भारतकोश
संग्रह पर लौटें

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

करुणरसनिर्देशः, अद्भुतरसनिर्देशः, हास्यरसनिर्देशः | ३६३

त्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया कण्ठस्तम्भित- बाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् । वैक्लव्यं मम ताव- दीदृशमपि स्नेहादरण्यौकसः पीड्यन्ते गृहिणः कथं न तनयाविश्लेषदुःखैर्नवैः ॥ ३८ ॥ पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या नादत्ते प्रियमण्डनापि भवता स्नेहेन या पल्लवम् । आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्यु- त्सवः सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ॥ ३९ ॥ या केलिच्युतकेशलेशविषमा शय्या न भेजे पुरा या जालान्तरनिर्गतार्ककिरणद्योतादपि म्लायते । सेयं निष्ठुर- काष्ठसंचितचिता देदीप्यमानानला सस्रेरा भजते यदि प्रियमुलं स्नेहस्य किं दुष्करम् ॥ ४० ॥ ध्वस्तः काव्योरु- मेरुः कविविपणिमहारत्नराशिनिवेशीर्णः शुष्कः शब्दौघसिन्धु. प्रलयमुपगतो वाक्यमाणिक्यकोशः । दिव्योक्तीना निधानं निधनमुपगत हा हता दिव्यवाणी बाणे गीर्वाणवाणी- प्रणयिनि विधिना शायिते दीर्घनिद्राम् ॥ ४१ ॥

अद्भुतरसनिर्देशः

तस्मिन्युद्धे क्षणेनैव त्वरितो वानरध्वजः । सरथं सध्वजं सार्थं भीममन्तर्दधे शरैः ॥ १ ॥ रत्नभित्तिषु सक्रान्तैः प्रतिबिम्बशतैर्वृतः । ज्ञातो लङ्केश्वरः कृच्छ्रादाञ्जनेयेन त- स्वतः ॥ २ ॥ चतुर्ष्वपि समुद्रेषु सन्ध्यामन्वास्य तत्क्षणात् । कक्षाक्षिप्तं निशान्ते स्वे वाली पौलस्त्यमत्यजत् ॥ ३ ॥ न केनापि श्रुतं दृष्टं वारिणा वारि शुष्यति । अहो गोदा- वरीवारा भवसिन्धुर्विशुष्यति ॥ ४ ॥ एष वन्ध्यासुतो याति खपुष्पकृतशेखरः । मृगतृष्णाम्भसि स्नात. शश- शृङ्गधनुर्धरः ॥ ५ ॥ कस्मै किं कथनीयं कस्य मनःप्रत्ययो भवति । रमयति गोपवधूटी कुञ्जकुटीरे परं ब्रह्म ॥ ६ ॥ चित्रं कनकलताया पल्लव एवामृतं सूते । कुसुमसमूद्गम- समये नो जाने किं परं भावि ॥ ७ ॥ अम्बुजमम्बुनि जातं नं हि दृष्टं जातमम्बुजादम्बु । अधुना तद्विपरीतं चरण- सोजाद्विनिर्गता गङ्गा ॥ ८ ॥ जाता लता हि शैले जातु लताया न जायते शैलः । अधुना तद्विपरीतं कनकलताया गिरिद्वयं जातम् ॥ ९ ॥ कमलमनम्भसि कमले कुवलय- मेतानि कनकलताकायाम् । सा च सुकुमारसुभगेत्युत्पात- परम्परा केयम् ॥ १० ॥ चित्रं कनकलताया शरदन्दुिस्तत्र

खञ्जनद्वितयम् । तत्र च मनोजधनुषी तदुपरि गाढान्ध- काराणि ॥ ११ ॥ चित्र महानेष बतावतारः क्व कान्ति- रेषामभिनैव भङ्गिः । लोकोत्तरं धैर्यमहो प्रभावः काप्या- कृतिर्नूतन एष सर्ग ॥ १२ ॥ स्थाणु. स्वयं मूलविहीन एव पुत्रो विशाखो रमणी त्वपर्णा । परोपनीतैः कुसुमैरजस्रं फलत्यभीष्टं किमिदं विचित्रम् ॥ १३ ॥ कि क्रमिष्यति किलैष वामनो यावदित्यमहसन्त दानवाः । तावदस्य न ममौ नभस्तले लङ्घितार्कशशिमण्डलः क्रमः ॥ १४ ॥ युगा- न्तकालप्रतिसंहृतात्मनो जगन्ति यस्या सविकासमासत । तनौ मसूरस्य न कैटमद्विपस्तपोधनाभ्यागमसम्भवा मुदः ॥ १५ ॥ कथमुपरि कलापिन. कलापो विलसति तस्य तलेऽष्टमीन्दुखण्डम् । कुवलययुगलं ततो विलोलं तिल- कुसुमं तदध प्रवालमक्षात् ॥ १६ ॥ विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये । मदविभ्रमात्सक- लया पपे पुन. स पुरस्त्रियैकतनयैकया दृशा ॥ १७ ॥ पाश्चात्यभागमिह सानुषु संनिषष्णाः पश्यन्ति शान्तमनसा- न्द्रतरांशुजालम् । सपूर्णलव्धललनालपनोपमानमुत्सङ्गसङ्गि- हरिणस्य हिमांशुमूर्तेः ॥ १८ ॥ इदं तावच्चित्रं यदवनि- तले पार्वणशशी कलङ्कादुन्मुक्त. किमपि च तदन्तर्विल- सति । प्रवालं माणिक्यं कुवलययुदलं मन्मथधनुर्मनोवीणा- वाद्वध्वनिरिति महच्चित्रमधरम् ॥ १९ ॥ मूकारब्धं कमपि वधिराः श्लोकमाकर्णयन्ति श्रद्धांलुस्तं विलिखति कुणिः श्ला- घया वीक्षतेऽन्ध । अभ्यारोहत्यहह सहसा पङ्गुरप्यद्रि- शृङ्गं सान्द्रालस्याः शिशुभरणतो मन्दमायान्ति वन्ध्याः ॥ २० ॥ काकुत्स्थेन शिरासि यानि शतशश्छिन्नानि माया- निधेः पौलस्त्यस्य विमानसीमान तथा भ्रान्तानि नौकौक- साम् । तान्येवास्य धनुःश्रमप्रशमनं कुर्वन्ति सीतापतेः क्रीडा- चामरडम्बरानुकृतिभिर्दोलायमानैः कचैः ॥ २१ ॥ किं ब्रूमो हरिम्लस्य विश्वमुदरे कि वा फणान्भोगिनः शेते यत्र हरिः स्वयं जलनिधे. सोऽप्येकदेशे स्थितः । आश्चर्यं कल- शोद्भवो मुनिरसौ यस्यैकहस्तेऽम्बुधिर्गण्डूषीयति पङ्कजीयति फणी भृङ्गीयति श्रीपतिः ॥ २२ ॥ दोर्दण्डाञ्चितचन्द्र- शेखरधनुर्दण्डावभङ्गोद्यतद्धारध्वनिरार्यबालचरितप्रस्तावना- डिण्डिमः । द्राक्पर्यस्तकपालसपुटमिलद्ब्रह्माण्डभाण्डोदरभ्रा- म्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति ॥ २३ ॥

हास्यरसनिर्देशः

जिह्वायाश्छेदनं नास्ति न तालुपतनाद्भयम् । निर्विशेषेण वक्तव्यं निर्लज्जः को न पण्डितः ॥ १ ॥ परान्नं प्राप्य

पादटिप्पण्यः (Footnotes):

१ अरण्यवासिन २ गृहस्थाश्रमिण ३ कन्यावियोगदु खै ४ उदकेन ५ खमाकाश तस्य पुष्पेण कृत शेखर शिरोभूषण येन ६ मरुमरीचिकोदके कृतमज्जन ७ शशशृङ्गकृतधनुर्धारी ८ विश्वास ९ गोपस्त्री १० सुवर्णवर्णाङ्गी या स्त्री तस्या कोमलशरीरे ११ पर्वततुल्यमतिनिबिड स्तनद्वयमिति भाव

१ श्रद्धावान् २ विकलपाणि ३ शिखरम् ४ देवानाम् ५ अगस्त्य

३६४ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्

दुर्बुद्धे मा प्राणेषु दया कुरु । दुर्लभानि परानानि प्राणा जन्मनि जन्मनि ॥ २ ॥ विना मद्यं विना मांसं परस्वहरणं विना । विना परापकारेण ^१दिविरो दिवि रोदिति ॥ ३ ॥ पूर्वं चेटी ततो बेटी पश्चाद्भवति कुट्टिनी । सर्वोपायपरिक्षीणा वृद्धा वेश्या तपस्विनी ॥ ४ ॥ यदक्षिभ्रूलतापाङ्गैः स्त्रियः कुर्वन्ति चापलम् । जघनेष्वेव तत्सर्वं पतत्यनपराधेषु ॥ ५ ॥ केशलोञ्चनसाम्येऽपि हन्त पश्यैतदन्तरम् । उपस्थाः कीटमश्नन्ति घृतभक्तं दिगम्बराः ॥ ६ ॥ सामगायनपूत मे नोच्छिष्टमधरं कुरु । उत्कण्ठितासि चेद्भद्रे वामं कर्णं दशस्व मे ॥ ७ ॥ भस्माङ्गुलिर्बकोड्डीयी बालशौची तथा हिहिः । धारावतीं चक्रवर्ती षडेते पुरुषाधमाः ॥ ८ ॥ प्रेषकः प्रैष्यकः काण्डः किमेकः स्तम्भलीनकः । योगी तत्कालरोगी च षडेते सेवकाधमाः ॥ ९ ॥ आदौ वेश्या पुनर्दासी पश्चाद्भवति कुट्टिनी । सर्वोपायपरिक्षीणा वृद्धा नारी पतिव्रता ॥ १० ॥ गताः केचित्प्रबोधाय स्वयं तं कुम्भकर्णकम् । तदधःपवनोत्सर्गादुड्डीय पतिताः क्वचित् ॥ ११ ॥ असारे खलु संसारे सारं श्वशुरमन्दिरम् । हरो हिमालये शेते हरिः शेते महोदधौ ॥ १२ ॥ कमले कमला शेते हरः शेते हिमालये । क्षीराब्धौ च हरिः शेते मन्ये मत्कुणशङ्कया ॥ १३ ॥ बिलाद्वहिर्बिलस्यान्तःस्थितमार्जारसर्पयोः । मध्ये चाखुरिवाभाति पलीद्वययुतो नरः ॥ १४ ॥ सदा वक्रः सदा क्रूरः सदा पूजामपेक्षते । कन्याराशिस्थितो नित्यं जामाता दशमो ग्रहः ॥ १५ ॥ स्वय पञ्चमुखः पुत्रौ गजाननषडाननौ । दिगम्बरः कथं जीवेदन्नपूर्णा न चेद्गृहे ॥ १६ ॥ उदरद्वयभरणभयादर्धाङ्गाहितदार । यदि नैवं तस्य सुतः कथमद्यापि कुमारः ॥ १७ ॥ अङ्गुलिभङ्गविकलपनविविधविवादप्रवृत्तपाण्डित्यः । जपचपलौष्ठः स जने ध्यानपरो नगररथ्यासु ॥ १८ ॥ मुण्डो जटिलो नम्रश्छत्री दण्डी कषायचीरी वा । भस्मखेरशरीरो दिशि दिशि भोगी विजृम्भते दम्भः ॥ १९ ॥ भ्रुकुटीकुटिलललाटः कण्टकिताङ्गः कटाक्षविकटाक्षः । कवलयति पृथुलकवलैस्तण्डुलमचलं द्विजः क्रुद्धः ॥ २० ॥ क्रयविक्रयकुतुलालाघवविनिक्षेपरक्षणव्याजैः । एते हि दिवसचौरा मुष्णन्ति महाजनं वणिजः ॥ २१ ॥ आख्यायिकानुरागी व्रजति सदा पुण्यपुस्तकं श्रोतुम् । दृष्ट इव कृष्णसर्पैः पलायते दानधर्मेभ्यः ॥ २२ ॥ दत्त्वा दिशि दिशि दृष्टि याचकचकितोऽवगुण्ठनं कृत्वा । चौर इव कुटिलचारी पलायते कुटिलरथ्याभिः ॥ २३ ॥ गणयति गगने गणकश्चन्द्रेण समागम विशाखायाः । विविधभुजगक्रीडासक्ता गृहिणी न जानाति ॥ २४ ॥

कलमाग्रनिर्गतमषीबिन्दुव्याजेन साञ्जनाश्रुकणैः । कायस्थ्लुण्ठ्यमाना रोदिति खिन्नैव राज्यश्रीः ॥ २५ ॥ वाचयति नान्यलिखितं लिखितमनेनापि वाच्यति नान्यः । अयमपरोऽस्य विशेष स्वयंमपि लिखितं स्वयं न वाचयति ॥ २६ ॥ अर्थो नाम जनाना जीवितमखिलक्रियाकलापश्च । तं सहरन्ति धूर्ताश्छगलगला गायना लोके ॥ २७ ॥ तमसि वराकश्चौरो हाहाकारेण याति सन्त्रस्तः । गायनचौरः कपटो हा हा कृत्वा न याति लक्ष्यं च ॥ २८ ॥ आमन्त्रणजयशब्दैः प्रतिपदहुङ्कारघर्घरारावैः । स्वयमुक्तसाधुवादैरन्तरयति गायनो गीतम् ॥ २९ ॥ मेरु. स्थितोऽतिदूरे मनुष्यभूमि परा परित्यज्य । भीतो भयेन चौर्याद्धोराणा हेमकाराणाम् ॥ ३० ॥ तस्मान्महीपतीनामसभंवे दस्युचौराणाम् । एकः सुवर्णकारो निग्राह्यः सर्वथा नित्यम् ॥ ३१ ॥ उपमुक्तखदिरवीटकजनिताधररागमङ्गभ्रमायत् । पितरि मृतेऽपि हि वेश्या रोदिति हा तात तातेति ॥ ३२ ॥ वर्णनदयितः कश्चिद्वनदयितो दानकर्मदयितोऽन्यः । रक्षादयितश्चान्यो वेश्याना नर्मदयितोऽन्यः ॥ ३३ ॥ शृणु सखि कौतुकमेकं ग्राम्येण कुकामिना यदद्य कृतम् । सुरतसुखमीलिताक्षी मृतेति भीतेन मुक्तास्मि ॥ ३४ ॥ श्रमेणः श्रावकवध्वाः सुरतविधौ दशति नाधर दत्तम् । मदिराक्षिमासमक्षणमखत्ससमये निषिद्धमिति ॥ ३५ ॥ द्विजराजशेखरो यद्धूभारूढ. सदा सदारस्त्वम् । चक्रे हर तद्विधिना पुनरपनयनं ललाटघटितं ते ॥ ३६ ॥ विनापि तातेन विना जनन्या गजाननः शंभुसुताभिधान । विनैव शास्त्रेण विनैव वेदैर्माध्यांदिनानामिव पाठकोऽभूत् ॥ ३७ ॥ शिक्षितापि सखिभिर्ननु सीता रामचन्द्रचरणौ न ननाम । कि भविष्यति मुनीशवधूवद्वालरत्नमिह तद्रजसेति ॥ ३८ ॥ अयं पैटो मे पितुरङ्गभूषणं पितामहाद्यैरपभुक्तयौवनः । अलंकारिष्यथ पुत्रपौत्रकान्मयाधुना पुष्पवदेव धार्यते ॥ ३९ ॥ वैराग्यभङ्गिरचनावचनैः प्रतार्य रण्डा चिराय विकटस्तनसनताङ्गीम् । ब्रह्मोपदेशमिषसगतगण्डभित्ति निःशङ्कचुम्बनर्सैः कितवा द्रवन्ति ॥४०॥ धान्याकनागरनिशार्द्रकदाडिमत्वक्तुम्बरी लवणतै लसुसंस्कृतान्नः । मत्स्यान्सुशीतसितभक्ततले ददाति स ब्रह्मलोकमधिगच्छति पुण्यकर्मा ॥ ४१ ॥ खट्वा नितान्तलघुका शिथिलप्रताना द्वेष्यः पतिः स च निरन्तरचाटुकारी । तत्रापि दैवहतिकाः खलु माघरात्र्यो हा सङ्गता कथमयं व्यसनप्रपञ्चः ॥ ४२ ॥ आकुञ्चय पाणिमशुचि मम मूर्ध्नि वेश्या मन्नाम्भसा प्रतिपदं पृषतैः पवित्रे । तारस्वर प्रहित^३फूकमदात्प्रहार हा हा हतोऽहमिति रोदिति

^१ कायस्थ
^१ प्राणिहिंसाभीरुजैनथमेनिष्ठ
^२ वस्त्रम्
^३ लाला

हास्यरसनिर्देशः, भयानकरसनिर्देशः३६५

विष्णुशर्मा ॥ ४३ ॥ गौरी तनुर्नयनमायतमुन्नता च नामा कृशा कटितटी व पटी विचित्रा । अङ्गानि रोमरहितानि सुखाय भर्तु पुच्छं न तुच्छमिति कुत्र ममस्त्ववस्तु ॥ ४४ ॥ आपाण्डुरा शिरसिजास्त्रिवली कपोले दन्तावली विगलिता न च मे विषाद । एणीदृशो युवतय पथि मा विलोक्य तातेति भाषणपरा. खलु वज्रपात ॥ ४५ ॥ कटी मुष्टिग्राह्या द्विपुरुषभुजग्राह्यमुदर स्तनौ घण्टालोलौ जघनमधिगन्तुं व्यवसितौ । क्षितं मेरीनादो सुखमपि च यत्तद्व्र्यकर तथाप्येषा रण्डा परिभवति सतापयति च ॥ ४६ ॥ एका भार्या प्रकृतिमुखरा चञ्चला च द्वितीया पुत्रस्त्वेको भुवनविजयी मन्मथो दुर्निंवार. । शेष. शय्या शयनमुदधौ वाहन पन्नगारिः स्मारं स्मारं स्वगृहचरित दारुभूतो मुरारि. ॥ ४७ ॥ गत्वा द्वारवती नयामि दिवसानाराधयन्ती हरिं त्यक्त्वा वाडनशनेन जीवितमिदं मुञ्चामि भागीरथीम् । प्रात. प्रातरिति प्रवर्तितकथा निर्वेदमातन्वती रण्डा नक्तमनन्तजारसुरतप्रीता सुखायास्तु व ॥ ४८ ॥ पाणौ ताम्रघटी कुश करतले धौते सिते वाससी भाले मृत्तिलकः सचन्दनरसो व्यस्तैकपुष्प गिर. । दूरात्क्षिप्तपदा गतिर्दृढतरव्याक्लिष्टदन्ता गिरः मोऽयं वञ्चयितुं जगद्भगवतो दम्भस्य देहक्रम. ॥ ४९ ॥ यत्थोथापनमात्रनि.सहजरच्चर्मविशेषाक्षयश्चेच्छसि दुर्बलाङ्गचलनव्यर्थोद्यमालिङ्गने । लज्जावाधिनि खिद्यमानयुवतौ वृद्धस्य कृच्छ्रे रते यत्सात्त्वत्प्रतिभाव्य कि नु हसितुं युक्तं किमारोदितुम् ॥ ५० ॥ दत्ते वक्षसि कौस्तुभोपलमयं मत्वा श्रियः सोदर तन्नाभीगृहमाकलय्य मकरावास मनाङ्नोज्झति । तन्नामप्रणयान्न लम्पति हरि श्रीवत्समङ्के स्थित किं केन क्रियता स एव यदमूदेतादृशः क्लीवश. ॥ ५१ ॥ अतु वाञ्छति वाहनं गणपतेरौखुं क्षुधार्त फणी तं च कौञ्चेपतेः शिखी च गिरिजासिंहोऽपि नागाननम् । गौरी जह्नुसुतामसूयति कलानाथं कपालानलो निर्विण्ण म पपौ कुटुम्बकलहादीशोडपि हालाहलम् ॥ ५२ ॥ रण्डा पीनपयोधराकृत मया चण्डानुगङ्गाद्वुज दोर्दण्डद्वयपीवरस्तनभर नो गाढमालिङ्गिता । बुद्धेभ्य शतश शपे यदि पुन कुत्रापि कापालिनीपीनोत्तुङ्गकुचावपीडनभर. प्राप्त. प्रबोधोदयः ॥ ५३ ॥ जग्ध्वा माषमयानपूपवटकानाध्मायमानोदरे फट्फद्फाडिति पायवीयपवनं योगेश्वरे मुञ्चति । उड्डीनं विहगैर्घटैर्विघटितं दोलायितं भित्तिभिः शिष्यैर्वातितमर्भकैर्निपतितं कोलाहलोऽभून्मठे ॥ ५४ ॥ पीठीप्रक्षालनेन क्षितिपत्तिकथया सञ्जनाना प्रवादेर्नीत्वा यामार्थमेव कुशकुसुम-

समारम्भणव्यग्रहस्ता । पश्चाद्देते निमज्जत्पुरयुवतिकुचामोगदत्तेक्षणार्वा. प्राणायामपदेशादिह मरिति सदा वासगणि क्षिपन्ति ॥ ५५ ॥ रे रे लोका• कुरुध्व श्रवणपुटपिधानं द्रुत हस्तयुग्मै• गला. सर्वेऽपि यूयं भवत गुरुतरा. सावधाना धरित्र्याम् । शीघ्र रे गवण त्व विरचय वसनेर्नासिकाना पिधानं सुमोड्य कुम्भकर्ण. कटुरविकटं शेर्धते दीर्घमुच्चे. ॥ ५६ ॥

भयानकरसनिर्देशः

इदं मघोन• कुलिश धारासनिटितानलम् । स्मरणं यस्य दैत्यस्त्रीगर्भपाताय केवलम् ॥ १ ॥ तत पगमर्शविवृद्धमन्योर्भ्रूभङ्गदु.प्रेक्ष्यमुखस्य तस्य । स्फुरत्प्रदर्चि. सहसा तृतीयादक्षण कृशानु. किल नि.पपात ॥ २ ॥ विनिर्गतं मानदमात्ममन्दिराद्भवत्युपश्रुत्य यहच्छयापि यम् । ससञ्जमेन्द्रद्रुतपातितार्गला निमीलिताक्षीव भियाऽमरावती ॥ ३ ॥ अशक्नुवन्सोदुमवीग्लोचनः सहस्ररश्मेरिव यस्य दर्शनम् । प्रविश्य हेमाद्रिगुहाङ्गुहान्तर निनाय विम्व्यदिवसानि काशिक ॥ ४ ॥ महाप्रलयमारुतक्षुभितपुष्करावर्तकप्रचण्डघनगर्जितप्रतिरवानुकारी मुहु. । रवः श्रवणभैरव. स्थगितरोदसीकन्दर. कुतोऽद्य समरोदघेरणमभूतपूर्वं पुर ॥ ५ ॥ किंचित्कोपकलाकलापकलनाहुंकारविभ्रङ्गुवोर्विस्नेपादकरोदमौ रघुपतिर्लङ्कापते. पत्तनम् । कन्दत्फेरु रटत्करेढु विघटद्दारु स्फुटद्गुग्गुलु कोत्कीडत्कपि नि.श्वसत्फणि रणज्झल्लि भ्रमद्वीपि च ॥ ६ ॥ अद्याप्युन्मदयातुधानतरुणीचञ्चत्करास्फालनव्यावल्गद्गकपालतालरणितैर्नृत्यत्पिशाचाञ्जना । उद्वायन्ति यशांसि यस्य विततैर्नादै. प्रचण्डानिलप्रक्षुभ्यत्करिकुम्भकूटकुहरव्यक्तै रणक्षोभय. ॥ ७ ॥ गीर्वाणा. प्रतियन्ति नैव पिदधे कर्णौ सुधर्माधिप कर्णाकर्णिकयन्ति हन्त निभृत शुशुक्ष्यभूगुणा. । दूरादेत्य कृतान्तदूतनिवहा. स्वाकारसगोपनैरुद्वीव कलयन्ति कोणपृचमूनाथे शयाने रणे ॥ ८ ॥ निशङ्क बहिरम्ब चण्डमनसो नामानुरूपा क्रिया सर्वैण्यापदघर्घरखनवती न कापि रङ्गस्थली । किन्चात्यद्गकंघराद्वियुगले कल्याणभाजि स्फुटं लङ्काया प्रतिपक्षविक्रमयथाशङ्काकरी भ्राम्यति ॥ ९ ॥ अग्राकल्पचलत्पयोधरभरव्याविद्धमेघच्छटास्रुकैश्यामषिभैर्ध्रुगुग्र्ररुदास्कालोच्छलन्मूर्धजा । व्यादायाननमट्टहासविकट दूरेण तारापथात्त्र्रसत्सिद्धपुरत्रिवृन्दरमसोन्युक्तादुपक्रामति ॥ १०॥ प्रौढच्छेदानुरूपोच्छलनरयवशात्सैहिकेयोपमेयत्रासाकृष्टाश्वतिर्यग्गलितरविरथेनारुणेनेक्ष्यमाणम् । कुर्वन्काकुत्स्थवीर्यस्तुतिमिव मरुता कंधरारन्ध्रभाजा झाङ्कारैर्भाममेतत्निपतति

पादटिप्पण्यः (Footnotes):
१ मूषिकम् २ कार्त्तिकेयस्य ३ मयूर ४ गजवदनम् ५ ईष्टि
१ अपानवायु मुञ्चति २ ओष्ठप्रान्त ३ लालसा ४ पक्षा ५ स्त्री

३६६सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम् ]

| वियतः कुम्भकर्णोत्तमाङ्गम् ॥ ११ ॥ माध्यन्मातङ्गकुम्भस्थलबहुलवसावासनाविस्रगन्धव्यासक्तव्यक्तमुक्ताफलशकललसत्केसग्लीकरालः । एणीवैधव्यवेधाः स्वभुजबलमदग्रस्ततेजस्विधामा गुञ्जन्कुञ्जे गिरीणां हरिरिह शबरीगर्भपातं विधत्ते ॥ १२ ॥ मन्थायस्तार्णवाम्भःप्रतिकुहरचलन्मन्दरध्वानधीरः कोणाघातेषु गर्जत्प्रलयघनघटान्योऽन्यसंघट्टचण्डः । कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितोऽयम् ॥१३॥ निर्मज्जच्चक्षुरन्तर्भमदतिकपिलक्रूरतारो नरास्थिग्रन्थिं दन्तान्तरालप्रथितमविरतं जिह्वया घट्टयन्ती । ध्वान्तेऽपि व्यात्तवक्त्रे ज्वलदनलशिखाजर्जरे व्यक्तकर्मा निर्मान्ती गृध्ररौद्री दिवसुपरि परिक्रीडते ताडकेयम् ॥ १४ ॥

### बीभत्सरसनिर्देशः
प्रस्वेदमलदिग्धेन वहता मूत्रशोणितम् । व्रणेन विकृतेनेदं सर्वमन्वीकृतं जगत् ॥ १ ॥ विकीर्णहरिचन्दनद्रविणि यत्र लीलालसा निपेतुर्लतिचञ्चलाश्चतुरकामिनीदृष्टयः । तदेतदुपरिभ्रमन्निबिडगृध्रजालं जनैर्लुठत्कृमि कलेवरं पिहितनासिकैर्वीक्ष्यते ॥ २ ॥ अङ्गैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पलब्यक्तोत्तंसभृतः पिनह्य शिरसा हृत्पुण्डरीकस्रज । एताः शोणितपङ्ककुङ्कुमजुषः सभ्यङ् कान्तैः पिबन्त्यस्थिस्नेहसुराः कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥ ३ ॥ उत्कृत्य ज्वलिता शवात्कथमपि प्रेताशनः पैशितीं पेशीमभ्रिमयीं निगीर्य सहसा दन्दह्यमानोदरः । धावत्युत्प्लवते मुहुर्निपतति प्रोत्तिष्ठति प्रेक्षते विष्वक्क्रोशति सपिनष्टि जठर सुध्या चलन्मस्तकः ॥ ४ ॥ अग्रप्रोतवृहत्कपालनकलकूरकणत्कङ्कणप्रायप्रेङ्खितभूरिभूषणरवैराधोपयन्त्यम्बरम् । पीतच्छर्दितरक्तकर्दमघनप्राग्भारघोरोल्लसद्यालोलस्तनभारभैरववपुर्दर्पोद्धतं धावति ॥ ५ ॥ रक्तं नक्तंचरौघः पिबति वमति च ग्रस्तकुन्तः शकुन्तः क्रव्यं नव्यं गृहीत्वा प्रणदति मुदितो मत्तवेतालवालः । क्रीडत्यक्रीडमस्मिन्विधिरमदवशात्पूतना नूतनाङ्गी योगिन्यो मासभेदःप्रमुदितमनसः शूरशक्ति स्तुवन्ति ॥ ६ ॥ उत्कृत्योत्कृत्य कृंत्ति प्रथममथ पृथूच्छोफभूयांसि मासान्यंसस्फिक्पृष्ठपिण्डाद्वयववसुलभान्यङ्ग्रपूतीनि जंग्ध्वा । आत्तक्षायन्त्रनेत्रः प्रकटितदशनः प्रेतरूङ्कः करङ्कादङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥ ७ ॥ | ### रौद्ररसनिर्देशः
स रोषदग्दाधरलोहिताक्ष्यैर्व्यक्तोर्ध्वरेखा भृकुटीर्वहद्भिः । तस्तार गा भल्लनि कृत्तकण्ठैहुंकारगर्भैर्द्रुढता शिरोभिः ॥१॥ पातालत. किमु सुधारसमानयामि निष्पीड्य चन्द्रममृतं किमु वाह्रामि । उद्यन्तमद्य तपनं किमु वारयामि कीनाशपाशमथवा किमु चूर्णयामि ॥ २ ॥ चञ्चद्भुजभ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य । स्त्यानाधनद्धघनशोणितशोणपाणिरुत्तंसयिष्यति कचास्तव देवि भीमः ॥ ३ ॥ कुंतमनुमतं दृष्ट वा यैरिदं गुरुपातकं मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः । नैरकरिपुणा सार्ध तेषा सभीमैकिरीटिना महमयमसमृद्धोदमासैः करोमि दिशा बलिम् ॥ ४ ॥ यत्सत्यव्रतमङ्गभीरुमनसा यत्नेन मन्दीकृतं यद्विकर्तुमपीहितं शमवता शान्ति कुलेच्छच्छता । तद्यूतारणिसंभृतं नृपसुताकेशाम्बराकषणै. क्रोधज्योतिरिदं महत्कुरुवने यौधिष्ठिर जृम्भते ॥ ५ ॥ येन स्वा विनिहत्य मातरमपि क्षत्रास्रपूरास्वादामोदमत्तपरश्वधेन विदधे निःक्षत्रिया मेदिनी । यद्वाणव्रणवर्त्मनः शिखरिरणः क्रौञ्चस्य हसच्छलादद्याप्यस्थिकणा. पतन्ति स पुनः क्रुद्धो मुनिर्मार्गवः ॥ ६ ॥ देशः सोऽयमरतिशोणितजलैर्यस्मिन्ह्रदा. पूरिताः क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः । तान्येवाहितशस्त्रघस्मरगुरूण्यास्त्राणि भास्वन्ति मे यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधन. ॥ ७ ॥ यैः प्राणापहृतिः कृता मम पितुः क्रुद्धैर्युधि क्षत्रियै रामोऽहं रमणीर्विहाय बलवान्निःशेषमेषा हठात् । भास्वत्प्रौढकुठारकोटिघनकाकाण्डत्रुटत्कंधरास्रोतोऽन्त.क्षुतशोणशोणितभरैः कुर्या क्रुधा निर्वृतिम् ॥ ८ ॥ राज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रत. प्रत्यक्षं कुरु बान्धवस्य च तथा कर्णस्य शल्यस्य च । पीतं तस्य ममाद्य पाण्डववधूकेशाम्बराकषिणः कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसृग्वक्षसः ॥ ९ ॥ स्पृष्टा येन शिरोरुहे नृपशुना पाञ्चालराजात्मजा येनास्याः परिधानमप्यपहृतं राज्ञा कुरूणा पुरः । यस्योरःस्थलशोणितासवमहं पातुं प्रतिज्ञातवान् सोऽय मङ्गजपञ्जरे निपतितः सरक्ष्यता कौरवाः ॥ १० ॥ रक्तोत्फुल्लविशाललोलनयनः कम्बोत्तराङ्गो मुहुर्मुक्त्वा कर्णमपेतधीर्धुतधनुर्बाणो हरेः पश्यतः । आम्नातः कटूकोक्तिभिः स्वमसम्रुद्धोर्विक्रमं कीर्तयंश्चासास्फोटपटुर्युधिष्ठिरमसौ हन्तुं प्रवृत्तोऽर्जुनः ॥ ११ ॥ त्रैलोक्यत्राणशौण्डः सैरसिजवसतं· सप्रसूतो भुजाभ्या सुक्षत्रं नाम वर्णः कुलिशकठिनयोर्यस्य दोष्णोर्विलीनः । ज्वाला- |

पादटिप्पणी (Footnotes)

वामभागः (Left Column)दक्षिणभागः (Right Column)
१ श्मशाने शवं भुञ्जानं प्रेतं दृष्ट्वा माधवस्योक्तिरियम्१ स्वय मृतद्रोणशिरश्छेदकृद्दृष्टद्युम्नाश्वास्य उक्तिरियम्
२ चर्म२ कृष्णेन
३ कटिदेशस्थमासपिण्ड३ अर्जुन
४ अत्यन्तदुर्गन्धीनि४ रक्षणम्
५ भक्षयित्वा५ ब्रह्मण
६ प्रेतदरिद्र६ बाहौ
७ मृतशरीरात्
८ निम्नोन्नतप्रदेशस्थम्
९ मासम्

रौद्ररसनिर्देशः, शान्तरसनिर्देशः ३६७

जिह्वालकालानलकवलभयभ्रान्तदेवासुराणि व्यातन्वानो जग-
न्ति ज्वलति मुनिरयं पार्वतीधर्मपुत्रः ॥ १२ ॥ अन्योन्या-
स्फालभिन्नद्विपस्रुधिरवसामासमस्तिष्कपङ्के मग्नानां स्यन्दना-
नामुपरि कृतपदन्यासविक्रान्तपत्तौ । स्फीतासृक्पानगोष्ठीरस-
दशिवशिवातूर्यनृत्यत्कवन्धे सङ्ग्रामैकार्णवान्तः प्रविचरितु-
मलं पण्डिताः पाण्डुपुत्राः ॥ १३ ॥ रे धृष्टा धार्तराष्ट्राः
प्रबलभुजवृ‍हत्ताण्डवाः पाण्डवा रे रे वार्ष्णेयाः सकृष्णाः
शृणुत मम वचो यद्ब्रवीम्यूर्ध्वबाहुः । एतत्सोलबातबाहो-
र्द्रुपदनृपसुतातार्पितः पापिनोऽहं पाता हृच्छोणितानां प्रम-
वति यदि वस्तत्किमेतं न पाथ ॥ १४ ॥ नाहं रक्षो न
भूतो रिपुरुधिरजलाह्लादिताङ्गः प्रकाशं विस्तीर्णोरुप्रतिज्ञा-
जलनिधिगहनः क्रोधनः क्षत्रियोऽस्मि । भो भो राजन्य-
वीराः समरशिखिशिखाभुक्तशेषाः कृतं वस्त्रासेनानेन लीनै-
र्हितकरितुरगान्तर्हितैरास्यते यत् ॥ १५ ॥ यो यः शस्त्रं
बिभर्ति स्वभुजगुरुमदः पाण्डवीना चमूना यो यः पाञ्चाल-
गोत्रे शिशुरधिकवया गर्भशय्या गतो वा । यो यस्तत्कर्म-
साक्षी चरति मयि रणे यश्च यश्च प्रतीपः क्रोधान्ध-
स्तस्य तस्य स्वयमिह जगतामन्तकान्तकोऽहम् ॥ १६ ॥

### शान्तरसनिर्देशः
#### वैराग्यम्
को देशः कानि मित्राणि कः कालः कौ व्ययागमौ ।
कश्चाहं का च मे शक्तिरिति चिन्यं मुहुर्मुहुः ॥ १ ॥
पुत्रमित्रकलत्रेषु सक्ताः सीदन्ति जन्तवः । सरःपङ्कान्तरे मग्ना
जीर्णा वनगजा इव ॥ २ ॥ मन्ये मायेयमज्ञानं यत्सुखं
स्वजनादपि । निदाघवारणायालं निजच्छाया न कस्यचित्
॥ ३ ॥ विपत्प्रशान्त्यै सेव्यन्ते यदि कष्टेन भूभृतः ।
तत्करिष्यति कथापि विपत्किमधिकं ततः ॥ ४ ॥ मितमायु-
र्वयोऽनित्यं नैति यातं कदाचन । परामृशन्ति तदपि न
भवं भोगलोलुपाः ॥ ५ ॥ निःस्नेहो याति निर्वाणं
स्नेहोऽनर्थस्य कारणम् । निःस्नेहेन प्रदीपेन यदेतत्प्रकटीकृतम्
॥ ६ ॥ अश्रीमहि वयं भिक्षामआशावासो वसीमहि ।
शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः ॥ ७ ॥ यावन्तः
कुरुते जन्तुः सबन्धान्मनसः प्रियान् । तावन्तोऽस्य निखन्यन्ते
हृदये शोकशावः ॥ ८ ॥ प्रचण्डवासनावातैरूद्धता नौर्मनो-
मयी । वैराग्यकर्णधारेण विना रोढुं न शक्यते ॥ ९ ॥
रागिण्यपि विरागिण्यः स्त्रियस्तासु रमेत कः । अह च
कलये मुक्ति या विरागिणि रागिणी ॥ १० ॥ लावण्य
तदसौ कान्तिस्तद्रूप स वचःक्रमः । तदा सुधास्पदम्भूदधुना
तु ज्वरो महान् ॥ ११ ॥ पूरयित्वाथिनामाशा प्रियं कृत्वाद्विषामपि । पारं गत्वा श्रुतौघस्य धन्या वनमुपासते
॥ १२ ॥ पुत्रदारादिसारः पुंसा संमूढचेतसाम् । विदुषा
शास्त्रसंसार. सद्योगभ्यासविघ्नकृत् ॥ १३ ॥ गतः काम-
कथोन्मादो गलितो यौवनज्वरः । गतो मोहश्र्युता तृष्णा
कृतं पुंण्याश्रमे मनः ॥ १४ ॥ वनान्यमूनि न गृहाण्येता
नद्यो न योषितः । द्रुमा इमे न दायादास्तन्मे नन्दति
मानसम् ॥ १५ ॥ शान्तिकन्थालसत्कण्ठो मनःस्थाली-
मिलत्करः । त्रिपुरारिपुरद्वारि कदाहं मोक्षभिक्षुकः ॥ १६ ॥
उद्घाटितनवद्वारे पञ्जरे विहगोऽनिलः । यत्तिष्ठति तदाश्चर्ये
प्रयाणे विस्मयः कुतः ॥ १७ ॥ निर्विवेकतया बाल्यं
कामोन्मादेन यौवनम् । वृद्धत्व विकलत्वेन सदा सोपद्रवं
नृणाम् ॥ १८ ॥ प्रातर्मूत्रपुरीषाभ्या मध्याह्ने क्षुत्पिपासया ।
तृषाः कामेन बाध्यन्ते प्राणिनो निशि निद्रया ॥ १९ ॥
गतसारेऽत्र संसारे सुखभ्रान्तिः शरीरिणाम् । लालापान-
मिवाङ्गुष्ठे बालाना स्तन्यविभ्रमः ॥ २० ॥ दिनमेक शशी
पूर्णः क्षीणस्तु बहुवासराम् । सुखादुःखं सुराणामप्यधिकं
का कथा नृणाम् ॥ २१ ॥ न विषयभोगो भाग्यं योग्यं
खलु यत्र जन्तुमात्रमपि । ब्रह्मेन्द्ररुद्रमृग्यं भाग्यं विषयेषु
वैराग्यम् ॥ २२ ॥ पाषाणखण्डष्वपि रत्नबुद्धिः कान्तेति
धीः शोणितमासपिण्डे । पञ्चात्मके वर्ष्मणि चात्मभावो
जयत्यसौ काचन मोहलीला ॥ २३ ॥ त्रय्यन्तसिद्धाञ्जन-
निर्मलाक्षैस्तपोधनैर्यन्नवेक्षितं यत् । अवेक्ष्यते धाम तदेव
काश्यामात्यन्तिकेनाक्षिनिमीलनेन ॥ २४ ॥ कुटुम्बचिन्ता-
कुलितस्य पुंसः कुलं च शीलं च गुणाश्च सर्वे । अपक्वकुम्भे
निहिता इवापः प्रयान्ति देहेन सम विनाशम् ॥ २५ ॥
सुरमन्दिरतुरुमूलनिवासः शय्या भूतलमजिनं वासः । सर्व-
परिग्रहभोगत्यागः कस्य सुखं न करोति विरागः ॥ २६ ॥
निखिलं जगदेव नश्वरं पुनरस्मिन्नितरा कलेवरम् । अथ
तस्य कृते कियानयं क्रियते हन्त जनैः परिश्रमः ॥ २७ ॥
मल्यानिलकालकूटयो रमणीकुन्तलभोगिमोगयोः । क्षेप-
चँत्तमसुवोः किमन्तरं मम भूयात्परमात्मनि स्थितिः ॥ २८ ॥
नवनीलमेघरचिरः पर. पुमानर्नैनीमवाप्य धृतगोपविग्रहैः ।
नवनीयकीर्तिरमरैरपि स्वयं नवनीतभिक्षुरधुना स चिन्यते
॥ २९ ॥ सार्वभौममधनं वनवासो निक्खमाभवमभावनथा
ते । बालिशो हि विषयेन्द्रियचौरैर्मुष्यते स्वभवने च वने च
॥३०॥ इतो न किचित्परतो न किचिद्यतो यतो यामि ततो
न किचित् । विचार्य पश्यामि जगन्न किचित्स्वात्मावबो-
धादधिक न किचित् ॥ ३१ ॥ व्याघ्रीव तिष्ठति जरा ५प॑रि-

१ भार्गव . २ रक्षथ ३ नाशमामुवति
१ प्रव्रज्यायाम् २ प्राणवायु ३ विचारशून्यत्वेन ४ शैशवम् ५ निःसारे ६ संपूर्णम् ७ नाशनत् ८ शरीरम् ९ चाण्डाल ० १० ब्रह्मा. ११ पृथ्वीम् १२ देह ० १३ भर्त्सयन्ती.

३६८सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

तर्जयन्ती रोगाश्च शत्रव इव प्रहरन्ति देहम् । आयुः परिस्रवति भिन्नघटादिवाम्भो लोकस्तथाप्यहितमाचरतीति चित्रम् ॥ ३२ ॥

दैन्यं क्वचित्क्वचन मन्मथजा विकाराः कुत्राप्यनेकविधबन्धुजनप्रपञ्चः । क्वापि प्रभुत्वधनकल्पितमीश्वरत्वमित्येकवैकृतमिदं जगदाविभाति ॥ ३३ ॥

आस्तामकण्टकमिदं वसुधाधिपत्यं त्रैलोक्यराज्यमपि नैव तृणाय मन्ये । निःशङ्कसुप्तहरिणीकुलसङ्कुलासु चेतः परं वलति शैलवनस्थलीषु ॥ ३४ ॥

ते तीक्ष्णदुर्जननिकारशरैर्न भिन्ना धीरास्त एव शमसौख्यमुजस्त एव । सीमन्तिनीभुजलतागहनं व्युदस्य येऽवस्थिताः शमफलेषु तपोवनेषु ॥ ३५ ॥

बुद्धेर्गोचरतया न गिरां प्रचारो दूरे गुरुप्रथितवस्तुकथावतारः । तत्त्वं क्रमेण विदुषा करुणावदाते श्रद्धावता हृदि पदं स्वयमादधाति ॥ ३६ ॥

दधति तावदमी विषयाः सुखं स्फुरति यावदियं हृदि मूढता । मनसि तत्त्वविदां तु विवेचके क्व विषयाः क्व सुखं क्व परिग्रहः ॥ ३७ ॥

क्षणं बालो भूत्वा क्षणमपि युवा कामरसिकः क्षणं वित्तैर्हीनः क्षणमपि च सम्पूर्णविभवः । जराजीर्णैरङ्गैर्नट इव वलीमण्डिततनुर्नरः संसाराङ्के विशति यमधानीजवनिकाम् ॥ ३८ ॥

क्वचित्कन्थाधारी क्वचिदपि च दिव्याम्बरधरः क्वचिद्भूमौ शय्या क्वचिदपि च पर्यङ्कशयनः । क्वचिद्भिक्षावृत्तिः क्वचिदपि च मृष्टाशनरुचिर्महात्मा योगज्ञो न गणयति दुःखं न च सुखम् ॥ ३९ ॥

अहौ वा हारे वा बलवति रिपौ वा सुहृदि वा मणौ वा लोष्टे वा कुसुमशयने वा दृषदि वा । तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः क्वचित्पुण्येऽरण्ये शिव शिव शिवेति प्रलपतः ॥ ४० ॥

गतास्तातभ्रातृप्रमुखसुखपीयूषमधुराः पुरा लक्ष्मीक्षैब्यव्यसनसरसास्तेऽपि दिवसाः । अदः शान्तं स्वान्तं सपदि यदि निर्वेदपदवी मजत्यम्यासोऽयं जनयति सुखं भावविसुखम् ॥ ४१ ॥

अवश्यं यातारश्चिरतरमुषित्वापि विषया वियोगे को भेदस्त्यजति न जनो यत्स्वयममून । व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः स्वयं त्यक्तास्वेते शमसुखमनन्तं विदधति ॥ ४२ ॥

न संसारोत्पन्नं चरितमनुपश्यामि कुशलं विपाकः पुण्यानां जनयति भयं मे विमृशतः । महद्भिः पुण्यौघैश्चिरपरिगृहीताश्च विषया महान्तो जायन्ते व्यसनमिव दातुं विषयिणाम् ॥ ४३ ॥

धनं तावल्लब्धं कथमपि तथाप्यस्य नियतं विनाशेऽलाभे वा तव सति वियोगोऽप्युभयथा । अनुत्पादः श्रेयान्किमु कथय तस्याथ विलयो विनाशो लब्धस्य व्यथयतितरा न त्वनुदयः ॥ ४४ ॥

परेषां चेतांसि प्रतिदिवसमाराध्य बहुधा प्रसादं किं नेतुं विशसि हृदय क्लेशकलिलम् । प्रसन्ने त्वय्यन्तः स्वयमुदितचिन्तामणिगुणे विविक्तः सकल्पः किमिह हि फलं पुष्यति न ते ॥ ४५ ॥

यदेतत्स्वच्छन्दं विहरणमकार्पण्यमशनं सहायैः संलापः श्रुतमुपशमैकव्रतफलम् । मनो मन्दस्पन्द बहिरपि चिरश्चापि विमृशन्न जाने कस्यैषा परिणतिरुदारस्य तपसः ॥ ४६ ॥

तडिन्मालालोलं प्रतिदिवसदन्तान्धतमस भवे मौर्य्यं हित्वा शमसुखमुपादेयमनघम् । इति व्यक्तोद्गारं चटुलवचसः शून्यमनसो वयं वीतक्रीडाः शुक इव पठामः परममी ॥ ४७ ॥

यदासौ दुर्वारः प्रसरति मदश्चित्तकरिणस्तदा तस्योद्दामप्रसररसस्रूदैर्व्यवसितैः । क्व तद्धैर्य्यालाने क्व च निजकुलाचारनिगडः क्व सा लज्जारज्जुः क्व विनयकटोराङ्कुशमपि ॥ ४८ ॥

कुरङ्गाः कल्याणं प्रतिविटपमारोग्यमटवि स्रवन्ति क्षेमं ते पुलिनकुशलं भद्रमुपलाः । निशान्तादस्वन्तात्कथमपि विनिष्क्रान्तमधुना मनोऽस्माकं दीर्घामभिलषति युष्मत्परिचितिम् ॥ ४९ ॥

गत कालो यत्र प्रणयिनि मयि प्रेमकुटिलः कटाक्षं कालिन्दीलघुलहरिवृत्तिः प्रभवति । इदानीमस्माकं जरठकमठीपृष्ठकठिना मनोवृत्तिस्तत्किं व्यसनिनि मुधैव ग्लपयसि ॥ ५० ॥

गतः कालो यत्र द्विचरणपशूना क्षितिभुजां पुरः स्वस्तीत्युक्त्वा विषयसुखमास्वादितमभूत् । इदानीमस्माकं तृणमिव समस्तं कलयतामपेक्षा भिक्षायामपि किमपि चेतःक्षपयति ॥ ५१ ॥

अहंकार क्वापि व्रज वृजिन हे मा त्वमिह भूर्भूमिर्दर्पणामहमपसर त्वं पिशुन हे । अरे क्रोध स्थानान्तरमनुसरानन्यमनसां त्रिलोकीनाथो नो हृदि वसतु देवो हरिरसौ ॥ ५२ ॥

अतिक्रान्तः कालो ललितललनाभोगसुखदो भ्रमन्तः शान्ताः स्मः सुचिरमिह संसारसरणौ । इदानीं खैः सिन्धोस्तटभुवि समाक्रन्दनगिरः सुतारैः फूत्कारैः शिवशिवशिवेति प्रतनुमः ॥ ५३ ॥

मैहाशय्या भूमिर्मृदुमुपधानं भुजलता वितानं चाकाशं व्यजनमनुकूलोऽयमनिलः । स्फुरद्दी पश्चन्द्रः स्वधृतिवनितासङ्गमुदितः सुखं शान्तः शेते विगतभवभीतिर्नृप इव ॥ ५४ ॥

कदा वृन्दावन्ये नवघननिभं नन्दनयनं परीतं गोपीभिः क्षणरुचिमनेोज्ञाभिरभितः । गमिष्यामस्तोषणं नयनविषयीकृत्य कृतिनो वयं प्रेमोद्रेकस्खलितगतयो वेपथुभृतः ॥ ५५ ॥

कदा भिक्षाभक्तैः करकलितगङ्गाम्बुतरलैः शरीरं मे स्थास्यत्युपरतसमस्तेन्द्रियसुखम् । कदा ब्रह्माभ्यासस्थिरतनुतयारण्यविहगाः पतिष्यन्ति स्थाणुभ्रमहतधियः स्कन्धशिरसि ॥ ५६ ॥

कदा वृन्दारण्ये विमलयमुनातीरपुलिने चरन्तं गोविन्दं हलधरसुदामादिसहितम् । अये कृष्ण स्वामिन्मधुरमुरलीवादन विभो प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि

१ पद्धतौ २ स्वर्णवा ३ पर्यङ्क ४ मृदु ५ उल्लोच ६ स्वधृति स्वीय धैर्य तदेव वनिता स्त्री तस्या सङ्गेन मुदितो हृष्ट सन्

शान्तरसनिर्देशः

३६९

दिवसान् ॥ ५७ ॥ कदा वा सैकते विमलसरयूतीरपुलिने चरन्तं श्रीरामं जनकतनयालक्ष्मणयुतम् । अये राम स्वामिञ्जनकतनयावल्लभ विभो प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ५८ ॥ कदा वाराणस्याममरतटिनीरोधसि वसन्वसानः कौपीन शिरसि निदधानोऽञ्जलिपुटम् । अये गौरीनाथ त्रिपुरहर शंभो त्रिनयन प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ५९ ॥ भू पर्यङ्को निजभुजलतागेन्दुकः खं वितानं दीपश्चन्द्रो विरतिवनितालब्धयोगप्रमोदः । दिक्कन्याना व्यजनपवनैर्वीज्यमानोऽनुकूलैर्भिक्षुः शेते नृप इव सदा वीतरागो जितात्मा ॥ ६० ॥ आस्सारातत्रिभुवनमिदं चिन्वता तात तादृङ्गो वाऽस्माकं नयनपदवी श्रोत्रवर्त्मागतो वा । योऽयं धत्ते विषयकरिणीगाढगूढाभिमानक्षीयत्स्वान्तःकरणकरिणः संयमानानलीलाम् ॥ ६१ ॥ आयुर्वायुव्यथितनलिनीपत्रमित्र किमन्यत्संपच्छम्पाद्युतिसहचरी खेरचारी कृतान्तः । कस्मादस्मिन्भ्रमसि तमसि त्वं प्रयाहि प्रयागं पौनःपुन्यं भुवि भगवती स्वर्धुनी ते धुनीते ॥ ६२ ॥ पूर्वं तावत्कुवलयदृशा लोललोलैरपाङ्गैरराकर्षद्भिः किमपि हृदयं पूजिता यौवनश्रीः । संप्रत्यन्तर्निहितसदसद्भावलब्धप्रबोधप्रत्याहारैर्विशदहृदये वर्तते कोऽपि भावः ॥ ६३ ॥ मातर्माये भगिनि कुमते हे पितर्मोहजाल व्यावर्तध्वं भवतु भवतामेष दीर्घो वियोगः । सद्यो लक्ष्मीचरणचरणभ्रष्टगङ्गाप्रवाहव्यामिश्राया दृषदि परमब्रह्मदृष्टिर्भवामि ॥ ६४ ॥ गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य ब्रह्मज्ञानाभ्यसनविधिना योगनिद्रा गतस्य । किं तैर्भाव्यं मम सुदिवसैर्येत्र ते निर्विशङ्काः कण्डूयन्ते जरठहरिणाः शृङ्गमङ्गे मदीये ॥ ६५ ॥ भेदाभेदौ सपदि गलितौ पुण्यपापे विशीर्णे मायामोहौ क्षयमुपगतौ नष्टसदेहवृत्तेः । शब्दातीतं त्रिगुणरहितं प्राप्य तत्त्वावबोधं निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः ॥ ६६ ॥ यद्वात्मानं सकलवपुषामेकमन्तर्बहिःस्थं दृष्ट्वा पूर्ण खमिव सततं सर्वभाण्डस्थमेकम् । नान्यत्कार्य किमपि च ततः कारणाच्चिन्नरूपं निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः ॥ ६७ ॥ हेम्नः कार्य द्रुतबहूगतं हेममेवेति यद्वत्क्षीरे क्षीर समरसतया तोयमेवाम्बुमध्ये । एवं सर्व समरसतया त्वंपदं तत्पदार्थे निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः ॥ ६८ ॥ यस्मिन्सर्वं सकलभुवन सामरसैकभूतंमुखी ह्यापोऽनलमनिलञ्च जीवमेवं क्रमेण । यत्क्षाराब्धौ समरसतया सैन्धवैकत्वभूतं निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः ॥ ६९ ॥ यद्वन्नद्योदधिसमरसौ सागरत्वं ह्यवासौ तद्वज्जीवा-

लयपरिगतौ सामरसैकभूतौ । भेदातीतं परिलयगतं सच्चिदानन्दरूपं निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः ॥ ७० ॥ दृष्ट्वा वेद्य परमथ पदं स्वात्मनोवस्वरूपं बुद्ध्वात्मान सकलवपुषामेकमन्तर्बहिःस्थम् । भूत्वा नित्यं समुदिततया स्वप्रकाशस्वरूपं निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः ॥ ७१ ॥ कार्यकार्ये किमपि सततं नैव कर्तृत्वमस्ति जीवन्मुक्तस्थितिरवगतो दग्धवस्त्रावभासः । एव देहे प्रविलयगते तिष्ठमानो विमुक्तो निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः ॥ ७२ ॥ कस्मान्कोऽह किमपि च भवान्कोऽयमत्र प्रपञ्चः स्वं स्वं वेद्य गगनसदृश पूर्णतत्त्वप्रकाशम् । आनन्दारूयं समरसघने बाह्यमन्तर्विहीने निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः ॥ ७३ ॥ कि कदर्प कर कदर्थयसि रे कोदण्डटङ्कारितै रे रे कोकिल कोमलैः कलरवै कि त्वं सुधा वल्गसि । मुग्धे स्निग्धविदग्धमुग्धमधुरैर्लोलैः कटाक्षैरल चेतश्चुम्बितचन्द्रचूडचरणध्यानामृतं वर्तते ॥ ७४ ॥ मातर्मेदिनि तात मारुत सखे ज्योतिः सुबन्धो जल भ्रातर्व्योम निबद्ध एष भवतामन्त्यः प्रणामाञ्जलिः । युष्मत्सङ्गवशोपजातसुकृतोद्रेकः स्फुरन्निर्मलज्ञानापास्तसमस्तमोहमहिमा लीये परे ब्रह्मणि ॥ ७५ ॥ आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी । मोहावर्तसुदुस्तरातिगहना प्रोत्तङ्गचिन्तातटी तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः ॥ ७६ ॥ येषा वल्लभया सह क्षणमपि क्षिप्रं क्षपा क्षीयते तेषा शीतकरः शशी विरहिणामुल्केव संतापकृत् । अस्माकं तु न वल्लभा न विरहस्तेनोभयभ्रंशिनार्मिन्दू राजति दर्पणाकृतिरसो नोष्णो न वा शीतलः ॥ ७७ ॥ धावन्त प्रतिवासर दिशि दिशि प्रत्याशया संपदा दृष्ट्वा कालवशेन हन्त पलित कस्यापि दैवद्रुमम् । श्रावं श्रावमवज्ञयोपहसितं सर्वत्र भग्नोद्यमा जीवामः परमार्थशून्यहृदयास्तृप्ता मनोमोदकैः ॥ ७८ ॥ सन्त्येके धनलाभमात्रगहनव्यामोहसम्मुर्च्छिताः केचिद्दैववसुन्दरीस्तनपरीरम्भभ्रमव्याकुलाः । अन्तर्भूतसमस्ततत्त्वनिवहं चिन्मात्रशेषं शिवं दृष्ट्वा हृष्टतनूरुहाङ्कुरभराः कष्टं न शिष्टाः क्वचित् ॥ ७९ ॥ आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं व्यापारैर्बहुकार्यभारगुरुभिः कालोऽपि न ज्ञायते । दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥ ८० ॥ यत्रैकं शृतमक्षर पशुपतेर्हेतुः श्रुतीना कृतौ सद्यो रोहति चाष्टधा तनुभृता यत्रैकमुग्धदृपुः । यत्रैकाअनदीकणेऽपि विधृते सर्वैव सा धार्यते सा दृष्टाद्भुतवैभवा कविगिरा पारे हि

१ अयोध्यायाम्
२ भागीरथीतीरे
३ उपधानम्
४७ सु र. भां.

१ नक्र
२ अभ्भसां भ्रम

३७० सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्

वाराणसी ॥ ८१ ॥ क्षारस्मेरमदोन्मज्जत्कुचतटीकान्ताकरा-
न्दोलितैः पुष्पाम्भोनिचितैःशरीररचितैः किं तालवृन्तैर्भ्रम ।
अन्वानन्दवनं सुखं शिशयिषोरर्धप्रमीलदृशो यातायातरिप-
श्रमं शमयिता गङ्गातरङ्गानिलः ॥ ८२ ॥ एकद्वैः किम-
भावि सूरिभिरथ द्वित्राणि मित्राणि किं व्यापन्नानि गताश्च
किं त्रिचतुरा घोरा महाव्याधयः । सप्ताहैरल्मिदमेतदपि
नश्चेत. क्षणान्यञ्चपान्स्वान्मन्येव रमस्व तेजसि गते कालेऽथ
वा सर्वतः ॥ ८३ ॥ नित्यानित्यविचारणा प्रणयिनी वैराग्य-
मेक सुहृन्मित्राण्येव यमादय. शमदमप्राया. सखायो
मताः । मैत्र्याद्याः परिचारिकाः सहचरी नित्यं मुमुक्षा
बलादुच्छेद्या रिपवश्च मोहममतासंकल्पवैरादयः ॥ ८४ ॥
पुण्यैर्मूलफलैः प्रियप्रणयिनी वृत्ति कुरुष्वाधुना भूशय्या
नवपल्लवैः कुरु तृणैरृत्तिष्ठ यामो वने । क्षुद्राणामविवेकगूढ-
मनसा यत्रेश्वराणा सदा वित्तव्याध्यविवेककुलगिरा
नामापि न श्रूयते ॥ ८५ ॥ भस्मोद्धूलन भद्रमस्तु भवते
रुद्राक्षमाले शुभं हा सोपानपरम्परे गिरिसुताकान्तालयालंकृते ।
अद्याराधनतोषितेन विभुना युष्मत्सपर्यासुखालोको-
च्छेदिनी मोक्षनामनि महामोहे निधीयामहे ॥ ८६ ॥
कृत्वा दीननिपीडना निजजने बद्ध्वा वचोविग्रहं नैवालोच्य
गरीयसीरपि चिरादामुष्मिकीर्यातनाः । द्रव्यौघा परि-
सचिता. खलु मया यस्याः कृते साप्रतं नीवाराञ्जलिनापि
केवलमहो सेयं कृतार्था तनुः ॥ ८७ ॥ रथ्यान्तररतस्तथा
धृतजरत्कन्थालवस्साध्वगैः सत्रास च सकौतुक च
सदय दृष्टस्य तैर्नागरै. । निर्याणीकृतचित्सुधारसमुदा
निद्रायमाणस्य मे निःशङ्कं कैरटः कदा करपुटीभिक्षा
विलुण्ठिष्यति ॥ ८८ ॥ सौजन्याम्बुमरुस्थली सुचरिता-
लेख्यद्युभित्तिर्गुणज्योत्स्नाकृष्णचतुर्दशी सरलतायोगश्वपुच्छ-
च्छटा । यैरेषापि दुराशया कलियुगे राजावली सेविता
तेषा शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम् ॥ ८९ ॥
भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भयं माने दैन्य-
भय बले रिपुभयं रूपे जराया भयम् । शास्त्रे वादभयं
गुणे खलभय काये कृतान्ताद्भयं सर्वे वस्तु भयान्वितं भुवि
नृणा वैराग्यमेवाभयम् ॥ ९० ॥ शय्या शार्दूलमासनं शुचि
शिला सद्म द्रुमाणामधः शीतं निर्झरवारि पानमशनं कन्दा-
सहाया मृगाः । इत्यप्रार्थितलभ्यसर्वविभवे दोषोऽयमेको
वने दुष्प्रापार्थिनि यत्परार्थघटनाबन्ध्धैर्वृथा स्थीयते ॥ ९१ ॥
याञ्चाशून्यमयत्नलभ्यमशनं वायुः कृतो वेधसा व्यालाना
पशवस्तृणाङ्कुरभुज. सुस्थाः स्थलीशायिनः । ससारार्णव-
लङ्घनक्षमधिया वृत्तिः कृता सा नृणा यामन्वेषयता प्रयान्ति
सततं सर्वे समाप्ति गुणाः ॥ ९२ ॥ बीभत्सा विषया जुगु-
प्सिततमः कायो वयो गत्वर प्रायो बन्धुभिरध्वनीव पथिकै-
र्योगो वियोगावहः । हातव्योऽयमसार एष विरसः ससार
इत्यादिकं सर्वस्यैव हि वाचि चेतसि पुनः कस्यापि पुण्या-
त्मनः ॥ ९३ ॥ पुत्रः स्यादिति दुःखितः सति सुते तस्या-
मये दुःखितस्तद्बाधिकमार्जने तदनये तन्मूर्खतादुःखितः ।
जातश्चेत्सगुणोऽथ तन्मृतिभय तस्मिन्मृते दुःखितः पुत्रव्याज-
मुपागतो रिपुरयं मा कस्यचिज्जायताम् ॥ ९४ ॥ आ-
हारः फलमूलमात्मरचितं शय्या मही वल्कलं सवीताय
परिच्छदः कुशसमित्पुष्पाणि पुत्रा मृगाः । वस्त्रान्नाश्रयदान-
भोगविभवा निर्यन्त्रणा. शाखिनो मित्राणीत्यधिक गृहेषु
गृहिणा कि नाम दुःखाहते ॥ ९५ ॥ सूक्ति कर्णसुधा
व्यनक्तु सुजनस्तस्मिन्न मोदामहे ब्रूता वाचमसूयको विष-
मुचं तस्मिन्न खिद्यामहे । या यस्य प्रकृति. स ता वितनुता
कि नस्तया चिन्तया कुर्मस्तत्खलु कर्म जन्मनिगडच्छेदाय
यज्जायते ॥ ९६ ॥ यत्क्षान्तिः समये श्रुतिः शिव शिवे-
त्युक्तौ मनोनिर्वृतिर्भैक्षे चामिरुचिर्धनेषु विरतिः शश्वत्स-
माधौ रति. । एकान्ते वसतिर्गुरौ प्रतिनतिः सद्भिः समं
सङ्गति. सत्त्वे प्रीतिरनङ्कनिर्जितिरसौ सन्मुक्तिमार्गे स्थितिः
॥ ९७ ॥ सम्भोगाद्विषयामिषस्य परित. सौहित्यमस्ताखिल-
ज्ञानोन्मेषतया कथं तव भवेदव्यासपद देहिनः । साध्यं
तद्धि तदेव साधनमितो व्यावृत्तिरेवामिषात्तस्सा ज्योतिरुपैत्य-
निन्धनमिदं दोषत्रयं धक्ष्यति ॥ ९८ ॥ सत्यं वक्तुमशेष-
मस्ति सुलभा वाणी मनोहारिणी दातुं दानवर शरण्यमभयं
स्वच्छं पितृभ्यो जलम् । पूजार्थं परमेश्वरस्य विमलः स्वाध्याय-
यज्ञः पर क्षुद्बाधेः फलमूलमस्ति शमनं क्लेशात्मकैः
कि धनैः ॥ ९९ ॥ जिह्वे लोचन नासिके श्रवण हे त्वक्
चापि नो वार्यसे सर्वेभ्योऽस्तु नमः कृताञ्जलिरहं सप्रश्रयं
प्रार्थये । युष्माकं यदि संमतं तदधुना नात्मानमिच्छाम्यहं
होतुं भूमिभुजा निकारदहनज्वालाकराले गृहे ॥ १०० ॥
भिक्षाहारमदैन्यमप्रतिहतं भीतिच्छिदं सर्वदा दुर्मात्सर्यमदा-
भिमानमथनं दुःखौघविध्वसनम् । सर्वत्रान्वहमप्रयत्नसुलभं
साधुप्रियं पावनं शम्भोः सत्रमवार्यमक्षयनिधिं शंसन्ति योगी-
श्वराः ॥ १०१ ॥ मातर्लक्ष्मि भजस्व कंचिदपरं मत्का-
ङ्क्षिणी मा स्म भूर्भोगेष्वः स्पृहयालवो नहि वयं का निःस्पृ-
हाणामसि । सद्यःस्यूतपलाशपत्रपुटके पात्रे पवित्रीकृते
भिक्षासक्तुभिरेव संप्रति वयं वृत्ति समीहामहे ॥ १०२ ॥
धैर्ये यस्य पिता क्षमा च जननी शान्तिश्चिरं गेहिनी सत्यं
सूनुरयं दया च भगिनी भ्राता मनःसंयमः । शय्या भूमि-

पादटिप्पण्यः (Footnotes):

१ काक२ नवतृणमयम्
१ उपजीवनम्२ वाञ्छामहे
३ गृहस्था पत्नी४ पुत्र.
५ मनोनिग्रह..

आन्तरसन्निवेशः ३७१

तल दिशोऽपि वसनं ज्ञानामृतं भोजनमेते यस्य कुटुम्बिनो वद सखे कस्माद्वाय योगिन. ॥ १०३ ॥ सन्ध्या- वन्दन भद्रमस्तु भवते भो स्नान तुभ्य नमो भो देवाः पितरश्च तर्पणविधौ नाह क्षम. क्षम्यताम् । यत्र कापि निषद्य यादवकुलोत्तमस्य कंसद्विषः स्मार स्मारमघं हरामि तदलं मन्ये किमन्येन मे ॥ १०४ ॥ एणाक्षीस्पृहयालुना न कथमप्यास्ते विवेकोदयान्नित्यं प्रच्युतिशङ्कया क्षणमपि स्वर्गे न मोदामहे । आप्त्येयेषु विनाशिवन्तुविषयाभोगेषु तृष्णा न मे स्वर्णद्याः पुलिने पर हरिपदध्याने मनो वा- ञ्छति ॥ १०५ ॥ जानोऽह जनको ममेष जननी क्षेत्रं कलत्र कुल पुत्रा मित्रमरातयो वसु बलं विद्या सुहृद्बा- न्धवाः । चित्तस्पन्दितकल्पनामृतभवन्विद्वानविद्यामयी निद्रा- मेत्य विघूर्णितो बहुविधान्स्वप्नानिमानपश्यति ॥ १०६ ॥ लाटीनेत्रपुटीपयोधरघटीक्रीडाकुटीदोस्तटीपाटीरद्रुमवर्णनेन कविभिर्मूढैर्दिन नीयते । गोविन्देति जनार्दनेति जगता नाथेति कृष्णेति च व्याहारै समयस्तदेकमनमा पुंसामति- क्रामति ॥ १०७ ॥ वेदस्याध्ययनं कृतं परिचित शास्त्रं पुराणं स्मृतं सर्वं व्यर्थमिदं पदं न कमलाकान्तस्य चेत्की- र्तितम् । उत्खातं सदृशीकृतं विरचितः सेकोऽम्भसा भूयसा सर्वं निष्फलमालवालवलये क्षिप्तं न बीज यदि ॥ १०८ ॥ हेयं हर्म्यमिदं निकुञ्जभवनं ^३श्रेयं प्रदेयं धनं पेयं तीर्थपयो हरेर्भगवतो गेयं पदाम्भोरुहम् । नेयं जन्म चिराय दर्भ- शयने धर्मे निधेयं मनः स्थेयं तत्र सितासितस्य सविधे ध्येय पुराणं महः ॥ १०९ ॥ गङ्गोत्तुङ्गत रङ्गरिङ्गणलघूत्सर्प- न्मरुच्छीतलान्दुग्बन्धट्दमञ्जुवज्जुलसकुञ्जोपकण्ठान्मुदा । अभ्यास्य प्रणवाय मानसमहो शंभोः पदाम्भोरुहे धन्याः प्राप्य पर पदं प्रतिदिन नन्दन्ति योगं बिना ॥ ११० ॥ कौपीन शतखण्डजर्जरतर कन्था पुनस्तादृशी निश्चिन्त सुखसाध्यभैक्षमशनं शय्या श्मशाने वने । मित्रामित्रसमा- ^०नता पशुपतेश्चिन्ताथ शून्यालये स्वात्मानन्दमदप्रमोदमुदितो योगी सुखं तिष्ठति ॥ १११ ॥ धिग्विधिक्तान्कृमिनिर्विशेष- वपुषः स्फूर्जन्महासद्धयो निष्पन्दीकृतशान्तयोऽपि च तमः- कारागृहेब्वासते । तं विद्वासमिह स्तुमः करपुटीभिक्षाञ्चशा- कोऽपि वा बालाषक्त्रसरोजिनीमधुनि वा यस्याविशेषो रसः ॥ ११२ ॥ पाणिः पात्र पवित्रं भ्रमणपरिगतं भैक्षमक्षय्य- मन्नं वस्त्रं विस्तीर्णमाशादशकममलिन तदपमखल्पसुर्वी । येषा निःसङ्गताङ्गीकरणपरिचितिः स्वान्तसन्तोषिनस्ते धन्या. सन्य- स्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयन्ति ॥ ११३ ॥ आशा निष्ठा प्रतिष्ठा मम किल महिलास्तासु सौख्य कदा स्याद्या

प्रान्त्या सा विद्ध्यादिह किमपि तथा मध्यमा सा परत्र । आद्या मा नोभयत्राप्यहह तदपि कि मत्तता यामि तस्या या प्रोत्पादप्रगल्भे प्रतिदिनमसुमे ते कदर्थीकरोति ॥ ११४ ॥

विषयोपहासः

नित्यमाचरतः शौचं कुर्वतः पितृतर्पणम् । यस्य नोद्वि- जते चेत शास्त्रं तस्य करोति किम् ॥ ११५ ॥ कृमयो मम विष्ठा वा निष्ठा यम्येयमीदृशी । स काय परतापाय युज्यतामिति को नय. ॥ ११६ ॥ रक्तमासममय. कायः स्त्रीणा स्पर्शसुखाय नः । नमेवाश्नन्ति मिष्टान्द्या रम्यं नास्तीह वस्तुतः ॥ ११७ ॥ अङ्गमङ्गेन सपोड्य मास मामेन तु स्त्रिय । पुगहमभव प्रीतो यत्तन्मोहविजृम्भितम् ॥ ११८ ॥ उत्तानोच्छूनमण्डूकपाटिनोदरसन्निभे । क्लेदिनि स्त्रीव्रणे सक्तिर्मूक्रमे कस जायते ॥ ११९ ॥ दृष्ट्वैव विकृतं कार्यं वायुस्पर्शविवर्जितम् । ये तु निर्व्याजमासक्तास्तेभ्योऽपि बिभ्रिमो वयम् ॥ १२० ॥ अन्यत्र भीष्माद्राङ्गेयादन्यत्र च हनूमतः । हरिणीखुरमात्रेण चर्मणा मोहितं जगत् ॥ १२१ ॥ त्वङमासरुधिरस्नायुमेदोमज्जास्थिसंहतौ । विण्मूत्र- पूये रमत्ता कुमीणा कियदन्तरम् ॥ १२२ ॥ चर्मखण्डं द्विधा भिन्नमपानोद्वारधूपितम् । ये रमन्ते नरास्तत्र कृमितुल्याः कथ न ते ॥ १२३ ॥ सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः । शरीरकस्यापि कृते मूढा. पापानि कुर्वते ॥ १२४ ॥ लाला वक्त्रासवं वेत्ति मासपिण्डौ पयोधरौ । मासास्थिकूटं जघन जनः कामग्रहातुरः ॥ १२५ ॥ दाराः परिवभवकार बन्धुजनो बन्धनं विषं विषयाः । कोड्य जनस्य मोहो ये रिपवस्तेषु सुहृद्दाशा ॥ १२६ ॥ केश. काशस्तवकविलासः कायः प्रकटितकरभविलासः । चक्षुर्देग्धवराटककल्पं त्यजति न चेतः काममनल्पम् ॥ १२७ ॥ आलोचन च वचनं च निगूहन च यासा खरश्ममृगवत्वसरस कृशस्त्वम् । तासा किमङ्ग पिशितास्र- पुरीषपात्रं गात्र खरन्मृगदृशा न निराकुलोऽसि ॥ १२८ ॥ प्रादुर्भवन्ति वपुष. कति नाम कीटा यान्यत्नतः खलु तनो- रपसारयन्ति । मोह. क एष जगतो यदपत्यसज्ञा तेषा विधाय परिशोषयति स्वदेहम् ॥ १२९ ॥ स्तनौ मासग्रन्थी कनककलशावित्युपमितौ मुख श्लेष्मागार तदपि च शशाङ्केन तुलितम् । स्रवन्मूत्रक्लिन्नं करिवरकरस्पर्धि जघनं परं निन्द्य रूप कविजनविशेषैर्गुरु कृतम् ॥ १३० ॥ तृषा शुष्यत्यास्ये पिबति सलिलं स्वादु सुरभि क्षुधार्तः सञ्छाली- न्कवलयति मासाज्यकलितान् । प्रदीप्ते कामाग्नौ सुदृढतर- माश्रिष्यति वधूं प्रतीकोर ब्याधेः सुखमिति विपर्यस्यति जनः ॥ १३१ ॥ कृशः काण. खञ्ज. श्रवणरहितः पुच्छविकलो

१ वस्त्रम् २ तीरे ३ आश्रयणीयम्
१ उत्तमाद्यपानादिरूतान्कारनाशकस्य २ नाशनोपाय..

३७२ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्

व्रणी पूयक्लिन्नः कृमिकुलशतैराचिततनुः । क्षुधाक्षामो जीर्णः पिठरककपालाङ्कतगलः शुनीमन्वेति श्वा हतमपि निहन्त्येव मदनः ॥ १३२ ॥ श्रियो दोलालोला विषयजरसाः प्रान्तविरसा विपद्गेहं देहं महदपि धनं भूरि निधनम् । बृहच्छोको लोकः सततमबला दुःखबहुलास्तथाप्यस्मिन्संसारे पथि बत रता हन्त कुधियः ॥ १३३ ॥ समाश्लिष्यत्युच्चैर्घनपिशितपिण्डं स्तनधिया मुखं लालाक्लिन्नं पिबति चेषकं सौसवमिव । अमेध्येह्लादार्द्रे पथि च रमते स्पर्शरसिको महामोहान्धाना किमिव रमणीयं न भवति ॥ १३४ ॥ बाला मामियमिच्छतीन्दुवदना सानन्दमुद्वीक्षते नीलेन्दीवरलोचना पृथुकुचोत्पीडं परीरप्सते । का त्वामिच्छति का व पश्यति पशो मासास्थिनिर्मिर्मिता नारी वेद न किंचिदत्र स पुनः पश्यत्यमूर्तः पुमान् ॥ १३५ ॥ आस्य यस्या सुधांशुं कलयति नयनाभ्या जित पुंसमूहः कान्त्या विद्युत्कुचाभ्या तरुणजलरुहे निर्जितेऽस्या सुधाशुम् । कुष्ठं दुर्गन्धियुक्तं लघुकृमिविकृतं पूयमज्जास्रवाहिव्याप्तं तन्मक्षिकामिर्गतैरिति वपुषः कुत्सिता नास्ति लोके ॥ १३६ ॥ क्वैतद्वक्त्रारविन्दं क्व तदधरमधु कायतास्ते कटाक्षाः कालापाः कोमलास्ते क्व च मदनधनुर्भङ्गुरो भ्रूविलासः । इत्थं खट्वाङ्गकोटौ प्रकटितदशनं मञ्जुगुञ्जत्स्मीर रागान्धानामि-वोच्चैरुपहसति महामोहजालं कपालम् ॥ १३७ ॥

गर्भवासप्रयुक्तं दुःखम्

कृमिभिः^४ क्षतसर्वाङ्गः सौकुमार्यात्प्रतिक्षणम् । मूर्च्छामाप्नोत्युरुक्लेशो^५ गर्भस्थैः क्षुधितैर्भृशम् ॥ १३८ ॥ कटुतीक्ष्णोष्णलवणक्षाराम्लादिभिर्बणैः^६ । मातृभुक्तैरुपस्पृष्टः सर्वाङ्गेष्वितिवेदनः ॥ १३९ ॥ उल्बेन संवृत्तस्तस्मिन्स्निग्धैश्च^७ बहिरावृतः । आस्ते कृत्वा शिरः कुक्षौ भुग्नपृष्ठशिरोधरः ॥ १४० ॥ अकल्पः^९ स्वाङ्गचेष्टाया^१० शकुन्त^११ इव पञ्जरे । अनुच्छसन्सरेत्पूर्वै^१३ गर्भे किं नाम विन्दते ॥ १४१ ॥ निःसृतोऽहं^१४ करिष्यामि सुकृतानीति चिन्तयन् । मेदोसृग्दिग्धसर्वाङ्गो^१५ जरायुपुटसंवृतः^१६ ॥ १४२ ॥ निष्क्रामन्मूर्धशु^१७ खातौ^१८ रुदैन्नुच्चै^१९रधोमुख । यत्रादिव विनिर्मुक्तः पतत्युत्तानशाय्यथ^२० ॥ १४३ ॥

अनित्यता निरूपणम्

एता याः प्रेक्षसे लक्ष्मीश्छत्रचामरचञ्चलाः । स्वप्न एष महाबुद्धे दिनानि त्रीणि पञ्च वा ॥ १४४ ॥ एकेऽद्य प्रातरपरे पश्चादन्ये पुनः परे । सर्वे निःसीम्नि संसारे यान्ति कः केन शोच्यते ॥ १४५ ॥ येषा निमेषोन्मेषाभ्या जगता प्रलयोदयौ । तादृशाः पुरुषा याता मादृशा गणनैव का ॥ १४६ ॥ गलितानीन्द्रलक्षाणि बुद्बुदानीव वारिणि । मा जीवितनिबद्धाश विहसिष्यन्ति साधवः ॥ १४७ ॥ संसाररात्रिदुःस्वप्ने शून्ये देहमये भ्रमे । आस्था चेदनुबध्नामि तन्मूर्खो नास्ति मत्परः ॥ १४८ ॥ येषु येषु दृढं बद्धा भावना दृष्टवस्तुषु । तानि तानि विनष्टानि दृष्टानि किमिहोत्तमम् ॥ १४९ ॥ यन्मध्ये यच्च पर्यन्ते यदापाते मनोरमम् । सर्वमेवापवित्रं तद्विनाशा मेध्यदूषितम् ॥ १५० ॥ नीलोत्पलाभनयना' परमप्रेमभूषणम् । हासायैव विलासिन्यः क्षणमङ्गितया स्थिता ॥ १५१ ॥ गन्धर्वनगराकारः संसारः क्षणभङ्गुर । मनसो वासनैवेयमुभयोर्भेदसाधनम् ॥ १५२ ॥ गतेनापि न सबन्धो न सुखेन भविष्यता । वर्तमानं क्षणातीतं सगति कस्य केन वा ॥ १५३ ॥ पृथिवी दह्यते यत्र मेरुश्चापि विशीर्यते । सुशोष सागरजलं शरीरे तत्र का कथा ॥ १५४ ॥ इद युगसहस्रस्य भविष्यद्भववद्दिनम् । तदप्यद्यत्वमापन्नं का कथा मरणावधेः ॥ १५५ ॥ लब्धास्त्यक्ताश्च संसारे यावन्तो बान्धवास्त्वया । न सन्ति खलु तावन्तो गङ्गायामपि वालुकाः ॥ १५६ ॥ आसन्नतामेति मृत्युरायुर्याति दिने दिने । आघातं नीयमानस्य वध्यस्येव पदे पदे ॥ १५७ ॥ अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ १५८ ॥ एकसार्थप्रयाताना सर्वेषा तत्र गामिनाम् । यद्येकस्त्वरितं यातस्तत्र का परिदेवना ॥ १५९ ॥ सत्य मनोरमा रामा सत्य रम्या विभूतयः । किंतु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥ १६० ॥ मातापितृसहस्राणि पुत्रदारशतानि च । त्वानन्तानि यातानि कस्य ते कस्य वा भवान् ॥ १६१ ॥ सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । संयोगा विप्रयोगान्ता मरणान्तं हिं जीवितम् ॥ १६२ ॥ बिडालभक्षिते दुःखं यादृशं गृहकुक्कुटे । न तादृग्ममताशून्ये कलविङ्केऽथ मूषके ॥ १६३ ॥ शरदम्बुधरच्छायागत्वर्यो यौवनश्रियः । आपातरम्या विषयाः पर्यन्तपरितापिनः ॥ १६४ ॥ अन्तकः पर्यवस्थाता जन्मनः सततमापद । इति त्याज्ये भवे भव्यो मुक्तावुत्तिष्ठते जनः ॥ १६५ ॥ न्यस्तं यथा मूर्ध्नि मुदोत्ति मेषो यवाक्षताद्यं बलिकल्पितः सन् । मृत्युं समीपस्थितमप्यजानन्नुनक्ति मर्त्यो विषयास्तथैव ॥ १६६ ॥ नन्दन्ति मन्दाः श्रियमाप्य नित्यं परं विषीदन्ति विपद्धहीताः । विवेकदृष्ट्या

१ मामपिण्डम्. २ पानपात्रम् ३ मद्ययुक्तम् ४ कीटैके ५ महाकष्टयुक्त ६ उत्कटै ७ जरायुणा ८ व्याप्त ९ असमर्थ १० चलनादिव्यापारे ११ पक्षीव १२ उच्छ्वास त्यक्तुमशक्त १३ प्राचीन कर्म १४ गर्भशयाच्युत १५ मेदोरक्तलिससर्वाङ्ग १६ जरायुकोशव्यास १७ बहिर्नि सरन् १८ नि सरणकालेऽत्यन्तदु खयुक्त १९ उच्चस्वरेण रोदनं कुर्वन् २० उत्तान शेतेऽसौ. १ उच्चत्व उन्नतत्व वा २ हर्षेण भक्षयति

शान्तरसनिर्देशः ३७३

चरता नराणा श्रियो न किंचिद्विपदो न किंचित् ॥ १६७ ॥

हरिष्यमाणो बहुधा परस्व करिष्यमाणः सुतसपदादि । धरिष्यमाणोऽरिशिरःसु पादं न स्वं मरिष्यन्तमवेति कोऽपि ॥ १६८ ॥

उत्तुङ्गवातायनगोपुराणि गृहाणि विद्धानि दुर- जिंतानि । क्षणादधःपातकराणि हन्त चितातिथेरस्य निर- र्थकानि ॥ १६९ ॥

मरण प्रकृतिः शरीरिणा विकृतिर्जीवन- मुच्यते बुधैः । क्षणमप्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभ- वानसौ ॥ १७० ॥

क्षिपसि शुक वृषदशकरदने मृगमर्प- यसि मृगादनवदने । वितरसि तुरगं महिषविषाणे विदध- च्चेतो भोगविताने ॥ १७१ ॥

नलिनीदलगतजलमत्तितरलं तद्द्वजीवनमतिशयचपलम् । विद्धि व्याधिव्यालग्रस्तं लोक शोकहृतं च समस्तम् ॥ १७२ ॥

अष्टकुलाचलसप्तसमुद्रा ब्रह्मपुरंदरदिनकररुद्राः । न त्वं नाह नाय लोकस्तदपि किमर्थ क्रियते शोकः ॥ १७३॥

चेतोहरा युवतयः सुहृदो- ऽनुकूलाः सद्बान्धवाः प्रणतिगर्भगिरश्च भृत्याः । गर्जन्ति दन्तिनिवहास्तुरलास्तुरङ्गाः सम्मीलने नयनयोर्न हि किंचि- दस्ति ॥ १७४ ॥

मित्रं कलत्रमितरः परिवारलोको भोगैक- साधनमिमाः किल संपदो नः । एकः क्षणः स तु भविष्यति यत्र भूयो नायं न यूयमितरे न वयं न चैते ॥ १७५ ॥

अहमिह कृतविद्यो वेदिता सत्कलाना धनपतिरहमेको रूपलावण्ययुक्तः । इति कृतगुणगर्वः खिद्यते कि जनोऽयं कतिपयदिनेमध्ये सर्वमेतन्न किचित् ॥ १७६ ॥

वयं येभ्यो जाताश्चिरतरगता एव खलु ते समं यैः सवृद्धाः स्मरण- पदवीं तेऽपि गमिताः । इदानीमेते स्मः प्रतिदिवसमासन्न- पतना गतास्तुल्यावस्था सिकतिलनदीतीरतरुभिः ॥ १७७ ॥

यदस्माभिर्दृष्टं क्षणिकमभवत्स्वप्नमिव तत्कियन्तो भावाः स्युः स्मरणविषयादप्यवगताः । अहो पश्यन्पश्यन्सजन- मखिल यान्तमर्निशं हतव्रीडं चेतस्तदपि न भवेत्सङ्गरहि- तम् ॥ १७८ ॥

अमीषा जन्तूना कतिपयनिमेषस्थितिजुषा वियोगे धीराणा क इह परितापस्य विषयः । क्षणादुत्पद्यन्ते विलयमपि यान्ति क्षणममी न केऽपि स्यातारः सुरगिरि- पयोधिप्रभृतयः ॥ १७९ ॥

आयुर्वर्षशत नृणा परिमितं रात्रौ तदर्ध गतं तस्यार्धस्य परस्य सार्धमपरं बालत्ववृद्ध- त्वयोः । शेषं व्याधिवियोगदु खसहितं सेवादिभिर्नीयते जीवे वारितरङ्गबुद्बुद्समे सौख्यं कुत. प्राणिनाम् ॥ १८० ॥

रम्यं हर्म्यतलं न कि वसंतये श्रव्यं न गेयादिकं कि वा आणतमासमागमसुखं नैवाधिकं प्रीतये । कि तूद्धान्तपतत्पतङ्ग- पवनव्यालोलदीपाङ्कुरच्छायाचञ्चलमाकलय्य सकलं सन्तो वनान्तं गताः ॥ १८१ ॥

भूत्वा कल्पशतायुषोऽण्डजमुवः सेन्द्राश्च देवासुरा मन्वाद्या मुनयो महीजलधयो नष्टाः पराः कोटयः । मोहः कोऽयमहो महानुदयते लोकस्य शोकावहो बन्धोः फेनममे गते वपुषि यत्पञ्चात्मके पञ्चताम् ॥ १८२ ॥

आक्रान्त मरणेन जन्म जरया यात्युल्बणं यौवनं सन्तोषो धनलिप्सया शमसुखं प्रौढाङ्गनाविभ्रमैः । लोकैर्मत्सरिभिर्गुणा वनभुवो व्यालैर्नृपा दुर्जनैःस्थैर्येण विपत्तयोऽप्युपहता ग्रस्तं न किं केन वा ॥ १८३ ॥

आधिव्याधिशतैर्जनस्य विविधैरारोग्यमुन्मूल्यते लक्ष्मीर्यत्र पतन्ति तत्र विवृतद्वारा इव व्यॉपदः । जातं जातमवश्य- माशु विवशं मृत्युः करोत्यात्मसात्तत्कि तेन निर्दुशेन विधिना यन्निर्मितं सुस्थिरम् ॥ १८४ ॥

भोगास्तुङ्गत रङ्ग- भङ्गचपलाः प्राणाः क्षणध्वसिनः स्तोकन्येव दिनानि यौवन- सुखं स्फूर्तिः क्रियास्वस्थिरा । तत्तसारमसारमेव निखिलं बुद्ध्वा बुधा बोधका लोकानुग्रहपेशलेन मनसा यत्न समा- धीयताम् ॥ १८५ ॥

भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चला आयुर्वायुविघट्टिताभ्रपटलीलीनाम्बुवद्भङ्गुरम् । लोला यौवनलालसास्तनुभृतामित्याकलय्य द्रुतं योगे धैर्य- समाधिसिद्धिसुलभे बुद्धि विदध्वं बुधाः ॥ १८६ ॥

साक्षा- त्प्रेमावतारः कमलदलदृशो दिक्षु लक्ष्मीरनन्ताः सद्युत्राः सन्ति मित्राण्यपि विषमविपत्सविभागी कुटुम्बः । एतत्सर्वं हि तावत्सुकृतविलसितं दृश्यमान मनोज्ञं यच्चैतत्क्षिप्रनाश- प्रणयि बत मनाङ् म्लायते तेन चेतः ॥ १८७ ॥

आयुः कल्लोललोलं कतिपयदि वसस्थायिनी यौवनश्रीरर्थाः संकल्प-कल्पा धने समयतडिद्विभ्रमा भोगपूगा । कण्ठाश्लेषोपगूढं तदपि च न चिर यत्प्रियाभिः प्रणीतं ब्रह्मण्यासक्तचित्ता भवत भवमयाम्भोधिपार तरीतुम् ॥ १८८ ॥

कालचरितम्

मातुलो यस्य गोविन्दः पिता यस्य धनंजयः । सोऽपि कालवशं प्राप्तः कालो हि दुरतिक्रमः ॥ १८९ ॥

पुरदर- सहस्राणि चक्रवर्त शतानि च । निर्वापितानि कालेन प्रदीपा इव वायुना ॥ १९० ॥

अद्यैव हसितं गीतं पठितं यैः शरीरिभिः । अद्यैव ते न दृश्यन्ते कष्टं कालस्य चेष्टितम् ॥ १९१ ॥

म्रियमाणं मृतं बन्धुं शोचन्ति परिदेविनः । आत्मानं नानुशोचन्ति कालेन कवलीकृतम् ॥ १९२ ॥

ब्रह्मा विष्णुदिने याति विष्णु रुद्रस्य वासरे । ईश्वरस्य तथा सोऽपि क. कालं लङ्घितुं क्षमः ॥ १९३ ॥

अप्सु प्लवन्ते पाषाणा मानुषा घ्नन्ति राक्षसान् । कपयः कर्म कुर्वन्ति कालस्य कुटिला गतिः ॥ १९४ ॥

अॅशनं मे

१ उच्छ्रितम् २ शान्तिसुखम् ३ विलासै ४ विपत्त्य ५ पराधीनम् ६ कालः ७ आत्माधीनम ८ स्वत्रेण ९ तुङ्गा उच्चा ये तरङ्गा ऊर्मयस्तेषा भङ्गस्तद्वच्चपला १० अह्नानि ११ मृदुलेन १२ सकल्पतुल्या १३ वर्षाकालविद्युद्विलासा अतिचञ्चला इत्यर्थ . १४ कान्ताभि १५ तरन्ति १६ भोजनम्

३७४सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

वैसन मे जाया मे बन्धुवर्गो मे । इति मे मे कुर्वाणं कोल-
वृको हन्ति पुरुषमजम् ॥ १९५ ॥ प्राप्ता जरा यौवनमप्य-
तीतं बुधा यतध्वं परमार्थसिद्धयै । आयुर्गतप्रायमिदं यतोऽसौ
विश्रम्य विश्रम्य न याति कालः ॥ १९६ ॥ भगीरथाद्याः
सगरः ककुत्स्थो दशाननो राघवक्ष्मणौ च । युधिष्ठिरा-
द्याश्च बभूवुरेत सत्यं क्व याता बत ते नरेन्द्राः ॥ १९७ ॥
आराध्य भूपतिमवाप्य ततो धनानि भुञ्जामहे वयमिह
प्रसभं सुखानि । इत्याशया बत विमोहितमानसानां कालो
जगाम मरणावधिरेव पुंसाम् ॥ १९८ ॥ यत्रानेके क्वचि-
दपि गृहे तत्र तिष्ठत्यथैको यत्राप्येकस्तदनु बहवस्तत्र
नैकोऽपि चान्ते । इत्थं चेमौ रजनिदिवसौ दोलयन्द्रावि-
वाँक्षौ कालः काल्या भुवनफलके क्रीडति प्राणिसारैः
॥ १९९ ॥ भ्रातः कष्टमहो महान्स नृपतिः सामन्तचक्रं
च तत्पार्श्वे तस्य च सा विदिग्धपरिषत्ताश्चन्द्रबिम्बाननाः ।
उद्रिक्तः स च राजपुत्रनिवहस्ते बन्दिनस्ताः कथाः सर्वं
यस्य वशादगात्स्मृतिपथं कालाय तस्मै नमः ॥ २०० ॥
कश्चित्कल्पशतं कृतस्थितिरथान्यः कश्चिद्युगानां शतं काश्चि-
द्वर्षशतं तथा कतिपयाञ्जन्तून्दिनानां शतम् । तांस्तान्कर्मभि-
रात्मनः प्रतिदिनं सक्षीयमाणायुषः कालोऽय कवली-
करोति सकलान्भ्रातः कुतः कौशलम् ॥ २०१ ॥ कालेन
क्षितिवारिवह्निपवनव्योमादियुक्तं जगद्ब्रह्माद्याश्च सुराः प्रया-
न्ति विलयं विद्धो विचारादिति । पश्यामोऽपि विनश्यतो-
ऽनवरतं लोकाननेकान्सुधा माया मोहमयी भवप्रणयिनी
नास्थां जहीमो वयम् ॥ २०२ ॥ व्योमैकान्तविहारिणोऽपि
विहँगोः संप्राप्नुवन्त्यापदं बध्यन्ते निपुणैरगाधसलिलान्मत्स्याः
समुद्रादपि । दुर्नीतं किमिहास्ति किं सुचरितं कः स्थानलाभे
गुणः कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि
॥ २०३ ॥ मान्धाता स महीपतिः क्षितितलेऽलङ्कारभूतो
गतः सेतुर्येन महोदधौ विरचितः क्वासौ दशास्यान्तकः ।
अन्ये चापि युधिष्ठिरप्रभृतयो यावन्त एवाभवन्नैकेनापि
समं गता वसुमती मुञ्च त्वया यास्यति ॥ २०४ ॥

पश्चात्तापः

जन्मैव व्यर्थता नीतं भवभोगप्रलोभिना । काचमूल्येन
विक्रीतो हँन्त चिन्तामणिर्मया ॥ २०५ ॥
तरत्तरलतृष्णेन किमिवास्मिन्धरातले । मया न कृतमज्ञेन
पश्चात्तापाभिवृद्धये ॥ २०६ ॥ यात यौवनमधुना
वनमधुना शरणमेकमस्माकम् । स्फुरदुरुहारमणीनां हा
रमणीनां गतः कालः ॥ २०७ ॥ धनवानिति हि मदो मे
किं गतविभवो विषादमुपयामि । करनिहतकन्दुकसमाः
पातोत्पाता मनुष्याणाम् ॥ २०८ ॥ भोगा न भुक्ता वयमेव
भुक्तास्तपो न तप्तं वयमेव तप्ताः । कालो न यातो वयमेव
यातास्तृष्णा न जीर्णा वयमेव जीर्णाः ॥ २०९ ॥ पुनः
प्रभात पुनरेव शर्वरी पुनः शशाङ्कः पुनरुद्यतो रविः । कालस्य
किं गच्छति याति यौवनं तथापि लोकः कथितं न बुध्यते
॥ २१० ॥ न चाराधि राधाधवो माधवो वा न वाऽपूजि
पुष्पादिमिश्रन्द्रचूडः । परेषां धने धन्धने नीतकालो दयालो
यमालोकने कः प्रकारः ॥ २११ ॥ न चाकारि कामारि-
कंसारिसेवा न वा स्वेष्टमाचेष्टितं हन्त किंचित् । मनः प्रेयसी-
रूपपङ्के निमग्नं किमन्ते कृतान्ते मयावेदनीयम्
॥ २१२ ॥ चित्ते भूवित्तभूमत्तभूपालकोपासनावासनायास-
नानाभ्रमैः । साधुता सा धुता संविता साधिता किं तया
चिन्तया चिन्तयाम शिवम् ॥ २१३ ॥ अजानन्दाहार्ति
पतति शलभोस्तीव्रदहने न मीनोऽपि ज्ञात्वा बडिशयुत-
मश्नाति पिशितम् । विजानन्तोऽप्येते वयमिह विपज्जाल-
जटिलान्न मुञ्चामः कामानहह गहनो मोहमहिमा ॥ २१४॥
चिरं ध्याता राँमा क्षणमपि न रॉमप्रतिकृतिः परं पीतं
रामाधरमधु न रोमाङ्घ्रिसलिलम् । नता रुष्टा रामा यदरचि
न रामाय विर्नतिर्गतं मे जन्माद्य न दशरथजन्मा परिगतः
॥ २१५ ॥ कुचौ तु परिचर्चितौ परिचितं चिरं चन्दनं
कृताः पर मुरोजयो परिसरेऽरविन्दश्रियः । स्तुतिर्नतिरपि
स्मृतिर्विरतनोः कृतैवादरादिदं तु निखिलं मया विरचितं
पुनर्नैश्वरे ॥ २१६ ॥ नाभ्यस्ता भुवि वादवृन्ददमनी
विद्या विनीतोचिता खङ्गाग्रैः करिकुम्भपीठदलनैर्नाकं न
नीत यशः । कान्ताकोमलपल्लवाधररसः पीतो न चन्द्रोदये
तारुण्यं गतमेव निष्फलमहो शून्यालये दीपवत् ॥ २१७ ॥
न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छित्तये स्वर्गद्वारकपाट-
पाटनपटुर्धर्मोऽपि नोपार्जितः । नारीपीनपयोधरोरुयुगलं स्वप्ने-
ऽपि नालिङ्गितं मातुः केवलमेव यौवनवनच्छेदे कुँठारा वयम्
॥ २१८ ॥ क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतो-
षतः सोढा दुःसहशीतवाततपनक्लेशा न तप्त तपः । ध्यातं
वित्तमहर्निशं नियमितप्राणैर्न शम्भोः पदं तत्तत्कर्म कृतं
यदेव मुनिभिस्तैस्तै फलैर्वञ्चितम् ॥ २१९ ॥ धन्याना
गिरिकन्दरे निवसता ज्योतिः परं ध्यायतामानन्दाश्रुजल

टिप्पणी:
१ वसनम् २ काल एव वृक ३ पुरुष एवाज ४ पाशौ ५ भुवनमेव फलकमारीपटस्तस्मिन् ६ प्राणिन एव सारास्तै ७ भाण्ड लिरूपमण्डलम् ८ चतुरसभा ९ स्तुतिपाठका १० केवलमाकाशसचारिण ११ पक्षिण १२ विपत्तिम् १३ कुशले १४ निष्फलत्वम् १५ हन्तेति खेदे १६ रत्नविशेष
१ चित्तभू कामः, वित्तभूमद ताभ्या मन्तो यो भूपालकस्तस्योपासनं, या वासना तया जायास्सन्ततो ये नाना भ्रमास्तै २ आधिसहितत्वम् ३ स्त्री ४ राममूर्ति ५ रामपादोदकम् ६ नमस्कार ७ दशरथाज्जन्म यस्य स राम ८ स्वर्गम् ९ छेदनाय १० परश्वधा

शान्तरसनिर्देशः

३७५

पिबन्ति शकुना निःशङ्कमङ्गेष्वश्याः। अस्माकं तु मनोरथोपरचितप्रासादवापीतट्रीडाकाननकेलिकौतुकजुषामार्युः परं क्षीयते ॥ २२० ॥

मनोद्भाविभवितद्देवतैर्न विविधदास्रीकृताः सिद्ध्यो योगभ्याससमाहितेरनुदिनं तीर्णो न मोहार्णवः । क्षुभ्यत्क्षुद्रनरेन्द्रदत्तविगलत्सपल्लवोल्लासितैर्धीभूतेरिव पण्डितैरपि बलात्कालः कथं नीयते ॥ २२१ ॥

धावित्वा सुसमाहितेन मनसा दूराच्छिगे नामित भूपाना प्रतिशङ्कयैकैरिव चिर प्रोद्घृष्टसृष्टं वचः । द्वारध्यक्षनियन्त्रणापरिमवप्रम्लानवक्त्रैः स्थितं भ्रातः किं करवाम मुञ्चति मनो नाद्यापि विद्यागृहम् ॥ २२२ ॥

नो धर्माय ततो न तत्र निरता नार्थाय येनेदृशाः कामोऽप्यर्थवता तदर्थमपि नो मोक्षः क्वचित्कस्यचित् । तक्के नाम वय वृथैव घटिता ज्ञात पुनः कारण जीवन्तोऽपि मृता इति प्रवदता शब्दार्थसंसिद्धये ॥ २२३ ॥

३७६सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

र्जेन्मन्यस्मिन्ननुभवपथं यो न गतवान् । विवेकप्रध्वंसादुपचित- महामोहगहनो विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते ॥ २४७ ॥ विशीर्णः प्रारम्भो वपुरपि जराच्याधि- विधुरं गतं दूरे विप्रखजनभरणं वाञ्छितमपि । इदानीं व्यामोहादहह विपरीते हतविधौ विधेयं यत्तत्त्वं स्फुरति मम नाद्यापि हृदये ॥ २४८ ॥ शुचा पात्रं धात्री परिणति- रमेध्यप्रचयभूरयं भूतावासो विमृश कियती याति न दशाम् । तदस्मिन्धीराणा क्षणमपि किमास्थातुमुचितं खलीकार- कोऽयं यदहमहमेवेति रभसः ॥ २४९ ॥ यद्वा पूर्व नासी- दुपरि च तथा नैव भविता तदा मध्यावस्थाक्षणपरिचयो मूतनिचयः । अतः संयोगेऽस्मिन्परिणतिवियोगे च सहजे किमाधारः प्रेमा किमधिकरणाः सन्तु च शुचः ॥ २५० ॥ स्थिरापायः कायः प्रणयिषु सुखं स्थैर्यविमुखं महाभोगा रोगाः कुवलयदृशः सर्पसदृशः । महावेशः क्लेशः प्रकृति- चपला श्रीरपि खला यमः खैरी वैरी तदपि न हितं कर्म विहितम् ॥ २५१ ॥ विवेकः कि सोऽपि स्वरसजनिता यत्र न कृपा स कि योगो यस्मिन्न भवति परानुग्रहरसः । स कि धर्मो यत्र स्फुरति न परद्रोग्धुविरतिः कृतं किं तद्वा स्यादुपशमफलं यन्न भवति ॥ २५२ ॥ दिवसरजनीकूल- च्छेदैः पतद्भिरनारतं वहति निकटे कालस्रोतः समस्त- भयावहम् । इह हि पतता नास्त्यालम्बो न चापि निवर्तनं तदिह महता कोऽयं मोहो यदेष मदाविलः ॥ २५३ ॥ माने म्लायिनि खण्डिते च वसुनि व्यर्थ प्रयातेऽर्थिनि क्षीणे बन्धुजने गते परिजने नष्टे शनैयौवने । युक्तं केवलमेत- देव सुधिया यज्जहुकन्यापयःपूतग्रावगिरीन्द्रकन्दरदरीकुञ्जे निवासः क्वचित् ॥ २५४ ॥ अद्वैतोक्तिपटून्बहूनपि वयं बालान्ममस्कुर्महे ये तु द्वैन्द्ववदास्तदीयशिरसि न्यस्याम वामं पदम् । सिंहः स्वीयशिशोर्निवेश्य हृदये सान्द्रादरादामृश- त्यावेशेन भिनत्ति सभ्रमपदं मत्तेभकुम्भस्थलम् ॥ २५५ ॥ क्लेशत्यागकृतेऽर्पितेन करणव्यूहेन देहेन च स्वानर्थं बत | जन्तुरर्जयति चेन्मेन्तुर्नियैन्तुः कुतः । शस्त्रे शत्रुजयाय नैजगुरुणादत्तेऽथ तेनैव चेत्पुत्रो हन्ति निजं वपुः कथय रे तत्रापराधी तु कः ॥ २५६ ॥ बीभत्सा प्रतिभान्ति कि न विषयाः किं तु स्पृहायुष्मती देहस्यापचयो मृतौ निविशते गाढो गृहेषु ग्रहः । ब्रह्मोपास्ममिति स्फुरत्यपि हृदि व्यावर्तिका वासना का नामेयमतर्क्यहेतुगहना दैवी सता यातना ॥ २५७ ॥ नाथे श्रीपुरुषोत्तमे त्रिजगता- मेकाधिपे चेतसा सेव्ये स्वस्य पदस्य दातरि सुरे नारायणे तिष्ठति । यं कंचित्पुरुषाधमं कतिपयग्रामेशमल्पा- र्थदं सेवायै मृगयामहे नरमहो मूढा वराका वयम् ॥ २५८ ॥ रेतःशोणितयोरियं परिणतिर्यदूर्ध्वं तत्रामव- न्मूत्रोरास्पदमाश्रयो गुरुशुचा रोगस्य विश्रामभूः । जान- न्नप्यवशी विवेकविरहान्मज्जन्नविद्याम्बुधौ शृङ्गारीयति पुत्र- काम्यति बत क्षेत्रीयति क्षीयति ॥ २५९ ॥ इन्द्रस्यानुचि- शूकरस्य च सुखे दुःखे च नास्त्यन्तरं स्वेच्छाकल्पनया तयोः खलु सुधा विष्ठा च काम्याशनम् । रम्भा चाशुचि- शूक्री च परमप्रेमास्पदं मृत्युतः सत्रासोऽपि समः स्वकर्म- गतिमिश्रान्योन्द्यभावः सम ॥ २६० ॥ अर्थप्राणविनाश- संशयकरी प्राप्यापदं दुस्तरा प्रत्यासन्नभयं न वेत्ति विभवं खं जीवितं काङ्क्षति । उत्तीर्णस्तु ततो धनार्थमपरा भूयो विशत्यापदं प्राणाना च धनस्य चाधमधियामन्योन्यभावः पणः ॥ २६१ ॥ अग्रे कस्यचिदस्ति कंचिदमितः केनापि पृष्टे कृतः ससारः शिशुभावयौवनजराभारावतारादयम् । बालस्तं बहु मन्यतामसुलभं प्राप्तं युवा सेवता वृद्धस्त्वं विष- याद्वहिष्कृत इव व्यावृत्त्य किं पश्यसि ॥२६२ ॥ येषा श्रीमद्यशोदासुतपदकमले नास्ति भक्तिर्नराणा येषामभीर- कन्याप्रियगुणकथने नानुरक्ता रसज्ञा । येषा श्रीकृष्णली- लाललितगुणरसे सादरौ नैव कर्णौ धिक्तान्धिकतान्धिगेतान् कथयति सतत कीर्तनस्थो मृदङ्गः ॥ २६३ ॥

१ द्वैतवादिन
१ अपराध
२ परमेश्वरस्य

इति श्रीसुभाषितरत्नभाण्डागारे षष्ठं नवरसप्रकरणं समाप्तम् ।

सप्तमं संकीर्णप्रकरणम्

शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति । न तस्य जीवितेनार्थो न धनेन न बन्धुभिः ॥ १ ॥

महतो हि क्षयं लब्ध्वा श्लाघा नीचोऽपि गच्छति । दानार्थी मधुपो यद्वद्गजकर्णसमाहतः ॥ २ ॥

महद्भिः स्पर्धमानस्य विपदेव गरीयसी । दन्तभङ्गो हि नागानां श्लाघ्यो गिरिविदारणे ॥ ३ ॥

पञ्चास्यस्य परामवाय भैषको मासेन गोर्मूत्रया दध्यन्नैरपि पायसैः प्रतिदिनं संवर्धितो यो मया । सोऽयं सिंहरवाहुहान्तरगमद्भीत्याकुलः सन्निभाच्छान्ताशा विलयं गता हतविधेर्लाभं परं गोवधः ॥ ४ ॥

पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेदेकमिन्द्रियम् । ततोऽस्य स्रवति प्रज्ञा दृतेः पात्रादिवोदकम् ॥ ५ ॥

पञ्चैव पूजयंल्लोके यशः प्राप्नोति केवलम् । देवान्पितॄन्मनुष्यांश्च भिक्षूनतिथिपञ्चमान् ॥ ६ ॥

यन्निमित्तं भवेच्छोकश्वासा वा दुःखमेव च । आयासो वा यतो मूलस्तदेकाङ्गमपि त्यजेत् ॥ ७ ॥

यन्निःशब्दजला घनाश्मपरुषे देशेऽतिघोरारवा यच्चाच्छाः समये पयोदमलिने कालुष्यसंदूषिताः । दृश्यन्ते कुलनिम्नगा अपि परं दिग्देशकालाविमौ तत्सत्यं महतामपि स्वसदृशाचारप्रवृत्तिप्रदौ ॥ ८ ॥

यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम् । हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति ॥ ९ ॥

भीतवत्सविधातव्यं यावद्भयमनागतम् । आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत् ॥ १० ॥

भुञ्जानाः पवनं सरीसृपगणा प्रख्यापिता भोगिनो गायद्भूङ्गविवारका निगदिता विस्तीर्णकर्णा गजाः । यश्चाभ्यन्तरसम्भृतोष्मविकृतिः प्रोक्तः शमी स द्रुमो लोकेनेति निरर्गलं प्रलपता सर्वं विपर्यासितम् ॥ ११ ॥

पतिव्रता पतिप्राणा पत्युः प्रियहिते रता । यस्य स्यादीदृशी भार्या धन्यः स पुरुषो भुवि ॥ १२ ॥

संक्षेपात्कथ्यते धर्मो जनाः किं विस्तरेण तु । परोपकारः पुण्याय पापाय परपीडनम् ॥ १३ ॥

शुभ्रं सद्म सविभ्रमा युवतयः श्वेतातपत्रोज्ज्वला लक्ष्मीरित्यनुभूयते स्थिरमिव स्फीते शुभे कर्मणि । विच्छिन्ने नितराममङ्गलकलहक्रीडात्रुटत्तन्तुकं मुक्ताजालमिव प्रयाति झटिति भ्रश्यद्दिशो दृश्यताम् ॥ १४ ॥

यन्नम्रं सरल चापि यच्चापस्तु न सीदति । धनुर्मित्रं कलत्रं च दुर्लभं शुद्धवंशजम् ॥ १५ ॥

यन्नवे भाजने लग्नः संस्कारो नान्यथा भवेत् । कथाछलेन बालानां नीतिस्तदिह कथ्यते ॥ १६ ॥

यदप्युच्चैर्विजानीयान्नीचैस्तदपि कीर्तयेत् । कर्मणा तस्य वैशिष्ट्यं कथयेद्विनयान्वितः ॥ १७ ॥

सकृज्जल्पन्ति राजानः सकृज्जल्पन्ति साधवः । सकृत्कन्याः प्रदीयन्ते त्रीण्येतानि सकृत्सकृत् ॥ १८ ॥

मुखं प्रसन्नं विमला च दृष्टिः कथानुरागो मधुरा च वाणी । स्नेहोऽधिकः संभ्रमदर्शनं च सदानुरक्तस्य जनस्य चिह्नम् ॥ १९ ॥

पञ्च त्वाऽनुगमिष्यन्ति यत्र यत्र गमिष्यसि । मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः ॥ २० ॥

परेषामात्मनश्चैव योऽविचार्य बलाबलम् । कार्यायोत्तिष्ठते मोहादापदं स समीहते ॥ २१ ॥

बलीयसा हीनबलो विरोधं न भूतिकाभो मनसापि वाञ्छेत् । न वध्यतेऽत्यन्तबलो हि यस्माद्यक्तं प्रणाशोऽस्ति पतंगवृत्ते ॥ २२ ॥

बलोपपन्नोऽपि हि बुद्धिमाञ्नरः परं नयेन्न स्वयमेव वैरिताम् । भिषङ्ममास्तीति विचिन्त्य भक्षयेदकारणात्को हि विचक्षणो विषम् ॥ २३ ॥

मित्रस्वजनबन्धूनां बुद्धेर्धैर्यस्य चात्मनः । आपन्निकषपाषाणे नरो जानाति सारताम् ॥ २४ ॥

मित्राण्येव हि रक्षन्ति मित्रवाग्नावसीदति । मित्रादुत्पादितं वैरमपि मूलं निकृन्तति ॥ २५ ॥

मित्रार्थे बान्धवार्थे च बुद्धिमान् यतते सदा । जातालापत्सु यत्नेन जगादेदं वचो मनुः ॥ २६ ॥

प्रत्यासत्तिं मदकरटिनो दानगन्धेन वायुर्गजोद्भूतिं प्रकटितरुचिश्चञ्चलेवाम्बुदस्य । चेष्टा स्पष्टं वदति मतिमन्नैपुणोन्नेयतत्त्वा जन्तोर्जन्मान्तरपरिचिता निश्चला चित्तवृत्तिम् ॥ २७ ॥

प्रसादः कुरुते पत्युः सपत्ति नाभिजातताम् । कालिमा कालकूटस्य नैपैति हरसंगमात् ॥ २८ ॥

प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः । न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः ॥ २९ ॥

प्रज्ञावृद्धं धर्मवृद्धं स्वबन्धुं विद्यावृद्ध वयसा चापि वृद्धम् । कार्याकार्ये पूजयित्वा प्रसाद्य यः सपृच्छेन्न स मुह्मेत्कदाचित् ॥ ३० ॥

यथा आमान्तर गच्छन्नरः कश्चित्कचिद्वसेत् । उत्सृज्य च तमावास प्रतिष्टेतापरेऽहनि ॥ ३१ ॥

एवमेव मनुष्याणा पिता माता गृहं वसु । आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जनाः ॥ ३२ ॥

यथा छायातापौ नित्यं सुसंबद्धौ परस्परम् । एवं कर्म च कर्ता च संश्लिष्टावितरेतरम् ॥ ३३ ॥

यथा फलाना पक्वाना नान्यत्र पतनाद्भयम् । एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ॥ ३४ ॥

यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम् । तथा पुरुषकारेण विना दैवं न सिध्यति ॥ ३५ ॥

योऽन्यथा सन्तमात्मानमन्यथा सत्सु भाषते । स पापकृत्तमो लोके स्तेन आत्मापहारकः ॥ ३६ ॥

पादटिप्पण्यः (Footnotes):

१ गजानाम्
२ सिंहस्य
३ कुक्कुर
४ चर्ममय जलपात्रम्
१ आपद् विपत्तिरेव निकषपाषाण शाणस्तस्मिन्

४८ सु र भा

३७८ सुभाषितरत्नभाण्डागारम् [ ७ प्रकरणम्

शान्तेऽनन्तमहिम्नि निर्मलचिदानन्दे तरगावलीनिर्मुक्तेऽमृत-
सागराम्भसि मनाग्नग्नोऽपि नाचामति । निःसारे मृग-
तृष्णिकार्णवजले श्रान्तो विमूढः पिबत्याचामत्यवगा-
हतेऽभिरमते मज्जत्यथोन्मज्जति ॥ ३७ ॥ वरं प्राप्ते मृत्योः
पितरि तनये वा सुहृदि वा शुचाऽलं तप्यन्ते भृशमुदरताडं
जडधियः । असारे संसारे विरसपरिणामे तु विदुषा
वियोगो वैराग्यं दृढयति वितन्वन् शमसुखम् ॥ ३८ ॥
विधिरेव हि जागर्ति भव्यानामर्थसिद्धये । असचेतयमानाना
सद्गत्याः स्वामिनामिव ॥ ३९ ॥ लीलयन्त्यः कुलं घ्नन्ति
कुलानीव सरिद्वराः । दोषान्सर्वांश्च मत्याशु प्रजापतिरभाषत
॥ ४० ॥ रामो हेममृगं न वेत्ति नहुषो नो यान्युनेक्ति
द्विजान्विप्रादेव सवत्सधेनुहरणे जाता मतिश्चार्जुने । द्यूते
भ्रातृचतुष्टयस्वमहिषीं धर्मात्मजो दत्तवान् प्रायः सत्पुरुषो
विनाशसमये बुद्ध्या परित्यज्यते ॥ ४१ ॥ पुरा विद्वत्ता-
सीदमलिनधिया क्लेशहतये गता कालेनासौ विषयसुखसिद्धौ
विषयिणाम् । इदानीं संप्रेक्ष्य क्षितितलभुजः शास्त्रविमुखा-
नहो कष्टं सापि प्रतिदिनमधोऽधः प्रविशति ॥ ४२ ॥
राजा धर्मविना द्विजः शुचिविना ज्ञानं विना योगिनः कान्ता
सत्यविना हयो गतिविना ज्योतिर्विना भूषणम् । योद्धा
शूरविना तपो व्रतविना छन्दो विना गायन भ्राता स्नेहविना
नरो हरिविना मुञ्चन्ति शीघ्रं बुधाः ॥ ४३ ॥ प्रियवचन-
कृतोऽपि योषिता दयितजनानुनयो रसाहते । प्रविशति
हृदयं न तद्विदा मणिरिव कृत्रिमरागयोजितः ॥ ४४ ॥
मानो वा दर्पो वा विज्ञानं विश्रम सुबुद्धिर्वा । सर्वे प्रण
श्यति समं वित्तविहीनो यदा पुरुषः ॥ ४५ ॥ परा
विनीतः समुपैति सेव्यता महीपतीना विनयो विभूषणम् ।
प्रवृत्तदानो मृदुसत्तरस्करः करीव भद्रो विनयेन शोभते
॥ ४६ ॥ प्रीणाति यः सुचरितैः पितरं स पुत्रो यद्भर्तुरेव
हितमिच्छति तत्कलत्रम् । तन्मित्रमापदि सुखे च समक्रियं
यदेतत्त्रयं जगति पुण्यकृतो लभन्ते ॥ ४७ ॥ भार्याया
जनित पुत्रमादर्शेम्बिव चाननम् । ह्लादते जनिता प्रेक्ष्य
स्वर्ग प्राप्येव पुण्यकृत् ॥ ४८ ॥ हिंसकान्यपि भूतानि
यो हिनस्ति स निर्घृणः । स याति नरकं घोरं किं पुनर्ये.
शुभानि च ॥ ४९ ॥ सुखात्खादपरो यस्तु संसारे सत्स-
मागमः । स वियोगावसानत्वादु खाना धुरि युज्यते
॥ ५० ॥ पूज्यो बन्धुरपि प्रियोऽपि तनयो भ्राता वयस्योऽपि
वा मोहादनवद्यकार्यविमुखो हेयः स कार्यार्थिना । लोके
हि प्रथिता ननु श्रुतिरियं नार्योऽपि गायन्ति या किं कार्य
कनकेन तेन भवति च्छेदाय कर्णस्य यत् ॥ ५१ ॥ सुधा-
शुभ्रं धाम स्फुरदमलरश्मिः शशधरः प्रियावक्त्राम्भोज मलय-
जरजश्चातिसुरभि । सजो हृद्यामोदास्तदिदमखिलं रागिणि
जने करोत्यन्तःक्षोभं न तु विषयसंसर्गविमुखे ॥ ५२ ॥
भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः । भार्यावन्तः
प्रमोदन्ते भार्यावन्तः श्रियान्विताः ॥ ५३ ॥ मन्त्रे तीर्थे
द्विजे देवे दैवज्ञे भेषजे गुरौ । यादृशी भावना यस्य सिद्धि-
र्भवति तादृशी ॥ ५४ ॥ बाहू द्वौ च मृणालमास्यकमलं
लावण्यलीलाजलं श्रोणी तीर्थशिला च नेत्रशफर धम्मिल्ल-
शैवालकम् । कान्तायाः स्तनचक्रवाकयुगलं कन्दर्पबाणानलै-
र्दग्धानांमवगाहनाय विधिना रम्यं सरो निर्मितम् ॥ ५५ ॥
भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः । यत्ते समधि-
गच्छन्ति यस्य ते तस्य तद्धनम् ॥ ५६ ॥ प्रिया हिताश्च
ये राज्ञो ग्राह्यवाक्या विशेषतः । आश्रयेत्पार्थिवं विद्वांस्त-
द्वारेण नान्यथा ॥ ५७ ॥ भवारण्यं भीम तनुगृहमिद
छिद्रबहुलं बली कालश्चौरो नियतमसिता मोहरजनी ।
गृहीत्वा ज्ञानासं विरतिफलक शीलकवच समाधानं कृत्वा
स्थिरतरदृशो जाग्रत जनाः ॥ ५८ ॥ प्रत्युपस्थितकालस्य
सुखस्य परिवर्जनम् । अनागतसुखाशा च नैव बुद्धिमता
नयः ॥ ५९ ॥ प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते ।
पूर्व मृतं च भर्तारं पश्चात्सादभ्यनुगच्छति ॥ ६० ॥ प्रथमे
नार्जिता विद्या द्वितीये नार्जितं धनम् । तृतीये नार्जितं
पुण्यं चतुर्थे किं करिष्यति ॥ ६१ ॥ रागी बिम्बाधरोऽसौ
स्तनकलशयुगं यौवनारूढगर्वं नीचा नाभिः प्रकृत्या कुटिल-
कमलकं खल्पकं चापि मध्यम् । कुर्वन्त्वेतानि नाम प्रसम-
मिह मनश्चिन्तितान्याशु खेद यन्मा तस्याः कपोलौ दहत
इति मुहुः स्वच्छकौ तन्न युक्तम् ॥ ६२ ॥ यो नानाश्रुति-
मत्पदार्थरसिकोऽसारेऽपि कायायुषे सप्रेमा स विलोक्य
बर्हिमिह मे किं किं न कुर्यात्प्रियम् । इत्याविष्कृतबर्हराजि
नटते यो बर्हिणोऽम्भोदवान्वान्यन्मुञ्चति तं विहाय जलद
कोऽन्योऽस्ति शून्याशयः ॥ ६३ ॥ शरीरमेवायतन सुखस्य
दुःखस्य चाप्यायतन शरीरम् । यद्यच्छरीरेण करोति कर्म
तेनैव देही समुपानुते तत् ॥ ६४ ॥ विनयेन विना का
श्रीः का निशा शशिना विना । रहिता सत्कवित्वेन कीदृशी
वाग्विदिग्धता ॥ ६५ ॥ शशिना सह याति कौमुदी सह
मेघेन तडित्प्रलीयते । प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि
विचेतनैरपि ॥ ६६ ॥ वरं मौन कार्ये न च वचनमुक्तं यद-
नृतं वर क्लीव्यं पुंसा न च परकलत्राभिगमनम् । वरं प्राण-
त्यागो न च पिशुनवाक्येष्वभिरुचिर्वरं भिक्षाशित्वं न च
परधनास्वादनसुखम् ॥ ६७ ॥ पुरो रेवापारे गिरिरतिराडु-
रोहशिखरो धनुर्बाणैः पश्चाच्छबरकवरो धावति भृशम् ।
सरः सव्येऽसव्ये दवदहनदाहव्यतिकरो न गन्तुं न स्थातुं

संकीर्णप्रकरणम् ३७९

हरिणशिशुरिव विलपति ॥ ६८ ॥ लीलावतीना सहजा विलासास्त एव मूढस्य हृदि स्फुरन्ति । रागो नलिन्या हि निसर्गसिद्धस्तत्र भ्रमत्येव सुधा षडंघ्रिः ॥ ६९ ॥ बुद्धिश्च हीयते पुंसा नीचैः सह समागमात् । मध्यमैर्मध्यता याति श्रेष्ठता याति चोत्तमैः ॥ ७० ॥ विस्तीर्णव्यवसायसाध्य- महता स्निग्धप्रयुक्ताशिषा कार्याणा नयसाहसोन्नतिमतो- मिच्छापदारोहिणाम् । मानोत्सेकपराक्रमव्यसनिनः पार न यावद्गताः सामर्षे हृदयेऽवकाशविषया तावत्कथं निर्वृतिः ॥ ७१ ॥ लोको वहति कि राजन्न मूर्द्धा दग्धुमिन्धनम् । क्षालयन्नपि वृक्षाङ्गीन्नदीवेगो निकृन्तति ॥ ७२ ॥ वरु- णेन यथा पाशैर्बद्ध एवाभिदृश्यते । तथा पापान्निगृह्णीया- द्व्रतमेतद्धि वारुणम् ॥ ७३ ॥ लाक्षारूक्षम ललाटघट्टनमितः केयूरमुद्रा गले वक्रे कज्जलकालिमा नयनयोस्ताम्बूल- रागोदयः । दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो लीलातामरसोदरे मृगदृश श्वासा. समाप्ति गता. ॥ ७४ ॥ लज्जा स्नेहः स्वरमधुरता बुद्धयो यौवनश्रीः कान्तासङ्गो यजनसमता दुःखहानिर्विलासः । धर्म. शास्त्रं सुरगुरुमतिः शौचमाचारचिन्ता पूर्णे सर्वे जठरपिठरे प्राणिना सम्भवन्ति ॥ ७५ ॥ पुण्ये ग्रामे वने वा महति सितपटच्छन्नपाली- कपालीमादाय न्यायगम्यं द्विजहुतहुतभुग्धूमधूप्रोपकण्ठम् । द्वार द्वार प्रविष्टो दरसुदरदरीपूरणाय क्षुधार्तो मानी प्राणी सनाथो न पुनरनुदिनं तुल्यकुल्येषु दीनः ॥ ७६ ॥ अदेशकालज्ञमनायतिकक्षमं यदप्रिय ल घवकारि चात्मनः । योऽत्राब्रवीत्कारणवर्जित वचो न तद्वचः स्याद्विषमेव तद्वच. ॥ ७७ ॥ अदृष्टपूर्वान्नादाय भावानपरिशङ्कितान् । इष्टानि- ष्टान्मनुष्याणामस्तं गच्छन्ति रात्रयः ॥ ७८ ॥ सत्क्षेत्रप्रति पादितः प्रियवचोबद्धाालवालवलिर्निर्दोषेण मन.प्रसादपयसा निष्पन्नसेकक्रियः । दातुस्तत्तदभीप्सित किल फलन्कालेऽ- तिबालोऽप्यसौ राजन् दानमहीरुहो विजयते कल्पद्रुमादी- नपि ॥ ७९ ॥ अथ नित्यमनित्यं वा नेह शोचन्ति तद्विदः । नान्यथा शक्यते कर्तुं स्वभाव. शोचतामिति ॥ ८० ॥ अत्यु न्नतिं प्राप्य नरः प्रावार. कीटको यथा । स विनश्यत्य- सद्देहमहिहैवमशुना नृप ॥ ८१ ॥ क्षेत्रग्रामवनाद्रिपत्तनपुरी- द्वीपक्षमामण्डलप्रत्याशाघनसूत्रबद्धमनसा लब्धादिक ध्याय- ताम् । तृष्णे देवि यदि प्रसीदसि तनोष्यङ्गानि तुङ्गानि चेत्तद्भोः प्राणभृता कुत. शमकथा ब्रह्माण्डलक्षैरपि ॥ ८२ ॥ अत्युदात्तगुणेष्वेषा कृतपुण्यैः प्ररोपिता । शतशाखी भवत्येव यावन्मात्रापि सत्क्रिया ॥ ८३ ॥ अत्युत्सेकेन सहसा साहसा- द्व्यवसायिनाम् । श्रीरारोहति सदेहं महतामपि भूभृताम् ॥ ८४ ॥ ज्ञातुं वपुःपरिमितः क्षमते त्रिलोकीं जीवः कथ कथय संगतिमन्तरेण । शक्नोति कुम्भनिहितः सुशिखोऽपि दीपो भावान्प्रकाशयितुमप्युदरे गृहस्य ॥ ८५ ॥ अत्यादरपरो विद्वान्नीहमान. स्थिरा श्रियम् । अग्ने. शेषमृणाच्छेष शत्रोः शेष न शेषयेत् ॥ ८६ ॥ अत्यम्बुपान।द्विषमाशनाच्च दिवाश- याज्जागरणाच्च रात्रौ । सरोधनान्मूत्रपुरीषयोश्च षड्भिः प्रकारैः प्रभवन्ति रोगाः ॥८७॥ आश्रिताश्चैव लोकस्य विवृद्धिं यान्ति विद्विष. । विवृद्धाश्च विनाशाय तस्मान्नोद्वेजयेत्प्रजा. ॥ ८८॥ अत्यन्तचञ्चलस्नेह पारदस्य निबन्धने । कामं विज्ञायते युक्तिर्न स्त्रीचित्तस्य काचन ॥ ८९ ॥ अनुत्थिदान कृतपूर्व- नाशनममानन दुश्चरितानुकीर्तनम् । कथाप्रसङ्गेन च नामविस्मृतिर्विरक्तभावस्य जनस्य लक्षणम् ॥ ९० ॥ दुर्ज- नस्य च सर्पस्य वर सर्पो न दुर्जनः । सर्पो दशति कालेन दुर्जनस्तु पदे पदे ॥ ९१ ॥ अतीव गुणसङ्गन्नो न जातु विनयान्वित. । सुसूक्ष्ममपि भूतानामुपमर्दमपेक्षते ॥ ९२ ॥ अतीतानागता भावा ये च वर्तन्ति सांप्रतम् । तान्काल- निर्मितान्बुद्ध्वा न सज्ञा हातुमर्हसि ॥ ९३ ॥ धनवान्क्रोध- लोभाभ्यामाविष्टो नष्टचेतन. । तिर्यग्गीक्ष. शुष्कमुखः पापको भ्रुकुटीमुख. ॥९४॥ अतिवाँदास्तितिक्षेत नावमन्येत कंचन । क्रुध्यमानः प्रिय ब्रूयादाकृष्टः कुशलं वदेत् ॥ ९५ ॥ अतिक्रेशेन येऽर्था. स्युर्धर्मस्यातिक्रमेण च । अरेर्वा प्रणिपातेन मा स्म तेषु मन कृथा. ॥ ९६ ॥ निर्दशन्नधरोष्ठ च क्रुद्धो दारुणभाषिता । कस्तमिच्छेद्वयरिद्रंहुं दातुमिच्छति चेन्महीम् ॥ ९७ ॥ अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः । धारिभ्यो ज्ञानिन. श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥ ९८ ॥ अज्ञानाद्यदि वा ज्ञानात्कृत्वा कर्म विगर्हितम् । तस्माद्वि- मुक्तिमन्विच्छन्द्वितीयं न समाचरेत् ॥ ९९ ॥ मा कुरु धनजनयौवनगर्वं हरति निमेषात्काल. सर्वम् । मायामय- मिदमखिल हित्वा ब्रह्मपदं प्रविशाशु विदित्वा ॥ १०० ॥ अजालवरखुरोत्सर्गमार्जनैरेणुवज्रनैः । दीपखट्वापच्छायेव त्यज्यते निर्धनो जन. ॥ १०१ ॥ अचोद्यमानानि यथा पुष्पाणि च फलानि च । स्वं कालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥ १०२ ॥ नाकालतो भानुरुपैति योगं नाकालतोऽस्तं गिरिमभ्युपैति । नाकालतो हीयते वर्धते च चन्द्रः समुद्रोऽपि महोर्मिमाली ॥ १०३ ॥ अघ स केवलं भुङ्क्ते यः पचत्यात्मकारणात् । यज्ञशिष्टाशनं ह्येतत्सतामन्नं विधीयते ॥ १०४ ॥ अध्याधानेन यज्ञेन काषायेण जटा- जिनैः । लोकान्विश्वासयित्वैव ततो लुम्पद्यथा वृकः ॥१०५॥ नाकालतो म्रियते जायते वा नाकालतो व्याहरते च बालः । नाकालतो यौवनमभ्युपैति नाकालतो रोहति बीजमुप्तम् ॥ १०६ ॥ अग्नौ प्रोस्तं तु पुरुषं कर्मान्वेति स्वयंकृतम् ।

१ अप्रियवचनानि. २ हुतम्

३८० सुभाषितरत्नभाण्डागारम् [ ७ प्रकरणम्

तस्मात्तु पुरुषो यत्नाद्धर्मं संचिनुयाच्छनैः ॥१०७॥ अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् । प्रज्ञापौरुषहीनानां जीवि- केति बृहस्पतिः ॥ १०८॥ नाकालमत्ताः खगपन्नगाश्च मृग- द्विपाः शैलमृगाश्च लोके । नाकालतः स्त्रीषु भवन्ति गर्भा नायान्यकाले शिशिरोष्णवर्षा ॥१०९॥ एवमेव कुले जाताः पावकोपमतेजसः । क्षमावन्तो निराकारा काष्ठेऽग्निरिव शेरते ॥११०॥ स एव खलु दारुभ्य यदा निर्मथ्य दीप्यते। तद्दारु च वनं चान्यन्निर्दहत्याशु तेजसा ॥ १११॥ नाक्रोशी स्यान्नाबमानी परस्य मित्रद्रोही नोत नीचोपसेवी । न चाभिमानी न च हीनवृत्तो रूक्षां वाचमुषतीं वर्जयीत ॥११२॥ अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु । न चोपयुङ्क्ते तद्दारु यावन्नोद्दीप्यते परैः ॥११३॥ अग्निं प्राप्य यथा सद्यस्तूलराशिरिविनश्यति । तथा गंगा प्रवाहेन सर्वं पापं विनश्यति ॥ ११४ ॥ व्याधिभिर्मथ्यमानाना त्यजता विपुलं धनम् । वेदना नापकर्षन्ति यतमानाश्चिकित्सकाः ॥ ११५ ॥ अक्षेत्रे बीजमुत्सृष्टमन्तरैव विनश्यति । अबीजकमपि क्षेत्र केवलं स्थण्डिलं भवेत् ॥ ११६ ॥ अक्षमा हीपरित्याग. श्रीनाशो 'धर्मसंक्षयः । अभिध्याप्रस्यता चैव सर्वे लोभा- त्प्रवर्तते ॥११७॥ शमयति गजानन्यानन्गन्धद्विपः कलभोऽपि सन्प्रभवतितरा वेगोदग्र भुजंगशिशोर्विषम्। भुबमधिपति- र्बाला वस्थोऽप्यलं परिरक्षितु न खलु वयसा जात्यैवाय स्वकार्यसहो गणः ॥ ११८ ॥ अक्षमः क्षमतामानी क्रियाया यः प्रवर्तते । स हि हास्यास्पदत्वं च लभते प्राणसंशयम् ॥ ११९॥ अक्रोधेन जयेत्क्रोधमसाधुं साधुना जयेत् । जयेत्कदर्यं दानेन जयेत्सत्येन चानृतम् ॥ १२० ॥ ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु । दाम्भिको दुष्कृतप्राज्ञः शूद्रेण सदृशो भवेत् ॥ १२१ ॥ अक्रोधनः क्रोधनेभ्यो विशिष्टस्तथा तितिक्षुरतितिक्षोर्विशिष्टः । अमानुषेभ्यो मानु- षाश्च प्रधाना विद्वांस्तथैवाविदुषः प्रधानः ॥ १२२ ॥ अकृतेष्वेव कार्येषु मृत्युर्वै संप्रकर्षति । युवैव धर्मशीलः स्यादनिमित्तं हि जीवितम् ॥ १२३ ॥ यस्तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः । तं ब्राह्मणमहं मन्ये वृत्तेन हि भवेद्द्विजः ॥ १२४ ॥ अकीर्ति विनयो हन्ति हन्त्यनर्थं पराक्रमः । हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम् ॥ १२५ ॥ अकिंचनस्य शुद्धस्य उपपन्नस्य सर्वतः । अवेक्ष- माणस्त्रील्लोकाश्च तुल्यमिह लक्षये ॥ १२६ ॥ सन्त सच्चरि- तोदयव्यसनिन. प्रादुर्भवन्चलणा- सर्वत्रैव जनापवाद- चकिता जीवन्ति दु खं सदा । अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो युक्तायुक्तविवेकशून्यहृदयो धन्यो जनः प्राकृतः ॥ १२७ ॥ अकिंचन. परिपतन्सुखमाखादयि- ष्यसि । अकिंचनः सुखं शेते समुत्तिष्ठति चैव ह ॥ १२८ ॥ अकाले कृत्यमारब्धं कर्तुर्नाथीय कल्पते । तदेव काले आरब्धं महतेऽर्थाय कल्पते ॥ १२९ ॥ ह्यः पश्यद्भिरकारण- सितसितं पाथोजकोशाकृति श्मश्रूद्वोधकठोरमद्य रभसादुत्तप्त- ताम्रप्रभम् । प्रातर्जीर्णवलक्षकेशविकृत वृद्धाइशीर्षोपमं वक्तं नः परिहस्यते ध्रुवमिदं भूतैश्चिरस्थायिभिः ॥ १३० ॥ अकालसहमत्यल्पं मूर्खव्यसनिनायकम् । अगुप्त भीरुयोधं च दुर्गव्यसनमुच्यते ॥ १३१ ॥ अकार्याण्यपि पर्याय कृत्वापि वृजिनार्जवम् । विधीयते हितं यस्य स देहः कस्य सुस्थिर. ॥ १३२ ॥ स्तनतटमिदमुत्तुङ्गं निम्नो मध्यः समुन्नतं जघनम् । विषमे मृगशावाक्ष्या वपुषि नवे क इव न स्खलति ॥ १३३ ॥ अकार्यकरणाद्धीतः कार्याणा च विवर्ज- नात् । अकाले मन्त्रभेदाच्च येन माद्येन्न तत्पिबेत् ॥ १३४॥ अकामान्कामयति य कामयानानपरित्यजेत् । बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥ १३५ ॥ स्तनयोर्घनस्थापि मध्ये मध्यं प्रिये तब । अस्ति-नास्तीति संदेहो न मेऽद्यापि निवर्तते ॥१३६॥ अकामो कामयानस्य शरीरं परिपीड्यते । इच्छन्ती कामयानस्य रतिर्भवति शोभना ॥१३७॥ अकामस्य क्रिया काचिदृश्यते नेह कर्हिचित् । यद्यद्धि कुरुते किंचित्तत्तत्कामस्य चेष्टितम् ॥ १३८ ॥ प्रथमा गतिरात्मैव द्वितीया गतिरात्मजः । सन्तो गतिस्तृतीयाक्ता चतुर्थी धर्मसचयः ॥ १३९ ॥ अकस्मात्प्रक्रिया नृणामकस्माच्चाप- कर्षणम् । शुभाशुभे महत्त्वं च प्रकर्तुं बुद्धिलाघवम् ॥१४०॥ अकर्मशीलं च महाशनं च लोकद्विष्टं बहुमायं नृशंसम् । अदेशकालज्ञमनिष्टवेषमेतान्गृहे न प्रतिवासयेत ॥ १४१ ॥ प्रयोजनेषु ये सक्ता न विशेषेषु भारत । तानहं पण्डिता- न्मन्ये विशेषा हि प्रसङ्गिनः ॥ १४२ ॥ अद्यैव कुरु यच्छ्रेयो मा त्वा कालोऽत्यगादयम् । अकृतेष्वेव कार्येषु मृत्युर्वे सप्रकर्षति ॥ १४३ ॥ अधरः किसलयरागः कोमलविटपानु- कारिणौ बाहू । कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् ॥ १४४ ॥ चत्वार्याहुर्नरश्रेष्ठा व्यसनानि महीक्षिताम् । मृगया पानमक्षाश्च ग्राम्ये चैवातिसक्तता ॥ १४५ ॥ अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति । तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति ॥ १४६ ॥ अध्रुवेण शरीरेण प्रतिक्षणविना- शिना । ध्रुवं यो नार्जयेद्धर्म स शोच्यो मूढचेतनः ॥ १४७॥ निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः । छित्त्वैना सुकृतो यान्ति नैना छिन्दन्ति दुष्कृतः ॥ १४८ ॥ अध्वा जरा देहवता पर्वताना जल जरा । असभोगो जरा स्त्रीणा वाक्- शल्य मनसो जरा ॥ १४९ ॥ अनधिगतमनोरथस्य सर्व शतगुणितेव गता मम त्रियामा । यदि तु तब समागमे

संकीर्णप्रकरणम् ३८१

स्तम्भ १स्तम्भ २
तथैव प्रसरति सुष्ठु ततः कृती भवेयम् ॥ १५० ॥ मृदुराद्र्रःद्वारपञ्जरे विहगानिलः । यत्तिष्ठति तदाश्चर्यं वियोगे तस्य
कृशो भूत्वा शनैः संङ्गीयते रिपुः । वल्मीक इव वृक्षस्यका कथा ॥ १७१ ॥ परोक्तमात्र यस्तथ्य मन्यते बुद्धि-
पश्चान्मूलानि कृन्तति ॥ १५१ ॥ अनध्वन्याः काव्येष्वलस-वर्जितः । हसनीय परेषां म शाखारूढो जटी यथा ॥१७२॥
गतयः शास्त्रगहनेष्वदु खज्ञा वाचां परिणतिषु मूकाः परगुणे ।अनिले प्रियसवासे ससारे चक्रवद्गतौ । पथि संगतमेवैत-
विदग्धानां गोष्ठीष्वकृतपरिचर्याश्च खलु ये भवेयुस्ते किं वाद्भाता माता पिता सखा ॥ १७३ ॥ अनिर्वाच्यमनिर्भिन्नामप-
परमणितकण्डूतिनिकषाः ॥ १५२ ॥ अनभ्यासेन विद्याना-रिच्छिन्नमव्ययम् । ब्रह्वेव सुजनप्रेम दु खमूलनिकृन्तनम्
मसंसर्गेण धीमताम् । अनिग्रहेण चाक्षाणां जायते व्यसनं॥ १७४ ॥ अगूढस्य बुद्धिमतो दूरस्थोऽपीति नाश्वसेत् ।
नृणाम् ॥ १५३ ॥ मौढ्येन विपदापन्नं मध्यस्थं सुहृदं तथा ।दीर्घौ बुद्धिमतो बाहू याभ्या हिंसति हिंसितः ॥ १७५ ॥
शक्त्या ततः समुद्धृत्य हितार्थं भर्त्सयेत्सुधीः ॥ १५४ ॥अनिर्वेदः श्रियो मूलं लामस्य च शुमस्य च । महान्भवत्य-
अनर्थकं विप्रवासं गृहेभ्यः पापैः सन्धिं परदाराभिमर्शम् ।निर्विण्णः सुखं चानन्तमश्नुते ॥१७६॥ अनिश्चितैरध्यवसाय-
दैन्यं स्तेन्यं पैशुनं मद्यपानं न सेवते यश्च सुखी सदैवभीरुभिः पदे पदे दोषशतानुदर्शिभिः । फलैर्विस्वादमुपागता
॥ १५५ ॥ अनर्थमर्थतः पश्यन्नर्थं चैवाप्यनर्थतः । इन्द्रियै-गिर. प्रयान्ति लोके परिहासवस्तुताम् ॥ १७७ ॥ मित्रं
रजितैर्बालः सुखं मन्यते सुखम् ॥ १५६ ॥ बन्धुत्याग-परित्यजति मुञ्चति बन्धुवर्गं शीघ्रं विहाय जननीमपि जन्म-
स्तनुत्यागो देशत्याग इति त्रिषु । आद्यन्तावायतक्लेशौभूमिम् । ससज्य गच्छति विदेशमनिष्टलोकं वित्ताकुली-
मध्यमः क्षणिकज्वरः ॥ १५७ ॥ अनवाप्यं च शोकेन शरीरंकृतमतिः पुरुषोऽविलम्ब्य ॥ १७८ ॥ अनिष्ठसम्प्रयोगाच्च
चोपतप्यते । अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनःविप्रयोगात्प्रियस्य च । मनुष्या मानसैर्दु.खैर्दह्यन्ते
कृथाः ॥ १५८ ॥ अनातुरोत्कण्ठितयोः प्रसिध्यता समा-स्वल्पबुद्धयः ॥ १७९ ॥ अनीर्ष्युर्गुरुदारश्च सविभागो प्रियं-
गमेनापि रतिर्न मा प्रति । परस्परप्राप्तिनिराशयोर्र्वरं शरीर-वदः । श्लक्ष्णो मधुरवाक् स्त्रीणा न चासा वशगो भवेत्
नाशोऽपि समानरागयोः ॥ १५९ ॥ प्रज्ञया मानस दुःखं॥ १८० ॥ न पिता नात्मजो नात्मा न माता न सखी-
हन्याच्छारीरमौषधैः । एतद्धि ज्ञानसामर्थ्यं न बालैःजनः । इह प्रेत्य च नारीणा पतिरेको गतिः सदा ॥१८१॥
समतामियात् ॥ १६० ॥ अनात्मवान्नयद्वेषी वर्धयन्नति-अनुबन्धं च संप्रेक्ष्य विपाकं चैव कर्मणाम् । उत्थानमा-
सपदः । प्राप्यापि महदैश्वर्यं सह तेन विपद्यते ॥ १६१ ॥त्मनश्चैव धीरः कुर्वीत वा न वा ॥ १८२ ॥ अनुबन्धानुपेक्षेत
अनादेयं नाददीत परीक्षीणोऽपि पार्थिवः । न चादेयंसानुबन्धेषु कर्मसु । सम्प्रधार्य च कुर्वीत न वेगेन समाचरेत्
समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत् ॥ १६२ ॥ न च रात्रौ॥ १८३॥ सत्यश्चात्र प्रवादोऽयं लौकिक. प्रतिभाति माम् ।
सुखं शेते ससर्प इव वेश्मनि । यः कोपयति निर्दोषंपितृन्समनुजायन्ते नरा मातरम्ङ्गनाः ॥ १८४ ॥ अनुयाति
सदोषोऽभ्यन्तर जनम् ॥ १६३ ॥ अनादेयस्य चादानादा-न भर्तार यदि दैवात्कथंचन । तथापि शीलं सरक्ष्यं शील-
देयस्य च वर्जनात् । दौर्बल्य ख्याप्यते राज्ञः स प्रेत्येहभङ्गात्पतत्यधः ॥ १८५ ॥ अनेकचित्तमन्त्रस्तु द्वेष्यो भवति
च नश्यति ॥ १६४ ॥ अनाद्यन्ता तु सा तृष्णा अन्तर्देह-मन्त्रिणाम् । अनवस्थितचित्तत्वात्कार्ये तैः स उपेक्ष्यते
गता नृणाम् । विनाशयति भूतानि अयोनिज इवानिलः॥ १८६ ॥ मूढ जहीहि धनागमतृष्णा कुरु तनुबुद्धिमन्तःसु
॥ १६५ ॥ न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा ।वितृष्णाम् । यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय
अल्पोऽपि हि दहत्यग्निर्विषमल्पं हिनस्ति च ॥१६६॥ अना-चित्तम् ॥ १८७॥ अन्तर्दुष्टः सदायुकतः सर्वानर्थकरः किल ।
म्नायमला वेदा ब्राह्मणस्याव्रतं मलम् । मलं पृथिव्याशकुनिः शकटारश्च दृष्टान्तावत्र भूपते ॥ १८८ ॥ अन्तर्ये
बाल्हीकाः पुरुषस्यानृतं मलम् ॥ १६७॥ अनारम्भा भव-सततं लुठन्त्यगणितास्तानेव पाथोघेरैरात्तानापतितान्तरग-
न्त्यर्थाः केचिन्चित्त्यं तथागता । कृतः पुरुषकारो हि भवेद्येषुवलयैरालिङ्ग्य गृह्णन्त्यसौ । व्यक्त मौक्तिकरल्रता जलकणा-
निरर्थकः ॥ १६८ ॥ द्वेषादिवैकृतवतः प्रतिभासतेऽन्योन्सप्रापयत्यम्बुधि प्रायोऽन्येन कृतादरो लघुरपि प्राप्तोऽर्च्यते
मिथ्यैव चित्रमधिको विशदात्मनोऽपि । चन्द्रादि पश्यतिस्वामिभिः ॥ १८९॥ मूर्खा यत्र न पूज्यन्ते धान्यं यत्र सुसं-
पुरो द्विगुण प्रकृत्या तेजोमयं तिमिरदोषहत हि चक्षुःचितम्। दंपत्योः कलहो नास्तितत्र श्रीःस्वयमागता ॥१९०॥
॥ १६९ ॥ अनार्यवृत्तमप्राज्ञमसूयकमधार्मिकम् । अनर्थाःअन्त्येषु रेमिरे धीरा न ते मध्येषु रेमिरे । अन्त्यप्राप्तिं सुखं
क्षिप्रमायान्ति वाग्दुष्टं क्रोधन तथा ॥ १७०॥ अनावृतनव-प्राहुर्दुःखमन्तरमन्त्ययोः ॥१९१॥ मूलमेवादितश्छिन्द्यात्पर-
३८२सुभाषितरत्नभाण्डागारम्[ ७ प्रकरणम्

पक्षस्य नित्यशः । ततः सहायास्तत्पक्षान्सर्व्वांच्च तदनन्तरम् ॥ १९२ ॥ अन्योच्छिष्टेषु पात्रेषु भुक्तवैतेषु महीभुजः । कस्मान्न लज्जामवहन् शौचे चिन्ता न वा दधुः ॥ १९३ ॥ अन्यो धनं प्रेतगतस्य भुङ्क्ते वयांसि चाग्निश्च शरीरधातून् । द्वाभ्यामयं गच्छत्यमुत्र पुण्येन पापेन च वेष्ट्यमानः ॥१९४॥ चलस्वभावा दुःसेव्या दुर्ग्राह्या भावतस्तथा । प्राज्ञस्य पुरुषस्येह यथा वाचस्तथा श्रियः ॥ १९५ ॥ अन्योऽन्य- समुत्पम्भादन्योन्यापाश्रयेण च । ज्ञातयः संप्रवर्धन्ते सरसीवोत्पलान्युत ॥ १९६ ॥ अन्यो हि नाश्नाति कृतं हि कर्म मनुष्यलोके मनुजस्य कश्चित् । यत्तेन किंचिद्धि कृतं हि कर्म तदश्नुते नास्ति कृतस्य नाशः ॥ १९७ ॥ उद्योगेन विना नैव कार्यं किमपि सिध्यति । नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ १९८ ॥ अपकारिणि विश्रम्य यः करोति नराधमः । अनाथो दुर्बलो यद्वन्न चिरं स तु जीवति ॥ १९९ ॥ लोभादेव नरा मूढा धनविद्यान्विता अपि । अकृत्येषु नियोज्यन्ते भ्राम्यन्ते दुर्गमेष्वपि ॥ २०० ॥ अन्यो हि नाश्नाति कृतं हि कर्म मनुष्यलोके मनुजस्य कश्चित् । यत्तेन किंचिद्धि कृतं हि कर्म तदश्नुते नास्ति कृतस्य नाशः ॥ २०१ ॥ अपहृत्य तमस्तीव्रं यथा भात्युदये रविः । तथापहृत्य पापानि भाति गङ्गाजलप्लुतः ॥ २०२ ॥ अगा प्रवाहो गाङ्गो वा समुद्रं प्राप्य तद्रसः । भवत्यपेयस्तद्भिद्वाज्ञाश्रयेदशुभात्मकम् ॥ २०३ ॥ सुखमेव हि दुःखान्तं कदाचिद्दुःखतः सुखम् । तस्मादेतद्द्वयं जह्याद्य इच्छेच्छाश्वतं सुखम् ॥ २०४ ॥ अपि मन्दत्वमापन्नो नष्टो वाऽभीष्टदर्शनात् । प्रायेण प्राणिना भूयो दुःखवेगोऽधिको भवेत् ॥२०५॥ अपि मार्दवभावेन गात्रं संलीय बुद्धिमान् । अनिनाशयेते नित्यं यथा वह्नी महाद्रुमम् ॥ २०६ ॥ सुखार्थी नागारिप्रतिमयशमात्मत्युत सुखं जहौ शेषस्त- ल्पीकृततनु निषेव्यासुररिपुम् । यतस्तेनामुष्मिन्नधिगतवता क्लेशसहता श्रमाद्यायि न्यस्त निरवधि धराधारवहनम् ॥ २०७ ॥ अपुत्रस्य गतिर्नास्ति स्वर्गो नैव कथंचन । तस्मात्पुत्रमुखं दृष्ट्वा पश्चाद्भवति तापसः ॥२०८॥ अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितम् । कृतपूर्वे तु त्यजतो महान्धर्म इति श्रुति ॥ २०९ ॥ सुखदुःखानि भूतानाम- जरो जरयत्यसौ । आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च ॥ २१० ॥ अप्युन्मत्तात्प्रलपतो बालाच्च परिजल्पतः । सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम् ॥ २११ ॥ अप्र- सादोऽनधिष्ठानं देयाशहरणं च यत् । कालयापोऽप्रती- कारस्तद्वैराग्यस्य कारणम् ॥ २१२ ॥ सुखदुःखे समे खाता जन्तूना क्लेशहेतुके । मूर्ध्नि स्थिताना केशाना भवेता | स्नेहच्छेदने ॥ २१३ ॥ अप्रियैरपि निष्पिष्टैः कि स्यात्क्लेशा- सहिष्णुभिः । ये तदुन्मूलने शक्ता जिगीषा तेषु शोभते ॥ २१४ ॥ अभयस्य हि यो दाता तस्यैव सुमहत्फलम् । नहि प्राणसमं दानं त्रिषु लोकेषु विद्यते ॥२१५॥ सुखदुःखे हि पुरुषः पर्यायेणोपसेवते । न ह्यनन्तं सुखं कश्चित्प्राप्नोति पुरुषर्षभ ॥ २१६ ॥ अभिन्नवेलौ गम्भीरावम्बुराशिर्भवानपि । असावञ्जनसकाशस्त्व तु चामीकरद्युतिः ॥ २१७ ॥ अभि- प्रायं यो विदित्वा तु भर्तुः सर्वाणि कार्याणि करोत्यतन्द्रीः। वक्ता हितानामनुरक्त आर्यः शक्तिज्ञ आत्मैव हि सोऽनु- कम्प्यः ॥ २१८ ॥ सुखं दुःखान्तमालस्यं दाक्ष्यं दुःखं सुखोदयम् । भूतिः श्रीर्हीर्धृतिः कीर्तिर्दक्षे वसति नालसे ॥ २१९ ॥ वाक्यं तु यो नाद्रियतेऽनुशिष्टः प्रत्याह यश्चापि नियुज्यमानः । प्रज्ञाभिमानी प्रतिकूलवादी त्याज्यः स तादृक् त्वरयैव भृत्य ॥ २२० ॥ अभिमानवता ब्रुवन्त्युक्ता- युक्तविवेकिनाम् । युज्यतेऽवश्यमोज्याना दुःखनामप्रकाशनम् ॥ २२१ ॥ सुत्वमापतित सेवेहु खमापतित वहेत् । काल- प्राप्तमुपासीत सस्यानामिव कर्षकः ॥ २२२ ॥ अभिमान श्रियं हन्ति पुरुषस्याल्पमेधसः। गर्भेण दुष्यते कन्या गृहवासेन च द्विजः ॥ २२३ ॥ अभियुक्तं बलवता दुर्बल हीनसा- धनम् । हतस्व कामिन चौरमाविशन्ति प्रजागराः ॥ २२४ ॥ सुकर सर्वथा मैत्रं दुष्कर प्रतिपालनम् । अनित्यत्वाद्धि चित्ताना प्रीतिरल्पेन भिद्यते ॥ २२५ ॥ अभियोक्ता बलीय- स्वादलब्धा न निवर्तते । उपहाराहते तस्मात्संधिरन्यो न विद्यते ॥ २२६ ॥ अभिलष्य स्थिरं पुण्यं ख्यात सिद्धेर्निषे- वितम् । सेवेत सिद्धिमन्विच्छन् श्लाघ्यं विन्ध्यमिवेश्वरम् ॥ २२७ ॥ यथा शरीरमेवेदं जलबुद्बुदसन्निभम् । प्रवात- दीपचपलास्तथा कस्य कृते श्रियः ॥ २२८ ॥ यथा हि पुरुषः कुर्याच्छरीरे यत्नमुत्तमम् । वसनाद्यैरुपायैस्तु तथा राज्ये नराधिपः ॥ २२९ ॥ अमित्रं नैव मुञ्चेत वदन्तं कारणा- न्यपि । दुःखं तत्र न कर्तव्यं हन्या पूर्वापकारिणम् ॥ २३० ॥ अमित्रादुन्नतिं प्राप्य नोन्नतोऽस्मीति विश्वसेत् । तस्मात्प्राप्योन्नतिं नश्येत् प्रावार इव कीटकः ॥ २३१ ॥ यथा हि भरतो वर्णैर्वर्णयत्यात्मनस्तनुम् । नानारूपाणि कुर्वाणस्तथात्मा कर्मजास्तनूः ॥ २३२ ॥ अमित्रो न विमो- क्तव्यः कृपणो बह्वपि ब्रुवन् । कृपा न तस्मिन्कर्तव्या हन्यादेवापकारिणम् ॥ २३३ ॥ अमित्रो मित्रता याति मित्रं चापि प्रदुष्यति । सामर्थ्ययोगात्कार्याणामनित्या वै सदागतिः ॥ २३४ ॥ बुद्धिः प्रभावस्तेजश्च सत्त्वमुत्थानमेव च । व्यवसायश्च यस्य स्यात्तस्य वृत्तिभयं कुतः ॥ २३५ ॥ अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम् । मृत्युरापद्यते