षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
५८ सिद्धान्तमुक्तावली ।
स्वरूपायाः स्थानभूतत्वेन ज्ञानात्तज्जले सर्वत्रानिषिद्धयथेष्टव्यवहारः स्यादित्यर्थः । एवमेवो- क्तप्रकारकभगवद्दर्शने सर्वत्र तद्भावः स्फुरतीति भावः । विहितेति । भक्त्या गङ्गादर्श- नानन्तरं प्रवाहरूपाया अपि दर्शनं विहितात्स्वर्गापवर्गरूपात्फलाद्विशिष्यते । तद्धृदीत्यर्थः । यद्वा । येषां न प्रत्यक्षा, तेषामपि तया देवतारूपया सा तत्रास्तीति तत्सम्बन्धानुभा- वेनैव तज्जले प्राकाम्यं प्रकृष्टकामविषयत्वं श्रद्धाविशेषपूर्वकस्नानादिव्यवहारो भवतीत्यर्थः । किञ्च । पुराणादिषु तज्जलदर्शनादिभिः फलं यदुक्तं तदनुभवेन महतामन्तःकरणप्रतीत्यापि तज्जलमन्थेभ्यो जलेभ्यो विशिष्यत इत्यर्थः । एवं येषां हृदि भगवत्सांनिध्यं ते भक्ता अन्येभ्यो विशिष्यन्ते । अत एव 'मल्लिङ्गमद्भक्तजनदर्शनस्पर्शणार्चन'मिति भगवतोक्तम् । (एवं दृष्टान्तदार्ष्टान्तिकयोः साधर्म्यं निरूप्य उक्तमर्थं स्पष्टयन्ति यथा जलमित्यादिना । तत्रापीति । साधर्म्येपि । एतदिति । किञ्चित्तारतम्यम् । इह प्रपञ्चरूपे, दृष्टान्ते त्रिविधत्वाभावात् अत उच्यते ।) जगत्त्विति । त्रिविधं त्रिगुणात्मकं त्रिस्वभावत्वेन प्रकटं, (तुशब्देन जले तथात्वं व्यावर्तितम् । ततस्तस्माद्धेतोः जगतीति वा । रूपवद्यथा
श्रीरघुनाथआत्मजश्रीव्रजनाथकृतविवृतिटिप्पणी ।
मेति । उक्तविधप्रत्यक्षानन्तरव्यवस्थामित्यर्थः । स्वाभीष्टेति । तथाभूतगङ्गायाः । स्थान- भूतेति । आधिभौतिकाध्यात्मिकयोरभेदबुद्ध्या तथा ज्ञानात्तथेत्यर्थः । सर्वत्र गृहादि- ष्वपीत्यर्थः । तत उद्धृतजलादिषु वा । एवमेवेति । तथाभूतगङ्गायाः प्रवाहरूपाया- स्तथा दर्शनं तथा भवत्येवेति सूचितम् । तद्धृदीत्यनेन प्रतीत्यापि तथा दर्शनमुक्तम् । ग्रन्थस्वारस्यात्पक्षान्तरमाहुः यद्वेति । ग्रन्थस्वरसस्तु, येषां न प्रत्यक्षा, तेषां का व्यव- स्थेत्याकांक्षायामाहुः प्राकाम्यमिति । तेषामपीत्यस्य तथा भवतीत्यनेनान्वयः । अस्मिन्पक्षे विहितादित्यस्यार्थमाहुः किञ्चेत्यादि । अत एवेति । यतस्ते भक्ता अन्येभ्यो विशिष्यन्ते, अतो हेतोरित्यर्थः । एवं दृष्टान्तेन त्रिरूपत्वमुपपाद्योपसंहरन्ति, यथा जलमिति । सर्वं जगत्, शक्ता तीर्थरूपा, देवी आधिदैविकरूपा मूर्तिमती गङ्गा । ननु साधनरूपसे- वाद्द्वयतः संसाररूपादहन्ताममतात्मकदुःखस्य निवृत्तिरनभिलषितमप्युभयविधब्रह्मात्मकत्वेन ज्ञानं स्वत एव भविष्यतीति किं सोपपत्तिकोपपादनेनेत्यत आहुः तत्रापीति । उक्तोभ- यविधज्ञानेपि । एतद्वक्ष्यमाणप्रकारकं ब्रह्मात्मकत्वेन शाब्दं प्रपञ्चज्ञानम् । इहेति । निमित्तस- प्तमीयम् । तथा चैतज्जन्मार्थं निरूप्यत इत्यर्थः । जगदितीति । तुशब्देन ब्रह्मात्मकत्वेन ज्ञाते प्रपञ्चे त्रिगुणात्मकत्वं व्यावर्तितम् । तत इति । यतो हेतोस्त्रिगुणात्मकं जगत् ।
१. एवं दृष्टान्तदार्ष्टान्तिकयोरुक्तमपि साधर्म्यं यत्र यद्दर्शनं तत्र तथा स्पष्टयन्ति यथा जलं तथा सर्वमिति । तत्राप्येतदिहोच्यत इति । तत्रापि साधर्म्येपि । एतज्जगत् तु त्रिविधमित्यारभ्य न चान्यथेत्यन्तेन वक्ष्यमाणं किञ्चित्तारतम्यम् । इह प्रपञ्चरूपे तद्दृष्टान्ते गङ्गाजले त्रिविधत्वाभावात् अत उच्यत इत्यर्थः । जगदिति पाठान्तरं पुस्तकद्वये । क्वचित् पाठद्वयमपि मूले नास्ति ।
श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । ५९ जगतो रूपं त्रिविधम्, तथा तत्रत्यत्रिविधानां देवता उपास्याः ब्रह्मादयः त्रयः प्रोक्ताः, तत्तच्छास्त्रे निरूपिताः । देवतेति स्त्रीलिङ्गप्रयोगात् तेषामस्वातंत्र्यं द्योतितम् ।) तेन तद्गुणनियामकत्वेन ब्रह्मादयो भगवतैव कृता इत्यर्थः । (ते तु प्राकृतानामेव नियामकाः, न तु ज्ञानिनामपीत्याहुः ब्रह्मणीत्थमिति ।) ब्रह्मैकरूपमिति तन्निष्ठानां नियमको हरिरेव । (तर्हि भक्तानामपि लोकमध्यपातित्वात्तन्नियामकत्वं ब्रह्मादीनां कुतो नेत्यत आहुः कामचार इति । लोके तेभ्य एव कामचारः, त एव नियामका इत्यर्थः । न चान्यथेति । प्रकारान्तरेण नेत्यर्थः । भक्तेषु विशेषमाहुः परमानन्दरूप इति ।) ये तु भगवद्भक्तास्तेषां स्वात्मनि स्वात्मविषये ऐहिके पारलौकिके चार्थे जलादिषु श्रीकृष्ण एव कामचार इत्यर्थः । सर्वत्र नियामकः स एवेति भावः । अथवा । भक्तानां स्नेहातिशयेन आत्मत्वेनैव प्रभुः स्फुरतीति सर्वांशेन तत्प्रार्थने शङ्का न भवतीत्यर्थः । (ब्रह्माद्यपेक्षयाऽत्र विशेषः 'परमानन्दरूप'पदेनोक्तः । एतावदुक्तस्य फलितार्थमाहुः अत इति । अत उक्तरीत्या सर्वापेक्षया श्रीकृष्ण एव भक्तिमार्गे भजनीय इत्युक्तम्, अतो हेतो- स्तत्र बुद्धिर्विधीयताम् क्रियतामित्यर्थः । ननु कीदृशी बुद्धिरिति चेत्, तत्राहुः ब्रह्मवा- देनति । ब्रह्मवादे हि परब्रह्मणः साकारत्वं प्रतिपाद्यते, अतस्तदुक्तपरब्रह्मत्वेन श्रीकृष्ण एव बुध्यतामिति भावः । तथात्वं दामोदरलीलायां श्रीशुकेन स्फुटमेवोक्तं, 'न चान्तर्न बहिर्यस्ये'ति 'त्रय्या चोपनिषद्भिश्चे'त्यादिना । तेन ब्रह्मवादो भक्तिमार्गे अनुभवसाक्षिक इति निरूपितं भवति । अत एव तुशब्देन निराकारवादो व्यावर्तितः) ॥ ११ ॥ श्रीरघुनाथात्मजश्रीव्रजनाथकृतविवृतिटिप्पणी । ततो हेतोः । रूपवदिति । यथा जगतो रूपं त्रिविधम्, तथा तद्गुणाभिमानिन्यो देवताः तिस्रः प्रोक्ताः । यदा तु ब्रह्मात्मकत्वेन जगत् ज्ञातम्, तदा ब्रह्मणि इत्थं तद्देवत्वेन हरिः पुरुषोत्तमो मतः शास्त्र उक्तः । इति मूलव्याख्या । त्रिस्वभावत्वेनेति । राजसा- दिक्स्वभावत्वेन । तेन त्रिस्वभावत्वेन हेतुना । ब्रह्मणीयस्यार्थमाहुः ब्रह्मेति । तन्निष्ठानां ब्रह्मैकनिष्ठानाम् । एतन्निरूपणफलमाहुः मूले कामचार इति । अस्मिन् लोके कामचारः, स ब्रह्मादिभ्य एव, न प्रकारान्तरेणेति लोकनिष्ठानां व्यवस्था, भगवन्निष्ठानां व्यवस्थामाहुः परमानन्द इति । एतस्यार्थमाहुष्टीकायां ये त्विति । स्वात्मविषय इति । स्वात्मपदस्य स्वात्मीयपरत्वम् । कामचार इति । कामचारनिश्चय इत्यर्थः । लक्षणानङ्गीकारेण पक्षा- न्तरमाहुः अथवेति । अस्मिन्पक्षे आत्मपदं कृष्णविशेषणम् । तत्प्रार्थने 'त्वदुच्छिष्टं भोज्य'मित्यादिभगवत्प्रार्थने । यतो हेतोर्ब्रह्मैकनिष्ठानामेव व्यवहारो ब्रह्मण्येव पर्यवस्यति, अतो हेतोः सर्वं पुरुषोत्तमाधिष्ठानभूतमक्षरं ब्रह्मैवेति ज्ञात्वा व्यवहर्त्तव्यमित्यर्थमाहुः मूले अतस्त्विति ।
६० सिद्धान्तमुक्तावली ।
अथ जीवस्वरूपं तन्मुक्तिप्रकारं चाहुः आत्मनीति । आत्मनि ब्रह्मरूपे तु छिद्रा व्योम्नीव चेतनाः ॥ १२ ॥ उपाधिनाशे विज्ञाने ब्रह्मात्मत्वावबोधने । गङ्गातीरस्थितो यद्वद्देवतां तत्र पश्यति ॥ १३ ॥ तथा कृष्णं परं ब्रह्म स्वस्मिन् ज्ञानी प्रपश्यति । संसारी यस्तु भजते स दूरस्थो यथा तथा ॥ १४ ॥ अपेक्षितजलादीनामभावात्तत्र दुःखभाक् । तस्माच्छ्रीकृष्णमार्गस्थो विमुक्तः सर्वलोकतः ॥ १५ ॥ आत्मानन्दसमुद्रस्थं कृष्णमेव विचिन्तयेत् । लोकार्थी चेद्भजेत्कृष्णं क्लिष्टो भवति सर्वथा ॥ १६ ॥ क्लिष्टोऽपि चेद्भजेत्कृष्णं लोको नश्यति सर्वथा । आत्मविषय उच्यत इति शेषः । जीवा ह्यणवोऽक्षरात्मकाः, तदात्मकत्वमविद्यया- न्तरायभूतया न विदन्ति । तेन संसारमापद्यन्ते । इदमेवोपाधिरूपत्वं तस्याः, न तु तत्कृतं जीवत्वम् । अणुत्वबोधनार्थं दृष्टान्तः । व्योम्नि यथोपाधिभिः क्षुद्रैः छिद्राणीव प्रतीयन्ते, तथात्मनि क्षुद्रत्वादयो धर्माः प्रतीयन्ते, न तु ब्रह्मधर्मा इति बोधनार्थं च । उपाधिनाश इति । तेषां मध्ये यं जीवं येन प्रकारेण प्रभुरुदिधीर्षुर्भवति, तत्कारकगुरूपदेशादिभिरवि- द्यालक्षणोपाधेर्ब्रह्मात्मकत्वावबोधनप्रतिबन्धकस्याविद्यात्मकस्य नाशे ब्रह्मात्मकत्वावबोधन- लक्षणे विज्ञानेऽनुभवे सम्पन्ने पुरुषोत्तमाविर्भावयोग्यता जातेति तस्मिन् जाते स्वात्मनि तं श्रीरघुनाथात्मजश्रीव्रजनाथकृतविवृतिटिप्पणी । अथेति । ब्रह्मावबोधप्रकारनिरूपणानन्तरं प्रसङ्गसंगत्या जीवस्वरूपं तन्मुक्तिप्र- कारं अहंममतानिवृत्तिप्रकारं च निरूप्यते, पूर्वं तु प्रपञ्चस्वरूपं ममतानिवृत्तिप्रकारश्चोक्तः । तदात्मकत्वमिति । अक्षरात्मकत्वम् । इदमेवेति । अज्ञानजनकत्वमेवेत्यर्थः । तत्कृत- मिति । अविद्यया जीवत्वं ब्रह्मणि जन्यत इति नार्थः । चित्प्रधानब्रह्मांशतया जीव- स्यावच्छेदत्वात् । येन प्रकारेणेति । कर्मज्ञानभक्तिमार्गोक्तप्रकारेण । अविद्यालक्ष- णोपाधेरिति । स्वरूपाज्ञानादिपञ्च मूलाविद्याकार्यभूताविद्यालक्षणमभिज्ञापकं यस्य । अविद्यात्मकस्य मूलाविद्यात्मकस्य । तथा कृष्णमित्याद्यर्थमाहुः तस्मिन्निति । पुरुषोत्तमाविर्भावे जाते सतीत्यर्थः । तं लीलाविशिष्टं पुरुषोत्तमं पश्यतीत्यर्थः । इदमेव निवेदनाङ्गमूतं दर्शनं ज्ञेयम् । तस्य विज्ञाने जाते स्वात्मनि पुरुषोत्तमदर्शनवतः । १. न तु ब्रह्मधर्मबाधनार्थमितिपाठः ।
[Page Header: श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । ६१]
प्रकर्षेण पश्यतीत्यर्थः । तस्य सर्वस्वरूपो हरिरेवेति न तदतिरिक्तमपेक्षते । भजनोपयोग्यर्था- पेक्षायामपि प्रभुणेव सर्वं सम्पद्यत इति न कदाचिद्दुःखी भवति । एतज्ज्ञापनार्थं दृष्टान्तः । ( गङ्गातीरस्थित इति । यद्वद् यथा गङ्गातीरस्थितस्तत्र प्रवाहमध्ये देवतामाधिदैविकीं तां पश्यति, तथा ज्ञानी स्वस्मिन् आत्मनि परं ब्रह्म कृष्णं पश्यति, परं भक्त्येति विशेष उभयत्र ज्ञातव्यः । तदभावे तु दर्शनमपि दुर्लभम्, कुतस्तरां भजनमिति भावः । 'भक्त्या या दृश्यते क्वचि'दिति पूर्वमुक्तत्वात् 'भक्त्याहमेकया ग्राह्य' इति प्रभुवचनाच्च । ननूक्त- प्रकारकज्ञानाभावेपि लोके भजनं दृश्यते, तत् कथमित्यपेक्षायामाहुः संसारेति । ) यस्तु प्रपञ्चासक्तो गुरूपदेशमात्रेण भजते, संसारनिवृत्तिहेतुत्वं ज्ञात्वा भजते, न तु ब्रह्म- भावसम्पत्त्या, पुरुषोत्तमाविर्भावाभावात्, स तु गङ्गातो दूरस्थो यथा तां भजते, तत्रापेक्षि- ततज्जलाप्राप्त्या दुःखी भवति, तथा अयं भक्तिमार्गस्थ इति साक्षात्स्वरूपसम्बन्ध्यर्थापेक्षायां तदप्राप्त्या क्लेशभागभवतीत्यर्थः । तथापि न स भजनं त्यजति, अङ्गीकारात्प्रभोः । अनङ्गी- कारे तु मध्ये भजनप्रतिबन्धेपि कृतभजनवैयर्थ्यासम्भवाज्जन्मान्तरे तत्फलिष्यतीति ज्ञेयम् । (तेन प्रवाहभक्तिमार्गीयोऽयं निरूपितः, अन्यथा मध्येऽनङ्गीकारः, तेन भजनप्रतिबन्धादिकं न स्यात् । ननु पुष्टिमार्गं परित्यज्य किं तत्कथनेनेत्याशंक्याहुः तस्मादिति । यस्मात् प्रवा- हस्थभक्तेऽप्येवमङ्गीकारः प्रभोः, यज्जन्मान्तरेपि तं न त्यजति, तस्माद्धेतोः श्रीकृष्णमार्ग- स्थः पुष्टिमार्गस्थः सर्वलोकतोपि मुक्तो भिन्नो विशिष्टश्चेत्यर्थः । सर्वपदात् ज्ञानितः प्रावा-
श्रीरघुनाथात्मजश्रीव्रजनाथकृतविवृतिटिप्पणी ।
तदतिरिक्तं भगवदतिरिक्तम् व्यवहार्यं वस्तु । अर्थापेक्षायां जलाद्यपेक्षायाम् । प्रभुणेव प्रभुरेव लीलासृष्टिविशिष्टप्रचुरलीलासृष्टिस्थपदार्थान् प्रकटयतीत्यर्थः । अक्षरात्मकाधिष्ठान- भूतजलाभावेपि पुरुषोत्तमात्मकलीलासृष्टिस्थजलाविर्भावो भवतीत्यर्थाभावप्रयुक्तं दुःखं कदापि न भवतीत्यर्थः । एतदिति । वक्ष्यमाणैतद्विभागज्ञापनाय संसारी यस्त्विति दृष्टान्तः । यस्त्विति । तुशब्देन लीलासृष्टिविशिष्टपुरुषोत्तमाविर्भाववतो व्यावृत्तिः । पुरु- षोत्तमाधिष्ठानत्वेन अक्षरत्वेन च प्रपञ्चज्ञानवान् प्रपञ्चासक्तः । स त्विति । इदं पदं 'क्लेशभागभवती'त्यनेन सम्बध्यते । भक्तिमार्गस्थ इति । भजनाकांक्षा प्रतिपादिता । साक्षादिति । सत्यां भजनोपयोगिजलाद्यपेक्षायां कदाचिदधिष्ठानभूताक्षरात्मकजलाद्य- भावेन पुरुषोत्तमात्मकजलाप्राप्त्या क्लेशभाक् भवतीत्यर्थः । ननु ब्रह्मभावसंपत्तिर्हि पूर्वा- वस्था, सा च सर्वेषां समाना, तत्र च सर्वस्यापि सेवोपयोगियावदर्थाप्राप्त्योद्वेगहेतुक्लेशभा- कत्वस्य सिद्धत्वात्तेन न सेवासिद्धिः इति चेत्, सत्यमित्याशयेनाहुः तथापीति । अङ्गी- कारात् पुष्ट्यावङ्गीकारात् । अङ्गीकार एव शीघ्रं सर्वफलसाधक इत्यदोषः । अङ्गीकारे च भजनत्यागाभाव एव मानम् । अनङ्गीकार इति । केवलपुष्टावनङ्गीकारे । मूले तस्मादिति । यतो हेतोरङ्गीकृत एव न दुःखभाक् तस्माद् हेतोः शुद्धपुष्टिमार्गस्थः तद-
६२ सिद्धान्तमुक्तावली । हिकभक्तः, कैमुतिकन्यायेन साधारणलोकतश्चेति ज्ञेयम् । ज्ञानिनः संसाराभावात् संसा- रिणो ज्ञानाभावेन दुःखभाक्त्वम् । पुष्टिमार्गस्येव प्रभुस्वरूपं ज्ञात्वा सर्वस्वनिवेदनपूर्वकं सर्वा- त्मभावेन भजनं स्वप्नेपि दुर्लभम् । पुष्टिमार्गीयस्य प्रभ्वनुग्रहैकनियम्यत्वात् सर्वमुपपद्यत इति ततो वैशिष्ट्यम् । एतावत्सर्वं श्रीकृष्णमार्गस्थपदेन द्योतितम् । अतः सर्वमवदातम् । ननु वित्ताद्यभावे पुष्टिमार्गीयस्यापि भजनासंभवे दुःखित्वात् कथमुक्तवैशिष्ट्यमित्यपेक्षायामाहुः ) आत्मानन्दसमुद्रस्थमिति । श्रीकृष्णपदात्पुष्टिमार्गीयभक्तप्रकटितनिरवध्यानन्देषु विहरन्त- मित्यर्थः । ते तु व्रजरूपात्मका इति मन्मतिः । स आनन्दो भगवत्स्वरूपात्मकस्तद्दत्त एव । अत आत्मपदं भगवत्परम् । ( बहिरसंभवेप्यन्तरेवं भजेत् । अतो नोक्तानुपपत्ति- रिति भावः । ननु कश्चिज्जीविकार्यमपि भजते, तस्य का गतिरित्यत आहुः लोकार्थी- ति । लोकपदेन लौकिकोऽर्थ उच्यते, तदर्थी चेत् कृष्णं भजेत्, तदा व्यापारवदर्थे सिद्धे तस्याप्यनर्यरूपत्वेन तत्कृतभजनस्य भक्तित्वाभावात् तत्कृतं सर्वं क्लेशरूपमेव । अतः क्लिष्टो भवतीत्यर्थः । न केवलमैहिकः क्लेशः, किन्तु परलोकोपि नश्यति, निषि- द्धाचरणादिति सर्वथेत्युक्तम् । यस्य स्वल्पमपि ज्ञानम्, स नैवं करोति, सर्वथा तद्रहितः कश्चिदेवं कुर्यादपीति चेदित्युक्तम् । अत्र मूलनामोक्तिर्भजनकर्तुरभिप्रायेण, अन्यथा तदसंभवात् । तर्हि लोकार्थित्वाभावेपि तद्रहितस्य भजनासंभवात् को विशेष इत्यत आहुः क्लिष्टोपीति । लौकिकार्थाभावेन क्लिष्टोपि गीतायां नवमेऽध्याये 'पत्रं पुष्पं फलं तोय'मिति वचनात् कृष्णं चेत् भजेत्, तदा यथासंभवं भजनमर्थादेव सिध्यति, परं लोको नश्यति । लौकिकं न सिध्यति, न तु स्थितं नश्यति, भजनसिद्धौ न तावता कापि हानि- रिति भावः । भगवतस्तथेच्छेति सर्वथेति निरूपितम् । चेदिति तथा भजनमशक्यमिति ज्ञापनाय ) ॥ १३ ॥ १४ ॥ १५ ॥ १६ ॥ स्वस्वरूपज्ञानप्रभुस्वरूपज्ञानाभाववान् भक्तोऽपि पुष्टिमर्यादाभेदेन द्विविधः । श्रीरघुनाथात्मजश्रीव्रजनाथकृतविवृतिटिप्पणी । धिष्ठानापेक्षारहितः तथाविधं कृष्णमेव विशेषेण चिन्तयेदिति संबन्धः । श्रीकृष्णेति । रसात्मकनामोक्तेः । पुष्टीति । पुष्टिमार्गीयभक्तेषु प्रकटिता ये स्वरूपात्मकास्तथाविधा आनन्दास्तेषु भक्तेषु प्रकटितः । तद्दत्त इति । भगवद्दत्तः । अत इति । तथाविधान- न्दस्य स्वरूपात्मकत्वादेव । ज्ञानमार्गे एव जीवानन्दसंभवात् । अनेन चिन्तनरूप आत्म- निवेदनाङ्गभूतः स्नेह उक्तः । मूले लोकार्थीति । प्रपञ्चत्वेनैव प्रपञ्चज्ञानवान् लोकार्थी- त्यर्थः । स यदि लौकिकार्थेनैव कृष्णसेवा कुर्यात्, तदा सेवाया असिद्ध्या तथा भव- तीति । तादृशोपि चेद्भजेत्, तदा लोको नश्यति । लोकः अक्षरत्वेन ज्ञातो भविष्यतीत्यर्थः । स्वस्वरूपेति । पुरुषोत्तमाधिष्ठानत्वेन स्वस्वरूपाज्ञानं, तत्राधिष्ठितत्वेन च प्रभुस्व- रूपाज्ञानं ज्ञेयम् । पुष्टिमर्यादेति । अत्र पुष्टौ मर्यादांशः । स्वल्पमर्यादायां च पुष्ट्यं-
श्रीमद्विठ्ठलेश्वरविरचितविवृतिसमेता । ६३ उभयोश्चित्तचाञ्चल्याभावायाहुः ज्ञानाभाव इति । ज्ञानाभावे पुष्टिमार्गी तिष्ठेत्पूजोत्सवादिषु ॥ १७॥ मर्यादास्थस्तु गङ्गायां श्रीभागवततत्परः। अनुग्रहः पुष्टिमार्गे नियामक इति स्थितिः ॥ १८ ॥ उभयोस्तु क्रमेणैव पूर्वोक्तैव फलिष्यति । ज्ञानाधिको भक्तिमार्ग एवं तस्मान्निरूपितः ॥ १९॥ (पुष्टिमार्गी पूजोत्सवादिषु तिष्ठेत्, पुष्टिपुष्टिमार्गे पूजापदं तस्य ज्ञानाभावात् प्रथम- प्रवृत्त्यभिप्रायेणोक्तम् । मनसस्तन्निष्ठतायां कृतिरेव सिध्यतीति तत्कुर्यादित्यनुक्त्वा तत्र तिष्ठेदित्युक्तम् । मर्यादायां प्रकारान्तरमाहुः मर्यादास्थ इति । गङ्गायां गङ्गासमीपे श्रीभागवततत्परस्तिष्ठेदिति पूर्वेण सम्बन्धः । उभयोरन्यतरधर्मव्यावृत्त्यर्थं तुशब्दः । तत्र भेदकं किमित्याकाङ्क्षायां पुष्टिमार्गीये विशेषमाहुः अनुग्रह इति। तस्य स्थितौ न देशनि- यमः, किन्तु प्रभुरनुगृह्य यत्रैव यथा स्थापयति, तत्रैव तिष्ठति तथा । तस्य विधिर्न निया- मक इति भावः । मर्यादास्थावपि ज्ञानिभक्तौ चेदनुगृह्णाति विशेषतः, तदा आदौ पुष्टि- मार्गं प्राप्य तन्मार्गीयां भक्तिं प्राप्नुत इत्याहुः उभयोरिति । यदि मर्यादायामेवाङ्गीकारः, तदोभयोर्मुक्तिरेव फलिष्यतीत्याशयः । एवं निरूपणे तात्पर्यमाहुः ज्ञानाधिक इति । लोकेऽधुना भक्तेरपि ज्ञानं फलं, तस्य मुक्तिरेवेति सर्वे वदन्ति । तत्र ज्ञानं हि ब्रह्मात्मैक्य- ज्ञानम् । ब्रह्म चाक्षरात्मकम्, तदात्मकत्वेन सर्वज्ञानं च । एतावतापि पुरुषोत्तमसम्बन्धस्तु दूरतरः । तस्य अक्षरातीतत्वात् । अत एवार्जुनेन पुरुषोत्तमाक्षरभजनयोस्तारतम्यं पृष्टः श्रीरघुनाथात्मजश्रीव्रजनाथकृतविवृतिटिप्पणी । शस्त्येति ज्ञेयम् । उभयोरिति पूर्वोक्तयोस्तयोः । ज्ञानाभाव इतीति । अनेनोद्वेगनि- वृत्त्युपाय उक्तः । ज्ञानिभक्ताविति । ज्ञानी च भक्तश्च ज्ञानिभक्तौ । तत्र ज्ञानी ज्ञान- मार्गप्रकारेण प्राप्तज्ञानः । अनुगृह्णाति विशेषत इति । मर्यादात्यागपूर्वकमनुग्रहं करो- तीत्यर्थः । तन्मार्गीयामिति । पुष्टिमार्गीयां । भक्तिमिति निवेदनाङ्गभूतं स्नेहं प्रेमलक्षणां भक्तिं वा । इदमेव मूले पूर्वोक्तपदेन ग्राह्यम् । क्रमेणैवेति मूले । क्रमस्त्वत्र विशेषाङ्गीकारे- णैव मानससेवारूपफलसिद्धिः । एवकारेण विशेषाङ्गीकाररूपक्रमाभावे तु न फलसे- वासिद्धिः । तदा मर्यादाप्रचुरस्य श्रीभागवततत्परस्य गङ्गासेविनोऽक्षरसायुज्यम् । पूजो- त्सवादिस्थितपुष्टिमार्गिणश्च पुरुषोत्तमसायुज्यमिति स्वगर्भकृतोर्थो ज्ञेयः । तमेव चार्थं प्रकाशयन्ति भक्तजनवाञ्छाकल्पतरुश्रीमद्वल्लभवतनयश्रीविठ्ठलचरणास्तदोभयोरित्यादिना । उभयोरीतीति । उभयोर्मर्यादापुष्टिस्थज्ञानिभक्तयोः । मर्यादायामेवेति । एवकारः पुष्टिभेदव्यवच्छेदकः । एवं निरूपण इति । गङ्गादृष्टान्तेन भक्तिमार्गनिरूपणे । तात्पर्य-
स्वभजन आधिक्यमाह गीतासु द्वादशेऽध्याये । गङ्गायां च क्षराक्षरपुरुषोत्तमतारतम्यदृष्टान्तः स्पष्टः । न हि देवी तीर्थात्मिका जलात्मिका वा, किन्तु जल एव तीर्थात्मकत्वं जानन् ज्ञानी भवति । तदतीतदेवतात्मकदर्शने भक्तत्वम् । न हि भक्त्या देवताद्रष्टृसमः पूर्वी भवति । अत एव पुरुषोत्तमं मां जानन् मामेव सर्वभावेन भजतीति 'यो मामेवमसंमूढ' इत्युपक्रम्य 'भजति मां सर्वभावेने' ति प्रभुरुक्तवान् । अतो ज्ञानमार्गीयस्यापि पुरुषोत्तम- विदोऽपि भक्तिनिष्ठैव फलमिति किमितोऽधिकं वाच्यम्, अनेकप्रमाणसिद्धत्वादिति विद्वद्भि- र्ज्ञेयम् । ऋग्वेदेऽपि पठ्यते 'तमु स्तोतारः पूर्व्यं यथाविद ऋतस्य गर्भं जनुषा पिपर्तन । आस्य जानन्तो नाम चिद्विवक्तन महस्ते विष्णो सुमतिं भजामहे ।' हे स्तोतारो भगवदुत्कर्षवर्ण- नपराः पूर्व्यं सर्वकारणकारणरूपं तं लोकवेदप्रसिद्धं पुरुषोत्तमं भवन्तो यथाविद्विदन्ति तत्स्वरू- पमिति तथाभूताः । ऋतस्य सूनृतवाणीरूपस्य वेदस्य गर्भरूपम् । स्वोदरस्थं वेदं विश्वहितार्थं ब्रह्मण उपदिष्टवानिति तथा । जनुषा स्वजन्मनेव पूर्णेन, न तु क्षणयाममात्रेण । पिपर्तन पूर्तियुक्तं सन्तुष्टं कुरुत । अत्र यथावित्त्योक्त्या पूर्णज्ञानानां देहेन्द्रियप्राणान्तःकरणजीवां- स्तदर्थमेव तद्भजनार्थमेवोपयुक्तान् कुरुतेति भक्तिमार्गे विनियोगमुपदिशति । तेन स्फुटमेव ज्ञानमार्गाद्भक्तिमार्गस्याधिक्यमवगम्यते । भक्त्या विना न कोपि पुरुषार्थः सिध्यतीति हृदयेनाहाग्रे देहादिसर्वविनियोगाशक्तौ आसमन्ताज्जानन्तोऽखण्डशब्दब्रह्मरूपं, न तु लौकिकशब्दरूपमिति । नामस्वरूपं जानन्तस्तदेव विवक्तन विशेषेण वदन्तु । अधिकमा- हात्म्याद्यज्ञाने नाममात्रमृत कीर्तयन्तु । एतेनैव भगवत्स्वरूपतन्माहात्म्यादिकं ज्ञातं भवि- ष्यतीत्याशयेनाह नामस्वरूपम् । चिदिति । चिदित्युपलक्षणम् । सच्चिदानन्दात्मकमित्यर्थः । नामस्वरूपाज्ञाने तदुपदेष्टृगुरूपसत्तिः कार्येत्याशयेनाह महस्त इत्यादि । ते त्वत्सम्बन्धिनं सुमतिं निर्दोषपूर्णगुणत्वेन भवन्तं जानन्तं भगवद्भक्तं भजामहे । स च स्वतेजसा पराज्ञा- ननिरासक इत्याह मह इति । तेजोरूपमित्यर्थः । स्वहृदि सदा श्रीकृष्णप्राकट्येनोत्सवात्म- कमिति वा । एतेन ज्ञानिनां भक्तिमार्गप्रवेश एवोपदिष्टो भवति । एवमेव 'तद्विष्णोः' 'तद्विप्रास' इत्यादिश्रुतिसहस्रैर्निगद्यत इति सुष्ठूक्तं ज्ञानमार्गादधिको भक्तिमार्ग इति ॥१७॥१८॥१९॥
श्रीरघुनाथात्मजश्रीव्रजनाथकृतविवृतिटिप्पणी।
मिति । ज्ञानमार्गाद्भक्तिमार्गस्याधिक्यज्ञापनरूपम् । गङ्गायामिति । आधिभौतिकादिभेदेन गङ्गायां क्षरादिदृष्टान्तः स्पष्टः । ननु जलतीर्थात्मिकैव गङ्गा, न तु तदतिरिक्ता देवतारूपेति कथं गङ्गादृष्टान्त इत्यत आहुः नहीति । किंस्विति । इदंपदं भक्तत्वमित्यनेन संबध्यते । तदातीतेति । जलतीर्थात्सिकातिरिक्ता तद्दर्शनेन भक्तत्वं भवति, भक्तत्वं अभिज्ञातं भवती- त्यर्थः । तथाच भक्त्यभिज्ञापकत्वरूपादेवीति फलितार्थो ज्ञेयः ।
श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । ६५ गङ्गादृष्टान्तस्य तात्पर्यान्तरमाहुः भक्त्यभाव इति । भक्त्यभावे तु तीरस्थो यथा दुष्टैः स्वकर्मभिः । अन्यथाभावमापन्नस्तस्मात्स्थानाच्च नश्यति ॥ २० ॥ एवं स्वशास्त्रसर्वस्वं मया गुप्तं निरूपितम् । एतद्बुद्ध्वा विमुच्येत पुरुषः सर्वसंशयात् ॥ २१ ॥ इति श्रीवल्लभाचार्यविरचिता सिद्धान्तमुक्तावली सम्पूर्णा ॥ भगवत्सान्निध्यदेशेऽपि स्थितौ भक्त्यभावे तथा भवतीति भावः । एतेन भक्तेरा- वश्यकत्वमुक्तं भवति । ( सप्रयोजनमुक्तमुपसंहरन्ति एवमिति । उक्तप्रकारेण स्वशास्त्र- रूपं स्वशास्त्रस्य वा सिद्धान्तरूपसर्वस्वं गुप्तं स्वल्पेन बहु निरूपितत्वात् गम्भीरतात्पर्यं बहिर्मुखानामज्ञापनीयं वा । किं तेनेत्यत आहुः एतदिति । एतज्ज्ञानेन स्वमार्गसम्बन्धि- सर्वसंशयनिवृत्तिर्भवति, अन्यथा ‘संशयात्मा विनश्यती’ति बुद्धिरन्यथा भवेदित्यर्थः । ) ॥ २० ॥ २१ ॥ इति श्रीपितृपादाब्जपरागरससिक्तहृत् । श्रीविठ्ठलस्तत्सिद्धान्तवाञ्छालां हृदये दधौ ॥ १ ॥ श्रीरघुनाथात्मजश्रीव्रजनाथकृतविवृतिटिप्पणी । तात्पर्यान्तरमिति । पूर्वे ‘ज्ञानाधिक’ इत्यनेन भक्तेर्ज्ञानाधिक्यरूपं तात्पर्यमुक्तम् । अनेन भक्तेरावश्यकत्वरूपं तात्पर्यमुच्यते । भक्त्यभाव इतीति । तीर्थात्मकत्वेन जानन्नपि तीरस्थितोपि भक्त्यभावे दुष्टैः कर्मभिः अन्यथाभावं जलत्वेनैव ज्ञानवान् तस्मात् स्थाना- त्तीर्थत्वज्ञानादेव नश्यतीत्यर्थः । तथा भवतीति । अक्षरब्रह्मात्मकत्वेन ज्ञानवानपि दुष्टैः प्रारब्धैः स्वकर्मभिरन्यथाभावं प्राप्तः प्रपञ्चत्वेनैव जानन् तस्मात् स्थानात् ब्रह्मात्मकत्वज्ञा- नान्नश्यतीत्यर्थः । न च ज्ञानेन सर्वपापक्षयात् कथमन्थाभावो वक्तुं शक्य इति शंक्यम् । ज्ञानस्यानारब्धानामेव कर्मणां नाशकत्वात् । प्रारब्धकर्मणां नाशस्तु पुष्ट्यैवेति सिद्धं भक्तेरे- वावश्यकत्वम् । एवमिति । पूर्वोक्तप्रकारेण । स्वशास्त्रेति । स्वशास्त्रस्य सेवाप्रकार- रूपं सिद्धान्तम् । गुप्तं निरूपितमिति । गुप्ततया निरूपितम् । एतदिति । यन्मया गुप्तं निरूपितम् । एतद्बुद्ध्वा विमुच्येत । सर्वसंशयाद्विमुक्तो भवतीत्यर्थः । पुनः कदापि संशयं न प्राप्नोतीति विशब्दार्थः ॥ इति श्रीरघुनाथात्मजश्रीव्रजनाथविरचिता सिद्धान्तमुक्तावलीविवृतिटिप्पणी । ९ सि० मु०
सिद्धान्तमुक्तावली ।
दीक्षितश्रीलालूभट्टकृतव्याख्यासमेता ।
श्रुत्येकसिद्धशृङ्गारमूर्त्तिमानन्दविग्रहम् । गोवर्धनधरं वन्दे श्रीराधाप्राणवल्लभम् ॥ १ ॥ नमामि श्रीमदाचार्यान् प्रभूञ्छ्रीविट्ठलेश्वरान् । यत्कृपातो व्रजाधीशसेवनं प्राप्नुयान्नरः ॥२॥ अथ सकलसच्छास्त्रसारज्ञाः श्रीवल्लभाचार्यचरणा दैवजीवानामज्ञानान्यथाज्ञाननिष्ठानां भगवत्सेवानामप्रवृत्तिं तया च तदकृतार्थतामवलोक्य परमकृपालवस्तज्जनुस्साफल्याय श्रुतिगी- ॰ताव्याससूत्रसमाधिभाषासिद्धं स्वसिद्धान्तं निरूपयन्ति नत्वा हरिमित्यादिना । नत्वा हरिं प्रवक्ष्यामि स्वसिद्धान्तविनिश्चयम् । कृष्णसेवा सदा कार्या मानसी सा परा मता ॥ १ ॥ कृष्णसेवेति । 'दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः' 'नेच्छन्ति सेवया पूर्णाः' 'मद्धृद्दिसेवात्तुरक्तमनसामभवोऽपि फल्गुरी'त्यादिवचस्सहस्रैः सेवाया मोक्षादप्युत्कृ- ष्टत्वेन परमपुरुषार्थत्वम् । अतः सैव कार्या । तत्र कीदृशी सेवा विवक्षितेति तामाहुः मा- नसी सेति । यथा मर्यादामार्गे मुक्तिः फलं, तथात्र सेवा स्वतन्त्रपुरुषार्थरूपा मानसी फलमित्याशयः ॥ १ ॥ सेवां लक्षयन्ति चेतस्तत्प्रवणमिति । चेतस्तत्प्रवणं सेवा तत्सिद्धयै तनुवित्तजा । ततः संसारदुःखस्य निवृत्तिर्ब्रह्मबोधनम् ॥ २ ॥ तच्छब्देन पूर्वोक्तः कृष्णः परामृश्यते, 'पटोलपत्रं पित्तघ्नं नाडी तस्य कफापहे'- त्यादाविवैकदेशान्वयस्वीकारात् । तथाच कृष्णप्रवणं चेतः सेवा । 'देवानां गुणलिङ्गा- नामानुश्रविककर्मणाम् । सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या । अनिमित्ता भागवती भक्तिः सिद्धेर्गरीयसी'ति लक्षणवाक्ये मनोवृत्तेरेव भक्तित्वेन कथनाद्वृत्तेश्च कारणानतिरेकात् । अतस्तादृशी चित्तवृत्तिर्मानसी सेवेति फलितम् । अत एव चेतस्त- त्प्रवणमित्यस्याभासे श्रीमत्प्रभुचरणैरुक्तं यथेत्यारभ्यैतदेव सेवास्वरूपमित्याहुरित्यादि । अत एवाथर्वणे 'भक्तिरस्य भजनं तदिहामुत्रोपाधिनैराश्येन मनःकल्पनमि'ति श्रूयते । अत्रापि मनसः कल्पनं भक्तिरित्युक्त्या तादृक्चित्तस्यैव भक्तित्वमायाति । भक्तिमीमां- सासूत्रेपि 'सा परानुरक्तिरीश्वरे' इति लक्षणेन चित्तधर्मस्यानुरागस्यैव भक्तित्वमुक्तम् । धर्मधर्मिणोरभेदात् । भक्तिशब्देन च सेवैव विवक्षिता । 'भज सेवायामि'ति धात्व- र्थात् । 'विना मत्सेवनं जना' इत्युक्त्वा 'स एव भक्तियोगाख्य आत्यन्तिक उदाहृत'
श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । ६७ इत्युदीरितवाच्च । पूर्वमपि 'अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तम' इत्युक्तम् । अतो भक्तिशब्देन मुख्यतया मानसी सेवैवायाति । सा केन साधनेन सम्पद्येत इत्याका- ङ्क्षायामाहुः तत्सिद्ध्या इति । 'गृहशुश्रूषणं मह्यं दासवद्यदमायया' 'तव परि ये चरन्ति' 'आदरः परिचर्यायाम्' 'श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम्' 'करौ हरेर्मन्दिरमार्ज- नादिषु' 'शार्वौ करौ नो कुरुतः सपर्याम्' 'करौ च तत्कर्मकरौ मनश्च'त्यादिवाक्यैस्तनुज- सेवायाः 'सर्वलाभोपहरणम्'त्यादिवचोभिर्वित्तजायाश्च 'तज्जन्म तानि कर्माणि तदायूस्त- न्मनो वचः । नृणां येन हि विश्वात्मा सेव्यते हरिरीश्वरः' 'मुकुन्दसेवौपयिकं स्पृहा हि न' इत्यादिवाक्यैरुभयोश्च तथात्वावगतेः । इह ग्रन्थे विधेयांशः सेवा, शिष्टो ग्रन्थस्तदुपपाद- नार्थः । ननु 'ब्रह्मविदामोति परमि'ति श्रुत्या पुरुषोत्तमप्राप्तौ ब्रह्मवित्त्वस्य कारणत्वोक्तेर्ज्ञा- नमवश्यं सम्पादनीयम् । तच्च वेदान्तश्रवणमननादिसाध्यम् । तानि च बहुकालसाध्यानि । इह तु सदा कृष्णसेवा कार्येत्युपदेशादवकाशाभावान्ममनादिसाधनासिद्धेर्ज्ञानासिद्धिरित्याश- ङ्क्योत्तरं ब्रुवन्ति ततः संसारदुःखस्येत्यादि । ततस्तनुवित्तजसेवात एव संसारदुःखस्या- ज्ञानकार्यस्य नाशो, ब्रह्मज्ञानं चावान्तरफलं भवति । 'मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान्समतीत्यैतान् ब्रह्मभूयाय कल्पत' इति वाक्यात् । 'इत्यच्युताङ्गिं भजतो- ऽनुवृत्त्या भक्तिर्विरक्तिर्भगवत्प्रबोध'इत्यादिवचनाच्च । अत एवोक्तं तत इत्यस्याभासे टीकायां श्रीमत्प्रभुचरणैरेतादृशस्यावान्तरफलं भवतीत्याहुरित्यनेन ॥ २ ॥ ज्ञानविषयस्य ब्रह्मणो रूपभेदानभिदधतः कृष्णे मूलरूपत्वं वदन्ति परं ब्रह्म त्विति । परं ब्रह्म तु कृष्णो हि सच्चिदानन्दकं बृहत् । द्विरूपं तद्धि सर्वं स्यादेकं तस्माद्विलक्षणम् ॥ ३ ॥ अपरं तत्र पूर्वस्मिन् वादिनो बहुधा जगुः । मायिकं सगुणं कार्यं स्वतन्त्रं चेति नैकधा ॥ ४ ॥ तदेवैतत्प्रकारेण भवतीति श्रुतेर्मतम् । द्विरूपं चापि गङ्गावज्ज्ञेयं सा जलरूपिणी ॥ ५ ॥ माहात्म्यसंयुता नृणां सेवतां भुक्तिमुक्तिदा । मर्यादामार्गविधिना तथा ब्रह्मापि बुध्यताम् ॥ ६ ॥ 'कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधी- यत' इति निर्वचनात् । इयं हि श्रुतिरेव । नारायणश्रुतौ गोपालपूर्वतपिन्युपनिषद्दीपिका- याम्—तत्रादौ कृष्णशब्दार्थनिर्णयमाह—कृषिर्भूवाचकः शब्द इति । कृष् विलेखने । कृष्यते विलिख्यत इति कृष् भूमिः । सत् । णश्च निर्वृतिवाचक इति । निर्वृत्तिरानन्दः सुखम् । १. आगतेति पाठः । २. स्यादिति क.
६८ | सिद्धान्तमुक्तावली ।
शुद्धं ब्रह्मेति यावत्—एवमियं श्रुतिर्व्याख्याता । ततः 'सच्चिदानन्दायै'ति श्रुतिर्व्याख्याता । अतः 'कृषिर्भूवाचकः शब्द' इति गोपालतापिन्यारम्भेऽस्तीति बोध्यम् । 'परं ब्रह्मैतद्यो ध्यायति रसति भजति सोऽमृतो भवती'त्यादिश्रुतेश्च । 'यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः' 'मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जये'ति भगवद्वाक्याच्च । तुशब्देनाक्षरस्य ब्रह्मत्वेपि परत्वाभावात् परस्य पुरुषोत्तमस्यैव सेव्यत्वम् । अनेन पूर्वोदितः कृष्णसेवाविधिः समर्थितः । सच्चिदानन्दकमिति । बृहत् अक्षरं ब्रह्म सच्चिदानन्दकम् । अल्पार्थे कन् । 'ते ये शतं प्रजापतेरानन्दाः स एको ब्रह्मण आनन्द' इति तैत्तिरीये गणितानन्दत्वात् । तदक्षरं द्विरूपमित्याहुः द्विरूपं तद्धीत्यादि । एकं सर्वं निखिलप्रपञ्चात्मकं कार्यरूपम् । अपरं तस्मात्पूर्वस्माद्विलक्षणं प्रापञ्चिकधर्मरहितं 'अस्थूलम- नण्वि'त्यादिश्रुतिविषयः, 'सत्यं ज्ञानमनन्तं ब्रह्म' 'यो वेद निहितं गुहायाम्' 'सत्यं ज्ञानमनन्तं यद्ब्रह्म ज्योतिः सनातनम्' 'तदाहुरक्षरं ब्रह्म' 'तद्धाम परमं ममे'त्यादिश्रुतिस्मृतिविषयश्च । इदं तु ब्रह्मणो भौतिकं प्रपञ्चात्मकं रूपं नाशोत्पत्तिमत्त्वेन भासमानत्वान्मायिकं सगुणमित्याद्यज्ञा- नविलासैर्विकल्प्यते । वस्तुतस्तु 'स हैतावानास' 'स आत्मान १४ स्वयमकुरुत' 'ऐतदात्म्यमिद १४ सर्वम्' 'यदयमात्मा तत्सत्यम्' 'सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत' 'कथमसतः सज्जायेत' 'सत्त्वाच्चावरस्य' 'असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात्' 'पटवच्च' 'ना- भाव उपलब्धेः' 'आत्मकृतेः परिणामादि'त्यादिश्रुतिन्यायशतैरक्षरात्मकमुररीकार्यम् । तत्र नाशोत्पत्तिप्रतीतिर्भ्रान्त्या । आविर्भावतिरोभाववत्त्वेन नित्यत्वात् । ननु 'वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमि'ति श्रुत्या विकारभूतस्य प्रपञ्चस्य कुतो न मिथ्यात्वमिति चेत् । न । 'तदनन्यत्वमारम्भणशब्दादिभ्य' इति सूत्रेण वाचारम्भणमित्यादिशब्दानां प्रपञ्चे ब्रह्मानन्यत्वप्रतिपादनार्थताया निर्णीतत्वात् । अपि च । घटे मृद्विकारत्वमिव प्रपञ्चे ब्रह्मविकारत्वं नास्ति । अविकृतपरिणामवादस्वीकारात् । यत्र हि कार्यस्य पुनः पूर्व- भावापत्तिः सोऽविकृतपरिणामः । यथा कनककुण्डलस्य पूर्वभावापत्तिः कर्तुश्चिकीर्षया, तथा प्रपञ्चस्यापि चिदानन्दप्राकट्ये पूर्वभावापत्तिः । अतो विकारत्वाभावाद्वाचारम्भणश्रुतेर्न प्रपञ्चे प्रवृत्तिः । किञ्च । मायिकं जगदिति वदन् वादी प्रष्टव्यः कथमसत्प्रतीयत इति । शुक्तौ रजतमिवेति चेत् । न । चक्षुषोपलभ्यमानायां हि शुक्तिकायां रजतभ्रान्तिः । ब्रह्मणस्तु 'पराञ्चि खानी'ति श्रुत्या सकलेन्द्रियागोचरत्वेन न तदधिष्ठानकभ्रमसम्भावनापि । भ्रमो- त्पत्तेः सादृश्यसापेक्षत्वेन ब्रह्मप्रपञ्चयोः सादृश्याभावाद्भ्रमाभावः । न हि रज्जौ भुजङ्गभ्रम इव रजतभ्रमोऽपि सूपपादः । सादृश्याभावात् । ननु नीरूपत्वेन चक्षुरगोचरेऽपि व्योम्नि सादृ- श्यानपेक्षो नीलमिदं गगनमिति भ्रमो भवत्येव, अज्ञानकलुषितबुद्धीनामिति चेत्, न । शृणु । ' तत्र हि नभसो मनोगोचरत्वेन व्यवहारविषयत्वाद्भ्रमोद्भूतिः सम्पद्यते । ब्रह्मणि तु निर्विशेषे भ्रमो नास्त्येव । 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सहे'ति श्रुतेर्मनोवागगोचरत्वेन सर्वथा ज्ञानाविषये भ्रमसोपपादयितुमशक्यत्वात् । भवन्मते निरुपाधिके ब्रह्मणि सर्वथा ज्ञानाविष-
यत्वमभिमतम् । विषयत्वेन जडत्वेन व्याप्तेः स्वीकारात् । नन्वारोपे ह्यधिष्ठानसामान्यज्ञानं कारणं, न तु विशेषतो ज्ञानम् । अहंवृत्तौ भासमानस्यात्मनो भवत्येव सामान्यज्ञानमिति चेत्, न । उपाध्यवच्छिन्नस्यैवाहम्प्रत्यये भासमानत्वात् । एवं सद्यात्मनो निरुपाधिकस्य ज्ञानाभावान्न तत्र जगदारोपः संभवतीति विद्वद्भिर्ज्ञेयम् । केचित्तु निषेधमुखेन ज्ञानं सामा- न्यज्ञानमित्याहुः । तन्न । शास्त्रोत्पाद्यस्य तस्यासार्वजनीनत्वे मूर्खाणां जगत्प्रत्ययाभावप्रस- ङ्गात् । सर्वव्यावृत्तताज्ञानस्य त्वधिष्ठानविशेषज्ञानत्वेन प्रत्युत भ्रमनिवर्तकत्वाच्च । न च कस्यचिद्गगनज्ञानाभाववतोऽपि बालादेर्गगने नीलिमभानान्नाधिष्ठानसामान्यज्ञानस्य भ्रम- कारणत्वम् । तथा सति निर्विशेषस्याधिष्ठानस्य सामान्यज्ञानाभावेऽपि तदधिष्ठानको जग- द्भ्रमः स्यादेवेति वाच्यम् । इदं किञ्चिन्नीलमित्याकारकस्य किञ्चित्त्वेन रूपेणाधिष्ठानज्ञानस्य तत्रापि सत्त्वात् । अन्यच्च । यद्यधिष्ठानज्ञानरहितस्यापि नीलिमप्रतीतिरङ्गीक्रियेत, तदा तत्प्रतीतेर्भ्रमत्वमेव न स्यात् । नीलिमज्ञानस्य सर्वदा सर्वेषां जायमानत्वादुपाधिजन्यत्वाभा- वेनोपाधिनाशनाश्यत्वाभावाच्च । मायिकस्य नीलरूपस्य विद्यमानस्यैव विषयत्वेन तद- वगाहिज्ञानस्य भ्रमत्वायोगात् । न च तस्यानिर्वचनीयत्वं, सदसद्भिन्नतयेति वाच्यम् । नीलिम्नः सर्वदैव विद्यमानत्वेन प्रतीतिविषयतया ज्ञानबाध्यत्वाभावेन गगनवत्स्थिरतयाऽनि- र्वचनीयकल्पनायाः प्रवेशानवसरात् । अधिष्ठानभूतं गगनमनवगाह्यैव इदं नीलमिति प्रत्य- यात् । गगनस्य नीरूपत्वान्नीलरूपारोपे भ्रमत्वस्य सुवचनत्वात् । तथा गगनं नीलमिति प्रती- तावेव भ्रमत्वं न तु केवलं नीलमिदमिति प्रतीतौ । तत्र गगनावगाहाभावात् । तदभाववति तदारोपाभावात्, प्रतीतिविषयतया ह्यसत्त्वस्यापि भवन्मतेऽनङ्गीकारात् । अतः सत्त्वमेवोरी- कार्यं स्यात् । तथा सति तदवगाहिज्ञानस्य प्रमात्वमेवापद्येत । अत एतद्दूषणपरिहृतयेऽ- धिष्ठानस्य वियतः केनचिद्रूपेण ज्ञानं बालादीनामप्यस्तीति मन्तव्यम् । तथाच यदा शास्त्रस- मुत्पन्नबुद्ध्या नीरूपत्वेन वियतः केनचिद्रूपेण ज्ञानं बालादीनामप्यस्तीति मन्तव्यम् । तथा च यदा शास्त्रसमुत्पन्नबुद्ध्या नीरूपत्वेन वियतो ज्ञानं समभूत्, तदा रूपरहिते वियति नील- रूपस्यासम्भवं जानन् नीलिमानमसन्तमेव निश्चिनोति । एवं बाधविषयत्वेन सत्त्वाभावाद- विद्यमाननीलरूपावगाहिज्ञानस्य भ्रमत्वं सुवचमिति सन् पन्थाः । एतावता सिद्धमेतत् । अधिष्ठानसामान्यज्ञानं भ्रममात्रे कारणम् । तथा सति परमतेऽधिष्ठानत्वेनाभिमतस्य निर्वि- शेषब्रह्मणः केनापि प्रकारेण ज्ञानविषयत्वाभावान्न तस्मिन्नधिष्ठाने भ्रमः संभवतीति दिक् । यद्यपि सत्तारूपेण सर्वत्र तदस्ति, तथापि न ज्ञातुं शक्यम् । घटः सन् पटः सन्नित्यादौ तु न निर्विशेषरूपा सत्ता प्रतीयते, अपि त्वधिष्ठेयनिष्ठसत्ताया एव प्रतीतिरिति भ्रमोऽधिष्ठानरूपब्रह्मणि निरूपयितुमशक्य एवेति प्रपञ्चमिथ्यात्वं विद्वद्भिर्नादर्तव्यम् । किञ्च । जगदभिपश्यतः परमेश्वरस्यापि भवन्मते भ्रान्तत्वापातः । भ्रमप्रतिपन्नस्य रजता-
१ जगत्प्रतीत्यभावेति ख. २ सुवचत्वादिति स्यात् ।
देशान्तेनैवाध्यक्षीकरणात् । 'वैधर्म्याच्च न स्वप्नादिवदि'ति तत्त्वसूत्रे आदिशब्देना- सत्त्वप्रतिपादकानां सर्वेषामेव निषेधात्प्रपञ्चसत्यत्वमेवाभिप्रेतं व्यासचरणानाम् । 'असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरमि'ति जगदसत्यत्ववादिनां भगवता निन्दितत्वाच्च । अन्यच्च । ब्रह्मणो यथार्थज्ञानं हि जगद्भ्रमं निवर्तयति, शुक्तिबोधो रजतभ्रममिव । तच्च मननादिजन्यत्वेन प्रपञ्चमध्यपातितया नाज्ञानरूपं प्रपञ्चं दूरीकर्तुमीष्टे । यावज्ज्ञा- नानां जगदन्तःपातित्वेनाज्ञानरूपत्वात् । प्रपञ्चोपशामकज्ञानस्योपशान्तौ साधनान्तरस्य मृग्यत्वाच्च । न च चरमवृत्तिज्ञानकार्यमखिलं नाशयित्वा स्वयं नश्यति, कतकरेणुवदिति वाच्यम् । चरमवृत्तिजन्यस्याज्ञानध्वंसस्य नाशकान्तराभावेनावशिष्टस्य सत्त्याऽद्वैतसिद्धि- व्यघातात् । चरमवृत्तिनाशक्षणस्य विद्यमानतया द्वैतापत्तेश्च । अपि च । चरमवृत्तेर्जगन्नाशं प्रति कारणत्वम् । तच्च कार्यनियतपूर्ववृत्तित्वम् । पूर्वत्वं तु कालकृतमिति कारणतानिर्वाहकः कालोऽवशिष्यत एव । तथाच चरमवृत्तिः स्वयं नश्यतीत्युक्तावपि कालस्य कारणतानिर्वाहक- स्योर्वरितत्वान्नाद्वैतसिद्धिरिति ज्ञेयम् । न च ब्रह्मणतिरिक्तः कालः सुखेनावशिष्यताम्, अद्वै- ताबाधकत्वादिति वाच्यम् । चरमवृत्तिनाशरूपकार्यपरिच्छेद्यकालस्य सर्वापरिच्छेद्येन ब्रह्मणा सहाभेदस्य वक्तुमशक्यत्वादिति दिक् । न च वृत्तिरूपाणां तथात्वेऽपि 'सत्यं ज्ञानमनन्तं ब्रह्मे'ति श्रुतेः स्वरूपभूतं ज्ञानं प्रपञ्चभ्रमापहारीति वाच्यम् । स्वरूपभूते ज्ञाने प्रपञ्चनाश- कत्वाङ्गीकारे निर्विशेषवादबाधापत्तेः । ब्रह्मण्येव प्रपञ्चनाशकत्वपर्यवसानात् । तस्य सर्वदैव विद्यमानत्वेन सदा सर्वेषां बन्धाभावप्रसङ्गाच्च । मननादिविधीनामानर्थक्यापत्तेश्च । मनना- दिविधीनां तदभिव्यक्तौ साफल्यमिति चेत्, न । तस्मिन्स्वरूपभूते ज्ञानेऽभिव्यक्त्यात्मकधर्मा- ङ्गीकारे धर्मतावच्छेदकावच्छिन्नाभाववादहानिप्रसङ्गात् । असत्त्ववादे ब्रह्मणि व्यापकत्वमपि दुरुपपादम् । व्याप्यानामज्ञानकल्पितत्वेनापार्थकत्या तत्सापेक्षस्य व्यापकत्वस्यापि सुत- रामवास्तवत्वात् । अस्तु तथात्वमिति चेत्, न । 'बृहत्त्वाद्वृंहणत्वाच्च ब्रह्मे'ति श्रुतिव्याकोपात् । जगदसत्यत्वे तदन्तःपातिनीनां श्रुतीनामपि तथात्वेन व्यवहारमात्रे प्रामाण्याङ्गीकारात्तदुक्तानां निर्विशेषत्वाज्ञेयत्वनिराकारत्वादीनां पारमार्थिकत्वेन तन्मतेऽभिमतानामपि व्यवहृतिमात्रैक- सत्यत्वापोतात् । मनोव्यापारविजृम्भितत्वाच्च । तन्मते शुद्धब्रह्मणो मनोऽप्राप्यत्वेन मनोग- म्यस्य ब्रह्मातिरेकादित्यलमुक्तिभिः । यदप्याहुः—सचेन्न बाध्येत । असचेन्न प्रतीयेत । अतः सदसद्विलक्षणमनिर्वचनीयं जगदिति । तत्र असचेन्न प्रतीयेतेति यदुक्तम् । तन्न । 'अर्थाभावं विनिश्चित्य प्रतीतस्यापि नात्मनः । तां चापि युष्मच्चरणसेवयाऽहं पराणुदे' इति मैत्रे- यवाक्यात् 'छायाप्रत्याह्वयाभासा असन्तोप्यऽर्थकारिण' इति वाक्यान्तराच्च असतोऽपि प्रतीतिस्वीकारात् । अतोऽसत्पदार्थ एव भेदद्वयमस्ति । एकमसन्न प्रतीयते, शशशृङ्गादिवत् । एकमसत्प्रतीयते शुक्तिरजतादिवदिति व्यवस्था । न त्वनिर्वचनीयं कल्पनीयम् । मानाभा-
१ लक्षणेति पाठः । २ व्यवहृतिमात्रैकसत्यत्वाभावादिति. ख.
[Header] श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । ७१
वात् । ननु 'त्वय्यद्वितीये भगवन्नयं भ्रम' इत्यादिवाक्येष्वसत्यता दृश्यत इति चेत्, न । भ्रमः अज्ञानमसदित्यादिशब्दानामहन्ताममतात्मकसंसारविषयत्वात् । एतच्चाग्रे स्पष्टम् । किञ्च । अनादिरयं भ्रम इति प्रवादोऽपि चिन्त्यः । भ्रमत्वस्य ज्ञानत्वव्याप्यत्वात् यावज्ज्ञानानां जन्य- त्वनियमात् । न च 'बन्धोऽस्याऽविद्ययाऽनादिरि'ति वाक्यादनादित्वम् । अविद्यायाः कारणत्वव्याघातापत्तेः । तथाचेह सादित्वनिषेधो घटपटादिसाधारणोपेक्ष्यकः । देवेष्वमरपदेन मरणनिषेधवत्।अतः सर्वथा प्रपञ्चभ्रमे अनादित्वकथनमयुकमेव । अन्यच्च । ज्ञानबाध्यत्वं मिथ्या- त्वमित्याहुः । तन्न । चरमवृत्तिरूपे ज्ञाने ज्ञानबाध्यत्वाभावाद्व्याप्तेः । चरमवृत्तेः कतकरेणुदृष्टा- न्तेन स्वत एव नाशाङ्गीकारात् । न चाज्ञानजन्यत्वं मिथ्यात्वमिति वाच्यम् । मूलाज्ञानेऽज्ञान- जन्यत्वविरहेण लक्षणाव्याप्तेः । मूलाज्ञानस्य भवत्सिद्धान्तेऽनादित्वाङ्गीकारात् । प्रकृतमनुस्रियते । ब्रह्मणो रूपत्रयम् । तत्राधिदैविकं परं ब्रह्म कृष्णाख्यं प्रथमम् । आध्यात्मिकमक्षरात्मकं द्वितीयम् । आधिभौतिकं प्रपञ्चात्मकं तृतीयम् । तत्र स्पष्टार्थं गङ्गां दृष्टान्तीकुर्वन्ति द्विरूपं चापि गङ्गाषदित्यादिना । माहात्म्यसंयुतेति । मर्यादामार्गवि- धिना सेवतां भोगमोक्षदात्री द्वितीया तीर्थरूपेत्यर्थः ॥ ३ ॥ ४ ॥ ५ ॥ ६ ॥ आधिदैविक्याः स्वरूपमाहुः तत्रैवेति । तत्रैव देवतामूर्तिर्भक्त्या या दृश्यते क्वचित् । गङ्गायां च विशेषेण प्रवाहाभेदबुद्धये ॥ ७ ॥ प्रत्यक्षा सा न सर्वेषां प्राकाम्यं स्यात्तया जले । विहिताच फलात्तद्धि प्रतीत्यापि विशिष्यते ॥ ८ ॥ यथा जलं तथा सर्वं यथा शक्ता तथा बृहत् । यथा देवी तथा कृष्णस्तत्राप्येतदिहोच्यते ॥ ९ ॥ तृतीये भौतिके रूपे भेदमाहुः जगच्चेति । जगत्तु त्रिविधं प्रोक्तं ब्रह्मविष्णुशिवास्ततः । देवतारूपवत्प्रोक्ता ब्रह्मण्येत्थं हरिर्मतः ॥ १० ॥ कामचारस्तु लोकेऽस्मिन् ब्रह्मादिभ्यो न चान्यथा । परमानन्दरूपे तु कृष्णे स्वात्मनि निश्चयः ॥ ११ ॥ अतस्तु ब्रह्मवादेन कृष्णे बुद्धिविधीयताम् । त्रिविधं त्रिस्वभावत्वेन प्रकटम् । आधिदैविके अंशभेदानाहुः । ब्रह्मविष्णु- शिवाः देवतारूपवत्प्रोक्ता इत्यन्वयः । अत्रायमर्थः । देवताया आधिदैविकरूपाया गङ्गाया रूपाणि अंशभूतानि भीष्मजनन्यादीनि मूर्तिमन्ति तत्तत्पुराणादौ प्रोक्तानि, तद्वद्देवतारूपस्य कृष्णस्य ब्रह्मविष्णुशिवरूपाणि अंशभूतानीत्यर्थः । तान्येव रूपाणि
[Footnote] १ करणत्वेति पाठः ।
७२ सिद्धान्तमुक्तावली । राजसादिस्वभावप्रकाशकानि जगतो नियामकत्वेनोत्पत्त्यादौ कार्ये व्यापृतानि । तदंशी कृष्णस्तु नित्यनिरवद्यानन्दात्मको गुणातीतो रसात्मकलीलामात्रैककार्य इति भावः । ब्रह्मविष्णुशिवानां कृष्णांशत्वेन आधिदैविकरूप-भेदमध्ये गणना । 'सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर्युक्तः परः पुरुष एक इहास्य धत्ते । स्थित्यादये हरिविरञ्चिहरेति संज्ञाः' 'न ते मय्यच्युतेऽजे च भिदामण्वपि चक्षते' इत्यादिवाक्यात् । ब्रह्मवैवर्ते स्पष्टमेव त्रयाणां कृष्णांशत्वप्रतिपादनाच्च । अत एव निबन्धे श्रीमदाचार्यचरणैरवादि 'गुणाभिमानिनो ये वै तदंशाः सगुणाः स्मृता' इति । अग्रे च 'अन्तर्याम्यक्षरं कृष्ण' इत्यारभ्य 'स्वभावकर्मकालाश्चे' त्यनेनाक्षरभेदानुक्त्वा 'रुद्रो ब्रह्मा हरिस्तथे' ति वाक्येन कृष्णभेदा उक्ताः । तथाच सिद्धमेतत् । 'द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते । उत्तमः पुरुषस्त्वन्यः परमात्मे- त्युदाहृत' इत्यत्र क्षराक्षरपुरुषोत्तमा उक्ताः, तेऽत्र 'परं ब्रह्म तु कृष्णो ही'त्यारभ्य 'देवता- रूपवत्प्रोक्ता' इत्यन्तेन प्रपञ्चाक्षरकृष्णशब्दवाच्या विवेचिताः । न च गीतासु त्रयाणां पृथ- गुप्त्या द्वैतं शङ्क्यम् । 'वासुदेवः सर्वमिति'त्यनेन शुद्धाद्वैतस्यैव भगवदभिप्रायविषयत्वस्फु- रणात् । ब्रह्मणोति । स्थितानामिति शेषः । यथा जगतो नियामकाः कृष्णांशा ब्रह्मादयः, इत्थमक्षरब्रह्मभूतानां नियामको हरिरेव न तु ब्रह्मादयः । तेषां ज्ञानिनां जगदतीतत्वादिति भावः ॥ कामचारस्त्विति । अस्मिन् क्षररूपे लोके प्रपञ्चे कामचारः तत्फलप्रेप्सया प्रवृत्तानां मनोरथप्राप्तिप्रवाहो ब्रह्मादिभ्यः कृष्णांशभूतेभ्यो भवति । दृष्टान्तेऽपि गङ्गांशभूताया एव लौकिकव्यवहारः स्मर्यते भारते शन्तनुप्रसङ्गे, न तु साक्षादंशवत्या गङ्गाया आधिदै- विक्याः सकाशात् । तस्याः केवलभक्तिलभ्यायाः प्रवाहे सर्वदैव विद्यमानत्वात् । ननु लोके कामचारो ब्रह्मादिभ्य इत्युक्ते भक्तानामपि लोकमध्यपातितया तथैव भविष्यतीत्याशङ्क्य तेषां भिन्नप्रकारमाहुः परमानन्दरूपे त्विति । लोकविशेषणमेतत् । परमानन्दो रूप्यते व्यव- ह्रियते यत्रेत्यर्थात् । तुशब्दः पूर्वप्रक्रियां व्यावर्तयति । परमानन्दरूपे लोके लीलायोग्य- प्रपञ्चे तु पुष्टिभक्तानां स्वात्मनि स्वात्मत्वेन स्फुरिते कृष्ण एव निश्चयो मनःस्थैर्यं स्वसक- लमनोरथपूरकत्वबुद्धिश्च्छन्दप्रवृत्तिप्रवाहो, न तु ब्रह्मादिभ्यः । 'ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्' 'अहं भक्तपराधीनः' 'तेषां नित्याभियुक्तानां योग- क्षेमं वहाम्यहम् । तेषामहं समुद्धर्त्ता मृत्युसंसारसागरादि'त्यादिवाक्येषु साधारणेभ्यः पृथक्तया भक्तानां चतुर्विधपुरुषार्थसाधकत्वस्य स्वस्मिन्नेव भगवताङ्गीकृतत्वात् । एवं साधारणजीवानां पुष्टिस्थानामंशांशिभेदेन कामचारव्यवस्थामुक्त्वा वस्तुतः साधारणानामं- शेभ्यो जायमानमपि फलं भगवत एवेति भगवान् एव सर्वेषां सर्वफलदायक इति प्रतिपाद- यन्ति अतस्त्वित्यादिना । वस्तुविमर्शे सर्वस्य कृष्णात्मकत्वं तदधीनत्वम्, अतो ब्रह्मवादेन तु कृष्ण एव बुद्धिः फलप्रदत्वबुद्धिर्विधीयताम् । 'फलमत उपपत्तेरि'ति न्यायेन कृष्णस्यैव
१ व्याव़त्तानीति ख. २ स्वच्छन्दवृत्तिरूपः कामचार इति पाठः ।
श्रीमद्विठ्ठलेश्वरविरचितविवृतिसमेता । ७३ फलदत्वम् । 'यो यो यां यां तनुं भक्त' इत्यारभ्य 'मयैव विहितान् हि तानि'त्यन्तेन स्वस्यैव फलदातृत्वोक्तेश्च । आत्मनि ब्रह्मरूपे तु छिद्रा व्योम्नीव चेतनाः ॥ १२ ॥ उपाधिनाशे विज्ञाने ब्रह्मात्मत्वावबोधने । गङ्गातीरस्थितो यद्वद्देवतां तत्र पश्यति ॥ १३ ॥ तथा कृष्णं परं ब्रह्म स्वस्मिन् ज्ञानी प्रपश्यति । संसारी यस्तु भजते स दूरस्थो यथा तथा ॥ १४ ॥ अपेक्षितजलादीनामभावात्तत्र दुःखभाक् । तस्माच्छ्रीकृष्णमार्गस्थो विमुक्तः सर्वलोकतः ॥ १५ ॥ आत्मानन्दसमुद्रस्थं कृष्णमेव विचिन्तयेत् । लोकार्थी चेद्भजेत्कृष्णं क्लिष्टो भवति सर्वथा ॥ १६ ॥ क्लिष्टोऽपि चेद्भजेत्कृष्णं लोको नश्यति सर्वथा । ज्ञानाभावे पुष्टिमार्गे तिष्ठेत्पूजोत्सवादिषु ॥ १७ ॥ मर्यादास्थस्तु गङ्गायां श्रीभागवततत्परः । अनुग्रहः पुष्टिमार्गे नियामक इति स्थितिः ॥ १८ ॥ उभयोस्तु क्रमेणैव पूर्वोक्तेव फलिष्यति । ज्ञानाधिको भक्तिमार्ग एवं तस्मान्निरूपितः ॥ १९ ॥ भक्त्यभावे तु तीरस्थो यथा दुष्टैः स्वकर्मभिः । अन्यथाभावमापन्नस्तस्मात्स्थानाच्च नश्यति ॥ २० ॥ एवं स्वशास्त्रसर्वस्वं मया गुप्तं निरूपितम् । एतद्बुद्ध्वा विमुच्येत पुरुषः सर्वसंशयात् ॥ २१ ॥ आत्मनि ब्रह्मरूपे तु छिद्रा व्योम्नीव चेतना इति । आत्मनि आत्मविषये । उच्यत इति शेष इति प्रभुचरणाः । तथाच आत्मनीति प्रतिज्ञायां ज्ञेयम् । ब्रह्मरूपे जीवे छिद्राश्चेतना व्योम्नि छिद्राश्चेतना इवेत्यन्वयः । छिद्राणि विषयत्वेन विद्यन्ते यासु चेतनासु ताः छिद्राश्चेतनाः । अर्शआद्यच् । चेतनाशब्दो बुद्धिवाचकः । 'प्रतिपज्ज्ञप्ति- चेतना' इति कोशात् । तथाच छिद्राश्चेतनाश्छिद्रवत्यो बुद्धय इत्यर्थः । बुद्धीनां छिद्र- वत्त्वं तु विषयत्वेन छिद्राणां तत्र स्फुरणात् । एवञ्च व्योम्नि अविद्यमानानां छिद्राणां बुद्धिवृत्तिषु स्फुरणाच्छिद्राश्चेतना विपर्यासबुद्धय इति फलितम् । 'संशयोऽथ विपर्यासो निश्चयः स्मृतिरेव च । स्वाप इत्युच्यते बुद्धेर्लक्षणं वृत्तितः पृथग्'ति कपिल- वाक्याद्विपर्यासस्य बुद्धिवृत्तित्वात् । तत्र दोषविशेषवद् दृशा व्योम्नि छिद्राणि प्रतीयन्ते । अतश्छिद्रवत्यो बुद्धयो व्योम्नि यथा मिथ्याभूतपदार्थावगाहिन्यः, तथा ब्रह्मरूपे जीवे छिद्राश्चेतनाः सदोषत्वादिबुद्धयो मिथ्याभूतसंसारावगाहिन्यो, न तु यथार्थावगाहिन्यः । 'जीवसंसार उच्यत' इति निबन्धे संसारस्य मिथ्याभूतत्वेन सिद्धान्तितत्वात् । 'उच्यते, १० सि० मु०
न तु जायत’ इति व्याख्यानात् । व्योम्नि यथा छिद्राश्चेतनाः, तथा जीवे छिद्राश्चेतनाः । पूर्वत्र छिद्रशब्दस्य विवरविशेषवाचकत्वम्, उत्तरत्र तु छिद्रशब्दो दोषवाचकः । ‘खलः सर्षपमात्राणि परच्छिद्राणि पश्यती’त्यादौ दोषाणां छिद्रपदवाच्यत्वात् । तथाच जीवो ब्रह्मांशत्वेन वस्तुतो ब्रह्मरूप एव, न तु संसारी । संसारित्वं त्वौपाधिकम् । तच्च पूर्वोक्तकृष्णसेवानाश्यमित्यभिप्रायः । इदमेवानुपदमुपपाद्यते उपाधिनाश इत्या- दिना । स्वसिद्धान्ते यादृशं जीवस्वरूपं तद्बन्धमुक्तिस्वरूपं च प्रभुचरणैरेतट्टीकायां विवृत- मेव ‘जीवा ह्यणवोऽक्षरात्मका’ इत्यादिनेति न मया लिख्यते । ननु जीवस्याणुत्वं निरूपितं, तन्मास्तु । किन्त्वविद्यायां ब्रह्मप्रतिबिम्बो जीव इत्युररीकार्यम् । पूर्वं बहुभिरा- दृतत्वादिति चेत्, न, नीरूपस्य ब्रह्मणः प्रतिबिम्बासम्भवात् । न च गुणे गुणानङ्गीकारान्नी- रूपस्य रूपस्य प्रतिबिम्बदर्शनाद्रूपरहितस्य ब्रह्मणोऽपि प्रतिबिम्बः सुलभ इति वाच्यम् । रूपवतो घटादेः प्रतिबिम्बिततया तन्निष्ठरूपप्रतीतौ सिद्धायां पृथग्रूपप्रतिबिम्बे मानाभा- वात् । स्वाश्रयातिरेकेण रूपोपलब्धेः सर्वथाविरुद्धत्वात् । किञ्च । दर्पणादौ प्रतिबिम्बितं घटनिष्ठरूपं पश्यन् स्वयं प्रतिबिम्बितमिति रूपं च नीरूपमिति नीरूपस्य ब्रह्मणोपि प्रति- बिम्ब इति मनुषे । तथैव रूपशून्यं रूपं चाक्षुषमिति नीरूपः परमात्मापि चक्षुर्ग्राह्य इति मन्यस्व । ननु नीरूपस्य गगनस्य प्रतिबिम्बान्नीरूपस्य ब्रह्मणोऽपि स्यादिति चेत्, न, जला- दावौपाधिकस्य प्रतिबिम्बितरूपस्य दर्शनादौपाधिकेन तेन च वियतः सम्बन्धाभावादाकाशप्र- तिबिम्बस्य वक्तुमयोग्यत्वात् । अन्यथा नीलमिदं गगनमितिप्रतीत्या गगनचाक्षुषत्वमङ्गीकृत्य ब्रह्मचाक्षुषत्वमङ्गीकार्यं स्यात् । न च कल्पितरूपवतो जगज्जन्मादिकारणस्य भवत्वेव चाक्षुषत्व- मिति वाच्यम् । सोपाधिके ब्रह्मणि भवन्मते मायिकरूपाङ्गीकाराच्चाक्षुषत्वप्रतिबिम्बितत्वयोः सुवचत्वेऽपि शुद्धे नीरूपे ब्रह्मणि द्वयोरप्यसम्भवेन विवक्षितप्रमेयालाभात् । अपि च । चक्षु- र्ग्रहणयोग्यस्यैव प्रतिबिम्बसम्भवं जानन्नप्ययोग्यस्य शुद्धस्य प्रतिबिम्बं प्रतिपादयन्नयोग्यस्य चाक्षुषत्वं किमिति न मनुषे । अन्यच्च । अवयवेऽवयवानङ्गीकाराच्चरणरहितयोरपि चरण- योर्गमनदर्शनाच्चरणरहितस्याऽपि कस्यचिद्देवदत्तादेर्गमनसम्भवः स्यात्, स चाखिलप्रमाणवि- रुद्ध इति चरणविशिष्ट एव पुंसि गतिरङ्गीकार्या । एवं नेत्रादावपि । तथा च रूपविशिष्ट एव प्रतिबिम्बते, न तु रूपं पृथक्तयेति न रूपशून्यस्य प्रतिबिम्ब इत्यविद्यायां ब्रह्मप्रतिबिम्बो जीव इति नादर्तव्यं सुधीभिः । ननु जपाकुसुमारुणगुणो द्रव्यं विहायैव स्फटिके प्रतिस्फुरति । अन्यथा दर्पणादौ मुखान्तरप्रतीतिवत् स्फटिके जपाकुसुमान्तरप्रतीतिः स्यात् । सा तु नास्ति । किन्तु केवलमरुणिमैव प्रतीयते । तत्र च नीरूपत्वमेव । गुणे गुणानङ्गीकारात् । अतो नीरूपस्याप्यरुणस्य प्रतिबिम्बदर्शनान्नीरूपस्य ब्रह्मणोऽपि प्रतिबिम्ब उपपन्न इति प्राप्ते— समाधिरुच्यते । रूपमात्रस्यापि प्रतिबिम्बे रूपवतो जपाकुसुमादेः कारणत्वमन्वयव्यतिरे- कसिद्धम् । रूपवज्जपाकुसुमादि विना रूपप्रतिबिम्बाभावात् । एवं सर्वत्र ज्ञेयम् । न हि रूप- वन्तं विना रूपमात्रप्रतिबिम्बो लभ्यते कुत्रापि । तथाच प्रतिबिम्बत्वावच्छिन्ने रूपवद्वस्तुनः कारणत्वाद्व्रह्मणः प्रतिबिम्बो नोपपद्यते । अत एवाचार्यवर्यैर्निबन्ध उक्तं ‘न प्रति- स्फुरणं रूपरहितस्य कदाचने’ति । अत एव न वायोः प्रतिबिम्बः । एवं सति रूपवान्
घटादिर्दर्पणादौ धर्मिरूपेण प्रतिबिम्बते । रूपवान् जपाकुसुमादिः स्फटिके धर्मरूपेणारु- णगुणेन प्रतिस्फुरति । एवमुभयथा रूपवत एव प्रतिबिम्बसम्भवाच्चीरूपस्य ब्रह्मणः प्रति- बिम्बो न युक्तिसह इति सुधियो विदन्तु । अत एव प्रतिबिम्बत्वावच्छिन्ने रूपवतः कारण- तामवगत्य विद्वन्मण्डन उक्तम्—'रूपवत एव प्रतिबिम्बनियमादि'ति । उपाधिनाश इति । भगवज्जीवयोरन्तरायभूताऽविद्या तस्याः कार्यस्य नाशे सति । 'अन्यद्युष्माकमन्तरं बभूवे'ति श्रुतेर्ज्ञानं प्रत्यविद्यानाशस्य प्रतिबन्धकाभावत्वेन कारणतयाऽवश्यमपेक्षणात् । विज्ञान इति । ब्रह्मणो विशेषतः सर्वात्मकत्वेन सर्वातिरिक्त रूपत्वेन च ज्ञाने सति । ब्रह्मा- त्मत्वावबोधन इति । ब्रह्मज्ञानानन्तरं जडजीवयोस्तदात्मकतया स्वस्यापि ब्रह्मात्मत्वेना- वबोधे सति वक्ष्यमाणं फलं भवति । सिद्धान्ते हि ब्रह्मज्ञानं पुमर्थाय । 'यस्मिन् विदिते सर्वमिदं विदितं भवती' ति श्रुतेः । न त्वेकदेशभूतं पराभिमतं जीवमात्रे ब्रह्मत्वेन ज्ञानम् । एवं सत्यविद्यानाशे ब्रह्मस्वरूपज्ञानं तस्मिन् सति सर्वस्यापि पदार्थजातस्य बोधः, तेन स्वस्यापि सर्वमध्यपातितया निर्विकाराक्षरत्वेनापरोक्षस्फूर्तिः, ततो 'ब्रह्म वेद ब्रह्मैव भवती'- ति श्रुतेरक्षरात्मकतायां सिद्धायां 'तद्धाम परमं मम' 'विष्णोर्धाम परं साक्षात्पुरुषस्य महा- त्मन' इत्यादिवाक्यैरक्षरस्य भगवदधिष्ठानत्वात्तत्र स्थितमक्षरातीतं पुरुषोत्तमं कृष्णं ज्ञानी भक्तः पश्यति । तदाहुः तथा कृष्णं परं ब्रह्मेत्यादि । तत्र दृष्टान्तः गङ्गातीरस्थित इति । यथा प्रवाहसन्निधौ वर्तमानस्तन्मध्यवर्तिनीं मूर्तिमतीं गङ्गां श्रद्धाधिक्ये पश्यति, तथा ज्ञानी भक्तोऽपि भगवदधिष्ठानत्वेन निकटस्थायिन्यक्षरात्मके स्वस्वरूपे भक्त्या कृष्णं पश्य- तीति भावः । अत एव भगवता 'चतुर्विधा भजन्ते मामि'ति सन्दर्भे ज्ञानी भक्तः प्रशं- सितः । निबन्धेऽपि 'ज्ञानी चेद्भजते कृष्णं तस्मान्नास्त्यधिकः पर' इत्युक्तम् । ननु भक्त्या केवलयैव सर्वपुरुषार्थसिद्धौ किमर्थं ज्ञानाग्रह इत्याशङ्क्य प्रेमवतस्तदनपेक्षत्वेप्यनुत्पन्नस्नेहस्य भजनाङ्गत्वेनास्त्येव ज्ञानापेक्षेति तद्रहितस्य दोषमाहुः संसारीति । अनिवृत्ताहन्ताममताको- ऽनुत्पन्नबोध इति यावत्। स तु कृष्णं भजन दिदृक्षाया आधिक्यादविद्ययाऽन्तरायभूतया दर्श- नाभावाद्दुःखभाग्भवति । अत्र दृष्टान्तः दूरस्थ इति । यथा गङ्गाभक्तः स्नानपानाद्यर्थं तज्ज- लमभिलषन्नादिशब्देनाधिदैविकीं दिदृक्षन् दर्शनाभावात्प्रवाहरूपगङ्गाविप्रकर्षेणाधिदैविकी- विप्रकर्षादुभयमलभमानो दुःखी भवति तद्वदित्यर्थः। सिद्धमुपदिशन्ति तस्मादिति । श्रीकृष्ण- ष्णमार्गस्थ इति । भक्तिमार्गस्थ इत्यर्थः । सर्वलोकतः संसारतः विमुक्तो भूत्वा शुद्धपुष्टि- मार्गींयव्रजसुन्दरीवृन्दविहारिणं कृष्णमेव निरवध्यानन्दं विशेषेण चिन्तयेत्, मानसीसिद्ध्यर्थं लीलाविशिष्टभावनं कुर्यादिति भावः । अयमेवार्थः श्रीमत्प्रभुचरणैष्टीकायां विवृतः 'कृष्ण- पदा'दित्यारभ्य, 'आत्मपदं भगवत्पर' मित्यन्तेन । ननु ज्ञानरहितो भक्तो भगवद्दर्शनावरोधक- संसारस्य विद्यमानत्वाद्दुःखी भवतीत्युक्तम् । तथा सति केवलज्ञानवत् तादृग्भक्तेरप्यप्रयो- जकत्वमित्याशङ्क्य पूर्वोक्तमनूद्य केवलभजनेनापि निर्वाहमाहुः लोकार्थीति । लोकार्थी पशुपुत्रादिविषयकाङ्क्षावान् । अनुत्पन्नज्ञानः संसारीति यावत् । भजनं कुर्वन् पूर्वोक्तप्रका- रेण दिदृक्षाधिक्याद्दर्शनाभावात्क्लिष्टो भवति । तादृगपि आग्रहं कृत्वा भजनं चेन्न त्यजति, तदा भगवत्कृपया लोकः संसारोऽहन्ताममतात्मको भगवत्साक्षात्कारप्रतिबन्धकर्ता नश्यती-
त्यर्थः । अत्र प्रपञ्चवाचिना लोकशब्देन तदन्तःस्थितः संसारो लक्ष्यते । नाशस्योक्तत्वादर्थ- खारस्याच्च लक्ष्यार्थ एव ग्राह्यः । एवं केवलया भक्त्या भगवद्भजनं निर्वहतीत्युक्तम् । तत्कथमित्याकाङ्क्षायां प्रमेयबलेन तद्भवतीति वदन्ति अनुग्रह इति । पुष्टिमार्गस्यानुग्र- हैकनियम्यत्वात्प्रमाणविरुद्धमपि प्रमेयबलेन भवेत् । 'नेमं विरञ्चो न भवो न श्रीरप्यङ्गसं- श्रया । प्रसादं लेभिरे गोपी यत्तत्प्राप विमुक्तिकादि'त्यादिवाक्येभ्य इति भावः । पुष्टिमार्ग इति । पुष्टिजन्ये भक्तिमार्ग इत्यर्थः । पुष्टिश्च 'पोषणं तदनुग्रह' इति वाक्यादनुग्रहरूपो भगवद्धर्मः । स च लौकिकालौकिकोत्तमफलसाधकः । विशेषानुग्रहस्तु विरलजनविषयो भगवद्रूपात्मकफलसाधकः । तज्जन्यत्वं पुष्टिभक्तौ । अत्र पुष्टिंशब्देन पुष्टिविशेषो ग्राह्यः, न तु साधारणानुग्रहः । तस्य लौकिकफलं प्रति कारणत्वात् । अत एव पुष्टिस्र्कन्धे साधा- रणेनैव कृष्णानुग्रहेणेन्द्रादीनां दैत्यानां च तादृग्भक्तिरहितानामपि स्वाभिलषितलौकिकफल- सिद्धिः । तथोक्तं निबन्धे 'एवमिन्द्रे महापुष्टिः सर्वबाधा निरूपिता । सर्वबाधारूपा हि दैत्ये पुष्टिर्योच्यत' इति । इन्द्रे महापुष्टिरित्यानुग्रहे महत्त्वं तु बलवत्प्रतिबन्धकनिवृत्त्या मनो- रथपूरकत्वं, न तु भक्तितत्सम्बन्धिसाधकत्वम् । लौकिकफलस्यैव दृश्यमानत्वात् । अतः साधा- रणानुग्रहो लौकिकफलसाधकः । विशेषानुग्रहस्तादृग्भक्तिहेतुरिति निष्कर्षः । सा च नवमस्क- न्धसूर्यसोमवंशीयवृत्तान्तकथनेन प्रपञ्चिता, मर्यादापुष्टिभेदेनेशानु कथाशब्देन व्यवह्रियते । ईशस्य अनुगामिनां भक्तानां कथा भक्तिरित्यर्थः । पुष्टिजन्या भक्तिः पुष्टिभक्तिः । अत एवोक्तं श्रीमत्प्रभुचरणैः 'तदनुग्रहैकलभ्यां भक्तिं च नुम' इति भक्तिहेतुनिर्णये । एवं सति भगवत्स्वरू- पातिरिक्तफलाकाङ्क्षारहिता भक्तिः पुष्टिभक्तिरिति पुष्टिभक्तेर्लक्षणं ज्ञेयम् । न च निष्काममर्या- दाभक्तावतिव्याप्तिः । अत्र मोक्षात्मकफलस्याकाङ्क्षितत्वात् । न च मोक्षः स्वरूपात्मक एवेति वाच्यम् । 'न योगसिद्धीरपुनर्भवं वा समञ्जस त्वा विरहय्य काङ्क्ष' इति वृत्रवाक्ये स्वरूपा- तिरेककथनात् । अत एव पुष्टिमार्गीया नैनं कामयन्ते । एतच्च 'अक्षण्वतामि' ति श्लोकविवृतौ, 'वीक्ष्यालकावृतमुखमि'त्यस्य सुबोधिन्यां स्पष्टम् । अत एव मोक्षकामनापि काम्यमध्ये विसृष्टा । तथोक्तं निबन्धे 'तत्समुद्धारणं काम्यग् । हरिसालोक्यकाम्ययेति वाक्यादि' ति । अतः स्वरूपातिरिक्तफलाकाङ्क्षारहिताः पुष्टिमक्ता एवेति सुधीभिर्विभावनीयम् ॥ १२ ॥ यदुक्तं श्रीमदाचार्यैर्विवृतं विठ्ठलेश्वरैः । कृतं तदनुसार्येतद्बालकृष्णाङ्घ्रिसेविना ॥ १ ॥ यदत्र बुद्धिदोषेण चेष्टितं बालचापलम् । क्षम्यतां श्रीमदाचार्यचरणैः कृपया मयि ॥ २ ॥ श्रुतिसिद्धरसामत्वकृष्णप्रेमप्रकाशकाः । दासे मयि प्रसीदन्तु प्रभवो विठ्ठलेश्वराः ॥ ३ ॥ कालिन्दीपुंलिने शरच्छशिकरैः शुभ्रीकृते मल्लिकाकुन्दामोदमदोन्मदालिनिनदे घोषाङ्गनाभूषिते। रासे राधिकया समं विहरतो मोदैर्मुहुर्नृत्यतः श्रीगोवर्धनधारिणो भगवतः सेवेय पादद्वयम् ४ यश्चिन्त्यो ब्रह्मरुद्राद्यैर्बालवीजनचिन्तकः । अस्मत्कुलपतिः श्रीमद्बालकृष्णः प्रसीदतु ॥ ५ ॥ इति श्रीमद्गोवर्धनधरश्रीवल्लभाचार्यवरश्रीविठ्ठलेश्वरचरणानुचरसेवकेन लालुभट्टो- पनामविदितबालकृष्णेन विरचिता सिद्धान्तमुक्तावलीयोजना सम्पूर्णा ।
परिशिष्टम् । श्रीकृष्णाय नमः । श्रीगोपीजनवल्लभाचार्यवर्यचरणपाथोजनितयुगलाय नमः । श्रीगो- पीजनवल्लभाय नमः । श्रीमदाचार्यवर्यश्रीविठ्ठलेशैः प्रचोदितः । कुरुते मथुरानाथगोस्वामि- तनयोऽद्भुतां । श्रीमदाचार्यसिद्धान्तमुक्तावल्या विवेचने । टिप्पण्या विवृतिं दासो द्वारि- केशः सविस्तरम् । अथ श्रीमद्गोकुलनाथाः श्रीमद्विठ्ठलेश्वरविरचितां सिद्धान्तमुक्तावल्या विवृतिं विवरीतुं निर्विघ्नतायै प्रार्थनात्मकं मङ्गलमाचरन्ति 'यद्वाञ्छये'ति । यस्य श्रीमद्वि- ट्ठलेश्वरपादरजसो वाञ्छया प्राप्तमनोरथेन पुंसः अर्थाः प्रयोजनाः जन्मप्रभृतियावत्कृतिवि- षयाः धर्मादयो भक्त्यन्ता वा मोक्षान्ता इति व्युच्चरणमारभ्य अक्षरप्रवेशपर्यन्तं यावज्जन्मकृताः अधरीकृताः हस्तागता भवन्ति सः कोपि अनिर्वचनीयः पितृपद्रेणुः मह्यं श्रीगोकुलनाथाय प्रसीदतु प्रसन्नो भवतु, तत्प्रसादं विना तद्भाष्याभिप्रायो हृदये न समायाति, यतः अतः प्रार्थ्यते । स इति पितृपद्रेणोः परोक्षत्वकथनेन श्रीमद्गोस्वामिनां कन्दराप्रवेशानन्तरं टिप्पणी कृतेति । अथ श्रीमद्वल्लभनंदनाः सिद्धान्तमुक्तावलीं विवरिषवः श्रीमदाचार्य- चरणाब्जपरागनमनात्मकं मंगलं विधाय ग्रन्थविवरणं प्रतिजानते प्रणम्येति । पितुः श्रीमदाचार्यस्य पादयोः अब्जयोः परागाब्जरजुरेणुर्मह्यं प्रसीदतु अनुरागतः प्रकर्षेण नत्वा तत्कृपया तद्वाङ्मुक्तावलीं विशदीकुर्मः । नमने प्रकर्षः भूमिपर्यन्तं साष्टाङ्गप्रणामः पितुः पालन- कर्तुः रूढ्या । श्रीमदाचार्यस्य पादयोरब्जयोर्निजभक्ततापहारकानंददायकयोर्यत् परागं रजः अनुरागः अनुरागश्च रागेण पूर्वं भगवता वरणे कृते तं अनुलक्षीकृत्य जायमानभक्त्या तत्कृपया श्रीमदाचार्यवाग्रूपां मुक्ताफलानामावलीं विशदीकुर्मो, धारणयोग्यां कुर्मो, मुक्तानां वर्तुलत्वेन दोरके प्रवणं विना तेषां वलेर्विशदीकरणं न संभवति यतः । अत एव समाप्तौ वक्ष्यन्ति ‘श्रीविठ्ठलस्तद् वाङ्मालां हृदये दधौ’ इति । अथ सा माला कालबाहुल्येन मलिना शिथिला च जातेति तद्रुजलादिनोज्ज्वलां कृत्वा धारणयोग्यां कर्तुं प्रकाशोधमः तत्र साधनं तेषां कृपा । अथ श्रीमद्वल्लभाचार्यचरणाः स्वीयानां स्वकीयसिद्धान्ताज्ञानजन्यतापं निवारयितुं नम- नात्मकं मंगलं विधाय स्वकीयसिद्धान्तविनिश्चयं प्रतिजानते । नत्वेति । स्मर्तृणामखिला- घहरं श्रीहरिं श्रीकृष्णं नत्वा, णम प्रहृत्वे शब्दे चेत्यनुशासनात् । अग्रे वक्ष्यमाणैर्बहु- भिर्मिथोविरुद्धैः सिद्धान्तैः शास्त्रार्थसंदेहे तन्निरासाय स्वसिद्धान्तरूपं शास्त्रार्थनिश्चयं वक्ष्यामि—श्रीगोकुलाधीशाः प्रतीकमाहुरग्रे इति । सिद्धान्तमुक्तावल्यां चतुर्थश्लोके । अथ प्रभवः प्रतीकमाहुः स्वसिद्धान्तेति । अग्रे वक्ष्यमाणैरिति । मायिकं सगुणमित्यादिभिरित्यर्थः । तत्र परस्परविरोधस्य स्पष्टत्वात् साक्षाच्छ्रुतिनिरूपितं वक्ष्यामीति विशब्दार्थः । तस्यैव स्वकीयत्वज्ञापनाय स्वपदं, साक्षाच्छ्रुतिरिति । ननु श्रुतौ सेवाप्रकारः कुत्रोक्त इति चेच्छृणु । ‘भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायूः' । कर्णेभिरिति वैदिकपदोक्त्या कर्णानां दिव्यत्वं बहुवचनेन ‘विधत्स्व कर्णा- युतमेष इति प्रार्थनया प्राप्तत्वं भद्रं स्वं स्वं रवं शृणुयाम, ततो जागरणानंतरं भद्रं