वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
१६२ श्रीमद्वैपायनमुनिप्रणीतम्– [अ०५०श्लो०२०३-२२३] ( ज्योतिषप्रचारः )
संवत्सरास्ततो ज्ञेयाः पञ्चाब्दा ब्रह्मणः सुताः । तस्मात्तु ऋतवो ज्ञेया ऋतवो ह्यन्तराः स्मृताः ॥ २०३ तस्मादनुमुखां ज्ञेया अमावास्याऽस्य पर्वणः । तस्मान्तु विषुवं ज्ञेयं पितृदेवहितं सदा ॥ २०४ एवं ज्ञात्वा न मुह्येत देवे पित्र्ये च मानवः । तस्मात्स्मृतं प्रजानां वै विषुवत्सर्वगं सदा ॥ २०५ आलोकान्तः स्मृतो लोको लोकान्तो लोक उच्यते । लोकपालाः स्थितास्तत्र लोकालोकस्य मध्यतः ॥ चत्वारस्ते महात्मानस्तिष्ठन्त्याभूतसंप्लवात् । सुधामः चैव वैराजः कर्दमः शङ्खपास्तथा ॥ हिरण्यलोमा पर्जन्यः केतुमान्रजतश्च यः ॥ २०७ निर्द्वंद्वा निरभीमाना निस्तन्त्रा निष्परिग्रहाः । लोकपालाः स्थिता ह्येते लोकालोके चतुर्दिशम् ॥ २०८ उत्तरं यदगस्त्यस्य अजवीथ्याश्च दक्षिणम् । पितृयाणः स वै पन्था वैश्वानरपथाद्बहिः ॥ २०९ तत्राऽऽसते प्रजावन्तो मुनयो ह्यग्निहोत्रिणः । लोकस्य संतानकराः पितृयाणे पथि स्थिताः ॥ २१० भूतारम्भकृतं कर्म आशिषा ऋत्विगुच्यते । प्रारभन्ते लोककामास्तेषां पन्थाः स दक्षिणः ॥ २११ चलितं ते पुनर्धर्मं स्थापयन्ति युगे युगे । संतत्या तपसा चैव मर्यादाभिः श्रुतेन च ॥ २१२ जायमानास्तु पूर्वे वै पश्चिमानां गृहेषु च । पश्चिमाश्चैव जायन्ते पूर्वेषां निधनेष्वपि ॥ एवमावर्तमानास्ते तिष्ठन्त्याभूतसंप्लवात् ॥ २१३ अष्टाशीतिसहस्राणि मुनीनां गृहमेधिनाम् । सवितुर्दक्षिणं मार्गं श्रिता ह्याचन्द्रतारकम् ॥ क्रियावतां प्रसंख्येया ये श्मशानानि भेजिरे ॥ २१४ लोकसंव्यवहारेण भूतारम्भकृतेन च । इच्छाद्वेषप्रकृत्या च मैथुनोपगमेन च ॥ २१५ तथा कायकृतेनेह सेवनाद्विषयस्य च । एतैस्तैः कारणैः सिद्धाः श्मशानानि हि भेजिरे ॥ प्रजैषिणस्ते मुनयो द्वापरेष्विह जज्ञिरे ॥ २१६ नागवीथ्युत्तरे यच्च सप्तर्षिभ्यश्च दक्षिणम् । उत्तरः सवितुः पन्था देवयानस्तु स स्मृतः ॥ २१७ यत्र ते वासिनः सिद्धा विमला ब्रह्मचारिणः । सततं ते जुगुप्सन्ते तस्मान्मृत्युर्जितस्तु तैः ॥ २१८ अष्टाशीतिसहस्राणि तेषामप्यूर्ध्वरेतसाम् । उदकपन्थानमर्यम्णः श्रिता ह्याभूतसंप्लवात् ॥ २१९ (*ते प्रसङ्गात्तु लोकस्य मैथुनस्य तु वर्जनात् । इच्छाद्वेषनिवृत्त्या च भूतारम्भविवर्जनात् ॥ पुष्टिश्च कामसंयोगाच्छब्दादेर्दोषदर्शनात् ) ॥ २२० इत्येतैः कारणैः शुद्धैस्तेऽमृतत्वं हि भेजिरे । आभूतसंप्लवस्थानममृतत्वं विभाव्यते ॥ २२१ त्रैलोक्यस्थितिकालेऽयमपुनर्मार्गगामिनः । ब्रह्महत्याश्वमेधाभ्यां पुण्यपापकृतोऽपरम् ॥ आभूतसंप्लवान्ते तु क्षीयन्ते ह्यूर्ध्वरेतसः ॥ २२२ ऊर्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्रास्ति वै स्मृतम् । एतद्विष्णु पदं दिव्यं तृतीयं व्योम्नि भास्वरम् ॥ तत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम् । धर्मध्रुवाद्यास्तिष्ठन्ति यत्र ते लोकसाधकाः ॥ २२३
इति महापुराणे वायुप्रोक्ते ज्योतिषप्रचारो नाम पञ्चाशोऽध्यायः ॥ ५० ॥ आदितः श्लोकानां समष्ट्यङ्काः--३८५४
* धनुश्चिह्नान्तर्गतग्रन्थः क. ग. पुस्तकयोर्नास्ति ।
[अ० ५१ श्लो० १-२२] वायुपुराणम् । १६३ (ज्योतिष्प्रचारः)
अथैकपञ्चाशोऽध्यायः।
ज्योतिष्प्रचारः।
सूत उवाच— स्वायंभुवे निसर्गे तु व्याख्यातान्युत्तराणि तु । भविष्याणि स सर्वाणि तेषां वक्ष्याम्यनुक्रमम् ॥ १ एतच्छ्रुत्वा तु मुनयः पप्रच्छुर्लोमहर्षणम् । सूर्याचन्द्रमसोश्चारं ग्रहाणां चैव सर्वशः ॥ २
ऋषय ऊचुः— भ्रमन्ते कथमेतानि ज्योतींषि दिवि मण्डलम् । तिर्यग्व्यूहेन सर्वाणि तथैवासंकरेण च ॥ कश्च भ्रामयते तानि भ्रमन्ति यदि वा स्वयम् ॥ ३ एतद्वेदितुमिच्छामस्तन्नो निगद सत्तम । भूतसंमोहनं त्वेतच्छ्रोतुमिच्छा प्रवर्तते ॥ ४
सूत उवाच— भूतसंमोहनं ह्येतद्ब्रुवतो मे निबोधत । प्रत्यक्षमाप दृश्यं यत्तत्संमोहयते प्रजाः ॥ ५ योऽसौ चतुर्दिशं पुच्छे शैशुमारे व्यवस्थितः । उत्तानपादपुत्रोऽसौ मेढीभूतो ध्रुवो दिवि ॥ ६ स हि भ्रमन्भ्रामयते चन्द्रादित्यौ ग्रहैः सह । भ्रमन्तमनुगच्छन्ति नक्षत्राणि च चक्रवत् ॥ ७ ध्रुवस्य मनसा चासौ सर्पते भगणः स्वयम् । सूर्यचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह ॥ ८ वातानीकमयैर्बन्धैर्ध्रुवे बद्धानि तानि वै । तेषां योगश्च भेदश्च कालचारस्तथैव च ॥ ९ अस्तोद्यौ तथोत्पाता अयने दक्षिणोत्तरे । विषुवद्वयहेवर्णाश्च ध्रुवात्सर्वं प्रवर्तते ॥ १० वर्षा घर्मो हिमं रात्रिः संध्या चैव दिनं तथा । शुभाशुभं प्रजानां च ध्रुवात्सर्वं प्रवर्तते ॥ ११ ध्रुवेणाधिकृतांश्चैव सूर्योपाङ्गत्य तिष्ठति । तदेष दीप्तकिरणः स कालाग्निर्दिवाकरः ॥ १२ परिवर्तक्रमाद्दीपा भामिरालोकयन्दिशः । सूर्यः किरणजालेन वायुयुक्तेन सर्वशः ॥ जगतो जलमादत्ते कृत्स्नस्य द्विजसत्तमाः ॥ १३ आदित्यपीतं सूर्याग्नेः सोमं संक्रमते जलम् । नाडीभिर्वायुयुक्ताभिर्लोकाधानं प्रवर्तते ॥ १४ यत्सोमात्स्रवते सूर्ये तदभ्रेष्ववतिष्ठते । मेघा वायुनिघातेन विसृजन्ति जलं भुवि ॥ १५ एवमुत्क्षिप्यते चैव पतते च पुनर्जलंम् । न नाशमु(उ)दकस्यास्ति तदेव परिवर्तते ॥ १६ संधारणार्थं भूतानां मायैषा विश्वनिर्मिता । अनया मायया व्याप्तं त्रैलोक्यं सचराचरम् ॥ १७ विश्वेशो लोकरुद्देवः सहस्रांशुः प्रजापतिः । धाता कृत्स्नस्य लोकस्य प्रभुर्विष्णुर्दिवाकरः ॥ १८ सार्वलौकिकमम्भो वै यत्सोमान्नभसश्च्युतम् । सोमाधारं जगत्सर्वमेतत्तथ्यं प्रकीर्तितम् ॥ १९ सूर्यादुष्णं निस्रवते सोमाच्छीतं प्रवर्तते । शीतोष्णवीर्यौ द्वावेतौ युक्तौ धारयतो जगत् ॥ २० सोमाधारा नदी गङ्गा पवित्रा विमलोदका । सोमपुत्रपुरोगाश्च महानद्यो द्विजोत्तमाः ॥ २१ सर्वभूतशरीरेषु आपो ह्यनुगताश्च याः । तेषु संदह्यमानेषु जङ्गमस्थावरेषु च ॥ धूमभूतास्तु ता आपो निष्क्रामन्तीह सर्वशः ॥ २३
| १६४ | श्रीमद्द्वैपायनमुनिप्रणीतम्- | [अ० ५१ श्लो० २३-४६] |
|---|---|---|
| (ज्योतिष्प्रचारः) |
तेन चाभ्राणि जायन्ते स्थानमत्राम्भसां स्मृतम् । आर्कं तेजो हि भूतेभ्यो ह्यादत्ते रश्मिभिर्जलम् ॥ २३
समुद्राद्वायुसंयोगाद्वहन्त्यापो गभस्तयः । यतस्त्वृतुवशात्काले परिवर्तो दिवाकरः ॥ २४
यच्छत्यपो हि मेघेभ्यः शुक्लाः शुक्लगभस्तिभिः ॥
अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः । सर्वभूतहितार्थाय वायुभिश्च समन्ततः ॥ २५
ततो वर्षति षण्मासान्सर्वभूतविवृद्धये । वायव्यं स्तनितं चैव वैद्युतं चाभिसंभवम् ॥ २६
मेहनाच्च मिहेर्धातौर्मेघत्वं व्यञ्जयन्ति च । न अश्यन्ति यतस्वापस्तदभ्रं कवयो विदुः ॥ २७
मेघानां पुनरुत्पत्तिस्त्रिविधा योनिरुच्यते । आग्नेया ब्रह्मजाश्चैव पक्षजाश्च पृथग्विधाः ॥ २८
त्रिधा घनाः समाख्यातास्तेषां वक्ष्यामि संभवम् ॥
आग्नेयास्त्वर्णजाः प्रोक्तास्तेषां तस्मात्प्रवर्तनम् । शीतदुर्दिनवाता ये स्वगुणास्ते व्यवस्थिताः ॥ २९
महिषाश्च वराहाश्च मत्तमातङ्गगामिनः । भूत्वा धरणिमभ्येत्य विचरन्ति रमन्ति च ॥ ३०
जीमूता नाम ते मेघा एतेभ्यो जीवसंभवाः । विद्युद्गुणविहीनाश्च जलधाराविलम्बिनः ॥ ३१
मूका घना महाकाया आवहस्य वशानुगाः । क्रोशमात्राथ वर्षन्ति क्रोशार्धादपि वा पुनः ॥ ३२
पर्वतग्रानितम्बेषु वर्षन्ति च रमन्ति च । बलाकागर्भदाश्चैव बलाकागर्भधारिणः ॥ ३३
ब्रह्मजा नाम ते मेघा ब्रह्मनिश्वाससंभवाः । ते हि विद्युद्गुणोपेताः स्तनयन्ति स्वनप्रियाः ॥ ३४
तेषां शब्दप्रणादेन भूमिः स्वाङ्गरुहोद्गमा । राज्ञी राज्ञाभिषिकेव पुनर्यौवनमश्नुते ॥ ३५
तेष्वियं प्रीतिमासक्ता भूतानां जीवितोद्भवा ॥
जीमूता नाम ते मेघा येभ्यो जिवस्य संभवाः । द्वितियं प्रवहं वायुं मेघास्ते तु समाश्रिताः ॥ ३६
एते योजनमात्राच्च सार्धार्धात्रिष्कृतादपि । वृष्टिसर्गतस्तथा तेषां धारासाराः प्रकीर्तिताः ॥ ३७
पुष्करावर्तका नाम ये मेघाः पक्षसंभवाः ॥
शकेण पक्षाश्छिन्ना ये पर्वतानां महौजसाम् । कामगानां प्रवृद्धानां भूतानां शिवमच्छता ॥ ३८
पुष्करा नाम ते मेघा बृहन्तस्तोयमत्सराः । पुष्करावर्तकास्तेन कारणेनेह शब्दिताः ॥ ३९
नानारूपधराश्चैव महाघोरतराश्च ते । कल्पान्तवृष्टेः स्रष्टारः संवर्ताग्नेर्नियामकाः ॥ ४०
वर्षन्त्येते युगान्तेषु तृतीयास्ते प्रकीर्तिताः । अनेकरूपसंस्थानाः पूरयन्तो महीतलम् ॥ ४१
वायुं परं वहन्तः स्युराश्रिताः कल्पसाधकाः ॥
यान्यस्याण्डकपालस्य प्राकृतस्याभवंस्तदा । तस्माद्गत्वा समुत्पन्नाश्चतुर्वक्त्रः स्वयंभुवः ॥ ४२
तान्येवाण्डकपालस्य सर्व मेघाः प्रकीर्तिताः ॥
तेषामाप्यायनं धूम सर्वेषामविशेषतः । तेषां श्रेष्ठस्तु पर्जन्यश्चत्वारश्चैव दिग्गजाः ॥ ४३
गजानां पर्वतानां च मेघानां भोगिभिः सह । कुलमेकं पृथग्भूतं योनिरैका जले स्मृतम् ॥ ४४
पर्जन्यो दिग्गजाश्चैव हेमन्ते शीतसंभवाः । तुषारवृष्टिं वर्षन्ति सर्वसस्यविवृद्धये ॥ ४५
श्रेष्ठः परिवहो नाम तेषां वायुरपाश्रयः । योऽसौ बिभर्ति भगवान्गङ्गामाकाशगोचराम् ॥ ४६
दिव्यामृतजलां पुण्यां त्रिधा स्वर्गपथे स्थिताम् ॥
[अ० ५१ श्लो० ४७-७३] वायुपुराणम् १६५ । (ज्योतिष्प्रचारः) ।
तस्याविष्यन्दजं तोयं दिग्गजाः पृथुभिः करैः। शीकरं संप्रमुञ्चन्ति नीहार इति स स्मृतः॥ ४७ दक्षिणेन गिरेर्योऽसौ हेमकूट इति स्मृतः। उदग्धिमवतः शैलादुत्तरस्य च दक्षिणे ॥ ४८ पुण्डूं नाम समाख्यातं नगरं तत्र वै स्मृतम्। तस्मान्निपतितं वर्षं यत्तुषारसमुद्भवं। ततस्तदावहो वायुर्हिमशैलात्समुद्वहन् ॥ आनयत्यात्मयोगेन सिञ्चमानो महागिरिम् ॥ ४९ हिमवन्तमतिक्रम्य वृष्टिशेषं ततः परम्। इहाभ्येति ततः पश्चादपरान्ताविवृद्धये ॥ ५० मेघावा(च्चाऽऽ)प्यायनं चैव सर्वमेतत्प्रकीर्तितम्। सूर्य एव तु वृष्टीनां स्रष्टा समुपदिश्यते ॥ ५१ ध्रुवेणाऽऽवेष्टितां सूर्यस्ताभ्यां वृष्टिः प्रवर्तते। ध्रुवेणाऽऽवेष्टितो वायुर्वृष्टिं संहरते पुनः॥ ५२ ग्रहान्निःसृत्य सूर्यात्तु कृत्स्ने नक्षत्रमण्डले। वारस्यान्ते विशत्यर्कं ध्रुवेण परिवेष्टितम् ॥ ५३ अतः सूर्यरथस्याथ संनिवेशं निबोधत। संस्थितेनैकचक्रेण पञ्चारेण त्रिनाभिना ॥ ५४ हिरण्मयेन भगवान्पर्वणा तु महौजसा। नष्टवर्त्माऽन्धकारेण षट्प्रकारैकनेमिना ॥ चक्रेण भास्वता सूर्यः स्यन्दनेन प्रसर्पति ॥ ५५ दशयोजनसाहस्रो विस्तारायामतः स्मृतः। द्विगुणोऽस्य रथोऽपस्थादीषादण्डप्रमाणतः॥ ५६ स तस्य ब्रह्मण सृष्टो रथो ह्यर्थवशेन तु। असङ्गः काञ्चनो दिव्यो युक्तः परमगैर्हयैः ॥ ५७ छन्दोभिर्वाजिरूपैस्तु यतः शुक्रस्ततः स्थितः। वरुणस्यन्दनस्येह लक्षणैः सदृशस्तु सः॥ तेनासौ सर्पति व्योम्नि भास्वता तु दिवाकरः॥ ५८ अथैमानि तु सूर्यस्य प्रत्यङ्गानि रथस्य तु। संवत्सरस्यावयवैः कल्पितानि यथाक्रमम् ॥ ५९ अहस्तु नाभिः सूर्यस्य एकचक्रः स वै स्मृतः। आराः पञ्चर्तवस्तस्य नेमिः षडृतवः स्मृताः॥ ६० रथनीडः स्मृतो ह्यब्दस्त्वयने कूबरावुभौ। मुहूर्त्ता बन्धुरास्तस्य शम्या तस्य कलाः स्मृताः॥ ६१ तस्य काष्ठाः स्मृता घाणा ईषादण्डः क्षणास्तु वै। निमेषाश्चानुकर्षोऽस्य ईषा चास्य लवाः स्मृताः॥ ६२ रात्रिवरूथ्यो धर्मोऽस्य ध्वज ऊर्ध्वः समुच्छ्रितः। युगाक्षकोटी ते तस्य अर्थकामावुभौ स्मृतौ ॥ ६३ सप्ताश्वरूपाच्छन्दांसि वहन्ते वामतो धुरम्। गायत्री चैव त्रिष्टुप् च अनुष्टुब्जगती तथा ॥ ६४ पङ्क्तिश्च बृहती चैव उष्णिक्चैव तु सप्तमम्। अक्षे चक्रं निबद्धं तु ध्रुवे त्वक्षः समर्पितः॥ ६५ सहचक्रो भ्रमत्यक्षः सहाक्षो भ्रमति ध्रुवः। अक्षः सहैव चक्रेण भ्रमतेऽसौ ध्रुवेरितः ॥ ६६ एवमर्थवशात्तस्य संनिवेशो रथस्य तु। तथा संयोगभागेन संसिद्धो भास्वरो रथः ॥ ६७ तेनासौ तरणिर्देवस्तरसा सर्पते दिवि। युगाक्षकोटिसंबद्धौ रश्मी द्वौ स्यन्दनस्य हि ॥ ६८ ध्रुवेण भ्रमतौ रश्मी विचक्रयुगयोस्तु वै। भ्रमतो मण्डलानि स्युः खेचरस्य रथस्य तु ॥ ६९ युगाक्षकोटी ते तस्य दक्षिणे स्यन्दनस्य तु। ध्रुवेण संगृहीते वै द्विचकश्वेतरज्जुवत् ॥ ७० भ्रमन्तमन्वगच्छेतां ध्रुवं रश्मी तु तावुभौ। युगाक्षकोटी ते तस्य वातोर्मी स्यन्दनस्य तु ॥ ७१ कीलासक्तौ यथा रज्जुर्भ्रमेते सर्वतोदिशम्। ह्रसतस्तस्य रश्मी तौ मण्डलेषूत्तरायणे ॥ ७२ वर्धते दक्षिणे चैव भ्रमतो मण्डलानि तु। ध्रुवेण संगृहीतौ तु रश्मी वै नयतो रविम् ॥ ७३
१६६ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ० ५१-५२ श्लो० ७४-७६-१-२१] ( ज्योतिषप्रचारः )
आकृष्येते यदा तौ वै ध्रुवेण समधिष्ठितौ । तदा सोऽभ्यन्तरं सूर्यो भ्रमते मण्डलानि तु ॥ ७४ अशीतिमण्डलशतं काष्ठयोरुभयोश्चरन् । ध्रुवेण मुच्यमानाभ्यां रश्मिभ्यां पुनरेव तु ॥ ७५ तथैव बाह्यतः सूर्यो भ्रमते मण्डलानि तु । उद्देष्टयन् स वेगेन मण्डलानि तु गच्छति ॥ ७६ इति श्रीमहापुराणे वायुप्रोक्तेऽनुषङ्गपादे ज्योतिषप्रचारो नामैकापञ्चाशोऽध्यायः ॥ ५१ ॥ आदितः श्लोकानां समष्ट्यङ्काः-३९३०
अथ द्विपञ्चाशोऽध्यायः । ज्योतिष्प्रचारः ।
सूत उवाच-- स रथोऽधिष्ठितो देवैरादित्यैर्ऋषिभिस्तथा । गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पर्राक्षसैः ॥ १ एते वसन्ति वै सूर्ये द्वौ द्वौ मासौ क्रमण तु । धाताऽर्यमा पुलस्त्यश्च पुलहश्च प्रजापतिः ॥ २ उरगो वासुकिश्चैव संकीर्णारश्च तावुभौ । तुम्बुरुर्नारदश्चैव गन्धर्वौ गायतां वरौ ॥ ३ ऋतुस्थत्यप्सराश्चैव तथा वै पुञ्जिकस्थला । ग्रामणी रथकृच्छ्रश्च तथोर्जश्चैव तावुभौ ॥ ४ रक्षो हेतिः प्रहेतिश्च यातुधानावुदाहृतौ । मधुमाधवयोरेष गणो वसति भास्करे ॥ ५ वासन्तौ ग्रैष्मिकौ मासौ मित्रश्च वरुणश्च ह । ऋषिरत्रिर्वशिष्ठश्च तक्षको रम्भ एव च ॥ ६ मेनका सहजन्या च गन्धर्वौ च हहा हहूः । रथस्वनश्च ग्रामण्यौ रथचित्रश्च तावुभौ ॥ ७ पौरुषेयो वधश्चैव यातुधानावुदाहृतौ । एते वसन्ति वै सूर्ये मासयोः शुचिशुक्रयोः ॥ ८ ततः सूर्ये पुनस्त्वन्या निवसन्तीह देवताः । इन्द्रश्चैव विवस्वांश्च अङ्गिरा भृगुरेव च ॥ ९ एलापर्णस्तथा सर्पः शङ्खपालश्च तावुभौ । विधावसुस्सेनौ च मातशचैवारुणश्च ह ॥ १० प्रम्लोचेति च विख्याता निम्लोचेति च ते उभे । यातुधानस्तथा सर्पो व्याघ्रः श्वतश्च तावुभौ नभोनभस्ययोरेष गणो वसति भास्करे ॥ ११ शरदृतौ पुनः शुभ्रा वसन्ति मुनिदेवताः । पर्जन्यश्चाथ पूषा च भरद्वाजः सगौतमः ॥ १२ विश्वावसुश्च गन्धर्वास्तथैव सुरमिश्च यः(या) । विश्वाची वा घृताची च उभे ते शुभलक्षणे ॥ १३ नाग ऐरावतश्चैव विश्रुतश्च धनंजयः । सेन(ना)जिच्च सुषेणश्च सेनानीर्ग्रामणीश्च तौ ॥ १४ आपो वातश्च तावेतौ यातुधानावुभौ स्मृतौ । वसन्त्येते तु वै सूर्ये मासयोश्च इषोर्जयाः ॥ १५ हैमन्तिकौ तु द्वौ मासौ वसन्ति तु दिवाकरे । अंशो भगश्च दावेतौ कश्यपश्च ऋतुश्च ह ॥ १६ भुजङ्गश्च महापद्मः सर्पः कर्कोटकस्तथा । चित्रसेनश्च गन्धर्व ऊर्णायुश्चैव तावुभौ ॥ १७ उर्वशी विप्रचित्तिश्च तथैवाप्सरसौ शुभे । तार्थ्यश्चारिष्टनेमिश्च सेनानीर्ग्रामणीश्च तौ ॥ १८ विद्युत्स्फूर्जश्च तावुग्रौ यातुधानावुदाहृतौ । सहै चैव सहस्ये च वसन्त्येते दिवाकरे ॥ १९ ततः शैशिरयोश्चापि मासयोर्निवसन्ति वै । त्वष्टा विष्णोर्जमदग्निर्विश्वामित्रस्तथैव च ॥ २० काद्रवेयौ तथा नागौ कम्बलाश्वतरावुभौ । गन्धर्वौ धृतराष्ट्रश्च सूर्यवर्चास्तथैव च ॥ २१
[अ०५२ श्लो० २२-४३] वायुपुराणम् १६७
(ज्योतिष्प्रचारः)
तिलोत्तमाप्सराश्चैव देवी रम्भा मनोरमा । ऋतजित्सत्यजिच्चैव ग्रामण्यौ लोकविश्रुतौ ॥ २२
बलोपेतस्तथा दक्षो मज्ञोपेतश्च स स्मृतः । एते देवा वसन्त्यर्के द्वौ मासौ तु क्रमेण तु ॥ २३
स्थानाभिमानिनो ह्येते गणा द्वादश सप्तकाः । सूर्यमाप्याययन्त्येते तेजसा तेज उत्तमम् ॥ २४
प्रथितैस्तैर्वचोभिस्तु स्तुवन्ति मुनयो रविम् । गन्धर्वाप्सरसश्चैव गीतनृत्यैरुपासते ॥ २५
ग्रामणीयक्षभूतास्तु कुर्वते भीमसंग्रहम् । सर्पा वहन्ति सूर्यं च यातुधाना*नुयान्ति च ॥
बालखिल्या नयन्त्यस्तं परिचार्योदयाद्दिवम् ॥ २६
एतेषामेव देवानां यथावीर्यं यथातपः । यथायोगं यथासत्वं यथाधर्मं यथाबलम् ॥ २७
यथा तपत्यसौ सूर्यस्तेषां सिद्धस्तु तेजसा । इत्येते वै वसन्तीह द्वौ द्वौ मासौ दिवाकरे ॥ २८
ऋषयो देवगन्धर्वाः पन्नगाप्सरसां गणाः । ग्रामण्यश्च तथा यक्षा यातुधानाश्च भूयशः ॥ २९
एते तपन्ति वर्षन्ति भान्ति वान्ति सृजन्ति च । भूतानामशुभं कर्म व्यपोहन्तीह कीर्तिताः ॥ ३०
मानवानां शुभं ह्येते हरन्ति दुरितात्मनाम् । दुरितं हि प्रचाराणां व्यपोहन्ति क्वचित्क्वचित् ॥ ३१
विमानेऽवस्थिता दिव्ये कामगा वातरंहसः । एते सहैव सूर्येण भ्रमन्ति दिवसानुगाः ॥ ३२
वर्षन्तश्च तपन्तश्च ह्लादयन्तश्च वै प्रजाः । गोपायन्ति तु भूतानि सर्वाणीहाऽऽमनुक्षयात् ॥ ३३
स्थानाभिमानिनामेतत्स्थानं मन्वन्तरेषु वै । अतीतानागतानां वै वर्तन्ते सांप्रतं तु ये ॥ ३४
एवं वसन्ति वै सूर्ये समकास्ते चतुर्दिशम् । चतुर्दशसु सर्गेषु गणा मन्वन्तरेषु च ॥ ३५
ग्रीष्मे हिमे च वर्षासु च मुञ्चमानो घर्मं हिमं च वर्षं च दिनं निशां च ॥
कालेन गच्छत्यूतुवशात्परिवृत्तरश्मिर्दे*वान्पितॄंश्च मनुजांश्च स तर्पयन्वै ॥ ३६
प्रीणाति देवानमृतेन सूर्यः सोमं सुषुम्नेन विवर्धयित्वा ।
शुक्ले तु पूर्णे दिवसक्रमेण तं कृष्णपक्षे विबुधाः पिबन्ति ॥ ३७
पीतं तु सोमं द्विकलावशिष्टं कृष्णक्षये रश्मिभिस्तं क्षरन्तम् ॥
स्वधामृतं तत्पितरः पिबन्ति देवाश्च सौम्याश्च तथैव कव्यम् ॥ ३८
सूर्येण गोभिस्तु समुद्धृताभिरद्भिः पुनश्चैव समुद्धृताभिः ।
वृष्ट्याऽतिवृद्धाभिरथौषधीभिर्मर्त्याः क्षुधं त्वन्नपानैर्जयन्ति ॥ ३९
अमृतेन तृप्तिरर्धमासं सुराणां मासार्धतृप्तिः स्वधया पितॄणाम् ।
अन्नेन शश्वत्तु दधाति मर्त्याः सूर्यः स्वयं तच्च बिभर्ति गोभिः ॥ ४०
अयं हरिस्तैर्हरिभिस्तुरंगमैरपामिह चापो हरतीति रश्मिभिः ।
विसर्गकाले विसृजंश्च ताः पुनर्बिभर्ति शश्वत्सविता चराचरम् ॥ ४१
हरीरिद्भिर्ह्रियते तुरङ्गमौः पिबत्यथापो हरिभिः सहस्रधा ।
ततः प्रमुञ्चत्यपि तास्त्वसौ हरिः समुह्यमानो हरिभिस्तुरंगमैः ॥ ४२
इत्येष एकचक्रेण सूर्यस्तूर्णं रथेन तु । भद्रैस्तैरक्षतैरश्वैः सर्पतेऽसौ दिवि क्षये ॥ ४३
* अत्र संधिराषर्ः ।
१६८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०५२-श्लो०४४-६५] (ज्योतिष्प्रचारः)
अहोरात्राद्रथेनाऽसौ एकचक्रेण तु भ्रमन् । सप्तद्वीपसमुद्रांश्च सप्तभिः सप्तभिर्हयैः ॥ ४४ छन्दोभिरश्वरूपैस्तैर्युतश्चक्रं ततः स्थितैः । कामरूपैः सकृद्युक्तैर्मितैस्तैर्मनोजवैः ॥ ४५ हरितैरव्ययैः पिङ्गैरैश्वरैर्बलवादिभिः । अशीतिमण्डलशतं भ्रमन्त्यब्देन ते हयाः ॥ ४६ बाह्यमभ्यन्तरं चैव मण्डलं दिवसक्रमात् । कल्पादौ संप्रयुक्तास्ते वहन्त्याभूतसंप्लवात् ॥ आवृत्ता वालखिल्यैस्ते भ्रमन्ते रात्र्यहाणि तु ॥ ४७ प्रथितैर्वचोभिरन्यैः स्तूयमानो महर्षिभिः । सेव्यते गीतनृत्यैश्च गन्धर्वैरप्सरोगणैः ॥ पतङ्गः पतगैरश्वैर्भ्रममाणो दिवस्पतिः ॥ ४८ वीथ्याश्रयाणि चरति नक्षत्राणि तथा शशी । ह्रासवृद्धी तथैवास्य रश्मीनां सूर्यवत्स्मृते ॥ ४९ त्रिचक्रोभयपार्श्वस्थो विज्ञेयः शशिनो रथः । अपां गर्भसमुत्पन्नो रथः सार्श्वः ससारथिः ॥ शतारैश्च त्रिभिश्चक्रैर्युक्तः शुक्लैर्हयोत्तमैः ॥ ५० दशाभिस्तु कुशार्द्रैण्यरसङ्गैस्तैर्मनोजवैः । सकृद्युक्ते रथे तस्मिन्वहन्ते चाऽऽयुगक्षयात् ॥ ५१ संगृहीतो रथे तस्मिन्श्वेतचक्षुःश्रवास्तु वै । अश्वास्तमेकवर्णास्ते वहन्ते शङ्खवर्चसम् ॥ ५२ ययुश्च त्रिनाश्चैव वृषो राजीवलो हयः । अथो वामस्तुरण्यश्च हंसो व्योमी मृगस्तथा ॥ ५३ इत्येते नामाभिः सर्वे दश चन्द्रमसो हयाः । एते चन्द्रमसं देवं वहन्ति दिवसक्षयात् ॥ ५४ दैवैः परिवृतः सोमः पितृभिश्चैव गच्छति । सोमस्य शुक्लपक्षादौ भास्करे पुरतः स्थिते ॥ आपूर्यते पुरस्यान्तः सततं दिवसक्रमात् ॥ ५५ दैवैः पीतं क्षये सोममाप्याययति नित्यदा । पीतं पञ्चदशाहं तु रश्मिनेकेन भास्करः ॥ ५६ अपूरयन्सुषुम्नेन भागं भागमहःक्रमात् । सुषुम्नाप्यायमानस्य शुक्ला वर्धन्ति वै कलाः ॥ ५७ तस्माच्छ्रसन्ति वै कृष्णे शुक्लु आप्याययन्ति च । इत्येवं सूर्यवीर्येण चन्द्रस्याऽऽप्यायिता तनुः ॥ ५८ पौर्णमास्यां स दृश्येत शुक्लः संपूर्णमण्डलः । एवमाप्यायितः सोमः शुक्लपक्षे दिनक्रमात् ॥ ५९ ततो द्वितीयाप्रभृति बहुलस्य चतुर्दशी । अपां सारमयस्येन्दो रसमात्रामकस्य च ॥ पिबन्त्यम्बुमयं देवा मधु सौम्यं सुधामयम् ॥ ६० संभृतं चार्धमासेन अमृतं सूर्यतेजसा । भक्षार्थममृतं सौम्यं पौर्णमास्यामुपासते ॥ ६१ एकरात्रं सुरैः सर्वैः पितृभिश्च महर्षिभिः । सोमस्य कृष्णपक्षादौ भास्कराभिमुखस्य च ॥ प्रक्षीयते परस्यान्तः पीयमानाः कलाः क्रमात् ॥ ६२ (*त्रयश्च त्रिंशतं चैव त्रयस्त्रिंशत्तथैव च । त्रयस्त्रिंशत्सहस्त्राश्च देवाः सोमं पिबन्ति वै ॥ ६३ इत्यतैः पीयमानस्य कृष्णा वर्धन्ति वै कलाः) । +क्षीयन्ते तस्मात्कृष्णे या शुक्ले ह्याप्याययन्ति ताः ॥ एवं दिनक्रमातीते विबुधास्तु निशाकरम् । पीत्वाऽर्धमासं गच्छन्ति अमावास्यां सुरोत्तमाः ॥ पितरश्चोपतिष्ठन्ति अमावास्यां निशाकरम् ॥ ६५
* धनुश्चिह्नान्तर्गतग्रन्थः क. ग. पुस्तकेयोर्नास्ति । + एतदर्थस्थान इदमर्धं वर्तते-क्षीयान्ति तस्माच्छुक्ला या कृष्णा ह्याप्याययन्ति च ।
ततः पञ्चदशे भागे किंचिच्छिष्टे कलात्मके । अपराह्ने पितृगणैर्जघन्यः पर्युपास्यते ॥ ६६
| [अ० ५२ - श्लो० ६६-८८] | वायुपुराणम् । | १६९ |
|---|
( ज्योतिषप्रचारः )
ततः पञ्चदशे भागे किंचिच्छिष्टे कलात्मके । अपराह्ने पितृगणैर्जघन्यः पर्युपास्यते ॥ ६६
पिवन्ति द्विकलं कालं शिष्टा तस्य तु या कला । निःसृतं तदमावास्यां गभस्तिभ्यः स्वधामृतम् ॥
तां स्वधां मासतृप्त्यै तु पीत्वा गच्छन्ति तेऽमृतम् ॥ ६६
सौम्या बर्हिषदश्चैव अग्निष्वात्तास्तथैव च । कव्याश्चैव तु ये प्रोक्ताः पितरः सर्व एव ते ॥ ६७
संवत्सरास्तु वै कव्याः पञ्चाब्दा ये द्विजैः स्मृताः । सौम्यास्तु ऋतवो ज्ञेया मासा बर्हिषदः स्मृताः ।
अग्निष्वात्ता(त्त)र्तवश्चैव पितृसर्गा हि वै द्विजाः ॥ ६८
पितृभिः पीयमानस्य पञ्चदश्यां कला तु वै । यावन्न क्षीयते तस्य भागः पञ्चदशस्तु सः ॥ ६९
अमावास्यां तदा तस्य अन्तमापूर्यते परम् । वृद्धिक्षयौ वै पक्षादौ षोडश्यां शशिनः स्मृतौ ॥ ७०
एवं सूर्यनिमित्तेषां क्षयवृद्धिर्निशाकरे । ताराग्रहाणां वक्ष्यामि स्वर्भानोश्च रथं पुनः ॥ ७१
तोयतेजोमयः शुभ्रः सोमपुत्रस्य वै रथः । युक्तो हयैः पिशङ्गैरस्तु अष्टाभिर्वातरंहसैः ॥ ७२
सवरूथः सानुकर्षः सूतो दिव्यो रथे महान् । सोपासङ्गपताकस्तु सध्वजो मेघसंनिभः ॥ ७३
भार्गवस्य रथः श्रीमांस्तेजसा सूर्यसंनिभः । पृथिवीसंभवैर्युक्तैर्नानावर्णैर्हयोत्तमैः ॥ ७४
श्वेतः पिशङ्गः सारङ्गो नीलः पीतो विलोहितः । कृष्णश्च हरितश्चैव पृषतः पृश्निरेव च ॥
दशभिस्तैर्महाभागैरूश्वैर्वांतवेगितैः ॥ ७५
अष्टाश्वः काञ्चनः श्रीमान्सोमस्यापि रथोऽभवत् । असङ्गलैर्लोहितैरश्वैः सर्वगैरग्निसंभवैः ॥ ७६
सर्पतेऽसौ कुमारो वै ऋजुवक्रानुचक्रगः ॥ ७७
तवस्त्वाङ्गिरसो विद्वान्देवान्वाचार्यो बृहस्पतिः । शोणैरश्वैः काञ्चनेन स्यन्दनेन प्रसर्पति ॥ ७८
युक्तस्तु वाजिभिर्दिग्यैरष्टाभिर्वातसंमितैः । नक्षत्रेऽब्दे निवसति सर्वगस्तेन गच्छति ॥ ७९
ततः शनैश्चरोऽप्यश्वैः शवलैर्व्योमसंभवैः । कार्ष्णायसं समारुह्य स्पन्दनं याति वै शनैः ॥ ८०
स्वर्भानोस्तु तथैवाश्वाः कृष्णा ह्यष्टौ मनोजवाः । रथं तमोमयं तस्य सकृद्युक्ता वहन्त्युत ॥ ८१
आदित्यान्निःसृष्टा राहुः सोमं गच्छति पर्वसु । आदित्यमेति सोमाच्च पुनः सौरेषु पर्वसु ॥ ८२
अथ केतुरथस्याथा अष्टाष्टौ वातरंहसः । पलालधूमसंकाशाः शबला रासभाारुणाः ॥ ८३
एते वाहा ग्रहाणां वै मया प्रोक्ता रथैः सह । सर्वे ध्रुवनिबद्धास्ते प्रबद्धा वातरश्मिभिः ॥ ८४
एते वै भ्राम्यमानास्तु यथायोगे भ्रमन्ति वै । वायव्याभिरदृश्याभिः प्रबद्धा वातरश्मिभिः ॥ ८४
परिक्रमन्ति तद्वद्धाश्चन्द्रसूर्यग्रहा दिवि । भ्रमन्तमनुगच्छन्ति ध्रुवं ते ज्योतिषां गणाः ॥ ८५
यथा नद्युदके नौस्तु सलिलेन सहोह्यते । तथा देवालया ह्येते उह्यन्ते वातरश्मिभिः ॥
तस्मात्सर्वेण दृश्यन्ते व्योम्नि देवगणास्तु ते ॥ ८६
यावत्यश्चैव तारास्तु तावन्तो वातरश्मयः । सर्वा ध्रुवनिबद्धास्ता भ्रमन्त्यो भ्रामयन्ति तम् ॥ ८७
तैलपीडाकरं चक्रं भ्रमामभ्रद्यते यथा । तथा भ्रमन्ति ज्योतींषि वातबद्धानि सर्वशः ॥ ८८
२२
१७० श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ५२-५३ श्लो० ८९-९९।१-८] (ज्योतिःसंनिवेशः)
अलातचक्रवद्यान्ति वातचक्रेरितानि तु । यस्माज्ज्योतींषि वहते प्रवहंस्तेन स स्मृतः ॥ ८९ एवं ध्रुवनिबद्धोऽसौ सर्पते ज्योतिषां गणः । सैष तारामयो ज्ञेयः शिशुमारो ध्रुवो दिवि । यदह्ना कुरुते पापं दृष्ट्वा तं निशि मुच्यते ॥ ९० यावत्यश्चैव तारास्ताः शिशुमाराश्रिता दिवि । तावन्त्येव तु वर्षाणि जीवन्त्यभ्यधिकानि तु ॥ ९१ शाश्वतः शिशुमारोऽसौ विज्ञेयः प्रविभागतः । उत्तानपादस्तस्याथ विज्ञेयो ह्युत्तरो हनुः ॥ ९२ यज्ञोऽधरस्तु विज्ञेयो धर्मो मूर्धानमाश्रितः । हृदि नारायणः साध्य(ध्या) अश्विनौ पूर्वपादयोः ॥ ९३ वरुणश्चार्यमा चैव पश्चिमे तस्य सक्थिनी । शिश्नः संवत्सरस्तस्य मित्रोऽपाने समाश्रितः ॥ ९४ पुच्छेऽग्निश्च महेन्द्रश्च मरीचिः कश्यपो ध्रुवः । तारकाः शिशुमारश्च नास्तमेति चतुष्टयम् ॥ ९५ नक्षत्रचन्द्रसूर्याश्च ग्रहस्तारागणैः सह । उन्मुखाभिमुखाः सर्वे चक्रीभूताश्रिता दिवि ॥ ९६ ध्रुवेणाधिष्ठिताः सर्वे ध्रुवमेव प्रदक्षिणम् । प्रयान्तीह वरं श्रेष्ठं मेढीभूतं ध्रुवं दिवि ॥ ९७ ध्रुवाग्निकश्यपानां तु वरश्चासौ ध्रुवः स्मृतः । स्मृतः एक एव भ्रमत्येष मेरुपर्वतमूर्धनि ॥ ९८ ज्योतिषां चक्रमैतद्धि सदा कर्षत्यवाङ्मुखः । मेरुमालोकयत्येष प्रयातिहि प्रदक्षिणम् ॥ ९९ इति श्रीमहापुराणे वायुप्रोक्ते ध्रुवचर्या नाम द्विपञ्चाशोऽध्यायः ॥ ५२ ॥ आदितः श्लोकानां समष्ट्यङ्काः-४०२९
अथ त्रिपञ्चाशोऽध्यायः । ज्योतिःसंनिवेशः ।
वैशम्पायन उवाच-- एतच्छ्रुत्वा तु मुनयः पुनस्ते संशयान्विताः । पप्रच्छुरुत्तरं भूयस्तदा ते लोमहर्षणम् ॥ १ ऋषय ऊचुः-- यदेतदुक्तं भवता गृहाण्येतानि विश्रुतम् । कथं देवगृहाणि स्युः कथं ज्योतींषि वर्णय ॥ २ एतत्सर्वं समाचक्ष्व ज्योतिषां चैव निश्चयम् । श्रुत्वा तु वचनं तेषां तदा सूतः समाहितः ॥ ३ अस्मिन्नर्थे महाप्राज्ञैर्यदुक्तं ज्ञानबुद्धिभिः । तद्वोऽहं संप्रवक्ष्यामि सूर्याचन्द्रमसोर्भवम् ॥ यथा देवगृहाणीह सूर्याचन्द्रमसोगृहम् ॥ ४ अतःपरं त्रिविधाभेर्वक्ष्येऽहं तु समुद्भवम् । दिव्यस्य भौतिकस्याग्नेराप्याग्नेः पार्थिवस्य च ॥ ५ व्युष्टायां तु रजन्यां वै ब्राह्मणोऽव्यक्तजन्मनः । [* अव्याकृतमिदं त्वासीन्निशेन तमसाऽऽवृतम् ॥ ६ चतुर्भूतावशिष्टेऽस्मिन्पार्थिवः सोऽग्निरुच्यते । यश्चाऽऽदौ तपते सूर्ये शुचिराग्निस्तु स स्मृतः] ॥ ७ वैद्युताख्यस्तु विज्ञेयस्तेषां वक्ष्येऽथ लक्षणम् । वैद्युतो जाठरः सौरो ह्यपां गर्भाख्योऽग्नयः ॥ तस्मादपः पिवन्सूर्यो गोभिर्दीप्यत्यसौ दिवि ॥ ८
* धनुश्चिह्नान्तर्गतग्रन्थः ख. ग. पुस्तकयोर्नास्ति ।
[अ०श्लो० ५३-९-३१] वायुपुराणम् १७१
(ज्योतिःसंनिवेशः )
वैद्युतेन समाविष्टो वार्क्षो नाद्भिः प्रशाम्यति । मानवानां च कुक्षिस्थो नाद्भिः शाम्यति पावकः ॥ ९
अर्चिष्मान्परमः सोऽग्निः प्रभवो जाठरः स्मृतः । यश्चायं मण्डली शुक्लो निरूष्मा संप्रकाशते ॥ १०
प्रभा हि सौरी पादेन ह्यस्तं याति दिवाकरे । अग्निमाविशते रात्रौ तस्माद्दूरात्प्रकाशते ॥ ११
उद्यन्तं च पुनः सूर्यमौष्ण्यमाग्रेयमाविशत् । पादेन पार्थिवस्याग्नेस्तस्मादग्निस्रतपत्यसौ ॥ १२
प्रकाशश्च तथौष्ण्यं च सौराग्नेये तु तेजसी । परस्परानुप्रवेशादाप्यायेते दिवानिशम् ॥ १३
उत्तरं चैव भूम्यर्धे तस्मादस्मिंश्च दक्षिणे । उत्तिष्ठति पुन सूर्ये रात्रिराविशते त्वपः ॥
तस्मान्ताम्रा भवन्त्यापो दिवारात्रिप्रवेशनात् ॥ १४
अस्तं याति पुनः सूर्ये अहर्वै प्रविशत्यपः । तस्मान्नक्तं पुनः शुक्ला आपो विशन्ति भास्करे ॥ १५
एतेन क्रमयोगेन(ण) भूम्यर्धे दक्षिणोत्तरे । उदयास्तमये नित्यमहोरात्रं विशत्यपः ॥ १६
यश्चासौ तपते सूर्ये पिबन्नम्भो गभस्तिभिः । पार्थिवो हि विमिश्रोऽसौ दिव्यः शुचिरिति स्मृतः॥१७
सहस्रपादः सोऽग्निस्तु वृत्तं कुम्भानिभः शुचिः । आदत्ते तत्तु रश्मीनां सहस्रेण समन्ततः ॥ १८
नादेयीश्चैव सामुद्रीः कौप्याश्चैव सधान्वनीः । स्थावरा जङ्गमाश्चैव यश्च सूर्या हिरण्मयः ॥
तस्य रश्मिसहस्रं तु वर्षशीतोष्णनिस्रवम् ॥ १९
तासां चतुःशता नाड्यो वर्षन्ति चित्रमूर्तयः । वन्दनाश्चैव वन्द्याश्च ऋतना नूतनास्तथा ॥
अमृता नामतः सर्वा रश्मयो वृष्टिसर्जनाः ॥ २०
हिमवाहाश्च ताभ्योऽन्या रश्मयस्त्रिशताः पुनः । दृश्या मेघ्याश्च वाद्याश्च ह्लादिन्यो हिमसर्जनाः॥ २१
चन्द्रास्ता नामतः सर्वाः पीताभास्तु गभस्तयः । शुक्लाश्च ककुभश्चैव गावो विश्वानुकर्षिका ॥ २२
शुक्लास्ता नामतः सर्वास्त्रिशता धर्मसर्जनाः । समं बिभर्ति नाभिस्तु मनुष्यपितृदेवताः ॥ २३
मनुष्यानौषधेनेह स्वधया च पितॄनपि । अमृतेन सुरान्सर्वांस्त्रींस्त्रिभिस्तर्पयत्यसौ ॥ २४
वसन्ते चैव ग्रीष्मे च स तैः सुतपते त्रिभिः । वर्षास्वथो शरदि च चतुर्भिः संपर्कर्षति ॥ २५
हेमन्ते शिशिरे चैव हिमं स सृजते त्रिभिः । ओषधीषु बलं धत्ते स्वधया च पितॄनपि ॥
सूर्योऽमरत्वममृतत्रयं त्रिषु नियच्छति ॥ २६
एवं रश्मिसहस्रं तत्सौरं लोकार्थसाधकम् । भिद्यते ऋतुमासाद्य जलशीतोष्णनिस्रवम् ॥ २७
इत्येतन्मण्डलं शुक्लं भास्करं सूर्यसंज्ञितम् । (*नक्षत्रग्रहसोमानां प्रतिष्ठा योनिरैव च ॥
ऋक्षचन्द्रग्रहाः सर्वे विज्ञेयाः सूर्यसंभवाः ॥ २८
नक्षत्राधिपतिः सोमो ग्रहराजो दिवाकरः । शेषाः पञ्च ग्रहा ज्ञेया ईश्वराः कामरूपिणः ॥ २९
पठ्यते चाग्निरादित्य उदकचन्द्रमाः स्मृतः । शेषाणां प्रकृतिं सम्यग्वर्ण्यमानां निबोधत ॥ ३०
सुरसेनापतिः स्कन्दः पठ्यतेऽङ्गारको ग्रहः । नारायणं बुधं प्राहुर्देवं ज्ञानविदो विदुः ॥ ३१
* धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति ।
१७२ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ०५३श्लो०३२-५५] (ज्योतिःसंनिवेशः)
रुद्रो वैवस्वतः साक्षाद्धर्मो लोके प्रभुः स्वयंम्। महाग्रहो द्विजश्रेष्ठो मन्दगामी शनैश्चरः ॥ ३२
देवासुरगुरू द्वौ तु भानुमन्तौ महाग्रहौ । प्रजापतिसुतावेतावुभौ शुक्रबृहस्पती ॥
दैत्यो महेन्द्रश्च तयोराधिपत्ये विनिर्मितौ ॥ ३३
आदित्यमूलमखिलं त्रिलोकं नात्र संशयः । भवत्यस्य जगत्कृत्स्नं संदेवासुरमानुषम् ॥ ३४
रुद्रेन्द्रोपेन्द्रचन्द्राणां विप्रेन्द्रास्त्रिदिवौकसाम् । द्युतिर्द्युतिमसां कृत्स्ना यत्तेजः सार्वलौकिकम् ॥ ३५
सर्वात्मा सर्वलोकेशो मूलं परमदैवतम् । ततः संजायते सर्वं तत्र चैव प्रलीयते ॥ ३६
भावाभावौ हि लोकानामादित्यान्निःसृतौ पुरा । जगज्ज्ञेयो ग्रहो विप्रा दीप्तिमान्सुग्रहो रविः ॥ ३७
यत्र गच्छन्ति निधनं जायन्ते च पुनः पुनः । क्षणा मुहूर्ता दिवसा निशाः पक्षाश्च कृत्स्नशः ॥
मासाः संवत्सराश्चैव ऋतवोऽब्दयुगानि च ॥ ३८
तदादित्यादृते तेषां कालसंख्या न विद्यते । कालादृते न निगमो न दीक्षा नाह्निकक्रमः ॥ ३९
ऋतूनामविभागश्च पुष्पमूलफलं कुतः । कुतः सस्याभिनिष्पत्तिर्गुणौषधिगणादि वा ॥ ४०
अभावो व्यवहाराणां देवानां दिवि चेह च । जगत्प्रतापनमृते भास्करं वारितस्करम् ॥ ४१
स एव कालश्वाभिश्च द्वादशात्मा प्रजापतिः । तपत्येष द्विजश्रेष्ठास्त्रैलोक्यं सचराचरम् ॥ ४२
स एष तेजसां राशिः समस्तः सार्वलौकिकः । उत्तमं मार्गमास्थाय वायोर्भाभिरिदं जगत् ॥
पार्थमूर्ध्वमधश्चैव तापयत्येष सर्वशः ॥ ४३
रवेरश्मिसहस्रं यत्प्राङ् मया समुदाहृतम् । तेषां श्रेष्ठाः पुनः सप्त रश्मयो ग्रहयोनयः ॥ ४४
सुषुम्नो हरिकेशश्च विश्वकर्मा तथैव च । विश्वश्रवाः पुनश्चान्यः संयत्सुद्भरतं परम् ॥
अर्वाग्वसुः पुनश्चान्यो मया चात्र प्रकीर्तितः ॥ ४५
सुषुम्नः सूर्यरश्मिस्तु क्षीणं शशिनमेधयन् । तिर्यगूर्ध्वप्रचारोऽसौ सुषुम्नः परिकीर्त्यते ॥ ४६
हरिकेशः पुरस्ताद्या ऋक्षयोनिः प्रकीर्त्यते । दक्षिणे विश्वकर्मा तु रश्मिवर्धयते बुधम् ॥ ४७
विश्वश्रवास्तु यः पश्चाच्छुक्रयोनिः स्मृताः बुधैः । संयद्वसुश्च यो रश्मिः सा योनिलोहितस्य तु ॥
षष्ठस्त्वर्वाग्वसू रश्मियोंनिस्तु स बृहस्पतेः । शनैश्चरं पुनश्चापि रश्मिराप्यायते स्वराट् ॥ ४९
एवं सूर्यप्रभावेन ग्रहनक्षत्रतारकाः । वर्धन्ते विदिताः सर्वा विश्वं चेदं पुनर्जगत् ॥
न क्षीयन्ते पुनस्तानि तस्मान्नक्षत्रता स्मृता ॥ ५०
क्षेत्राण्येतानि वै पूर्वमापतन्ति गभस्तिभिः । तेषां क्षेत्राण्यथाऽऽदत्ते सूर्यो नक्षत्रतां गतः ॥ ५१
तॄणिनां सुकृतेनेह सुकृतान्ते यहाश्रयात् । ताराणां तारका ह्येताः शुक्लत्वाच्चैव तारकाः ॥ ५२
दिव्यानां पार्थिवानां च नैशानां चैव सर्वशः । आदानान्नित्यमादित्यस्तमसां तेजसां महान् ॥ ५३
सुवति स्पन्दनार्थं च धातुरेष विभाव्यते । सवनात्तेजसोऽपां च तेनासौ सविता मतः ॥ ५४
षष्ठ्यर्थश्चन्द्र इत्येष ह्लादने धातुरिष्यते । शुक्लत्वे चामृतत्वे च शीतत्वे च विभाव्यते ॥ ५५
[ अ० ५३ श्लो० ५६-८१ ] वायुपुराणम् । १७३
( ज्योतिःसंनिवेशः )
सूर्याचन्द्रमसोर्द्दिव्ये मण्डले भास्वरे खगे । ज्वलत्तेजोमये शुक्ले वृत्तकुम्भनिभे शुभे ॥ ५६ घनतोयात्मकं तत्र मण्डलं शशिनः स्मृतम् । घनतेजोमयं शुक्लं मण्डलं भास्करस्य तु ॥ ५७ विशन्ति सर्वदेवास्तु स्थानान्येतानि सर्वशः । मन्वन्तरेषु सर्वेषु ऋक्षसूर्यग्रहाश्रयाः ॥ ५८ तानि देवगृहाण्येव तदाख्यास्ते भवन्ति च । ) सौरं सूर्यो विशः स्थानं सौम्यं सोमस्तथैव च ॥ ५९ शौक्रं शुक्रो विशः स्थानं षोडशार्चिः प्रतापवान् । बृहद्बृहस्पतिश्चैव लोहितं चैव लोहितः शनैश्चरं तथा स्थानं देवश्चैव शनैश्चरः ॥ ६० आदित्यरश्मिसंयोगात्संप्रकाशात्मिकाः स्मृताः । नवयोजनसाहस्रो विष्कम्भः सवितुः स्मृतः ॥ ६१ त्रिगुणस्तस्य विस्तारा मण्डलं च प्रमाणतः । द्विगुणः सूर्यविस्ताराद्विस्तारः शशिनः स्मृतः ॥ ६२ तुल्यस्तयोस्तु स्वर्भानुर्भूत्वाऽऽधस्तात्प्रसर्पति । उद्धृत्य पार्थिवच्छायां निर्मितो मण्डलाकृतिः ॥ ६३ स्वर्भानोस्तु बृहत्स्थानं निर्मितं यत्तमोमयम् । आदित्यात्तच्च निष्क्रम्य सोमं गच्छति पर्वसु ॥ ६४ आदित्यमेति सोमाच्च पुनः सोमं च पर्वसु । स्वर्भासा नुदते यस्मात्ततः स्वर्भानुरुच्यते ॥ ६५ चन्द्रस्य षोडशो भागो भार्गवश्च विधीयते । निष्कम्भान्मण्डलाच्चैव योजनाग्रात्प्रमाणतः ॥ ६६ भार्गवात्पादहीनस्तु विज्ञेयो वै बृहस्पतिः । बृहस्पतेः पादहीनौ कुजसौरौवुभौ स्मृतौ ॥ विस्तारान्मण्डलाच्चैव पादहीनस्तयोर्बुधः ॥ ६७ तारानक्षत्ररूपाणि वपुष्मन्तीह यानि वै । बुधेन समतुल्यानि विस्तारान्मण्डलादथ ॥ ६८ प्रायश्चन्द्रयोगिनि(णि) विद्यादृक्षाणि तत्त्ववित् । तारानक्षत्ररूपाणि हीनानि तु परस्परम् ॥ ६९ शतानि पञ्च चत्वारि त्रीणि द्वे चैव योजने पूर्वापरनिकृष्टानि तारकामण्डलानि तु ॥ योजनान्यर्धमात्राणि तेभ्यो ह्रस्वं न विद्यते ॥ ७० उपरिष्टात्त्रयस्तेषां ग्रहा ये दूरसर्पिणः । सौरौऽङ्गिराश्च वक्रश्च ज्ञेया मन्दविचारिणः ॥ ७१ तेभ्योऽधस्तात्तु चत्वारः पुनरन्ये महाग्रहाः । सूर्यः सोमो बुधश्चैव भार्गवश्चैव शीघ्रगाः ॥ ७२ यावन्त्यस्तारकाः कोट्यस्तावदृक्षाणि सर्वशः । वीथीनां नियमाच्चैवमृक्षमार्गो व्यवस्थितः ॥ ७३ गतिस्तास्वेव सूर्यस्य नीचोच्चत्वेऽयनक्रमात् । उत्तरायणमार्गस्थो यदा पर्वसु चन्द्रमाः ॥ बौधं बौधोऽथ स्वर्भानुः स्वर्भानोः स्थानमास्थितः ॥ ७४ नक्षत्राणि च सर्वाणि नक्षत्राणि विशन्त्युत । गृहाण्येतानि सर्वाणि ज्योतींषि सुकृतात्मनाम् ॥ ७५ कल्पादौ संप्रवृत्तानि निर्मितानि स्वयंभुवा । स्थानान्येतानि तिष्ठन्ति यावदाभूतसंप्लवम् ॥ ७६ मन्वन्तरेषु सर्वेषु देवतायतनानि वै । अभिमानिनोऽवतिष्ठन्ति स्थानानि तु पुनः पुनः ॥ ७७ अतीतैस्तु सहातीता भाव्या भाव्यैः सुरासुरैः । वर्तन्ते वर्तमानैश्च स्थानानि स्वैः सुरैः सह ॥ ७८ अस्मिन्मन्वन्तरे चैव ग्रहा वैमानिकाः स्मृताः । विवस्वानादितेः पुत्रः सूर्यो वैवस्वतेऽन्तरे ॥ ७९ त्विषिमान्धर्मपुत्रस्तु सोमदेवो वसुः स्मृतः । शुक्रो देवस्तु विज्ञेयो भार्गवोऽसुरयाजकः ॥ ८० बृहत्तेजाः स्मृतो देवो देवाचार्योऽङ्गिरःसुतः । बुधो मनोहरश्चैव त्विषिपुत्रस्तु स स्मृतः ॥ ८१
१७४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०५३श्लो०८२-१०७] (ज्योतिःसंनिवेशः)
अग्निर्विकल्पात्संजज्ञे युवाऽसौ लोहिताधिपः। नक्षत्रऋक्षगामिन्यो दाक्षायण्यः स्मृतास्तु ताः ॥ ८२ स्वर्भानुः सिंहिकापुत्रो भूतसंतापनोऽसुरः। सोमर्क्षग्रहसूर्ये तु कीर्तितास्त्वभिमानिनः ॥ ८३ स्थानान्येतान्यथोक्तानि स्थानिन्यश्चैव देवताः। शुक्लमग्निमयं स्थानं सहस्रांशोर्विवस्वतः ॥ ८४ सहस्रांशोस्त्वपः स्थानमम्मयं शुक्लमेव च। आप्यं श्यामं मनोज्ञस्य पञ्चरश्मेर्गृहं स्मृतम् ॥ ८५ शुक्रस्याप्यम्मयं स्थानं सद्म षोडशरश्मिवत्। नवरश्मेस्तु सूनो हि लोहितस्थानमम्मयम् ॥ ८६ हरिश्वा(चाऽऽ)प्यं बृहच्चापि द्वादशांशोर्बृहस्पतेः। अष्टरश्मेर्वृहं प्रोक्तं कृष्णं बुधस्य अम्मयम् ॥ ८७ स्वर्भानोस्तामसं स्थानं भूतसंतापनालयम्। विज्ञेयास्तारकाः सर्वास्त्वम्मयास्त्वेकरश्मयः ॥ ८८ आश्रयः पुण्यकीर्तीनां सुशुक्लाश्चैव वर्णतः। वनतोयात्मिका ज्ञेयाः कल्पादौ वेदनिर्मिताः ॥ ८९ उच्चत्वादृश्यते शीघ्रमभिव्यक्तैर्गभस्तिभिः। तथा दक्षिणमार्गस्थो नीवीवीथीसमाश्रिताः ॥ ९० भूमिलेखावृत्तः सूर्यः पूर्णिमावास्ययोस्तथा। न दृश्यते यथाकालं शीघ्रमस्तमुपैति च ॥ ९१ तस्मादुत्तरमार्गस्थो ह्यमावास्यां निशाकरः। दृश्यते दक्षिणे मार्गे नियमाद्दृश्यते न च ॥ ९२ ज्योतिषां गतियोगेन सूर्याचन्द्रमसावुभौ। समानकालास्तमयौ विषुवत्सु समोदयौ ॥ ९३ उत्तरासु च वीथीषु व्यन्तरास्तमयोदयौ। पौर्ण(पूर्णा)मावास्ययोर्ज्ञेयौ ज्योतिश्चक्रानुवर्तिनौ ॥ ९४ दक्षिणायनमार्गस्थो यदा भवति रश्मिवान्। तदा सर्वग्रहाणां स सूर्योऽधस्तात्प्रसर्पति ॥ ९५ विस्तीर्णं मण्डलं कृत्वा तस्योर्ध्वं*चरते शशी। नक्षत्रमण्डलं कृत्स्नं सोमादूर्ध्वं प्रसर्पति ॥ ९६ नक्षत्रेभ्यो बुधश्चोर्ध्वं बुधादूर्ध्वं बृहस्पतिः। तस्माच्छनैश्चरश्चोर्ध्वं तस्मात्सप्तर्षिमण्डलम् ॥ ऋषीणां चैव सप्तानां ध्रुव ऊर्ध्वं व्यवस्थितः ॥ ९७ द्विगुणेषु सहस्रेषु योजनानां शतेषु च। ताराग्रहान्तराणि स्युरुपरिष्टाद्यथाक्रमम् ॥ ९८ ग्रहाश्च चन्द्रसूर्यो तु दिवि दिव्येन तेजसा। नित्यमृक्षेषु युज्यन्ति गच्छन्ति नियमक्रमात् ॥ ९९ ग्रहनक्षत्रसूर्यास्तु नीचोच्चमृद्ववस्थिताः। समागमे च भेदे च पश्यन्ति युगपत्प्रजाः ॥ १०० परस्परस्थिता ह्येते युज्यन्ते च परस्परम्। असंकरेण विज्ञेयस्तेषां योगस्तु वै बुधैः ॥ १०१ इत्येष संनिवेशो वः पृथिव्यां ज्योतिषस्य च। द्वीपानामुदधीनां च पर्वतानां तथैव च ॥ १०२ वर्षाणां च नदीनां च ये च तेषु वसन्ति वै। एते चैव ग्रहाः पूर्वे नक्षत्रेषु समुत्थिताः ॥ १०३ विवस्वानदितेः पुत्रः सूर्यो वै चाक्षुषेऽन्तरे। विशाखासु समुत्पन्नो ग्रहाणां प्रथमो ग्रहः ॥ १०४ त्विषिमान्धर्मपुत्रस्तु सोमो विश्वाससुस्तथा। शीतरश्मिः समुत्पन्नः कृत्तिकासु निशाकरः ॥ १०५ षोडशार्चिर्भृगोः पुत्रः शुक्रः सूर्यादिनन्तरम्। ताराग्रहाणां प्रवरस्तिष्यक्षेत्रे समुत्थितः ॥ १०६ ग्रहश्चाङ्गिरसः पुत्रो द्वादशार्चिर्बृहस्पतिः। फाल्गुनीषु समुत्पन्नः सर्वासु च जगद्गुरुः ॥ १०७
* अत्राऽऽत्मनेपदं छन्दोनुरोधात्।
[अ० ५३-५४ श्लो० १०८ १२३ । १-३] वायुपुराणम् । १७५
( नीलकण्ठस्तवः )
नवार्चिर्लोहिताङ्गस्तु प्रजापतिसुतो ग्रहः । आषाढास्विह पूर्वांसु समुत्पन्न इति श्रुतिः ॥ १०८ रेवतीष्वेव सप्तार्चिस्तथा सौरः शनैश्चरः । रेवतिषु समुत्पन्नौ ग्रहौ चन्द्रार्कमर्दनौ ॥ १०९ एते ताराग्रहाश्चैव बोद्धव्या भार्गवादयः । जन्मनाक्षत्रपीडासु यान्ति वैगुप्यतां यतः ॥ (+ स्पृशन्ते तेन दोषेण ततस्ता ग्रहभक्तिषु ) ॥ ११० सर्वग्रहाणामेतेषामादिरादित्य उच्यते । ताराग्रहाणां शुक्रस्तु केतूनां चैव धूमवान् ॥ १११ ध्रुवः कीलो ग्रहाणां तु विभक्तानां चतुर्दिशम् । नक्षत्राणां श्रविष्ठा स्यादयनानां तथोत्तरम् ॥ ११२ वर्षाणां चापि पञ्चानामाद्यः संवत्सरः स्मृतः । ऋतूनां शिशिरं चापि मासानां माघ एव च ॥ ११३ पक्षाणां शुक्लपक्षस्तु तिथीनां प्रतिपत्तथा । अहोरात्रविभागानामहश्चापि प्रकीर्तितम् ॥ ११४ मुहूर्तानां तथैवाऽऽदिर्मुहूर्त्तो रुद्रदैवतः । अक्ष्णोश्चापि निमेषादिः कालः कालविदो मतः ॥ ११५ श्रवणान्तं प्रविष्ठादि युगं स्यात्पञ्चवार्षिकम् । भानोर्गतिविशेषेण चक्रवत्परिवर्तते ॥ ११६ दिवाकरः स्मृतस्तस्मात्कालस्तं विद्धि चेश्वरम् । चतुर्विधानां भूतानां प्रवर्तकनिवर्तकः ॥ ११७ इत्येष ज्योतिषामेव संनिवेशोऽर्थनिश्चयात् । लोकसंव्यवहारार्थमीश्वरेण विनिर्मितः ॥ ११८ उन्नन्नः श्रवणेनासौ संक्षिप्तश्च ध्रुवे तथा । सर्वतोऽन्तेषु विस्तीर्णो वृत्ताकार इति स्थितिः ॥ ११९ बुद्धिपूर्वं भगवता कल्पादौ संप्रकीर्तितः । साश्रयः सोऽभिमानी च सर्वस्य ज्योतिषात्मकः ॥ विश्वरूपं प्रधानस्य परिणामोऽयमद्भुतः ॥ १२० नैव शक्यं प्रसंख्यातुं याथातथ्येन केनचित् । गतागतं मनुष्येषु ज्योतिषां मांसचक्षुषा ॥ १२१ आगमादनुमानाच्च प्रत्यक्षादुपपत्तितः । परीक्ष्य निपुणं भक्त्या श्रद्धातव्यं विपश्चिता ॥ १२२ चक्षुः शास्त्रं जलं लेख्यं गणितं बुद्धिसत्तमाः । पञ्चैते हेतवो ज्ञेया ज्योतिर्गणविचिन्तने ॥ १२३ इति श्रीमहापुराणे वायुप्रोक्तेऽनुषङ्गपादे ज्योतिःसंनिवेशनं नाम त्रिपञ्चाशोऽध्यायः ॥ ५३ ॥
आदितः श्लोकानां समष्टयङ्काः-४१५२
अथ चतुष्पञ्चाशोऽध्यायः नीलकण्ठस्तवः ।
ऋषय उवाच-- कस्मिन्देशे महापुण्यमेतदाख्यानमुत्तमम् । वृत्तं ब्रह्मपुरोगाणां कस्मिन्काले महाद्युते ॥ एतदाख्याहि नः सम्यग्यथावृत्तं तपोधनः ॥ १
सूत उवाच-- यथा श्रुतं मया पूर्वं वायुना जगदायुना । कथ्यमानं द्विजश्रेष्ठाः सत्रे वर्षसहस्रके ॥ २ नीलता येन कण्ठस्य देवदेवस्य शूलिनः । तदहं कीर्तयिष्यामि शृणुध्वं शंसितव्रताः ॥ ३
+ इदमर्धं नास्ति ख. घ. पुस्तकयोः
१७६ श्रीमद्वैपायनमुनिप्रणीतम्— [अ० ५४- श्लो० ८२-४-२५]
(नीलकण्ठस्तवः)
उत्तरे शैलराजस्य सरांसि सरितो ह्रदाः। पुण्योद्यानेषु तीर्थेषु देवतायतनेषु च॥ गिरिशृङ्गेषु तुङ्गेषु गह्वरोपवनेषु च॥ ४ देवभक्ता महात्मानो मुनयः शंसितव्रताः। स्तुवन्ति च महादेवं यत्र यत्र यथाविधि॥ ५ ऋग्यजुःसामवेदैश्च नृत्यगीतार्चनादिभिः। ओंकारं हुं नमस्कारैरर्चयन्ति सदा शिवम्॥ ६ प्रवृत्ते ज्योतिषां चक्रे मध्यव्योम्नि दिवाकरे। देवता नियतात्मानः सर्वे तिष्ठन्ति तां कथाम्॥ अथ नियमप्रवृत्ताश्च प्राणशेषप्यवस्थिताः॥ ७ नमस्ते नीलकण्ठाय इत्युवाच सदागतिः। तच्छ्रुत्वा भावितात्मानो मुनयः शंसितव्रताः॥ वालखिल्येतिविख्याताः पतङ्गसहचारिणः॥ ८ अष्टाशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम्। तस्मात्पृच्छन्ति वै वायुं वायुपर्णाम्बुभोजनाः॥ ९
ऋषय ऊचुः— नीलकण्ठेति यत्प्रोक्तं त्वया पवनसत्तम। एतद्गुह्यं पवित्राणां पुण्यं पुण्यकृतां वरः॥ १० तद्वयं श्रोतुमिच्छामस्त्वत्प्रसादात्प्रभञ्जन। नीलता येन कण्ठस्य कारणेनाम्बिकापतेः॥ ११ श्रोतुमिच्छामहे सम्यक्तव वक्त्राद्विशेषतः। यावद्वाचः प्रवर्तन्ते सार्थास्ताश्च त्वयेरिताः॥ १२ वर्णस्थानगते वायौ वाग्विधिः संप्रवर्तते। ज्ञानं पूर्वमथोत्साहस्त्वत्तो वायो प्रवर्तते॥ १३ त्वयि निष्पन्दमाने तु शेषा वर्णप्रवृत्तयः। यत्र वाचो निवर्तन्ते देहबन्धाश्च दुर्लभाः॥ १४ तत्रापि तेऽस्ति सद्भावः सर्वगस्त्वं सदाऽनिल। नान्यः सर्वगतो देवस्त्वदृतेऽस्ति समीरण॥ १५ एष वै जीवलोकस्ते प्रत्यक्षः सर्वतोऽनिल। वेत्थ वाचस्पतिं देवं मनोनायकमधीश्वरम्॥ १६ ब्रूहि तत्कण्ठदेशस्य किंकृता रूपविक्रिया। श्रुत्वा वाक्यं ततस्तेषामृषीणां भावितात्मनाम्॥ प्रत्युवाच महातेजा वायुर्लोकनमसकृतः॥ १७
वायुरुवाच— पुरा कृतयुगे विप्रो वेदनिर्णयतत्परः। वसिष्ठो नाम धर्मात्मा मानसो वै प्रजापतेः॥ १८ पप्रच्छ कार्तिकेयं वै मयूरवरवाहनम्। महिषासुरनारीणां नयनाञ्जनतस्करम्॥ १९ महासैनं महात्मानं मेघस्तानितनिस्वनम्। उमामनःप्रहर्षेण बालकं छद्मरूपिणम्॥ २० क्रौञ्चजीवितहर्तारं पार्वतीहृदि नन्दनम्। वसिष्ठः पृच्छते भक्त्या कार्तिकयं महाबलम्॥ २१
वसिष्ठ उवाच— नमस्ते हरनन्दाय उमागर्भ नमोऽस्तु ते। नमस्ते अग्निगर्भाय गङ्गागर्भ नमोऽस्तु ते॥ २२ नमस्ते शरगर्भाय नमस्ते कृतिकासुत। नमो द्वादशनेत्राय षण्मुखाय नमोऽस्तु ते॥ २३ नमस्ते शक्तिहस्ताय दिव्यघण्टापताकिने। एवं स्तुत्वा महासेनं पप्रच्छ शिखिवाहनम्॥ २४ यदेतद्दृश्यते वर्यं शुभं शुभ्राञ्जनप्रभम्। तत्किमर्थं समुत्पन्नं कण्ठे कुन्देन्दुसप्रभे॥ २५
मत्प्रियार्थं महाभाग वक्तुमर्हस्यशेषतः ॥ २६
[अ० ५४ श्लो० २६-५०] वायुपुराणम् १७७
(नीलकंठस्तवः)
एतदाचाय भक्ताय दान्ताय ब्रूहि पृच्छते । कथां मङ्गलसंयुक्तां पवित्रां पापनाशिनीम् ॥
मत्प्रियार्थं महाभाग वक्तुमर्हस्यशेषतः ॥ २६
श्रुत्वा वाक्यं ततस्तस्य वसिष्ठस्य महात्मनः । प्रत्युवाच महातेजाः सुरारिबलसूदनः ॥ २७
शृणुष्व वदतां श्रेष्ठ कथ्यमानं वचो मम । उमोत्सङ्गन्निविष्टेन मया पूर्वं यथा श्रुतम् ॥ २८
पार्वत्या सह संवादः सर्वस्य च महात्मनः । तदहं कीर्तयिष्यामि त्वत्प्रियार्थं महामुने ॥ २९
कैलासशिखरे रम्ये नानाधातुविचित्रिते । [*तरुणादित्यसंकाशे तप्तचामीकरप्रभे ॥ ३०
वज्रस्फटिकसोपाने चित्रपट्टशिलातले । जाम्बूनदमये दिव्ये नानाधातुविचित्रिते ] ॥ ३१
नानाद्रुमलराकीर्णे चक्रवाकोपशोभिते ॥ ३२
षट्पदोद्गीतबहुले धारासंपातनादिते । मत्तक्रौञ्चमयूराणां नादैरुद्धुष्टकन्दरे ॥ ३३
अप्सरोगणसंकीर्णे किंनरैरुपशोभिते । जीवञ्जीवकजातीनां वीरूद्भिरुपशोभिते ॥ ३४
कोकिलारावमधुरे सिद्धचारणसेविते । सौरभेयीनिनादाढ्ये मघस्तनितनिस्वने ॥ ३५
विनायकमयोद्विग्नैः कुञ्जरैर्मुक्तकन्दरे । वीणावादित्रनिर्घोषैः श्रोत्रेन्दियमनोरमैः ॥ ३६
दोलालम्बितसंपाते वनितासंघसेविते । ध्वजैलम्बितदोलानां घण्टानां निनदाकुले ॥ ३७
मुखमर्दलवादित्रैर्बलिनां स्फोटितैस्तथा । क्रीडारवविचाराणां निर्घोषः पूर्णमन्दिरे ॥ ३८
हासैः संत्रासजननौर्विकरालमुखैस्तथा । देहगन्धैर्विचित्रैश्च प्रक्रीडितगणेश्वरैः ॥ ३९
÷वज्रस्फटिकसोपानचित्रपट्टशिलातलैः । व्याघ्रसिंहमुखैश्चान्यैर्गजवाजिमुखैस्तथा ॥ ४०
बिडालवदनश्चान्यैः क्रोष्टुकाकारमूर्तिभिः हस्वैर्दीर्घैः कृशौः स्थूलैर्लम्बोदरमहोदरैः ॥ ४१
हस्वजङ्घैश्च लम्बोष्ठैस्तालजङ्घैस्तथा परैः । गोकर्णैरेककर्णैश्च महाकर्णैरकर्णकैः ॥ ४२
बहुपादैर्महापादैरेकपादैरपादकैः । बहुशीर्षैर्महाशीर्षैराशीर्षैरशीर्षकैः ॥ ४३
बहुनेत्रैर्महानेत्रैरेकनेत्रैरनेत्रकैः+ । एवंविधैर्महायोगी भूतैर्भूतपतिर्वृतः ॥ ४४
विशुद्धमुक्तामणिरत्नभूषिते शिलातले हेममये मनोरमे ।
सुखोपविष्टं मदनाङ्गनाशनं प्रोवाच वाक्यं गिरिराजपुत्री ॥ ४५
देव्युवाच--
भगवन्भूतभव्येश गोवृषाङ्कितशासन । तव कण्ठे महादेव भ्राजतेऽम्बुदसंनिभम् ॥ ४६
नात्युल्बणं नातिशुभ्रं नीलाञ्जनचयोपमम् । किमिदं दीप्यते देव कण्ठे कामाङ्गनाशन ॥ ४७
को हेतुः कारणं किंच कण्ठे नीलत्वमीश्वर । एतत्सर्वं यथान्यायं ब्रूहि कौतूहलं हि मे ॥ ४८
श्रुत्वा वाक्यं ततस्तस्याः पार्वत्याः पार्वतीप्रियः । कथां मङ्गलसंयुक्तां कथयामास शंकरः ॥ ४९
मध्यमानेऽमृते पूर्वं क्षीरोदे सुरदानवैः । अग्रे समुत्थितं तस्मिन्विषं कालानलप्रभम् ॥ ५०
तं दृष्ट्वा सुरसंघाश्च दैत्याश्चैव वरानने । विषण्णवदनाः सर्वे गतास्ते ब्रह्मणोऽन्तिकम् ॥
* धनुश्चिन्हान्तर्गतग्रन्थः क. पुस्तके नास्ति । ÷ इदमर्धं नास्ति ङ. पुस्तके । + नैत्रैकीर-
त्युत्तरं बहुशीर्षैरित्याद्यर्धं ख. ग. घ. ङ. पुस्तकेषु ।
२३
१७६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०५४श्लो०५१--७४] ( नीलकण्ठस्तवः)
दृष्ट्वा सुरगणान्भीतानब्रह्मोवाच महाद्युतिः । किमर्थं भो महाभागा भीता उद्विग्नचेतसः ॥ ५१ यथाऽष्टगुणमैश्वर्यं भवतां संप्रकल्पितम् । केन व्यावर्तितैश्वर्या यूयं वै सुरसत्तमाः ॥ ५२ त्रैलोक्यस्येश्वरा यूयं सर्वे वै विगतज्वराः । प्रजासर्गे न सोऽस्तीह आज्ञां यो मे निवर्तयेत् ॥ ५३ विमानगामिनः सर्वे सर्वे स्वच्छन्दगामिनः । अध्यात्मे चाधिभूते च अधिदैवे च नित्यशः ॥ प्रजाः कर्मविपाकेन शक्ता यूयं प्रवर्तितुम् ॥ ५४ तत्किमर्थं भयोद्विग्ना मृगाः सिंहार्दिता इव । किं दुःखं केन संतापः कुतो वा भयमागतम् ॥ एतत्सर्वं यथान्यायं शीघ्रमाख्यातुमर्हथ ॥ ५५ श्रुत्वा वाक्यं ततस्तस्य ब्रह्मणो वै महात्मनः । ऊचुस्ते ऋषिभिः सार्धं सुरदैत्येन्द्रदानवाः ॥ ५६ सुरासुरैर्मथ्यमाने पाथोधौ च महात्मभिः । भुजङ्गभृङ्गसंकाशं नीलजीमूतसंनिभम् ॥ प्रादुर्भूतं विषं घोरं संवर्ताग्निसमप्रभम् ॥ ५७ कालमृत्युरिवोद्भूतं युगान्तादित्यवर्चसम् । त्रैलोक्योत्सादि सूर्याभं प्रस्फुरन्तं समन्ततः ॥ ५८ विषेणोत्तिष्ठमानेन कालानलसमत्विषा । निर्दग्धो रक्तगौराङ्गः कृतः कृष्णो जनार्दनः ॥ ५९ दृष्ट्वा तं रक्तगौराङ्गं कृतं कृष्णं जनार्दनम् । भीताः सर्वे वयं देवास्त्वामेव शरणं गताः ॥ ६० सुराणामसुराणां च श्रुत्वा वाक्यं पितामहः । प्रत्युवाच महातेजा लोकानां हितकाम्यया ॥ ६१ शृणुध्वं देवताः सर्वे ऋषयश्च तपोधनाः । यत्तदग्रे समुत्पन्नं मध्यमाने महोदधौ ॥ ६२ विषं कालानलप्रख्यं कालकूटेति विश्रुतम् । येन प्रोद्भूतमात्रेण कृतः कृष्णो जनार्दनः ॥ ६३ तस्य विष्णुरहं चापि सर्वे ते सुरपुङ्गवाः । न शक्नुवन्ति वै सोढुं वेगमन्ये तु शंकरात् ॥ ६४ इत्युक्त्वा पद्मगर्भाभः पद्मयोनिरयोनिजः । ततः स्तोतुं समारब्धो ब्रह्मा लोकपितामहः ॥ ६५ नमस्तुभ्यं विरूपाक्ष नमस्तेऽनेकचक्षुषे । नमः पिनाकहस्ताय वज्रहस्ताय वै नमः ॥ ६६ नमस्त्रैलोक्यनाथाय भूतानां पतये नमः । नमः सुरारिसंहर्त्रे तापसाय त्रिचक्षुषे ॥ ६७ ब्रह्मणे चैव रुद्राय विष्णवे चैव ते नमः । सांख्याय चैव योगाय भूतग्रामाय वै नमः ॥ ६८ मन्मथाङ्गविनाशाय कालकालाय वै नमः । रुद्राय च सुरेशाय देवदेवाय ते नमः ॥ ६९ कपर्दिने करालाय शंकराय कपालिने । विरूपायैकरूपाय शिवाय वरदाय च ॥ ७० *त्रिपुरघ्नाय वन्द्याय मातृणां पतये नमः। बुद्धाय चैव शुद्धाय मुक्ताय केवलाय च ॥ ७१ नमः कमलहस्ताय दिग्वासाय शिखण्डिने । लोकत्रयविधात्रे च रुद्राय वरुणाय च ॥ ७२ अग्र्याय चैव चोग्राय विपायानेकचक्षुषे । रजसे चैव सत्त्वाय तमसेऽव्यक्तयोनये ॥ ७३ नित्यायानित्यरूपाय नित्यानित्याय वै नमः । व्यक्ताय चैवाव्यक्ताय व्यक्ताव्यक्ताय वै नमः ॥ ७४
* नास्त्ययं श्लोको घ. पुस्तके ।
बहुरूपाय मुण्डाय दण्डिनेऽथ वरूथिने । नमः कपालहस्ताय दिग्वासाय शिखण्डिने ॥ ७७
[अ० ५४ श्लो० ७५--९६] वायुपुराणम् । १७९
(नीलकण्ठस्तवः) चिन्त्याय चैवाचिन्त्याय चिन्त्याचिन्त्याय वै नमः । भक्तानामार्त्तिनाशाय नरनारायणाय च ॥ ७५ उमाप्रियाय शर्वाय नन्दिचक्राङ्किताय च । पक्षमासार्धमासाय नमः संवत्सराय च ॥ ७६ बहुरूपाय मुण्डाय दण्डिनेऽथ वरूथिने । नमः कपालहस्ताय दिग्वासाय शिखण्डिने ॥ ७७ ध्वजिने रथिने चैव येमिने ब्रह्मचारिणे । ऋग्यजुःसामवेदाय पुरुषायेश्वराय च ॥ इत्येवमादिचरितैस्तुभ्यं देव नमोऽस्तु ते ॥ ७८
श्रीमहादेव उवाच-- एवं स्तुत्वा ततो देवः प्रणिपत्य वरानने ॥ ७९ ज्ञात्वा तु भक्तिं मम देवदेवो गङ्गाजलाप्लावितकेशदेशः ॥ सूक्ष्मोऽतियोगातिशयादचिन्त्यो न हि प्लुतो व्यक्तमुपैति चन्द्रः ॥ ८० ॥ एवं भगवता पूर्वं ब्रह्मणा लोककर्तृणा । स्तुतोऽहं विविधैस्तोत्रैर्वेदवेदाङ्गसंभवैः ॥ ८१ ततः प्रीतोऽस्म्यहं तस्मै ब्रह्मणे सुमहात्मने । ततोऽहं सूक्ष्मया वाचा पितामहमथाब्रुवम् ॥ ८२ भगवन्भूतभव्येश लोकनाथ जगत्पते । किं कार्यं ते मया ब्रह्मन्कर्तव्यं वद सुव्रत ॥ ८३ श्रुत्वा वाक्यं ततो ब्रह्मा प्रत्युवाचाम्बुजेक्षणः । भूतभव्यभवन्नाथ श्रूयतां कारणेश्वर ॥ ८४ सुरासुरैर्मथ्यमाने पयोधावम्बुजेक्षण । भगवन्मेघसंकाशं नीलजीमूतसंनिभम् ॥ ८५ प्रादुर्भूतं विषं घोरं संवर्त्ताग्निसमप्रभम् । कालमृत्युखिरोद्भूतं युगान्तादित्यवर्चसम् ॥ ८६ त्रैलोक्योत्सादनार्थं विस्फुरन्तं समन्ततः । अग्रे समुत्थितं तस्मिन्विषं कालानलप्रभम् ॥ ८७ तं दृष्ट्वा तु वयं सर्वे भीताः संभ्रान्तचेतसः । तत्पिबस्व महादेव लोकानां हितकाम्यया ॥ भवानग्रस्य भोक्ता वै भवांश्चैव वरः प्रभु ॥ ८८ त्वामृतेऽन्यो महादेव विषं सोढुं न विद्यते । नास्ति कश्चित्पुमांश्शक्तस्त्रैलोक्येषु च गीयते ॥ एवं तस्य वचः श्रुत्वा ब्रह्मणः परमेष्ठिनः । बाढमित्येव तद्वाक्यं प्रतिगृह्य वरानने ॥ ८९ ततोऽहं पातुमारब्धो विषमन्तकसंनिभम् । पिबतो मे महाघोरं विषं सुरभयंकरम् ॥ कण्ठः समभवत्तूर्णं कृष्णो मे वरवर्णिनि ॥ ९० तं दृष्ट्वोत्पलपत्राभं कण्ठे सकमिवोरगम् । तक्षकं नागराजानं लेलिहानमिव स्थितम् ॥ ९१ अथोवाच महातेजा ब्रह्मा लोकपितामहः । शोभसे त्वं महादेव कण्ठेनानेन सुव्रत ॥ ९२ ततस्तस्य वचः श्रुत्वा मया गिरिवरात्मजे । पश्यतां देवसंघानां दैत्यानां च वरानने ॥ ९३ यक्षगन्धर्वभूतानां पिशाचोरगरक्षसाम् । धृतं कण्ठे विषं घोरं नीलकण्ठस्ततो ह्यहम् ॥ ९४ तत्कालकूटं विषमुग्रतेजः कण्ठे मया पर्वतराजपुत्रि । निवेश्यमानं सुरदैत्यसंघो दृष्ट्वा परं विस्मयमाजगाम ॥ ९५ ॥ ततः सुरगणाः सर्वे सदैत्योरगराक्षसाः । ऊचुः प्राञ्जलयो भूत्वा मत्तमातङ्गगामिनि ॥ ९६
| १८० | श्रीमद्वैपायनमुनिप्रणीतम्- | [अ० ५४ श्लो० ९७-११५] |
|---|---|---|
| ( नीलकण्ठस्तवः ) |
अहो बलं वीर्यपराक्रमस्ते अहो पुनर्योगबलं तथैव ।
अहो प्रभुत्वं तव देवदेव गङ्गाजलास्फालितमुक्तकेश ॥ ९७
त्वमेव विष्णुश्चतुराननस्त्वं त्वमेव मृत्युर्वरदस्त्वमेव ।
त्वमेव सूर्यो रजनिकरश्च त्वमेव भूमिः सलिलं त्वमेव ॥ ९८
त्वमेव यज्ञो नियमस्त्वमेव त्वमेव भूतं भविता त्वमेव ।
त्वमेव चाऽऽदिनिधनं त्वमेव स्थूलश्च सूक्ष्मः पुरुषस्त्वमेव ॥ ९९
त्वमेव सूक्ष्मस्य परः परस्य त्वमेव वह्निः पवनस्त्वमेव ।
त्वमेव सर्वस्य चराचरस्य लोकस्य कर्ता प्रलये च गोप्ता ॥ १००
इतीदमुक्त्वा वचनं सुरेन्द्राः प्रगृह्य सोमं प्रणिपत्य मूर्ध्ना ।
गता विमानैरनिगृह्यवेगैर्महात्मनो मेरुमुपेत्य सर्वे ॥ १०१
इत्येतत्परमं गुह्यं पुण्यात्पुण्यतरं महत् । नीलकण्ठेति यत्प्रोक्तं विख्यातं लोकविश्रुतम् ॥ १०२
स्वयं स्वयंभुवा प्रोक्तां कथां पापप्रणाशनीम् । यस्तु धारयते नित्यमेनां ब्रह्मोद्भवो कथाम् ॥
तस्याहं संप्रवक्ष्यामि फलं वै विपुलं महत् ॥ १०३
विषं तस्य वरारोहे स्थावरं जङ्गमं तथा । गात्रं प्राप्य तु सुश्रोणि क्षिप्रं तत्प्रतिहन्यते ॥ १०४
शमयत्यशुभं घोरं दुःस्वप्नं चापकर्षति । स्त्रीषु वल्लभतां याति सभायां पार्थिवस्य च ॥ १०५
विवादे जयमाप्नोति युद्धे शूरत्वमेव च । गच्छतः क्षेममध्वानं गृहे च नित्यसंपदः ॥ १०६
शरीरभेदे वक्ष्यामि गतिं तस्य वरानने । नीलकण्ठो हरिच्छ्मश्रुः शशाङ्काङ्कितमूर्धजः ॥ १०७
त्र्यक्षस्त्रिशूलपाणिश्च वृषयानः पिनाकधृक् । नन्दितुल्यबलः श्रीमान्नन्दितुल्यपराक्रमः ॥ १०८
विचरत्याचिरात्सर्वान्सर्वलोकान्ममाऽऽज्ञया । न हन्यते गतिस्तस्य अनिलस्य यथाऽम्बरे ॥
मम तुल्यबलो भूत्वा तिष्ठत्याभूतसंप्लवम् ॥ १०९
मम भक्ता वरारोहे ये च शृण्वन्ति मानवाः । तेषां गतिं प्रवक्ष्यामि इह लोके परत्र च ॥ ११०
ब्राह्मणो वेदमाप्नोति क्षत्रियो जयते महीम् । वैश्यस्तु लभते लाभं शुद्रः सुखमवाप्नुयात् ॥ १११
व्याधितो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् । गुर्विणी लभते पुत्रं कन्या विन्दति सत्पतिम् ॥
नष्टं च लभते सर्वमिह लोके परत्र च ॥ ११२
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् । तत्फलं भवति श्रुत्वा विभोर्दिव्यामिमां कथाम् ॥ ११३
पादं वा यदि वाऽप्यर्धं श्लोकं श्लोकार्धमेव वा । यस्तु धारयते नित्यं रुद्रलोकं स गच्छति ॥ ११४
+( इतिहासमेनं गिरिराजपुत्रि मया सुतुष्टेन तवाम्बुजेक्षणे ।
निवेदितं पुण्यफलादियुक्तं मया च गीतं चतुराननेन ) । ११५
+ धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति ।
[अ० ५४-५५ श्लो० ११६-११७-१-१७] वायुपुराणम् १८१
(लिङ्गोद्भवस्तवः)
कथामिमां पुण्यफलादियुक्तां निवेद्य देव्याः शशिबद्धमूर्धजः । वृषस्य पृष्ठेन सहोमया प्रभुर्जगाम किष्किन्धगुहां गुहप्रियः ॥ ११६ क्रान्तं मया पापहरं महापर्द निवेद्य तेभ्यः प्रददौ प्रभञ्जनः । अधीत्य सर्वे त्वखिलं सलक्षणं जगाम आदित्यपथं द्विजोत्तमाः ॥ ११७ इति महापुराणे वायुप्रोक्ते नीलकण्ठस्तवो नाम चतुष्पञ्चाशोऽध्यायः ॥ ५४ ॥
आदितः श्लोकानां समष्ट्यङ्काः--४१५२
अथ पञ्चपञ्चाशोऽध्यायः । लिङ्गोद्भवस्तवः ।
ऋषय ऊचुः-- गुणकर्मप्रभावैश्च कोऽधिको वदतां वरः । श्रोतुमिच्छामहे सम्यगैश्वर्यगुणविस्तरम् ॥ १
सूत उवाच-- अत्राप्युदाहरन्तीममितिहासं पुरातनम् । महादेवस्य माहात्म्यं विभुत्वं च महात्मनः ॥ २ वै त्रैलोक्यविजये विष्णुना समुदाहृतम् । बलिं बद्ध्वा महौजास्तु त्रैलोक्याधिपतिः पुरा ॥ ३ प्रनष्टेषु च दैत्येषु प्रहृष्टे च शचीपतौ । अथाऽऽजग्मुः प्रभुं द्रष्टुं सर्वे देवाः सवासवाः ॥ ४ यत्राऽऽस्ते विधरूपारमा क्षीरोदस्य समीपतः । सिद्धब्रह्मर्षयो यक्षा गन्धर्वाप्सरसां गणाः ॥ ५ नागा देवर्षयश्चैव नद्यः सर्वे च पर्वताः । अभिगम्य महात्मानं स्तुवन्ति पुरुषं हरिम् ॥ ६ त्वं धाता त्वं च कर्ताऽस्य त्वं लोकान्सृजसि प्रभो । त्वत्प्रसादाच्च कल्याणं प्राप्तं त्रैलोक्यमव्ययम् असुराश्च जिताः सर्वे बलिर्बद्धश्च वै त्वया ॥ ७ एवमुक्तः सुरैर्विष्णुः सिद्धैश्च परमर्षिभिः । प्रत्युवाच ततो देवान्सर्वांस्तान्पुरुषोत्तमः ॥ ८ श्रूयतामभिधास्यामि कारणं सुरसत्तमाः । यः स्रष्टा सर्वभूतानां कालः कालकरः प्रभुः ॥ ९ येनहं ब्रह्मणा सार्धं सृष्टा लोकाश्च मायया । तस्यैव च प्रसादेन आदौ सिद्धत्वमागतम् ॥ १० पुरा तमसि चाव्यक्ते त्रैलोक्ये ग्रासिते मया । उदरस्थेषु भूतेषु लोकेऽहं शयितस्तदा ॥ ११ सहस्रशीर्षो भूत्वाऽथ सहस्राक्षः सहस्रपात् । शङ्खचक्रगदापाणिः शयितो विमलेऽम्भसि ॥ १२ एतस्मिन्नन्तरे दूरात्पश्यामि ह्यमितप्रभम् । शतसूर्यप्रतीकाशं ज्वलन्तं स्वेन तेजसा ॥ १३ चतुर्वक्त्रं महायोगं पुरुषं काञ्चनप्रभम् । कृष्णाजिनधरं देवं कमण्डलुविभूषितम् ॥ निमेषान्तरमात्रेण प्राप्तोऽसौ पुरुषोत्तमः ॥ १४ ततो मामब्रवीद्ब्रह्मा सर्वलोकनमस्कृतः । कस्त्वं कुतो वा किं चेह तिष्ठसे वद मे विभो ॥ १५ अहं कर्ताऽस्मि लोकानां स्वयंभूर्विश्वतोमुखः । एवमुक्तस्तदा तेन ब्रह्मणाऽहमुवाच तम् ॥ १६ अहं कर्ता च लोकानां संहर्ता च पुनः पुनः । एवं संभाषमाणाभ्यां परस्परजयैषिणाम् ॥ उत्तरां दिशमास्थाय ज्वाला दृष्टाऽव्यधिष्ठिता ॥ १७