ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
प्रथमः सर्गः । १३ कुलं समुदायः कूपादम्बु जलं प्रोद्धरति गृह्णातीत्यर्थः ॥ विकचनवकुसुम्भस्वच्छसिन्दूरभासा १प्रबलपवनवेगोद्भूत२वेगेन तूर्णम् । तटविटपलताग्रालिङ्गनव्याकुलेन दिशि दिशि परिदग्धा भूमयः पावकेन ॥२४॥ विकचेति ॥ विकचः प्रफुल्लो नवो नूतनः कुसुम्भस्त- द्वत्स्वच्छो निर्मलो यः सिन्दूरस्तस्य भा इव भाः कान्तिर्यस्य तेन तथोक्तेन । प्रबलस्य पवनस्य वेगेनोद्भूतः संभूतो वेगो यस्य तेन तथोक्तेन । तटविटपानां तीरस्थवृक्षशाखानां लताग्राणां चालिङ्गनेन परिरम्भणेन व्याकुल आकुलस्तेन तथोक्तेन पावकेन वह्निना दिशि दिशि प्रतिदिशं तूर्णं सत्वरं भूमयः परिदग्धाः संदग्धा इत्यर्थः ॥ ३ज्वलति पवनवृद्धः४ पर्वतानां५ दरीषु स्फुटति पटुनिनादैः६ शुष्कवंशस्थलीषु । प्रसरति तृणमध्ये७ लब्धवृद्धिः क्षणेन ८ग्लपयति मृगवर्गं९ प्रान्तलग्नो दवाग्निः ॥२५॥ ज्वलतीति ॥ पवनेन वायुना वृद्धो वृद्धिं प्राप्तो दवा- ग्निर्दवानलः । ‘दवदावौ वनानिलौ’ इत्यमरः । पर्वतानां दरीषु कन्दरेषु ज्वलति । तथा शुष्का वंशा वेणवो यासु ताः स्थल्यः अकृत्रिमभूमयस्तासु पटुनिनादैः स्फुटतरध्वनिभिः स्फुटति विकाशभावमाप्नोति । तथा क्षणेन क्षणादेव लब्धा १. ‘परुष.’ २. ‘वेगोद्धत.’ ३. ‘ध्वनति.’ ४. ‘विद्धः.’ ५. ‘पर्व- तान्तर्द्दरीषु.’ ६. ‘पटुनिनादः.’ ७. ‘तृणमध्यम्.’ ८. ‘क्षपयति.’ ९. ‘मृगयूथम्.’
१४ ऋतुसंहारे प्राप्ता वृद्धिर्येन तथोक्तः संस्तृणमध्ये प्रसरति । तथा प्रान्तलग्नः सन्मृगवर्गं हरिणसमूहं ग्लपयति व्याकुलं करोतीत्यर्थः ॥ बहुतर इव जातः शाल्मलीनां वनेषु स्फुरति कनकगौरः कोटरेषु द्रुमाणाम् । १परिणतदलशाखानुत्पतन्प्रांशुवृक्षा- न्भ्रमति पवनधूतः सर्वतोऽग्निर्वनान्ते ॥२६॥ बहुतर इति ॥ अग्निः शाल्मलीनां वनेषु बहुतरः प्रचु- ररूपो जात इव स्फुरति । द्रुमाणां कोटरेषु शाखागह्वरेषु कनकगौरः काञ्चनगौरः स्फुरति । पवनेन वायुना धूतः कम्पितः सन्नत एव परिणताः परिपक्वा दलानि पर्णानि शाखाश्च येषां तांस्तथोक्तान्प्रांशुवृक्षानुन्नतद्रुमानुत्पतन्सन् । सर्वतः समन्ततो वनान्ते भ्रमति भ्रमणं करोतीत्यर्थः ॥ गजगवयमृगेन्द्रा वह्निसंतप्तदेहाः सुहृद इव २समेता द्वन्द्वभावं विहाय । हुतवहपरिखेदादाशु निर्गत्य कक्षा- द्विपुलपुलिनदेशान्निम्नगां ३संविशन्ति ॥२७॥ गजेति ॥ वह्निना दावाग्निना संतप्तो देहः शरीरं येषां ते तथोक्ता अत एव द्वन्द्वभावं वैरभावं विहाय त्यक्त्वा सुहृदो मित्राणीव समेताः संगता गजगवयमृगेन्द्रा गजो हस्ती गवयो गोसदृशो मृगविशेषो मृगेन्द्रः सिंहश्च ते हुतवहस्य वह्नेः परिखेदात्संतापात् । यद्वा हुतवहस्य परिखेदो यत्र तस्मात्तथोक्तात् । कक्षाद्गिरिगह्वरादाशु झटिति निर्गत्य वि- १. ‘परिणवदलशाखादुत्पतत्याशु वृक्षात्.’ २. ‘समन्तात्.’ ३. आ- श्रयन्ते.’
प्रथमः सर्गः । १५ पुलो महान्पुलिनदेशस्तीरप्रान्तो यस्यास्तां तथोक्तां निम्नगां नदीं संविशन्त्याश्रयन्त इत्यर्थः ॥ कमलवनचिताम्बुः पाटलामोदरम्यः सुखसलिलनिषेकः सेव्यचन्द्रांशुहारः१। व्रजतु तव निदाघः कामिनीभिः समेतो निशि सुललितगीते हर्म्यपृष्ठे सुखेन ॥ २८ ॥ कमलेति ॥ सुललितमतिरमणीयं गीतं गानं यस्यास्त- स्याः संबोधन हे सुललितगीते । कमलानां पङ्कजानां वनेन समुदायेन चितं व्याप्तमम्बु जलं यस्मिन्स तथोक्तः । पाट- लानां पाटलकुसुमानामामोदो गन्धो रम्यो रमणीयो यस्मि- न्स तथोक्तः । यद्वा पाटलामोदेन रम्यो रमणीय इति । सुखः सुखकरः सलिलस्य निषेकः स्नानं यस्मिन्स तथोक्तः। सेव्याः सेवितुं योग्याश्चन्द्रस्यांशवः किरणा हाराः कुसुममा- लाश्च यस्मिन्स तथोक्तः कामिनीभिः समेतो युक्तो निदाघो निदाघकालो निशि रात्रौ हर्म्यपृष्ठे प्रासादतले सुखेन तव व्रजतु गच्छत्वित्यर्थः ॥ इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये ग्रीष्मवर्णनं नाम प्रथमः सर्गः । १. 'जालः.' २. 'सुललितगीतैः.'
१६ ऋतुसंहारे द्वितीयः सर्गः। अथ क्रमप्राप्तं वर्षाकालं वर्णयति— ससीकराम्भोधरमत्तकुञ्जर- स्तडित्पताकोऽशनिशब्दमर्दलः। समागतो राजवदुद्धतद्युति- र्धनागमः कामिजनप्रियः प्रिये ॥ १ ॥ ससीकरेति ॥ हे प्रिये, ससीकरः साम्बुकणो योऽम्भो- धरो जलधरः स एव मत्तः प्रमत्तः कुञ्जरो गजो यस्य स तथोक्तः । पक्षे ससीकराम्भोधर इव मत्तः कुञ्जरो यस्येति । 'सीकरोऽम्बुकणाः स्मृताः' इत्यमरः । तडिद्विद्युदेव पताका यस्य स तथोक्तः । पक्षे तडिदिव पताका यस्येति । 'तडि- त्सौदामिनी विद्युत्' इत्यमरः । अशनिशब्द एव मर्दलः । पक्षे अशनिर्वज्र इव यः शब्दो निनादः स एव मर्दलो वाद्यविशेषो यस्य स तथोक्तः । उद्धतद्युतिरुत्कटकान्तिः कामिजनप्रियो घनागमो वर्षाकालो राजवत्समागत आगत इत्यर्थः । वंशस्थं वृत्तम् । लक्षणं तूक्तम् ॥ नितान्तनीलोत्पलपत्रकान्तिभिः । क्वचित्प्रभिन्नाञ्जनराशिसंनिभैः । क्वचित्सगर्भप्रमदास्तनप्रभैः समाचितं व्योम घनैः समन्ततः ॥ २ ॥ नितान्तेति ॥ क्वचिन्नितान्तमत्यन्तं नीलानि कृष्णानि यान्युत्पलानि कुवलयानि तेषां पत्राणां दलानां कान्तिरिव १ 'वारणः' २. 'उन्नतध्वनिः'
द्वितीयः सर्गः । १७ कान्तिर्येषां तैस्तथोक्तैः । क्वचित्कुत्रचिद्भागे प्रभिन्नो योऽञ्ज- नराशिः कज्जलसमूहस्तेन संनिभैः सदृशैः । क्वचित्सगर्भाणां गर्भवतीनां प्रमदानां स्त्रीणां ये स्तनाः कुचास्तेषां प्रभेव प्र- भा कान्तिर्येषां तैस्तथोक्तैर्घनैर्मेघैर्व्योमाकाशं समन्तत इतस्त- तः समाचितं व्याप्तमित्यर्थः ॥ तृषाकुलैश्चातकपक्षिणां कुलैः प्रयाचितास्तोयभरावलम्बिनः । प्रयान्ति मन्दं बहुधोरवर्षिणो बलाहकाः श्रोत्रमनोहरस्वनाः ॥ ३ ॥ तृषेति ॥ तृषा पिपासा तयाकुलैर्व्याकुलैश्चातकपक्षिणां कुलैः समुदायैः प्रयाचिताः प्रार्थितास्तोयभरेण जलभरेणा- वलम्बन्त इति तथोक्ताः । बह्व्यो धारा यस्यां क्रियायां यथा भवति तथा वर्षन्ति ते तथोक्ताः । श्रोत्रस्य श्रवणस्य मनोहर आह्लादकरः स्वनः शब्दो येषां ते तथोक्ता बलाह- का मेघाः । 'अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः' इत्य- मरः । मन्दं प्रयान्ति गगने संचरन्तीत्यर्थः ॥ बलाहकाश्चाशनिशब्दमर्दलैः सुरेन्द्रचापं दधतस्तडिद्गुणम् । सुतीक्ष्णधारापतनोग्रसायकै- स्तुदन्ति चेतः प्रसभं प्रवासिनाम् ॥ ४ ॥ बलाहका इति ॥ अशनिशब्दमर्दला अशनिर्वज्रस्तस्य शब्द एव मर्दलो रणवाद्यविशेषो येषां ते तथोक्ताः । तडिद्विद्युदेव गुणो ज्या यस्य तत्तथोक्तम् । 'मौर्वी ज्या १. 'नव.' २. 'वारि.' ३. 'भीषणाः'; 'भूषणाः.' ४. 'सायकाः.' ५. 'ध्वनिभिः.'
१८ ऋतुसंहारे शिञ्जिनी गुणः' इत्यमरः । सुरेन्द्रचापमिन्द्रधनुः । 'धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्' इत्यमरः । दधतो धारयन्तो बलाहका मेघाश्च सुतीक्ष्णानां धाराणां जलधाराणां पतनान्ये- वोग्रसायकास्तीक्ष्णबाणास्तैः कृत्वा प्रवासिनां प्रोषितानां चेतोऽन्तःकरणं प्रसभमत्यन्तं तुदन्ति व्यथयन्तीत्यर्थः ॥ प्रभिन्नवैदूर्यनिभैस्तृणाङ्कुरैः समाचिता प्रोत्थितकन्दलीदलैः । विभाति शुक्लेतररत्नभूषिता वराङ्गनेव क्षितिरिन्द्रगोपकैः ॥ ५ ॥ प्रभिन्नेति ॥ प्रभिन्नेन वैदूर्येण नीलमणिना निभाः सदृ- शास्तैस्तथोक्तैस्तृणाङ्कुरैः प्रोत्थितकन्दलीदलैः प्रोत्थितानि निर्गतानि यानि कन्दलीनां दलानि पत्राणि तैः । 'द्रोणपर्णी स्निग्धकन्दा कन्दली' इति शब्दार्णवः । इन्द्रगोपकैः कृमि- विशेषैश्च समाचिता व्याप्ता क्षितिर्धरित्री । 'धरा धरित्री धरणिः क्षोणी ज्या काश्यपी क्षितिः' इत्यमरः । शुक्लेतरैः कृष्णादिवर्णै रत्नैर्मणिभिर्भूषिता शोभिता वराङ्गनेवोत्तम- नायिकेव विभाति शोभत इत्यर्थः ॥ सदा मनोज्ञं स्वनदुत्सवोत्सुकं विकीर्णविस्तीर्णकलापशोभितम् । ससंभ्रमालिङ्गनचुम्बनाकुलं प्रवृत्तनृत्यं कुलमद्य बर्हिणाम् ॥ ६ ॥ १. 'मनोज्ञस्तनितोत्सुखोन्मुखम्'; 'मनोज्ञाम्बुदनादसोत्सुकम्.' २. 'विभाति.' ३. 'सविभ्रमा.'
द्वितीयः सर्गः । १९ सदेति ॥ सदा सर्वदा मनोज्ञं सुन्दरं स्वनच्छब्दायमा- नमुत्सवोत्सुकं हर्षेणोत्कण्ठितम् । यद्गोत्सवे हर्ष उत्सुकमु- त्कण्ठितम् । विकीर्णः प्रसारितो विस्तीर्णो लम्बमानो यः कलापो बर्हस्तेन शोभितम् । ससंभ्रमं ससंवेगं यदालिङ्गनं परिरम्भणं चुम्बनं च तत्राकुलं व्याकुलं बर्हिणां कलापिनां कुलं प्रवृत्तमारब्धं नृत्यं नर्तनं येन तत्तादृशमद्यास्तीत्यर्थः ॥ निपातयन्त्यः १ परितस्तटद्रुमा- न्प्रवृद्धवेगैः २ सलिलैरनिर्मलैः । स्त्रियः ३ सुदुष्टा इव ४ जातिविभ्रमाः प्रयान्ति नद्यस्त्वरितं पयोनिधिम् ॥ ७ ॥ निपातयन्त्य इति ॥ प्रवृद्धो वेगः प्रवाह उत्साहो वा येषां तैस्तथोक्तैः । अनिर्मलैः कलुषैर्मलिनैर्वा सलिलैर्जलैर्ला- वण्यजलैर्वा । 'सलिलं कमलं जलम्' इत्यमरः । परितः स- मन्ततस्तटद्रुमांस्तटप्ररूढवृक्षान्पितृमातृकुलजनाभिभावकान्वा निपातयन्त्यः समूलमुन्मूलयन्त्यो नाशयन्त्यो वा सुदुष्टाः स्त्रिय इव जात उत्पन्नो विभ्रमः शृङ्गारादिचेष्टाभेदो यासां तास्त- थोक्ताः । जातविभ्रमाः समुत्पन्नभ्रमविशिष्टाः नद्यस्त्वरितं शीघ्रं पयोनिधिं समुद्रं प्रयान्ति गच्छन्तीत्यर्थः ॥ तृणोत्करैरुद्गतकोमलाङ्कुरै- ३ र्विचित्रैनीलैर्हरिणीमुखक्षतैः । १. 'विपाटयन्त्यः' २. 'प्रहृष्टाः'; 'प्रकामाः'. ३. 'तृणोद्गमैः' ४. 'चितानि.' ५. 'लेखैः'.
२० ऋतुसंहारे वनानि वैन्ध्यानि हरन्ति मानसं विभूषितान्युद्गतपल्लवैर्द्रुमैः ॥ ८ ॥ तृणोत्करैरिति ॥ उद्गता निर्गताः कोमला अङ्कुरा येषां तैस्तथोक्तैः । विचित्रनीलैर्हरिणीमुखैः क्षता खण्डितास्तैस्त- थोक्तैस्तृणोत्करैरुद्गता निर्गताः पल्लवाः किसलयानि येषां तैस्तथोक्तैः । ‘पल्लवोऽस्त्री किसलयम्’ इत्यमरः । द्रुमैर्वृक्षैः कृत्वा विभूषितानि शोभितानि वैन्ध्यानि विन्ध्यसंबंधीनि वनानि काननानि । ‘गहनं काननं वनम्’ इत्यमरः । मान- समन्तःकरणं हरन्तीत्यर्थः ॥ विलोलनेत्रोत्पलशोभिताननै- र्मृगैः समन्तादुपजातसाध्वसैः । समाचिता सैकतिनी वनस्थली समुत्सुकत्वं प्रकरोति चेतसः ॥ ९ ॥ विलोलेति ॥ विलोलानि चञ्चलानि यानि नेत्रोत्पला- न्युत्पलसदृशानि नेत्राणि तैः शोभितानि भूषितान्याननानि वदनानि येषां तैस्तथोक्तैः । ‘वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्’ इत्यमरः । उपजातसाध्वसैः संजातभयैर्मृगैर्ह- रिणैः । ‘मृगे कुरङ्गवातायुहरिणाजिनयोनयः’ इत्यमरः । समन्तादितस्ततः समाचिता व्याप्ता सैकतिनी सिकतासंब- न्धिनी वनस्थल्यकृत्रिमारण्यभूमिश्चेतसोऽन्तःकरणस्य समुत्सु- कत्वमौत्सुक्यं प्रकरोति प्रकर्षेण जनयतीत्यर्थः ॥ १. ‘रम्याणि’. २. ‘पल्लवद्रुमैः’. ३. ‘शैवलिनी’.
द्वितीयः सर्गः । २१ ^१अभीक्ष्णमुच्चैर्ध्व^२नता प^३योमुचा घ^४नान्धकारीकृतशर्वरीष्वपि । तडित्प्रभादर्शितमार्गभूमयः प्रयान्ति रागादभिसारिकाः स्त्रियः ॥ १० ॥ अभीक्ष्णमिति ॥ अभीक्ष्णं मुहुर्मुहुः । 'मुहुर्मुहुः पुनः शश्वदभीक्ष्णमसकृत्समाः' इत्यमरः । उच्चैरुच्चस्वरेण ध्वनता शब्दं कुर्वता पयोमुचा मेघेन घनान्धकारीकृतशर्वरीष्वप्यघना- न्धकारा घनान्धकारा यथा संपद्यन्ते तथा कृताश्च ताः शर्वर्यो रात्रयो यथा तथाभूतासु तडित्प्रभया विद्युत्कान्त्या दर्शिता मार्गभूमयो यासां तास्तथोक्ता अभिसारिकाः स्त्रियो रागा- त्कान्तानुरागेण । संकेतमिति शेषः । प्रयान्ति गच्छन्ती- त्यर्थः । अभिसारिकालक्षणमुक्तममरसिंहेन—'कान्तार्थिनी तु या याति संकेतं साभिसारिका' इति ॥ पयोधरैर्भीमगभीरनिस्वनै- स्त^५डिद्भिरुद्वेजितचेतसो भृशम् । कृतापराधानपि योषितः प्रिया- न्परिष्वजन्ते शयने निरन्तरम् ॥ ११ ॥ पयोधरैरिति ॥ भीमो भयानकोगभीरो गम्भीरो निस्वनो निर्घोषो येषां तैस्तथोक्तैः । 'स्वाननिर्घोषनिर्ह्रादनादनिस्वान- निस्वनाः' इत्यमरः । पयोधरैर्मेघैस्तडिद्भिर्विद्युद्भिश्च भृशम- त्यन्तमुद्वेजितमुद्विग्नं चेतोऽन्तःकरणं यासां तास्तथोक्ता यो- षितो नार्यः । 'स्त्री योषिदबला योषा नारी सीमन्तिनी १ 'सुतीक्ष्णम्'. २ 'ध्वनताम्'. ३ 'पयोमुचाम्'. ४ 'घनान्ध- कारावृत'. ५ 'ध्वनद्भिः'. ३
२२ ऋतुसंहारे वधूः' इत्यमरः । कृतोऽपराधोऽन्यायः परवनितानिरीक्षणा- दियैस्तांस्तथोक्तानपि प्रियाञ्शयने निरन्तरं निरवकाशं यथा भवति तथा परिष्वजन्त आलिङ्गन्त इत्यर्थः ॥ विलोचनेन्दीवरवारिविन्दुभि- र्निषिक्तबिम्बाधरचारुपल्लवाः । निरस्तमाल्याभरणानुलेपनाः स्थि¹ता निराशाः प्रमदाः प्रवासिनाम् ॥१२॥ विलोचनेति ॥ विलोचनानि नेत्राणीन्दीवराणीव नीलो- त्पलानीवेति विलोचनेन्दीवराणि तेषां ये वारिविन्दवो जल- बिन्दवस्तैः कृत्वा निषिक्ताः संसिक्ताः बिम्बाधरा बिम्बसदृ- शाधराश्चारुपल्लवा इवेति ते यासां तास्तथोक्ताः । बिम्बप- देनारक्तत्वं पल्लवपदेन च कोमलत्वं व्यज्यते । निरस्तानि त्यक्तानि माल्यान्याभरणानि भूषणान्यनुलेपनानि चन्दना- दीनि याभिस्तास्तथोक्ताः प्रवासिनां प्रोषितानां प्रमदाः स्त्रियो निजरमणसमागमसङ्गजनितसुखे निराशा आशारहिताः स्थि- ता आसन्नित्यर्थः ॥ विपा²ण्डुरं कीटरजस्तृणान्वितं भुजंगवद्वक्रगतिप्रसर्पितम् । ससाध्वसैर्भेककुलैर्निरीक्षि³तं प्रयाति निम्नाभिमुखं नवोदकम् ॥ १३ ॥ विपाण्डुरमिति ॥ विपाण्डुरं पाण्डुरवर्णं कीटांश्च रजांसि च तृणानि च तैरन्वितं युक्तं भुजंगवत्सर्पवद्वक्रगतिस्तिर्यग्ग- १ 'कृताः'. २ 'विपाण्डवम्'. ३ 'विलोकितम्'.
२. द्वितीय सर्ग: वर्षा वर्णन (मेघ, मयूर व जल-विहार)
द्वितीयः सर्गः । २३ मनं प्रसर्पितमितस्ततः संचरणशीलं ससाध्वसैः सभयैर्भे क- कुलैर्मण्डूकसमुदायैः । 'भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः' इत्यमरः । निरीक्षितं विलोकितं नवोदकं नूतनजलं निम्नस्य गम्भीरस्य देशस्याभिमुखम् । 'निम्नं गभीरं गम्भीरम्' इत्य- मरः । प्रयाति गच्छतीत्यर्थः ॥ वि॑पन्नपुष्पां नलिनीं समुत्सुका विहाय भृङ्गाः श्रुतिहारिनिस्वनाः । पतन्ति मूढाः शिखिनां प्रनृत्य॒तां कलापचक्रेषु नवोत्पलाशया ॥ १४ ॥ विपत्रेति ॥ समुत्सुका उत्कण्ठिताः श्रुतेः श्रवणस्य हारी । मनआह्लादकर इति यावत् । निस्वनः शब्दो येषां ते तथो- क्ता मूढा इदं न त्विदं तन्नलिनमिति विचाररहिता भृङ्गा भ्रमराः । 'द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः' इत्यमरः । विगतानि पत्राणि दलानि यस्य तादृशं पुष्पं यस्याः सा तां तथोक्तां नलिनीं विहाय त्यक्त्वा प्रनृत्यतां नृत्यं कुर्वतां शिखि- नां मयूराणां कलापचक्रेषु बर्हमण्डलेषु नवोत्पलस्य नूतनकु- वलयस्याशया । भ्रमेणेति भावः । पतन्ति निपतन्तीत्यर्थः ॥ वनद्विपानां नवैवारिदस्वनै- र्मदान्वितानां ध्वन॒तां मुहुर्मुहुः । कपोलदेशा विमलोत्पलप्रभाः सभृङ्गयूथैर्मदवारिभिः श्रिताः ॥ १५ ॥ १ 'प्रफुल्लपत्रां'; 'विपन्नपुष्पाम्'. २ 'समुत्सुकाम्'. ३ 'निवृत्तः' ४ 'तोयद'. ५. 'खनताम्'. ६. 'श्रिताः'.
२४ ऋतुसंहारे वनद्विपानामिति ॥ नवाः सद्यःसंभृतसलिला ये वारिदा जलदास्तेषां स्वनैर्निनादैः । 'शब्दे निनादनिन्दध्वनिध्वान- रवस्वनाः' इत्यमरः । कृत्वा । मदान्वितानाम् । अपवारण- गर्जनशङ्कयेति भावः । अतएव मुहुर्मुहुर्वारंवारं ध्वनतां ग- र्जतां वनद्विपानामारण्यगजानाम् । 'द्विपः । मतंगजो गजो नागः' इत्यमरः । विमलानि निर्मलानि यान्युत्पलानि कुव- लयानि तेषां प्रभेव प्रभा येषां ते तथोक्ताः । 'स्यादुत्पलं कुवलयम्' इत्यमरः । कपोलदेशा गण्डप्रदेशाः सभृङ्गयूथै- र्भ्रमरसमुदायसहितैर्मदवारिभिर्दानोद्रेकैश्चिताः । व्याप्ता इत्य- र्थः । सौगन्ध्यातिशयाद्भ्रमरैरप्यागत्य तत्र स्थितमिति भावः ॥ सितो¹त्पलाभाम्बुदचुम्बितोपलाः ²समाचिताः प्रस्रवणैः समन्त³तः । प्रवृत्तनृत्यैः शिखिभिः समाकुलाः समुत्सुकत्वं जनयन्ति भूधराः ॥ १६ ॥ सितेति ॥ सितानि शुभ्राणि यान्युत्पलानि कुवलयानि तेषामाभेवाभा कान्तिः सलिलवर्षणे येषां तादृशा येऽम्बुदा जलदास्तैश्चुम्बिता उपलाः पाषाणा येषां ते तथोक्ताः । 'पाषाणप्रस्तरग्रावोपलाश्मानः' इत्यमरः । समन्तत इतस्ततः प्रस्रवणैर्निर्झरैः । 'उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः' इत्यमरः । समाचिता व्याप्ताः । प्रवृत्तमारब्धं नृत्यं नर्तनं यैस्तथोक्तैः । 'लास्यं नृत्यं च नर्तने' इत्यमरः । शिखिभि- १ 'सतोयनम्राम्बुद'; 'नीलोत्पलाभाम्बुद'. २ 'सुभूषिताः'. ३ 'अपङ्किलैः'.
द्वितीयः सर्गः । २५ र्मयूरैः समाकुला व्याकुला भूधराः समुत्सुकत्वम् । चित्तस्ये- ति शेषः । जनयन्त्युत्पादयन्तीत्यर्थः ॥ कदम्बसर्जार्जुनकेतकीवनं¹ विकम्पयंस्तत्कुसुमाधिवासितः² ³ । ससीकराम्भोधरसङ्गशीतलः समीरणः कं न करोति सोत्सुकम् ॥ १७ ॥ कदम्बेति ॥ कदम्बो नीपः, सर्जोऽश्वकर्णः, अर्जुनः ककु- भः, केतक्यश्च तासां वनं समुदायम् । ‘नीपप्रियककदम्बा- स्तु हरिप्रियः’ इत्यमरः । ‘साले तु सर्जकार्याश्वकर्णकाः सस्यसम्बरः’ इत्यमरः । ‘इन्द्रद्रुः ककुभोऽर्जुनः’ इत्यमरः । विकम्पयंस्तेषां पूर्वोक्तद्रुमाणां कुसुमैः पुष्पैर्धिवासितः सं- जाताधिवासः ससीकरो जलकणसहितो योऽम्भोधरो मेघस्त- स्य सङ्गेन संसर्गेण शीतलः शीतः समीरणो मारुतः । ‘स- मीरमारुतमरुज्जगत्प्राणसमीरणाः’ इत्यमरः । कं पुरुषं सो- त्सुकं सोत्कण्ठं न करोति । अपि तु सर्वमेवेत्यर्थः ॥ शिरोरुहैः श्रोणितटावलम्बिभिः कृतावतंसैः कुसुमैः सुगन्धिभिः । स्तनैः सँहारैर्वदनैः ससीधुभिः⁴ स्त्रियो रतिं संजनयन्ति कामिनाम् ॥ १८ ॥ शिरोरुहैरिति ॥ स्त्रियस्तरुण्यः श्रोणितटे कटिपश्चाद्भा- गेऽवलम्बन्ते तैस्तथोक्तैः शिरोरुहैश्चिकुरैः । ‘चिकुरः कुन्तलो बालः कचः केशः शिरोरुहः’ इत्यमरः । कृतावतंसैः सुग- १ ‘नीपकेतकीः’. २ ‘प्रकम्पयन्’. ३ ‘अधिवासनः’. ४ ‘सुपीनैः’.
२६ ऋतुसंहारे न्धिभिः कुसुमैः पुष्पैः । 'पुष्पं प्रसूनं कुसुमम्' इत्यमरः । सदारैः कुसुममालासहितैः स्तनैः कुचैः । ससीधुभिर्मधुस- हितैर्वदनैराननैः कामिनां विलासिनां रतिं प्रीतिं संजनयन्ति सम्यक्प्रकारेणोत्पादयन्तीत्यर्थः ॥ १तडिल्लताशक्रधनुर्विभूषिताः पयोधरास्तोयभरावलम्बिनः । स्त्रियश्च काञ्चीमणिकुण्डलो२ज्ज्वला हरन्ति चेतो युगपत्प्रवासिनाम् ॥ १९ ॥ तडिल्लतेति ॥ तडिल्लता लताकारा तडिच्छक्रधनु्रिन्द्रा- युधं च ताभ्यां विभूषिताः शोभिताः । 'इन्द्रायुधं शक्रधनुः' इत्यमरः । तोयभरेण जलभारेणावलम्बिनो नम्राः पयोधरा मेघाः । काञ्ची मेखला च मणिकुण्डलानि नानाविधरत्नख- चितताटङ्कानि च तैरज्ज्वलाः सुन्दराः स्त्रियश्च प्रवासिनां प्रोषितानां चेतोऽन्तःकरणं युगपत्सममेव हरन्त्यपहरन्तीत्यर्थः । स्त्रियश्चात्र परकीयाः । प्रवासिनां स्वकीयासंनिध्याभावात् ॥ मालाः कदम्बनवकेसरकेतकीभि- रायोजिताः शिरसि बिभ्रति योषितोऽद्य । कर्णान्तरेषु ककुभद्रुमम३ञ्जरीभि- रि४च्छानुकूलरचितानवतंसकांश्च ॥ २० ॥ माला इति ॥ योषितः स्त्रियोऽद्य कदम्बानि कदम्ब- कुसुमानि, नवकेसराणि नूतनबकुलकुसुमानि, केतक्यश्च ताभिरायोजिता ग्रथिताः । 'अथ केसरे । बकुलम्' १ 'तडिल्हताः'. २ 'मेखलोज्ज्वलाः'. ३ 'मञ्जरीणाम्'. ४ 'श्रोत्रानुकूल'.
द्वितीयः सर्गः । २७
इत्यमरः । मालाः स्रजः शिरसि मूर्धनि ककुभद्रुमोऽर्जुनवृ- क्षस्तस्य मञ्जरीभिः कलिकाभिरिच्छयानुकूलं यथा भवति तथा रचितान्कृतानवतंसा एवावतंसकास्तान्कर्णान्तरेषु कर्णो- परिभागेषु बिभ्रति दधतीत्यर्थः । वसन्ततिलका वृत्तमेतत् । तदुक्तम्—'उक्ता वसन्ततिलका तभजा जगौ गः' इति ॥ कालागुरुप्रचुरचन्दनचर्चिताङ्ग्यः¹ पुष्पावतंससुरभीकृतकेशपाशाः । श्रुत्वा ध्वनिं जलमुचां त्वरितं प्रदोषे शय्यागृहं गुरुगृहात्प्रविशन्ति नार्यः ॥२१॥ कालागुर्विति ॥ कालागुरुः कृष्णागुरुः स प्रचुरो बहुलो यस्मिंस्तादृशं यच्चन्दनं तेन चर्चितं लिप्तमङ्गं शरीरं यासां तास्तथोक्ताः । पुष्पावतंसेन कुसुमकर्णपूरेण सुरभीकृतः सु- गन्धीकृतः केशपाशः कुन्तलसमूहो यासां तास्तथोक्ता नार्यः स्त्रियो जलमुचां घनानां ध्वनिं गर्जनं श्रुत्वाकर्ण्य त्वरितं शीघ्रं प्रदोषे रजनीमुखे गुरुगृहाच्छ्वशुरगृहं परित्यज्य शय्या- गृहं प्रविशन्तीत्यर्थः ॥ कुवलयदलनीलैरुन्नतैस्तोय³नम्रै- र्मृदुपवनविधूतैर्मन्दमन्दं चलद्भिः । अपहृतमिव चेतस्तोयदैः सेन्द्रचापैः पथिकजनवधूनां त⁴द्वियोगाकुलानाम् ॥२२॥ कुवलयेति ॥ कुवलयस्य नीलोत्पलस्य दलं पत्रमिव
१ 'चर्चिताङ्गाः'. २ 'स्तोकनम्रैः'. ३ 'तोयनम्रैः'. ४ 'तद्वियो- गक्षतानाम्'.
२८ ऋतुसंहारे नीलैः श्यामवर्णैरुन्नतैरुच्चैस्तोयनम्रैर्जलनम्रैर्मृदुना लघुना पवनेन वातेन विधूताः कम्पितास्तैस्त एव मन्दमन्दमति- न्थरं चलद्भिर्गच्छद्भिः सेन्द्रचापैरिन्द्रधनुषा सहितैस्तोयदैर्मे- घैस्तेषां पान्थजनानां वियोगेन विरहेणाकुला व्याकुलास्तासां पथिकजनवधूनां विरहिणीनां चेतोऽन्तःकरणमपहृतमिव हृ- त्वानीतमिवेत्युत्प्रेक्षा । मालिनी वृत्तमेतत् । लक्षणं तूक्तम् ॥ मुदित इव कदम्बैर्जातपुष्पैः समन्ता- त्पवनचलितशाखैः शाखिभिर्नृत्यतीव । हसितमिव विधत्ते सूचिभिः केतकीनां नवसलिलनिषेकैच्छिन्नतापो वनान्तः ॥२३॥ मुदित इति ॥ नवस्य नूतनस्य सलिलस्य निषेकेण सेव- नेन छिन्न उच्छिन्नस्तापो यस्य स तथोक्तः वनान्तोऽरण्य- प्रान्तो जातपुष्पैः प्रादुर्भूतकुसुमैः कदम्बैर्नीपवृक्षैर्मुदित इव समन्तादितस्ततः पवनेन वायुना चलिताः कम्पिताः शाखा यैस्तथोक्तैः शाखिभिर्वृक्षैः । 'वृक्षो महीरुहः शाखी विटपी पादपस्तरुः' इत्यमरः । नृत्यतीव नृत्यं करोतीवेत्युत्प्रेक्षा । एवमन्यत्रापि । केतकीनां सूचिभिः कण्टकैर्हसितमिव हास्य- मिव विधत्ते दधतीत्यर्थः ॥ शिरसि वकुलमालां मालतीभिः समेतां विकसितनवपुष्पैर्यूथिकाकुङ्मलैश्च । विकचनवकदम्बैः कर्णपूरं वधूनां रचयति जलदौघः कान्तवत्काल एषः ॥२४॥ शिरसीति ॥ जलदानां मेघानामोघः संघातो यस्मिन्स १ 'निषेकात्'. २ 'शान्ततापः'. ३ 'कुसुमितवनपुष्पैः'.
द्वितीयः सर्गः । २९ तथोक्तः । 'स्तोमौघनिकरव्रातवारसंघातसंचयाः' इत्यमरः । एष कालो वर्षाकालः कान्तवत्प्रियवद्वधूनां स्त्रीणां शिरसि मूर्धनि मालतीभिर्मालतीकुसुमैः समेतां युक्तां वकुलमालां केसरस्रजं रचयति करोति । तथा विकसितनवपुष्पैः संफु- ल्लनूतनकुसुमैर्यूथिकाया मागधीलतायाः कुड्मलानि मुकुला- नि तैः । 'अथ मागधी । गणिका यूथिकाऽम्बष्ठा' इत्यमरः । 'कुड्मलो मुकुलोऽस्त्रियाम्' इत्यमरः । विकचानि विकसि- तानि नवानि नूतनानि यानि कदम्बानि कदम्बकुसुमानि तैश्च कर्णपूरं कर्णोत्तंसं रचयति करोतीत्यर्थः ॥ दधति वरकुचाग्रैरुन्नतैर्हारयष्टिं प्रतनुकसितदुकूलान्यायतः श्रोणिबिम्बैः । नवजलकणसेकादुद्गतां रोमराजीं ललितवलिविभङ्गेर्मध्यदेशैश्च नार्यः ॥ २५ ॥ दधतीति ॥ नार्यः स्त्रिय उन्नतैरूर्ध्वमुखैर्बरा उत्तमाः । पीना वर्तुलाश्चेति यावत् । ये कुचाः स्तनास्तेषामग्रैरग्रभागै- र्हारयष्टिं मुक्ताहारमायतैर्दीर्घैः श्रोणिबिम्बैः कटिपश्चाद्भागैः प्रतनूनि सूक्ष्माणि सितानि श्वेतवर्णानि यानि दुकूलानि वस्त्राणि तानि ललितानां सुन्दराणां वलीनां त्रिवलीनां वि- भङ्गा येषु तैस्तथोक्तैर्मध्यदेशैर्नवानां जलकणानां सेकादुद्ग- तामुत्पन्नां रोमराजीं रोमाञ्चपङ्क्तिं दधतीत्यर्थः ॥ नवजलकणसङ्गाच्छीततामादधानः कुसुमभरनतानां लासकः पादपानाम् । १ 'कुचयुगाग्रैः,' 'पृथुकुचाग्रैः'. २ 'राजिम्'. ३ 'त्रिवलिवलि- विभङ्गैः,' 'ललितवलिविभागैः'. ४ 'मध्यदेशे'. ५ 'तु'. ६ 'सेकात्'. ७ 'लालसः,' 'नाशकः'.
३० ऋतुसंहारे जनित¹रुचिरगन्धः केतकीनां रजोभिः परिहरति² नभस्वान्प्रोषितानां³ मनांसि ॥२६॥ नवेति ॥ नवानां नूतनानां जलकणानां सङ्गात्संबन्धा- च्छीततां शैत्यमादधानो गृहन्कुसुमानां पुष्पाणां भरेण नता नम्रास्तेषां तथोक्तानां पादपानां वृक्षाणां लासकः संसर्गवान् । एतेन मान्द्यमुक्तम् । केतकीनां रजोभिः परागैः । 'परागः सुमनोरजः' इत्यमरः । जनित उत्पादितो रुचिरः सुन्दरो गन्धो यस्मिंस्तथोक्तो नभस्वान्वायुः प्रोषितानां पान्थजनानां मनांस्यन्तःकरणानि परिहरतीत्यर्थः ॥ ⁴जलधरविनतानामाश्रयोऽस्माकमुच्चै- रयमिति जलसेकैस्तोयदास्तोयनम्राः । अतिशयपरुषाभिर्ग्रीष्मवह्नेः शिखाभिः समुपजनिततापं ह्लादयन्तीव विन्ध्यम् ॥२७॥ जलधरेति ॥ तोयनम्रा जलभारनतास्तोयदा मेघा जल- धरेण विनतानां नम्राणामस्माकमुच्चैरून्नतोऽयं विन्ध्याचल आश्रय आधारः । भवतीति शेषः । इतीति हेतोरतिशय- मत्यन्तं परुषाः कठिनास्ताभिस्तथोक्ताभिर्ग्रीष्मवह्नेः शिखाभिः सम्यगुपजनित उत्पादितस्तापः संतापो यस्य तं तथोक्तं वि- न्ध्यं विन्ध्याद्रिं जलसेकैर्जलवर्षणैर्ह्लादयन्ति हर्षं प्रापयन्ती- वेत्युत्प्रेक्षा । उपकृतो हि विपन्नं परमुपकरोतीति भावः ॥ १. 'सुरभि'. २ 'व्यवहरति'; 'अपहरति'. ३ 'योषितानाम्'. ४ 'जलभरनमितानाम्'.
तृतीयः सर्गः । ३१ बहुगुणरमणीयः कामिनीचित्तहारी तरुविटपलतानां बान्धवो निर्विकारः । जलदसमय एष प्राणिनां प्राणभूतो दिशतु तव हितानि प्रायशो वाञ्छितानि ॥२८ बहुगुणेति ॥ बहुगुणै रमणीयः सुन्दरः कामिनीनाम- ङ्गनानां चित्तहारी । मनोऽनुरञ्जक इति यावत् । तरुविटपा वृक्षशाखा लता बह्व्यश्च तासाम् । क्वचित्पुस्तके 'नतविट- पिलतानाम्' इति पाठः । तदर्थस्तु—नता नम्रा ये विटपिनः शाखिनो लताश्च तासामिति । 'वल्ली तु व्रततिर्लता' इत्य- मरः । बान्धवो बन्धुः । निर्विकारो विकारशून्यः प्राणिनां जन्तूनाम् । 'प्राणी तु चेतनो जन्मी जन्तुजन्यशरीरिणः' इत्यमरः । प्राणभूतो जीवभूत एष जलदसमयो वर्षाकाल- स्तव प्रायशो बहुशो वाञ्छितान्यभिलषितानि हितानीष्टानि दिशतु ददात्वित्यर्थः ॥ इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये प्रावृड्वर्णनं नाम द्वितीयः सर्गः । तृतीयः सर्गः । अथ क्रमप्राप्तं शरत्कालं वर्णयति— काशांशुका विकचपद्ममनोज्ञवक्त्रा सोन्मादहंसरवनूपुरनादरम्या । १ 'योषिताम्'. २ 'एषाम्'. ३ 'प्राणिनः'. ४ 'प्राणहेतुः'. ५. 'रुत'.
३२ ऋतुसंहारे आपक्वशालिरुचिरा$^१$ तनु$^२$गात्रयष्टिः प्राप्ता शरन्नववधूरिव रूप$^३$रम्या ॥ १ ॥ काशांशुकेति ॥ काशमेव काशकुसुममेवांशुकं वस्त्रं यस्याः सा तथोक्ता । पक्षे काशमिवांशुकं वस्त्रं यस्याः सेति । वि- कचं विकसितं यत्पद्मं तदेव मनोज्ञं सुन्दरं वक्त्रं मुखं यस्याः सा तथोक्ता । पक्षे विकचं विकसितं यत्पद्मं तदिव मनोज्ञं सुन्दरं वक्त्रं मुखं यस्याः सेति । 'प्रफुल्लोत्फुल्लसंफुल्लव्याको- शविकचस्फुटाः । फुल्लश्चैते विकसिते' इत्यमरः । 'वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्' इत्यमरः । सोन्मादानामुन्माद- सहितानां हंसानां रवः शब्द एव नूपुरनादो मञ्जीरध्वनिस्तेन रम्या रमणीया । पक्षे सोन्मादहंसरव इव नूपुरनादस्तैन रम्या । 'शब्दे निनादनिनदध्वनिध्वानरवस्वनाः' इत्यमरः । 'मञ्जीरो नूपुरोऽस्त्रियाम्' इत्यमरः । आ समन्तात्पक्वा परिणता शालिरेव रुचिरा सुन्दरा तन्वी गात्रयष्टिः शरीरलता यस्याः । पक्ष आपक्वशालिरिव रुचिरा तनुर्गात्रयष्टिर्वपुः संहननं यस्याः । 'शरीरं वर्ष्म विग्रहः' इत्यमरः रूपरम्या शरन्नववधूरिव प्राप्तागतेत्यर्थः । वसन्ततिलका वृत्तम् ॥ काशैर्मही शिशिरदीधितिना रजन्यो हंसैर्जलानि सरितां कुमुदैः सरांसि । सप्तच्छदैः कुसुमभारनतैर्वनान्ताः शुक्लीकृतान्युपवनानि च मालतीभिः ॥ २ ॥ काशैरिति ॥ काशैः काशपुष्पैर्मही पृथ्वी । शिशिर- १ 'ललिता'. २. 'नत'. ३. 'हरिरूपा;' 'रम्यरूपा'.