साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
The provided image is completely blank and contains no text.
भूमिका । ७ पुरुषस्त्वमेव किल पञ्चविंशकः स्फुटचूलिकार्थवचनैर्निगद्यसे ॥ ( हरविजये ६।१८ ) 'मैत्र्यादिचित्तपरिकर्मविदो विधाय क्लेशप्रहाणमिह लब्धसबीजयोगाः । ख्यातिं च सत्त्वपुरुषान्यताऽधिगम्य वाञ्छन्ति तामपि समाधिभृतो निरोद्धम् ॥' ( शिशु. ४।५५ ) पूज्यगङ्गाधरयोगा— 'क्रतौ शुभे जाग्रत्वमपि फलयोशे प्रनुमनां न कर्म प्रध्वस्तं फलति पुरुषाराधनमृते । अनन्त्यां संप्रेक्ष्य क्रतुषु फलदानप्रतिभुवं श्रुतौ श्रद्धां बद्धा कृतपरिकरः कर्मसु जनः ॥' चिदर्भा । 'निःश्वसितमस्य वेदा वीक्षितमेतस्य पञ्च भूतानि । स्मितमेतस्य चराचरमस्य च रूपं महाप्रलयः ॥'
'कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्या । संयोग एषां न त्वात्मभावा- दात्माप्यनीशः सुखदुःखहेतोः ॥ (१।२)' इति कालस्वभावाद्यवादिन्या श्वेताश्वतराणां मन्त्रोपनिषदा व्यक्ततरमव- सीयते । एवं वाजसनेयिनां ब्राह्मणोपनिषदा—'इतिहासः पुराणं विद्या उप- निषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानि' इति । एवमेव छान्दो- ग्योपनिषदापि— 'इतिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिदैवं निधिर्वा- कोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदे- वजनविद्यां' इति । साहित्यप्रतिपाद्यं दृश्यकाव्यमधिकृत्य भगवता भरतेन तु स्पष्टमाम्नातम्— 'जग्राह पाठ्यमृग्वेदात्सामभ्यो गीतमेव च । यजुर्वेदादभिनयान्त्रसानाथर्वणादपि ॥' (नाट्यशा० १।१७) आग्नेये तु श्रव्यदृश्ये उभे अपि काव्ये सम्यग् व्युत्पादिते इत्युपरिष्टान्निवेदि- ष्यते । एतेनान्यशास्त्रवत् साहित्यस्यापि वेदोपजीवकत्वम्, तत एव साहित्यमूलस्य वेदाङ्गोपाङ्गसमानकालिकत्वं च प्रतिपत्तव्यम् ॥ तत्रभवतो राजशेखरस्य काव्यमीमांसायां कविरहस्ये तु निरूपितार्थो महतार्थवादेन प्रस्तूयते—“ययोपदिदेश श्रीकण्ठः परमेष्ठिवैकुण्ठादिभ्यश्चतुःषष्टये शिष्येभ्यः । सोऽपि भगवान् स्वयम्भूरिच्छाजन्मभ्यः स्वान्तेवासिभ्यः । तेषु सारस्वतेयश्छन्द्रीसामपि वन्द्यः काव्यपुरुष आसीत् । तं च सर्वसमयविदं दिव्येन चक्षुषा भविष्यदर्थदर्शिनं भूर्भुवःस्वस्त्रितयवर्तिनीषु प्रजासु हितकाम्यया- प्रजापतिः काव्यविद्याप्रवर्तनायै प्रायुङ्क्त । सोऽष्टादशाधिकरणीं दिव्येभ्यः काव्यविद्या- मन्तरेभ्यः सप्रपञ्चं प्रोवाच । तत्र कविरहस्यं सहस्राक्षः समाम्नासीत्, औक्ति- कमुक्तिगर्भः, रीतिनिर्णयं सुवर्णनाभः, आनुप्रासिकं प्रचेतायनः, यमकानि-चित्रं चित्राङ्गदः, शब्दश्लेषं शेषः, वास्तवं पुलस्त्यः, औपम्यमौपकायनः, अतिशयं पाराशरः, अर्थश्लेषमुतथ्यः, उभयालंकारिकं कुबेरः, वैनोदिकं कामदेवः, रूपक- निरूपणीयं भरतः, रसाधिकारिकं नन्दिकेश्वरः, दोषाधिकरणं धिषणः, गुणापा- दानिकमुपमन्युः, औपनिषदिकं कुचमार इति । ततस्ते पृथक् पृथक् स्वशास्त्राणि विर्रयाञ्चक्रुः । हन्तैवं गुरुभ्यो गिरः पुष्णन् पुराणीं शृणुम स्म, यत्किल धिषणं शिष्याः कथाप्रसङ्गे पप्रच्छुः, कीदृशः पुनरयं सारस्वतेयः काव्यपुरुषो वो गुरुरिति । स तान् बृह-
पाद-टिप्पणी (Footnote): . काल इति वादिनः, स्वभाव इति लोकायतिकाः, नियतिरिति मीमांसकाः, निरिच्छाः, भूतानीति जगन्नित्यत्ववादिनः, योनिरिति प्रकृतिवादिनः, पुरुष ºश्वराः जगतः कारणं प्रतिपेदिरे ॥
भूमिका। ९ तापतिरुचे । पुरा पुत्रीयन्ती सरस्वती तुषारगिरौ (तपस्यामास) प्रीतेन मनसा तां विरिञ्चः प्रोवाच-पुत्रं ते सृजामि । अथैषा काव्यपुरुषं सुषुवे । सोऽभ्युत्थाय नपादोपग्रहं छन्दस्वतीं वाचमुदचीचरत् । यदेतद्वाङ्मयं विश्वमर्थमूर्त्या विवर्तते । सोऽस्मि काव्यपुमानम्ब पादौ वन्देय तावकौ ॥ तामाम्नायदृष्टचरीमुपलभ्य भाषाविषये छन्दोमुद्रां देवीं ससंमदमङ्कपर्यङ्केनादाय तमुदलापयत् । वत्स, सच्छन्दस्काया गिरः प्रणेतः, वाङ्मयमातरमपि मातरं मां विजयसे । प्रशस्यतमं चेदमुदाहरन्ति यदुत 'पुत्रात्पराजयो द्वितीयं पुत्रजन्म' इति । वृत्तं पूर्वे हि विद्वांसो गद्यं ददृशुर्न पद्यम् । तदुपक्रमथातश्छन्दस्खद्वचः प्रवर्त्स्यति । अहो श्लाघनीयोऽसि । शब्दार्थौ ते शरीरम् संस्कृतं मुखम्, प्राकृतं बाहुः, जघनमपभ्रंशः पैशाचं पादौ, उरो मिश्रम् । समः प्रसन्नो मधुर उदार ओजस्वी चासि । उक्तिचणं च ते वचः, रस आत्मा रोमाणि छन्दांसि, प्रश्नोत्तर- प्रवह्लिकादिकं च वाक्केलिः, अनुप्रासोपमादयश्च त्वामलंकुर्वन्ति । भविष्यतोऽर्थ- स्याभिधात्री श्रुतिरपि भवन्तमभिष्टौति- चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याँ आ विवेश ॥ (ऋ. सं. ३ अष्ट. ८ अ. १० व.) 'तथापि संशृणु प्रगल्भस्य पुंसः कर्म, बालोचितं चेष्टस्व' इति निगद्य निवेश्य चैनमनोवाहाद्रयिणि गण्डशैलतलनल्पे स्नातुमभ्रगङ्गां जगाम । तावच्च कुशान् समिधश्च समाहर्तुं नि स्सतो महामुनिरुशनाः परिवृत्ते पूषण्युष्मोपप्लुतं तमद्राक्षीत् । कस्यायमनाथो बाल इति चिन्तयन् स्वाश्रमपदमनैषीत् । क्षणादाश्वस्तश्च स सारस्वतेयस्तस्मै छन्दस्वतीं वाचं समचारयत् । अक्लाद्विस्मापयन् स चा- न्युवाच- या दुग्धापि न दुग्धेव कविदोग्धृभिरन्वहम् । हृदिनः संनिधत्तां सा सूक्तिधेनुः सरस्वती ॥ इति । तत्पूर्वकमध्येतृणां च सुमेधस्त्वमादिदेश । ततः प्रभृति तमुशनसं मन्तं कवि- रित्याचक्षते । तदुपचाराच्च कवयः कवय इति लोकयात्रा कविशब्दश्च 'कवृ वर्ण' इत्यस्य धातोः काव्यकर्मणो रूपम् । काव्यैकरूपत्वाच्च सारस्वतेयोऽपि काव्य- पुरुष इति भक्त्या प्रयुज्यते । ततश्च विनिवृत्तः वाग्देवी तत्र पुत्रमपश्यन्ती महोत्सङ्गदयं चक्रन्द । प्रसङ्गतश्च वाल्मीकिर्मुनिर्वृत्तं सप्रश्रयं तदुदन्तमुदाहृत्य भगवत्यै द्युसूतैराश्रमपदमदर्शयत् । सापि प्रस्रुतपयोधरा पुत्राद्वाङ्गालंगं ददाना शिरसि च चुम्बन्ती स्वस्तिमन्ता चेतसा प्राचेतसायापि महर्षये निभृतं सच्छन्दांसि वचांसि प्रायच्छत् । अनुप्रेषितश्च स तया निषादनिहतसहचरीकं क्रौञ्चयुवानं च्छान्दो- कार्यानिशं क्रन्दन्तमुदीक्ष्य शोकाद्वाञ्छ्लोकमनुजगाद-
१२ साहित्यदर्पणे —न् नैतत् प्रतीमः । तमात्मदेवं शरणं प्रपद्ये संसारसागरनिमज्जनत्रासत्रम् ... । आत्मादिदेवो योगदर्शने—'क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः' (१।२४) इत्येवं लक्षयत सूत्रिन पुनर्व्याचिख्यासायां— 'स पूर्वेषामपि गुरुः कालेनानवच्छेदात्' (१।२६) इत्यनेन गुणप्राधान्यविभक्त तच्छरीरादिसिद्धिरभ्युपेये । इयं च 'हिरण्यगर्भः समवर्तताग्रे—' (ऋ. सं. ८ . . . . .) इति श्रुत्यनुगृहीतया 'स वै शरीरी प्रथमः स वै पुरुष उच्यते । आदिकर्ता स भूतानां ब्रह्माऽग्रे समवर्तत ॥' इति स्मृत्या प्रथमशरीरिणो ब्रह्मणो जन्मप्रतिपादिकाऽपि प्रतीयते । तत्र पूर्वं द्वितीयस्य शरीरिणः श्रवणस्मरणा- दभ्यस्तान् सर्वान् वेदमन्त्रान् ब्रह्मणो हृदि वेदाः प्रादुर्बभूवुरिति । अत एव 'तेने ब्रह्म हृदा य आदिकवये' इत्यादि स्मर्यते गोप्यामादिकालो ब्रह्मद्वारको वेदानां प्रकाश इति । तथा चाम्नायते—'यज्ञेन वाचः पदवीयमायन्तामन्व- विन्दन्नृषिषु प्रविष्टाम्' (ऋ. सं. ८. २. २३) इति । 'युगान्तेऽन्तर्हितान्वे- दानितिहाससमन्वितान् । भेजिरे तपसा पूर्वेमनुज्ञाताः स्वयंभुवा ॥' इति । न चात्र मन्त्रान्तरेष्वग्न्याद्युपलम्भप्रतीतेरग्न्यादिरपि तत्प्रणयनकालो न भवितु- मर्हति 'वाचा विरूप नित्यया' (ऋ. सं. ६. ५. २५) इत्यादिश्रुतिभ्यो वेदनित्यताप्रतीतेः । एतदेवावलम्ब्य भगवता जैमिनिना पूर्वमी- मांसायां 'औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः' (१।१।५) इत्यादिद्वादशसूत्रैर्नित्यत्वं व्यवस्थाप्य 'नित्यस्तु स्याद्दर्शनस्य परार्थत्वात्' (१।१।१८) इत्यादि- सूत्रैर्वेदानां नित्यत्वमभिहितम् । उत्तरमीमांसायामपि भगवता पाराशर्येण ब्रह्मणो वेदकर्तृत्वमङ्गीकृत्यापि 'शास्त्रयोनित्वात्' सूत्रयतापि 'अत एव च नित्यत्वम्' (१।१।३) इत्यादिना वेदानां नित्यत्वं व्यवस्थापितम् । ... ऋष्यादीनां मन्त्रदर्शनं विधीयते—'उतानि मैत्रावरुणो वसि- ष्ठो...' इत्यादि । 'इमामू षु प्रभृतिं सत्रसाध्यै' इत्यनेन विश्वेदेवा मुञ्चरे ... (ऋ. सं. ... ६) इति । एतद्द्ष्टव्यम् निरुक्तम् (५ अ. . . . . ऋ. २ प्रपा. २ ब्रा. २२ कं.) इति च, तथा चोक्तं निरुक्ते (२. ७. २-३) इत्येवमादयोऽन्येऽपि म- न्त्रा दृश्यन्ते । ... संप्रदायप्रवृत्तस्तस्योपदेशादिवदुक्त- ... 'साक्षात्कृतधर्माण ऋषयो बभूवुस्तेऽवरेभ्योऽसाक्षात्कृतधर्मभ्य उपदेशेन मन्त्रान् सम्प्रादुः उपदेशाय ग्लायन्तोऽवरे बिल्मग्रहणाये- मं ग्रन्थं समाम्नासिषुर्वेदं च वेदाङ्गानि च' इति । तत एव पुनरिति- हासपुराणं पञ्चमं वेदानां वेदं इति श्रुता 'इतिहासवेदः सोऽयं' इति ... शतपथब्राह्मणे श्रुतत्वात् । ... तथा चोक्तम्—'इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । बिभेत्य- ल्पश्रुताद्वेदो मामयं प्रहरिष्यति ॥' इति । तस्मात् मन्त्रब्राह्मणात्मकं वेद- राशिमवगम्य तदुपजीव्यतया पूर्वतनैः श्रीभरतमुनिप्रभृतिभिः पञ्च- मवेदरूपं काव्यशास्त्रं निरमायीत्युक्तम् । तस्य काव्यशास्त्रस्य साक्षात्-
सुपलभ्यन्ते । तथाहि-छान्दोग्ये "यो ह वै वसिष्ठं वेद, वसिष्ठो ह स्वानां भवति. वाग्वाव वसिष्ठः" इति वसिष्ठपदार्थव्युत्पादनम् । एवमन्येषामपि व्यङ्ग्या द्रष्टव्या । निरुक्ते "-इन्द्रशत्रुः तस्को वृत्रो मेघ इति नैरुक्ताः, त्वाष्ट्रोऽ सुर इत्यैतिहासिका अपां च ज्योतिषा च मिश्रीभावकर्मणो वर्षकर्म जायते तत्रोप- मार्थेन युद्धवर्णा भवन्ति, अहिवत्तु खलु मन्त्रवर्णा ब्राह्मणवादाश्च-" (२. ५. २) इति वृत्रवधख्यातत्त्वम् । एवं प्रजापतेः सुतानुगमनम्, इन्द्रस्य चाहल्या- भिगमनम्, इत्यादि नियतार्थतया नीयमानमुपलभ्यते । श्रूयते हि ऋक्संहिता- यां 'रुशद्गवां उषसो न जार -' ( १. ५. १३ ) इति । 'उषो न जारः पृथुपाजो-' ( ५ ३ १३) इति च । एतदेव पुनर्ऋक्संहितायां ऐतरेये ब्राह्मणे-'प्रजापतिर्वै स्वां दुहितरमभ्यध्यायद् दिवमित्यन्य आहुरुषसमित्यन्ये तामृश्यो भूत्वा रोहितं भूतामभ्यैत्- इति कथारूपेण निरूपितम् । अत्र कैलि- ङ्गिप्रभवभाष्यवार्तिककाराः - 'प्रजापतित्वादग्रजापालनाद्विवारादादित्य एवोच्यते। स चारुणोदयवेलायामुषसमनुसञ्चरन्मैथुत् । सा तदागमनादेवोपगता इति स्युर्दुहितृ- रूपेण व्यपदिश्यते । तस्यां चारुणकिरणात्मबीजनिक्षेपात्स्त्रीपुरुषयोगवदुपचर- न्त्याहुः । यथैवं 'प्रजानाथं त्वाद्यं प्रथममथिव स्वां दुहितरं मृगे रोहित्भूतां रिरंसुमियमभ्यस्य वपुषा । धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः ॥' इति नक्षत्रवृत्त्युसत्तिनिरूपणपरितं मन्दिकेश्वरवच- नपि द्रष्टव्यम् । एवमेव ऋक्संहितायां 'उदीरय पितरा जार आमर्ग-' ( ३. ३. १०) इति । एतन्जारपदमालम्ब्य तैत्तिरीयारण्यके ' -वै राजमन्दिन्, अहल्यायै जार, कौशिकब्राह्मण, गौतमब्रुवाण-' ( १. १२ ) इति पाणिनि- सूत्रेण शब्दानित्यत्वे ( ६ । २ । २७) तथा शतपथब्राह्मणे ( ३. ३. ४. १८ ) । दर्शितोदाहरणाइह वाल्मीकीये रामायणे द्रष्टव्यम् ( १. ४८-४९ ) अत्र निरुक्तकाराः - 'आदित्योऽत्र जार उच्यते रात्रेर्जरयित्रा-' ( ३. ३. १४) । वार्तिककारा अपि-'एवं चन्द्रात्मको दर्शनादभिनिष्क्रान्तत्वाच्च रात्रिं च रहसि लीयमानामभिसरेत्स्यादुपपात्यागाद् द्यावाचन्द्रमसो रौहिण्य- र्थात् काम इतीच्छेतिविधेयत्वावित्य एषामनङ्गजराद्युच्यते, न तु पृथिवीपति- रिन्द्र इति दिवः । एषो पिता वेदा इति स्थितम् ॥ यत्तु पुनरुच्यते- 'ऋक् शाखाः सहस्रं तथा यजूंषि शते । उक्थानि दशधा चाथर्वणानि तथा ( पु. र. पृ० ६० ; पु. प्र. पृ० ३; अ. प्र. पृ० ९९ द्र.) इति। ऐतरेये- 'ऋग्भिः पूर्वाह्णे दिवि देव ईयते यजु- र्वेदे तिष्ठति मध्यन्दिनं' (५. ४. ७) इति । एतच्च श्रुतिषु - ऋग्विदध्वर्युरथर्व- यवं साम्नां समाहारम् । पुरोः प्रतीच्योरथवाऽप्यनुष्ठातुम् ' ( प्र. ९ ) इत्यतिशयेन देवतानामेव च प्रतिपादनान्नोचे, तदपि-यथाऽऽहुः मूर्धातः पदगमनात्पादपादित्यात् नियतं दैवतमुपपादयेयुः । तथा चेतिहास- दर्शनादिति सूत्राणि सन्ति । यत्र द्वयोश्च संवत्संवादो दृश्यते च तदाख्यान- रूपमपि मन्यते । तस्मात् सुस्पष्टमेतदुच्यते- तथा देवानां प्राणाः समूहाः ऋ० भू० २
इस पृष्ठ पर कोई पठनीय पाठ्य सामग्री (टेक्स्ट) उपलब्ध नहीं है।
भूमिका । श्रौतस्मार्त्तधृतिरपि नमनोनियोगं विवेचनीयाम् । अतो नित्या वेदा इत्येव स्थितम् ॥ यत्त्वत्र साम्प्रतिका वेदवाचस्पतयो दयानन्दस्वामिन ऋग्वेदादिभाष्यभूमि- कायां वेदानां नित्यत्वमङ्गीकृत्यापि तदुत्पत्तिगणनाप्रकारोन्नयेन त्रेधा भ्रमोऽजनि । नित्यस्योत्पत्तिकालप्रदर्शनं प्रथमो भ्रम । उत्पत्तिकालप्रदर्शने सायंभुवादिसप्त- मन्वन्तर संधिकालस्य ( १९७२९६००० ) एतावद्वर्षसंख्यस्य परिसङ्ख्यो द्वितीयो भ्रम । यत्तद्गणनायामेकनमत्या महायुगैरष्टौ मनु ब्रह्मणो दिने तु चतुर्दश मन्व एवं षड्नं सहस्रं द्यादिनं भवति ७१×१४=९९४ । तन्मृषेव शनिवार- भोजनं शिरस्यापन्नमिति उत्पत्तिकालोऽपि यदि वक्तव्यस्तर्हि ब्राह्मवत्सारारम्भ इति तृ- तीयो भ्रमः । परं नहि ब्रह्मणो नित्यभावे वेदनित्यत्वं संघटते । यत्रैषा गण- नपद्धति - मानुषयुगानि । दैवयुगानि । १२००००=( ३६०×१२०००० )=४३२०००० ब्र. दि=१०००×१२००००=( १०००×४३२०००० )=४३२००००००० अथवा, एवम्गुणान् चतुर्दशगुणान् ४२९४०८०००० खसप्ति- रैन =५९८००००=१५१५७२८००० युतं ब्रह्मदिनं भवति । अजरिसम्वत्सराणाम्- ७१/मनु ४३२००००=३०६७२०००० ६×३०६७२००००=१८४०३२०००० ७/मन्डुः सं. १९७२९६०००= १९७२९६००० = २७×४३२०००० = ११६६४०००० कृतम् = १७२८००० त्रेता = १२९६००० द्वापरम् = ८६४००० इसादौ गतः = १९७९ = ९९,३९२७५,९८- सम
- यदिक नो एव हि यस्तु ... सगुणम् गभीरं वेदा ... सत्यम् ... यद्वद्वा वेद ... भूतार्थे तत्त्वमज्ञात्वा ... प्रमाणमुत्सारयन्ति हन्त ... विन्दितान् गणयन्तः ... अथ वा ... नित्यत्वं ... कार्येति ... नित्यत्व ... ... ... ...
२० साहित्यदर्पणे न च वेदविहारोऽयं संश्राव्यः शूद्रजातिषु । तस्मात्सृजापरं वेदं पञ्चमं सार्ववर्णिकम् ॥ एवमस्त्विति तानुक्त्वा देवराजं विसृज्य च । सस्मार चतुरो वेदान् योगमास्थाय तत्त्ववित् ॥ धर्म्यमर्थ्यं यशस्यं च सोपदेशं ससंग्रहम् । भविष्यतश्च लोकस्य सर्वकर्मानुदर्शकम् ॥ सर्वशास्त्रार्थसंपन्नं सर्वशिल्पप्रवर्तकम् । नाट्याख्यं पञ्चमं वेदं सेतिहासं करोम्यहम् ॥ संकल्प्य भगवानेवं सर्वान्वेदाननुस्मरन् । नाट्यवेदं ततश्चक्रे चतुर्वेदाङ्गसंभवम् ॥' ( १ अ. २—१६ श्लो ) एतेन वैवस्वताह्वयस्य सप्तमस्य मनो. कस्मिंश्चित्त्रेतायुगे राज्ञो नहुषस्य राज- काले, यद्वा तत्प्रतिपादद् गनकाले प्राग् द्वापरयुगे प्रोक्तेभ्यः पुराणेभ्यः पूर्वं त्रेता- युगे नाट्यशास्त्रम् प्रणयनमिति व्यक्तम् । तत्र प्रथमकोटावन्यो नहुषो द्वितीयको- टावन्य इत्यपि सम्भवन् पन्था । नहुषश्च आयुषः पुत्रो ययातेः पितेति महाभारतमू ( आदिपर्व. ९५ अध्या ७ ग. ) ॥ अत्र मनुष्यस्य यावदायु सम्भाव्यते तावतो बह्वधिकनिबन्धनादिदानींतना इति- हासयुगीनेषु तद्दिनानातान्यन्यथाऽन्यथा गमयन्तोऽपि वस्तुतो न विश्रान्ति संध- दधते । उपाद्यने ह्यनन् । यद् यथोत्पादितं तत् तथैव परीक्षितं सम्यक्प्रतिष्ठितं भवति । द्रव्यस्य दर्शेनमान् तु सम्यक्प्रतिष्ठितमेव । नहि मृद्व्यतिरेकेण विभा- व्यमानो घटट सम्यक्सम्वितिष्ठतीति । एवमस्माकमार्यावर्तभुवामितिहास पुराणं चापि न यथ श्रुतनामार्थमात्रमभिसन्धायप्रवर्तन्ते, किंतु पातञ्जलदिप्रख्यातयोगवि- भूतिसम्भाविता (यो द वि पा ) तत्रतत्र विलोकनदेशकालपात्रघटितमपि वस्तु प्रत्यक्षवन् । अत एव भगवता वेदव्यासेन— 'इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । बिभेत्यल्पश्रुताद्वेतो मामयं प्रहरिष्यति ॥ ( म. भा. आदिप. १ अ. २६७ श्लो.) इत्यैतिहासिकपुराणस्य वेदार्थोपबृंहणं निर्णीतम् । न स्यादप्येवमादरभूरिति- हास पुराणं चेति, यदि तस्य यदमपि लोकप्रवृत्यर्थं प्रवर्तमानं सिध्येत्। नैवं भूत पुराणे जन्मादिनाघटावहितं । अत एव यत्र प्रमेयतावबोधेन कृतकर्तव्या- न्तराभिः 'नैष न्यायोऽपराघो यद्देतमन्धो न पश्यति' इत्यनेन परिह्रियते । तद्वैधस्येव यत् सत्यताऽऽपादनायाद् उचितप्रेक्ष्ययोगेन मुक्तान्तपातकलितव ऽऽदर्शमिवोपदर्शयन्त्येव इतिहास विहितप्रत्यक्षिनवद्वेद्यम् । नह्येतद्विविधमुद्दिश्य तत्तत्प्रवृत्तं स्यात् यद्वा नह्येतद्, अतोऽपि क्षेमानुकलनमिति- पर्यालोचनीयम् ।
यदि चात्र सांप्रतिकपर्यालोचनदृष्ट्या कालसंकोचचिकीर्षया मीमांसकानां सहस्रसंवत्सरशब्दस्य सहस्रदिनपरताधिकरणन्यायोऽवतार्येत (जैमिनिदृ. ६ अ- ७ पा. १३ अधि.). तदापि विसंवादाधिरूढवस्थ एवाभिलक्ष्यते । यतस्तत्र साधारण्याेनाधिकारिचिन्ताया ब्राह्मणानुगृहीतः कालसंकोच आश्रीयते; इह पुनर्- विशेषेण कालकलनाया गमकाननुगृहीतः कालसंकोचो विकासो वा कथमाश्री- येत । या च शतायुःश्रुतिः, सापि युगपरतया मन्वादिभिः स्मर्यते ( म. स्मृ. १ अ. ८१-८४ श्लो. ), इत्य सेतिहासपुराणाभ्यामेव किमपराद्धम् । यत्तदुक्तजातं गमननुपलम्भेऽप्यन्यथा नीयते । एतेन हि भगवन्तं रामभद्रं तत्पितरं तत्र- भवन्तं दशरथं चामिलक्षीकृत्य प्रवृत्तम्— 'दशवर्षसहस्राणि दशवर्षशतानि च । रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति ॥' रा. वा. का. १. स. ९७ श्लो. 'षष्टिर्वर्षसहस्राणि जातस्य मम कौशिक ।' ( रा. वा. का. २० स. १० श्लो. ) इत्यादिवाक्यं नासगतं मन्तव्यम् । बलादन्यथानयने तु सौरमानेन १०१००/३६० = २८ २/३ इति ६००००/३६० = १६६ २/३ इति तयोः कालावागच्छतः । अत्र द्वितीयस्य- श्रद्धेयत्वेऽपि प्रथमः सर्वथाऽनुपपन्न एव । तथा तत्रैव रामायणे 'ऊनषोडश- वर्षो मे रामो राजीवलोचनः' इत्येवमादिरूपकालो दिनत्वेन परिणममानोऽति- तराममुपपन्नो द्रष्टव्यः । नैवमत्रैवानुपपत्त्या पराक्रम्यते । यानि पुनर्ज्योतिषे होरा- स्कन्धे नानाप्रकाराणि योगोत्थितानि पुरुषायूंषि पठितानि तत्रापि विसंवाद- गलप्रहान् मुच्यामहे । जैमिनीयन्यायोऽपि कालत्रयेणावतार्यमाणः कालकलनासु प्रमाणपदवी नाधिरोहतीत्यपि दर्शितमेव । देशकालविषयविप्रकृष्टनामेकस्वभावा- पोऽपि दूरदर्शिभिरेकहेल्याऽवहेलयितुमशक्यः । प्रक्षेपॊऽपि सजात्यान् विशिष्य मूलात्स्कन्धीत्यादि रूपेणैव परीक्षणीयम् । तस्माद् वेदेष्विव तदुपोपबृंहितेष्वपि यद् यथा स्मर्यते व्यवस्थाप्यते वा तत् तथैव नीयमानं पूर्वोपज्ञं भवितुमर्हतीति स्थितम् ॥ इदमपि पुरातत्त्वं प्रकृत पर्यालोच्यम्— 'श्रुतौ शतायुः पुरुषः प्रदिष्टो बहुत्वयोगी शतशब्दशक्यः । रामादिकानामधिकायुरासौ युक्तं प्रतीमः फलितोऽमितायुः ॥' इति । बहु चैवात्र शब्दानुसारेण प्रतिपत्तव्यम् । सूत्रं च जैमिनीयन्यायानुसन्धाने पुनरिदमपि पर्यालोच्यमेव— 'स वार्षिको वासन्तिको भवति ( ब्राह्मणम् ) —
२२ साहित्यदर्पणे
तत्रापरं ( न्तिमं ) ब्राह्मणगौरवेण ( दर्शनेन ) स स्वीचकारेति विरोधभङ्गः ॥' इति । अथवा भतृत्तीयापरभोगस्य प्रथमान्तत्वे । महर्षिणाग्राहि ( ऽमानि ) विरोध- शान्त्यै' इत्येवं चरमपाद पठनीयः ॥ प्रास्तावयं च प्राक् ( भूमि. १८ पृ. ) साहित्यस्य प्रवन्धा वन्धकाश्च क इति । तत्रावशिष्यते पौराणिकी कोटि । यत्र सूक्ष्मेशिकया निरीक्षणायामनेके वैज्ञा- निका विषया पुरस्क्रियन्ते । इदानीं तु प्रस्तुतमुपक्षिप्यते यत्पुराणेष्वन्यतम- माग्नेयमिति । इह विषयान्तरवत् साहित्यविषयोऽपि भामहादिग्रन्थेभ्यस्तत्पूर्व्वे- भ्यो वा संक्रामित , आहोस्वित् वेदार्थोपबृंहकेभ्य आग्नेयादिभ्य एव भामहादि- ग्रन्था व्यधायिपत । तत्राद्यकोटिर्विशीर्यते वृहत्कथारघुवंशादिपर्यालोचनेन तत्क- र्तृकालेऽपि कविकर्मपद्धतेरवश्यंभावाद्, यत्प्रयातान्येतानि गुणाढ्यकालिदासा- दिमूक्तान्यस्माकमवलम्बनानीति । आलंकारिकेषु भामहवर्जं नान्य कश्चन चिरंत- नत्वेन संप्रति सभावनामारूढ इति बहव । भामहग्रन्थस्तदुपज्ञमित्यपि न सिद्ध्यति । यस्मात्तन्मादेव— 'रूपकादिरलंकारस्तस्यान्यैर्बहुधोदितः । न कान्तमपि निर्भूषं विभाति वनिताननम् ॥ १३ ॥ रूपकादिमलंकारं बाह्यमाचक्षते परे । सुपां तिङां च व्युत्पत्तिं वाचां वाञ्छन्त्यलंकृतिम् ॥ १४ ॥ तदेतदाहुः सौशब्द्यं नार्थव्युत्पत्तिरीदृशी । शब्दाभिधेयालंकारभेदादिष्टं द्वयं तु नः ॥ १५ ॥' ( १ परिच्छे ) इत्येवेन, तथा— 'इति निगदितास्तास्ता वाचामलंकृतयो मया बहुविधकृतीर्दृष्ट्वान्येषां स्वयं परितर्क्य च । प्रथितवचसः सन्तोऽभिज्ञाः प्रमाणमिहापरे गुरुतगधियामस्ताराध्यं मनोऽकृतबुद्धिभिः ॥ १६ ॥ ( १५ परिच्छे ) इत्येवमादिना च तदीयेन सूक्तेन प्राचां काव्यानुशासनाना ज्ञापनम् । नाट्य- ग्रन्थे हि— 'उपमा दीपकं चैव रूपकं यमकं तथा । काव्यस्यैते ह्यलंकाराश्चत्वारः परिकीर्त्तिताः ॥' ( १६ अ ४१ श्लो. ) इत्येवंरूपान्दोषान् प्रस्फुटित्वा यथा— गूढार्थमर्थान्तरमर्थहीनं भिन्नार्थमेकार्थमभित्नार्थम् । -------------------- प्रकाशस्य पदपूर्वोक्तैरेत्युद्भूतम् ।'
२३ भूमिका । न्यायादपेतं विषमं विसंधि शब्दच्युतं वै दशकाव्यदोषाः ॥’ ( १६ अ. ८४ श्लो.) श्लेषः प्रसादः समता समाधि- र्माधुर्यमोजः पदसौकुमार्यम् । अर्थस्य च व्यक्तिरुदारता च कान्तिश्च काव्यार्थगुणा दशैते ॥’ ( १६ अ ९२ श्लो.) इत्येव दश दोषानपवदन्तो गुणा उद्दिष्टा यथोद्देशं लक्षिताश्च । एत एव काव्या- लंकारसूत्रे—‘श्लेषप्रसादसमततासमाधिमाधुर्यसौकुमार्योदारताऽर्थव्यक्तिकान्तयो बन्धगुणाः’ (२ अधिकरणे १ अध्या. ४ सू.) इति वामनेनोक्ता ‘मा- धुर्यौजःप्रसादाख्यास्त्रयो न पुनर्दश इति प्रकाशकारादिभिः प्रयुक्ता व्यङ्ग्य- वृत्तिमात्रनिरूपणया स्थापिताश्चेति । परमेते (दश गुणा ) वामनस्य प्राक्तनेन ग्रन्थे- नित्यस्य दण्डिनः काव्यादर्शोऽपि सन्ति । दण्डिवामनयोर्मन्यतो गुणानां भ- नानुकरणं न दृश्यते । भरतेन स्वज्ञानात् स्वातिनारदपुष्पदन्तादीनां ग्रन्थ- परम्परेषु वा त एतेऽधिगता वा नाट्यशास्त्रप्रविभक्ता इति को निर्णयः । ‘पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः । कर्मन्दकृशाश्वादिनिः’ (४।३।११०-११) इति पाणिनिसूत्राभ्यां शिलालिकृशाश्वानां वेदानां नटसूत्रान्त- र्गतं भरतग्रन्थावेक्षा बहुचित्तप्रमदः । दण्डिनः प्राक्तनेन दण्डिनिरूपणं भा- यावत्काव्ये रसे तु भरतेनैवोक्ते दोषगुणेभ्यः परं दण्डिप्रत्यक्षरं दर्शिता । एवञ्च वामनदर्शनमभिप्रायं हि मन्यते भरत एवैतच्छास्त्रकर्त्ता सन्मार्गेण दर्श- नगतादिनिर्भरा नैव कल्पयितुं शक्यत इति, निर्विवादतयैवैते दशगु- णरत्नप्रस्थापनकर्तुः प्रामाण्यं तैरेवाभिहितमिति मन्यामहे । नाट्यशास्त्राध्येतृणामेवमपि यद्यपि प्रतिपन्नत्वमभ्युपगम्यते तथा- प्यभिनेयार्थविषयं काव्यमुद्देश्यं तद्वैपरीत्येन तस्यैव सर्वस्य चामि- तद्विवृतौ ग्रन्थान्तरे दृष्टं तदा तद्विषयं दृष्टिवशादेव नानाकथनात्, शृङ्गारिकप्रायेण विप्रलम्भादिविभागेन काव्यान्तरोपलक्षणेनोभ- यविषयस्योद्देश्यत्वे न कश्चिद्बाधः सम्भाव्यते । पुनश्चैतन्मते नाट्य- मपि नाटकस्य निबन्धमुत्सृज्य प्रवृत्तमित्याह भरतः—“यद्वागर्थसमोपेतम् न चैकस्मिन् रसे स्थितम् ।” इति प्रवृत्त्या काव्यस्य नाटके दृश्यते न तु नाटके । तथा—‘यथा च नानाद्रव्यैर्बहुभिः समन्वितानि व्यञ्जना- न्युत्पद्यन्ते तथा नानाभावेभ्यो भावेभ्यः सम्भूतो रसोत्पत्तिर्भवति’ इत्यनेन रसविभावे नाटकादीनां न विनिगमकमस्ति । श्लोकेषु दृश्यते—
२८ साहित्यदर्पणे वर्षाणां द्वादशशती षष्टिः षड्भिश्च संयुता । भूभुजां कालसंख्यायां तद्द्वापञ्चाशतो मता ॥' इत्ययं द्वापञ्चाशतो राज्ञा काल = १२६६ स च न सवदति। एतदुक्तं भवति- यदि नाम प्रकृतोपयुक्ता सप्तर्षीणां गतिर्नोपलभ्यते, तर्हि तया युधिष्ठिरकालनिर्ण- योऽशक्यः । अत्र सिद्धान्ततत्त्वविवेके कमलाकरभट्टाः । 'अद्यापि कैरपि नरैर्गतिराश्चर्य्य- र्दृष्टा न या च कथिता किल संहितासु । तत्काव्यमेव हि पुराणवदत्र तज्ज्ञा- स्तेनैव तत्त्वविषयं गदितुं प्रवृत्ताः ॥” ( भग्रह. ३२ ) इत्यादि निर्णायन्ति । तथा सिद्धान्तदर्पणे चन्द्रशेखराचार्या अपि- 'सप्तर्षीणां ध्रुवः प्राग्भिर्नोक्तः संचारसंभवात् । तथाप्यनुभवात्तेषां व्यवस्था क्रियतेऽधुना ॥ पूर्व्वाग्रं शकटाकारमुदक्स्थमुडुसप्तकम्। सप्तर्षिमण्डलं प्रोक्तं व्यक्तं विश्वनमस्कृतम् ॥ तत्पूर्व्वान्तररेखाग्रे मरीचिः पश्चिमे ततः । वसिष्ठोऽरुन्धतीयुक्तस्तत्पश्चादङ्गिराः स्थितः ॥ तत्पश्चाच्चतुरस्रस्य शम्भुदिश्यग्निरस्य तु । पुलस्त्यो दक्षिणे तस्य पश्चिमे पुलहः स्थितः ॥ क्रतुस्तदुत्तरस्थानस्तत्रोक्तौ पुलहक्रतू । ध्रुवसूत्रेण यल्लग्नौ तद्दक्षस्या महर्षयः ॥ कथ्यन्ते सांप्रतं (४९७०) सिंहे भूभुजां(२१)शान्तगौ हि तौ। कालांशैर्विश्वकैः १३ प्राच्यां पुलस्त्यो वर्तते ततः ॥ तन्मन्दैः सायकैः (५) रनिरङ्गिरा नवभि(९)स्ततः ॥ ततोऽष्टाभि(८)र्वसिष्ठोऽस्मान्मरीचिर्वर्त्ततेऽष्टभिः(८) ॥' इत्येवमादि सङ्क्षेपादुक्त्वान्ते- 'प्रत्यक्षं प्राग्गतिः प्रोक्ता पुराणैरप्यलौकिकाः । नैषां नो निश्चिता पूर्व्वानुभवाददीनान्मया ॥' इत्युपसञ्जह्रुः । एतेन सर्व्वेषागमावात् ६५३ एतावत्कालिकगणनं तदानीं असम्भवमेव । दन्ते हि कलेः ४० वर्षानन्तरमेव ६५३ वर्षानन्तरमपि प्रवृत्त्यानुगतमेव तत एव समर्थितवत् ( लौकिकाब्दः ) इव कलियुगसंवत् ( यु० सं० = सप्तर्षिसंवत् ) इत्येवं द्वयमपि अयमेवदकमेव । नहि ३१७५- २५२२ = ६५३ तावन्मात्रेण अनेकग्रन्थादृष्टवचनादाढ्य, वा भारतसंग्रामस्य, निर्वृतिसमयस्य, वा सर्वाभिमतकालस्य सङ्घटनार्थमेकस्य युधिष्ठि- रसंवत्सरस्य बहुव्यत्ययप्रवादो बोद्धुं शक्यते । तस्मात्—
भूमिका । २९ भारतं द्वापरान्तेऽभूद्वार्तयेति विमोहिताः । केचिदेतां मृषा तेषां कालसंख्यां प्रचक्रिरे ॥’ इत्यन्यथा परिणतां महामात्यचम्पकसूनोः कल्हणस्य कृतिमुपेक्ष्यात्राद्यष्ट- नृपावलौ ६५३ एतावन्ति वर्षाणि संकलप्य ३१७९ एतावदेव सर्वसंख्या कलि- गतं ( कलियुगसंवत् ) शकारम्भसमये मन्तव्यम् । एवमप्यत्र नीलमुनिरात्मनः काश्मीरकपुराणमतं न जहातीति परीक्षणीयम् । इत्थंच पूर्वदत्तसंहितावाक्ये युधिष्ठिर इत्यत्र लक्षणया कस्मिंश्चित्तत्संताने नृपतौ पृथ्वीं शासतीत्युन्नेयम् । किंवा, यथाश्रुतार्थे ‘गोद्विन्द्गाइत्रियुतः’ इति पाठश्च स्यादिति संक्षेपः ॥ अथात्र किंचिदितिहासिकदृष्ट्यापि विविच्यते—राज्ञः शांतनोर्गङ्गातो गाङ्गेयो भीष्मो जज्ञे ( म. भा. आदिप. १०० अ. ) । कृष्णे पराशरात् सत्यवत्यां पारा- शर्यो व्यासः कानीनश्च ( म. भा. आदिप. १०५ अ. ) शांतनुर्विवाहितायां सत्यवत्यां चित्राङ्गदविचित्रवीर्यौ जनयामास । तत्र विचित्रवीर्योऽम्बिकाम्बा- लिके काशिराजसुते उपयेमे । ततश्च— ‘ताभ्यां सह समाः सप्त विहरन्पृथिवीपतिः । विचित्रवीर्यस्तरुणो यक्ष्मणा समगृह्यत ॥ सुहृदां यतमानानामाप्तैः सह चिकित्सकैः । जगामास्तमिवादित्यः’ ( म. भा. आदि प. १०२ अ ) । मातुः सत्यवत्या आज्ञया पाराशरो विचित्रवी- र्यस्य क्षेत्रेऽम्बिकायां धृतराष्ट्रं तथाऽम्बालिकायां पाण्डुमुत्पादयामास ( म. भा. आदिप. १०६ अ. ) । पाण्डोर्युधिष्ठिरादयः ( म. भा. आदिप. १२३ अ ) ततोऽ- र्जुनाद् अभिमन्युः, अभिमन्योः परीक्षित्, परीक्षिता जनमेजयश्च । एवं सत्य- वत्याः प्रपौत्रो जनमेजयः, येन पृष्टः पाराशर्यो महाभारतं (उप) चक्रे ( म. भा. आदि- प. १ अ. ) । यस्मिन्दिने राज्ञो जनमेजयस्य वयः ३६ वर्षाणि बभूवुः, तदा— ‘आकर्णपलितः श्यामो वयसाशीतिपञ्चकः (८५) रणे पर्यचरद् द्रोणो वृद्धः षोडशवर्षवत् ।’ ( म भा. द्रोणप. १२५ अ. ७२ श्लो. ) इत्यनेन, हन्त— ‘वयः प्राप्य परीक्षित्तु दैवेऽस्तंगमनाच्च यत् । ६३ । कृपाच्छस्त्राण्यथास्त्राणि सर्वाण्यापुपुदत्स्वयम् । विदित्वा परमार्थांनि क्षत्रधर्ममते स्थितः । ६४ । षष्टिं ( ६० ) वर्षाणि धर्मात्मा पृथिव्यां पर्यपालयत् ।’ ( म. भा. आदिप. ९५ अ. ) इति वाक्यानुसारेण ८५-३६-१६=३३ संवत्सरान्ते जातो यद्यपि जनमेजयस्तथाप्यस्य महाभारतनिर्माणं न युज्यते । यतः इमं चाध्यायमन्तर्भाव्यैवैतदुत्तरग्रन्थेऽस्ति— ‘उत्तरे चैव संयावे द्रोणिशस्त्राभिपीडितम् । गर्भमण्डपुटे युक्तं हयस्त्वभ्यदहन्विभोः ।’ ( म. भा. आदिप. २ अ. ) इत्यनेनोक्ते यन् परीक्षितः पूर्वोक्ता षष्टि-
र्थात् ३१००—४८७=२६१३ कलिगतम् । एष च—'यदुदुम्बरवर्णानां मण्डलं महत् । पीतं न गमयेत्स्वर्गं तत्किं क्रतुगतं नयेत् ॥' इत्येवमुक्तवान् शायाम्—'प्रमत्तगीत एष तत्रभवतो यस्त्वप्रमत्तगीतस्तत्प्रमाणम्' इत्येवं म[हा-] भाष्यकारेण प्रत्युच्यते । यद्युक्तो बुद्धनिर्वाणकालः सर्ववादिसंमत- तीर्थंकर-महावीरसत्ताकालो व्यक्त एव, यतो वीरनिर्वाणसंवत्-५२७ ऊर्ध्वम् अर्थात् कलिगतम् २५७३। 'चन्द्रगुप्तसभा' इति प्रत्युदाहरणं तु सा[रा-] महाभाष्ये काशिकायामपि न दृश्यते, केवलं सिद्धान्तकौमुद्याम् । चन्द्रगुप्तसंव[न्धि-] तया संभाव्यमानः पुष्यमित्रो वर्तमाने लड्सूत्रभाष्ये—'इह पुष्यमित्रं याजया[मः]' ( ३।२।१२३ ) इत्येवं स्पृष्टोऽपि कुशकाशावलम्बनायितः । नहि देवदत्तेन्द्रक[र्ण-] न्द्रपालितप्रायैरुदाहरणे ( ८।२।८३ ) केचन नियता व्यक्तिविशेषा भाष्यकारानि- मता भवितुमर्हा इति दिक् ।
अथ किंचिद्दर्शनान्तरमुपक्षिप्य भूयः प्रकृतप्रघट्टकफलं दर्शयिष्यते । दर्शनेषु योगितया प्रतियोगितया वा परस्परस्य परस्परं प्रवेशो लक्ष्यते । सोऽयं शब्दतो ऽर्थत इति यथोत्तर भूयान् प्रेक्षाविषयः । तद्बीजं तु—'कालः स्वभावो नियति[र्य-] दृच्छाभूतानि योनि —' पृ. ८) इत्येवं जातीया भगवती श्रुतिरेव । नह्येष[ा] श्रुतिरुपालभ्या, तदनुवर्तिप्रमातृणां प्रवृत्तिर्वा, यदेष प्रमेयस्य प्राकृतिको दोष[ः] स्वभावो वा यथायं विचार सहते, तयागत्या तार्किकैर्नायत इति । अत्रेयं स्थूला पर्यालोचनम्—
वैशेषिकं न्यायश्चेति द्वये दर्शने समानतन्त्रे तत्र औलूकापरनाम्ना महामुनि[ना] कणादेन विशेषं पञ्चमं पदार्थभेदमधिकृत्य कृतो ग्रन्थो वैशेषिकम् । विशेषस्य साधर्म्येनेतरेभ्यो व्यावर्तनाय प्रभवतीति वैशेषिकस्तत्प्रमाता । तथाचोक्तं मौलिक[स्य] दर्शने माधवाचार्य—'द्वित्वे च पाकजोत्पत्तौ विभागे च विभागजे । यस्य न स्खलिता बुद्धिस्तं वै वैशेषिक विदुः ॥' इह भूतात्मपुरस्कारेण पदार्थानां साधर्म्य- वैधर्माभ्यां तत्त्वज्ञानानि श्रेयसपर्यायन्निणी परमात्मचिन्ता । अत्र दश अध्यायाः । प्रत्यध्यायं द्वे आह्निके । सर्वसूत्राणि ३६६। इदं न्यायदर्शनात प्राचीनं तत्रेयं तुलना-
वैशेषिकम्. | न्यायद. इच्छाद्वेषप्रयत्न सुखदुःखज्ञानान्यात्मनो लि- | इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्या- ङ्गम् ३।२।४ ।। विद्याविद्यातश्च संशयः २।२।२३ ।। | त्मनो लिङ्गम् १।१।१० ।। नियतं वार्दानिश्चयात् संशय ४।३।८ ।।
... 'अप्रसिद्धोऽनपदेश— ( ३।१।१५-१७) इत्यादिना च त्रिधा...त्रय एव हेत्वाभासा उपदिष्टाः । न्याये तु-'सव्यभि[चार]'
भूमिका । ३७ चार—' ( ३।२।४५-५० ) इत्यादिना पञ्चाप्युपदिष्टाः । एतेन पूर्वं त्रय एव हेत्वाभासा आकलिताः, पश्चात् पञ्चत्वमुपनीता इति व्यक्तम् । अत्र 'विरुद्धसिद्धसं- दिग्धमलिङ्गं काश्यपोऽब्रवीत्' इति वैशेषिक-पदार्थधर्मसंग्रहकारः प्रशस्तपाद- चार्योऽपि संवादी । एवं वृत्ती जयनारायण-तर्कपञ्चाननोऽपि । तदेतन्महामहो- पाध्याय-चन्द्रकान्तमहाचार्यः स्वभाष्यभूमिकायां स्पष्टमुक्तवान् । किंच, न्याय- सूत्रापेक्षया वैशेषिकसूत्राणां प्रणयनशैलीसारल्यमपि तत्प्राचीनतामवगमयतीति प्रत्यक्षं परीक्षकाणाम् । यदपि षड्दर्शनभूमिकायां महामहोपाध्यायभीमा- चार्येण विपरीतमुल्यते तन्न हृदयारोहीति द्रष्टव्यम् । प्रमाणै रर्थपरीक्षणं न्यायः, नीयते प्रमेयसिद्धिरनेनेति वा । एषोऽक्षपादा- परनामा महामुनिना गौतमेन व्यरचि । इहान्तरात्मपुरस्कारेण पदार्थतत्वज्ञाना- न्निःश्रेयसाधैन्तकी परमात्मचिन्ता । अत्र पञ्च अध्यायाः । प्रत्यध्यायमाह्निकद्व- यम् । सर्वसूत्राणि ५२८ । भगवतो गौतमस्य समये आयुर्वेद इव मन्त्रखण्डोऽपि दृष्टप्रत्यय आसीत्, तत एव दृष्टान्तविधया द्वयोरप्युपादानं वेदप्रामाण्यादरे कृतम् तम्—'मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात् २।१।६८।' इति । सारस्वा- द्विषेयोपामन्त्रिता मन्त्रा लभ्यन्ते । आगम च—'आगतं शिववक्त्रेभ्यो गतं च गिरिजामुखे । मतं श्रीवासुदेवस्य तस्मादागममुच्यते ॥' इति शब्दार्थचिन्तामणौ निरुक्तम् । वत्सानि-तत्पुरुषा घोर-सद्योजात-वामदेवे-शान्संज्ञामि पूर्वदक्षिणपश्चिमोत्तरोग्धैरू- पानि पञ्च । तत्पुरुषादिरूपप्रतिपादका मन्त्रास्तु तैत्तिरीये आरण्यके दशनप्रपा- ठके श्रूयन्ते ॥ सांख्यं योगश्चेति समानतन्त्रे । तत्र तन्त्रांशं रमानौ यश्च स तत्त्वप्रवचन संप्रदापरनामा नारायणस्यावतारेण देवहूतिनन्दनेन महामुनिना कपिलेनोपदिष्टः । तच्च बोद्धव्यम्—'पञ्चमे कपिलो नाम सिद्धेशः कालविप्लुतम् । प्रोवाचासुरये सांख्यं तत्त्वग्रामविनिर्णयम् ॥' इति भागवते ( १ स्कं. ३ अ. १० श्लो. ) । तथा-'इह शश्वन्निवृत्ताविंशित्वादिरूपेण विवृतोऽभूता सांख्यप्रवक्ता ह वै नारायणो महामुनिना कपिलेनोपदिष्टः । तस्य बोद्धव्यम्—'एतावन्मात्रमेवेह लोकेऽस्मिन् पुंसि रन्यम् । यन्मनः शान्तयेऽनर्थहेतुर्निरोधनम् । यदि परमार्थं कपिले प्रादुर्बभूव यदा । १।२८ सा कपिलो नाम सांख्यप्रवर्तकः । इति भागवते विनिर्णयस्तु पूर्वोक्तः सङ्गच्छते । 'ततः प्रवृत्ते यन् महर्षिः स कपिलो यदुद्दिष्टमाविर्बभूवेति महाभारतात् प्रतीमः ।' इत्यनेन सम्मन्येते देवीभागवते एतेन तत्प्रवृत्त्यहंकारस्य सात्त्विकस्य द्वैविध्यं च स्पष्टीकृतमेव । तत्र षड- ध्यायीग्रन्थः, द्वितीये षष्ठेऽध्याये सांख्यसारः सङ्गृहीतः । श्रीमद्विष्णु- दर्शने पातञ्जलेऽपि द्वे द्वितीयेऽपि षड्गुणे 'स पूर्वेषामपि गुरुः कालेनानवच्छेदात्' पातञ्जलदर्शने समाधिपादे २६ सूत्रे इति भगवतः सूत्राणि ५२९, षड्ध्यायी तु २२ सूत्राणि । १. गौत०, सं० टी० टीका, पृ० ८७ । २. वात्स्यायनभा० पृ० ४०२ । ३. त० सू० ४
इस पृष्ठ पर कोई पठनीय पाठ (Text) उपलब्ध नहीं है (पृष्ठ रिक्त है)।
भूमिका । ५३
नैर्गुणि । नैर्गुणिन्विनिर्मुक्तं क्रिया विना भूरिणो भवति ॥ द्रव्यादपृथग्भूतो भवति गुणो नियमनिर्विकल्पवान् । सत्ताऽऽख्यार्थोऽव्यभिचारिभावाद्द्विविधाय त्रेधा ॥ नित्यं क्रियानुमेया व्यभिचारेण भवति भावार्थ । साऽऽख्याता द्वेधा सकर्मिकाऽकर्मिका चेति ॥ निर्गुणितेऽगुणेष्वपि बहुषु द्रव्येषु चिन्नगानेषु । एकाकारा बुद्धिर्भवति यत सा भवेज्जाति ॥” इत्येवं शब्दविभाग । एष एवालंकारिकाणामभिगतो जातिगुण- क्रियाद्रव्याणामुल्लेखद्वारेण निबन्धनात् । शब्दोऽर्थो रसश्च गुम्फः । शब्दो वाच्य , लाक्षणिकव्यङ्ग्यानां प्रागुपस्थानात्; अर्थो वाच्य , लक्ष्यव्यङ्ग्य- तात्पर्यार्थ्या प्रागवगमनात्, गुम्फानुगुण्य इति व्यपदिश्यते । रसस्तु सर्ववादि- नामादारास्पदं मुख्य एव । रसादिशब्दस्य रसादिप्रत्यायने संकेताभावानाभिधा- व्यापार प्रभवति । अत एवाभिधेयेन अविनाभूतस्य प्रतीतिराहित्यलक्षणापि नाक्रमते । वनिधापूर्वको हि लक्षणाव्यापार इति । अतएव च "साक्षात्सङ्केत- विषयो मुख्य ॥ मुख्यार्थबाधे निमित्ते प्रयोजने च भेदाभेदाभ्यामारोपितो गौण । मुख्यार्थसंबद्धस्तत्त्वेन लक्ष्यमाणो लक्ष्य ॥” इति सूत्र्यते । अथ तात्पर्याख्या वृत्तिरपि संसर्गमात्रे विरतव्यापारा । इत्थगत्या अभिधादिपथातिशायिनी तुरीया व्यञ्जनावृत्तौ रसादिवोधने स्फोटायनगतानुसारिभिरलंकारिकैरूरीकृता । यद्यपि रसो न केनापि निह्नोतुं पार्यते तथापि तस्य बोधनव्यापारे वैमत्याद् विकल्पाः । व्यञ्जनावृत्तिप्रतिपाद्यो व्यङ्ग्यो हि वस्त्वलंकाररसादिलक्षणः, स तावत्प्रतीयमान एव (छा० २३८ पृ० ) । अन्येनाप्यन्ववाचि—'मुख्याद्व्यतिरिक्तः प्रतीयमानो व्यङ्गो ध्वनिः ।' ध्वनति, ध्वन्यते, ध्वननं चेति यथायोगमवधातव्यम् । अस्य व्यतिरेकविधा, यथा खलु ध्वनिकारेण अङ्कुरिता, आलोककारेण पल्लविता; लोचनकारेण पुष्पिता, तथैव प्रकाशकारेण फलिता, नान्येन केनापि कोऽपि विशेषोऽद्यावधि वस्तुतोऽत्र प्रकाशि ॥ अथ प्रतीयमानो व्यङ्ग्यो ध्वनिरित्यपि रसादिवेदनभङ्गिमाप्रम्, न प्रत्येक- मर्थान्तरम् । यथा खलु व्यवहारभूमौ वाच्यास्तात्पर्यार्थो लक्ष्यौ वेति । 'विभावानु- भावव्यभिचारिसंयोगाद् रसनिष्पत्तिः' (छा० ७२ पृ०) इति सर्ववादिसम्मता भारतीया रसनीवी । एतदुक्तं भवति—कारणादीना विभावनाव्यापारवत्त्वाद् विभावादिपदाभिधाने दृष्टान्तमर्यादया विभावादिविभागलाभ । संयोगादिति सौत्र- पञ्चम्या विभावानुभावव्यभिचारिण. समूहलम्वनतया रसं प्रति हेतुता प्रतिपन्नाः । तत्र शब्दोपहितरुपाणा विभावादीना व्यापाराद् उत्पाद्योत्पादक-गम्यगमक-पोष्य- पोषक-व्यङ्ग्यव्यञ्जकरूपा भावा वादिमिरादृता. । रसबोधने निरूपितदृशा अभि- धातात्पर्ये निरस्ते अपि पुनर्मोमासकमतेन लोल्लटादिभिरुत्प्रेक्ष्यमाणोऽभिधाया दीर्घदीर्घतरो व्यापारो रसस्यानुकार्यगतत्वं च निरस्यते (सा. द. ८९ पृ० २५३ पृ०) “भट्टलोल्लटादयस्तु—रसस्य व्यङ्ग्यत्वमेवाङ्गीकुर्वन्ति” इति विवृतिम्रन्थस्तू- पेक्ष्यः ( ८० पृ० ) एव संयोगादिति बुद्धो रसस्य विभावादेश्च उ. । ०५क मुद्दूर निरस्तो मन्तव्य. । लक्षणापि निरस्तैव, यत्पुनस्तार्किकंमन्यैः र्था रा महिमभट्टप्रभृतिभी रसोऽनुमाप्य इत्यास्थीयते, तदपि तस्यानुकर्तृगतत्वेन
स्यात्काव्यगत्वं, न रूपिता ॥ शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदुः । अर्थतत्त्वेन युक्तं तु वदन्त्याख्यानमेतयोः ॥ द्वयोर्गुणत्वे व्यापारप्राधान्ये काव्यगी- र्भवेत् । अभिधा भावता चान्या तद्भोगीकृतितरेव च ॥ अभिधाधामता याते शब्दार्थालंकृती ततः । भावनाभाव्य एषोऽपि शृङ्गारादिगणो मतः ॥ तद्भोगीकृत- रूपेण व्याप्यते सिद्धिमान्नरः । दृश्यमानाधया मोक्षे यात्यक्लमियं स्फुटम् ॥” इति । तदित्थमन्यथान्या प्रतीयामानो नीत इत्यपि द्रष्टव्यम् । इति शब्दा- र्थीयम् ॥ अथ श्रव्यदृश्यीयस्य शब्दार्थीयस्य च विभावनातू व्याकरणनिशायीवार्थ- वाचकत्वाश्रयणान्मीमांसादिसमयातिक्रान्तस्फोटवादान्युपगमान्न्यायादिविस्वादि- व्यञ्जनारोहणाच्च साहित्यमलंकारशास्त्रं काव्यानुशासनं न कस्याप्यनुयायि पुच्छमङ्गं वा भवितुमर्हति, किंतु— 'प्रसत्तेर्यः पात्रं, तिलकमति' यं सूकरचना, य आद्यः साधूनां श्रुतिचुलुकलेह्येन मधुना । यदात्मानो विद्याः, परिणमति यश्चार्थवपुषा, स गुम्फो वाणीनां कविवृषनिषेव्यो विजयते ॥' इत्येवमादिनिरूपितलिङ्गबलेन प्रधानमङ्गीति सिध्यति । अत एव नयाप्यवोचि— ‘शब्दार्थयोरुक्तिविशेषसत्त्वे लक्ष्येषु काव्यव्यवहारयोगात् । न्यायादिवद् दर्शनकोटिमाप्तं साहित्यमङ्गीति वदन्ति विज्ञाः ॥ साहित्यस्य भामहालङ्कारादयः कतिपये प्रबन्धाः प्रागुक्ताः, (भू० ४४ पृ०) टीकाप्रबन्धा मम्मटसमयदर्शने निर्दिष्टाः, अन्येऽपि यत्र तत्र प्रसङ्गादुपात्ताः । केचिदिह लक्ष्यभूता निरूप्यन्ते— तत्र ध्वनिग्रन्थाः । (१) ध्वनिकारिका । (२) आलोकः । (३) लोचनम् । (४) हृदयदर्पणः । (५) व्यक्तिविवेकः । एते पञ्चापि कश्मीरजन्मानोऽत्यन्तप्रौढाः । वृत्तिप्रकरणानि । (१) कश्मीरवास्तव्यस्य भट्टकल्लटसूनोर्मुकुलस्य अभिधावृत्तमातृका । (२) सुप्रसिद्धराजानक—मम्मटस्य शब्दव्यापारविचारः । (३) दाक्षिणात्यस्य अप्पय्यदीक्षितस्य वृत्तिवार्तिकम् । अस्यैव शिष्यः प्रतीहारेन्दुराज उद्भटालंकारवृत्तिकर्त्ता, य आत्मानं कौङ्कणं िन ल.
अलंकारग्रन्थाः । (१) काश्मीरकस्य राजानक—रुय्य(य)कस्य अलंकारसर्वस्वम् । (२) काश्मी- रकस्य राजानक—जेयरथस्य अलंकारविमर्शिनी । (३) काश्मीरकस्य भट्टशोभाकर- मित्रस्य अलंकाररत्नाकरः । (४) दाक्षिणात्यस्य अप्पय्यदीक्षितस्य चित्रमीमांसा । (५) दाक्षिणात्यस्य पण्डितराज—जगन्नाथस्य चित्रमीमांसाखण्डनम् । नायिकारसप्रकरणानि । (१) रुद्रटस्य शृङ्गारतिलकम् । मैथिलस्य भानुदत्तमिश्रस्य (२-३) रसमञ्जरी- रसतरङ्गिण्यौ । (४) शिवरामत्रिपाठिनो रसरत्नहारः । कतिपयविचारप्रकरणानि । (१) काश्मीरकस्य राजानक—रुय्यकस्य सहृदयलीला । (२-४) काश्मीरक- स्य व्यासदासापरनाम्नः क्षेमेन्द्रस्य कविकण्ठाभरणसुवृत्ततिलकाौचित्यविचारचर्चाः । (५) राजशेखरस्य काव्यमीमांसा । (६) जैनयोररिसिंहामरचन्द्रयोः काव्यकल्प- लतावॄत्ती । (७) देवेश्वरस्य कविकल्पलता । (८) पर्वतीयस्य विश्वेश्वरपण्डिते- न्द्रस्य कवीन्द्रकर्णाभरणम् । साहित्यग्रन्थाः । (१) धारापतेर्भोजदेवस्य सरस्वतीकण्ठाभरणम् । (२) महामाहेश्वरस्य एकावलीशास्त्रम् । (३) दाक्षिणात्यस्य विद्यानाथस्य प्रतापरुद्रीयम् । (४) केशव- १. अस्यैव महापण्डितस्य शिष्यो राजानक-मङ्खक-महाकविर्विलेतेन कृतस्य श्रीकण्ठचरितस्य पञ्चविंशतित्तमां व्यक्तम्. २. अयमेव जयरथ आचार्याभि- नवगुप्तकृतस्य श्रीतन्त्रालोकमहार्णवस्य कर्णधारो जज्ञे. ३. अयं महानुभावो वेदान्त- कल्पतरु-परिमलादिकर्त्ता । उक्तं चानेन-‘कणभक्षपक्षक्षपकक्षपरिकरणक्षणक्षतत्रादक्ष- गिरम् । अनिकेशतर्कशतधुक्षिताक्षिपतङ्गपक्ष्मनक्षमपदम् ॥ कपिलोक्तिनिराकरणप्रवण- कृतपन्नगदूक्तिपरिष्करणम् । नयमौक्तिकभूषितभट्टमतं विमलाशयचित्तुखमधिशियम् ॥ महतामपि मान्यतमं विदुषां विनिवेश्य गुरुं (श्रीरङ्गराजदीक्षितं) हृदि वैश्वजितम् । नयसंहतिशालिनि कल्पतरौ विवृतश्चरणः प्रथमः प्रथितः ॥' इत्यादि. ४. अनेनैव सिद्धान्तकौमुदीव्याख्यायाः प्रौढमनोरमायाः खण्डनरूपं मनोरमाकुचमर्दनं निरमायि । उक्तं च तदारम्भे—'लक्ष्मीकान्तपदाम्भोजनाम्य श्रेयसां पदम् । पण्डितेन्द्रो जगन्नाथः स्तौति गर्वं गुरुद्रुहा (भट्टोजिदीक्षितानाम् )' इत्यादि. ५. काव्यकल्पलता-कविकल्पलते श्लोकरचनाप्रकारदर्शिके. ६. कवीन्द्रकर्णाभरणं बौद्धस्य धर्मदासस्य विदग्धमुखमण्डन- मप्यतिशेते. ७. अस्यैकावलीनाम्नोऽलंकारशास्त्रस्योपरि सुप्रतिष्ठाना कोलाचलमल्लिनाथ- सूरीणां तरलाख्या व्याख्या वर्त्तते । अत्रोदाहरणनायकः कलिङ्गेश्वरो नृसिंहभूपः । नृसिंहवर्णनश्लोका अत्रत्याश्चित्रमीमांसायामुदाहृताः. ८. कोलाचलमल्लिनाथसूरिसूनुना कुमारस्वामिनामोपाधिना कृता प्रतापरुद्रीयस्य रत्नापणाख्या व्याख्या । अत्रोदाहरणनायकः काकतीयकुलोत्तंसो रुद्रभूपालः प्रसिद्धः.