भारतकोश
संग्रह पर लौटें

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

३८२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१९श्लो०३०७-३३२] ( तुर्वस्वादिवांशकथनम् )

सत्यजित्पृथिवीराज्यं त्र्यशीतिं भोक्ष्यते समाः । प्राप्येमां वीराजिञ्चापि पञ्चात्रिंशद्भवष्यिति ॥ ३०७ अरिंजयस्तु वर्षाणि पञ्चाशत्प्राप्स्यते महीम् । द्वात्रिंशच्च नृपा ह्येते भवितारो बृहद्रथात् ॥ ३०८ पूर्णं वर्षसहस्रं वै तेषां राज्यं भविष्यति । बृहद्रथेष्वतीतेषु वीतहोत्रेषु वर्तिषु ॥ ३०९ मुनिकः स्वामिनं हत्वा पुत्रं समाभिषेक्ष्यति । मिषतां क्षत्रियाणां हि प्रद्योतो मुनिको बलात् ॥ ३१० स वै प्रणतसामन्तो भविष्येऽनयवर्जितः । त्रयोविंशत्समा राजा भविता स नरोत्तमः ॥ ३११ चतुर्विंशत्समा राजा पालको भविता ततः । विशाखयूपो भविता नृपः पञ्चाशतीं समाः ॥ ३१२ एकविंशत्समा राज्यमजकस्य भविष्यति । भविष्यति समा विंशत्तत्सुतो वर्तिवर्धनः ॥ ३१३ अष्टत्रिंशच्छतं भाव्याः प्रद्योताः पञ्च ते सुताः । हत्वा तेषां यशः कृत्स्नं शिशुनाको भविष्यति ॥ वाराणस्यां सुतस्तस्य संस्थाप्स्यति गिरिव्रजम् । शिशुनाकस्य वर्षाणि चत्वारिंशद्भवष्यिति । ३१५ शकवर्णः सुतस्तस्य षट्त्रिंशच्च भविष्यति । ततस्तु विंशतिं राजा क्षेमवर्मा भविष्यति ॥ ३१६ अजातशत्रुर्भविता पञ्चविंशत्समा नृपः । (* चत्वारिंशत्समा राज्यं क्षत्रौजाः प्राप्स्यते ततः ॥ ३१७ अष्टाविंशत्समा राजा विविसारो भविष्यति । पञ्चविंशत्समा राजा दर्शकस्तु भविष्यति ॥ ३१८ उदायी भविता यस्मात्त्रयस्त्रिंशत्समा नृपः । वै स पुरवरं राजा पृथिव्यां कुसुमाह्वयम् ॥ गङ्गाया दक्षिणे कूले चतुर्थेऽब्दे करिष्यति ॥ ३१९ द्वाचत्वारिंशत्समा भाव्यो राजा वै नन्दिवर्धनः । चत्वारिंशत्रयं चैव महानन्दी भविष्यति ॥ ३२० इत्येते भवितारो वै शैशुनाका नृपा दश । शतानि त्रीणि वर्षाणि द्विषष्ट्यभ्यधिकानि तु ॥ ३२१ शैशुनाका भविष्यन्ति राजानः क्षत्रबान्धवाः । एतैः सार्धं भविष्यन्ति तावत्कालं नृपाः परे ॥ ३२२ ऐक्षाकवाश्चतुर्विंशत्पञ्चालाः पञ्चविंशतिः । कालकास्तु चतुर्विंशच्चतुर्विंशत्तु हैहयाः ॥ ३२३ द्वात्रिंशद्वै कलिङ्गास्तु पञ्चविंशत्तथा शकाः । (+कुरवश्चापि षट्त्रिंशदष्टाविंशतिमैथिलाः ॥ ३२४ शूरसेनास्त्रयोविंशद्वीतिहोत्राश्च विंशतिः । तुल्यकालं भविष्यन्ति सर्व एव महीक्षितः ॥ ) ३२५ महानन्दिसुतश्चापि शूद्रायां कालसंवृतः । उत्पत्स्यते महापद्मः सर्वक्षत्रान्तरे नृपः ॥ ३२६ ततः प्रभृति राजानो भविष्याः शूद्रयोनयः । एकराट् स महापद्म एकछत्रो भविष्यति ॥ ३२७ अष्टाविंशतिवर्षाणि पृथिवीं पालयिष्यति । सर्वक्षत्रहरोद्धृत्य भाविनोऽर्थस्य वै बलात् ॥ ३२८ सहस्रास्तत्सुता ह्यष्टौ समा द्वादश ते नृपाः । महापद्मस्य पर्याये भविष्यन्ति नृपाः क्रमात् ॥ ३२९ उद्धरिष्यति तान्सर्वान्कौटिल्यो वै द्विरष्टभिः । भुक्त्वा महीं वर्षशतं नन्देन्दुः स भविष्यति ॥ ३३० चन्द्रगुप्तं नृपं राज्ये कौटिल्यः स्थापयिष्यति । चतुर्विंशत्समा राजा चन्द्रगुप्तो भविष्यति ॥ ३३१ भविता भद्रसारस्तु पञ्चविंशत्समा नृपः । षड्विंशत्तु समा राजा अशोको भविता नृषु । ३३२


* इत आरभ्य पञ्चविंशत्समा नृप इत्यन्तः पाठो ङ. पुस्तके नास्ति । +धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति ।

[अ०९९श्लो० ३३३-३५४] वायुपुराणम् । ३८३

(तुर्वस्वादि वंशकथनम्)

तस्य पुत्रः कुनालस्तु वर्षाण्यष्टौ भविष्यति । कुनालसूनुरष्टौ च भोक्ता वै बन्धुपालितः ॥ ३३३
बन्धुपालितदायादो दशमानीन्द्रपालितः । भविता सप्त वर्षाणि देववर्मा नराधिपः ॥ ३३४
राजा शतधरश्चाष्टौ तस्य पुत्रो भविष्यति । बृहदश्वश्च वर्षाणि सप्त वै भविता नृपः ॥ ३३५
इत्येते नव भूपा ये भोक्ष्यन्ति च वसुंधराम् । सप्तत्रिंशच्छतं पूर्णं तेभ्यः शुङ्गान्र्गमिष्यति ॥ ३३६
पुष्पमित्रस्तु सेनानीरुद्धृत्य वै बृहद्रथम् । कारयिष्यति वै राज्यं समाः षष्टि सदैव तु ॥ ३३७
पुष्पमित्रसुताश्चाष्टौ भविष्यन्ति समा नृपाः । भविता चापि तज्ज्येष्ठः सप्त वर्षाणि वै ततः ॥ ३३८
वसुमित्रः सुतो भाव्यो दश वर्षाणि पार्थिवः । ततोऽन्धकः समा द्वै तु भविष्यति सुतश्च वै ॥ ३३९
भविष्यन्ति समास्तस्मात्तिस्र एव पुलिन्दकाः । राजा घोषसुताश्चापि वर्षाणि भविता त्रयः(?) ॥
ततो वै विक्रमित्रस्तु समा राजा ततः पुनः । द्वात्रिंशद्भाविता चापि समा भागवतो नृपः ॥ ३४१
भविष्यति सुतस्तस्य क्षेमभूमिः समा दश । दशैते तुङ्गराजाना भोक्ष्यन्तीमां वसुंधराम् ॥ ३४२
शतं पूर्णं दश द्वे च तेभ्यः किं वा गमिष्यति । अपार्थिवसुदेवं तु बाल्याद्व्यसनिनं नृपम् ॥ ३४३
देवभूमिस्ततोऽन्यश्च शृङ्गेषु भविता नृपः । भविष्यति समा राजा नवकण्ठायनस्तु सः ॥ ३४४
भूतिमित्रः सुतस्तस्य चतुर्विंशद्गविष्यति । भविता द्वादश समा तस्मान्नारायणो नृपः ॥ ३४५
सुशर्मा तत्सुतश्चापि भविष्यति समा दश । चतु(त्वा)रस्तुङ्गकृत्यास्ते नृपाः कण्ठायना द्विजाः ॥
भाव्याः प्रणतसामन्ताश्चत्वारिंशच्च पञ्च च । तेषां पर्यायकाले तु तरन्धा तु भविष्यति ॥ ३४७
कण्ठायनमथोत्यद्धृ सुशर्माणं प्रसह्म तम् । शुङ्गानां चापि यच्छिष्टं क्षपयित्वा बलं तदा ॥
सिन्धुको ह्यन्ध्रजातीयः प्राप्स्तीमां वसुंधराम् ॥ ३४८
त्रयोविंशत्समा राजा सिन्धुको भविता त्वथ । अष्टौ भातश्च वर्षाणि तस्माद्दश भविष्यति(?) ॥
श्रीशातकर्णिर्भविता तस्य पुत्रस्तु वै महान् । पञ्चाशतं समाः षट् च शातकर्णिर्भविष्यति* ॥३५०
आपादबद्धो दश वै तस्य पुत्रो भविष्यति । चतुर्विंशत्तु वर्षाणि षट् समा वै भविष्यति ॥ ३५१
भविता नेमिकृष्णस्तु वर्षाणां पञ्चविंशतिम् । ततः संवत्सरं पूर्णं हालो राजा भविष्यति ॥ ३५२
पञ्चसप्तकराजाना भविष्यन्ति महाबलाः । भाव्यः पुत्रिकषेणस्तु समाः सोऽप्येकाविंशतिम् ॥ ३५३
सातकर्णिर्वर्षमेकं भविष्यति नराधिपः । +चकार शातकर्णिस्तु षण्मासान्वै नराधिपः ॥
अष्टाविंशत्तु वर्षाणि शिवस्वामी भविष्यति ॥ ३५४


* इत उत्तरमेतदर्थमधिकम्— 'आपीलवा द्वादश वै तस्य पुत्रो भविष्यति' इति ख. ङ. पुस्तकयोः । + एतदर्धं क. ग. घ. पुस्तकेषु नास्ति ।

३८४ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ०१९श्लो०३५५-३७८] ( तुर्वस्वादिवंशकथनम् )

राजा च गौतमीपुत्र एकविंशस्तभा नृपु । एकोनविंशतिं राजो यज्ञश्रीः सातकर्ण्यथ ॥ ३५५ षडेव भविता तस्माद्द्विजयस्तु समा नृपः । दण्डश्रीः सातकर्णी च तस्य पुत्रः समास्त्रयः ? ) ॥ पुलोवाऽपि समाः सप्त अन्येषां च भविष्यति । इत्येते वै नृपास्त्रिंशदन्धा भोक्ष्यन्ति ये महीम् ॥ समाः शतानि चत्वारि पञ्च षड्वै तथैव च । अन्ध्राणां संस्थिताः पञ्च तेषां वंशाः समाः पुनः ॥ सप्तैव तु भविष्यन्ति दशाऽऽभीरास्ततो नृपाः । सप्त गर्दभिनश्चापि तताऽथ दश वै शकाः ॥ ३५९ भवनाष्टौ भविष्यन्ति तुषारास्तु चतुर्दश । त्रयोदश मेनष्टाश्च मौना ह्यष्टादशैव तु ॥ ३६० अन्ध्रा भोक्ष्यन्ति वसुधां शते द्वे च शतं च वै । *शतानि त्रीण्यशीतिं च भोक्ष्यन्ति वसुधा शकाः अशीतिं चैव वर्षाणि भोकारो यवना महीम् [ पञ्चवर्षशतानीह तुषाराणां मही स्मृता ॥ ३६२ शतान्यर्धचतुर्थानि भवितास्त्रयोदश । मरुण्डा वृषलैः सार्धं भव्याऽन्या म्लेच्छजातयः ॥ ३६३ शताणि त्रीणि भोक्ष्यन्ति म्लेच्छा एकादशैव तु । तच्छन्नेन च कालेन ततः । कोलिकिला नृपाः ततः कोलिकिलेभ्यश्च विन्ध्यशक्तिर्भविष्यति । समाः षण्णवतिं ज्ञात्वा पृथिवीं च समेष्यति ॥ वृपान्वै दिशकांश्चापि भविष्यांश्च निबोधत । शेषस्य नागराजस्य पुत्रः स्वरपुरंजयः ॥ ३६६ भोगी भविष्यते राजा नृपो नागकुलोद्वहः । सदाचन्द्रस्तु चंद्रांशो द्वितीयो नखवांस्तथा ॥ ३६७ धनधर्मा ततश्चापि चतुर्थो विंशजः स्मृतः । भूतिनन्दस्ततश्चापि वैदेशे तु भविष्यति ॥ ३६८ +अज्ञानां नन्दनस्यान्ते मधुनान्दिर्भविष्यति । तस्य भ्राता यवीयांस्तु नाम्ना नन्दियशाः किल । तस्यान्वये भविष्यन्ति राजानस्ते त्रयस्तु वै । दौहित्रः शिशुको नाम पुरिकायां नृपोऽभवत् ॥३७० विन्ध्यशक्तिसुतश्चापि प्रवीरो नाम वीर्यवान् । भोक्ष्यन्ति च समाः षष्टिं पुरीं काञ्चनकां च वै । यक्ष्यन्ति वाजपेयैश्च समाप्तवरदक्षिणैः । तस्य पुत्रास्तु चत्वारो भविष्यन्ति नराधिपाः ॥ ३७२ विन्ध्यकानां कुलेऽतीते नृपा वै बाह्लिकास्ययः । सुप्रतीको नभीरस्तु समा भोक्ष्यति त्रिंशति (त) म् शक्यमा नाम वै राजा माहिषीणां महीपतिः । x पुष्पमित्रा भविष्यन्ति पटुमित्रास्त्रयोदश ॥ ३७४ मेकलायां नृपाः सप्त भविष्यन्ति च सत्तमाः । कोमलायां तु राजानो भविष्यन्ति महाबलाः ॥ मेघा इति समाख्याता बुद्धिमन्तो नवैव तु । नैषधाः पार्थिवाः सर्वे भविष्यन्त्यामनुक्षयात् ॥ ३७६ नलवंशप्रसूतास्ते वीर्यवन्तो महाबलाः । मागमावां महावीर्यो विश्वस्फानिर्भविष्यति ॥ ३७७ उत्साद्य पार्थिवान्सर्वान्सोऽन्यान्वर्णान्करिष्यति । कैवर्तान्पञ्चकांश्चैव पुलिन्दान्ब्राह्मणांस्तथा ॥३७८


* एतदनन्तरं ख. ग. घ. पुस्तकेष्वधिकः श्लोक उपलभ्यते स यथा ' सप्तषष्टि च वर्षाणि दशाऽऽभीरास्ततो नृपाः । सप्तगर्दभिनश्चैव भोक्ष्यन्तीमां द्विसप्ततिः' । इति । + एतदधं न ग.पुस्तके ।
×एतदर्थस्थान पुत्रमित्रा भविष्यन्ति षणिमत्रास्त्रयोदशति पाठो ङ पुस्तके ।

[अ० ९९-श्लो०-३७९-४०४]।वायुपुराणम्३८५

( तुर्वस्वादिवांशकथनम् )

स्थापयिष्यन्ति राजानो नानादेशेषु तेजसा । विश्वस्फणिर्महासत्त्वो युद्धे विष्णुसमो बली ॥ ३७९
विश्वस्फानिर्नरपतिः क्लीबाकृतिरिवोच्यते । उत्सादयित्वा क्षत्रं तु क्षत्रमन्यत्करिष्यति ॥ ३८०
*देवान्पितॄंश्च विप्रांश्च तर्पयित्वा सकृत्पुनः । जाह्नवीतीरमासाद्य शरीरं यस्यते बली ॥ ३८१
संन्यस्य स्वशरीरं तु शुक्रलोकं गमिष्यति । नवनाकास्तु भोक्ष्यन्ति पुरीं चम्पावतीं नृपाः ॥ ३८२
मथुरां च पुरीं रम्यां नागा भोक्ष्यन्ति सप्त वै । अनुगङ्गं प्रयागं च साकेतु मगधांस्तथा ॥
एताञ्जनपदान्सर्वान्भोक्ष्यन्ते गुप्तवंशजाः ॥ ३८३
निषधान्यदुकांश्चैव शैशीतान्कालतोपकान् । एताञ्जनपदान्सर्वान्भोक्ष्यन्ति मणिधान्यजाः ॥ ३८४
कोशलांश्चान्ध्रपौण्ड्रांश्च ताम्रलिप्तान्ससागरान् । चम्पां चैव पुरीं रम्यां भोक्ष्यन्ति देवराक्षिताम् ॥ ३८५
कलिङ्गा महिषाश्चैव महेन्द्रानिलयाश्च ये । एताञ्जनपदान्सर्वान्पालयिष्यति वै गुहः ॥ ३८६
स्रीराष्ट्रं भक्ष्यकांश्चैव भोक्ष्यते कनकाह्वयः । तुल्यकालं भविष्यन्ति सर्वे ह्येते महीक्षितः ॥ ३८७
अल्पप्रसादा ह्यनृता महाक्रोधा ह्यधार्मिकाः । भविष्यन्तीह यवना धर्मतः कामतोऽर्थतः ॥ ३८८
नैव मूर्धाभिषिक्तास्ते भविष्यन्ति नराधिपाः । युगदोषादुराचारा भविष्यन्ति नृपास्तु ते ॥ ३८९
स्त्रीणां बालवधेनैव हत्वा चैव परस्परम् । भोक्ष्यन्ति कलिशेषे तु वसुधा पार्थिवास्तथा ॥ ३९०
उदितोदितवंशास्ते उदितास्तमितास्तथा । भविष्यन्तीह पर्याये कालेन पृथिवीक्षितः ॥ ३९१
विहीनास्तु भविष्यन्ति धर्मतः कामतोऽर्थतः । तैर्विमिश्रा जनपदा म्लेच्छाचाराश्च सर्वशः ॥ ३९२
विपर्ययेण वर्तन्ते नाशयिष्यन्ति वै प्रजाः । लुब्धानुतरताश्चैव भवितारस्तदा नृपाः ॥ ३९३
तेषां व्यतीते पर्याये बहुस्त्रीके युगे तदा । ल्वालवं भ्रश्यमाना आयूरूपवलश्रुतैः ॥ ३९४
तथा गतास्तु वै काष्ठां प्रजासु जगतीश्वराः । राजानः संप्रणश्यन्ति कालेनोपहतास्तदा ॥ ३९५
कल्किनोपहताः सर्वे म्लेच्छा यास्यन्ति सर्वशः । अधार्मिकाश्च तेऽत्यर्थं पाषण्डाश्चैव सर्वशः ॥
प्रनष्टे नृपशब्दे च संध्याश्लिष्टे कलौ युगे । किंचिच्छिष्टाः प्रजास्ता वै धर्मे नष्टेऽपरिग्रहाः ॥ ३९७
असाधना हतास्वाश्च व्याधिशोकेन पीडिताः । अनावृष्टिहसाश्चैव परस्परवधेन च ॥ ३९८
अनाथा हि परित्रस्ता वार्तीमुत्सृज्य दुःखिताः । त्यक्त्वा पुराणि ग्रामांश्च भविष्यन्ति वनौकसः ॥
एवं नृपेषु नष्टेषु प्रजास्त्यक्त्वा गृहाणि तु । नष्टे स्नेहे दुरापन्ना भ्रष्टस्नेहाः सुहृज्जनाः ॥ ४००
वर्णाश्रमपरिव्रष्टाः संकरं घोरमास्थिताः । सरित्पर्वतसेविन्यो भविष्यन्ति प्रजास्तदा ॥ ४०१
सरितः सागरानूपान्सेवन्ते पर्वतानि च । अङ्गान्रकालिङ्गान्वङ्गांश्च काश्मीरान्काशिकोशलान् ॥४०२
ऋषिकान्तगिरिद्रोणीः संश्रयिष्यन्ति मानवाः । कृत्स्नं हिमवतः पृष्ठं कूलं च लवणाम्भसः ॥ ४०३
अरण्यान्याभिपत्स्यन्ति आर्या म्लेच्छजनैः सह । मृगैर्मीनैर्विहङ्गैश्च श्वापदैस्तक्षुभिस्तथा ॥
× मधुशाकफलैर्मूलैर्वर्तयिष्यन्ति मानवाः ॥ ४०४


*इतः प्रभृति सार्धश्लोको नास्ति ग. पुस्तके × इतः प्रभृति सार्धश्लोको नास्ति घ. पुस्तके ।
४९

३८६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१९श्लो०४०५-४२९] ( तुर्वस्वादिवांशकथनम् )

चीरं पर्णं च विविधं वल्कलान्याजिनानि च । स्वयं कृत्वा निवत्स्यन्ति यथामुनिजनास्तथा ॥४०५
बीजान्यानि तथा निम्नेष्वीहन्तः काष्ठशङ्कुभिः । अजैडकं खरोष्ट्रं च पालयिष्यन्ति यत्नतः ॥
नदीर्वत्स्यन्ति तोयार्थे कूलमाश्रित्य मानवाः । पार्थिवान्यव्यवहारेण विवादन्तः परस्परम् ॥ ४०७
बहपत्याः प्रजाहीनाः शौचाचारविवर्जिताः । एवं भविष्यन्ति नरास्तदाऽधर्मे व्यवस्थिताः ॥ ४०८
हीनाङ्गीनांस्तथा धर्मान्प्रजा समनुवर्तते । आयुस्तदा त्रयोविंशं न कश्चिदतिवर्तते ॥ ४०९
दुर्बला विषयग्लाना जरया संपरिप्लुताः । पत्रमूलफलाहाराश्चीरकृष्णाजिनम्बराः ॥ ४१०
वृत्त्यर्थमभिलिप्सन्तश्चरिष्यन्ति वसुंधराम् । एतत्कालत्रनुप्राप्ताः प्रजाः कलियुगान्तके ॥ ४११
क्षीणे कलियुगे तस्मिन्दिव्ये वर्षसहस्रके । निःशेषास्तु भविष्यन्ति सार्धं कलियुगेन तु ॥
ससंध्यांशे तु निःशेषे कृतं वै प्रतिपत्स्यते ॥ ४१२
यदा चन्द्रश्च सूर्य्यश्च तथा तिष्यबृहस्पती । एकरात्रे भविष्यन्ति तदा कृतयुगं भवेत् ॥ ४१३
एष वंशक्रमः कृत्स्नं कीर्तितो वो यथाक्रमन् । अतीता वर्तमानाश्च तथैवानागताश्च ये ॥ ४१४
महादेवाभिषेकात्तु जन्म यावत्परीक्षितः । एतद्वर्षसहस्रं तु ज्ञेयं पञ्चाशदुत्तरम् ॥ ४१५
प्रमाणं वै तथा चोक्तं महापद्मान्तरं च यत् । अन्तरं तच्छतान्यष्टौ षट्त्रिंशच्च समाः स्मृताः ॥
एतत्कालान्तरं भाव्या अन्ध्रान्ता ये प्रकीर्तिताः । भविष्यैस्तत्र संख्याताः पुराणज्ञैः श्रुतर्षिभिः ॥
*सप्तर्षयस्तदा प्रादुः प्रतीपे राज्ञि वै शतम् । सप्तविंशैः शतैर्भाव्या अन्ध्राणां ते त्वया पुनः ॥४१८
सप्तविंशतिपर्यन्ते कृत्स्ने नक्षत्रमण्डले । सप्तर्षयस्तु तिष्ठन्ति पर्यायेण शतं शतम् ॥
सप्तर्षीणां युगं ह्येतद्दिव्यया संख्यया स्मृतम् ॥ ४१९
सा सा दिव्या स्मृता षष्टिर्दिव्याह्नाश्चैव सप्तभिः । तेभ्यः प्रवर्तते कालो दिव्यः सप्तर्षिभिस्तु तैः ॥
सप्तर्षीणां तु ये पूर्वां दृश्यन्ते उत्तरादिशि । ततो मध्येन च क्षेत्रं दृश्यते यत्समं दिव ॥ ४२१
तेन सप्तर्षयो युक्ता ज्ञेया व्योम्नि शतं समाः । नक्षत्राणामृषीणां च योगस्यैतन्निदर्शनम् ॥ ४२२
सप्तर्षयो मघायुक्ताः काले पारिक्षिते शतम् । अन्ध्रांशे सचतुर्विंशे भविष्यन्ति मते मम ॥ ४२३
इमास्तदा तु प्रकृतीर्व्यापत्स्यन्ति प्रजा भृशम् । अनृतोपहताः सर्वा धर्मतः कामतोऽर्थतः ॥ ४२४
श्रौतस्मार्ते प्रशिथिले धर्मे वर्णाश्रमे तदा । संकरं दुर्बलात्मानः प्रतिपत्स्यन्ति मोहितः ॥ ४२५
संसक्ताश्च भविष्यन्ति शूद्राः सार्धं द्विजातिभिः । ब्राह्मणाः शूद्रयष्टारः शूद्रा वै मन्त्रयोनयः ॥
उपस्थास्यन्ति तान्विप्रास्तदा वै वृत्तिलिप्सवः । लवं लवं भ्रश्यमानाः प्रजाः सर्वा क्रमेण तु ॥४२७
क्षयमेव गमिष्यन्ति क्षीणशेषा युगक्षये । यस्मिन्कृष्णे दिवं यातस्तस्मिन्नेव तदा दिने ॥ ४२८
प्रतिपन्नः कलियुगस्तस्य संख्यां निबोधत । सहस्राणां शतानीह त्रीणि मानुषसंख्यया ॥
षष्टिं चैव सहस्राणि वर्षाणामुच्यते कलिः ॥ ४२९


* इतः प्रभृति पर्यायेण शतं शतमित्यन्तग्रन्थो ग. पुस्तके न विद्यते ।

[अ०९९श्लो०४३०-४५७] वायुपुराणम् । ३८७

( तुर्वस्वादि वंशकथनम् )

दिव्यं वर्षसहस्रं तु तत्संध्यांशं प्रकीर्तितम् । निःशेषे च तदा तस्मिन्कृतं वै प्रतिपत्स्यते ॥ ४३० ऐल इक्ष्वाकुवंशश्च सह भेदैः प्रकीर्तितौ । इक्ष्वाकोस्तु स्मृतः क्षत्रः सुमित्रान्तं विवस्वतः ॥ ४३१ ऐलं क्षत्रं क्षेमकान्तं सोमवंशाविदो विदुः । एते विवस्वतः पुत्राः कीर्तिता कीर्तिवर्धनाः ॥ ४३२ अतीता वर्तमानाश्च तथैवानागताश्च ये । ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैवान्वये स्मृताः ॥ ४३३ युगे युगे महात्मानः समतीताः सहस्रशः । बहुत्वान्नामधेयानां परिसंख्या कुले कुले ॥ ४३४ पुनरुक्तबहुत्वाच्च न मया परिकीर्तिताः । वैवस्वतेऽन्तरे ह्यस्मिन्निमिर्वंशः समाप्यते ॥ ४३५ एतस्यां तु युगारूढायां यतः क्षत्रं पप्स्यते । तथा हि कथयिष्यामि गदतो मे निबोधत ॥ ४३६ देवापिः पौरवो राजा इक्ष्वाकोश्चैव यो मतः । महायोगबलोपेतः कलापग्राममास्थितः ॥ ४३७ देवापिः पौरवो राजा इक्ष्वाकोस्तु भविष्यति । एतौ क्षत्रप्रणेतारौ चतुर्विंशे चतुर्युगे ॥ ४३८ न च विंशे युगे सोमवंशस्याऽऽदिर्भविष्यति । देवापिरसपत्नस्तु ऐलादिर्भविता नृपः ॥ ४३९ क्षत्रप्रवर्तकौ ह्येतौ भविष्येते चतुर्युगे । एवं सर्वत्र विज्ञेयं संतानार्थे तु लक्षणम् ॥ ४४० क्षीणे कलियुगे तस्मिन्भविष्ये तु कृते युगे । सप्तर्षिभिस्तु तैः सार्धमाद्ये त्रेतायुगे पुनः ॥ ४४१ गोत्राणां क्षत्रियाणां च भविष्यते प्रवर्तकौ । द्वापरांशे न तिष्ठन्ति क्षत्रिया ऋषिभिः सह ॥ ४४२ काले कृतयुगे चैव क्षीणे त्रेतायुगे पुनः । बीजार्थं ते भविष्यन्ति ब्रह्मक्षत्रस्य वै पुनः ॥ ४४३ एवमेव तु सर्वेषु तिष्ठन्तीहान्तरेषु वै । सप्तर्षयो नृपैः सार्धं संतानार्थे युगे युगे ॥ ४४४ क्षत्रस्यैव समुच्छेदः संबन्धो वै द्विजैः स्मृतः । मन्वन्तराणां सप्तानां संतानाश्च सुताश्च ते ॥ ४४५ परम्परा युगानां च ब्रह्मक्षत्रस्य चोद्भवः । यथा प्रवृत्तिस्तेषां वै प्रवृत्तानां तथा क्षयः ॥ ४४६ सप्तर्षयो विदुस्तेषां दीर्घायुष्टाक्षयास्तु ते (?) । एतेन क्रमयोगेन ऐलेक्ष्वाकन्वया द्विजाः ॥ ४४७ उत्पद्यमानास्त्रेतायां क्षीयमाणे कलौ पुनः । अनुयान्ति युगारूढां तु यावन्मन्वन्तरक्षयः ॥ ४४८ जामदग्न्येन रामेण क्षत्रे निरवशेषिते । कृते वंशकुलाः सर्वाः क्षत्रियैर्वसुधाधिपैः ॥ द्विवंशकरणांश्चैव कीर्तयिष्ये निबोधत ॥ ४४९ ऐलस्येक्ष्वाकुनन्दस्य प्रकृतिः परिवर्तते । राजानः श्रेणिबद्धास्तु तथाऽन्ये क्षत्रिया नृपाः ॥ ४५० ऐलवंशस्य ये ख्यातास्तथैवेक्ष्वाकवा नृपाः । तेषामेकशतं पूर्णं कुलानामाभिषेकिणाम् ॥ ४५१ तावदेव तु भोजानां विस्तरो द्विगुणः स्मृतः । भजते त्रिंशकं क्षत्रं चतुर्था तद्यथादिशम् ॥ ४५२ तेष्वतीताः समाना ये ब्रुवतस्तान्निबोधत । शतं वै प्रतिविन्ध्यानां शतं नागाः शतं हयाः ॥ ४५३ धृत(धार्त)राष्ट्राश्चैकशतमशीतिर्जनमेजयाः । शतं च ब्रह्मदत्तानां शीरिणां वीरिणां शतम् ॥ ४५४ ततः शतं तु पौलानां श्वेतकाशाकुशादयः । ततोऽपरे सहस्रं वै येऽतीताः शतबिन्दवः ॥ ४५५ ईजिरे चाश्वमेधैस्ते सर्वे नियतदक्षिणैः । एवं राजर्षयोऽतीताः शतशोऽथ सहस्रशः ॥ ४५६ मनोर्वैवस्वतस्यास्मिन्वर्तमानेऽन्तरे तु ये । तेषां निबोधतोत्पन्ना लोके संततयः स्मृताः ॥ ४५७

३८८ श्रीमद्द्वैपायनमुनिप्रणीतम्-[अ०९९-१००श्लो०४५८-४६४।१-१३] ( मन्वन्तरनिसर्गादिकथनम् )

न शक्यं विस्तरं तेषां संतानानां परम्परा । तत्पूर्वापरयोगेन वक्तुं वर्षशतैरपि ॥ ४५८ अष्टाविंशद्युगाख्यास्तु गता वैवस्वतेऽन्तरे । एता राजर्षिभिः सार्धं शिष्टा यास्ता निबोधत ॥ ४५९ चत्वारिंशच्च ये चैव भविष्याः सह राजभिः । युगाख्यानां विशिष्टास्तु ततो वैवस्वतक्षये ॥ ४६० एतद्वः कथितं सर्वं समासव्यासयोगतः । पुनरुक्तं बहुतवाच्च न शक्यं तु युगैः सह ॥ ४६१ एते ययातिपुत्राणां पञ्चविंशा विशां हिताः । कीर्तिता ह्यमिता ये ये लोकान्वै धारयन्त्युत ॥ ४६२ लभते च वरान्पञ्च दुर्लभानिह लौकिकान् आयुः कीर्तिं धनं पुत्रान्स्वर्गं चाऽऽनन्त्यमश्नुते ॥ ४६३ धारणाच्छ्रवणाच्चैव ते लोकान्धारयन्त्युत । इत्येष वो मया पादस्तृतीयः कथितो द्विजाः ॥ विस्तरेणाऽऽनुपूर्व्या च किं भूयो वर्तयान्महम् ॥ ४६४

इति श्रीमहापुराणे वायुप्रोक्ते तुर्वस्वादि वंशवर्णनं नाम नवनवतितमोऽध्यायः ॥ ९८ ॥ आदितः श्लोकानां समष्ट्यङ्काः-९५१४ इत्युपोद्घातपादस्तृतीयः ।

अथ उपसंहारपादः । अथ शततमोऽध्यायः । मन्वन्तरनिसर्गवर्णनम् ।

श्रुत्वा पादं तृतीयं तु क्रान्तं सूतेन धीमता । ततश्चतुर्थं पप्रच्छुः पादं वै ऋषिसत्तमाः ॥ १ ऋषय ऊचुः- पादः क्रान्तस्तृतीयोऽयमनुषङ्गेण यस्त्वया । चतुर्थं विस्तरात्पादं संहारं परिकीर्तय ॥ २ मन्वन्तराणि सर्वाणि पूर्वाण्येवापरैः सह । सप्तर्षीणामथैतेषां सांप्रतस्यान्तरे मनोः ॥ ३ विस्तरावयवं चैव निसर्गस्य महात्मनः । विस्तरेणाऽऽनुपूर्व्या च सर्वमेव ब्रवीहि मे ॥ ४ सूत उवाच- भवतां कथयिष्यामि सर्वमेतद्यथातथम् । पादं त्विमं ससंहारं चतुर्थं मुनिसत्तमाः ॥ ५ मनोर्वैवस्वतस्येमं सांप्रतस्य महात्मनः । विस्तरेणाऽऽनुपूर्व्या च निसर्गं शृणुत द्विजाः ॥ ६ मन्वंतराणां संक्षेपं भविष्यैः सह सप्तभिः । प्रलयं चैव लोकानां ब्रुवतो मे निबोधत ॥ ७ एतान्युक्तानि वै सम्यक्सप्तसप्तसु वै मया । मन्वन्तराणि संक्षेपाच्छृणुतानागतानि मे ॥ ८ सावर्ण्यस्य प्रवक्ष्यामि मनोर्वैवस्वतस्य ह । भाव्यष्यस्य भविष्यन्ति समासात्तन्निबोधत ॥ ९ अनागताश्च सप्तैव स्मृतास्त्विह महर्षयः । कौशिको गालवश्चैव जामदग्न्यश्च भार्गवः ॥ १० द्वैपायनो वसिष्ठश्च कृपः शारद्वतस्तथा । आत्रेयो दीप्तिमांश्चैव ऋष्यशृङ्गस्तु काश्यपः ॥ ११ भारद्वाजस्तथा द्रोणिरश्वत्थामा महायशाः । एते सप्त महात्मानो भविष्याः परमर्षयः ॥ १२ सुतपाश्चामिताभाश्च सुखाश्चैव गणास्त्रयः । तेषां गणास्तु देवानामेकैको विंशकः स्मृतः ॥ १३

[अ० १०० श्लो० १४-३७] वायुपुराणम् । ३८९
( मन्वन्तरनिसर्गादिकथनम् )

नामतस्तु प्रवक्ष्यामि निबोधध्वं समाहिताः । रितस्तपश्च शुक्रश्च द्युतिर्ज्योतिःप्रभाकरौ ॥ १४
प्रभासो भासकृद्धर्मस्तेजोरश्मिर्क्रतुर्विराट् । अर्चिष्मान्द्योतनो भानुर्यशः कीर्तिर्बुधो धृतिः ॥ १५
विंशतिः सुतपा ह्येते नामाभिः परिकीर्तिताः ॥
*प्रभुर्विभुर्विभासश्च जेता हन्तारिहा रितुः । सुमतिः प्रमतिर्दीप्तिः समाख्यातो महो महान् ॥ १६
देहो मुनिर्नयो ज्येष्ठः समः सत्यश्च विश्रुतेः । इत्येते ह्यमिताभास्तु विंशतिः परिकीर्तिताः ॥ १७
दमोदाता विदः सोमो वित्तवैद्यौ यमो निधिः । होमं हव्यं हुतं दानं देयं दाता तपः शमः ॥ १८
ध्रुवं स्थानं विधानं च नियमश्चेति विंशतिः । मुख्या ह्येते समाख्याताः सावर्णेः प्रथमेऽन्तरे ॥ १९
मारीचस्यैव ते पुत्राः कश्यपस्य महात्मनः । सांप्रतस्य भविष्यन्ति सावर्णस्यान्तरे मनोः ॥ २०
तेषामिन्द्रो भविष्यस्तु बलिर्वैरोचनः पुरा । वीरवांश्वावरीयांश्च निर्मोहः सत्यवाक्क्रुती ॥ २१
चरिष्णुराज्यौ विष्णुश्च वाचः सुमतिरेव च । सावर्णस्य मनोः पुत्रा भविष्यन्ति नवैव तु ॥ २२
नव चान्येषु वक्ष्यामि सावर्णेष्वान्तरेषु वै । सावर्णमनवश्चान्ये भविष्या ब्रह्मणः सुताः ॥ २३
मेरुसावर्णिनस्ते वै दृष्टा वै दिव्यदृष्टिभिः । दक्षस्य ते हि रोहिन्नाः प्रियाया दुहितुः सुताः ॥ २४
महता तपसा युक्ता मेरु पृष्ठे महौजसः । ब्रह्मादिभिस्ते जनिता दक्षेणैव च धीमता ॥ २५
महर्लोकगताऽऽवृत्त्य÷ भविष्या मेरुमाश्रिताः । महाभावास्तु ते पूर्वं जज्ञिरे चाक्षुषेऽन्तरे ॥ २६

ऋषय उवाच—
दक्षेण जनिताः पुत्राः कन्यायामात्मनः कथम् । भवेन ब्रह्मणा चैव धर्मेण च महात्मनः ॥ २७

सूत उवाच—
अतो भविष्यान्वक्ष्यामि सावर्णमनवस्तु ये । तेषां जन्म प्रभावं च नमस्कृत्य प्रचेतसे ॥ २८
वैवस्वते ह्युपस्पृष्टे किंचिच्छिष्टे च चाक्षुषे । जज्ञिरे मनवस्ते हि भविष्यानागतान्तरे ॥ २९
प्राचेतसस्य दक्षस्य दौहित्रा मनवस्तु ये । सावर्णा नामतः पञ्च चत्वारः परमार्षजाः ॥ ३०
संज्ञापुत्रस्तु सावर्ण एको वैवस्वतस्तथा । ज्येष्ठः संज्ञासुतो नाम मनुर्वैवस्वतः प्रभुः ॥ ३१
वैवस्वतेऽन्तरे प्राप्ते समुत्पत्तिस्तयोः शुभा । चतुर्दशैते मनवः कीर्तिताः कीर्तिवर्धनाः ॥ ३२
वेदे श्रुतो पुराणे च सर्वे ते प्रभुविष्णवः । प्रजानां पतयः सर्वे भूतानां पतयः स्थिताः ॥ ३३
तैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता । पूर्णं युगसहस्रं वै परिपाल्या नरेश्वरैः ॥ ३४
प्रजाभिस्तपसा चैव विस्तरं तेषु वक्ष्यते । चतुर्दशैव ते ज्ञेयाः सर्वाः स्वायंभुवादयः ॥ ३५
मन्वन्तराधिकारेषु वर्तन्तेऽत्र सकृत्सकृत् । विनिवृत्ताधिकारास्ते महर्लोकं समाश्रिताः ॥ ३६
समतीतास्तु ये तेषामष्टौ षष्ठास्तथाऽपरे । पूर्वेषु सांप्रतश्चायं शान्तिर्वैवस्वतः प्रभुः ॥ ३७


* इतः प्रभृति श्लोकद्वयं न विद्यते घ. पुस्तके । ÷ अत्र संधिरार्षः ।

कुले कुले निसर्गास्तु तस्माद्द्वयो विभागाः । तेषामेव हि सिद्ध्यर्थं विस्तरेण क्रमेण च ॥ ४१

३९० श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १०० श्लो० ३८-६१] ( मन्वन्तरनिसर्गादिकथनम् )

ये शिष्टास्तान्प्रवक्ष्यामि सह देवर्षिदानवैः । सह प्रजाविसर्गेण सर्वांस्त्वनागतान्द्विजान् ॥ ३८ वैवस्वतान्निसर्गेण तेषां ज्ञेयस्तु विस्तरः । अन्यूना नातिरिक्तास्ते यस्मात्सर्वे विवस्वतः ॥ ३९ पुनरुक्ता बहुत्वात्तु न वक्ष्ये तेषु विस्तरम् । मन्वन्तरेषु भव्येषु भूतेष्वपि तथैव च ॥ ४० कुले कुले निसर्गास्तु तस्माद्द्वयो विभागाः । तेषामेव हि सिद्ध्यर्थं विस्तरेण क्रमेण च ॥ ४१ दक्षस्य कन्या धर्मिष्ठा सुव्रता नाम विश्रुता । सर्वकन्यावशिष्टा तु श्रेष्ठा धर्मपरा सुता ॥ गृहीत्वा तां पिता कन्यां जगाम ब्रह्मणोऽन्तिके ॥ ४२ वैराजस्तमुपासीनं धर्मेण च भवेन च । मेवधर्मसमीपस्थं दक्षं ब्रह्माऽभ्यभाषत ॥ ४३ दक्ष कन्या तवेयं वै जनयिष्यति सुव्रत । चतुरो वै मनून्पुत्रांश्चातुर्वर्ण्यकराञ्छुभान् ॥ ४४ ब्रह्मणो वचनं श्रुत्वा दक्षो धर्मो भवस्तदा । तां कन्यां मनसा जग्मुस्त्रयस्ते ब्रह्मणा सह ॥ ४५ सत्याभिध्यायिनां तेषां सद्यः कन्या व्यजायत । सदृशानुरूपांस्तेषां चतुरो वै कुमारकान् ॥ ४६ सांसिद्धा कार्यकारणे संभूतास्ते श्रियाऽन्विताः । उपभोगसमर्थैश्च सद्योजातैः शरीरकैः ॥ ४७ ते दृष्ट्वा तान्सुद्यं बुद्ध्वा ब्रह्म व्याहारिणस्तदा । संरब्धा वै व्यकर्षन्त मम पुत्रो ममेत्युत ॥ ४८ आभिध्यानान्मनोत्पन्नानुचुर्वे ते परस्परम् । यो यस्य वपुषा तुल्यो भजतां स तु तं सुतम् ॥ ४९ यस्य यः सदृशश्चापि रूपे वीर्ये च नामतः । तं गृह्णातु सुभद्रं वो वर्णतो यस्य यः समः ॥ ५० ध्रुवं रूपं पितुः पुत्रः सोऽनुरुध्यति सर्वदा । तस्मादात्मसमः पुत्रः पितुर्मातुश्च वीर्यतः ॥ ५१ एवं ते समयं कृत्वा सुवर्णा जगृहुः सुतान् । * यस्मात्सवर्णास्तेषां वै ब्रह्मादीनां कुमारकाः ॥ ५२ सवर्णा मनवस्तस्मात्सवर्णात्वं हि ते यतः । मननान्माननाच्चैव तस्मात्ते मनवः स्मृताः ॥ ५३ चाक्षुषस्यान्तरेऽतीते प्राप्ते वैवस्वतस्य ह । रुचेः प्रजापतेः पुत्रौ रौच्यो नामाभवत्सुतः ॥ ५४ भूत्यामुत्पादितो यस्तु भौत्यो नामाभवत्सुतः । वैवस्वतेऽन्तरे राजा द्वौ मनू तु विवस्वतः । ५५ वैवस्वतो मनुर्यश्च सावर्णी यश्च विश्रुतः । ज्येष्ठः संज्ञासुतो विद्वान्मनुर्वैवस्वतः प्रभुः ॥ ५६ सवर्ण्णायाः सुतश्चान्यः स्मृतो वैवस्वतो मनुः । सवर्णा मनवो ये च चत्वारस्तु महर्षिजाः ॥ ५७ तपसा संभृतात्मानः त्वेषु मन्वन्तरेषु वै । भविष्येषु भविष्यन्ति सर्वकार्यार्थसाधकाः ॥ ५८ प्रथमं मेरुसावर्णेर्दक्षपुत्रस्य वै मनोः । पुत्रा मरीचिगर्भाश्च सुशर्माणश्च ते त्रयः ॥ संभूताश्च महात्मानः सर्वे वैवस्वतेऽन्तरे ॥ ५९ दक्षपुत्रस्य पुत्रास्ते रोहितस्य प्रजापतेः । भविष्यस्य भविष्यस्तु एकैको द्वादशो गणः ॥ ६० ऐश्वर्यसंग्रहो राहो बाहुवशस्तथैव च । पारा द्वादश विज्ञेया उत्तरांस्तु निबोधत ॥ ६१


* इतःप्रभृति मनवः स्मृता इत्यन्तग्रन्थो ग पुस्तके नास्ति ।

[अ० १०० श्लो० ६२-८६] वायुपुराणम् । ३९१

( मन्वन्तरनिसर्गादिकथनम् )

वाजयो वाजिजिच्चैव प्रभूतिश्च ककुद्यथा । दधिक्रावायपक्काश्च प्रणीतो विजया मधुः ॥ ६२ तेजस्मान्नथवो (?) द्वौ तु द्वादशैते मरीचयः । सुशर्मा ( र्म )णस्तु वक्ष्यामि नामतस्तु निबोधत ॥६३ वर्णस्तथाऽप्यञ्जग्विर्श्वौ मरण्यो व्रजनो मतः । अमितो द्रवकेतुश्च जम्भोस्थाजस्रशक्रकाः ॥ ६४ सुनेमिर्धुतपाश्चैव सुशर्माणः प्रकीर्त्तिताः । तेषामिन्द्रस्तदा भाव्यो ह्यद्भुतो नाम नामतः ॥ ६५ स्कन्दः सोमप्रतीकाशः कार्तिकेयस्तु पावकः । मेधातिथिश्च पौलस्त्यो वसुः काश्यप एव च ॥ ६६ ज्योतिष्मान्भागर्वश्चैव द्युतिमानाङ्गिरस्तथा । वसितश्चैव वासिष्ठ आत्रेयो हव्यवाहनः ॥ ६७ सुतपाः पौलवश्चैव सप्तैते रोहितान्तरे । धृतिकेतुर्दीप्तिकेतुश्चापहस्ता निरामयः ॥ ६८ पृथुश्रवास्तथाऽनीको भूरिद्युम्नो बृहद्रथः । प्रथमस्य तु सावर्णैर्नव पुत्राः प्रकीर्तिताः ॥ ६९ दशमे त्वथ पर्याये धर्मपुत्रस्य वै मनोः । द्वितीयस्य तु सावर्णैर्भाव्यस्यैवान्तरे मनोः ॥ ७० सुवामना विरुद्धाश्च द्वावेव तु गणौ स्मृतौ । त्विषिवन्तश्च ते सर्वे शतसंख्याश्च ते समाः ॥ ७१ प्राणानायच्छतः प्रोक्ता ऋषिभिः पुरुषेषु वै । देवास्ते वै भविष्यन्ति धर्मपुत्रस्य वै मनोः ॥ ७२ तेषामिन्द्रस्तथा विद्वान्भविष्यः शान्तिरुच्यते । हविष्मान्पौलहः श्रीमान्सुकीर्तिश्चापि भार्गवः ॥ ७३ आपोमूर्तिस्तथाऽऽत्रेयो वसिष्ठश्चापि यः स्मृतः । पौलस्त्यः प्रतिपश्चापि नाभागश्चैव काश्यपः ॥ अभिमन्युश्चाङ्गिरसः सप्तैते परमर्षयः ॥ ॥ ७४ सुक्षेत्रश्चोत्तमौजाश्च भूरिषेणश्च वीर्यवान् । शतानीको निरमित्रो वृषसेनो जयद्रथः ॥ ७५ भूरिद्युम्नः सुवर्चाश्च दशैते मानवाः स्मृताः । एकादशे तु पर्याये सावर्णे वै तृतीयके ॥ ७६ र्निमाणरतयो देवाः कामजा वै मनोजवाः । गणास्वेते त्रयः ख्याता देवतानां महात्मनाम् ॥ ७७ एकैकस्त्रिंशतस्तेषां गणास्तु त्रिदिवौकसाम् । मासस्याहानि त्रिंशत्तु यानि वै कवयो विदुः ॥ ७८ र्निमाणरतयो देवा रात्रयस्तु विहंगमाः । गणास्ते वै त्रयः प्रोक्ता देवतानां भविष्यति ॥ ७९ मनोजवा मुहुर्तास्तु इति देवाः प्रकीर्तिताः । एते हि ब्रह्मणः पुत्रा भविष्या मनवः स्मृताः ॥ ८० तेषामिन्द्रो वृषो नाम भविष्यः सुरराट्तातः । तषां सप्तर्षयश्चापि कीर्त्यमानान्निबोधत ॥ ८१ हविष्मान्काश्यपश्चापि वपुष्मान्यश्च भार्गवः । वारुणिश्चैव चाऽऽत्रेयो वासिष्ठो भग एव च ॥ ८२ पुष्टिश्चाङ्गिरसो ज्ञेयः पौलस्त्यो निश्चरस्तथा । पौलहो ह्यभितेजाश्च देवा ह्येकादशेऽन्तरे ॥ ८३ सर्ववेगः सुधर्मा च देवानीकः पुरोवहः । क्षेमधर्मा गृहेषुश्च आदर्शः पौण्ड्रको मतः ॥ ८४ सावर्णस्य तु ते पुत्राः प्राजापत्यस्य वै मनोः । द्वादशे त्वथ पर्याये रुद्रपुत्रस्य वै मनोः ॥ ८५ चतुर्थे ऋतुसावर्णे देवास्तस्यान्तरे शृणु । पञ्चैव तु गणाः प्रोक्ता दे (दै) वतानामनागताः ॥ ८६

३९२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१००श्लो०८७-११०] ( मन्वन्तरनिसर्गादिकथनम् )

हरिता रोहिताश्चैव [ + देवाः सुमनसस्तथा । सुकर्माणः सुपाराश्च पञ्च देवगणाः स्मृताः ॥ ८७ ब्रह्मणो मानसा ह्येत एकैको दशको गण । अरुन्तिजो हविश्चैव ] विद्वान्यश्च सहस्रशः ॥ ८८ पर्वतानुचरश्चैव अपोंऽशुश्च मनोजवः । ऊर्जा स्वाहा स्वधा तारा दशैते हरिताः स्मृताः ॥ ८९ तपोजानिभृतिश्चैव वाचा बन्धुश्च यः स्मृतः । रजश्चैव तु राजश्च स्वर्णपादस्तथैव च ॥ ९० व्युष्टिर्विधिंश्च वै देवो दशैते रोहिताः स्मृताः । उषिताद्यास्तु ये देवास्त्रयस्त्रिंशत्प्रकीर्तिताः ॥ ९१ देवान्सुमनसां विद्धि सुकर्माणो निबोधत । सुपर्वा वृषभः पृष्टः कृषिद्युम्नो विपश्चितः ॥ ९२ विक्रमश्च क्रमश्चैव निभृतः कान्त एव च । एते सुकर्माणो देवा सुतांश्चैषां निबोधत ॥ ९३ वर्णोदितस्तथा जिष्णो वर्चस्वी द्युतिमान्हविः । शुभो हविष्कृतारत्नाप्तिर्व्यापृथो वशमस्तथा ॥ ९४ सुपारा मानतो (श्च गणा) स्त्वेते देवा वै संमकीर्तिताः । तेषामिन्द्रस्तु विज्ञेय ऋतधामा महायशाः ॥ ९५ धृतिर्वसिष्ठपुत्रस्तु शास्त्रेयः सुतपातस्तथा । तपोमूर्तिश्चाङ्गिरसस्तपस्वी काश्यपस्तथा ॥ ९६ तपोऽशयानः पौलस्त्यः पुलहश्च तपोरतिः । भार्गवः सप्तमस्तेषां विज्ञेयस्तु तपोमतिः ॥ ९७ एते सप्तर्षयः सिद्धा अन्ये सावर्णीकेऽन्तरे । देववानुपदेवश्च देवश्रेष्ठो विदूरथः ॥ ९८ मित्रवान्मित्रबिन्दुश्च मित्रसेनो ह्यमित्रहा । मित्रबाहुः सुतर्चाश्च द्वादशैते मनोः सुताः ॥ ९९ त्रयोदशे तु पर्याये भाव्या रौच्यान्तरे पुनः । त्रय एव गणाः प्रोक्ता देवानां तु स्वयंभुवा ॥ १०० ब्रह्मणो मानसाः पुत्रास्ते हि सर्वे महात्मनः । सुत्रामाणः सुधर्माणः सुकर्माणश्च ते त्रयः ॥ १०१ त्रिदशानां गणाः भोक्ता भविष्याः सोमपायिनः । त्रयस्त्रिंशद्देवतायाः प्राभविष्यन्त याज्ञिकैः ॥ १०२ आज्येन पृषदाज्येन ग्रहश्रेष्ठेन चैव हि । देवैर्देवास्त्रयस्त्रिंशत्पृथक्त्वेन निबोधत ॥ १०३ सुत्रामाणः प्रयाज्यास्तु आज्यपा नाम सांप्रतम् । सुकर्मणोऽनुयाज्यास्तु पृषदाज्याशिनस्तु ये ॥ १०४ उपयाज्याः सुधर्माण इति देवाः प्रकीर्तिताः । दिवसपतिर्महासत्त्वस्तेषामिन्द्रो भविष्यति ॥ १०५ पुलहात्मजपुत्रास्ते विज्ञेयास्तु रुचे सुताः । अङ्गिराश्चैव धृतिमान्पौलस्त्यः पथ्यवांस्तु सः ॥ १०६ पौलहस्तत्त्वदर्शी च भार्गवश्च निरुत्सकः । निष्पकस्तथाऽऽत्रेयो निर्मोहः कश्यपस्तथा ॥ १०७ स्वरूपश्चैव वासिष्ठः सप्तैते तु त्रयोदशे । चित्रसेनो विचित्रश्च तपोधर्मधृतो भवः ॥ १०८ अनेकक्षश्चबद्धश्च सुरसो निर्भयः पृथः । रौच्यस्यैते मनोः पुत्रा ह्यन्तरे तु त्रयोदशे ॥ १०९ चतुर्दशे तु पर्याये भौतस्याप्यन्तरे मनोः । देवतानां गणाः पञ्च प्रोक्ता ये तु भविष्यति ॥ ११०


  • धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति !

[अ० १०० श्लो० १११-१३२] वायुपुराणम् ३९५

( मन्वन्तरनिसर्गादिकथनम् )

चाक्षुपाश्च कनिष्ठाश्च पवित्रा भ्राजरास्तथा । * वाचावृद्धाश्च इत्येते पञ्च देवगणाः स्मृताः ॥ १११
+अपरा (परांश्चा)पि मनोः सूनून्सप्तैतान्विद्धि चाक्षुषान् । बृहदाद्यानि सामानि कनिष्ठान्सप्त तान्विदुः
सप्त लोकाः परित्रास्ते भ्राजिराः सप्त सिन्धवः ॥ ११२
वाचावृद्धानृषीन्विद्धि मनोः स्वायंभुवस्य वै । सर्वे मन्वन्तरेन्द्राश्च विज्ञेयास्तुल्यलक्षणाः ॥ ११३
तेजसा तपसा बुद्ध्या बलश्रुतपराक्रमैः । त्रैलोक्ये यानि सत्त्वानि गतिमन्ति ध्रुवाणि च ॥
सर्वशः स्वैर्गुणैस्तानि इन्द्रास्तेऽभिभवन्ति वै ॥ ११४
भूतापवादिनो दृष्टा मध्यस्था भूतवादिनः । भूतानुवादिनः सन्तास्त्रयो वेदाः प्रवादिनाम् ॥ ११५
अग्निध्रः काश्यपश्चैव पौलस्त्यो मागधश्च यः । भार्गवो ह्यग्निबाहुश्च शुचिराङ्गिरसस्तथा ॥
ओजस्वी सुबलश्चैव भौत्यस्यैते मनोः सुताः ॥ ११६
सावर्णा मनवो ह्येते चत्वारो ब्रह्मणः सुताः । एकौ वैवस्वतश्चैव सावर्णी मनुरुच्यते ॥ ११७
रौच्यो भौतश्च यौ तौ तु मनोः पौलहभार्गवौ । भौत्यस्यैवाऽऽधिपत्ये तु पूर्णः कल्पस्तु पूर्यते ×

सूत उवाच—
निःशेषेषु च सर्वेषु तदा मन्वन्तरेष्विह । अन्तेऽनेकयुगे तस्मिन्क्षीणे संहार उच्यते ॥ ११९
सप्तैते भार्गवा देवा अन्ते मन्वन्तरे तदा । भुक्त्वा त्रैलोक्यमध्यस्था युगाख्यां ह्येकसप्ततिम् ॥
पितृभिर्मनुभिश्चैव सार्धं सप्तर्षिभिस्तु ये । यज्वानश्चैव तेऽप्यन्ये तद्भक्ताश्चैव तैः सह ॥ १२१
महर्लोकं गमिष्यन्ति त्यक्त्वा त्रैलोक्यमीश्वराः । ततस्तेषु गतेषूर्ध्वं क्षीणे मन्वन्तरे तदा ॥ १२२
ततः स्थानानि शून्यानि स्थानिनां तानि वै द्विजाः । प्रभ्रम्यन्ति विमुक्तानि ताराऋक्षग्रहैस्तथा ॥
ततस्तेषु व्यतीतेषु त्रैलोक्यस्येश्वरेष्विह । सेन्द्रास्तेषु महर्लोकं यस्मिंस्ते कल्पवासिनः ॥ १२४
जिताद्याश्च गणा ह्यत्र चाक्षुषान्ताश्चतुर्दश । मन्वन्तरेषु सर्वेषु देवास्ते वै महौजसः ॥ १२५
ततस्तेषु गतेषूर्ध्वं सायो (यु) ज्यं कल्पवासिनाम् । समेत्य देवास्ते सर्वे प्राप्ते संकलने तदा ॥ १२६
महर्लोकं परित्यज्य गणास्ते वै चतुर्दश । सशरीराश्च श्रूयन्ते जनलोकं सहानुगाः ॥ १२७
एवं देवेष्वतीतेषु महर्लोकाज्जनं प्रति । भूतादिष्ववशिष्टेषु स्थावरान्तेषु चाप्युत ॥ १२८
शून्येषु लोकस्थानेषु महान्तेषु भूरादिषु । देवेषु च गतेषूर्ध्वं सायो(यु) ज्यं कल्पवासिनाम् ॥ १२९
संहृत्य तांस्तथा ब्रह्मा देवर्षिपितृदानवान् । संस्थापयति वै सर्गे महद्दृष्ट्वा युगक्षये ॥ १३०
चतुर्युगसहस्रान्तमहर्यद्ब्रह्मणो विदुः । = रात्रिं युगसहस्रान्तामहोरात्रविदो जनाः ॥ १३१
नैमित्तिकः प्र कृतिको यश्चैवाऽऽत्यन्तिकोऽर्थतः । त्रिविधः सर्वभूतानामित्येष प्रतिसंचरः ॥ १३२


* इत आरभ्य विद्धि चाक्षुषानित्यन्तग्रन्थो घ पुस्तके नास्ति । + एतदर्थस्थाने सप्त तांस्तान्भागा-
न्विद्धि चाक्षुषसंज्ञकानिति क. पुस्तके । ग. ङ्. पुस्तकयेरेतदर्थं त्रुटितमस्ति । × अत्राध्यायसमाप्तिः
ख. पुस्तके । = इत शारभ्य प्रतिसंचर इत्यन्तग्रन्थो ङ् पुस्तके नास्ति ।

५०

३९४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १०० श्लो० १३३-१५९] ( मन्वन्तरनिसर्गादिकथनम् )

ब्राह्मो नैमित्तिकस्तस्य कल्पदाहः प्रसंयमः । प्रतिसर्गे तु भूतानां प्राकृतः करणक्षयः ॥ १३३
ज्ञानाच्चाऽऽत्यन्तिकः प्रोक्तः कारणानामसंभवः । ततः संहृत्य तान्ब्रह्मा देवांस्त्रैलोक्यवासिनः ॥ १३४
अहरन्ते प्रकुरुते सर्वस्य प्रलयं पुनः । सुषुप्सुर्भगवान्ब्रह्मा प्रजाः संहरते तदा ॥ १३५
ततो युगसहस्रान्ते संप्राप्ते च युगक्षये । तत्राऽऽत्मस्थाः प्रजाः कर्तुं प्रपेदे स प्रजापतिः ॥ १३६
तदा भवत्यनावृष्टिस्तदा सा शतवार्षिकी । तथा यान्यल्पसाराणि सत्त्वानि पृथिवीतले ॥ १३७
तान्येवात्र प्रलीयन्ते भूमित्वमुपयान्ति च । सप्तरश्मिरथो भूत्वा उदतिष्ठद्विभावसुः ॥ १३८
असह्यरश्मिर्भगवान्पिबन्नम्भो गभस्तिभिः । हरिता रश्मयस्तस्य दीप्यमानास्तु सप्तभिः ॥ १३९
भूय एव विवर्तन्ते व्याप्नुवन्तो वनं शनैः । भौमं काष्ठं धनं तेजो भृशमद्भिरस्तु दीप्यते ॥ १४०
तस्मादुदकं सूर्यस्य तपतोऽति हि कथ्यते । नावॄष्ट्या *तपते सूर्यो नावॄष्ट्या परिविष्यते ॥ १४१
नावॄष्ट्या परिचिन्वन्ति वारिणा दीप्यते रविः । तस्मादपः पिबन्त्यो वै दीप्यते रविरम्बरे ॥ १४२
तस्य ते रश्मयः सप्त पिबन्त्यम्भो महार्णवात् । तेनाऽऽहारेण संदीप्ताः सूर्याः सप्त भवन्त्युत ॥ १४३
तवस्ते रश्मयः सप्त सूर्यभूताश्चतुर्दिशम् । चतुर्लोकमिमं सर्वं दहन्ति शिखिनस्तदा ॥ १४४
प्राप्नुवन्ति च भामिस्तु ऊर्ध्वं चाधश्च राशिभिः । दीप्यन्ते भास्कराः सप्त युगान्ताग्निप्रतापिनः ॥ १४५
ते वारिणा च संदीप्ता बहुसाहस्ररश्मयः । खं समावृत्य तिष्ठन्ति निर्दहन्तो वसुंधराम् ॥ १४६
ततस्तेषां प्रतापेन दह्यमाना वसुंधरा । साद्रिनद्यर्णवा पृथ्वी विस्नेहा समपद्यत ॥ १४७
दीप्ताभिः संतताभिश्च चित्राभिश्च समन्ततः । अधश्चोर्ध्वं च तिर्यक्च संरुद्धं सूर्यरश्मिभिः ॥ १४८
सूर्याग्नीनां प्रवृद्धानां संसृष्टानां परस्परम् । एकत्वमुपयातानामेकज्वालं भवत्युत ॥ १४९
सर्वलोकप्रणाशं च सोऽग्निर्भूत्वा तु मण्डली । चतुर्लोकमिदं सर्वं निर्दहत्याशु तेजसा ॥ १५०
ततः प्रलीयते सर्वं जङ्गमं स्थावरं तदा । निर्वृक्षा निस्तृणा भूमिः कूर्मपृष्ठसमा भवेत् ॥ १५१
अम्बरीषमिवाऽऽभाति सर्वं मारीषितं जगत् । सर्वमेव तदार्चिर्भिः पूर्णं जाज्वल्यते नभः ॥ १५२
पाताले यानि सत्त्वानि महोदधिगतानि च । ततस्तानि प्रलीयन्ते भूमित्वमुपयान्ति च ॥ १५३
द्वीपांश्च पर्वतांश्चैव वर्षाण्यथ महोदधिः । सर्वं तद्भस्मसाच्चक्रे सर्वात्मा पावकस्तु सः ॥ १५४
समुद्रेभ्यो नदीभ्यश्च पातालेभ्यश्च सर्वतः । पिबन्नपः समिद्धोऽग्निः पृथिवीमाश्रितो ज्वलन् ॥ १५५
ततः संवर्तकः शैलानतिक्रम्य महांस्तथा । लोकान्संहरते दीप्तो घोरः संवर्तकोऽनलः ॥ १५६
ततः स पृथिवीं भित्त्वा रसातलमाशोषयत् । निर्दह्य तांस्तु पातालानागलोकमथादहत् ॥ १५७
अधस्तात्पृथिवीं दग्ध्वा ऊर्ध्वं स दहते दिवम् । योजनानां सहस्राणि अयुतान्यर्बुदानि च ॥ १५८
उदतिष्ठच्छिखास्तस्य बह्व्यः संवर्तकस्य तु । गन्धर्वांश्च पिशाचांश्च समहोरगराक्षसान् ॥
तदा दहति संदीप्तो गोलकं चैव सर्वशः ॥ १५९


* अत्राऽऽत्मनेपदमार्यम् ।

[अ० १०० श्लो० १६०-१८३] वायुपुराणम् ३६५ ( मन्वन्तरनिसर्गादिकथनम् )

भूलोकं तु भुवर्लोकं स्वर्लोकं च महस्तथा । घोरो दहति कालाग्निरवं लोकचतुष्टयम् ॥ १६० व्याप्तेषु तेषु लोकेषु तिर्यगूर्ध्वमथाग्निना । तत्तेजः समनुप्राप्तं कृत्स्नं जगदिदं शनैः ॥ अयोगुडनिभं सर्वं तदा ह्येवं प्रकाशते ॥ १६१ ततो गजगुलाकारास्ताडिद्भिः समलंकृताः । उत्तिष्ठन्ति तदा घोरा व्योम्नि संवर्तका घनाः ॥ १६२ केचिन्नीलोत्पलश्यामा केचित्कुमुदसंनिभाः । केचिद्वैदूर्यसंकाशा इन्द्रनीलानिभाः परे ॥ १६३ शङ्खकुन्दनिभाश्चान्ये जात्यञ्जननिभास्तथा । धूम्रवर्णा घनाः केचित्केचित्पीताः पयोधराः ॥ १६४ केचिद्भाससवर्णाभा लाक्षारक्तनिभास्तथा । मनःशिलाभास्त्वपरे कपोताभास्तथाऽम्बुदाः ॥ १६५ इन्द्रगोपनिभाः केचिदुत्तिष्ठन्ति घना दिवि ॥ (*केचित्पुरधराकाराः केचिद्गजकुलोपमाः ॥ १६६ केचित्पर्वतसंकाशाः केचित्स्थलनिभा घनाः) । कुण्डागारनिभाः केचित्केचिन्मीनकुलोपमाः ॥ १६७ बहुरूपा घोररूपा घोरस्वरनिनादिनः । तदा जलधराः सर्वे पूरयन्ति नभःस्थलम् ॥ १६८ ततस्ते जलदा घोरा राविणो भास्करात्मिकाः । सप्तधा संवृतात्मानस्तमग्निं शममन्युत ॥ १६९ ततस्ते जलदा वर्षं मुञ्चन्ति च महौघवत् । सुघोरमशिवं सर्वं नाशयन्ति च पावकम् ॥ १७० प्रवृष्टैश्च तथाऽत्यर्थं वारिभिः पूर्यते जगत् । अद्भिरिस्तेऽभिभूतं च तदाऽग्निः प्रविशत्यपः ॥ १७१ नष्टे चाग्नौ वर्षशते पयोदाः पाकसंभवाः । प्लावयन्ति जगत्सर्वं बृहज्जलपरिस्रवैः ॥ १७२ धाराभिः पूरयन्तीमं चोद्यमाना स्वयंभुवा । अन्ये तु सलिलौघैस्तु वेलामभिभवन्त्यपि ॥ साद्रीद्वीपन्तरं पृथ्वी अद्भिः संछाद्यते तदा ॥ १७३ तस्य वृष्ट्या च तोयं तत्सर्वं हि परिमण्डितम् । प्रविशत्युदधौ विप्राः पीतं सूर्यस्य रश्मिभिः ॥ आदित्यरश्मिभिः पीतं जलमभ्रेषु तिष्ठति । पुनः पतति तद्भूतौ तेन पूर्यन्ति चार्णवाः ॥ १७५ ततः समुद्राः स्वां वेलां परिक्रामन्ति सर्वशः । पर्वताश्च विशीर्यन्ते मही चाप्सु निमज्जति ॥ १७६ ततस्तु सहसोद्धान्तः पमोदांस्तानभस्तले । संवेष्टयति घोरात्मा दिवि वायुः समन्ततः ॥ १७७ तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे । पूर्णे युगसहस्रे वै निःशेषः कल्प उच्यते ॥ १७८ अथाम्भसा वृत्ते लोके माहुरेकार्णवं बुधाः । अथ भूमितलं खं च वायुश्चैकार्णवे तदा ॥ नष्टे भ्रातेऽवलीने तत्प्राज्ञायत न किंचन ॥ १७९ पार्थिवास्त्वथ सामुद्रा आपो हेमाश्च सर्वशः । प्रसरन्त्यो वजन्त्येकं सलिलाख्यां भजत्युत ॥ १८० आगतागतिकं चैव तदा तत्सलिलं स्मृतम् । प्रच्छाद्य तिष्ठति यहीमर्णवाख्यं च तज्जलम् ॥ १८१ आभान्ति यस्मात्ता भाभिर्भाश्ब्दो व्याप्तिदीप्तिषु । भस्म सर्वमनुप्राप्य तस्मादम्भो निरुच्यते ॥ १८२ नानात्वे चैव शीघ्रे च धातुर्वे अर उच्यते । एकार्णवे तदाऽऽपो वै न शीघ्रस्तेन ता नराः ॥ १८३


* धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति ।

३९६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १०० श्लो० १८४-२०७] (मन्वन्तरनिसर्गादिकथनम्)

तस्मिन्युगसहस्रान्ते दिवसे ब्रह्मणो मते। तावन्तं कालमेवं तु भवत्येकार्णवं जगत्॥
तदा तु सर्वव्यापारा निवर्तन्ते प्रजापतेः॥ १८४
एवमेकार्णवे तस्मिन्नष्टे स्थावरजङ्गमे। तदा स भवति ब्रह्मा सहस्राक्षः सहस्रपात्॥ १८५
सहस्रशीर्षा सुमनाः सहस्रपातसहस्रचक्षुर्वदनः सहस्रवाक्।
सहस्रबाहुः प्रथमः प्रजापतिस्त्रयीपथी यः पुरुषो निरुच्यते॥ १८६
आदित्यवर्णो भुवनस्य गोप्ता अपूर्व एकः प्रथमस्तुराषाट्।
हिरण्यगर्भः पुरुषो महान्वै संपद्यते वै तमसा परस्तात्॥ १८७
चतुर्युगसहस्रान्ते सर्वतःसलि्लाप्लुते। सुषुप्तसुरमकाशां स्वां रात्रिं तु कुरुते प्रभुः॥ १८८
चतुर्विधा यदा शेते प्रजाः सर्वाण्डमण्डिताः। पश्यन्ते तं महात्मानं कालं सप्त महर्षयः॥ १८९
जनलोके विवृर्तन्तस्तपसा लब्धचक्षुषः। भृग्वादयो महात्मानः पूर्वे व्याख्यातलक्षणाः॥ १९०
सत्यादीन्सप्त लोकान्वै ते हि पश्यन्ति चक्षुषा। ब्रह्माणं ते तु पश्यन्ति महाब्राह्मीषु रात्रिषु॥
सप्तर्षयः प्रपश्यन्ति सुप्तकालं स्वरात्रिषु। कल्पानां परमेष्ठित्वात्तस्मादाद्यः स पठ्यते॥ १९२
स स्रष्टा सर्वभूतानां कल्पादिषु पुनः पुनः। एवमावेशयित्वा तु स्वात्मन्येव प्रजायते॥ १९३
अथाऽऽत्मनि महातेजाः सर्वमादाय सर्वकृत्। ततः स वसते रात्रिं तमस्येकार्णवे जले॥ १९४
ततो रात्रिक्षये प्राप्ते प्रतिबुद्धः प्रजापतिः। मनः सिसृक्षया युक्तं सर्गाय निदधे पुनः॥ १९५
एवं सलोके निर्वृत्ते उपशान्ते प्रजापतौ। ब्राह्मनैमित्तिके तस्मिन्कल्पिते वै प्रसंयमे॥ १९६
दैहैर्वियोगः सत्त्वानां तस्मिन्वौ कृत्स्नशः स्मृतः। ततो दग्धेषु भूतेषु सर्वेष्वादित्यरश्मिभिः॥
देवर्षिमनुवर्येषु तस्मिन्संकलने तदा॥ १९७
गन्धर्वादीनि सत्त्वानि पिशाचान्तानि सर्वशः। कल्पादावप्रतप्तानि जनमेवाऽऽश्रयन्ति वै॥ १९८
तिर्यग्योनीनि सत्त्वानि नारकेयाणि यान्यपि। तदा तान्यपि दग्धानि धूतपापानि सर्वशः॥
जने तान्युपपद्यन्ते यावत्संप्लवते जगत्॥ १९९
व्युष्टायां तु रजन्यां तु ब्रह्मणोऽव्यक्तयोनये। जायन्ते हि पुनस्तानि सर्वभूतानि कृत्स्नशः॥ २००
ऋषयो मनवो देवाः प्रजाः सर्वाश्चतुर्विधाः। तेषामपीह सिद्धानां निधनात्पत्तिरुच्यते॥ २०१
यथा सूर्यस्य लोकेऽस्मिन्नुदयास्तमनं स्मृतम्। वया जन्म निरोधश्च भूतानामिह दृश्यते॥ २०२
आभूतसंप्लवात्तस्माद्भवः संसार उच्यते। यथा सर्वाणि भूतानि जायन्ते हि वर्षास्विह॥ २०३
स्थावरादीनि सत्त्वानि कल्पे कल्पे तथा प्रजाः। यथर्तवृतुलिङ्गानि नानारूपाणि पर्यये॥ २०४
दृश्यन्ते तानि तान्येव तथा मलान्तरात्रिषु। प्रत्याहारे च सर्गे च गतिमन्ति ध्रुवाणि च॥ २०५
*निष्क्रमन्ते विशन्ते च प्रजाकारं प्रजापतिम्। ब्रह्माणं सर्वभूतानि महायोगं महेश्वरम्॥ २०६
हंस्रष्टा सर्वभूतानां कल्पादिषु पुनः पुनः। व्यक्तात्मको महादेवस्तस्य सर्वमिदं जगत्॥ २०७


* अत्राऽऽत्मनेपदमारर्षम्।

[ अ० १०० श्लो० २०८-२२८ ] वायुपुराणम् । ३९७

( मन्वन्तरनिसर्गादिकथनम् )

येनैव सृष्टा प्रथमं प्रयाता आपो हि मार्गेण महीतलेऽस्मिन् । पूर्वप्रयातेन तथा ह्यपोऽन्यास्तेनैव तेनैव तु संव्रजन्ति ॥ २०८

यथा शुभेन त्वशुभेन चैव तत्रैव तत्रैव विवर्तमानः । मर्त्यास्तु देहान्तरभावितत्वाद्वेर्वशादूर्ध्वमधश्चरन्ति ॥ २०९

ये चापि देवा मनवः प्रजेशा अन्येऽपि ये स्वर्गगताश्च सिद्धाः । तद्भाविताख्यानितिवशाच्च धर्माः पुनर्नेिसर्गेण भवन्ति सत्त्वाः* ॥ २१०

अत ऊर्ध्वं प्रवक्ष्यामि कालमाभूतसंप्लवम् । मन्वन्तराणि यानि स्युर्व्याख्यातानि मया द्विजाः ॥ सह प्रजानिसर्गेण सह देवैश्चतुर्दश ॥ २११

स युगाख्यासहस्रं तु सर्वाण्येवान्तराणि वै । अस्याः सहस्रे द्वे पूर्णे निःशेषः कल्प उच्यते ॥ २१२

एतद्बालमहत्यैयं तस्य संख्यां निबोधत । निमेषस्तुल्यमात्रा हि कृतो लध्वक्षरेण तु ॥ २१३

मानुषाक्षिन्निमेषास्तु काष्ठा पञ्चदश स्मृता । लवः क्षणास्तु पञ्चैव विंशत्काष्ठा तु ते त्रयः ॥ २१४

प्रस्थः समोदकाश्चैव साधिकास्तु लवः स्मृतः । लवास्त्रिंशत्कला ज्ञेया मुहूर्तस्त्रिंशतः कलाः ॥ २१५

मुहूर्तांस्तु पुनस्त्रिंशदहोरात्रमिति स्थितिः । अहोरात्रं कालानां तु द्व्यधिकानि शतानि षट् ॥ २१६

तांश्चैव संख्यया ज्ञेयं चन्द्रादित्यगतिर्यथा । निमेषा दश पञ्चैव काष्ठास्तास्त्रिंशतः कला ॥ २१७

त्रिंशत्कला मुहूर्तंस्तु दशभागः कला स्मृता । चत्वारींशत्कलानां तु मुहूर्त इति संज्ञितः ॥ २१८

मुहूर्ताश्च लवाश्चापि प्रमाणज्ञैः प्रकल्पिताः । तस्थानेनाम्भसा (सां) चापि पलान्यथ त्रयोदश ॥ मागधेनैव मानेन जलप्रस्थो विधीयते । एते वाप्युदकप्रस्थाश्चत्वारो नालिको घटः ॥ २२०

हेममाषैः कृताच्छिद्रैश्चतुर्भिश्चतुरङ्गुलैः । समाहानि च रात्रौ च मुहूर्ता वै दिनालिकाः ॥ २२१

रवेर्गतिविशेषणे सर्वेष्वृतुषु नित्यशः । अधिकं षट्शतं पञ्च कलानां प्रविधीयते ॥ २२२

तदहर्मानुषं ज्ञेयं नाक्षत्रं तु दशाधिकम् । सावनेन तु मासेन अब्दोऽयं मानुषः स्मृतः ॥ २२३

एतद्दिव्यमहोरात्रमिति शास्त्रविनिश्चयः । अह्नाऽनेन तु या संख्या मासत्वर्त्तनवार्षिकी ॥ २२४

तदा बद्धमिदं ज्ञाने संज्ञा या तूपलक्ष्यताम् । कलानां सुपरिमाणात्काल इत्यभिधीयते ॥ २२५

यदहर्ब्रह्मणः प्रोक्तं दिव्या कोटी तु सा स्मृता । शतानां च सहस्राणि दश द्विगुणितानि च ॥ + नवतिं च सहस्राणि तथैवान्यानि यानि तु ॥ २२६

एतच्छ्रुत्वा तु ऋषयो विस्मयं परमाद्भुतम् । संस्थासंभजनं ज्ञानमपृच्छन्नन्तरं तदा ॥ २२७

ऋषय ऊचुः—

संख्याप्रलयमात्रं तु मानुषेणैव संमतम् । मानेन श्रोतुमिच्छामः संक्षेपार्थपदाक्षरम् ॥ २२८


* अत्राध्यायसमाप्तिः ख. पुस्तके। अनन्तरं सूत उवाचेति च ।
+ इतः प्रभृति सार्धश्लोको नास्ति ख. पुस्तके ।

३९८ श्रीमद्द्वैपायनमुनिप्रणीतम्-[अ० १००-१०१ श्लो०-२२९-२४६।१] (भूलोकादिव्यवस्थावर्णनम्)

तेषां श्रुत्वा स देवस्तु वायुर्लोकहिते रतः। संक्षेपादिव्यचक्षुष्मान्प्रोवाच भगवान्प्रभुः ॥ २२९ एते रात्र्यहनी पूर्वं कीर्तिते त्विह लौकिके। तासां संख्याय वर्षाग्रं ब्राह्म्यं वक्ष्याम्यहः क्षये ॥२३० कोटीशतानि चत्वारि वर्षाणि मानुषाणि तु। द्वात्रिंशच्च तथा कोट्यः संख्याताः संख्यया द्विजैः ॥ तथा शतसहस्राणि एकोननवतिः पुनः। अशीतिश्च सहस्राणि एष कालः प्लवस्य तु ॥ २३२ मानुषाख्येषु संख्यातः कालो ह्याभूतसंप्लवः। सप्त सूर्यास्तदाऽप्येषु तदा लोकेषु तेषु वै ॥ २३३ महाभूतेषु लीयन्ते प्रजाः सर्वाश्चतुर्विधाः। सलिलेनाऽऽप्लुते लोके नष्ट स्थावरजङ्गमे ॥ २३४ विनिवृत्ते च संहारे उपशान्ते प्रजापतौ। निरालोके पदग्धे तु नैशेन तमसाऽऽवृते ॥ ईश्वराधिष्ठिते ह्यस्मिंस्तदा ह्येकार्णवे किल ॥ २३५ तावदेकार्णवो ज्ञेयो यावदासीदहः प्रभोः। रात्रिस्तु सलिलावस्था निवृत्तौ चाप्यहः स्मृतम् ॥ २३६ अहोरात्रस्तथैवास्य क्रमेण परिवर्तते। आभूतसंप्लवो ह्येष अहोरात्रः स्मृतः प्रभोः ॥ २३७ त्रैलोक्ये यानि सत्त्वानि गतिमन्ति ध्रुवाणि च। आभूतेभ्यः प्रलीयन्ते तस्मादाभूतसंप्लवः ॥ २३८ * अग्रे भूतः प्रजानां तु तस्माद्भूतः प्रजापतिः। आभूतात्प्लवते चैव तस्मादाभूतसंप्लवः ॥ २३९ शाश्वते चामृतत्वे च शब्दे चाऽऽभूतसंप्लवः। अतीता वर्तमानाश्च तथैवानागताः प्रजाः ॥ दिव्यसंख्याता प्रसंख्याता अपराधैर्गुणीकृता ॥ २४० परार्धद्विगुणं चापि परमायुः प्रकीर्तितम्। एतावान्स्थितिकालस्तु अजस्येह प्रजापतेः ॥ स्थित्यन्ते प्रतिसर्गस्य ब्रह्मणः परमेष्ठिनः ॥ २४१ यथा वायुप्रवेगेन दीपार्चिरुपशाम्यति। तथैव प्रतिसर्गेण ब्रह्मा समुपशाम्यति ॥ २४२ तथा ह्यप्रतिसंसृष्टे महदादौ महेश्वरे। महत्प्रलीयतेऽऽव्यक्ते गुणसाम्यं ततो भवेत् ॥ २४३ इत्येष च समाख्यातो मया ह्याभूतसंप्लवः। ब्रह्मणैमित्तिको ह्येष संप्रक्षालनसंयमः ॥ २४४ समासेन समाख्यातो भूयः किं वर्तयामि वः। + य इदं धारयेन्नित्यं शृणुयाद्वाऽप्यभीक्ष्णशः ॥ कीर्तनाच्छ्रवणाच्चापि महतीं सिद्धिमाप्नुयात् ॥ २४५ \times ब्राह्मणो लभते विद्यां क्षत्रियो विजयी भवेत् । वैश्यस्तु धनलाभाग्न ( भाक्चैव ) शूद्रः सुखमवाप्नुयात् ॥ २४६ इति श्रीमहापुराणे वायुप्रोक्ते मन्वन्तरनिसर्गादिकथनं नाम शततमोऽध्यायः ॥१००॥ आदितः श्लोकानां समष्ट्यङ्काः-९७६०

अथैकशततमोऽध्यायः।

भूलोकादिव्यवस्थावर्णनम्।

वायुरुवाच-- असाधारणवृत्तैस्तु हुतशेषादिभिर्द्विजैः। धर्मा वैशेषिकाश्चैव आचीर्णाः सूक्ष्मदर्शिभिः ॥ १


* नास्त्ययं श्लोको घ पुस्तके। + एतदर्थस्थाने य इदं ध्यायते नित्यं धारयेद्यः समाहित इति घ पुस्तके। \times अयं श्लोको न विद्यते क. ग. घ. ङ. पुस्तकेषु।

[अ० १० । श्लो० २-२५] वायुपुराणम् । ३९९ ( भूर्लोकादिव्यवस्थावर्णनम् ) ते देवैः सह तिष्ठन्ति महर्लोकनिवासिनः । चतुर्दशैते मनवः कीर्तिताः कीर्तिवर्धनाः ॥ २ अतीता वर्तमानाश्च तथैवानागताश्च ये । ऋषिभिर्देवैस्तैश्च सह गन्धर्वराक्षसैः ॥ ३ मन्वन्तराधिकारेषु जयन्तीह पुनः पुनः । देवाः सप्तर्षयश्चैव मनवः पितरस्तथा ॥ ४ सर्वे ह्यपि क्रमातीता महर्लोकं समाश्रिताः । ब्राह्मणैः क्षत्रियैर्वैश्यैर्धार्मिकैः सहितैः सुराः ॥ ५ तैस्तथ्यकारिभिर्युक्तैः श्रद्धावद्भिर्दर्दापतः । वर्णाश्रमाणां धर्मेषु श्रौतस्मार्तेषु संस्थितैः ॥ विनिवृत्ताधिकारास्ते यावन्मन्वन्तरक्षयः ॥ ६ ऋषय ऊचुः-- महर्लोकेति यत्प्रोक्तं मातरिश्वंस्त्वथा विभो । प्रतिलोके च कर्तव्यमनेकः समाधिष्ठिताः ॥ ७

  • यावन्तश्चैव ते लोका दह्यन्ते येन ते प्रभो । एतन्नः कथय प्रीत्या त्वं हि वेत्थ यथातथम् ॥ ८ एवमुक्तस्ततो वायुर्मुनिभिर्विजितात्मभिः । प्रोवाच मधुरं वाक्यं यथातत्वेन तत्त्ववित् ॥ ९ वायुरुवाच-- चतुर्दशैव स्थानानि वर्णितानि महर्षिभिः । लोकाख्यानि तु यानि स्युर्येषु तिष्ठन्ति मानवाः ॥ १० सप्त तेषु कृतान्याहुरकृतानि तु सप्त वै । भूरादयास्तु संख्याताः सप्त लोकाः कृतास्त्विह ॥ ११ अकृतानि तु सप्तैव प्राकृतानि तु यानि वै । स्थानानि स्थानिभिः सार्धं कृतानि तु निबन्धनम् ॥ पृथिवी चान्तरिक्षं च दिव्यं यच्च महः स्मृतम् । स्थानान्येतानि चत्वारि स्मृतान्यार्णवकानि च ॥ १३ क्षयातिशययुक्तानि तथा युक्तानि वक्ष्यते [चम्यहम्] । यानि नैमित्तिकानि स्युस्तिष्ठन्त्याभूतसंप्लवम् ॥ जनस्तपश्च सत्यं च स्थानान्येतानि त्रीणि तु । एकान्तिकानि सत्त्वानि तिष्ठन्तीहाऽऽप्रसंयमात् ॥ १५ व्यक्तानि तु प्रवक्ष्यामि स्थानान्येतानि सप्त वै । भूर्लोकः प्रथमस्तेषां द्वितीयस्तु भुवः स्मृतः ॥ १६ स्वस्तृतीयस्तु विज्ञेयश्चतुर्थो वै महः स्मृतः । जनस्तु पञ्चमो लोकस्तपः षष्ठो विभाव्यते ॥ १७ सत्यस्तु सप्तमो लोको निरालोकस्ततः परम् । भूरिति व्याहृते पूर्वं भूर्लोकश्च ततोऽभवत् ॥ १८
  • [द्वितीयो भुव इत्युक्त अन्तरिक्षं ततोऽभवत् । तृतीयं स्वरितीत्युक्ते दिवं प्रादुर्बभूव ह ॥ १९ व्याहारैस्त्रिभिरेतैस्तु ब्रह्मा लोकमकल्पयत् ] । ततो भूः पार्थिवो लोकोह्यन्तरिक्षं भुवः स्मृतम् ॥ २० स्वर्लोको वै दिवं ह्यतत्पुराणे निश्चयं गतम् । भूतस्याधिपतिश्चाग्निस्ततो भूतपतिः स्मृतः ॥ २१ वायुर्भुवस्याधिपतिस्तेन वायुर्भुवस्पतिः । भव्यस्य सूर्योऽधिपतिस्तेन सूर्यो दिवस्पतिः ॥ २२ महंतिव्याहृतेनैवं महर्लोकस्ततोऽभवत् । विनिवृत्ताधिकाराणां देवानां तत्र वै क्षयः ॥ २३ जनस्तु पञ्चमो लोकस्तस्माज्जायन्ति वै जनाः । तासां स्वायंभुवाद्यानां प्रजानां जननाज्जनः ॥ २४ यास्ताः स्वायंभुवाद्या हि पुरस्तत्परिकीर्तिताः । कल्पदग्धे तदा लोके प्रतिष्ठति÷तदा तपः ॥ २५

  • अयं सार्धश्लोको नास्ति ग. पुस्तके । + धनुश्चिह्नान्तर्गतग्रन्थो ङ्. पुस्तके । ÷ अत्र परस्मैपदमार्षम् ।

४०० श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१०१ श्लो०२६-४९] (भूर्लोकादिव्यवस्थावर्णनम्)

ऋभुः सनत्कुमाराद्या यत्र सन्त्यूर्ध्वरेतसः । तपसा भावितात्मानस्तत्र सन्तीति वा तपः ॥ २६ सत्येति ब्रह्मणः शब्दः सत्तामात्रस्तु स स्मृतः । ब्रह्मलोकस्ततः सत्यं सप्तमः स तु भास्करः ॥ २७ गन्धर्वाप्सरसो यक्षा गुह्यकास्तु सराक्षसाः । सर्वभूतपिशाचाश्च नागाश्च सह मानुषैः ॥ स्वर्लोकवासिनः सर्वे देवा भुवि निवासिनः ॥ २८ मरुतो मातरिश्वानो रुद्रा देवास्तथाश्विनौ । अनिकेतान्तरिक्षास्ते भुवर्लोक्या दिवौकसः ॥ २९ आदित्या ऋभवो विश्वे साध्याश्च पितरस्तथा । ऋषयोऽङ्गिरसश्चैव भुवर्लोकं समाश्रिताः ॥ ३० एते वैमानिका देवास्ताराग्रहानिवासिनः । इत्येते क्रमशः प्रोक्ता ब्रह्मव्याहारसंभवाः ॥ ३१ भूर्लोकप्रथमा लोका महदन्ताश्च ते स्मृताः । आरभ्यन्ते तु तन्मात्रैः शुद्धास्तेषां परस्परम् ॥ ३२ शुक्राद्याश्चाक्षुषान्ताश्च ये व्यतीता भुवं श्रिता । महर्लोकश्चतुर्थस्तु तस्मिंस्ते कल्पवासिनः ॥ * इत्येते क्रमशः प्रोक्ता ब्रह्मव्याहारसंभवाः ॥ ३३ भूर्लोकप्रथमा लोका महदन्ताश्च ये स्मृताः । तान्सर्वान्सप्त सूर्यास्ते अर्चिर्भिर्निर्दहन्ति वै ॥ ३४ मरीचिः कश्यपो दक्षस्तथा स्वायंभुवोऽङ्गिराः । भृगुः पुलस्त्यः पुलहः क्रतुरित्येवमादयः ॥ ३५ प्रजानां पतयः सर्वे वर्तन्ते तत्र तैः सह । निःसत्त्वा निर्ममाश्चैव तत्र ते ह्यूड्वरेतसः ॥ ३६ ऋभुः सनत्कुमाराद्या वैराज्यास्ते तपोधनाः । मन्वन्तराणां सर्वेषां सावणीनां ततः स्मृताः ॥ चतुर्दशानां सर्वेषां पुनरावृत्तिहेतवः ॥ ३७ योगं तपश्च सत्यं च समाधाय तदाऽऽत्मनि । षष्ठे काले निवर्तन्ते तत्तदाह(?) विपर्यये ॥ ३८ सत्यस्तु सप्तमो लोको ह्यपुनर्मार्गगामिनाम् । ब्रह्मलोकः समाख्यातो ह्यप्रतिघातलक्षणः ॥ ३९ + पर्यासपारिमाण्येन भूर्लोकः समितिः स्मृतः । भूम्यन्तरं यदादित्यादन्तरिक्षं भुवः स्मृतम् ॥ ४० सूर्यध्रुवान्तरं यच्च स्वर्गलोको दिवः स्मृतः । ध्रुवाज्जनान्तरं यच्च महर्लोकः स उच्यते ॥ ४१ विख्याताः सप्त लोकास्तु तेषां वक्ष्यामि सिद्धयः । भूर्लोकवासिनः सर्वे अन्नादास्तु रसात्मकाः ॥ भुवे स्वर्गे च ये सर्वे सोमपा आज्यपाश्च ते । चतुर्थे येऽपि वर्तन्ते महर्लोकं समाश्रिताः ॥ ४३ विज्ञेया मानसी तेषां सिद्धिर्वै पञ्चलक्षणा । सद्यश्चोत्पद्यते तेषां मनसा सर्वमीप्सितम् ॥ ४४ एते देवा यजन्ते वै यज्ञैः सर्वैः परस्परम् । अतीतान्वर्तमानांश्च वर्तमानानागतान् ॥ ४५ प्रथमानन्तरैरिष्टा अन्तराः सांप्रतैः पुनः । निवर्ततीत्यासंबन्धोऽतीते देवगणे ततः (?) ॥ ४६ विनिवृत्ताधिकाराणां सिद्धिस्तेषां तु मानसी । तेषां तु मानसी ज्ञेया शुद्धा सिद्धिपरम्परा ॥ ४७ उक्ता लोकाश्च चत्वारो जनस्यानुविधिस्रथा । ग्रमासेन मया विप्रा भूवस्तं वर्तयामि वः ॥ ४८

वायुरुवाच- मरीचिः कश्यपो दक्षो वसिष्ठश्चाङ्गिरा भृगुः । + पुलस्त्यः पुलहश्चैव क्रतुरित्येवमादयः ॥ ४९


* एतदर्थं क. पुस्तके नास्ति । + इत आरभ्य सर्वश्लोको न विद्यते ग. पुस्तके ÷ धनुरुचिद्धान्तर्गतग्रन्थो ङ. पुस्तके नास्ति ।

[अ० १०१ श्लो० ५०-७३] वायुपुराणम् ४०१

( भूलोकादिव्यवस्थावर्णनम् )

पूर्वे ते संप्रसूयन्ते ब्रह्मणो मनसा इह । ततः प्रजाः प्रतिष्ठाप्य जनमेवाऽऽश्रयन्ति ते ॥ ५०
कल्पदाहप्रदीप्तेषु तदा कालेषु तेषु वै । भूरादिषु महान्तेषु भृशं व्याप्तिप्लवाग्निना ॥ ५१
शिखा संवर्तका ज्ञेया प्राप्नुवन्ति सदा जनाः । यामादयो गणाः सर्वे महर्लोकनिवासिनः ॥ ५२
महर्लोकेषु दीप्तेषु जनमेवाऽऽश्रयन्ति ते । सर्वे सूक्ष्मशरीरास्ते तत्रस्थास्तु भवन्ति ते ॥ ५३
तेषां ते तुल्यसामर्थ्यास्तुल्यमूर्तिधरास्तथा । जनलोके विवर्तन्ते यावत्संप्लवते जगत् ॥ ५४
व्युष्टायां तु रजन्यां वै ब्रह्मणोऽव्यक्तयोनिनः । अहरादौ प्रसूयन्ते पूर्ववत्क्रमशस्त्विह ॥ ५५
स्वायंभुवादयः सर्वे मरीच्यन्तास्तु साधकाः । देवास्ते वै पुनस्तेषां जायन्ते निधनेष्विह ॥ ५६
यामादयः क्रमेणैव कनिष्ठाद्याः प्रजापतेः । पूर्वं पूर्वं प्रसूयन्ते पश्चिमे पश्चिमास्तथा ॥ ५७
देवान्वये देवता हि सप्त संभूतयः स्मृताः । व्यतीताः कल्पजास्तेषां तिस्रः शिष्टास्तथा परे ॥ ५८
आवर्तमाना देवास्ते क्रमेणैतेन सर्वशः । गत्वा जवं जर्वाभावं दशकृत्वः पुनः पुनः ॥ ५९
ततस्ते वै गणाः सर्वे दृष्ट्वा भावेष्वनित्यताम् । भाविनोऽर्थस्य च बलात्पुण्याख्यातिबलेन च ॥ ६०
निवृत्तवृत्तयः सर्वे स्वस्थाः सुमनसस्तथा । वैराजे तूपपद्यन्ते च लोकमुत्सृज्य तज्जनम् ॥ ६१
ततोऽन्येनैव कालेन नित्ययुक्तास्तपस्विनः । कथनाच्चैव धर्मस्य तेषां ते जज्ञिरेऽन्वये ॥ ६२
इहोत्पन्नास्ततस्ते वै स्थानान्यपूरयन्त्युत । देवत्वे च ऋषित्वे च मनुष्यत्वे च सर्वशः ॥ ६३
एवं देवगणाः सर्वे दशकृत्वो निवर्त्य वै । वैराजेषूपपन्नास्ते दश तिष्ठन्त्युपप्लवान् ॥ ६४
पूर्णे पूर्णे ततः कल्पे स्थित्वा वैराजके पुनः । ब्रह्मलोके विवर्तन्ते पूर्वपूर्वकमेण तु ॥ ६५
एतस्मिन्ब्रह्मलोके तु कल्पे वैराजके गते । वैराजं पुनरप्येके कल्पस्थानमकल्पयन् ॥ ६६
एवं पूर्वानुपूर्वेण ब्रह्मलोकगतेन वै । एवं तेषु व्यतीतेषु तपसा परिकल्पिते ॥
वैराजे तूपपद्यन्ते दशकृत्वो निवर्तते ॥ ६७
एवं देवयुगानीह व्यतीतानि सहस्रशः । निधनं ब्रह्मलोके तु गतानामृषिभिः सह ॥ ६८

सूत उवाच—
न शक्यमानुपूर्व्येण तेषां वक्तुं प्रविस्तरम् । अनादित्वाच्च कालस्य असंख्यानाच्च सर्वशः ॥
एवमेव न संदेहो यथावत्कथितं मया ॥ ६९
तदुपश्रुत्य वाक्यार्थमृषयः संशयान्विताः । सूतमाहुः पुराणज्ञं व्यासशिष्यं महामतिम् ॥ ७०

ऋषय ऊचुः—
वैराजास्ते यदाहारा यत्सत्त्वाश्च यदाश्रयाः । तिष्ठन्ति चैव यत्कालं तन्नो ब्रूहि यथातथम् ॥ ७१
तदुक्तमृषिभिर्वाक्यं श्रुत्वा लोकार्थत्त्ववित् । सूतः पौराणिको वाक्यं विनयेनेदमब्रवीत्* ॥ ७२
ततः प्राप्यन्त ते सर्वे शुद्धिशुद्धतमाश्च ये आभूतसंप्लवास्तत्र दश तिष्ठन्ति ते जनाः ॥ ७३


* अत्र सूत उवाचेति ख. पुस्तके ।

५१