षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
२४ सिद्धान्तमुक्तावली । मायिकमिति हि मायावादिनः । सगुणं गुणकार्यमिति साङ्ख्याः । कार्यं द्व्यणुकादि- क्रमेणेश्वरकार्यमिति नैयायिकाः । स्वतन्त्रं न कदाचिदनीदृशं जगदिति मीमांसकाः । चकारेण वेदबाह्यमतानि सङ्गृह्यन्ते ॥ ४ ॥ तानि मतानि श्रुतिबलेनैव निराकृतानि सन्तीति नात्र पार्थक्येन निराकरणीयानि, स्वमतनिरूपणेनैव निराकरणसम्भवादित्याशयेन स्वसिद्धान्तमाहुः तदेवेति । तदेवैतत्प्रकारेण भवतीति श्रुतेर्मतम् । द्विरूपं चापि गङ्गावज्ज्ञेयं सा जलरूपिणी ॥ ५ ॥ माहात्म्यसंयुता नृणां सेवतां भुक्तिमुक्तिदा । मर्यादामार्गविधिना तथा ब्रह्मापि बुध्यताम् ॥ ६ ॥ ‘स हैतावानास’, ‘सर्वं खल्विदं ब्रह्म, तज्ज्ला’नित्यादिश्रुतिभ्यः तथेत्यर्थः । एक- स्यैवाक्षरस्योक्तं द्विरूपत्व दृष्टान्तेनोपपादयन्ति द्विरूपमिति । प्रपञ्चतद्भिन्नरूपाभ्यां द्विरूपं तद्ब्रह्म गङ्गावज्ज्ञेयम् । अस्ति गङ्गायां त्रिरूपत्वम् । आधिभौतिकं जलरूपमेकम्, यद्दृष्टघातपाभ्यां वृद्धिह्रासौ भजते, सर्वव्यवहारयोग्यं च । अग्रिमा द्वितीयाध्यात्मिकी तीर्थरूपा, योद्धृतजलाविशेषेऽपि मर्यादामार्गसम्बन्धी यो विधिस्तेन तत्रैव स्नानपूजा- श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः । तर्हि तानि स्वमतबोधनाय तत्स्थापनाय च दूष्याणीत्याकाङ्क्षायामग्रिममवतारयन्ति तानीत्या- दि । श्रुतिबलेन निराकृतानीति । श्रुतितात्पर्यप्रकाशनेन भाष्ये प्रपञ्चेन निराकृतानि । इदं यथा तथाविरोधाध्यायभाष्यप्रकाशादवगन्तव्यम् । व्याकुर्वन्ति स हैतावा’नित्यादि । अत्र प्रथमा श्रुतिर्बृहदारण्यके पुरुषविधब्राह्मणे । द्वितीया छान्दोग्ये शाण्डिल्यविद्यायाम् । आदिपदेन ‘यथा प्रदीप्तात्पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः, तथा अक्षरा- द्विविधाः सौम्य भावाः प्रवर्त्तन्ते । तत्र चैवापियन्ती’ति मुण्डकश्रुतिः संगृह्यते । तेन बह्वीषु श्रुतिष्वक्षरस्यैव प्रपञ्चप्रकारेण भवनस्य निरूपणात्, नृसिंहोत्तरतापनीयेऽप्युक्त- वाक्योपसंहारे अविद्याया नानाविधक्षेत्रदर्शकतस्य परमात्मन एव जगद्योनित्वस्य च निगमनान्न श्रुतीनामितरेतरविरोध इति पूर्वोक्तं सर्वमक्षुण्णमित्यर्थः ॥ ४½ ॥ एवमवान्तरप्रमेयं निरूप्य तस्य बालबोधनार्थं सार्धकारिकया वैशद्यं कुर्वन्तीत्याशये- नाग्रिममवतारयन्ति एकस्यैवेत्यादि । व्याकुर्वन्ति प्रपञ्चेत्यादि । मूले चकारोऽनुक्तसमुच्चा- यक इत्याशयेनाहुः अस्तीत्यादि । अग्रिमेति । माहात्म्यसंयुतेत्यादिग्रन्थेनोक्ता । तत्सत्त्वे मानमाहुः योद्धृतेत्यादि । उद्धृतजलाविशेषेऽपीति । प्रवाहादुद्धृतं यज्जलं तस्य प्रवाहज- लाद्विशेषेऽपि प्रवाहजलसाम्येऽपि । तत्रैवेति । प्रवाह एव न तूद्धृतजले । तथा च यदि तीर्थरूपातिरिक्ता न स्यात्, तदा देशान्तर उद्धृतजलस्नानादिनापि तत्तीर्थस्नानफलं स्मर्येत, तन्तु न दृश्यत इति तीर्थरूपा जलरूपाद्भिन्नैवेत्यर्थः । दार्ष्टान्तिके सङ्ग-
[Header: श्रीमद्विठ्ठलेश्वरविरचितविवृतिसमेता । २५]
दिभिः फलदा। एवमेव प्रपञ्चतद्भिन्नरूपमप्येकमेव तदक्षरं ब्रह्मेति तथा बुध्यतामित्यर्थः ॥ ५।६॥ आधिदैविकं रूपमाहुः तत्रैवेति । तत्रैव देवतामूर्तिर्भक्त्या या दृश्यते क्वचित् । गङ्गायां च विशेषेण प्रवाहाभेदबुद्धये ॥ ७ ॥ प्रत्यक्षा सा न सर्वेषां प्राकाम्यं स्यात्तथा जले । विहिताच्च फलात्तद्धि प्रतीत्यापि विशिष्यते ॥ ८ ॥ यथा जलं तथा सर्वं यथा शक्ता तथा बृहत् । यथा देवी तथा कृष्णस्तत्राप्येतदिहोच्यते ॥ ९ ॥ जगत्तु त्रिविधं प्रोक्तं ब्रह्मविष्णुशिवास्ततः । देवतारूपवत्प्रोक्ता ब्रह्मण्यीत्थं हरिर्मतः ॥ १० ॥ कामचारस्तु लोकेऽस्मिन् ब्रह्मादिभ्यो न चान्यथा । परमानन्दरूपे तु कृष्णे स्वात्मनि निश्चयः ॥ ११ ॥ अतस्तु ब्रह्मवादेन कृष्णे बुद्धिर्विधीयताम् । उक्तद्विरूपायां गङ्गायामेव देवतारूपा सा तद्भिन्नास्तीत्यर्थः । तत्र प्रमाणमाहुः मूर्तिरिति । भक्त्यैव, न तु मर्यादामार्गविधिनोपासनयेत्यर्थः । तदपि क्वचिदेव, भक्त्युद्रे- कदशायामेव । अथवा । यत्र क्वचिद्ब्रह्मादिष्वपीत्यर्थः । भक्तविशेषे विशेषमाहुः गङ्गाया- मिति । देवतारूपायां गङ्गायां भक्त्युद्रेकेण दृश्यमानप्रवाहादभिन्नत्वेन यस्य बुद्धिस्तस्मै
श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः । मयन्ति एवमेवेत्यादि । प्रपञ्चतद्भिन्नरूपमिति । प्रपञ्चश्च तद्भिन्नं च प्रपञ्चतद्भिन्ने ते रूपे यस्य तत् । (न चात्र बहुव्रीहिणा रूपिणस्तुत्यत्वं शङ्क्यम् । एकादशव्यूहो रुद्र इति वत्तदुपपत्तेः ।) तथा बुध्यतामिति । वृद्धिह्रासभाववत्तद्राहित्यपूर्वकमाहात्म्ययुक्तत्वाभ्यां बुध्यताम् । तथा चाक्षरोपासनया यत्फलम्, न तत्प्रपञ्चोपासनयेति तयोरैक्येऽप्येवं भेद इत्यर्थः । मूले सेवेतामिति शतुरनुदात्तेल्लक्षणस्यात्मनेपदस्य चक्षिङो ङित्करणाज्ज्ञापकादनि- त्यत्वेन बोध्यः । 'त्वां सेवतां सुरकृता बहवोन्तराया' इत्यादिपुराणप्रयोगाच्च ॥ ५,६ ॥ एवमवान्तरप्रमेयरूपमक्षरं दृष्टान्तेन बोधयित्वा मुख्यप्रमेयस्य पुरुषोत्तमस्य कृष्णस्य सर्वसामर्थ्यं सर्वत्र व्याप्तिं च बोधयितुं सपादकारिकां वदन्तीत्याशयेनाग्रिमभवतारयन्ति आधिदैविकमित्यादि । व्याकुर्वन्ति उक्तेत्यादि । प्रत्यक्षा भवतीत्यर्थ इत्यन्तम् । अनेन व्याप्तिरुक्ता । तत्र प्रमाणमिति । प्रवाहेतीर्थातिरिक्तदेवतासत्त्वे प्रमाणम् । मूर्तिरिति । भीष्मादिमातृत्वेन भगीरथदृष्टत्त्वादिना पुराणप्रसिद्धशरीरयुक्ता । तेन शब्दः प्रमाण- मित्युकम् । प्रत्यक्षविशेषस्यापि तत्र प्रामाण्यमाहुः भक्त्येत्यादि । (अयमर्थः । अंशुमद्दिलीपाभ्यां बहुकालं तपःकरणेपि गङ्गा न प्रत्यक्षाऽभूत् । भगीरथस्य तु प्रत्यक्षा प्रसन्ना वरदास्मीत्यु- वाचेति भगीरथतपसि भक्तिविशेषसाहित्यमेव सुमहत्सु महत्त्वम् । अत एव ब्रह्मवैवर्तखण्डे 'भगीरथस्त्वस्य पुत्रो महाभागवतः सुधीः । वैष्णवो विष्णुभक्तश्चे'ति विशेषणमुक्तम् ।
४ सि० मु०
गङ्गायां प्रवाहमध्य एव ( देवतारूपा गङ्गा ) प्रत्यक्षा भवतीत्यर्थः । एतेन प्रपञ्चमध्य एव भगवदाकारभगवद्भक्तयोर्दर्शने भगवति स्नेहातिशयेन तत्र भगवदभेदबुद्धये तत्र भगव- त्प्राकट्यं भवतीति भावः सूच्यते । अग्रिमव्यवस्थामाहुः प्राकाम्यमिति । स्वाभीष्टसर्व- स्वरूपायाः स्थानभूतत्वेन ज्ञानात्तज्जले सर्वत्रानिषिद्धयथेष्टव्यवहारः स्यादित्यर्थः । एवमेवो- क्तप्रकारकभगवद्दर्शने सर्वत्र तद्भावः स्फुरतीति भावः । विहितेति । भक्त्या गङ्गादर्श- नानन्तरं प्रवाहरूपाया अपि दर्शनं विहितात्स्वर्गापवर्गरूपात्फलाद्विशिष्यते । तद्धृदीत्यर्थः । यद्वा । येषां न प्रत्यक्षा, तेषामपि तया देवतारूपया सा तत्रास्तीति तत्सम्बन्धानुभा- वेनैव तज्जले प्राकाम्यं प्रकृष्टकामविषयत्वं श्रद्धाविशेषपूर्वकस्नानादिव्यवहारो भवतीत्यर्थः । श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः । तस्य च तपस्यत एव प्रकटा बभूव । अतोऽन्यत्रापि तथेत्यर्थः १) मूले भक्तिपदमात्रक- थनात्क्वचित्पद उद्रेकदशारूपविशेषबोधनमयुक्तमिवाभातीत्यरुच्या पक्षान्तरमाहुः अथवे- त्यादि । ननु यदि गृहादिष्वपि गङ्गादर्शनं भक्त्यैव स्यात्, सर्वेषां भक्तानां स्यात्, तत्तु नेति कथमेवमित्याकाङ्क्षायां वदन्तीत्याशयेनाग्रिममवतारयन्ति भक्तविशेष इत्यादि । व्याकुर्वन्ति देवतेत्यादि । प्रवाहमध्य एवेति । प्रवाहसम्बन्धिन्येव गङ्गाद्वारादिरूपे क्वचिद्देशे । मूले गङ्गायां चेति । चोऽवधारणे । विशेषपदस्यार्थष्टीकायां भक्त्युद्रेक- पदेन विवृतोऽवगन्तव्यः । एतावत्कथनप्रयोजनमाहुः एतेनेत्यादि । एतेनेति । भौतिक्यां गङ्गायामेवाधिदैविकगङ्गास्वरूपप्राकट्यबोधनेन । तत्रेति । भगवदाकारे भगवद्भक्ते च । अग्रिमव्यवस्थामिति । आधिदैविकरूपस्थितिकार्यम् । प्राकाम्यमिति । प्राकाम्यं बाहुल्यम् । 'प्रकामसुभगत्वाद्गात्रसंश्लेषत' इत्यादिप्रयोगदर्शनात् । तदत्र किं विवक्षितमि- त्याकाङ्क्षायां विवृण्वन्ति स्वाभीष्टेत्यादि । तथा च तादृग्भक्तप्रत्यक्षया तया गङ्गया कृत्वा तज्जले भक्तस्यानिषिद्धव्यवहारबाहुल्यरूपं प्राकाम्यं स्यादित्यर्थः । एतत्कथन- प्रयोजनमाहुः एवमित्यादि । अग्रिमार्धं व्याकुर्वन्ति भक्त्येत्यादि । तथा चैवं भगवतः कृष्णस्य साक्षात्कारानन्तरं ज्ञानफलान्मोक्षादपि प्रपञ्चे सर्वत्र भगवदधिष्ठानत्वरूपेण ज्ञानं विशिष्यत इति भावः । मूले चोप्यर्थे । तदिति, गङ्गादर्शनम् । हिर्निश्चये । यथा- तथापदयोरध्याहारः । तथा च हि निश्चयेन तत्तादृशभक्त्या गङ्गादर्शनं विहितादपि फलात्प्रतीत्यापि यथा विशिष्यते, तथा तया जले प्राकाम्यं स्यादिति मूलयोजना । अस्मिन् व्याख्यानेऽध्याहारादिदोषादरुच्या प्रकारान्तरेण व्याकुर्वन्ति यद्वेत्यादि । अस्मिन्पक्षे प्राकाम्यं नाम प्रकृष्टः कामः प्रकामस्तस्य कर्म । 'गुणवचनब्राह्मणादिभ्यः कर्मणि चे'त्यनेन 'भावे कर्मणि चे'त्यर्थद्वयेऽनुशासनादत्र कर्मणि ष्यञ् । तदेव विवृतं प्रकृष्टेत्यादिना । तथाच यथा तयैवं तथा प्रपञ्चेऽपि यत्र भगवत्सम्बन्धानुभवः, तत्र भगव- त्स्वरूपे गुर्वादौ च श्रद्धापूर्वको व्यवहारः श्रद्धालुनामिति भावः । अग्रिमं विवृण्वन्ति १ तथा । देवतारूपा सेति पाठः ।
किञ्च । पुराणादिषु तज्जलदर्शनादिभिः फलं यदुक्तं तदनुभवेन महतामन्तःकरणप्रतीत्यापि तज्जलमन्येभ्यो जलेभ्यो विशिष्यत इत्यर्थः । एवं येषां हृदि भगवत्सांनिध्यं ते भक्ता अन्येभ्यो विशिष्यन्ते । अत एव 'मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चन'मिति भगवतोक्तम् । (एवं दृष्टान्तदार्ष्टान्तिकयोः साधर्म्यं निरूप्य उक्तमर्थं स्पष्टयन्ति यथा जलमित्यादिना । तत्रापीति । साधर्म्येपि । एतदिति । किञ्चित्तारतम्यम् । इह प्रपञ्चरूपे, दृष्टान्ते त्रि- विधत्वाभावात् अत उच्यते ।) जगत्त्विति । त्रिविधं त्रिगुणात्मकं त्रिस्वभावत्वेन प्रकटं,
श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः ।
किञ्चेत्यादि । दार्ष्टान्तिके योजयन्ति एवमित्यादि । अत्र प्रमाणमाहुः अत एवेत्यादि । अन्येभ्यो भगवदीयानामाधिक्यादेवैकादशस्कन्धे स्वचिह्नस्वभक्तयोर्दर्शनादिकं भक्ति- कारणमध्ये गणितम्, अतस्तथेत्यर्थः । एवं बालान् यत् बोधयितुं दृष्टान्त उक्तो 'द्विरूपं चापी'त्यादिना, तत्र तत्तत्कार्यप्रयोजकता न तयोः, किन्त्वाधिदैविकस्यैवेति बोधितम् । तदेतन्निगमयन्ति मूले यथा जलमित्यादिपादत्रयेण । मूले सर्वमिति, प्रपञ्चः । शक्तेति, समर्था । देवीति, मूर्तिमत्याधिदैविकी । तथा च दृष्टगङ्गाकानां यथा जले तत्स्थानत्वज्ञानादनिषिद्धयथेष्टव्यवहारः, यथा च तीर्थदर्शनेऽन्यस्मादाधिक्यज्ञानविशेषो जलेन तीर्थरूपेण च भवति, तथा दृष्टभगवत्कानां भगवत्स्वरूपगुर्वादिभिः सर्वत्र प्रपञ्चे प्राणिमात्रे भगवद्भावस्फूर्तिः, अक्षरेण च ज्ञानिमोक्षादप्यधिकभगवद्धामत्वादि- रूपाक्षरज्ञानात्मकं फलं भवति । अदृष्टगङ्गाकानां च श्रद्धाळूनां यथा जलेन श्रद्धापूर्वकः स्नानादिव्यवहारः, तीर्थेन च जलेऽन्येभ्य आधिक्यज्ञानं फलं क्रमेण भवति, तथै- वादृष्टभगवत्कानां श्रद्धाळूनां भगवत्स्वरूपादौ श्रद्धापूर्वकः सेवादिव्यवहारः, अक्षरे च ज्ञानिमोक्षादाधिक्येन भगद्धामत्वस्य परोक्षज्ञानं भवतीत्यर्थः संपद्यते । ननु 'आध्यात्मिकस्तु यः प्रोक्त' इति द्वितीयस्कन्धवाक्ये एकस्यैवाधिभौतिकाभिमानेन तन्नियमनेन च यथायथमाध्यात्मिकत्वमाधिदैविकत्वं च सिद्धम्, न तु तयोः स्वरूपभेद इति कथमयं दृष्टान्त उपपद्यत इयत आहुः मूले तत्रापीत्यादि । तत्रापि आधिदैविक- दृष्टान्तविचारेऽपि, एतद्दृश्यमाणं, इहास्मत्सिद्धान्ते, उच्यत इत्यर्थः । एवं प्रतिज्ञाय तदाहुः जगदित्यादि । तदेतद्विवृण्वन्ति त्रिविधमित्यादिना । त्रिगुणात्मकमिति । 'आसीज्ज्ञानमयो ह्यर्थ' इत्येकादशस्कन्धीयचतुर्विंशे पञ्चमे सन्दर्भे भगवत्कार्यत्वेन सिद्धाः 'सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रय' इत्यत्र द्वितीयस्कन्धवाक्यसुबोधिन्यां सच्चिदानन्दमूलत्वेन ये व्याख्याताः सत्त्वादयो गुणास्तदात्मकम् । तत्र गमकं त्रिस्वभावत्वेन प्रकटमिति ।
१. एवं दृष्टान्तदार्ष्टान्तिकयोरुक्तमपि साधर्म्यं यत्र यदंशेन तत्र तथा स्पष्टयन्ति यथा जलं तथा सर्वमिति । तत्राप्येतदिहोच्यत इति । तत्रापि साधर्म्येपि । एतज्जगत् तु त्रिविधमित्यारभ्य न चान्यथेत्यन्तेन वक्ष्यमाणं किञ्चित्तारतम्यम् । इह प्रपञ्चरूपे तदृष्टान्तगङ्गाजले त्रिविधत्वाभावात् अत उच्यत इत्यर्थः । जगदिति पाठान्तरं पुस्तकद्वये । क्वचित् पाठद्वयमपि मूले नास्ति ।
२८ सिद्धान्तमुक्तावली । तेन तद्गुणनियामकत्वेन ब्रह्मादयो भगवतैव कृता इत्यर्थः । ब्रह्मैकरूपमिति तन्निष्ठानां नियामको हरिरवे । ये तु भगवद्भक्तास्तेषां स्वात्मनि स्वात्मविषये ऐहिके पारलौकिके चार्थे श्रीकृष्ण एव कामचार इत्यर्थः । सर्वत्र नियामकः स एवेति भावः । अथवा । भक्तानां श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः । 'तत्र सत्त्वं निर्मलत्वा'दिति गीतोक्तलक्षणको यो बन्धकत्वस्वभावो गुणानां, तेन स्वभावेन प्रकटम् । मूले प्रोक्तमिति । भगवच्छास्त्रे, ब्रह्मसूत्रभाष्ये च । तेन हेतुना तत्तद्गुणनि- यामकत्वेन ब्रह्मादयो भगवता सर्वान्तर्यामिणा सर्वनियामकत्वेन कृताः । ततः तस्मा- ज्जगत्त्रैविध्यादेव हेतोः देवतारूपपदाधिदैविकत्वेन कूर्मादौ 'लीलया परमेश्वरा ' इत्येवं प्रोक्ताः । वस्तुतस्तु भगवानक एव नियामक इत्यर्थः । तथा च तेषां गुणाभिमा- नित्वे 'गुणाभिमानिनो देवाः सर्गादिष्वस्य यद्भयात् । वर्तन्तेऽनुयुगं येषां वश एतच्चराचर' मित्युक्तं कालभयम् । गुणावताराणां तु त्रिविधेषु पुराणेषु प्रकृतिपुरुषनियामकतया प्रसिद्धानां न तत् । ते गुणाभिमानितो भिन्ना एव । अतो यथा 'द्वा सुपर्णा'इत्यादौ जीवान्तर्यामिणोः कचिद्भेदः, कचिच्च 'तदनुप्रविश्य सच त्यच्चाभव'दिति प्रविष्टस्यैव कार्य- भेदेन जीवान्तर्यामिभाव इति कल्पभेदेनोभयम्, तथा च यस्मिन्पक्षे भेदस्तं पक्षमादाय दृष्टान्त उपपद्यत इति भावः । एवं दृष्टान्तं व्याकृत्य ब्रह्मण्येत्थं हरिमैत इति दार्ष्टान्तिकं व्याकुर्वन्ति ब्रह्मैकेत्यादि । तथाच मुण्डके पुरुषाक्षरयोः परापरभावस्य श्रौतत्वादक्षर- नियामकत्वं मूलपुरुषे सिद्धम्, तस्य कृष्णत्वं च तापनीये, अतस्तथेति । तन्निष्ठानां नियामको हरिरवे मतो युक्त्यानुचिन्तित इत्यर्थः । नन्वेवं सति देव्या यथा रूपद्वय- नियामकतामात्रम्, न तु भक्तं प्रति स्वतः किञ्चित् फलम्, तथा कृष्णाद्भगवतोऽपीति तत्सेवा कुत उपदिष्टेति शङ्कोत्तिष्ठति, तन्निवृत्त्यर्थमाहुः मूले कामचार इति । तुः उक्त- शङ्कानिरासे । अस्मिन् लोके त्रिविधे जगति, ब्रह्मादिभ्योऽधिष्ठातृभ्यः, कामचारः काम इच्छा उपासकादीनां तेन चारः चरणम्, 'चर गतिभक्षणयोः', तत्तल्लोकविषयिणी प्राप्ति- र्भोगो वा । न चान्यथा । च पुनः, अन्यथा ब्रह्मादिभ्यो विना, न तत्कामविरुद्धप्रकारेण च न, किन्तु तदिच्छाप्रकारेणैव । यथा भवतीति दृष्टान्तदार्ष्टान्तिकप्रकरणबलादध्याहार्यम् । तु पुनः । तथा स्वात्मनीति तादर्थ्ये सप्तमी, 'चर्मणि द्वीपिनं हन्ती'त्यादिवत् । तथा च स्वस्य भक्तस्यात्मविषयेऽर्थे । परमानन्दरूपे नित्यनिरवधिसुखरूपे । भूम्नि कृष्ण एव, न तु लोकादौ कृष्णात् निश्चयपूर्वककामचार इत्यर्थः । तदेतद्व्याकुर्वन्ति ये त्वित्यादि । अत्र निश्चयपदं कामचारपदेन विवृतम् । तेन यौगिकं तदिति बोधितम् । तथा च निष्क्रान्तश्च- यात् निश्चयः । चयो हि बहूनामेकीकरणम् । तेन बहूनां कामानामेकीकरणरूपाच्चयान्नि- ष्क्रान्तः । परमानन्दकृष्णैकनिष्ठतया तदेकविषयकः कामचार इत्यर्थः सिध्यति । 'रूढियों- गमपहरती'त्यरुच्या निश्चयपदं प्रकारान्तरेण व्याकुर्वन्ति अथवेत्यादि । अस्मिन्पक्षे स्वात्म- नीति कृष्णपदविशेषणम् । निश्चयपदमेककोटिकत्वाच्छङ्काविरुद्धज्ञानार्थकम् । तद्विषयत्वेन
स्नेहातिशयेन स्वात्मत्वेनैव प्रभुः स्फुरतीति सर्वांशेन तत्प्रार्थने शङ्का न भवतीत्यर्थः॥११॥ अथ जीवस्वरूपं तन्मुक्तिप्रकारं चाहुः आत्मनीति । आत्मनि ब्रह्मरूपे तु छिद्रा व्योम्नीव चेतनाः ॥ १२ ॥ उपाधिनाशे विज्ञाने ब्रह्मात्मत्वावबोधने । गङ्गातीरस्थितो यद्वद्देवतां तत्र पश्यति ॥ १३ ॥ तथा कृष्णं परं ब्रह्म स्वस्मिन् ज्ञानी प्रपश्यति । संसारी यस्तु भजते स दूरस्थो यथा तथा ॥ १४ ॥ अपेक्षितजलादीनामभावात्तत्र दुःखभाक् । तस्माच्छ्रीकृष्णमार्गस्थो विमुक्तः सर्वलोकतः ॥ १५ ॥ आत्मानन्दसमुद्रस्थं कृष्णमेव विचिन्तयेत् । लोकार्थी चेद्भजेत्कृष्णं क्लिष्टो भवति सर्वथा ॥ १६ ॥ क्लिष्टोऽपि चेद्भजेत्कृष्णं लोको नश्यति सर्वथा । आत्मविषय उच्यत इति शेषः । जीवा ह्यणवोऽक्षरात्मकाः, तदात्मकत्वम- श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः । कामचारोन्वेति। तत्प्रार्थन इति, कामचारप्रार्थने । तथा चैवं व्याख्यानद्वयेपि 'सङ्कल्पादेव च तच्छ्रुतेः' 'अत एव चानन्याधिपति'रित्युक्तरीत्या भगवत एव फलं भवतीति तदर्थं युक्त- स्तत्सेवोपदेश इत्यर्थः । तदेतत्सर्वमभिसन्धायोहुर्मूले अतस्त्वित्यादि। अतस्तु उक्तप्रकारेण शङ्काया निरासात् , ब्रह्मवादेन 'सर्वं ब्रह्मैवे'ति श्रीभागवतगीतान्ब्रह्मसूत्रसिद्धेन श्रौतसिद्धान्त- स्थापनेन, कृष्णे परब्रह्मण्येव, बुद्धिरन्तःकरणं, विधीयतां विशेषेण धार्यतामित्यर्थः ॥११३॥ एवमत्र पूर्वोक्तसाधनशेषत्वेन प्रमेय फलं च निरूप्य येषां नैतादृशसाधनाधिकारः, तेषां कथं, का च फलसिद्धिरित्याकाङ्क्षायां वदन्तीत्याशयेनाग्रिमभवतारयन्ति अथेत्यादि । अथेति, मुख्यसाधनप्रकरणोक्त्यनन्तरम् । तेनास्मिन्प्रकारे जीवस्वरूपज्ञानमावश्यकम्, न तु पूर्वोक्तप्रकारे । तत्र शरीरविशिष्टजीव एव भगवद्दासत्वज्ञानस्यैवापेक्षितत्वादिति बोधि- तम् । जीवस्वरूपमिति । बद्धजीवस्वरूपम् । व्याकुर्वन्ति आत्मविषय इत्यादि । तेना- त्मनीति भिन्नं वाक्यमिति बोधितम् । अत्र मूले पाठद्वयम् । 'ब्रह्मरूपे तु छिद्रा व्योम्नीव चेतना' इत्येकः । 'ब्रह्मरूपे ही'त्यपरः । तत्र प्रथमे तोः प्रकरणभेदकत्वमनुसन्धाय टीकायां प्रकरणभेदप्रतिज्ञा व्याख्यातेति ज्ञायते । द्वितीये तु विषयभेदादेव प्रकरणान्तरावगतिः। हिर्हेतौ, ब्रह्मरूपे ब्रह्मांशत्वेन ब्रह्मात्मके प्रकृतत्वादात्मनि चेतनाः बुद्धयः, 'प्रतिपतृज्ञसिचेतना' इति १. 'ब्रह्मरूपे साकारब्रह्मस्वरूपे चेतना बुद्धिवोंके ब्रह्मस्वरूपे अविद्यांशभूताभिः बुद्धिभिरिव भेदप्र- तीतिः । पुरञ्जनोपाख्याने 'बुद्धिं तु प्रमदां विद्यात् ममाहमिति यत्कृत'मिति वाक्येन अविद्यावृत्तिरूपाणां तासामेव ब्रह्मप्रदेशावच्छेदकत्वात्, जीवपक्षे तूत्पत्त्या विचारे 'बहु स्या'मिति इच्छेव करणादंशांशिभावमभि- प्रेत्य जीवस्वरूपं (व्या) कुर्वन्ति' इति 'ब्रह्मरूपे-जीवा ही'त्यत्र पाठान्तरम् ।
विद्ययान्तरायभूतया न विदन्ति । तेन संसारमापद्यन्ते । इदमेवोपाधिरूपत्वं तस्याः, न तु तत्कृतं जीवत्वम् । अणुत्वबोधनार्थं दृष्टान्तः । व्योम्नि यथोपाधिभिः क्षुद्रैः छिद्रा इव श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः । कोशात् ताः जीवानां संसारित्वापादकोपाधिभूता इति शेषः । पुरञ्जनोपाख्याने 'बुद्धिं तु प्रमदां विद्यान्ममाहमिति यत्कृत'मिति वाक्यात् । तदेतट्टीकायां विशदीकुर्वन्ति जीवा हीत्यादि । हिर्हेतौ । यतो हेतोः जीवाः निबन्धे 'तदिच्छामात्रतस्तस्माद्ब्रह्मभूतांशचेतना' इत्यत्र ब्रह्मभूताः, न तु योगबलेनाविर्भाविताः, अंशाः साकाराः सूक्ष्मपरिच्छेदाः चेतनाः चित्प्रधाना इति व्याख्यातत्वात्, श्रुतौ च बुद्धेर्गुणेनाङ्गुष्ठमात्रत्वमुक्त्वान्ते 'आत्मगुणेन चैव' 'आराग्रमात्रो ह्यपरोपि दृष्ट' इत्यादिकथनात् 'ममैवांशो जीवलोके' 'एकस्यैव ममांशस्ये'त्यादि- स्मृते'रंशो नानाव्यपदेशा'दिति सूत्राच्चांशत्वेन सिद्धाः । 'उत्क्रान्त्यादि'सूत्रैरणुत्वस्य साव- नाच्चाणवोऽणुपरिमाणाः, अक्षरात्मकाः । एवं जीवस्वरूपमुक्तम् । अतःपरं तेषां मोक्षं वक्तुं ब्रह्मरूपे छिद्रा व्योम्नीवेति यद्दृष्टत्वमुक्तं तद्व्युत्पादयन्ति तदात्मकत्वमित्यादि । तदात्मकत्वं ब्रह्मात्मकत्वम् । अविद्यया 'एकस्यैव ममांशस्य जीवस्यैव महामते । बन्धोस्याविद्ययाना- दि'रिति भगवद्वाक्ये बन्धकत्वेनोक्त्या ब्रह्मशक्त्या, 'न तं विदाथे'तिश्रुतावज्ञानजनकत्या- न्तरशब्देनोक्तत्वादन्तरायभूतया स्वात्मानं ब्रह्मात्मकं न विदन्ति, तेन संसारं'महं ममे'त्य- भिमानरूपमापद्यन्ते । इदं संसारापादकत्वमेव तस्या अविद्याया उपाधिरूपत्वम् । प्रयो- जको ह्युपाधिरित्युच्यते । अतः संसारप्रयोजकत्वमेव तथात्वम् । तु पुनस्तत्कृतं जीवत्वम् न, तया दोषरूपया, आभासनेन वा, तस्यां प्रतिबिम्बेन वा, तयाऽवच्छेदकेन वा प्रयुक्तं जीवत्वं न, आभासप्रतिबिम्बपक्षे तत्स्वरूपस्याब्रह्मत्वप्रसङ्गात् । अवच्छेदनस्यापि अंशत्व- कथनोत्तरं बन्धस्मरणेन व्युच्चरणोत्तरभावित्वनिश्चयात् । 'तज्जीवो नमोपम' इति श्रौतो- पमाया अपि 'घटो लीयेत नाकाश'मित्यनन्तरमुक्ततया लयाभावमात्र एव पर्यवसितत्वस्य अग्रिममन्त्रे जलचन्द्रदृष्टान्तेन तस्य चांशप्रवेशप्रयुक्तत्वेनापि निश्चयादित्यर्थः । तर्हि व्योमच्छि- द्रदृष्टान्तः किमित्युक्त इत्याकाङ्क्षायां तदेतद्बोधयितुं दृष्टान्त इत्याहुः अणुत्वेत्यादि । नन्वणुत्वं चेद्बोधनीयं स्यात्, 'विस्फुलिङ्गा' इवेत्युक्तं स्यात्, नत्वेवमित्यत उपपादयन्ति व्योम्नीत्यादि । उपाधिभिरिति तितउप्रभृतिभिः । छिद्रा इवेति । 'छिद्र भेदन' इति धातोर्भावे घञि, 'छिदिर् द्वैधीकरण' इत्यतो धातोर्वा 'स्फायी'ति रकि कृते छिद्रपदं रन्ध्रवाचकं सिध्यति । तदत्र नाभिप्रेतम् । किन्तु 'पुंसि संज्ञायां घः प्रायेणे'त्यत्र प्रायोग्रहणात्, संज्ञाभावेपि छिद्यतेऽनेनेति योगाच्छिद्रकरणवाचकमभिप्रेतम् । अथवा 'छेदनं छिदि'ति संपदादि- किपि 'आतोनुपसर्गे क' इति कं च कृत्वा छिदं रान्ति ददतीति छिद्रा इत्येवं द्वैधीकरणदायि- वाचकमभिप्रेतम् । तथा च व्योम्न्याकाशे तितउप्रभृतिभिराकाशात् क्षुद्रैरुपाधिभिरवकाश- भेदप्रयोजकैः छिद्रा इव रन्ध्राणीव भेददायकाः क्षुद्रत्वादयोऽवास्तवाः प्रतीयन्ते, तथा ब्रह्मरूपे सुवर्णशकलवद्ब्रह्मात्मके आत्मनि जीवे अविद्यांशभूतैरन्यथाबुद्धिभिश्चेतनाख्यैः
श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । ३१ प्रतीयन्ते, तथात्मनि क्षुद्रत्वादयो धर्माः प्रतीयन्ते, न तु ब्रह्मधर्मा इति बोधनार्थं च । तेषां मध्ये यं जीवं येन प्रकारेण प्रभुरुद्दिधीर्षुर्भवति, तत्प्रकारकगुरूपदेशादिभिरवि- द्यालक्षणोपाधेर्ब्रह्मात्मकत्वावबोधनप्रतिबन्धकस्याविद्यात्मकस्य नाशे ब्रह्मात्मकत्वावबोधन- -लक्षणे विज्ञानेऽनुभवे सम्पन्ने पुरुषोत्तमाविर्भावयोग्यता तस्मिन् जाते स्वात्मनि तं प्रक- र्षेण पश्यतीत्यर्थः तस्य सर्वस्वरूपो हरेरेवेति न तदतिरिक्तमपेक्षते । भजनोपयोग्यर्थापे- क्षायामपि प्रभुर्नैव सर्वं सम्पद्यत इति न कदाचिद्दुःखी भवति । एतज्ज्ञापनाय दृष्टान्तः । यस्तु प्रपञ्चासक्तो गुरूपदेशमात्रेण भजने संसारनिवृत्तिहेतुत्वं ज्ञात्वा भजते, न तु ब्रह्म- भावसम्पत्त्या पुरुषोत्तमाविर्भाववान्, स तु गङ्गातो दूरस्थो यया तां भजते, तत्रापेक्षितत- जलाप्राप्त्या दुःखी भवति, तथा स्वयं भक्तिमार्गस्थ इति साक्षात्स्वरूपसम्बन्ध्यर्थापेक्षायां तदप्राप्त्या क्लेशभाग्भवतीत्यर्थः । तथापि न स भजनं त्यजति, अङ्गीकारात्प्रभोः । अनङ्गी- कारे तु मध्ये भजनप्रतिबन्धेपि कृतभजनवैयर्थ्यासम्भवाज्जन्मान्तरे तत्फलिष्यतीति ज्ञेयम् । श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः । क्षुद्रत्वदुःखित्वात्यन्तभिन्नत्वादयोप्यवास्तवाः प्रतीयन्ते । न तु ब्रह्मधर्माः असङ्गत्वादय इति बोधनार्थं चायं दृष्टान्तः। तथा च यदि स दृष्टान्त उक्तः स्यात्, तदोपाधिकृतो बन्धो न बोधयितुं शक्येत, अतस्तथेत्यर्थः। एतेन तद्बोधितमणुत्वमपि क्षुद्रत्वादिवद्देहपरिच्छिन्नत्व- रूपमेव, न तु वास्तवमिति ज्ञापितम् । वास्तवस्य तस्य व्यापकत्वाविरोधिकत्वात् । एवं बन्धं व्याख्याय मोक्षं वदन्तीत्याशयेनाग्रिमं उपाधिनाश इत्यादिकं सार्धश्लोकं व्याकुर्व- न्ति तेषां मध्य इत्यादि । पश्यतीत्यर्थ इत्यन्तम् । अविद्यालक्षणोपाधेरिति । इदं जीवविशेषणम् । अविद्यालक्षणः स्वस्वरूपविस्मारक उपाधिर्यस्येति । शेषं स्फुटम् । दृष्टान्तोक्तिप्रयोजनमाहुः तस्येत्यादि । अग्रिमश्लोके जघन्याधिकारिणो दुःखभाक्त्व- कथनात्तत उत्तमस्य मर्यादाभक्तस्य ज्ञानपूर्वकं भजतो दुःखाभाव आर्थिकोऽत्र व्याख्यातो ज्ञेयः । जघन्याधिकारिव्यवस्थां वदन्तीत्याशयेन संसारीति श्लोकं व्याकुर्वन्ति यस्त्वि- त्यादि, भवतीत्यर्थ इत्यन्तम् । तर्हि तादृशस्य किं फलं स्यादित्याकाङ्क्षायां 'उभयोस्तु क्रमेणैव पूर्वोक्तेव फलिष्यती'त्यग्रिमग्रन्थानुसन्धानेन फलमाहुः तथापीत्यादि, ज्ञेयमि- त्यन्तम् । अङ्गीकारादिति । सेवाया अङ्गीकारात् । अनङ्गीकारे त्विति । प्रभुणा तत्कृतसेवाया अनङ्गीकारे । अग्रिमं व्याकुर्वन्तस्तत्र तस्मात्पदोक्तस्य हेतोः ( येस्मान्न- ष्टोपाधिर्ज्ञानी स्वस्मिन्भगवन्तं प्रकर्षेण पश्यति, यस्माच्च संसारी तादृशान्तःकरणस्याभावा- न्दुःखी भवतीति ) पूर्वश्लोकद्वयार्थसङ्ग्राहक तया प्रकटार्थत्वादत्रास्फुटोर्थस्तदेव पदं व्याकु- र्वन्ति श्रीकृष्णोत्त्यादि, भगवत्परमित्यन्तम् । मन्मतिरिति । 'रामेण सार्धं मथुरां प्रणीत' इत्यादिभगवद्वाक्येन स्वानुभवेन च तथा निश्चयान्मन्मतिः । भगवत्परमिति । ( १ ) चिह्नन्तर्गतं नास्ति प्रायः ।
३२ सिद्धान्तमुक्तावली । आत्मानन्दसमुद्रस्थमिति । श्रीकृष्णपदात्पुष्टिमार्गीयभक्तप्रकटितनिरवध्यानन्देषु विहरन्त- मित्यर्थः । ते तु व्रजरत्नात्मका इति मन्मतिः । स आनन्दो भगवत्स्वरूपात्मकस्तद्दत्त एव । अत आत्मपदं भगवत्परम् ॥ १३ ॥ १४ ॥ १५ ॥ १६ ॥ स्वस्वरूपज्ञानप्रभुस्वरूपज्ञानाभाववान् भक्तोऽपि पुष्टिमर्यादाभेदेन द्विविधः । उभयोश्चित्तचाञ्चल्याभावायाहुः ज्ञानाभाव इति । ज्ञानाभावे पुष्टिमार्गी तिष्ठेत्पूजोत्सवादिषु ॥ १७ ॥ श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः । स्वप्रतिष्ठस्यैव फलताया भूमविद्यायां सिद्धत्वात्तथाविधतत्परम् । एवमेनेनोपदेशवाक्यं व्याख्यातम् । लोकार्थीति श्लोकस्तु संसारिमध्येऽपि यो जघन्याधिकारी तत्पर इत्युपेक्षितः, परं तत्रायमर्थः । लाभपूजार्थयत्नस्योपधर्मत्वदेवलकत्वादिसम्पादकत्वात्तद्व्यतिरिक्तेनानिषिद्ध- प्रकारेण 'ऐहिकं मे भवत्वि'त्यनुसन्धाय प्रवृत्तो लोकार्थी, तादृशश्चेत्कृष्णं भजेत्, तदा सर्वथा क्लिष्टो भवति, भगवत्प्रियाचार्यमार्गस्थत्वेन तदुपरि कृपया 'यस्यानुग्रहमिच्छामि हरिष्ये तद्धनं शनै'रिति न्यायेन वा, तन्मौढ्येन दुराग्रहादिना भगवदुपेक्षायां दृष्टादृष्टाभ्यां वा सर्वैः प्रकारैर्लौकत एव क्लेशं प्राप्नोति । तत्राद्यस्तु क्लिष्टोऽपि लोकाद्विरज्य चेत् भजेत् कृष्णम्, तदोक्तन्यायेनैव सर्वप्रकारैर्लौको बाह्य आन्तरश्च नश्यति, ततो 'मत्परैः कृतमैत्रस्य करिष्ये मदनुग्रह'मिति न्यायेनेह परत्र वा प्रतिबन्धरहितानुग्रहविषयो भवतीति । अन्यस्तु दुराग्रहादिदोषेण तत्सेवायां प्रभुणा अनङ्गीकारेपि आचार्यदयया 'नैवात्मनः प्रभुरयं निजलाभपूर्ण' इत्युक्तन्यायेन तत्कृतस्य स्वगामित्वेन भजनवैयर्थ्यासम्भवाज्जन्मान्तरे अनु- ग्रहविषयो भवतीति । अत्रैवं मम प्रतिभाति । संसारीत्यस्य व्याख्याने तथापीत्यादिज्ञेयमित्यन्तेन यदुक्तं तदस्यैव श्लोकस्यार्थ इति । तेन संसारी त्रिविधः । संसारनिवृत्तिकामो भक्त एकः । लोकार्थी सेवाग्रही द्वितीयः । सेवानाग्रही तृतीयः । तेषां त्रयाणां तत्फलमुक्तमिति ॥१६॥ एवमत्र जघन्याधिकारिव्यवस्थामुक्त्वा मध्यमाधिकारिणो ज्ञानं सहकारित्वाद्वश्य- श्यकमिति तदभावे तस्य कथं फलमित्याकाङ्क्षायां तस्य फलार्थ प्रकारमुपदिशन्तीत्याशयेना- ग्रिममवतारयन्ति स्वस्वरूपेत्यादि । मूलार्थस्तु स्वस्वरूपभगवत्स्वरूपयोर्ज्ञानाभावे पुष्टि- मार्गी श्रीभागवततत्परः सन् पूजोत्सवादिषु, एकादशे ऊनत्रिंशेऽध्याये 'यथाञ्जसा पुमान् सिध्येत्तन्मे ब्रूह्यञ्जसाऽच्युते'ति प्रश्ने, ये भगवता 'हन्त ते कथयिष्यामि मम धर्मान् सुम- ङ्गलान् । यान् श्रद्धयाचरन्मर्त्यो मृत्युं जयति दुर्जय'मित्युक्त्वा, 'कुर्यात्सर्वाणि कर्माणि मदर्थं शनकैः स्मर'न्नित्यादिना भगवद्धर्मा उक्तास्तेषु तिष्ठेत् । यद्यपि तत्र पूर्वमन्ये- प्युक्ताः, तथापि तेष्वशक्तौ 'पृथक्सत्रेण वा मह्यं पर्वयात्रामहोत्सवा'नित्यादिनोक्तेषु,
श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता। ३३ मर्यादास्थस्तु गङ्गायां श्रीभागवततत्परः । अनुग्रहः पुष्टिमार्गे नियामक इति स्थितिः ॥ १८ ॥ उभयोस्तु क्रमेणैव पूर्वोक्तेव फलिष्यति । ज्ञानाधिको भक्तिमार्ग एवं तस्मान्निरूपितः ॥ १९ ॥ पुष्टिमार्गीये विशेषमाहुः अनुग्रह इति । तस्य स्थितौ न देशनियमः, किन्तु प्रभुरनुगृह्य यत्रैव यथा स्थापयति, तत्रैव तिष्ठति तथा । तस्य विधिर्न नियामक इति भावः । मर्यादास्थावपि ज्ञानिभक्तौ चेदनुगृह्णाति विशेषतः, तदा आदौ पुष्टि- मार्गं प्राप्य तन्मार्गीयां भक्तिं प्राप्नुत इत्याहुः उभयोरिति । यदि मर्यादायामेवाङ्गीकारः, तदोभयोर्मुक्तिरेव फलिष्यतीत्याशयः । एवं निरूपणे तात्पर्यमाहुः ज्ञानाधिक इति । लोकेऽधुना भक्तेरपि ज्ञानं फलं, तस्य मुक्तिरेवेति सर्वे वदन्ति । तत्र ज्ञानं हि ब्रह्मात्मैक्य- ज्ञानम् । ब्रह्म चाक्षरात्मकम्, तदात्मकत्वेन सर्वज्ञानं च । एतावतापि पुरुषोत्तमसम्बन्धस्तु श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः । पूजायां च 'श्रद्धामृतकथायां म' इत्यत्रोक्तायां तिष्ठेत् । मर्यादास्थो मर्यादामार्गीयस्तु गङ्गायां भगवच्चरणसंसर्गवत्यां परीक्षितो विदुरस्य च सिद्धिर्जातेति तत्र श्रीभागवततत्प- रस्तिष्ठेत् । तथा सति तस्य तस्य तत्तदुपयोगिज्ञानात्मकसहकारिसम्पत्तिर्भवतीति ज्ञेयम् । ननु यथा मर्यादामार्गीयस्य गङ्गायामिति सामीप्यसप्तम्या स्थितिदेश उक्तः, तथा पुष्टिमार्गिणो नोक्त इति स कुत्र तिष्ठेदित्याकाङ्क्षायां वदन्तीत्याशयेनाहुः पुष्टी- त्यादि । व्याख्यानं तु स्फुटार्थम् । ननु भवत्वेवम्, तथापि तयोः किं फलमित्याकाङ्- क्षायां वदन्तीत्याशयेनाग्रिमभवतारयन्ति मर्यादास्थावित्यादि । आदौ पुष्टिमार्गं प्राप्ये- त्यनेन मूलस्थस्य क्रमेणेति पदस्यार्थो बोधितः । प्राप्नुत इति द्विवचनम् । तथाच पुष्टि- मार्गेऽङ्गीकारे क्रमेण 'चेतस्तत्प्रवण'मित्युक्तमानसीसिद्धौ तस्या यत्फलं तदेव फलम्, यदि मर्यादायामङ्गीकारः, तदा 'भगवान्मुकुन्दो मुक्तिं ददाति कर्हिचित्स्म न भक्ति- योग'मिति वाक्याद्भगवत्सायुज्यरूपा मुक्तिरेव । 'हतात्मनो हतप्राणांश्च भक्तिरनि- च्छतो गतिमण्वीं प्रयुङ्क्त' इत्यत्रोक्ता फलिष्यति । 'एवं मुक्तिफलानियमस्तदवस्थावधृ- ते'रित्यत्र तथा सिद्धत्वादित्याशय इत्यर्थः । ननु साधनसम्पत्तावनुग्रहाद्भक्तिरेव भवतीति यदुक्तं, तत्र किं बीजमित्याकाङ्क्षायां वदन्तीत्याशयेनाग्रिममवतारयन्ति एवमित्यादि । तात्प- र्यमिति । श्रुतिसूत्रादितात्पर्यम् । मूलार्थस्तु । एवं पुरुषोत्तमप्रापकत्या भक्तिमार्गो ज्ञानाधिकः ज्ञानमार्गादुत्कृष्टस्तस्मात् गङ्गादृष्टान्तेन नितरां व्युत्पादनपूर्वकं निरूपितः कथित इति । तदेतद्व्याकुर्वन्ति लोकेऽधुनेत्यादि । ब्रह्मात्मैक्यज्ञानमिति । ब्रह्मणः स्वात्मनश्च तादात्म्यरूपैक्यज्ञानम् । सर्वज्ञानमिति, प्रपञ्चज्ञानम् । एतावतापीति । स्वात्मनः प्रपञ्चस्य च ब्रह्मात्मकत्वज्ञानेनापि । एवं ज्ञानेपि पुरुषोत्तमसम्बन्धस्य दूरत्वे ५ सि० सु०
३४ सिद्धान्तमुक्तावली । दूरतरः । तस्य अक्षरातीतत्वात् । अत एवार्जुनेन पुरुषोत्तमाक्षरभजनयोस्तारतम्यं पृष्टः स्वभजन आधिक्यमाह गीतासु द्वादशेऽध्याये । गङ्गायां च क्षराक्षरपुरुषोत्तमतारतम्यदृष्टान्तः स्पष्टः । न हि देवी तीर्थात्मिका जलात्मिका वा, किन्तु जल एव तीर्थात्मकत्वं जानन् ज्ञानी भवति । तदतीतदेवतात्मकदर्शने भक्तत्वम् । न हि भक्त्या देवताद्रष्टुस्समः पूर्वो भवति । अत एव पुरुषोत्तमं मां जानन् मामेव सर्वभावेन भजतीति 'यो मामेवमसंमूढ' इत्युपक्रम्य 'भजति मां सर्वभावेने' ति प्रभुरुक्तवान् । अतो ज्ञानमार्गीयस्यापि पुरुषोत्तम- विदोपि भक्तिनिष्ठैव फलमिति किमितोऽधिकं वाच्यम्, अनेकप्रमाणसिद्धत्वादिति विद्वद्भिर्ज्ञेयम् । ऋग्वेदेपि पठ्यते 'तमु स्तोतारः पूर्व्यं यथाविद ऋतस्य गर्भं जनुषा पिपर्तन । आस्य जानन्तो नाम चिद्विवक्तन महस्ते विष्णो सुमतिं भजामहे ।' हे स्तोतारो मदुत्कर्षवर्ण- नपराः पूर्व्यं सर्वकारणकारणरूपं तं लोकवेदप्रसिद्धं पुरुषोत्तमं भवन्तो यथावद्विदन्ति तत्स्वरू- पमिति तथाभूताः । ऋतस्य सूनृतवाणीरूपस्य वेदस्य गर्भरूपम् । स्वोदरस्थं वेदं विश्वहितार्थं ब्रह्मणे उपदिष्टवानिति तथा । जनुषा स्वजन्मनेव सम्पूर्णेन, न तु क्षणयाममात्रेण । पिपर्तन पूर्तियुक्तं सन्तुष्टं कुरुत । अत्र यथावित्त्वोक्त्या पूर्णज्ञानानां देहेन्द्रियप्राणान्तःकरण- जीवांस्तदर्थमेव तद्भजनार्थमेवोपयुक्तान् कुरुतेति भक्तिमार्गे विनियोगमुपदिशति । तेन श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः । मानमाहुः अत एवेत्यादि । तथा च यद्यक्षराहंग्रहोपासनतः 'सर्वं ब्रह्मे'त्युपासनतश्च भक्तेस्तन्मार्गीयोपासनायाः स्वविषयकाया आधिक्यं न स्यात्, तदा भगवान् 'मय्या- वेश्य मन' इत्यारभ्य स्वोपासकस्य युक्ततमत्वम्, अक्षरोपासकस्य क्लेशम्, सर्वसंन्यास- पूर्वकं ये स्वपरास्तेषां शीघ्रं संसारादुद्धारम्, स्वस्मिन्मनोनिवेशनादिना तेषां स्वस्मिन्नि- वासम्, तदनुकल्पकथनेन तस्यैवावश्यकत्वं च न वदेत्, अतस्तथेत्यर्थः । एतेन ज्ञाना- धिको भक्तिमार्ग एवमिति व्युत्पादितम् । तस्मान्निरूपित इति विवृण्वन्ति गङ्गा- यामित्यादि । अग्रिमं स्पष्टम् । अस्मिन्नर्थे श्रुतिमपि प्रमाणत्वेन वदन्ति व्याकुर्वन्ति च । ऋग्वेदेपीत्यादि, हे स्तोतार इत्यादि च । गर्भरूपमिति । तस्मिन्नर्थरूपतयान्तःस्थित- म् । तत्र हेतुः स्वोदरस्थमित्यादि । उपदिष्टवानिति । स्वज्ञापकतया बोधितवान् । एतदुपबृंहितमेकादशस्कन्धे चतुर्दशाध्याये 'कालेन नष्टा प्रलये वाणीयं वेदसंज्ञिता । मयादौ ब्रह्मणे प्रोक्ते'ति । एकविंशे च 'मां विधत्तेऽभिधत्ते मां विकल्प्यापोह्यते ह्यहम् । एतावान् सर्ववेदार्थः शब्द आस्थाय मां भिदा । मायामात्रमनूद्यान्ते प्रतिषिध्य प्रसीदती'ति । शेषमतिरोहितार्थम् । एवमत्र मुख्यमध्यमाधमजघन्यातिजघन्याधिकारिकृतसाधनस्य फलपर्यन्त- व्यवस्थाकथनेन स्वतन्त्रभक्तिमार्गस्यैवोत्कर्षो व्युत्पादितः । तेन स एव मुख्यः, इतराणि त्वनु- कल्परूपाणि जघन्यार्थानि । तत्रापि निष्कपटा तनुवित्तजसेवैव सुगमं साधनमिति साधितम् । अतःपरं तनुवित्तजाया यथाकथञ्चित्करणे यदि भक्तिर्न भवति, स्फुटमेव
श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । ३५ ज्ञानमार्गाद्भक्तिमार्गस्याधिक्यमवगम्यते । भक्त्या विना न कोपि पुरुषार्थः सिध्यतीति हृदयेनाह्याग्रे देहादिसर्वविनियोगाशक्तौ आसमन्ताज्जानन्तोऽखण्डशब्दब्रह्मरूपं, न तु लौकिकशब्दरूपमिति नाम स्वरूपं जानन्तस्तदेव विवक्षन विशेषेण वदन्तु । अधिकमा- हात्म्याद्यज्ञाने नाममात्रमुत कीर्तयन्तु । एतेनैव भगवत्स्वरूपतन्माहात्म्यादिकं ज्ञातं भवि- ष्यतीत्याशयेनाह नाम स्वरूपम् । चिदिति । चिदित्युपलक्षणम् । सच्चिदानन्दात्मकमित्यर्थः । नामस्वरूपाज्ञाने तदुपदेष्टृगुरूपसत्तिः कार्येत्याशयेनाह महस्त इत्यादि । ते त्वत्सम्बन्धिनं सुमतिं निर्दोषपूर्णगुणत्वेन भवन्तं जानन्तं भगवद्भक्तं भजामहे । स च स्वतेजसा पराज्ञा- ननिरासक इत्याह मह इति । तेजोरूपमित्यर्थः । स्वहृदि सदा श्रीकृष्णप्राकट्येनोल्लस्वात्म- कमिति वा । एतेन ज्ञानिनां भक्तिमार्गप्रवेश एवोपदिष्टो भवति । एवमेव ‘तद्विष्णोः' ‘तद्विप्रास' इत्यादिश्रुतिसहस्रैर्निर्णयत इति सुष्टूक्तं ज्ञानमार्गादधिको भक्तिमार्ग इति ॥१७॥१८॥१९॥ गङ्गादृष्टान्तस्य तात्पर्यान्तरमाहुः भक्त्यभाव इति । भक्त्यभावे तु तीरस्थो यथा दुष्टैः स्वकर्मभिः । अन्यथाभावमापन्नस्तस्मात्स्थानाच्च नश्यति ॥ २० ॥ एवं स्वशास्त्रसर्वस्वं मया गुप्तं निरूपितम् । एतद्बुद्ध्वा विमुच्येत पुरुषः सर्वसंशयात् ॥ २१ ॥ इति श्रीवल्लभाचार्यविरचिता सिद्धान्तमुक्तावली सम्पूर्णा ॥ भगवत्सांन्निध्यदेशेऽपि स्थितौ भक्त्यभावे तथा भवतीति भावः । एतेन भक्तेरा- वश्यकत्वमुक्तं भवति ॥ २० ॥ २१ ॥ इति श्रीपितृपादाम्बपरागसरसिक्तहृत् । श्रीविठ्ठलस्तत्सिद्धान्तवाञ्छालां हृदये दधौ ॥ १ ॥ श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः । तदा तस्याः किं फलमित्याकाङ्क्षायां वदन्तीत्याशयेनाग्रिममवतारयन्ति गङ्गेत्यादि । व्याकुर्वन्ति भगवदित्यादि । तथा भवतीति । दुष्टैर्निजकर्मभिः पाषण्डितामापन्नः सन् । ‘अत्रापि वेदनिन्दायामधर्मकरणात्तथे'ति श्लोकद्वयोक्तरीत्या आरूढपतितो भवतीत्यर्थः । एतच्छ्लोकोक्तितत्पर्यमाहुः एतेनेत्यादि । तथा च भक्त्यभावे सर्वं व्यर्थमिति बोधनार्थ- मेतदुक्तिरित्यर्थः । उपसंहारश्लोकस्तु प्रसिद्धार्थत्वान्न व्याख्यातः । परं तदारम्भस्थ एवं- शब्दस्त्वतिदेशपरत्वेन बोधित इति स देहलीदीपन्यायेनोभयत्राप्यन्वेतीति बोध्यम् । एवं सर्वं ग्रन्थं विवृत्योपसंहरन्ति इतिश्रीत्यादिश्लोकेन । अत्र हृदये दधाविति कथनेन स्वयमेव सम्यग्विचारिता, नत्वनधिकारिणः प्रति स्पष्टीकृतेत्यपि बोधितम् । १. अदलितनलिनीदलैव वापी यदहृतपल्लव एष काननान्तः । प्रियसखि न जगाम वामशीलः स्फुटममुना नगरेण नन्दसूनुः ॥ २ ॥ इत्यधिकं पद्यं क्वचित् ।
३६ सिद्धान्तमुक्तावली । श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः । अत्रेदं सिद्धम् । (यस्य भगवति कृष्णे परब्रह्मत्वेन ज्ञानं भगवदनुग्रहेण दृढम्, तथा विश्वासो भक्तिश्च स्वतःसिद्धा, तस्य) अस्मिन् शास्त्रे तनुवित्तजा सैवैव प्रथमं साधनम् । सा चेन्निबन्धोक्तप्रकारिका भवति, तदा लौकिकविषयवैराग्यादिना संसारदुःखं निवर्तयन्ती भगवदधिष्ठानत्वेनाक्षरं बोधयन्ती 'चेतस्तत्प्रवणं सेवे'त्युक्तसर्वात्मभावरूपां मानसीं साधयति । तस्याः सम्पत्तौ च बहिर्भगवत्प्राकट्ये भगवदेकतानतातः कामचारो भवति, (नान्यथा । अतः साधनसेवां कुर्वता ब्रह्मवादेन भगवति बुद्धिर्विधेयेति मुख्या आद्यसाध- नकक्षा १) एषैव निबन्धे 'ज्ञानी चेद्भजते कृष्णं तस्मान्नास्त्यधिकः पर' इति सावतारणिकया कारिकयोक्ता । तस्यां च स्वस्य सेवकत्वेन ज्ञानमेवोपयोगीति च । अत्रानधिकारे तु मर्यादापुष्टस्य विविक्तं जीवस्वरूपज्ञानमावश्यकम् । तस्मिन् सति शुद्धस्य स्वात्मनोऽक्षर- ब्रह्मात्मकत्वे स्वस्मिन्नन्तरेव भक्त्या कृष्णं पश्यति । तेनाग्रे पुरुषोत्तमसायुज्यमिति मध्यमा साधनकक्षा । तेन तादृशा सेवां कुर्वता जीवभगवत्स्वरूपयोर्ज्ञानार्थं पूर्वं यतनीयम् । यस्या- त्राप्यनधिकारः, स संसारी स्वशरीरपुत्रवित्तादिष्वभिमानवान् । स तु सेवां कुर्वन् भगवदुपयोगिपदार्थालाभेन दुःखभाग्भवति । तेन सम्यक्सेवानिर्वाहो न भवतीति तेन संसारासक्तिनिवारणार्थं स्वप्रतिष्ठस्य लीलाविशिष्टस्य भगवतश्चिन्तनं विशेषेण कार्यमिति तृतीया जघन्या कक्षा । यस्य पुनः संसारिणो लोकार्थिता न निवर्तते, स चेद्भगवत्सेवां यथोक्तप्रकारेण तनुवित्ताभ्यां करोति, तस्य परीक्षार्थं प्रारब्धभोगार्थं वा प्रभुकृतेन विल- म्बेन संसारविषयालोकादेव क्लेशो भवति, तथापि चेत्सेवां न त्यजति, तदा आसक्तिविषयो लोको नश्यति । तादृगधिकारी चेत्पुष्टिमार्गीयः, तदा तेन श्रीभागवतपाठश्रवणपरतया स्थित्वा यत्र कुत्रचिद्देशविशेषे पूजोत्सवादिकं कर्तव्यम् । मर्यादामार्गीयश्चेत्, गङ्गातीरे स्थित्वा तेन श्रीभागवतश्रवणपठनावृत्तिर्यथाधिकारं कर्तव्येति चतुर्थी कक्षा । तयोरु- भयोरपि यथाधिकारं स्वल्पेन महता वा क्रमेण तत्प्रवणं चेतश्चेत् यथाधिकारं सिध्यति । तस्य वैकुण्ठादिषु सेवौपयिकदेहप्राप्तिः फलति, न तु सायुज्यम् । यस्य तु तन्वादिभिः सेवाकरणे भक्तिरपि न भवति, स तु पञ्चमः आरूढपतितो जन्म प्राप्नुवन् संसाराभि- निवेशशैथिल्ये बहुजन्मभिर्मुच्यते । संसारात्यन्ताभिनिवेशे तु मुक्तिरपि न भवतीति । तस्मात्संसारावेशं त्यजता भक्त्यर्थं तनुवित्तजसेवायां पूर्वं यतनीयमिति । (तत्रायं प्रकारः । तन्वादिभिः सेवां कुर्वतोऽधिकारभूतमात्मनिवेदनमावश्यकम् । तत्कृत्वा सेवाकरणे पूर्व- दोषनिवृत्तिः, अग्रिमदोषासंसर्गश्च । सिद्धान्तरहस्योक्तरीत्या असमर्पितवर्जनादिरूपं बहिरंगं साधनं संपत्ताववश्यं करणीयम् । आपत्तौ तु नवरत्नोक्तरीत्या करणीयम् । भगवदपराधे १. इति मुख्याधिकारिणः फलपर्यन्ताः कक्षाः । यस्य तु न तादृशोऽधिकारः, तेन तु भगवति परब्र- ह्मत्वज्ञानार्थं साधनसेवां कुर्वता ब्रह्मवादेन भगवति बुद्धिर्विधेया । अतः पूर्वोक्तरीत्या सैव कार्येति ततः किञ्चिन्न्यूना साधनकक्षेति पाठान्तरं भाति ।
श्रीमद्विठ्ठलेश्वरविरचितविवृतिसमेता। ३७ श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः । जाते त्वन्तःकरणप्रबोधोक्तरीत्या भावनीयम् । विवेकधैर्याश्रयोक्तरीत्या विवेकादिरपि संपादनीयः । ततो विश्वासे दृढे सति भक्तिवर्धिन्युक्तरीत्या भक्तिबीजस्य दार्ढ्यं संपाद- नीयम् । अदृढबीजभावे तु निबन्धोक्तरीतिकपूजा परिचर्यादिभिः, नामावलीपाठेन च प्रेमा- सक्तिव्यसनानि संपादनीयानि । ततो व्यसनदार्ढ्ये सिद्धे प्रेम्णि दृढे जाते च संन्यास- निर्णयोक्तरीत्या त्यागो विधेयः । तत्रानधिकारे तत्र प्रतिबन्धे वा भक्तिवर्धिन्युक्ता अनु- कल्पा विधेयाः । ततो भगवत्प्रसादे निरोधलक्षणोक्तरीत्या निरोधोत्कर्षसिद्धिः । ततः फल- सिद्धिरिति तच्चरणदासैर्विभावनीयम् । अन्येपि ग्रन्था अत्रैव शेषत्वेन यथासंभवं योज- नीया इति दिक् ।) इति श्रीप्रभुपादाम्जैः प्रसादप्रेरणादिह । स्वीयसिद्धान्तवाङ्माला कृपया संप्रकाशिता ॥ १ ॥ इति श्रीमद्वल्लभाचार्यचरणैकतानस्य श्रीविठ्ठलेशप्रसादप्राप्तदृशः पीताम्बरात्म- जस्य पुरुषोत्तमस्य कृतौ श्रीमदाचार्यसिद्धान्तवाङ्मालाप्रकाशः संपूर्णः ॥
श्रीकृष्णाय नमः । सिद्धान्तमुक्तावली । श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । प्रणम्य पितृपादाब्जपरागमनुरागतः । कृपया विशदीकुर्मस्तद्वाङ्मुक्ताफलावलीम् ॥१॥ नत्वा हरिं प्रवक्ष्यामि स्वसिद्धान्तविनिश्चयम् । कृष्णसेवा सदा कार्या मानसी सा परा मता ॥ १ ॥ स्वसिद्धान्तेति । अग्रे वक्ष्यमाणैर्बहुभिर्मिथो विरुद्धैः सिद्धान्तैः शास्त्रार्थसन्देहे श्रीविट्ठलेशात्मजश्रीवल्लभकृतविवृतिटिप्पणी । नुमो नतहरीन् स्वीयसिद्धान्तस्य विवक्षया । ततो नुमो विशदितद्वाङ्मुक्ताफलावलीन् ॥ १ ॥ श्रीकृष्णाय नमः । प्रणम्येति । अत्र नमने प्रकर्षो भक्तिमार्गीयत्वम्, तच्च सुसे- व्यत्वज्ञानपूर्वकत्वे सति भक्तिकरणकत्वम्, तदेव भक्तिमार्गीयतावच्छेदकद्वयं प्रकटयन्ति पितृपादाब्जेति । पितृपदं भक्त्यनपेक्षपुत्रवात्सल्यबोधकम् । हृदयाविष्टस्य घनीभूता- नन्दरूपपादपद्मस्य परागस्तस्मात् स्रुत आनन्दः। भगवच्चरणारविन्दे हृदये समागते य आन- न्दोऽनुभूयते तत्स्वरूप इत्यर्थः । तथा च पितृपादाब्जपरागमित्यनेन सुसेव्यत्वज्ञानरू- पमवच्छेदकमुक्तम् । अनुरागत इत्यनेन भक्तिरूपं द्वितीयमवच्छेदकमुक्तम् । एतादृशन- मनाभिव्यञ्जितपदार्थमाहुः कृपयेति । भगवद्धर्माणां नित्यत्वादभिव्यक्तेरेवाङ्गीकारात् कृपायास्तात्त्वमिति मन्तव्यम् । अत एवासाधारणकारणतया तदुक्तिः । तादृशनमनोपकार- सिद्धां क्रियामाहुः विशदीकुर्म इति । वैशद्यं स्फुटीभावः । कृपया ग्रन्थवैशद्यकरणत्व- कथनेन स्वपितृचरणानां वागधिपतित्वमप्युक्तम्, तत्कृपाया एव तथा करणसामर्थ्यात् । किमित्याकांक्षायामाहुः तदिति । तद्वाङ्गिष्ठमुक्ताफलरूपार्थराशिमित्यर्थः । मुक्ताफल- पदस्य कल्पनावृत्त्यार्थबोधकत्वम् । सादृश्यं च नैर्मल्यसामान्यधर्मेण । नैर्मल्यं चात्र प्रोज्झितकैतवत्वम् । वाच एव मुक्ताफलानीत्ययं पक्षस्तु अत्रार्थस्यैव स्फुटभावं प्राप्तत्वा- दसंभवग्रस्तः । वाग्वैशद्यं तु व्याकृतावुच्चारणे चैव प्रसिद्धम् । मूले स्वसिद्धान्तेति । स्वसिद्धान्तस्य अयमेव शास्त्रार्थ इति विशेषेण निश्चयो यस्मात् तं ग्रन्थमित्यर्थः । इदं च प्रतिज्ञावाक्यम् । महावाक्यमाहुः कृष्णसेवेत्यादि । टीकायां अग्र इति । अस्मिन्नेव ग्रन्थे'मायिकं सगुणं कार्य'मित्यादिभिर्वक्ष्यमाणैः । शास्त्रार्थस्य गीताभागवतार्थस्य । १. विनिश्चितमिति पाठः ।
[Header] श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । ३९
तन्निरासाय स्वसिद्धान्तरूपं शास्त्रार्थनिश्चयं वक्ष्यामीत्यर्थः । तमेवाहुः कृष्णसेवेति । फलात्मकनामोक्त्या स्वतःपुरुषार्थत्वेन सेवाकृतिः स्वसिद्धान्तो, न त्वन्यशेषत्वेनेति ज्ञाप्यते । सेवा हि सेवकधर्मः । तदुक्त्या जीवानाामशेषाणां सहजदासत्वं ज्ञापितम् । अत एव न कर्मणीवात्र कालपरिच्छेदोस्तीत्याहुः सदेति । आवश्यकार्थण्यत्प्रत्यया- न्तकार्यपदोक्त्या तदकरणे प्रत्यवायी भवतीति भावो ज्ञाप्यते । सा च फलरूपा साधनरूपा चास्ते । तत्र मानसी सा परा फलरूपेत्यर्थः । यथा व्रजसीमन्तिनीनाम् । तदेव तत्प्राण- नाथेन गीतं 'ता नाविदन्मय्यनुषङ्गबद्धधियः स्वमात्मानमदस्तथेद' मित्यादिना ॥ १ ॥ एतदेव सेवास्वरूपमित्याहुः चेत इति । चेतस्तत्प्रवणं सेवा तत्सिद्ध्यै तनुवित्तजा । ततः संसारदुःखस्य निवृत्तिर्ब्रह्मबोधनम् ॥ २ ॥ उक्तसेवासाधने इतरे इत्याहुस्तदिति । वित्तं दत्त्वा अन्येन पुरुषेण कृत्वा कारितैका ।
श्रीविट्ठलेशात्मजश्रीवल्लभकृतविवृतिटिप्पणी । तन्निरासाय शास्त्रार्थसन्देहनिरासाय । सन्देहस्वरूपं तु स्वयमेवाग्रे वक्ष्यन्ति स्वेति । एतन्निरूपकशास्त्रार्थस्य निश्चयो यस्मात्तदित्यर्थः । फलात्मकेति । फलरूपस्य तस्य स्वतः- पुरुषार्थत्वधर्मावच्छिन्नसेवाकृतिः स्वसिद्धान्तः । फलसेवनं हि स्वतः पुरुषार्थः, यथा कामिन्याः । स्वतःपुरुषार्थत्वेन । कामप्रयत्नयोरेकविषयत्वेनेत्यर्थः । ननु 'मानसी सा परे'- त्यनेन मानस्याः सेवायाः फलत्वेन वक्ष्यमाणत्वात् तदर्थत्वमेवैतत्सेवायां सिध्यति, अतो न स्वतः पुरुषार्थत्वम्, किन्त्वन्यशेषत्वमेवेति चेत्, तत्राहुः नत्वन्येति। यत्र विजातीयफलार्थत्वं तत्रैवान्यशेषत्वम्, प्रकृते तस्या एव सेवाया अवस्थाभेदेन मानससेवारूपफलत्वेन विजा- तीयत्वाभावाददोष इति भावः । हेतुपूर्वकं सदेत्यस्यार्थमाहुः सेवा हीति । सहजेत्यत्र जननं सत्तेति ज्ञेयम् । जीवस्य नित्यत्वेन जननासम्भवात् । तथा च सहसत्ताकमित्यर्थः । यथा जीवसत्ता सार्वदिकी, तथा दासत्वसत्तापि । अत एव जीवस्य सहजदासत्वेन अत्र सेवायां सहजधर्मत्वादेव । कर्मणीवेति । कर्म न सहजधर्मः, तस्यैव जन्मान्तरे शूद्रदेहेऽ- नधिकारादिति भावः। कालपरिच्छेदोऽस्मिन् काले न कर्तव्येतिरूपः । कालपरिच्छेद्यत्वाभावेऽपि प्रत्यवायजनकीभूताभावप्रतियोगित्वरूपधर्मोऽस्तीत्याहुः आवश्यकार्थेति । सा चेति । सा पूर्वोक्ता । तत्र फलसाधनरूपयोर्मध्ये फलरूपा मानसी सेवा । यथेति । यथा यत्प्रकारिका सेवा व्रजसीमन्तिनीनां सिद्धा, सा मानसी फलरूपा सेवेति शेषः । तदेव मानससेवायाः फलरूपत्वमेव । 'ता' इति, 'मय्यनुषङ्गबद्धधिय' इत्यनेन साधनसेवामनूद्य 'नाविद'न्नि- त्यनेनान्या नुसन्धानराहित्यमुक्तम् ॥ १ ॥ एतदेव धीबन्ध एव । मूले चेतस्तत्तस्मिन् भगवति प्रवणं गतिरित्यर्थः । उक्तसेवेति । उक्तसेवा मानसी सेवा । इतरे तनुवित्तजे । एकेति । वित्तजेत्यर्थः ।
१ काले इति पाठः ।
४० सिद्धान्तमुक्तावली । एतादृशेन पुंसा कृता चापरा । एतादृश्यौ ते तत्साधिके नेत्यभिप्रायज्ञापकं समस्तं पदम् । एतेन भगवदर्थं निरुपधिखसर्वस्वनिवेदनपूर्वकं तत्रैव स्वदेहविनियोगे प्रेम्णि जाते सा भवतीति भावः । एतादृशस्यावान्तरफलं भवतीत्याहुः तत इति । अहन्ताममतात्मकः संसारो, न तु प्रपञ्चात्मकः, तस्य ब्रह्मात्मकत्वात्, तन्निवृत्त्याऽनिष्टनिवृत्तिरुक्ता । इष्टप्राप्ति- माहुरग्रे । स्वात्मनि प्रपञ्चे चाक्षरब्रह्मात्मकत्वेन ज्ञानम् । भगवत्सेवायामभिनिविष्टस्य यद्यप्यनभिलषिते ते, तथापि वस्तुस्वभावाद्भवत इति भावः ॥ २ ॥ इदमेव परं ब्रह्मेति न ज्ञेयमित्याहुः परं ब्रह्म त्विति । परं ब्रह्म तु कृष्णो हि सच्चिदानन्दकं बृहत् । द्विरूपं तद्धि सर्वं स्यादेकं तस्माद्विलक्षणम् ॥ ३ ॥ यशोदोत्सङ्गलालितो, न त्वन्य इति ज्ञापनाय मूलनामोक्तम् । अत्र भेदकं रूपमाहुः श्रीविठ्ठलेश्यात्मजश्रीवल्लभकृतविवृतिटिप्पणी । एतादृशेन । वित्तग्रहीत्रा पुरुषेण । अपरा तनुजा । तत्साधिके इति । फलरूपसेवासा- धिके । तथा चैककर्तृक एव ते तत्साधिके इति फलितार्थः । नन्वेवमेककर्तृका भगवदपे- क्षितयावद्द्रव्यसमर्पणरूपसेवा शरीरजभगवद्यावत्सेवा च भगवदपेक्षितयावद्द्रव्याभावात्ता- दृशतनुसामर्थ्याभावाच्चासम्भावितेति चेत्, तत्राहुः एतेनेति । एवं सेवाकथनेन । फलाकांक्षारहितयावत्स्वीयद्रव्यादिनिवेदनपूर्वकं कार्यान्तरविनियोगरहितभगवदर्थस्वदेहवि- नियोगे क्रमप्राप्तप्रेम्णि जाते सा मानसीसेवा भवतीत्यर्थः । क्रमस्त्वग्रे विवेच्यः । एता- दृशस्येति । निवेदितस्वीयसर्वस्वस्य भगवत्सेवाविनियुक्तदेहस्य पुरुषस्य । तत इतीति । उक्तसाधनरूपसेवाद्द्यतः । तन्निवृत्त्येति । संसारनिवृत्त्या । अनिष्टेति । फलप्रतिबन्ध- कत्वात् संसारस्यानिष्टत्वम् । मूले संसारो दुःखो दुःखजनक इत्यर्थो ज्ञेयः । इष्टेति । फल- साधकत्वात् ब्रह्मज्ञानस्येष्टत्वम् । स्वात्मनीति । आत्मनि देहेन्द्रियप्राणान्तःकरणजीवेषु । अक्षरब्रह्मात्मकत्वेन ज्ञानमहन्तानिवृत्तौ, प्रपञ्चे चाक्षरब्रह्मात्मकत्वेन ज्ञानं ममतानिवृ- त्ताविति विभागः । भक्तस्याक्षरज्ञानं पुरुषोत्तमाधिष्ठानत्वेन भवतीति तृतीयाध्याये तृतीय- चरणे व्युत्पादितम् । तथा चाक्षरब्रह्मात्मकत्वेन ज्ञानं पुरुषोत्तमाधिष्ठानत्वेन ज्ञानमित्यर्थः । स्वात्मनि प्रपञ्चे च भगवदीयत्वेन ज्ञानमिति यावत् । पुरुषोत्तमाधिष्ठानत्वमनुपदमेव विवेक्ष्यते । ननु तादृशज्ञानहेतुत्वात् सेवायाः स्वतःपुरुषार्थत्वव्याहतिरित्याहुः भग- वत्सेवायामिति । ते इति । उक्तब्रह्मात्मकत्वज्ञाने । वस्तुन आत्मसमर्पणस्य स्वभावात् । स्नेहो हि भक्तिः । स च दर्शनं विना भवतीति निबन्धे निरूपितम् । अतः श्रवणं दर्शनं स्नेह इति त्रयं मिलितं एका श्रवणभक्तिर्भवति । एवं नवस्वपि । तथा च ब्रह्मबोधनस्य वक्ष्यमाणरीत्यात्मनि वेदनाङ्गदर्शनयोग्यतासम्पादकत्वात् तत्स्वभावादेव ते ज्ञाने भवत इत्यर्थः । अनभिलषिते सेवाभिनिवेशेनैव सेवा क्रियते, न त्वेतत्फलाभिनिवेशेनेत्यर्थः । इदमेवेति । इदं पूर्वोक्तज्ञानविषयमक्षरं ब्रह्म । अत्रेति । अक्षरे ब्रह्मणि । रूपं
श्रीमद्विठ्ठलेश्वरविरचितविवृतिसमेता । ४१ सच्चिदिति । एते हि भगवद्धर्मात्मकाः, प्रकटतत्रितयात्मकमक्षरं ब्रह्म । अत एव प्रपञ्चस्त- दात्मक इति सच्चिदानन्दात्मकत्वं तस्मिन्नुच्यते । एतावान्परं विशेषो, जडे सदंशः प्रकटः, इतरावाच्छन्नौ; जीवे त्वाद्यौ प्रकटौ, आनन्दांशस्तिरोहितः; परमात्मनि त्रयं स्फुटमिति । कप्रत्ययेन गणितानन्दत्वमेव, न तु पुरुषोत्तमवत् पूर्णानन्दत्वमिति ज्ञाप्यते । कृष्णशब्देनैव पुरुषोत्तमस्वरूपं निरूपितमित्यक्षरस्वरूपं निरूपयन्ति द्विरूपमिति । तत् अक्षरं ब्रह्म । तदेव रूपद्वयं विशदयन्ति सर्वं स्यादिति । प्रपञ्चरूपेणाविर्भूतमेकमित्यर्थः । एकं रूपं तस्मात् प्रपञ्चरूपात् एकरूपत्वेन श्रुतिप्रतिपाद्यत्वेन ज्ञान्युपास्यत्वेन तन्मुक्तिस्थानत्वेन पुरुषोत्तमाधिष्ठानत्वादिविर्लक्षणमित्यर्थः । न च विरुद्धधर्मैर्भेदोत्र शङ्कनीयः । उभयो- र्धर्मयोरेकत्र प्रमाणसिद्धत्वेन विरोधाभावात् । विरुद्धधर्माश्रयत्वस्य ब्रह्मणि ‘तदेजति तन्नैजती’त्यादिश्रुतिभिर्निरूप्यमाणत्वात् । लोक एव विरोधः शङ्कनीयो, नत्वलौकिके ब्रह्मणि । इदं यथा तथा ब्रह्मसूत्रभाष्ये निरूपितमिति नात्र प्रपञ्च्यते ॥ ३ ॥ विरोधपरिहाराय स्वसिद्धान्तं वक्तुं परमतान्याहुः अपरमिति ।
श्रीविठ्ठलेशात्मजश्रीवल्लभकृतविवृतिप्रकाशः । धर्मः । ननु सच्चिदानन्दकत्वस्य पुरुषोत्तमेपि सत्त्वात् कथं तस्य भेदकत्वं तत्राहूः एते हीति । सच्चिदानन्दाः । तत्रितयं सच्चिदानन्दत्रयम् । अत एव । अक्षरस्य सच्चिदानन्दात्मकत्वादेव । तदात्मक अक्षरब्रह्मात्मकः । तस्मिन् प्रपञ्चे । एतावानिति । अक्षरब्रह्मणः सकाशात्प्र- पञ्चे विशेषः । तमेवाहुः जड इति । इतरौ चिदानन्दौ । आद्यौ सच्चितौ । परमा- त्मनि अन्तर्यामिणि । ननु भगवद्धर्माणामपि ‘प्रकाशाश्रयवद्वा तेजस्त्वा’दिति न्यायेन भगव- त्त्वमेवेति न भेदसिद्धिरिति चेत्, तत्राहुः कप्रत्ययेनेति । कप्रत्ययस्य हीनार्थकत्वादित्यर्थः । पुरुषोत्तमवदिति । पुरुषोत्तमस्वरूपभूतमुख्याक्षरवदित्यर्थः । कृष्णेति । कृष्णशब्दस्य परब्रह्मवाचकत्वात् तत्स्वरूपं तेनैव निरूपितम् । इतीति । पुरुषोत्तमस्वरूपनिरूपणा- कांक्षानिवृत्तिपूर्वकाक्षरनिरूपणाकांक्षासद्भावेतोः । एतावद्रूपकमक्षरं ब्रह्मेत्यक्षरस्वरूपं निरूपयन्तीत्यर्थः । द्विरूपमितीति । अत्रैकपदं देहलीदीपकन्यायेनोभयत्रान्वेति । एक- रूपत्वेनेति । प्रपञ्चरूपस्य तस्यानेकरूपत्वं तद्भिन्नरूपस्यैकरूपत्वम् । श्रुतिप्रतिपाद्य- त्वेनेति । प्रपञ्चकारणत्वेन । पुरुषोत्तमाधिष्ठानत्वादिविभिरिति । लीलाविशिष्टपुरुषोत्तमा- धिष्ठानत्वमित्यर्थः । आदिशब्देन पादत्वादयो धर्मा ग्राह्याः । तत्रायं विवेकः । आधिभौति- कजलस्याक्षरत्वेन ज्ञाने तस्याक्षरत्वात् तत्र सेवोपयोगिलीलासृष्टिष्ठपुरुषोत्तमात्मकजलाधि- ष्ठानत्वम्, एवमक्षरात्मके भगवदाकारादौ पुरुषोत्तमस्वरूपाधिष्ठानत्वमिति । विरुद्धेति । विरु- द्धत्वेन प्रतीतिविषयैरित्यर्थः । अत्रेति । प्रपञ्चाक्षरयोः । भेदः क्रियाफलभूतो विरोध इत्यर्थः । विरोधेति । भिन्नधर्मत्वात् ब्रह्म कथं जगद्रूपं भवितुमर्हतीति ज्ञानेन प्रतीतो ६ सि० मु०
४२ सिद्धान्तमुक्तावली अपरं तत्र पूर्वस्मिन् वादिनो बहुधा जगुः । मायिकं सगुणं कार्यं स्वतन्त्रं चेति नैकधा ॥ ४ ॥ वेदमतादपरं भिन्नं मतम् । पूर्वस्मिन् प्रपञ्चरूपेणाविर्भूते । तत्र अक्षरे ब्रह्मणीत्यर्थः । मायिकमिति हि मायावादिनः । सगुणं गुणकार्यमिति साङ्ख्याः । कार्यं द्व्यणुकादि- क्रमेणेश्वरकार्यमिति नैयायिकाः । स्वतन्त्रं न कदाचिदनीदृशं जगदिति मीमांसकाः । चकारेण वेदबाह्यमतानि सङ्गृह्यन्ते ॥ ४ ॥ तानि मतानि श्रुतिबलेनैव निराकृतानि सन्तीति नात्र पार्थक्येन निराकरणीयानि, स्वमतनिरूपणेनैव निराकरणसम्भवादित्याशयेन स्वसिद्धान्तमाहुः तदेवेति । तदेवैतत्प्रकारेण भवतीति श्रुतेर्मतम् । द्विरूपं चापि गङ्गावज्ज्ञेयं सा जलरूपिणी ॥ ५ ॥ माहात्म्यसंयुता नृणां सेवतां भुक्तिमुक्तिदा । मर्यादामार्गविधिना तथा ब्रह्मापि बुध्यताम् ॥ ६ ॥ 'स हैतावानास', 'सर्वं खल्विदं ब्रह्म, तज्जला'नित्यादिश्रुतिभ्यः तथेत्यर्थः । एक- सैवाक्षरस्योक्तं द्विरूपत्वं दृष्टान्तेनोपपादयन्ति द्विरूपमिति । प्रपञ्चतद्भिन्नरूपाभ्यां द्विरूपं तद्ब्रह्म गङ्गावज्ज्ञेयम् । अस्ति गङ्गायां त्रिरूपत्वम् । आधिभौतिकं जलरूपमेकम्, यद्वृष्ट्यातपाभ्यां वृद्धिह्रासौ भजते, सर्वव्यवहारयोग्यत्वं च । अग्रिमा द्वितीयाध्यात्मिकी तीर्थरूपा, योद्धृतजलाविशेषेऽपि मर्यादामार्गसम्बन्धी यो विधिस्तेन तत्रैव स्नानपूजा- दिभिः फलदा।एवमेव प्रपञ्चतद्भिन्नरूपमप्येकमेव तदक्षरं ब्रह्मेति तथा बुध्यतामित्यर्थः ॥५।६॥ आधिदैविकं रूपमाहुः तत्रैवेति । तत्रैव देवतामूर्तिर्भक्त्या या दृश्यते क्वचित् । गङ्गायां च विशेषेण प्रवाहाभेदबुद्धये ॥ ७ ॥ प्रत्यक्षा सा न सर्वेषां प्राकाम्यं स्यात्तया जले । विहिताच फलात्तद्धि प्रतीत्यापि विशिष्यते ॥ ८ ॥ यथा जलं तथा सर्वं यथा शक्ता तथा बृहत् । यथा देवी तथा कृष्णस्तत्राप्येतदिहोच्यते ॥ ९ ॥ श्रीविट्ठलेशात्मजश्रीवल्लभकृतविवृतिप्रकाशः । भेदो विरोधः क्रियाफलरूपः तत्परिहारायेत्यर्थः । स्वतन्त्रमिति । स्वभावत एवोत्पत्त्यादिविशिष्टम्, नतु परतः तथाभूतम् । द्वि- रूपत्वमिति । प्रपञ्चतद्भिन्नरूपत्वम् । एवमेवेति । यथाधिभौतिकी जलरूपा, आध्यात्मिकी तीर्थरूपाप्येकैव गङ्गा । एतत्प्रकारेणैव प्रपञ्चप्रपञ्चभिन्नज्ञान्युपास्यादिरूपमेकमेवाक्षरं ब्रह्म ।
श्रीमद्विठ्ठलेश्वरविरचितविवृतिसमेता । ४३ जगत्तु त्रिविधं प्रोक्तं ब्रह्मविष्णुशिवास्ततः । देवतारूपवत्प्रोक्ता ब्रह्माणीत्थं हरिमंतः ॥ १० ॥ कामचारस्तु लोकेऽस्मिन् ब्रह्मादिभ्यो न चान्यथा । परमानन्दरूपे तु कृष्णे स्वात्मनि निश्चयः ॥ ११ ॥ अतस्तु ब्रह्मवादेन कृष्णे बुद्धिविधीयताम् । उक्तद्विरूपायां गङ्गायामेव देवतारूपा सा तद्भिन्नास्तीत्यर्थः । तत्र मानमाहुः मूर्तिरिति । भक्त्यैव, न तु मर्यादामार्गविधिनोपासनयेत्यर्थः । तदपि कचिदेव, भक्त्युद्रे- कदशायामेव । अथवा । यत्र कचिद्गृहादिष्वपीत्यर्थः । भक्तविशेषे विशेषमाहुः गङ्गाया- मिति । देवतारूपायां गङ्गायां भक्त्युद्रेकेण दृश्यमानप्रवाहादभिन्नत्वेन यस्य बुद्धिस्तस्मै गङ्गायां प्रवाहमध्य एव ( देवतारूपा गङ्गा ) प्रत्यक्षा भवतीत्यर्थः । एतेन प्रपञ्चमध्य एव भगवदाकारभगवद्भक्तयोर्दर्शने भगवति स्नेहातिशयेन तत्र भगवदभेदबुद्धये तत्र भगव- त्प्राकट्यं भवतीति भावः सूच्यते । अग्रिमव्यवस्थामाहुः प्राकाम्यमिति । स्वाभीष्टस्वसर्व- स्वरूपायाः स्थानभूतत्वेन ज्ञानात्तज्जले सर्वत्रानिषिद्धयथेष्टव्यवहारः स्यादित्यर्थः । एवमेवो- क्तप्रकारकभगवद्दर्शने सर्वत्र तद्भावः स्फुरतीति भावः । विहितेति । भक्त्या गङ्गादर्श- श्रीविठ्ठलेशात्मजश्रीवल्लभकृतविवृतिप्रकाशः । उक्तद्विरूपायामिति । आधिभौतिकाध्यात्मिकरूपायाम् । सा गङ्गा । तदिति । उक्तद्विरूपातः । तत्र भेदे । उक्तद्विरूपयोर्मूर्तिमत्त्वाभावादाधिदैविकस्यैव मूर्तिमत्त्वा- दित्याशयेनाहुः मूर्तिरितीति । 'देवतारूपा न तद्भिन्नास्ती'ति पाठे ततो भेदेन न तिष्ठति, तत्रैव तिष्ठतीत्यर्थः । तत्रेति । भेदेनास्थितौ तस्या एव साधिदैविकी मूर्तिरिति मानमित्यर्थः । तदपीति । दर्शनम् । क्वचिदिति । एतत्पदस्य कालवाचकत्वाशयेनाहुः भक्त्युद्रेकेति । देशवाचकत्वाशयेनाहुः गृहादिष्वपीति । प्रत्यक्षा भवतीति । यथा- सम्भवं षड्विधप्रत्यक्षा भवतीत्यर्थः । तथा च दृश्यत इति पूर्वेण न पौनरुक्त्यम् । न सर्वेषामिति । प्रवाहात् भिन्नबुद्धीनामित्यर्थः । यथा गङ्गायामाधिदैविकगङ्गाविर्भावः, न त्वाधिदैविकसरस्वत्यादेः, तथा सर्वत्र तत्तद्वस्तुनि तत्तदाधिदैविकाविर्भाव इति गङ्गादृष्टा- न्तेन सूचितमित्याशयेनाहुः एतेनेति । गङ्गादृष्टान्तकृतेन तत्तद्वस्तुनि तत्तदाविर्भावसू- चनेनेत्यर्थः । प्रपञ्चमध्य एवेति । प्रपञ्चान्तःपातिनोर्भगवदाकारभगवद्भक्तयोर्दर्शने ब्रह्मात्मकत्वेन ज्ञाने तत्र भगवदाकारभगवद्भक्तयोर्भगवता सहाभेदबुद्धिर्यस्य तस्मै तत्र तदाकृतितद्भक्तयोर्भगवत्प्राकट्यमित्यर्थः । आकृतिसाम्यादाकृतेरात्मन्यक्षरब्रह्मात्म(क)- त्वाद्वक्तस्य चाधिदैविको भगवानिति ज्ञेयम् । अग्रिमेति । उक्तविधप्रत्यक्षानन्तरव्य- वस्थामित्यर्थः । स्वाभीष्टेति । तथाभूतगङ्गायाः । स्थानभूतेति । आधिभौतिकाध्या- त्मिकयोरभेदबुद्ध्या तथा ज्ञानात्तथेत्यर्थः । सर्वत्र गृहादिष्वपीत्यर्थः । तत उद्धृतजलादिषु