्थ्यामर्थादनपेताम् । ‘धर्मपथ्यर्थन्यायादनपेते’ इति यत्प्रत्ययः वाचमाददे । वक्तुमुपक्रान्तवानित्यर्थः । अथर्वनिधेरित्यनेन पुरोहितकृत्याभिज्ञत्वात्तत्कर्मनिर्वाहकत्वं मुनेरस्तीति सूच्यते । तथाऽऽह कामन्दकः त्रय्यां च दण्डनीत्यां च कुशलः स्यात्पुरोहितः । अथर्वविहितं कुर्यान्नित्यं शान्तिकपौष्टिकम् ।’ इति ।

**भावार्थ—**तब शत्रु के नगरों को जीतने वाले वक्ताओं में श्रेष्ठ राजा दिलीप अथर्ववेद के विद्वान् महर्षि वसिष्ठ के सामने मतलब की बात कहने लगे ॥ ५९ ॥

२८ रघुवंशमहाकाव्ये

यस्य त्वं गुरुरसि तस्य राज्ये सर्वत्र कुशलमस्त्येवेत्याह— उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे । दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम् ॥ ६० ॥ अन्वयः—( हे गुरो । ) सप्तसु अङ्गेषु शिवम् उपपन्नं ननु । यस्य मे दैवीनां मानुषीणां च आपदां त्वं प्रतिहर्ता ( असि ) ।

उपपन्नमिति । हे गुरो ! सप्तस्वङ्गेषु स्वाम्यमात्यादिषु । 'स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च । सप्ताङ्गानि' इत्यमरः । शिवं कुशलमुपपन्नं ननु युक्तमेव । नन्ववधारणे प्रश्नावधारणाज्ञाऽनुनयामन्त्रणे ननु' इत्यमरः । कथमित्याह—यस्य मे दैवीनां देवेभ्य आगतानां दुर्भिक्षादीनाम् मानुषीणां मनुष्येभ्य आगतानां चौरभयादीनाम् । उभयत्रापि 'तत आगतः' इत्यण् । 'टिड्ढाणञ्—' इत्यादिना ङीप् । आपदां व्यसनानां त्वं प्रतिहर्ता वारयिताऽसि । अत्राह कामन्दकः 'हुताशनो जलं व्याधिर्दुर्भिक्षं मरणं तथा । इति पञ्चविधं दैवं मानुषं व्यसनं ततः । आयुक्तकेभ्यश्चौरेभ्यः परेभ्यो राजवल्लभात् । पृथिवीपतिलोभाच्च नराणां पञ्चधा मतम्' । इति ।

भाषार्थ—भगवन् ! मेरे राज्य के सातों अङ्गों में कुशल क्यों न हो जिसकी दैवी और मानुषी आपत्तियों को नाश करने वाले आप हैं ॥ ६१ ॥

तत्र मानुषापत्प्रतीकारमाह— तव मन्त्रकृतो मन्त्रैर्दूरात्प्रशमितारिभिः । प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः ॥ ६१ ॥ अन्वयः—मन्त्रकृतः तव दूरात् प्रशमितारिभिः मन्त्रैः मे दृष्टलक्ष्यभिदः शराः प्रत्यादिश्यन्त इव ।

तवेति । दूरात् परोक्ष एव प्रशमितारिभिः । मन्त्रान्कृतवान्मन्त्रकृत् । 'सुकर्मपापमन्त्रपुण्येषु कृञः' इति क्विप् । तस्य मन्त्रकृतो मन्त्राणां स्रष्टुः प्रयोक्तुर्वा तव मन्त्रैः कर्तृभिः । दृष्टं प्रत्यक्षं यल्लक्ष्यं यन्मात्रं भिन्दन्तीति दृष्टलक्ष्यभिदो मे शरा प्रत्यादिश्यन्त इव । वयमेव समर्थाः । किमेभिः पिष्टपेषकैरिति निराक्रियन्त इवेत्युत्प्रेक्षा । 'प्रत्यादेशो निराकृतिः' इत्यमरः । त्वन्मन्त्रसामर्थ्यादेव नः पौरुषं फलतीति भावः ।

भाषार्थ—आप जैसे मन्त्रकारों के डर से ही शत्रुसंहारक मन्त्रों से दृष्ट लक्ष्यभेद के मेरे बाण व्यर्थ से हैं ॥ ६१ ॥

सम्प्रति दैविकापत्प्रतीकारमाह— हविरावर्जितं होतस्त्वया विधिवदग्निषु । वृष्टिर्भवति सस्यानामवग्रहविशोषिणाम् ॥ ६२ ॥

प्रथमः सर्गः २९

अन्वयः—हे होतः ! त्वया अग्निषु विधिवत् आवर्जितं हविः अवग्रह-विशोषिणां सस्यानां वृष्टिः भवति ।

हविरिति । हे होतः ! त्वया विधिवदग्निष्वावर्जितं प्रक्षिप्तं हविराज्यादिकं कर्तृ । अवग्रहो वर्षप्रतिबन्धः । 'अवे ग्रहो वर्षप्रतिबन्धे' इत्यप्प्रत्ययः । 'वृष्टिवैपं तद्विघातेऽवग्राहावग्रहौ समौ' इत्यमरः । तेन विशोषिणां विशुष्यतां सस्यानां वृष्टिर्भवति । वृष्टिरूपेण सस्यान्युपजीवयतीति भावः । अत्र मनुः “अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः” । इति ।

भाषार्थ—हे याज्ञिक ! आपके द्वारा अग्नि में विधिपूर्वक दी हुई आहुति असमय में सूखते हुए धानों के लिए वृष्टि रूप होती है ॥ ६२ ॥

स्वप्रजानां सर्वतोभावेन सुखित्वे त्वद्ब्रह्मवर्चसं हेतुरित्याह—

पुरुषायुषजीविन्यो निरातङ्का निरीतयः ।
यन्मदीयाः प्रजास्तस्य हेतुस्त्वद्ब्रह्मवर्चसम् ॥ ६३ ॥

अन्वयः—मदीयाः प्रजाः पुरुषायुषजीविन्यः निरातंका निरीतयः ( इति ) यत् तस्य हेतुः त्वद्ब्रह्मवर्चसम् ।

पुरुषायुषेति । आयुर्जीवितकालः । पुरुषस्यायुः पुरुषायुषम् । वर्षशतमित्यर्थः । ( शतायुर्वे पुरुषः ) इति श्रुतेः । 'अचतुरविचतुरसुचतुर—' इत्यादिसूत्रेणाच्प्रत्ययान्तो निपातः । मदीयाः प्रजाः पुरुषायुषं जीवन्तीति पुरुषायुषजीविन्यः । निरातङ्का निर्भयाः । 'आतङ्को भयमाशङ्का' इति हलायुधः । निरीतयोऽतिवृष्ट्यादिरहिताः इति यत्तस्य सर्वस्य त्वद्ब्रह्मवर्चसं तव व्रताध्ययनसंपत्तिरेव हेतुः । 'व्रताध्यननसंपत्तिरित्येतद्ब्रह्मवर्चसम्' इति हलायुधः । ब्रह्मणो वर्चो ब्रह्मवर्चसम् । 'ब्रह्महस्तिभ्यां वर्चसः' इत्यच्प्रत्ययः । 'अतिवृष्टिरनावृष्टिर्मूषिकाः शलभाः शुकाः । अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः ।। इति कामन्दकः ।

भाषार्थ—मेरी प्रजा मनुष्यों की परमायु (सौ वर्ष) तक जीने वाली निडर और ईतियों से जो बची हुई है इसका कारण आपका ब्रह्मतेज है ॥ ६३ ॥

भवादृशेन मद्गुरुणा सर्वं मे सुखं भवतीत्याह—

त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना ।
सानुबन्धाः कथं न स्युः संपदो मे निरापदः ॥ ६४ ॥

अन्वयः—ब्रह्मयोनिना गुरुणा त्वया एवं चिन्त्यमानस्य निरापदः मे सम्पदः सानुबन्धा कथं न स्युः ।

३०रघुवंशमहाकाव्ये

त्वयैवमिति। ब्रह्मा योनिः कारणं यस्य तेन ब्रह्मपुत्रेण गुरुणा त्वयैवमुक्तप्रकारेण चिन्त्यमानस्याऽनुध्यायमानस्य। अत एव निरापदो व्यसनहीनस्य मे संपदः सानुबन्धाः सानुस्यूतयोऽविच्छिन्ना इति यावत्। कथं न स्युः। स्युरित्यर्थः।

**भाषार्थ—**आप जैसे ब्रह्मा के मानसपुत्र गुरु द्वारा इस प्रकार चिन्त्यमान मेरी आपत्तिरहित सम्पति निर्विघ्न क्यों न रहे ? ॥ ६४ ॥

मंत्रस्यागमनप्रयोजनमाह—

किन्तु वध्वां तवैतस्यामदृष्टसदृशप्रजम् ।
न मामवति सद्वीपा रत्नसूरपि मेदिनी ॥ ६५ ॥

**अन्वयः—**किन्तु तव एतस्यां वध्वां अदृष्टसदृशप्रजं मां सप्तद्वीपाः रत्नसूः अपि मेदिनी न अवति ।

किन्त्विति । किन्तु तवैतस्यां वध्वां स्नुषायाम् । 'वधूर्जाया स्नुषा चैव' इत्यमरः । अदृष्टा सदृश्यानुरूपा प्रजा येन तं मां सद्वीपाऽपि । रत्नानि सूयत इति रत्नसूरपि । 'सत्सूद्विष्–' इत्यादिना क्विप् । मेदिनी नावति न प्रीणाति । 'अव' धातु रक्षणगतिकान्त्याद्यर्थेषूपदेशादत्र प्रीणने । रत्नसूरपीत्यनेन सर्वरत्नेभ्यः पुत्ररत्नमेव श्लाघ्यमिति सूचितम् ।

**भाषार्थ—**किन्तु आपकी इस पतोहू में अपने समान सन्तति को न देख कर मुझे रत्नगर्भा सातों द्वीपों सहित यह पृथिवी भी अच्छी नहीं लगती ॥ ६५ ॥

पुत्राभावेन पितॄणां दुःखेन पिण्डग्रहणं भविष्यतीत्याह—

नूनं मत्तः परं वंश्याः पिण्डविच्छेददर्शिनः ।
न प्रकामभुजः श्राद्धे स्वधासंग्रहतत्पराः ॥ ६६ ॥

**अन्वयः—**मत्तः परं पिण्डविच्छेददर्शिनः वंश्याः स्वधासंग्रहतत्पराः श्राद्धे प्रकामभुजः न ( भवन्ति ) नूनम् ॥ ६६ ॥

नूनमिति । मत्तः परं मदनन्तरम् 'पञ्चम्यास्तसिल्' ! पिण्डविच्छेददर्शिनः पिण्डदानविच्छेदमुत्प्रेक्षमाणाः । वंशोद्भवा वंश्याः पितरः । स्वधेत्यव्ययं पितृभोज्ये वर्तते । तस्याः संग्रहे तत्परा आसक्ताः सन्तः श्राद्धे पितृकर्मणि 'पितृदानं निवापः स्याच्छ्राद्धं तत्कर्म शाश्वतः' इत्यमरः । प्रकामभुजः पर्याप्तभोजिनो न भवन्ति । नूनं सत्यम् । 'कामं प्रकामं पर्याप्तम्' इत्यमरः । निर्धना ह्यापद्धनं कियदपि संगृह्णन्तीति भावः ।

**भाषार्थ—**मेरे बाद पिण्ड पाने का अभाव देखने, वाले स्वधा संग्रह में लगे हुए मेरे पूर्वज श्राद्ध में स्वेच्छापूर्वक भोजन न कर सकेंगे, यह निश्चित है ॥ ६६ ॥

[ प्रथमः सर्गः ] ३१

पुत्राभावेन पितृणां दुःखेन जलग्रहणं भविष्यतीत्याह—
मत्परं दुर्लभं मत्वा नूनमावर्जितं मया।
पयः पूर्वैः स्वनिःश्वासैः कवोष्णमुपभुज्यते ॥ ६७ ॥

अन्वयः—मत्परं दुर्लभं इति मन्वा मया आवर्जितं पयः पूर्वैः निःश्वासैः कवोष्णम् उपभुज्यते नूनम् ।

मत्परमिति । मत्परं मदनन्तरम् । 'अन्यारादितरतेंदिक्' इत्यनेन पञ्चमी । दुर्लभं दुर्लभ्यं मत्वा मयाऽऽवर्जितं मदत्तं पयः पूर्वैः पितृभिः स्वनिःश्वासैर्दुःखजैः कवोष्णमीपदुष्णं यथा तथोपभुज्यते । नूनमिति वितर्के । कवोष्णमिति कुशव्दस्य कवादेशः ! 'कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति' इत्यमरः ।

भाषार्थ—मेरे बाद मिलना दुर्लभ समझ कर मेरे दिये हुए जल को यह निश्चित है कि मेरे पूर्वज अपनी आहों से थोड़ा गरम करके पीते हैं।

पितृणानुद्धृतस्य दिलीपस्य दुःखप्रकाशनमित्याह—
सोऽहमिज्याविशुद्धात्मा प्रजालोपनिमीलितः ।
प्रकाशश्चाप्रकाशश्च लोकालोक इवाचलः ॥ ६८ ॥

अन्वयः—इज्याविशुद्धात्मा प्रजालोपनिमीलितः स अहं लोकालोकः अचलः इव प्रकाशः च अप्रकाशः च ( अस्मि ) ।

स इति । इज्या यागः 'व्रजयजोर्भावे क्यप्' इति क्यप्प्रत्ययः । तथा विशुद्धात्मा विशुद्धचेतनः प्रजालोपेन सन्तत्यभावेन निमीलितः । कृतनिमीलन सोऽहम् । लोक्यत इति लोकः । न लोक्यत इत्यलोकः, लोकश्चालोकश्चात्र स्त इति । लोकश्चासावलोकश्चेति वा, लोकालोकश्चक्रवालोऽचल इव । 'लोकालोकश्चक्रवालः' इत्यमरः । प्रकाशत इति प्रकाशश्च देवर्णविमोचनात् । न प्रकाशत इत्यप्रकाशश्च पितृणविमोचनात् पचाद्यच् । अस्मीति शेषः । लोकालोकोऽप्यन्तःसूर्यसंपर्काद्वहिस्तमोव्याप्त्या च प्रकाशश्चाप्रकाशश्चेति मन्तव्यम् ।

भाषार्थ—यज्ञ करने से पवित्र अन्तःकरण वाला सन्तान न होने से अन्धा मैं लोकालोक पर्वत के समान कभी प्रकाशवान् कभी अप्रकाशवान् हूँ ।

ननु तपोदानादिसम्पन्नस्य किमपत्यैरित्यत्राह—
लोकान्तरसुखं पुण्यं तपोदानसमुद्भवम् ।
सन्ततिः शुद्धवंश्या हि परत्रेह च शर्मणे ॥ ६९ ॥

अन्वयः—तपोदानसमुद्भवं पुण्यं लोकान्तरसुखम् । हि शुद्धवंश्या सन्ततिः परत्र इह च शर्मणे (भवतीति शेषः) ।

३२ रघुवंशमहाकाव्ये

लोकान्तरेति । समुद्भवत्यस्मादिति समुद्भवः कारणम् । तपोदाने समुद्भवो यस्य तत्तपोदानसमुद्भवं यत्पुण्यं तल्लोकान्तरे परलोके सुखं सुखकरम् । शुद्धवंशे भवा शुद्धवंश्या सन्ततिर्हि परत्र परलोके, इह च लोके शर्मणे सुखाय । 'शर्मशात-सुखानि च' इत्यमरः । भवतीति शेषः ।

भाषार्थ—तपस्या एवं दान से उत्पन्न पुण्य परलोक में सुखदायक होता है । शुद्ध वंश की सन्तति इस लोक और परलोक में सुख देनेवाली होती है ॥६९॥

सामर्थ्योऽपि कथममपत्यं मां ज्ञात्वा भवान्न दूयत इत्याह— तया हीनं विधातर्मां कथं पश्यन्न दूयसे । सिक्तं स्वयमिव स्नेहाद् बन्ध्यमाश्रमवृक्षकम् ॥ ७० ॥

अन्वयः—हे विधातः ! तया हीनं मां स्नेहात् स्वयं सिक्तं बन्ध्यम् आश्रम-वृक्षकम् इव पश्यन् कथं न दूयसे ?

तयेति । हे विधातः स्रष्टः ! तया सन्तत्या हीनमपत्यं माम् स्नेहात्प्रेम्णा स्वयमेव सिक्तं जलसेकेन वर्धितं बन्ध्यमफलम् । 'बन्ध्योऽफलोऽवकेशी च' इत्यमरः । आश्रमस्य वृक्षकं वृक्षपोतमिव । पश्यन्कथं न दूयसे न परितप्यसे ? विधातरित्यनेन समर्थोऽप्युपेक्षस इति गम्यते ।

भाषार्थ—हे गुरो ! सन्तानहीन मुझको प्यार से स्वयं सींचे हुए आश्रम के वृक्षों के समान विफल देखकर दुःखी क्यों नहीं होते हो ? ॥ ७० ॥

दिलीपस्य स्वकीयापुत्रत्वस्यासह्यपीडत्वकथनमित्याह— असह्यपीडं भगवन्नृणमन्त्यमवेहि मे । अरुन्तुदमिवालानमनिर्वाणस्य दन्तिनः ॥ ७१ ॥

अन्वयः—हे भगवन् ! मे (अरुन्तुदम् ) अन्यं ऋणं अनिर्वाणस्य दन्तिनः अरुन्तुदं आलानं इव असह्यपीडं अवेहि ।

असह्यपीडमिति । हे भगवन् ! मे ममान्त्यमृणं पैतृकमृणम् । अनिर्वाणस्य मज्जनरहितस्य । 'निर्वाणं निर्वृतौ मोक्षे विनाशे गजमज्जने' इति यादवः । दन्तिनो गजस्य । अरुर्ममं तुदतीत्यरुन्दतुदं मर्मस्पृक् । 'व्रणोऽस्त्रियामीर्ममर्मरुः' इति, 'अरुन्तुदन्तु मर्मस्पृक्' इति चामरः । विध्वरुषोस्तुदः' इति खश्प्रत्ययः, 'अरुर्द्विषद्व-' इत्यादिना मुमागमः । आलानं बन्धनस्तम्भमिव । 'आलानं बन्धन-स्तम्भे' इत्यमरः । असह्या सोढुमशक्या पीडा दुःखं यस्मिंस्तदवेहि । दुःसहः-दुःखजनकं विद्धीत्यर्थः । 'निर्वाणोत्थानशयनानि त्रीणि गजकर्माणि' इति पालकाप्ये । 'ऋणं देवस्य यागेन ऋषीणां दानकर्मणा । सन्तत्या पितृलोकानां शोधयित्वा परिव्रजेत्" ।

प्रथमः सर्गः | ३३

**भाषार्थ—**हे भगवन् ! मेरे पैतृक ऋण को मज्जनरहित, बद्ध हाथी के मर्मच्छेदी स्तम्भ की तरह समझो ॥ ७१ ॥

दिलीपस्य पुत्रप्राप्तौ प्रयत्नं कर्तुं वशिष्ठं प्रति कथनमित्याह—

तस्मान्मुच्ये यथा तात ! संविधातं तथाऽर्हसि । इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः ॥ ७२ ॥

**अन्वयः—**तात ! तस्मात् यथा मुच्ये तथा संविधातुं अर्हसि । हि इक्ष्वाकूणां दुरापे अर्थे सिद्धयः त्वदधीनाः (सन्ति) ।

तस्मादिति । हे तात ! तस्मात्पैतृकादृणाद्यथा मुच्ये मुक्तो भवामि । कर्मणि लट् । तथा संविधातुं कर्तुमर्हसि । हि यस्मात्कारणादिक्ष्वाकूणामिक्ष्वाकुवंश्या नाम् तद्राजत्वाद्बहुष्वणो लुक् । दुरापे दुष्प्राप्येऽर्थे । सिद्धयस्त्वदधीनास्त्वदायत्ताः । इक्ष वाकू णामिति शेषे षष्ठी । 'न लोकाव्ययनिष्ठाखलर्थतृनाम्' इत्यनेन कृद्योगे षष्ठीनिषेधात्

**भाषार्थ—**हे गुरो ! उस पैतृक ऋण से मैं जिस प्रकार मुक्त हो सकूँ वैसा आप उपाय करने को योग्य हैं, क्योंकि इक्ष्वाकुवंश में उत्पन्न राजाओं के कठिन कार्यों की सिद्धि आपके ही आधीन है ॥ ७२ ॥

दिलीपप्रश्नं श्रुत्वा वशिष्ठस्य तदुपरि विचार इत्याह—

इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः । क्षणमात्रमृषिस्तस्थौ सुप्तमीन इव ह्रदः ॥ ७३ ॥

**अन्वयः—**इति राज्ञा विज्ञापितः ऋषिः ध्यानस्तिमितलोचनः (सन्) सुप्तमीनः ह्रद इव क्षणमात्रं तस्थौ ।

इतीति । इति राज्ञा विज्ञापित ऋषिर्ध्यानेन स्तिमिते लोचने यस्य स ध्यानस्तिमितलोचनो निश्चलाक्षः सन् क्षणमात्रं सुप्तमीनो ह्रद इव तस्थौ ।

**भाषार्थ—**इस प्रकार राजा दिलीप से प्रार्थना किए जाने पर महर्षि वसिष्ठ ध्यान से आंख बन्द कर सोई हुई मछलियों से युक्त सरोवर के समान क्षणमात्र समाधिस्थ हो गये ॥ ७३ ॥

वसिष्ठस्य ध्यानचक्षुषा पुत्रप्रतिबन्धककारणं विज्ञाय दिलीपं प्रति कथनमित्याह—

सोऽपश्यत्प्रणिधानेन संततेः स्तम्भकारणम् । भावितात्मा भुवो भर्तुरथैनं प्रत्यबोधयत् ॥ ७४ ॥

**अन्वय —**भावितात्मा सः प्रणिधानेन भुवः भर्तुः सन्ततेः स्तम्भकारणं अपश्यत् अथ एनं प्रत्यबोधयत् च ।

स इति । स मुनिः प्रणिधानेन चित्तैकाग्र्येण भावितात्मा शुद्धान्तःकरणः भुवो

३ र० सम्पू०

३४रघुवंशमहाकाव्ये

भर्त्तुर्नुग्स्य सन्ततेः स्तम्भकारणं सन्तानप्रतिबन्धकारणमपश्यत् । अथानान्तरमेनं नृपं प्रत्यबोधयत् । स्वदृष्टं ज्ञापितवानित्यर्थः । एनमिति 'गतिबुद्धिप्रत्यवसानार्थ-' इत्यादिनाणि कर्तुः कर्मत्वम् ।

भाषार्थ—उस पवित्रात्मा वसिष्ठ जी ने ध्यान से राजा दिलीप की सन्तान के प्रतिबन्ध का कारण देखा और उनसे बतलाया ॥ ७४ ॥

वसिष्ठस्य राज्ञः सन्तानप्रतिबन्धकारणकथनमित्यत्राह—

पुरा शक्रमुपस्थाय तवोर्वी प्रति यास्यतः ।
आसीत्कल्पतरुच्छायामाश्रिता सुरभिः पथि ॥ ७५ ॥

अन्वयः—पुरा शक्रं उपस्थाय उर्वी प्रति यास्यतः तव पथि कल्पतरुच्छायां बाश्रिता सुरभिः आसीत् ।

पुरेति । पुरा पूर्वं शक्रमिन्द्रमुपस्थाय संसेव्योर्वी प्रति भुवमुद्दिश्य यास्यतो गमिष्यतस्तव पथि वर्त्मनि कल्पतरुच्छायामाश्रिता सुरभिः कामधेनुरासीत् । तत्र स्थितेत्यर्थः ।

भाषार्थ—पहले इन्द्र के पास जाकर पृथ्वी की ओर लौटते हुए तुम्हारे मार्ग में कल्पवृक्ष की छाया में सुरभि गौ बैठी हुई थी ॥ ७५ ॥

कामधेनोः प्रदक्षिणाऽकरणे हेतुं प्रदर्शयन्नाह—

धर्मलोपभयाद्राज्ञोमृतुस्नातामिमां स्मरन् ।
प्रदक्षिणक्रियाऽर्हायां तस्यां त्वं साधु नाचर ॥ ७६ ॥

अन्वयः—ऋतुस्नातां इमां राज्ञीं धर्मलोपभयात् स्मरन् त्वं प्रदक्षिणाक्रियार्हायां तस्यां साधु न अचरः ।

धर्मेति । ऋतुः पुष्पं रज इति यावत् । 'ऋतुः स्त्रीकुसुमेऽपि च' इत्यमरः । ऋतुना निमित्तेन स्नातामिमां राज्ञीं सुदक्षिणाम् । धर्मस्यत्वं भिगमलक्षणस्य लोपाद् भ्रंशाद्भयं तस्मात्स्मरन्ध्यायन् । "मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् । प्रदक्षिणानि कुर्वीत् विज्ञातांश्च वनस्पतीन्" इति शास्त्रात्प्रदक्षिणक्रियाऽर्हायां प्रदक्षिण-करणयोग्यायां तस्यां घेन्वां त्वं साधु प्रदक्षिणादिसत्कारं नाचरो नाचष्टितवानसि । व्यासक्ता हि विस्मरन्तीति भावः । ऋतुकालाभिगमने मनुः—'ऋतुकालाभिगामी स्यात्स्वदारनिरतः सदा' इति । अकरणे दोषमाह पराशरः—"ऋतुस्नातां तु यो भार्या स्वस्थः सन्नोपगच्छति । बालगोध्नाण्डराधेन विध्यते नात्र संशयः" इति । तथा च—"ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छति । घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः" इति ।

प्रथमः सर्गः ३५

प्रथमः सर्गः ३५

भाषार्थ— ऋतु-स्नान की हुई इस रानी सुदक्षिणा को धर्म के लोप के भय से स्मरण करते हुए तुमने प्रदक्षिणायोग्य उस सुरभि के प्रति सम्मान नहीं किया ॥ ७६ ॥

अनाहतायाः सुरभेर्दिलीपाय शापप्रदानमित्याह—

अवजानासि मां यस्मादतस्ते न भविष्यति ।
मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा ॥ ७७ ॥

अन्वयः— सा 'यस्मात् मां अवजानासि अतः मत्प्रसूतिं अनाराध्य ते प्रजा न भविष्यति' इति त्वां शशाप ।

अवजानासीति । यस्मात्कारणान्मामवजानासि तिरस्करोषि । अतः कारणा-न्मत्प्रसूतिं मम संततिमनाराध्यासेवयित्वा ते तव प्रजा न भविष्यतीति सा सुरभिस्त्वां शशाप । ‘शप आक्रोश’ ।

भाषार्थ— उस सुरभि ने 'जिस कारण मेरा अनादर कर रहे हो इसलिए मेरी सन्तान की अराधना किये बिना तुम्हें सन्तान न होगी' ऐसा तुमको शाप दिया ॥ ७७ ॥

कथं तदस्माभिर्न श्रुतमित्याह—

स शापो न त्वया राजन् न च सारथिना श्रुतः ।
नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे ॥ ७८ ॥

अन्वयः— हे राजन् आकाशगङ्गायाः उद्दामदिग्गजे स्रोतसि नदति (सति) सः शापः त्वया सारथिना च न श्रुतः ॥ ७८ ॥

स इति । हे राजन् ! स शापस्त्वया न श्रुतः सारथिना च न श्रुतः । अश्रवणे हेतुमाह—क्रीडार्थमागता उद्दामानो दाम्न उद्गता दिग्गजा यस्मिंस्तथोक्ते । आकाशगङ्गाया मन्दाकिन्याः स्रोतसि प्रवाहे नदति सति ।

भाषार्थ— हे राजन् ! आकाशगंगाप्रवाह में बन्धन रहित, मतवाले दिग्गजों के शब्द होने के कारण शाप को न तो आपने ही सुना न सारथि ही सुन सका ॥ ७८ ॥

अस्तु, प्रस्तुते किमायातमित्यत्राह—

ईप्सितं तदवज्ञानाद्विद्धि सार्गलमात्मनः ।
प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः ॥ ७९ ॥

अन्वयः— तदवज्ञानात् आत्मनः ईप्सितं सार्गलं विद्धि । हि पूज्यपूजाव्यतिक्रमः श्रेयः प्रतिबध्नाति ।

३६ रघुवंशमहाकाव्ये

ईप्सितमिति । तदवज्ञानात्तस्या धेनोरवज्ञानादपमानादात्मनः स्वस्याप्तुमिष्टमीप्सितं मनोरथम् । आप्नोतेः सन्नन्तात् क्तः ईकारश्च । सार्गलं सप्रतिबन्धं विद्धि जानीहि । तथा हि—पूज्यपूजाया व्यतिक्रमोऽतिक्रमणं श्रेयः प्रतिबध्नाति ।

भावार्थ—उस सुरभि का अनादर होने के कारण अपने मनोरथ को रुका हुआ समझो क्योंकि पूज्यों की पूजा का उल्लंघन कल्याण को रोक देता है ॥७९॥

तर्हि गत्वा तामाराधयामि, सा वा कथंचिदागमिष्यतीत्याशा न कर्त्तव्येत्याह—

हविषे दीर्घसत्रस्य सा चेदानीं प्रचेतसः ।
भुजङ्गपिहितद्वारं पातालमधितिष्ठति ॥ ८० ॥

अन्वयः—सा च इदानीं दीर्घसत्रस्य प्रचेतसः हविषे भुजंगपिहितद्वारं पातालम् अधितिष्ठति ।

हविष इति । सा च सुरभिरिदानीं दीर्घसत्रं चिरकालसाध्यो यागविशेषो यस्य तस्य प्रचेतसो हविषे दध्याज्यादिहविरर्थं भुजङ्गावरुद्धद्वारं ततो दुष्प्रवेशं पातालमधितिष्ठति । पाताले तिष्ठतीत्यर्थः । ‘अधिशीङ्स्थाऽसां कर्म’ इति कर्मत्वम् ।

भावार्थ—वह सुरभि इस समय अधिक दिनों तक होनेवाले यज्ञ के अनुष्ठातः वरुण को हविष्य देने के लिए सर्पों से वेष्टित द्वार वाले पाताल लोक में रहती है ।

तर्हि का गतिरित्याह—

सुतां तदीयां सुरभेः कृत्वा प्रतिनिधिं शुचिः ।
आराधय सपत्नीकः प्रीता कामदुघा हि सा ॥ ८१ ॥

अन्वयः—सपत्नीकः (त्वं) शुचिः सन्) तदीयां सुतां सुरभेः प्रतिनिधिं कृत्वा आराधय । हि सा प्रीता (सती) कामदुघा (भवति) ।

सुतामिति । तस्याः सुरभेरियं तदीया । तां सुतां सुरभे प्रतिनिधिं कृत्वा शुचिः शुद्धः । सह पत्न्या वर्तत इति सपत्नीकः सन् । ‘नद्यृतश्च’ इति कप्प्रत्ययः । आराधय । हि यस्मात्कारणात्सा प्रीता तुष्टा सती । कामान्दोग्धीति कामदुघा भवति । ‘दुहः कब्घश्च’ इति कप्प्रत्ययो घादेशश्च ।

भावार्थ—स्त्रीसहित तुम पवित्र होकर उस सुरभि की पुत्री को सुरभि के स्थान पर आराधना करो । निश्चय ही वह प्रसन्न होकर तुम्हारी कामना को सफल कर देगी ॥ ८१ ॥

कामधेनुसुताया नन्दिन्या वनादागमनमित्याह—

इति वादिन एवास्य होतुराहुति साधनम् ।
अनिन्द्या नन्दिनी नाम धेनुराववृते वनात् ॥ ८२ ॥

प्रथमः सर्गः ३७

अन्वयः — इति वादिनः एव होतुः अस्य आहुतिसाधनं नन्दिनी नाम अनिन्द्या धेनुः वनात् आववृते ।

इतीति । इति वादिनो वदत एव होतुर्हवनशीलस्य । ‘तृन्’ इति तृन्प्रत्ययः । अस्य मुनेराहुतीनां साधनं कारणम् । नन्दयतीति व्युत्पत्त्या नन्दिनीनामानिन्द्याऽगर्ह्या प्रशस्ता धेनुर्वनादाववृते प्रत्यागता । “अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम्’ इति भावः ।

भाषार्थ — उस होता वसिष्ठ जी के इतना कहते ही इनकी आहुति का साधन नन्दिनी नाम की अनिन्दित गौ वन से चर कर आ गई ॥ ८२ ॥

सम्प्रति धेनुं विशिनष्टि—

ललाटोदयमाभुग्नं पल्लवस्निग्धपाटला ।
बिभ्रती श्वेतरोमाङ्कं सन्ध्येव शशिनं नवम् ॥ ८३ ॥

अन्वयः—पल्लवस्निग्धपाटला ललाटोदयं आभुग्नं श्वेतरोमाङ्कं सन्ध्या नवं शशिनं इव बिभ्रती ( नन्दिनी वनात् आववृते ) ।

ललाटेति । पल्लववत्स्निग्धा चासौ पाटला च । संध्यायामप्येतद्विशेषणं योज्यम्। ललाट उदयो यस्य स ललाटोदयः । तमाभुग्नमीषद्वक्रम् । ‘आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि’ इत्यमरः । ‘ओदितश्च’ इति निष्ठातस्य नत्वम् । श्वेतरोमाण्येवाङ्कस्तं बिभ्रती संध्येव स्थिता ।

भाषार्थ—नये पल्लव के समान कोमल और लाल रंगवाली शिर पर सफेद रोवों की कुटिल टीका वाली नये चन्द्रमा से युक्त सन्ध्या के समान सुशोभित थी ॥ ८३॥

पुनरपि धेनुवर्णनप्रसङ्गेनाह—

भुवं कोष्णेन कुण्डोध्नी मेध्येनावभृथादपि ।
प्रस्रवेनामिवर्षन्ती वत्सालोकप्रवर्तिना ॥ ८४ ॥

अन्वयः—कुण्डोध्नी (सा) अवभृथाद् अपि मेध्येन वत्सालोकप्रवर्तिना कोष्णेन प्रस्रवेन भुवं अभिवर्षन्ती ( वनात् आववृते ) ।

भुवमिति । कोष्णेन किंचिदुष्णेन । ‘कवं चोष्णे’ इति चकारात्कादेशः । अवभृथादप्यवभृथस्नानादपि मेध्येन पवित्रेण । ‘पूतं पवित्रं मेध्यं च’ इत्यमरः । वत्सस्यालोकेन प्रदर्शनेन प्रवर्तिना प्रवहता प्रस्रवेन क्षीराभिस्यन्दनेन भुवमभिवर्षन्ती सिञ्चन्ती । कुण्डमिवोध आपीनं यस्याः सा कुण्डोध्नी । ऊधस्तु क्लीबमापीनम्’ इत्यमरः । ‘ऊधसोऽनङ्’ इत्यनङादेशः । ‘बहुव्रीहेरूहसो ङीष्’ ।

भाषार्थ—कुण्ड के समान स्तनों वाली अवभृथ स्नान से भी पवित्र और बछड़े

३८ रघुवंशमहाकाव्ये

को देखने से अपने आप बहने वाली गरम दूध की धार से पृथ्वी को सींचती हुई वन से आ गई ॥ ८४ ॥

नन्दिन्याः खुरोद्धूतरजसां पूतत्ववर्णनपूर्वकं तां विशिनष्टि—

रजःकणैः खुरोद्धूतैः स्पृशद्भिर्गात्रमन्तिकात् ।
तीर्थाभिषेकजां शुद्धिमादधाना महीक्षितः ॥ ८५ ॥

अन्वयः—खुरोद्धूतैः अन्तिकात् गात्रं स्पृशद्भिः रजः कणैः महीक्षितः तीर्थाभिषेकजां शुद्धिं आदधाना ( नन्दिनी वनात् आववृते ) ।

रज इति। खुरोद्धूतैरन्तिकात्समीपे गात्रं स्पृशद्भिः । 'दूरान्तिकार्थेभ्यो द्वितीया च' इति चकारात्पञ्चमी । रजसां कणैः । महीं क्षियत ईष्ट इति महीक्षित् तस्य । तीर्थाभिषेकेण जातां तीर्थाभिषेकजाम् । शुद्धिमादधाना कुर्वाणा । एतेन वायव्यं स्नानमुक्तम् । उक्तं च मनुना—"आग्नेयं भस्मना स्नानमवगाहं तु वारुणम् । आपोहिष्ठेति च ब्राह्मं वायव्यं गोरजः स्मृतम्" इति ।

भावार्थ—खुरों से उठे हुए समीप होने के कारण शरीर को स्पर्श करने वाले धूलिकणों से राजा दिलीप को तीर्थस्नान की शुद्धि देती हुई नन्दिनी वन से आ गई।

तां दृष्ट्वा वशिष्ठः पुनर्दिलीपं प्रत्याह—

तां पुण्यदर्शनां दृष्ट्वा निमित्तज्ञस्तपोनिधिः ।
याज्यमाशंसिताबन्ध्यप्रार्थनं पुनरब्रवीत् ॥ ८६ ॥

अन्वयः—निमित्तज्ञः तपोनिधिः पुण्यदर्शनां तां दृष्ट्वा आशंसितावन्ध्यप्रार्थनं याज्यं पुनः अब्रवीत् ।

तामिति । निमित्तज्ञः शकुनज्ञस्तपोनिधिर्वसिष्ठः पुण्यं दर्शनं यस्यास्तां धेनुं दृष्ट्वा । आशंसितं मनोरथः । नपुंसके भावे क्तः । तत्राबन्ध्यं सफलं प्रार्थनं यस्य सः तम् । अबन्ध्यमनोरथमित्यर्थः । याजयितुं योग्यं याज्यं पार्थिवं पुनरब्रवीत् ।

भावार्थ—शकुन को जानने वाले तपस्वी वसिष्ठ जी उस पवित्रदर्शना नन्दिनी को देख, सफल मनोरथ के प्रार्थी यजमान राजा दिलीप से पुनः बोले ॥ ८६ ॥

किमब्रवीदित्याकाङ्क्षायां सफलमनोरथत्वे हेतु प्रदर्शयंन्नाह—

अदूरवर्तिनीं सिद्धिं राजन्विगणयात्मनः ।
उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत् ॥ ८७ ॥

अन्वयः—हे राजन् आत्मनः सिद्धिं अदूरवर्तिनीं विगणय यत् कल्याणी इयं नाम्नि कीर्तिते एव उपस्थिता ।

अदूरवर्तिनीमिति । हे राजन् । आत्मनः कार्यस्य सिद्धिमदूरवर्तिनीं शीघ्रभाविनीं

प्रथमः सर्गः ३९

प्रथमः सर्गः ३९

विगणय विद्धि । यदस्मात्कारणात्कल्याणी मङ्गलमूर्तिः । 'बह्वादिभ्यश्च' इति ङीप् । इयं धेनुर्नाम्नि कीर्तिते कथिते सत्येवोपस्थिता ।

भाषार्थ—हे राजन् अपनी सिद्धि को पास आई हुई समझो, क्योंकि यह कल्याणी नन्दिनी नाम लेते ही आ गई ॥ ८७ ॥

पुत्रप्राप्त्यर्थं नन्दिनीपरिचर्यामुपदिशन्नाह— वन्यवृत्तिरिमां शश्वदात्मानुगमनेन गाम् । विद्यामभ्यसनेनैव प्रसादयितुमर्हसि ॥ ८८ ॥

अन्वयः—वन्यवृत्तिः (सन् त्वं) शश्वत् आत्मानुगमनेन इमां गां अभ्यसनेन विद्या इव प्रसादयितुम् अर्हसि ।

वन्यवृत्तिरिति । वने भवं वन्यं कन्दमूलादिकं वृत्तिराहारो यस्य तथाभूतः सन् । इमां गां शश्वत्सदा । आप्रसादादविच्छेदेनेत्यर्थः । आत्मनस्तव कर्तुः । अनुगमनेनानुसरणेन । अभ्यसनेनानुष्ठातुरभ्यासेन विद्यामिव प्रसादयितुं प्रसन्नां कर्तुमर्हसि ।

भाषार्थ—जङ्गली कन्द फल मूल खाते हुए तुम सदा इस नन्दिनी के पीछे चल कर इसको अभ्यास से विद्या की तरह प्रसन्न करने का उद्योग करो ।८८।

गवानुसरणप्रकारमाह— प्रस्थितायां प्रतिष्ठेथाः स्थितायां स्थितिमाचरेः । निषण्णायां निषीदास्यां पीताम्भसि पिबेरपः ॥ ८६ ॥

अन्वयः—अस्यां प्रस्थितायां ( सत्यां त्वं ) प्रतिष्ठेथाः, ( अस्यां ) स्थितायां स्थितिं आचरेः, ( अस्यां ) निषण्णायां ( सत्यां ) निषीद, ( अस्यां ) पीताम्भसि ( सत्यां ) पयः पिब ॥ ८९ ॥

प्रस्थितायामिति । अस्यां नन्दिन्यां प्रस्थितायां प्रतिष्ठेथाः प्रयाहि । 'समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । स्थितायां निवृत्तगतिकायां स्थितिमाचरेः स्थितिं कुरु । तिष्ठेत्यर्थः । निषण्णायामुपविष्टायां निषीदोपविश । विध्यर्थे लोट् । पीतमम्भो यया तस्यां पीताम्भसि सत्यामपः पिबेः पिब ।

भाषार्थ—इस नन्दिनी के चलने पर चलो, ठहरने पर ठहरो, बैठने पर बैठो और पानी पीने पर पानी पिओ ॥ ८९ ॥

साम्प्रतं नन्दिनीपरिचर्यायां सुदक्षिणयाऽनुष्ठास्यमानं कर्म ब्रुवन्नाह— वधूर्भक्तिमती चैनमर्चितामातपोवनात् । प्रयता प्रातरन्वेतु सायं प्रत्युद्व्रजेदपि ॥ ९० ॥

४० रघुवंशमहाकाव्ये

अन्वयः—वधूः भक्तिमती प्रयता (सती) अर्चिताम् एनां आतपोवनात् प्रातः अन्वेतु, सायम् अपि प्रत्युद्व्रजेत् ।

वधूरिति । वधूर्जाया च भक्तिमती गन्धादिभिरर्चितामेनां प्रातरात्तपोवनात् आङ् मर्यादायाम् । पदद्वयं चैतत् । अन्वेत्वनुगच्छतु । सायपि प्रत्युद्व्रजेत्युद्गच्छेत् । विध्यर्थे लिङ् ॥ ९० ॥

भाषार्थ—और भक्तिमती वह सुदक्षिणा भी संयमपूर्वक पूजित इस नन्दिनी के पीछे तपोवन के अन्त तक सुबह के समय जाया करे और साम को अगवानी किया करे ॥ ९० ॥

नन्दिनीपरिचर्याऽवधिं निर्दिशन्नाह—

इत्याप्रसादादस्यास्त्वं परिचर्यापरो भव । अविघ्नमस्तु ते स्थेयाः पितेव धुरि पुत्रिणाम् ॥ ९१ ॥

अन्वयः—इति आप्रसादात् त्वं अस्याः परिचर्यापरः भव । ते अविघ्नम् अस्तु । पिता इव पुत्रिणां धुरि स्थेयाः ।

इतीति । इत्यनेन प्रकारेण त्वमाप्रसादात्प्रसादपर्यन्तम् । 'आङ्मर्यादाऽभिविध्योः' इत्यस्य वैभाषिकत्वादसमासत्वम् । अस्या धेनोः परिचर्यापरः शुश्रूषापरो भव । ते तवाविघ्नं विघ्नस्याभावोऽस्तु । 'अव्ययं विभक्ति' इत्यादिनाऽर्थाभावेऽव्ययीभावः । पितेव पुत्रिणां सत्पुत्रवताम् । प्रशंसायामिनि प्रत्ययः । धुर्ये स्थेयास्तिष्ठेः । आशीरर्थे लिङ् । 'एर्लिङि' इत्याकारस्यैकारादेशः । त्वत्सदृशो भवत्पुत्रोऽस्त्विति भावः ।

भाषार्थ—इस प्रकार प्रसन्नतापर्यन्त इस नन्दिनी की सेवा करो । तुम्हारा कल्याण हो ! पिता के समान पुत्रवालों में तुम मुख्य हो ॥ ९१ ॥

राज्ञो दिलीपस्य सप्रेम गुरोराज्ञाग्रहणमाह—

तथेति प्रतिजग्राह प्रीतिमान्सपरिग्रहः । आदेशं देशकालज्ञः शिष्यः शासितुरानतः ॥ ९२ ॥

अन्वयः—देशकालज्ञः शिष्यः ( राजा दिलीपः ) प्रीतिमान् सपरिग्रहः आनतः ( सन् ) शासितुः आदेशं 'तथा' इति प्रतिजग्राह ।

तथेति । देशकालज्ञः । देशोऽग्निसंनिधिः, कालोऽग्निहोत्रावसानसमयः । विशिष्टदेशकालोत्पन्नमार्षज्ञानमव्याहतमिति जानन् अत एव प्रीतिमाञ्छिष्योऽन्तेवासी राजा सपरिग्रहः सपत्नीकः । 'पत्नीपरिजनादानमूलशापाः परिग्रहाः' इत्यमरः आनतो विनयनम्रः सन् शासितुर्गुरोरादेशमाज्ञां तथेति प्रतिजग्राह स्वीचकार ।

भाषार्थ—देशकाल को समझने वाले, प्रसन्न, धर्मपत्नीसहित विनयशाली शिष्य,

प्रथमः सर्गः ४१

राजा दिलीप ने गुरु वसिष्ठ की आज्ञा को 'ऐसा ही होगा' कह स्वीकार कर लिया।

अथ रात्रिकालं विज्ञाय दिलीपशयनाथं वसिष्ठानुशासनमाह—

अथ प्रदोषे दोषज्ञः संवेशाय विशांपतिम् ।
सूनुः सूनृतवाक्स्रष्टुर्विससर्जोजितश्रियम् ॥ ९३ ॥

अन्वयः—अथ प्रदोषे दोषज्ञः सूनृतवाक्, स्रष्टुः सूनुः ऊर्जितश्रियम् विशापतिम् संवेशाय विससर्ज ।

अथेति । अथ प्रदोषे रात्रौ दोषज्ञो विद्वान् । 'विद्वान्विपश्चिद्दोषज्ञः' इत्यमरः । सूनृतवाक् सत्यप्रियवाक् । 'प्रियं सत्यं च सूनृतम्' इति हलायुधः । स्रष्टुः सूनुर्ब्रह्मपुत्रो मुनिः । अनेक प्रकृतकार्यनिर्वाहकत्वं सूचयति । ऊर्जितश्रियं विशांपति मनुजेश्वरम् । 'द्वौ विशौ वैश्यमनुजौ' इत्यमरः । संवेशाय निद्रायै । 'स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि' इत्यमरः । विससर्जाज्ञापयामास ।

भाषार्थ—इसके बाद रात्रि में विद्वान्, सत्य एवं मधुर भाषी, ब्रह्मा जी के मानस पुत्र वसिष्ठजी ने प्रसन्नचित राजा दिलीप को सोने के लिए आज्ञा दी ।। ९३।।

महर्षेर्वसिष्ठस्य दिली पाय मुनिजर्नाहंस'मग्रीसम्पादनमाह—

सत्यामपि तपःसिद्धौ नियमापेक्षया मुनिः।
कल्पवित्कल्पयामास वन्यामेवास्य संविधाम् ॥ ९४ ॥

अन्वयः—कल्पवित् मुनिः तपःसिद्धौ सत्याम् अपि नियमापेक्षया अस्य नन्दिम्याम् एव संविधां कल्पयामास ।

सत्यामिति । कल्पविद् व्रतप्रयोगाभिज्ञो मुनिः । तपःसिद्धौ सत्यामपि । तपसैवै राजयोग्याहारसंपादनसामर्थ्ये सत्यपीत्यर्थः । नियमापेक्षया तदाप्रभृत्येव व्रतचर्यापेक्षया । अस्य राज्ञो वन्यामेव । संविधीयतनऽनयेति संविधाम् । कुशादिशयनसामग्रीम् । 'आतश्चोपसर्गे' इति कप्रत्ययः । 'अकर्तरि च कारके संज्ञायाम्' इति कर्मण्यर्थत्वम् । कल्पयामास संपादयामास ।

भाषार्थ—व्रतव्यवहार जानने वाले महर्षि वसिष्ठ नें तप की सिद्धि में भी नियम की अपेक्षा से इन्हें जंगल में उपलब्ध कुशासन शयनादि सामग्री को बतलाया ॥९४॥

वसिष्ठाज्ञया पर्णशालायां पत्न्या सह प्रसुप्तस्य दिलोपस्य ब्राह्ममुहूर्त्ते निद्रात्यागमाह—

निर्दिष्टां कुलपतिना स पर्णशाला-
मध्यास्य प्रयतपरिग्रहद्वितीयः ।
तच्छिष्याध्ययननिवेदितावसानां
संविष्टः कुशशयने निशां निनाय ॥ ९५ ॥

४२ रघुवंशमहाकाव्ये

**अन्वयः—**प्रयतपरिग्रहद्वितीयः स कुलपतिना निर्दिष्टो पर्णशालां अध्यास्य कुशशयने संविष्टः (सन्) तच्छिष्याध्ययननिवेदितावसानाम् निशां निनाय।

निर्दिष्टामिति। स राजा कुलपतिना मुनिकुलेश्वरेण वसिष्ठेन निर्दिष्टां पर्णशाला- मध्यास्याधिष्ठाय। तस्यामधिष्ठानं कृत्वेत्यर्थः। 'अधिशीङ्स्थासां कर्म' इत्यनेना- धारस्य कर्मणि द्वितीया। प्रयतो नियतः परिग्रहः पत्नी द्वितीयो यस्येति स तथोक्तः। कुशानां शयने संविष्टः सुप्तः सन्। तस्य वसिष्ठस्य शिष्याणामध्ययने- नापररात्रे वेदपाठेन निवेदितमवसानं यस्यास्तां निशां निनाय गमयामास। अपर- रात्रेऽध्ययने मनुः 'निशान्ते न परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत्'। 'न चापर- रात्रमधीत्य पुनः स्वपेद्' इति गौतमश्च। प्रहर्षिणीवृत्तमेतत्। तदुक्तम्—'म्नौ जौ गस्त्रिदशयतिः प्रहर्षणीयम्''।

इति सञ्जीविनीव्याख्यायां वसिष्ठाश्रमाभिगमनो नाम प्रथमः सर्गः।

**भाषार्थ—**अपनी धर्मपत्नी सुदक्षिणा के साथ उस राजा दिलीप ने कुलपति महर्षि वसिष्ठ से बताई गई पर्णशाला मे जाकर कुश आसन पर सोते हुए वसिष्ठ के शिष्यों के अध्ययन से सूचित अन्त वाली रात्रि को बिताया ॥ ९५ ॥

त्रिपाठ्युपाव्ह पं० श्रीकृष्णमणिशास्त्रिरचित चन्द्रकला टीका में प्रथम सर्ग समाप्त।


❀ ❀ ❀

द्वितीयः सर्गः

अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम्।
वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच ॥ १ ॥

**अन्वयः—**अथ यशोधनः प्रजानाम् अधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्यां पीतप्रतिबद्धवत्सां ऋषेः धेनुं वनाय मुमोच।

आशासु राशीभवदङ्गवल्लीभासैव दासीकृतदुग्धसिन्धुम्।
मन्दस्मितैर्निन्दितशारदेन्दुं वन्देऽग्विन्दासनसुन्दरि ! त्वाम्॥

अथेति। अथ निशानयनानन्तरं यशोधनः प्रजानामधिपः प्रजेश्वरः प्रभाते प्रातः- काले जायया सुदक्षिणया प्रतिग्राहिते स्वीकारिते गन्धमाल्ये यया सा जायाप्रति- ग्राहितगन्धमाल्या, तां तथोक्ताम्, पीतं पानमस्यास्तीति पीतः पीतवानित्यर्थः। 'अर्श आदिभ्योऽच्' इत्यच्प्रत्ययः। 'पीता गावो भुक्ता ब्राह्मणाः' इति महाभाष्ये दर्शनात्। पीतः प्रतिबद्धो वत्सो यस्यास्तामृषेर्धेनुं वनाय वनं गन्तुम्। क्रियार्थोपपदस्य इत्यनेन

द्वितीयः सर्गः ४३

द्वितीयः सर्गः ४३

चतुर्थी । मुमोच मुक्तवान् । जायापदसामर्थ्यात्सुदक्षिणायाः पुत्रजननयोग्यत्वमनु सन्धेयम् । तथा हि श्रुतिः—‘पतिर्जायां प्रविशति गर्भो भूत्वेह मातरम् । तस्यां पुनर्नवो भूत्वा दशमे मासि जायते । तज्जाया जाया भवति यदस्यां जायते पुनः” ।। इति । यशोधन इत्यनेन पुत्रवत्ताकीर्तिलोभाद्राजानहं गोरक्षणे प्रवृत्त इति गम्यते । अस्मिन्सर्गे वृत्तमुपजातिः—“अनन्तरोदीरितलक्ष्मभाजो पादौ यदीयावुपजातयस्ताः” इति ।

**भाषार्थ—**रात्रि के बीत जाने पर यश के धनी, प्रजापालक, राजा दिलीप ने प्रातःकाल सुदक्षिणा द्वारा दी हुई गन्धमाला को ग्रहण करने वाली, दूध पीकर बँधे हुए बछड़े वाली, महर्षि वसिष्ठ की नन्दिनी गो को वन में चराने के लिए खोल दिया ॥ १ ॥

तस्याः खुरन्यासपवित्रपांसुमपांसुलानां धुरि कीर्तनीया । मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृ तिरन्वगच्छत् ॥ २ ॥

**अन्वयः—**अपांसुलानां धुरि कीर्तनीया मनुष्येश्वरधर्मपत्नी तस्याः खुरन्यास- पवित्रपांसुं मार्गं स्मृतिः श्रुतेः अर्थम् इव अन्वगच्छत् ।

तस्या इति । पांसवो दोषा आसां सन्तीति पांसुलाः स्वैरिण्यः । ‘स्वैरिणी पांसुला’ इत्यमरः । ‘सिध्मादिभ्यश्च’ इति लच्प्रत्ययः । अपांसुलानां पति- व्रतानां धुर्यग्रे कीर्तनीया परिगणनीया । मनुष्येश्वरधर्मपत्नी खुरन्यासैः पांसवो पवित्राः यस्य तम् । ‘रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः’ इत्यमरः । तस्या धेनोर्मार्गम् । स्मृतिमन्वादिवाक्यं श्रुतेर्वेदवाक्यस्यार्थमभिधेयमिव अन्वग- च्छदनुसृतवती च । यथा स्मृतिः श्रुविक्षुण्णमेवार्थमनुसरति तथा सोऽपि गोखुर- क्षुण्णमेव मार्गमनुससारेत्यर्थः । धर्मपत्नीत्यत्राश्वघा सादिवत्तादर्थ्ये षष्ठीसमासः प्रकृतिविकाराभावात् । पांसुलपथवृत्तावप्यपांसुलामिवि विरोधा लङ्कारो ध्वन्यते ।

**भाषार्थ—**पतिव्रताओं में अग्रगण्य, राजा दिलीपकी धर्मपत्नी सुदक्षिणा उस नन्दिनी के खुरों के रखने से पवित्र धूलिवाले मागं में वेद के अर्थ के पीछे स्मृति के सामान चली ॥ २ ॥

निवर्त्य राजा दयितां दयालुस्तां सौरभेयीं सुरभिर्यशोभिः । पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरामिवोर्वीम् ॥ ३ ॥

**अन्वयः—**दयालुः यशोभिः सुरभिः राजा तां दयितां निवर्त्य पयोधरीभूत- चतुःसमुद्रां सौरभेयीं गोरूपधरां उर्वीम् इव जुगोप ।

निवर्त्येति । दयालुः कारुणिकः । ‘स्याद्दयाल़ुः कारुणिकः’ इत्यमरः । ‘स्पृहि- गृहि-’इत्यादिनाऽऽलुच्प्रत्ययः । यशोभिः सुरभिर्मनोज्ञः । सुरभिः स्यान्मनोज्ञेऽपि’

४४ रघुवंशमहाकाव्ये

इति विश्वः । राजा तां दयितां निवर्त्य सौरभेयीं कामधेनुसुतां नन्दिनीम् । धरं- तीति धराः । पचाद्यच् । पयसां धराः पयोधराः स्तनाः । 'स्त्रीस्तनाब्दौ' पयोधरौ' इत्यमरः । अपयोधराः पयोधराः सम्पद्यमानाः पयोधरीभूताः । अभूततद्भावे च्विः । 'कुगतिप्रादयः' इति समासः । पयोधरीभूताश्चत्वारः समुद्रा यस्यास्ताम् । 'अनेकमन्यपदार्थे' इत्यनेकपदार्थग्रहणसामर्थ्यात्त्रिषदो बहुव्रीहिः । गोरूपधरामूर्वी- मिव जुगोप ररक्ष । भूरक्षणप्रयत्नेनैव ररक्षेति भावः । धेनुपक्षे—पयसा दुग्धे- नाधारीभूताश्चत्वारः समुद्रा यस्याः सा तथोक्तम् । दुग्धतिरस्कृतसागरामित्यर्थः भाषार्थ—दयालु एवं कीर्तियों से सुशोभित राजा दिलीप प्रियपत्नी सुद- क्षिणा को लोटाकर अपने दूध से चारों समुद्रोंको तिरस्कृत करने वाली सुरभि की पुत्री नन्दिनी को चारों समुद्रों को चार स्तनों के रूप में धारण करनेवाली गोरूपी पृथ्वी के समान रक्षा की। ॥ ३ ॥

व्रताय तेनानुचरेण धेनोर्न्यषेधि शेषोऽप्यनुयायिवर्गः । न चान्यतस्तस्य शरीररक्षा, स्ववीर्यगुप्ता हि मनोः प्रसूति ॥ ४ ॥

अन्वयः—व्रताय धेनोः अनुचरेण तेन शेषः अपि अनुयायिवर्गः न्यषेधि तस्य शरीरक्षा च अन्यतः न। हि मनोः प्रसूतिः स्ववीर्यगुप्ता ( भवति )।

व्रतायेति । व्रताय धेनोरनुचरेण न तु जीवनायेति भावः । तेन दिलीपेन शेषोऽवशिष्टोऽप्यनुयायिवर्गोऽनुचरवर्गो न्यषेधि निवारितः शेषत्वं सुदक्षिणाऽपेक्षया। कथं तह्र्यात्मरक्षणमत आह—न चेति । तस्य दिलीपस्य शरीरक्षा चान्यतः पुरुषात्तरात्न। कुतः ? हि यस्मात्कारणान्मनीः प्रसूयत इति प्रसूतिः सन्ततिः स्ववीर्यगुप्ता स्ववीर्येणैव रक्षिता । न हि स्वनिर्वाहकस्य परापेक्षेति भावः ।

भाषार्थ—व्रत के लिए नन्दिनी के पीछे चलने वाले राजा दिलीप ने शेष नौकरों को भी लोटा दिया । उनके शरीर की रक्षा के लिए दूसरो की आव- श्यकता न थी, क्योंकि मनु की संतान अपने पराक्रम से रक्षित होती है । ४ ।

आस्वादवद्भिः कवलैस्तृणानां कण्डूयनैर्दशनिवारणैश्च । अव्याहतैः स्वैरगतैः स तस्या सम्राट् समाराधनतत्परोऽभूत् ॥ ५ ॥

अन्वयः—सम्राट् स आस्वादवद्भिः तृणानां कवलैः कण्डूयनैः दंशनिवारणैः अव्याहतैः स्वैरगतैः च तस्याः समाराधनतत्परः अभूत् ।

आस्वादवद्भिरिति । सम्राट् मण्डलेश्वरः 'येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः। शास्ति यश्चाज्ञया राज्ञः स सम्राट्' इत्यमरः । स राजा आस्वादवद्भिः रसवद्भिः स्वादयुक्तैरित्यर्थः। तृणानां कवलैर्ग्रासैः । 'ग्रासस्तु कवलः पुमान्' इत्यमरः । कण्डू

द्वितीयः सर्गः

द्वितीयः सर्गः ४५

यनैः खर्जनैः । दंशानां वनमक्षिकाणां निवारणैः 'दंशस्तु वनमक्षिका' इत्यमरः । अव्याहतैरप्रतिहतैः स्वैरगतैः स्वच्छन्दगमनैश्च । तस्या धेन्वाः समाराधनतत्परः शुश्रूषाऽऽसक्तोऽभूत् । तदेव परं प्रधानं यस्येति तत्परः । 'तत्परे प्रसितासक्तौ' इत्यमरः ।

भाषार्थ—वे चक्रवर्ती राजा दिलीप स्वादिष्ट कोमल घास के कौर से, शरीर खुजलाने से, मक्खी मच्छरों के उड़ाने से और बिना रुकावट स्वच्छन्द चलने वाली उस नन्दिनी की सेवा में संलग्न थे ॥ ५ ॥

स्थितः स्थितामुच्चलितः प्रयातां, निषेदुषीमासनबन्धधीरः ।
जलाभिलाषी जलमाददानां छायेव तां भूपतिरन्वगच्छत् ॥ ६ ॥

अन्वयः—भूपतिः तां स्थितां स्थितः प्रयातां उच्चलितः निषेदुषीं आसनबन्धधीरः जलं आददानां जलाभिलाषी (सन्) छाया इव (तां) अन्वगच्छत् ।

स्थित इति । भूपतिस्तां गां स्थितां सतीं स्थितः सन् स्थितिरूर्ध्वावस्थानम् । प्रयातां प्रस्थितामुच्चलितः प्रस्थितः निषेदुषीं निषण्णाम् उपविष्टामित्यर्थः । 'भाषायां सदवसश्रुवः' इति क्वसुप्रत्ययः 'उगितश्च' इति ङीप् । आसनबन्ध उपवेशने धीरः स्थित उपविष्टः सन्नित्यर्थः । जलमाददानां जलं पिबन्तीं । जलाभिलाषी जलं पिबन्नित्यर्थः । इत्थं छायेवान्वगच्छदनुसृतवान् ।

भाषार्थ—राजा दिलीप उस नन्दिनी के ठहरने पर ठहरते हुए, चलने पर चलते हुए, बैठने पर बैठते हुए, पानी पीने पर पानी पीते हुए, छाया के समान उसके पीछे-पीछे चले ॥ ६ ॥

स न्यस्तचिह्नामपि राजलक्ष्मीं तेजोविशेषानुमितां दधानः ।
आसीदनाविष्कृतदानराजिरन्तर्मदावस्थ इव द्विपेन्द्रः ॥ ७ ॥

अन्वयः—न्यस्तचिह्नाम् अपि तेजोविशेषानुमितां राजलक्ष्मीं दधानः स अनाविष्कृतदानराजीः अन्तर्मदावस्थः द्विपेन्द्र इव आसीत् ।

स इति । न्यस्तानि परिहृतानि चिह्नानि छत्रचामरादीनि यस्यास्तां, तथाभूत,मपि, तेजोविशेषेण प्रभावातिशयेनानुमिताम्, सर्वथा राजैवायं भवेदित्यूहितां राजलक्ष्मीं दधानः स राजा, अनाविष्कृतदानराजिर्बहिरप्रकटितमदरेखः । अन्तर्गतमदावस्था यस्या सोऽन्तर्मदावस्थः, तथाभूतो द्विपेन्द्र इव आसीत् ।

भाषार्थ—छत्र चामरादि-चिन्हों से रहित होते हुए भी विशेष तेज से अनुमान की जानेवाली राजलक्ष्मी को धारण करते हुए वे प्रगट रूप से न दिखाई पड़नेवाली मद रेखा से संयुक्त हाथी के समान मालूम पड़ते थे ॥ ७ ॥